०१ (८)

प्रमाणपद्धतिर्

अर्थापत्त्यादीनामन्तर्भावप्रकारः

(८) प्रमाणपद्धतिः

एतेष्वेवार्थापत्त्यादीनामन्तर्भावः । तथा हि । अनुपपद्यमानार्थदर्शनात्तदुपपादके बुद्धिरर्थापत्तिः । यथा जीवंश्चैत्रो गृहे नास्तीति ज्ञाने सति बहिर्भावज्ञानम् । अत्र यद्यप्येकैकस्य बहिर्भावलिङ्गत्वं नोपपद्यते । व्यभिचारात् । तथाऽपि चैत्रो बहिरस्ति । जीवनवत्त्वे सति गृहेऽसत्त्वात् । यो जीवन्यत्र नास्ति स ततोऽन्यत्रास्ति । यथाऽहमिति मिलितयोर्जीवनगृहाभावयोर्लिङ्गत्वमुपपद्यत एव ।

जयतीर्थविजय

नन्वर्थापत्त्यादेरपि पृथक् प्रमाणस्य सत्त्वात्त्रीण्येव प्रमाणानीत्ययुक्तमित्यत आह ॥ एतेष्वेवेति । अन्तर्भावमुपपादयितुं प्रतिजानीते ॥ तथा हीति । यन्नोपपद्यते तदनुपपद्यमानं विवक्षितम् । यस्याभावेऽनुपपत्तिस्तदुपपादकम् । उपपादके बुद्धिरुपपादकविषयिणी बुद्धिरित्यर्थः । अर्थापत्तिमुदाहृत्य दर्शयति ॥ यथेति । बहिर्भावज्ञानमित्येतदनन्तरमर्थापत्तिरित्यनुवर्तते । अत्र बहिःसत्त्वज्ञानलक्षणफलेऽर्थस्यापत्तिः कल्पनेति षष्ठीसमासेनार्थापत्तिशब्दो वर्तते । बहिःसत्त्वज्ञानकरणे जीवत्वे सति गृहेऽभावज्ञाने त्वर्थापत्तिः कल्पना यस्मादिति बहुव्रीहिसमासेन वर्तत इति फलकरणसाधारणः । एवमुत्तरत्रोपमानाभावादिशब्दोऽप्युभयसाधारणो द्रष्टव्यः । तत्र पराभिमतफलस्यानुप्रमाणेष्वन्तर्भावः । पराभिमतपृथक्फलस्य चानुप्रमाणफलेऽन्तर्भाव इति सङ्क्षेपो द्रष्टव्यः । वहिर्भावमनुमानेन साधयितुं लिङ्गं परिशेषेण द्रढयति ॥ अत्रेति । अत्र जीवनवत्त्वगृहासत्त्वयोर्मध्ये ॥ व्यभिचारादिति । जीवनवत्त्वमात्रस्य गृहनिष्ठपुरुषे व्यभिचाराद्गृहेऽसत्त्व मात्रस्य च मृते व्यभिचारादित्यर्थः ।

भावदीपः

॥ अनुपपद्यमानेति । येन विना यन्नोपपद्यते तदुपपादकम् । अन्यदुपपाद्यम् । तत्रानुपपद्यमानार्थदर्शनं करणम् । उपपादविषयबुद्धिः फलम् । फलप्राधान्यविवक्षया बुद्धिरर्थापत्तिरित्युक्तम् ॥ इति ज्ञाने सतीति । प्रत्यक्षेण शब्देन चेति भावः । बहिर्भावज्ञानं बहिस्थत्वज्ञानम् । जायमानं बहिर्भावज्ञानमर्थापत्तिरित्यर्थः ॥ अत्रेति । दलद्वयात्मकेऽनुपपद्यमानेऽर्थ इत्यर्थः ॥ व्यभिचारादिति । जीवत्वगृहासत्त्वयोः क्रमाद्गृहे सत्त्वे मृते च व्यभिचारादित्यर्थः ।

श्रीवेदेशभिक्षु

ननु कथमनुप्रमाणत्रित्वम् । अर्थापत्त्यादीनामन्येषां विद्यमानत्वादित्यत आह ॥ एतेष्विति । यथासम्भवमिति शेषः । अर्थापत्तिं तावदनुमानेऽन्तर्भावयितुं तल्लक्षणमाह ॥ अनुपद्यमानेति । प्रात्यक्षिकबहिःसत्त्वबुद्ध्यतिव्याप्तिवारणाय पूर्वभागः । अन्तर्भावमाह ॥ अत्रेत्यादिना ॥ एकैकस्येवेति । जीवित्वस्य गृहाभावस्येत्यर्थः ॥ व्यभिचारादिति । गृहगते जीवित्वमात्रस्य मृते च गृहाभावमात्रस्य बहिःसत्त्वव्यभिचारादित्यर्थः ॥ उपपद्यत एवेति । न च व्याप्तिप्रतिसन्धानविधुराणामपि गृहाभावदर्शनेन बहिःसत्त्वबुद्धेः कथमेतदिति वाच्यम् । गृहाभावस्य बहिःसत्त्वं विनाऽनुपपत्तिरिति न त्वन्मतेऽपि तावदवश्यकम् । तदभावे गृहाभावदर्शनमात्रेण बहिःसत्त्वबुद्धेरननुभवात् । अनुपपत्तिज्ञानमेव च व्याप्तिज्ञानम् । अनुपपत्तिरविनाभाव इत्येतयोरेकार्थत्वेन नाम्नैव विवादपर्यवसानादिति ।

श्रीविट्टलभट्ट

ननु प्रमाणत्रयमध्ये एकस्यान्यत्रान्तर्भावाभावेऽप्यर्थापत्त्यादेः पृथक्प्रमाणस्य सत्त्वात्त्रीण्येवेत्यवधारणानुपपत्तिरित्यत आह ॥ एतेष्वेवेति । प्रत्यक्षानुमानागमेष्वेवेत्यर्थः । उपमानादिरादिशब्दार्थः । कथमत्रान्तर्भाव इति जिज्ञासायामन्तर्भावमुपपादयति ॥ तथा हीति । अर्थापत्तिरनुमानान्तर्भूतेत्याशयेनार्थापत्तिस्वरूपमाह ॥ अनुपपद्यमानार्थदर्शनेति । यथा येन विनोपपद्यते नावतिष्ठते तस्यानुपपद्यमानार्थस्य दर्शनात्प्रमितेरुपपादके यस्मिन्सति यदुत्पद्यते तस्मिन्नुपपादके बुद्धिप्रमितिरर्थापत्तिः । फलरूपार्थापत्तिरित्यर्थः । अनुपपद्यमानार्थश्च लिङ्गमेवेति वाऽर्थापत्तिः पृथक्प्रमाणमिति हृदयम् । लक्ष्ये लक्षणसत्त्वं दर्शयति ॥ यथेति । जीवंश्चैत्रो गृहे नास्तीति चैत्रस्य जीविवत्गृहाभावयोरनुपपद्यमानयोरर्थयोः प्रमितौ सत्यां बहिर्भावज्ञानं गृहाद्बहिःसत्त्वस्योपपादकस्य प्रमितिर्भवतीत्यर्थः । अनुपपद्यमानार्थप्रमितेरनुमानत्वेऽनुपपद्यमानार्थस्य लिङ्गत्वमभ्युपेयम् । तदयुक्तमिति शङ्कते ॥ यद्यपीति । यद्यप्यत्राप्यनुपपद्यमानार्थयोर्जीवनगृहाभावयोरेकैकस्यैकं चैकं च तस्यैकैकस्यैकस्य जीवित्वस्यैकस्य गृहासत्त्वेति यावत् । लिङ्गत्वं बहिर्भावव्याप्यत्वं न युज्यत इत्यर्थः । कुतो न युज्यत इत्यत आह ॥ व्यभिचारादिति । गृहवर्तिनि पुरुषे जीवित्वस्य मृते च पुरुषे गृहासत्त्वस्य बहिःसत्त्वरूपसाध्येन विनाऽवस्थानादित्यर्थः । जीवनगृहासत्त्वयोः प्रत्येकं व्यभिचारेणालिङ्गत्वेऽपि जीवनविशिष्टगृहासत्त्वस्य व्यभिचाराभावाद् लिङ्गत्वमुपपद्यत इत्याशयेन परिहरति ॥ तथाऽपीति । व्यभिचाराज्जीवनगृहासत्त्वयोर्लिङ्गत्वासम्भवेऽपीत्यर्थः । इत्यनेन प्रकारेण मिलितयोर्जीवनगृहाभावयोर्जीवित्वगृहासत्त्वयोर्लिङ्गत्वबहिर्भावयोर्व्यापनत्वं युज्यत एवेत्यर्थः ।