प्रमाणपद्धतिः
(१) प्रमाणपद्धतिः
निर्दोषः शब्द आगमः । निरभिधेयत्वेनान्वयाभावेन वाऽबोधकत्वं, विपरीतबोधकत्वं, ज्ञातज्ञापकत्वं, अप्रयोजकत्वं, अनभिमतप्रयोजकत्वं, अशक्यसाधनप्रतिपादनं, लघूपाये सति गुरूपायोपदेशनमित्यादिदोषरहितः शब्द आगमः । निर्दोषं वाक्यमिति वा ।
जयतीर्थविजय
क्रमप्राप्तमागमं लक्षयति ॥ निर्दोष इति । इदं च निर्दोषः शब्द आगम इति प्रमाणलक्षणानुसारेण । निर्दोष इति निराकाङ्क्षादिव्युदासः । शब्द इति प्रत्यक्षादेरिति पदव्यावर्त्ये द्रष्टव्ये । नन्वत्र शब्दपदेन वाक्यस्य विवक्षितत्वे निर्दोषं वाक्यं वेत्यग्रिमलक्षणाभेदः । पदवाक्यसाधारणशब्दमात्रविविक्षायामेकपदमात्रस्याप्यागमत्वापत्तिः । न चेष्टापत्तिः । तत्रागमप्रामाण्यव्यापकसंसर्गबोधकत्वाभावात् । किञ्च के वा शब्ददोषा इत्यत आह ॥ निरभिधेयत्वेनेति ॥ अबोधकत्वमिति । पदार्थसंसर्गाप्रमापकत्वमित्यर्थः । निरभिधेयत्वेन यथा शशविषाणमस्तीति । अन्वयाभावेन यथौदनं स्नात इति । विपरीतबोधकत्वं यथा जलेन दहेदिति । अवशिष्टं स्पष्टम् ॥ इत्यादिदोषरहित इति । आदिशब्देनासन्निहितत्वसिद्धपरत्वयोर्ग्रहणम् ॥ शब्द आगम इति । पदत्ववाक्यत्वौदासीन्येन तदुभयसाधारणशब्दत्वमित्यर्थः । न च तर्ह्येकपदमात्रस्य प्रामाण्यप्रसङ्गः । एकपदमात्रस्यान्वयाभावेनाबोधकत्वरूपदोषवत्त्वेन निर्दोषपदेनैव तन्निरासादिति भावः । शिष्याणां विषयव्याप्त्यर्थमागमो दुष्टवाक्यं चेति ब्रह्मतर्कानुसारेणागमस्य लक्षणान्तरमाह ॥ निर्दोषमिति । अत्र निर्दोषशब्दार्थं पदव्यावर्त्यानि स्वयमेव वक्ष्यति । निर्दोषशब्देन पूर्वलक्षण इव प्रागुक्तसकलदोषराहित्यं विवक्षितम् । न च तर्हि निराकाङ्क्षादिवाक्यव्यावृत्तिसम्भवेन वाक्यग्रहणमनर्थकमिति वाच्यम् । तस्यातिव्याप्त्यादिलक्षणदोषपरिहारार्थकत्वाभावेऽपि शिष्याणां पदवाक्यादिस्वरूपज्ञापनार्थत्वेन सार्थकत्वात् । तदुक्तं तर्कताण्डवे । अत्र वाक्यग्रहणं शिष्याणां पदवाक्यादिस्वरूपज्ञापनार्थमिति ।
भावदीपः
क्रमप्राप्तमागमं लक्षयति ॥ निर्दोष इति । शब्ददोषोक्तिपूर्वकं निर्दोषशब्दार्थं वदन् समग्रवाक्यार्थमाह ॥ निरभिधेयत्वेनेत्यादिना । वाच्यहीनत्वेनेत्यर्थः । कचटतपानां जबगडत्वादित्यादिशब्दे कुण्डमजाजिनं दश दाडिमानि षडपूषा इत्यादावन्वयाभावेनाबोधकत्वमित्यबोधकत्वमेव दोषः । तत्र चैतद्द्वयं हेतुरिति सूचितम् । विपरीतबोधकत्वं वक्तुरनाप्त्यादिनाऽविद्यमानार्थकबोधकत्वम् । ज्ञातज्ञापकत्वं ज्ञातमात्रज्ञापकत्वं वह्निरनुष्ण इत्यादिवाक्ये । ‘काकस्य कति वा दन्ता’ इत्यादाविवाप्रयोजकत्वम् । विरक्तस्य वाणिज्योपदेश इवानभिमतप्रयोजनकत्वम् । हिमाचले सञ्जीवन्युपदेश इवाशक्यसाधनप्रतिपादनम् । पिपासुं दाक्षिणात्यं प्रति गङ्गातीरे कूपखननोपदेश इव लघूपाये गुरूपायोपदेशनम् । आदिपदेनातिव्यवहितान्वयित्वातिदुर्बोधकपदवाक्योपेतत्वादिग्रहः । प्रमाणलक्षणोक्त्यनुरोधेनैकं लक्षणमुक्त्वाऽऽगमो दुष्टवाक्यं चेति तत्त्वनिर्णयोक्तब्रह्मतर्कवाक्यानुसारेण लक्षणान्तरं पदवाक्यादिस्वरूपप्रकाशनायाह ॥ निर्दोषवाक्यमिति वेति । आगम इत्यनुषङ्गः ।
श्रीविजयीन्द्रतीर्थ
आगमलक्षणमाह ॥ निर्दोष इति । प्रमाप्रतिबन्धकदोषरहित इत्यर्थः । तान्त्रिकव्यवहारोपयोगिलक्षणमाह ॥ निरभिधेयत्वेनेति । गवादिपदे गकारदेरागमत्वव्यवहाराभावादभिधेयराहित्याभावः । अनासन्नेऽनाकाङ्क्षे च तदभावान्वयबोधयोग्यत्वाभावः । अयोग्ये तदभावाद्विपरीतबोधकत्वाभावः । पुनरुक्ते तदभावादज्ञातज्ञापकत्वाभावः । काकदन्तादिवाक्ये तदभावादप्रयोजकत्वाभावः । द्रव्यार्थिनं प्रति विद्याद्युपदेशे तदभावादभिमतप्रयोजनकत्वाभावः । तक्षचूडामण्यानयनोपदेशे तदभावादशक्यसाधन प्रतिपादकत्वाभावः । फलतौल्ये समीपस्थजलपानादि विहाय दूरस्थतदुपदेशे तदभावादसम्भवल्लघूपाये गुरूपायोपदेशत्वाभावः । आदिशब्देनातात्पर्यविषयकत्वाभावश्चोक्तः । आकाङ्क्षादेर्दोषाभावत्वेनोपयोगाभावाल्लक्षणान्तरमाह ॥ निर्दोष इति । तथा च वाक्यपदेनाकाङ्क्षादिमत्त्वे उक्तेऽज्ञातज्ञापकत्वादेर्दोषाभावत्वमुक्तं भवति ।
श्रीवेदेशभिक्षु
क्रमप्राप्तमागमं लक्षयति ॥ निर्दोषेति । निर्दोषपदव्यावर्त्यदोषान्दर्शयन् लक्षणवाक्यं व्याख्याति ॥ निरभिधेयत्वेनेत्यादिना । अबोधकत्वे निमित्तप्रदर्शनार्थमुक्तं निरभिधेयत्वेनान्वयाभावेनेति । इदमुपलक्षणम् । आकाङ्क्षाऽऽसत्त्यभावाभ्यामप्यबोधकत्वं द्रष्टव्यम् । अत्र निरभिधेयत्वेन जबगडदेत्यादावन्वयाभावेन कुण्डमजाजिनमित्यादावाकाङ्क्षाभावेनायमेवेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यादौ वाऽऽसत्त्यभावेन विलम्बेनोच्चारिते गामानयेत्यादावबोधकत्वं प्रसिद्धमिति द्रष्टव्यम् । विपरीतबोधकत्वादौ योग्यतातात्पर्यभ्रमादिकं निमित्तमिति प्रसिद्धत्वान्नोक्तम् । विपरीतबोधकत्वं च जगन्मिथ्येत्यादिप्रतिवादिवाक्ये द्रष्टव्यम् । ज्ञातज्ञापकत्वं नाम येन योऽर्थः प्रत्यक्षादिना निर्णीतस्तं प्रति तद्बोधकत्वं विवक्षितम् । ततश्च तस्यान्यं प्रति सार्थक्येऽपि तं प्रति दोषत्वम् । अप्रयोजकत्वं तु सर्वथा प्रयोजनशून्यत्वमतोऽनयोर्भेद इति द्रष्टव्यम् । न च बहुप्रमाणसंवादश्च दार्ढ्यहेतोरेवेत्युक्तत्वेन कथं ज्ञातज्ञापकत्वं दोष इति वाच्यम् । पूर्वप्रवृत्तप्रमाणेनाप्रामाण्यशङ्काकलङ्कितेनार्थानिर्णये उत्तरोत्तरप्रवृत्तप्रमाणानां तन्निर्णायकत्वेन दार्ढ्यहेतुत्वस्य तदर्थत्वात् । अत्र च निर्णीतज्ञापकत्वमेव दोषत्वेन विवक्षितमित्युक्तत्वात् । इदं च दोषद्वयं क्रमेण स्फीतालोकमध्यवर्तिघटप्रतिपादकवाक्ये काकदन्तपरीक्षावाक्ये च प्रसिद्धम् । अनभिमतप्रयोजकत्वादिकं तु क्रमेण विरक्तं प्रति वाणिज्योपदेशे रोगार्तं प्रति मृतिहरहिममहीधरोत्तरसानुसिद्धसञ्जीवनीकथने, सुरसरित्तटे निविष्टं तृषितं प्रति कूपखननोपदेशे च द्रष्टव्यम् । आदिपदेन च भ्रान्तप्रतारकोक्तत्वसङ्ग्रहः । न तात्पर्यविषयत्वाभावस्य विपरीतबोधकोक्त्यैव प्राप्तत्वात् तात्पर्यविशेषप्रतिपादकत्वे हि वाक्यस्य विपरीतबोधकत्वमेव भवति । शब्दः पदवाक्यात्मको न तु वाक्यात्मकैव । सिद्धान्ते वैदिकानामपि पदानां महायोगवृत्त्या भगवति प्रामाण्यस्योक्तत्वात् । न च यौगिकपदानामपि प्रकृतिप्रत्ययविभागेन च संसर्गबोधकतया वाक्यात्मतैवेति वाच्यम् । तथाऽपि पदसमुदायरूपवाक्यात्मकत्वाभावात् । तथा चात्र लक्षणे पदवाक्योभयविधोऽपि शब्दो लक्ष्यत्वेन विवक्षितः । अत एव पदसमुदायरूप एव वाक्यमात्रं लक्षीकृत्य प्रवृत्तं यदागमोऽदुष्टवाक्यं चेति ब्रह्मतर्कवाक्योक्तलक्षणं तदनुसारेण शिष्याणां पदवाक्यादिस्वरूपज्ञापनाय लक्षणान्तरमाह ॥ निर्दोषमिति । केचित्त्वाकाङ्क्षादेर्दोषाभावत्वेनोपयोगाभावाल्लक्षणान्तरमाहेत्याहुः ।
अभिनवामृतम्
॥ निरभिधेयत्वेनेति । कचटतपानामित्यादिशब्दानां निरभिधेयत्वेनाबोधकत्वम् । दशदाडिमानि, षडपूषाः, कुण्डमजाजिनं पललपिण्डोऽधरोरुकमेतत्कूर्मायाः स्फैय्यकृतस्य पिता प्रतिशीन इत्यादिवाक्यानामन्वयाभावेनाबोधकत्वम् । जगन्मिथ्येत्यादीनां विपरीतबोधकत्वम् । स्फीतालोकमध्यवर्तिघटप्रतिपादकवाक्यस्य ज्ञातज्ञापकत्वम् । काकदन्तविचारवाक्यस्याप्रयोजनत्वम् । विरक्तं प्रति वाणिज्योपदेशस्यानभिमतप्रयोजनत्वम् । हिममहीधरोत्तरसानुसिद्धमृतसञ्जीविनीकथनवाक्यस्याशक्यसाधनप्रतिपादनत्वम् । तृषितं प्रति गीर्वाणतरङ्गिणीसमीपे कूपखननोपदेशवाक्यस्य लघूपाये सति गुरूपायोपदेशनं दोषः । आदिपदेन भ्रान्तप्रतारकवाक्यगतप्रतारकत्वरूपदोषसङ्ग्रहः । अत्रायं विवेकः । अबोधकत्वं विपरीतबोधकत्वं चेति दोषद्वयं प्रमाणविघातकम् । ज्ञातज्ञापकत्वादिकं त्वागमस्य विघातकम् । न तु प्रामाण्यस्य । एवं तर्हि ज्ञातज्ञापकवाक्यानां प्रमाणत्रयेऽन्तर्भावो न लभ्यत इति चेन्न । मा लाभि । यथा प्रत्यक्षानन्तर्भावादनुमानं पृथक् प्रत्यक्षानुमानयोरनन्तर्भावादागमस्तथा ज्ञातज्ञापकादीनां तृतीयानन्तर्भावे पृथक् प्रामाण्यं भविष्यति । न च त्रिविधमनुप्रमाणं प्रत्यक्षमनुमानमागमश्चेत्यनुप्रमाणत्रैविध्योक्तिविरोध इति वाच्यम् । उपादेयानुप्रमाणत्रैविध्यकथनपरत्वात्तस्य । तदुक्तम् । ‘याथार्थ्यमेव मानत्वं तन्मुख्यं ज्ञानशब्दयोः’ इति । याथार्थ्यमेव मानत्वं न त्वज्ञातज्ञापकत्वादिविशिष्टमिति भावः । प्रमाणलक्षणे स्मृत्यनुवादयोर्नाप्रामाण्यम् । यथार्थानुभवत्वादित्युक्तम् । अवश्यं चैतदेवं विज्ञेयम् । ज्ञातवेदार्थं पुरुषं प्रति प्रयुक्तवेदवाक्यस्य ज्ञातज्ञापकत्वेनाप्रामाण्यप्रसङ्गात् । न च तदिष्टम् । अपौरुषेयत्वस्याप्रामाण्यविरोधित्वाभावे तदङ्गीकारवैय्यर्थ्यप्रसङ्गात् । ननु पुरुषविशेषं प्रति तस्याप्रामाण्येऽप्यज्ञातवेदार्थं प्रति प्रामाण्यमिति चेत् । अङ्गीकृतं तर्ह्येकं प्रत्यनुपादेयमन्यं प्रति तूपादेयं याथार्थ्यं तूभौ प्रतीति । न हि लौकिकं वाक्यं सर्वान्प्रति ज्ञापकमेव । किन्तु वेदवद्विभागेनैवेति । येन ज्ञातज्ञापकस्य वेदस्य प्रामाण्येऽपि लौकिकस्य न स्यादिति । एतेन प्रमाप्रतिबन्धकत्वाभावाज्ज्ञातज्ञापकत्वादीनामदोषत्वमिति परास्तम् । प्रमाणदोषाणामेवंविधत्वेऽप्यागमदोषाणामनेवंविधत्वात् ।
आदर्शः
वासुदेवार्यहृत्पद्मगतमध्वहृदब्जगः ।
श्रीहयास्यः सदा पायाद्भूयाज्ज्ञानप्रदो मम ॥ १ ॥
शब्दप्रमाणं निरूपयितुमुपक्रमते ॥ निर्दोषेति । प्रमाज्ञानादिपुरुषदोषाप्रयोज्य इत्यर्थः । आप्तोक्तत्वं तु न लक्षणम् । अपौरुषेयवेदेऽव्याप्तेः । ननु वेदोऽपीश्वरोक्त इति चेत् । किमाप्तोच्चरितमात्रमाप्तोक्तत्वं किं वाऽऽप्तिमूलत्वम् । नाद्यः । आप्तेनानूदितस्याप्यनाप्तवाक्यस्य प्रामाण्यापत्तेः । नान्त्यः । तन्निश्चयाभावात् । अथोच्येत । निर्दोषत्वस्यापि निश्चयो न सम्भवति । न चापौरुषेयत्वेन तन्निश्चयः । तन्निश्चयस्याप्ययोगात् । न च कर्तृप्रसिद्ध्यभावादेव तन्निश्चयः । गूढकर्तृकेऽप्यपौरुषेयत्वेन केनचिद्विप्रलम्भकेन प्रसिद्ध्युत्पादनसम्भवेन संशयनिवृत्त्युपायाभावात् । न च विंशल्लक्षणत इत्यादिपुराणवाक्यपर्यालोचनया गुणविशेषविशिष्टपुरुषवाक्यात्तन्निश्चयस्तत्राप्तिनियतेः प्रमितत्वादिति वाच्यम् । वेदप्रामाण्यसन्देहदशायां तदनुसारिपुराणेष्वपि प्रामाण्यसन्देहेन निश्चयायोगात् । अन्यथा पुराणादिनेश्वरस्याप्तत्वनिश्चयसम्भवेन तद्वाक्यत्वेनापि प्रामाण्यसिद्ध्यापातात् । किञ्चादिसृष्टौ हिरण्यगर्भं सृष्ट्वेश्वर उपदिशति । हिरण्यगर्भस्य च स्वपितृत्वेन सर्वकर्तृत्वनिश्चयसत्त्वेन च तस्मिन्नाश्वासः सम्भवत्येव । एवं तदुपदेशेन तत्सृष्टानां वसिष्ठादीनामेवं क्रमेण परम्परोपदेशेनाधुनिकानामपि प्रामाण्यनिश्चयोपपत्तिः । तथा च वेदः प्रमाणं महाजनपरिगृहीतत्वात्पुराणादिवदित्यनुमानेनेश्वरोक्तत्वेऽपि प्रामाण्यसिद्धिः । हिरण्यगर्भस्यादिकार्यकर्तृत्वं प्रसिद्धम् । तेन च सार्वज्ञादेः कल्पनम् । स्वस्य पुत्रत्वेन तत्प्रीतिविषयत्वेन स्वं प्रत्यविप्रलम्भकत्वमनुमानतः सिद्धं ज्ञानार्थमुपदेशेन प्रसङ्गानुकूल्यं च । एवं च वक्त्राद्यानुकूल्येनाप्तिमूलत्वं प्रामाण्यं च सिद्ध्यति । एवं तदुपदेशपरम्परया स्वस्य तदीयप्रेमपात्रत्वादिनोक्तरीत्या वक्त्राद्यानुकूल्यनिश्चयद्वारा प्रामाण्यनिश्चयोपपत्तिः । एवमेव लोके स्वपित्रादावाप्तिनिश्चयस्य तन्मूलकव्यवहारस्य च दृष्टत्वात् । अन्यथा सर्वलोकव्यवहारोच्छेदापत्तिः । अवश्यं भवद्भिरप्येषा प्रक्रियाऽङ्गीकर्तव्या । अन्यथेश्वरोपदेशस्यावश्यकत्वेन तेन वेदस्यापौरुषेयत्वप्रतिपादनेऽपि तत्राश्वासानुपपत्तिः । किमयमपौरुषेयवाक्यमपौरुषेयत्वेनोपदिशति किं वा स्वकृतमेवापौरुषेयं वदतीति संशयनिवृत्त्युपायाभावेन संशयानिवृत्तिप्रसङ्गात् । किं च किमिदं नामापौरुषेयत्वं यन्नास्तीत्युच्यते । ईश्वरेण ब्रह्माणं प्रत्युपदिश्यत इति भवद्भिरप्यङ्गीकृतत्वात्क्रमविशिष्टानामुच्चारणस्यैव वाक्यकर्तृरूपत्वात् । न चेश्वरोऽन्यदीयोच्चारणमपेक्ष्योच्चारयति । न च पूर्वकालीनोच्चारणमनपेक्ष्योच्चारणकर्तृत्वमेव स्वतन्त्रकर्तृत्वम् । तच्च न सम्भवति । पूर्वकालीनस्वकर्तृकोच्चारणमपेक्ष्यैवोच्चारणकर्तृत्वादिति वाच्यम् । पूर्वोच्चारणस्य स्मृतिदृढतरसंस्कारद्वारैव स्वोत्तरकालीनोच्चारणप्रयोजकत्वस्य सर्वत्रेष्टत्वेन प्रकृते तदुत्पादनासम्भवेन पूर्वोच्चारणस्योत्तरोच्चारणप्रयोजकत्वासिद्धिः । किन्तु सजातीयोच्चारणमनपेक्ष्यैवेति भवति स्वतन्त्रः कर्ता । किमतोऽन्यद्भारतादावीश्वरकृतत्वं नाम भारतादौ तत्प्रसिद्धिश्चावताररूपेण कृतत्वात् । आदिसृष्टौ वेदस्य कृतत्वेनाकर्तृकत्वप्रसिद्धिसम्भवात् । वेदेन भारतादिनेवोच्चारयितृपुरुषाभिप्रेतार्थबोधोत्पत्तिरपि स्वीकृतैवोच्चारयितुरीश्वरज्ञानजन्यत्वं तत्समानविषयकत्वं चेदजन्यबोधे वर्तते । वेदजन्यबोधश्च स्वोच्चारयितरीश्वरे स्वसमानविषयकज्ञानस्यानुमापकं भवतीति । तत्कृतवाक्यत्वं च वर्तत एवेत्यपौरुषेयत्ववचनं रिक्तमेवेति चेदत्रोच्यते । स्वसजातीयोच्चारणाधिकरणकालत्वव्यापकस्वजातीयक्रमोच्चारणध्वंसाधिकरणत्वक्रमवत्त्वस्यैवापौरुषेयत्वपदार्थत्वात् । भारतादौ क्रमोच्चारणस्यैतत्कल्प एव कृतत्वेन तत्सजातीयक्रमोच्चारणस्य पूर्वमभावेनापौरुषेयत्वाभावात् । यदि चापभ्रष्टभाषाक्रमस्यापौरुषेयत्वं नापादयितुं शक्यते । तासां भाषाणामनित्यत्वेन पूर्वपूर्वकल्पे एतद्भाषाया एवाभावेनैतादृशानुपूर्व्या अभावादित्युच्यते । तथाऽपि संस्कृतभाषाया नदीतीरे पञ्च फलानि सन्तीत्याद्यानुपूर्व्या अपौरुषेयत्वापत्तिर्दुर्वारा । पूर्वपूर्वतनैरेतादृशानुपूर्व्या उच्चरितत्वसम्भवात् । ईश्वरेणाप्युच्चरितत्वसम्भवात् । न चेष्टापत्तिः । विप्रलम्भकोदीरिततादृशवाक्यस्यापि प्रामाण्यापत्तेः । यदि विप्रलम्भादिदोषमूलत्वेन न प्रामाण्यापत्तिरित्युच्यते तर्हि निर्दोषत्वमेव प्रामाण्यप्रयोजकमिति तदेव वक्तव्यम् । किमपौरुषेयत्वाग्रहेण । उक्तवाक्ये व्यभिचारेण निर्दोषत्वस्याननुमापकत्वाच्चेति चेन्न ।
स्वसजातीयक्रमोच्चारणकालत्वव्यापकस्वोच्चारणप्रयोजकबोधसमानविषयकबोधेच्छाप्रयोज्यसमान कर्तृकस्वजातीयक्रमोच्चारणध्वंसाधिकरणत्वक्रमवत्त्वस्यैवापौरुषेयत्वपदार्थत्वेन दोषाभावात् । उक्तापौरुषेयत्वस्य निर्दोषकत्वसाधकत्वसम्भवात् । अनादिकालीनानन्तबोधेषु तत्पुरुषीयदोषमूलकत्वकल्पने कल्पनागौरवेण तदभावस्यैव सिद्धेः । विप्रलम्भकवाक्यत्वविशिष्टतादृशवाक्यस्याभिन्नत्वेनातादृशवाक्यत्वात् । तद्भिन्नतादृशानुपूर्व्यास्तादृशत्वे निर्दोषत्वेन प्रामाण्यमेवेति । यद्वा । स्वोच्चारणपूर्वकालीनस्वसजातीयक्रमोच्चारणजन्यक्रमप्रत्यक्षाजन्योच्चारणविषयीभूतक्रमत्वं पौरुषेयत्वं तदन्यत्वमपौरुषेयत्वमित्यङ्गीक्रियते । भारतादौ स्वोच्चारणपूर्वकालीनस्वसजातीयक्रमोच्चारणस्य स्वपदेन प्रथमोच्चारणजन्यप्रत्यक्षविषयीभूतक्रमग्रहणेऽप्रसिद्धत्वेन तज्जन्यप्रत्यक्षविषयीभूतस्वसजातीयक्रमज्ञानस्याप्यप्रसिद्ध्या तज्जन्यत्वाभाववदुच्चारणविषयत्वं तादृशभारतादिक्रमेऽक्षतम् । क्रमस्य वक्ष्यमाणरीत्या प्रतिक्षणं भिन्नत्वेन बौद्धत्वपक्षेऽपि बुद्धिभेदेन भिन्नभिन्नत्वेन प्रथमप्रत्यक्षविषयीभूतक्रममादाय लक्षणसमन्वयस्य सुलभत्वात् । वेदे च प्रथमप्रत्यक्षविषयीभूतक्रमस्त्वप्रसिद्ध इति सर्वस्यापि वेदरूपक्रमस्य स्वोच्चारणपूर्वकालीनोच्चारणजन्यज्ञानविषयत्वेन तादृशक्रमज्ञानजन्योच्चारणविषयत्वं नैकस्यापि वेदरूपक्रमस्येति तद्वदन्यत्वादपौरुषेयत्वमेवेति । नदीतीरे पञ्च फलानि सन्तीत्यादीनि विप्रलम्भकोदीरितानि नेदृशानि । तदानीं तद्वाक्योच्चारणकर्तुस्तादृशक्रमज्ञानस्य स्वाभिप्रेतबोधौपयिकाकाङ्क्षादिज्ञानजन्यत्वेन पूर्वोच्चारणजन्यक्रमज्ञानजन्यत्वात्पौरुषेयत्वमेव । न हि लौकिकाः स्वाभिप्रेतार्थबोधाय वाक्यविशेषं प्रयुञ्जानास्तत्सदृशपूर्वकालीनक्रमज्ञानमपेक्षन्ते । किन्तु स्वाभिप्रेतबोधौपयिकत्वस्य पूर्वमाकाङ्क्षादीनां ज्ञातत्वेन तादृशाकाङ्क्षादिशालिपदविशेषान्प्रयुञ्जन्ति । कदाचित्पूर्वानुभूततत्सदृशज्ञानक्रमसत्त्वेऽप्यन्यथासिद्धमेव । न हि तादृशविशेषयुक्तं वाक्यं तादृशाकाङ्क्षादिमत्त्वज्ञानाभावे प्रयुञ्जन्ति । तत्सत्त्वेऽश्रुतक्रमविशेषवन्तं वाक्यं प्रयुञ्जन्ति । अतो न लौकिकवाक्यस्यापौरुषेयत्वापत्तिरिति ।
ननु सिद्धान्ते वर्णानां नित्यत्वेन व्याप्तत्वेन दैशिककालिकक्रमयोरसम्भवेन तद्विजातीयक्रमस्याननुभाविकत्वेन कथं क्रमोत्पत्तिः । न च व्यञ्जकध्वनिक्रमेण क्रमाद्वर्णानामभिव्यक्त्या व्यक्तिक्रम एव वर्णानां क्रम इति वाच्यम् । विकल्पासहत्वात् । तथा हि । किं व्यक्तिर्नाम तज्ज्ञानं तदुत्पत्तिर्वा तदतिरिक्तं वा किञ्चित् । नाद्यः । वर्णनिष्ठतया प्रतीयमानस्य क्रमस्य बुद्धिनिष्ठत्वायोगात् । न च बौद्ध एव क्रमः परम्परया वर्णनिष्ठतया प्रतीयते । कर्दमगतस्य कार्ष्ण्यस्य वस्त्रे प्रतीतिवत् । अत एव कृष्णं वस्त्रमिति प्रतीतिवद्य्ववहारवत्क्रमिका वर्णा इति व्यवहार इति वाच्यम् । बुद्ध्यनुपस्थितावपि साक्षात्सम्बन्धेनैव पूर्वोत्तरत्वरूपक्रमप्रतीतेरनुभवात् । न च तादृशानुभवो भ्रम एव । साक्षात्सम्बन्धेन कर्दमगतकार्ष्ण्यादेर्भाने तत्प्रतीतेर्भ्रमत्ववदिति वाच्यम् । तत्र भ्रमजनकस्य कर्दमवस्त्रयोः स्फुटभेदाग्रहस्येवात्र तादृशदोषाभावात् । न हि वर्णतद्बुद्ध्योरभेदग्रहस्य भेदाग्रहस्य वाऽऽनुभाविकत्वम् । अत एव कृष्णं वस्त्रमिति व्यवहारवदत्रापि परम्परासम्बन्धेन भानेऽपि क्रमिका वर्णा इति व्यवहार इति निरस्तम् । तत्र तादृशव्यवहारबीजस्य स्फुटभेदाग्रहादेः सत्त्वेऽप्यत्र तदभावात् । स्फुटभेदाग्रहादेस्तादृशव्यवहारप्रयोजकत्वस्य गौरोऽहमित्यादिव्यवहारप्रयोजकत्वस्याचार्यैरेवोपपादितत्वेन क्लृप्तत्वात् । किञ्च बुद्धिक्रमस्यैव परम्परया वर्णेषु भाने कस्यचित्पुंसः किञ्चिद्वाक्योच्चारणकाले एकवर्णज्ञानार्थमुत्पादितेन ध्वनिना दैवाद्वर्णान्तरज्ञाने सति तद्वर्णोत्तरत्वस्य तद्वर्णेऽसत्त्वेन तद्वर्णे तदुत्तरत्वं नास्त्येव । असदेवोत्तरत्वं प्रमितमिति बाधानुभवो न स्यात् । न च तत्सजातीयबुद्धौ तदुत्तरत्वाभावेन तद्वाक्यावगाहिबुद्धिक्रमसजातीयत्वाभाव एतद्बुद्धिक्रमे प्रतीयत इति वाच्यम् । अनुभवविरोधात् । अस्मिन्वाक्ये तद्वर्णोत्तरत्वमेतद्वर्णे नास्त्येवेति प्रत्ययस्यानुभाविकत्वात् । एतद्बुद्धिस्तद्बुद्धिसजातीया नेत्येव प्रत्ययापत्तेः । किञ्चैकैकवर्णानुभवजन्यसंस्कारसचिवेन मनसा सर्वेषां वर्णानामेकदैव ज्ञानोत्पत्तेः । तत्र प्रतीयमानस्य क्रमस्य बुद्धिनिष्ठत्वानुपपत्तेस्तत्प्रतीतेर्भ्रमत्वापत्तिश्च । वाक्यरचयितृबुद्धावेकैकस्यैव वर्णस्य भानमिति नियमाभावात् । यादृशवर्णज्ञानोत्तरं वर्णद्वयावगाह्येकमेव ज्ञानं जातं तत्तद्बुद्ध्युपाधिकस्य तद्वर्णोत्तरत्वस्य क्रमस्य वर्णद्वये तुल्यतया वृत्तित्वापत्तिः । तज्ज्ञानविषयीभूतवर्णयोः क्रमिकत्वानुपपत्तिश्च । न चैकपदस्यैकज्ञानविषयत्वसम्भवेऽपि पदघटकवर्णानां तद्बुद्ध्यनुपाधिकत्वेन पूर्वपूर्वतनबुद्धिक्रमेणैव क्रमोपपत्तिरिति वाच्यम् । वर्तमानतया प्रतीयमानस्य पूर्वतनबुद्धिनिष्ठत्वासम्भवाद्बुद्धिनाशेन तत्क्रमस्यापि नाशात् । क्रमे वर्तमानत्वं नैव प्रतीयत इत्याग्रहेऽप्येकैकवर्णात्मकानां पदानां द्विचतुर्णामेकबुद्ध्युपारूढत्वसम्भवेन तत्र तत्तद्वर्णविषयकबुद्धिक्रमाभावेन तत्र क्रमप्रतीत्यनुपपत्तिः । न च वाक्यरचनाकाले एकवर्ण एकबुद्धौ प्रतीयते न त्वपर इति वाच्यम् । प्रमाणाभावात् । संस्कारपाटवात्पदद्वयावगाहिबुद्धेरपि सम्भवात् ।
एतेनैतदपि निरस्तम् । दैशिककालिकक्रमविलक्षणः क्रमः क्रमिकबुद्ध्या वर्णेष्वेवोत्पद्यते । यथा दैशिकात्कालिकः क्रमः कालिकाद्दैशिकः क्रमः परस्परविजातीयोऽङ्गीक्रियते । प्रकृतेऽप्यनुभवबलात्तद्विलक्षणक्रमाङ्गीकारसम्भवादिति । उक्तस्थले गतेः । न चोक्तस्थले एकयैव बुद्ध्या विषयीकृतेषु वर्णेषु क्रमो जन्यत इति वाच्यम् । पूर्वक्रमाभावे तद्बुद्धौ भानानुपपत्तेः । प्रथमक्षणे तद्बुद्धेरसदर्थावगाहित्वे भ्रमत्वापत्तेश्च । बुद्धिक्षण एव क्रमोत्पत्त्यङ्गीकारे बुद्धिजन्यत्वानुपपत्तेः । किञ्चैकस्मिन्वाक्ये एकस्यैव वर्णस्य क्रमः प्रतीयते । न च वर्णेषु क्रमोत्पत्तिपक्षे तद्युज्यते । स्वस्यैव स्वनिरूपितपूर्वोत्तरयोर्विरोधेनानुपपत्तेः । न च प्रामाणिकत्वेन विशेषबलेन परिहारो युज्यते । वर्णानामुत्पत्त्यङ्गीकारेणापि क्रमोत्पत्त्या स्वस्यैव स्वपूर्वोत्तरत्वयोरप्रामाणिकत्वात् । अन्यथा सर्वत्राप्येवं वक्तुं शक्यत्वेन विरोधमात्रोच्छेदापत्तेः । किञ्चास्मिन्वाक्ये द्वौ ककाराविति द्वित्वं प्रतीयते । न चैकस्मिन्द्वित्वं युज्यते । भेदव्याप्तत्वाद्वर्णैकत्वस्याद्याप्यसिद्धत्वात् । अनेन बुद्धिक्रमपक्षो निरस्तः । क्रमस्य कथञ्चित्परम्परया वर्णेषु भानाङ्गीकारेऽपि द्वित्वस्य साक्षाद्वर्णनिष्ठतया प्रतीत्या तदनुपपत्तेः सत्त्वात् । न द्वितीयः । अपसिद्धान्तात् । न तृतीयः । उत्पत्तिज्ञप्त्यतिरिक्ताया व्यक्तेरप्रामाणिकत्वात्तदपेक्षया वर्णोत्पत्त्यङ्गीकारस्यैव लाघवात् । ध्वन्यतिरिक्तानां वर्णानां तेषु तारत्वमन्द्रत्वादीनां च ध्वनिविशेषव्यङ्ग्यत्वादीनां चाकल्पनादिति चेत् ।
अत्रोच्यते । वर्णानां नित्यत्वेऽपि विशिष्टस्योत्पत्त्यङ्गीकारपक्षे तत्तत्क्षणविशिष्टानां वर्णानां प्रतिक्षणमुत्पत्तेः क्रमः कालिक एव तादृशविशिष्टवर्णेषु सम्भवति । विशिष्टयोर्भिन्नत्वेन पूर्वक्षणसम्बन्धविशिष्टो यः ककारस्तदुत्तरत्वस्योत्तरक्षणसम्बन्धविशिष्टे ककारे तत्पूर्वस्य पूर्वक्षणविशिष्टे ककारे सत्त्वेन न स्वस्यैव स्वपूर्ववृत्तित्वादिविरोधः । विशिष्टयोर्भिन्नत्वेन तत्र द्वित्वस्यापि सम्भवेन न द्वित्वप्रत्ययानुपपत्तिः । क्रमस्योक्तरीत्या विशिष्टगतस्य प्रामाणिकत्वेनैकबुद्धेस्तादृशक्रमविशिष्टवर्णद्वयावगाहित्वोपपत्तिः । विशिष्टशुद्धयोरैक्येन विशिष्टगतपूर्वोत्तरत्वादीनां वर्णनिष्ठतया प्रतीतिः । न च क्रमावगाहिबुद्धौ विशिष्टस्य भानमेव नास्तीति वाच्यम् । कालानवगाहिबुद्धेरप्रामाणिकत्वेन तत्तत्क्षणविशिष्टानां वर्णानामेव प्रतीतेः । न चैतादृशस्य क्रमस्य स्वत एव निरन्तरमुत्पत्तेः पुरुषकर्तृकत्वानुपपत्तिरिति वाच्यम् । ज्ञायमानक्रमस्यैवार्थबोधकत्वेन ज्ञाने पुरुषकर्तृकत्वसत्त्वेन तद्विशिष्टक्रमेऽपि पुरुषकर्तृकत्वोपपत्तेः । न च तर्हि सर्वेषां तत्कर्तृकत्वापत्तिरिति वाच्यम् । स्वसजातीयक्रमप्रत्यक्षानुकूलव्यापारध्वंसाधिकरणक्षणावृत्तितादृशव्यापारकर्तृत्वस्यैव तत्कर्तृकत्वपदार्थत्वात् । अस्मिन्पक्षे तादृशव्यापाराविषयत्वमपौरुषेयत्वमिति बोध्यम् ।
यद्वाऽनुभवबलाद्दैशिकक्रमापेक्षया विलक्षण एव कालिकः क्रमः कालिकक्रमापेक्षया विलक्षणो दैशिकः क्रमः । तथा बौद्धोऽप्यन्यो दैशिकक्रमकालिकक्रमविलक्षणः क्रमो वर्णेषूत्पद्यत इत्यङ्गीक्रियते । स च बुद्धिजन्यः । स च यद्बुद्धिजन्यः क्रमः स च तत्कर्तृक इत्युच्यते । न च स्वस्यैव स्वपूर्वोत्तरत्वद्वित्वादीनामनुपपत्तिः । विशेषबलादनुभवादेव तत्सिद्धेः । क्रमविशिष्टेषु द्वित्वादीनामपि सम्भवाच्च । न चैकस्मिन्नेव द्वित्वबहुत्वयोरङ्गीकारे एकस्मिन्नेव घटे द्वौ घटाविति प्रत्ययापत्तिः । तत्रापि तत्तत्क्षणविशिष्टघटेषु द्वित्वादिप्रतीत्यसम्भवात् । विद्यमानस्य सर्वस्य प्रतीतिनियमाभावेन तादृशप्रतीतिनिर्वाहकसामग्रया अकल्पनात् । यत्र प्रतीतिः प्रामाणिकी तत्र सामग्री कल्प्यते । न च विशिष्टस्यातिरिक्तत्वमेव त्यज्यतामिति वाच्यम् । तस्यान्यत्र निपुणतरमुपपादितत्वात् । न च वर्णानामुत्पत्त्यङ्गीकारेण क्रमाद्युपपत्तिः किं न क्रियते विलक्षणक्रमाङ्गीकारे गौरवापत्तेरिति वाच्यम् । वर्णनित्यत्वस्य प्रत्यभिज्ञादिप्रमाणैरन्यत्राचार्यैरेवोपपादितत्वात् । उत्पत्त्यङ्गीकारेऽपि मौनिकृतश्लोकस्य तत्कृतत्वानुपपत्तेश्च । न च मौनिना वर्णा उत्पद्यन्ते किन्तु तत्कृतरेखादिद्रष्ट्रा । तथा च प्राथमिकतादृशक्रमवद्वर्णोच्चारयितर्येव तच्छ्लोककर्तृत्वापत्तेः । मन्मते च मौनिबुद्ध्यैव क्रमस्योत्पन्नत्वेन तस्य तत्कर्तृत्वम् । अन्यस्य तु क्रमज्ञानाधीनत्वेन न तत्कर्तृत्वमित्युपपत्तेः । न च क्रमस्य बुद्ध्योत्पन्नत्वे प्रथमतो वर्णप्रत्यक्षकाल एव क्रमप्रतीतिर्न स्यादिति वाच्यम् । प्रथमवर्णप्रतीतिकाले इष्टापत्तेः । द्वितीयवर्णस्य प्रथमवर्णप्रतीतिजन्यक्रमविशिष्टत्वेन तद्विशिष्टप्रतीतेरनुपपत्त्यभावात् । न चैकवर्णाभिव्यञ्जकत्वेनाभिमतध्वनिना दैवादपरवर्णस्य व्यक्तौ तस्मिन्नपि तदुत्तरत्वसम्भवेन तद्वाक्याघटकवर्णेऽपि तदुत्तरत्वप्रसङ्ग इति चेत् । इष्टापत्तेः । नायं वर्णस्तद्वाक्यघटक इति बाधानुपपत्तिरिति वाच्यम् । क्रमविशेषविशिष्टवर्णसमुदायघटकत्वाभावेनोपपत्तेः । नायं वर्णस्तद्वर्णोत्तरोऽसदेवोत्तरत्वं प्रतीतमिति तद्वर्णोत्तरत्वेऽसत्त्वावगाहिबाधानुपपत्तिरिति वाच्यम् । तादृशबाधस्यैवाभावात् । तद्वाक्येऽविद्यमानत्वेन प्रतीयते तच्चास्त्येव । मच्छतानुपूर्व्या तदुत्तरत्वमस्त्येव किन्तु तदभिप्रेतवाक्येषूत्तरत्वं नास्त्येव प्रतीयते तच्चास्त्येव । अनुभवात् । न चैकस्यामेव बुद्धावेकैकवर्णात्मकपदचतुष्टयस्यैकदैव संस्कारवशाज्ज्ञाने तत्र क्रमस्य तद्बुद्ध्याऽनुत्पत्त्या तेषु पदेषु क्रमभानानुपपत्तेरिति वाच्यम् । तत्र क्रमस्य तत्पूर्वतनबुद्ध्योत्पन्नस्य भानाङ्गीकारात् । अन्यथा क्रमभासकसंस्कारानुपपत्तेः । तद्बुद्धौ क्रमस्याभाने एकदैव भाने क्रमप्रत्यक्षजनकव्यापार एव नोत्पद्यते । अन्यथा वर्णानामुत्पत्त्यङ्गीकारपक्षेऽप्येकदा चतुर्णामुत्पत्तिस्थले तवाप्यगतेः । नैकक्षणे उत्पद्यन्ते किन्तु क्रमादेवेति चेत् । नैकक्षणे ज्ञायन्ते किन्तु क्रमादेवेति समम् । न चैवं समूहालम्बनरूपैकबुद्ध्युपारूढानां वर्णानां शाब्दबोधजनकत्वेन तत्र तद्बुद्ध्युत्पत्तिक्षणे पूर्वपूर्वबुद्धिनाशेन तदुपाधिक्रमस्यापि नाशेन कथं तत्र क्रमभानमिति वाच्यम् । संस्कारवशादतीतक्रमस्य भानोपपत्तेः । अन्यथा भवत्पक्षेऽप्यगतेः । एवमन्येऽपि क्षुद्रोपद्रवाः परिहरणीया इत्यलम् । अयं पक्षो यादवार्यैः सुधाटिप्पण्यां निपुणतरमुपपादितः ।
केचित्तु बुद्धिनिष्ठ एव क्रमः । तद्विषयताविशिष्टेषु प्रतीयते न त्वतिरिक्तः कल्पनीयो गौरवादिति वदन्ति । तत्पक्षे तत्तद्वर्णावगाहिपूर्वपूर्वबुद्ध्यनवगाहिक्रमविशिष्टावगाहि बुद्धिर्नास्त्येवेति वक्तव्यमित्यलं पल्लवितेन । नन्वेतादृशापौरुषेयत्वे किं मानमिति चेत् । लाघवमेवेति ब्रूमः । तथा हि । किमीश्वरश्चतुर्मुखाय यं वेदमुपदिदेश किमेतमेवैतत्पूर्वकल्प उपदिष्टवानन्यं वा । आद्ये एवमेव पूर्वकल्पे एतदानुपूर्वीविशिष्टोपदेश इत्यागतमपौरुषेयत्वेन । द्वितीयपक्षेऽपि पूर्वकल्पीयो वेदः किमीश्वरबुद्धिस्थो न वा । नेति पक्षेऽज्ञानादिदोषप्रसक्तिः । आद्ये तद्विहायानुपूर्व्यन्तरनिर्माणे कारणाभावः । अन्यथैकस्मिन्नपि कल्पे दिनप्रलयादिभेदेन वेदान्तरनिर्माणप्रसङ्गः । न च भारतादावप्येवं प्रसङ्गः । पुराणानि तदर्थानि सर्गे सर्गेऽन्यथैव तु । क्रियन्तेऽतस्त्वनित्यानीत्यादि वाक्यादानुपूर्व्यन्तरनिर्माणस्य प्रमितत्वात् । लाघवात्प्रमितकर्तृत्वादित्युक्तेः सत्त्वाद्गौरवस्यापि पक्षे बाधकत्वस्य सत्त्वाच्च । न च भारतादौ प्रतिसर्गमुत्पत्तेः प्रमितत्वेऽपि तत्करणे किं निमित्तमिति चेत् । ईश्वरप्रवृत्तेः सर्वत्र स्वप्रयोजनशून्यत्वात्प्रामाण्यनिश्चयायैकानुपूर्वीविशिष्टं वेदमुपदिशति । अन्यथा पूर्वोक्तिप्रकारेणाप्तिनिश्चयोपायाभावेन प्रामाण्यनिश्चयायोगादिति प्रयोजनसत्त्वाच्च । न च सृष्ट्यादिकाले उत्पन्नस्य चतुर्मुखस्य स्वपितर्याश्वासोपपत्तिः । लोके तथा दृष्टत्वात् । तथा तत्सृष्टानामित्युपदेशपरम्परया महाजनपरिगृहीतत्वलिङ्गेन प्रामाण्यनिश्चयोपपत्तिरिति वाच्यम् । केषाञ्चिदुक्तरीत्या सम्भवेऽपि विचारदशायां केषुचित्पुरुषेषूक्तपरम्परावत्त्वाद्विप्रलम्भकल्पनायां प्रमाणाभावेन प्रामाण्यनिश्चयानुपपत्तेः । बुद्धादेरीश्वरावतारस्य स्वमातापितृवञ्चकस्य दृष्टत्वेन स्वपितृत्वेऽपि विचारशीलस्य चतुर्मुखस्याश्वासानुपपत्तेः । लोके बहुतरं पित्रादावनाश्वासस्यापि दृष्टेः । न चाषौरुषेयत्वनिश्चयोऽपि कथमिति चेत् । पूर्वकल्पेऽधीता एव वेदा उपदेशाद्युद्बोधकेन स्मर्यन्त इत्यङ्गीकारात् । न च तत्र मानाभावः ।
जन्मान्तरे श्रुतास्तास्तु वासुदेवप्रसादतः ।
मुनीनां प्रतिभास्यन्ति भागेनैव न सर्वश ॥
इत्यागमानां सत्त्वात् । अन्येषां तूक्तरीत्याऽप्रमितकर्तृत्वादिना निर्णयोपपत्तेः । न च गूढकर्तृकेऽप्युक्तापौरुषेयत्वप्रसङ्गः । अध्येतृसामान्यनिष्ठपूर्वतनत्वप्रकारकज्ञानविषयत्वरूपाप्रमितकर्तृत्वस्य वा प्रत्यक्षाद्यमूलत्वरूपाप्रमितकर्तृकस्य वा हेतुत्वेन विवक्षितत्वेन गूढकर्तृके तदभावेन व्यभिचाराभावात् । न च हेतोरज्ञानासिद्धिः । ऋष्यादिदृष्टवेदेषु तस्य हेतोर्ज्ञातुमशक्यत्वादिति वाच्यम् । तद्ऋषिवाक्येन तत्रापि ज्ञातुं शक्यत्वात् । विंशल्लक्षण इति वाक्येन तत्रापि निश्चयसम्भवात् । वेदप्रामाण्यसन्देहदशायां तदनुसारिपुराणवचनेष्वपि प्रामाण्यसन्देहात्कथमयं निश्चय इति वाच्यम् । ऋष्याद्यदृष्टवेदेषु पुरातनत्वप्रसिद्ध्या प्रमितिकर्त्रङ्गीकारे कल्पने कल्पनागौरवेण यद्वाक्यं तत्सकर्तृकमेवेति नियमग्राहकमानाभावेनापौरुषेयवाक्यानङ्गीकारे धर्माधर्माद्यसिद्धिभयेन चावश्यमेवापौरुषेयवाक्यकल्पनाया आवश्यकत्वेन लोकेऽपौरुषेयत्वेन प्रसिद्धवाक्यं परित्यज्य वाक्यान्तरकल्पनाया अन्याय्यत्वेन लोकप्रसिद्धवेदस्यापौरुषेयत्वस्य प्रामाण्यस्य च सिद्ध्या तदनुसारिषु पुराणादिषु प्रामाण्यनिश्चयसम्भवेन तेन वाक्यविशेषे हेतुज्ञानसिद्धेः सम्भवात् ।
यस्य पुरुषस्य हेतुनिश्चयो नास्ति तद्वाक्यविशेषे वेदत्वसंशयः स्यात्तथाऽपि न दोषः । निश्चितवाक्यान्तरैर्धर्माधर्मसिद्धिसम्भवात् । तथा च प्रयोगः । वेदोऽनादिक्रमविशिष्टः क्रमस्य सादित्वे बाधकवत्त्वात् । यो यद्धर्मवत्त्वे बाधकसहितः स तद्धर्मवान्न भवति यथा सम्प्रतिपन्नः । बाधकानि कल्पनागौरवादीनि । अथवा वेदस्य यदि सादित्वं स्यात्तर्हि प्रमात्वेन निश्चितो न स्यात् । वेदकर्तर्याप्तत्वनिश्चयायोगाद्दोषशङ्कानिरासकस्याभावादिति दूषणानुमानं वा । न चेष्टापत्तिः । तार्किर्कैर्वेदप्रामाण्यस्याङ्गीकृतत्वेनेष्टापत्तेः कर्तुमशक्यत्वात् । वेदक्रमोऽनादिर्बाधकशून्यत्वे सति लघुभूतकल्पनाविषयत्वात्सम्प्रतिपन्नवत् । वेदोऽनादिरप्रमितकर्तृकत्वाद्य्वतिरेकेण पौरुषेयवाक्यवत् । यस्त्वप्रमितयद्धर्मकः स तच्छून्यो यथा सम्प्रतिपन्न इति सामान्यव्याप्तिर्वा । वेदक्रमोऽनादिरध्येतृसामान्यनिष्ठपूर्वतनत्वप्रतीतिविषयत्वात्प्रत्यक्षाद्यमूलकत्वाद्वा । न चासिद्धिः । ईश्वरोक्तत्ववादिनामीश्वरातिरिक्ताध्येतृसामान्यनिष्ठोक्तप्रतिपत्तिविषयत्वं तावत्सिद्धमेव । ईश्वरज्ञानस्य नित्यत्वेनैकत्वेनानादिकाले क्रमावगाहित्वेन क्रमस्य च प्रवाहत उक्तरीत्याऽनादित्वेन पूर्वतनत्वप्रकारकप्रतीतेः सम्भवात् । ईश्वरज्ञानस्येन्द्रियाजन्यत्वेन प्रत्यक्षाद्यन्यत्वेन तन्मूलकत्वासम्भवाच्च ।
अथवेश्वरातिरिक्ताध्येतृसामान्यनिष्ठतादृशप्रतीतिविषयत्वमेव हेतुः । सृष्टेरिदं प्राथम्याभावेनानादिकालीनैः पुरुषैः पूर्वतनत्वेन ज्ञायमानत्वमनादित्वं विना न निर्वहतीत्यनादित्वसिद्धिः । नन्वेतावताऽपौरुषेयत्वनिश्चयेऽपि कथमपौरुषेयत्वनिश्चयेन प्रामाण्यनिश्चयः । क्रमस्यानादित्वेऽपि तदुच्चारयितॄणामीश्वरादीनां तात्पर्यानुसारेणैवार्थबोधकत्वात् । तेषु चाप्तत्वनिश्चयोपायाभाव एव । यदि तात्पर्यज्ञानमनपेक्ष्यैव बोधं जनयति तात्पर्यनिश्चायकशास्त्रवैय्यर्थ्यम् । एकानुपूर्व्या एव पदच्छेदादिना नानाविधार्थबोधकत्वेन सर्वार्थेष्वपि प्रामाण्यप्रसङ्गः । तथा च वस्तुनि द्वैविध्यापत्तिरिति चेन्न । क्रमस्यापौरुषेयत्वे पुरुषदोषाप्रयोज्यज्ञानजननानुकूलशक्तिमत्त्वज्ञानेन प्रामाण्यस्योत्पत्तौ स्वतस्त्वेन प्रामाण्यसिद्धेः । न च क्रमस्यानादित्वेऽपि वक्तुरिच्छारूपतात्पर्यानुसारेण बोधजनकत्वाद्वक्तृदोषमूलकत्वशङ्काऽवर्जनीयैव । ईश्वरोक्तत्वपक्षे ईश्वरज्ञानेच्छयोर्नित्यत्वेन तत्प्रयोज्यत्वसत्त्वेऽपि निर्दोषत्वज्ञानं सम्भवति । ईश्वरेच्छाया नित्यज्ञानप्रयोज्याया निर्दुष्टत्वेन तस्या विप्रलम्भादिमूलत्वासम्भवात् । विप्रलम्भस्यागन्तुकेच्छाप्रयोज्यत्वेनेश्वरस्य पूर्णत्वेन तदिच्छायां तदसम्भवादिति वाच्यम् । ईश्वरसिद्ध्युत्तरकालीनत्वादस्याः कल्पनायास्तस्या एवाभावादप्रत्यक्षत्वादीश्वरस्यानुमानेन तत्सिद्ध्यभावस्याकरेषूपपादितत्वादागमस्य च प्रामाण्य एव सन्देहात् । न च तर्हीश्वररूपाश्रयासिद्ध्या तत्रानाप्तत्वशङ्काऽपि कथमिति वाच्यम् । न वयमीश्वरत्वावच्छिन्नेऽनाप्तत्वशङ्केति ब्रूमः । येनायं दोषः स्यात् । किन्तु तादृशानुपूर्व्याः प्रथममुच्चारयितरि वाक्येषु प्रथमोच्चारयितृपुरुषदोषमूलकत्वस्य बहुतरमुपलम्भात् । उच्चारणस्यान्यदीयबोधेच्छाप्रयोज्यत्वेन प्रथमोच्चारयिता स्वेच्छाविषयी बोधोत्पत्तये तत्साधनीभूतं वाक्यविशेषं तादृशबोधौपयिकाकाङ्क्षादिशालिना मनसाऽनुसन्धाय प्रयुङ्क्त इति तदिच्छाविषयीभूते ज्ञाने तदीयाज्ञानादिमूलत्वशङ्काप्रयुक्ताप्रामाण्यशङ्क्या तत्करणत्वरूपाऽप्रमाशङ्का भवति । द्वितीयप्रयोक्ता तच्छ्रवणमात्रेण तादृशक्रममुच्चारयतीति न तद्दोषमूलत्वशङ्का लोकानां भवतीति क्रमोच्चारणस्य प्रवाहतोऽनादित्वं स्वीक्रियते नेश्वरानुक्तत्वमङ्गीक्रियत इति नापसिद्धान्तरूपदोषः । तर्ह्यनादित्वाङ्गीकारेऽपि पुरुषेच्छानुसारेण बोधजनकत्वात्कथमुक्तशङ्कानिवृत्तिरिति चेत् । पुरुषेच्छाया ज्ञानकारणत्वस्यैवाभावात् । आकाङ्क्षावशादेव ज्ञायमानायाः शब्दबुद्धिं प्रति कारणत्वम् । अन्यथा मूर्खेण बोधविशेषेच्छया वर्णमालाप्रयोगे कृते तदा बोधोत्पत्तिः स्यात् । अनिच्छया दैवाद्वाक्ये प्रयुक्ते बोधो न स्यात् । इच्छा तु स्वविषयीभूतबोधप्रयोजकाकाङ्क्षादिसम्पादनया वाक्यप्रयोग एवोपयुज्यत इति क्रमविशेष एव शाब्दबोधजननानुकूला शक्तिः स्वीक्रियते । स्वाभाविकी सैव तात्पर्यपदेनोच्यते । तत्प्रयोज्यबोधस्यैव प्रामाण्यं नाहिततादृशशक्तिप्रयोज्यबोधस्य तन्नियम इति न वस्तुनि द्वैविध्यापत्तिः । उपक्रमाद्यनुगुणाकाङ्क्षादिप्रयोज्या शक्तिः स्वाभाविकी तदननुगुणा त्वस्वाभाविक्याहितेत्युच्यते । स्वाभाविकी शक्तिर्दोषप्रयोज्या । न चेत्तत्र प्रामाण्यं नियतमेव । इत्थं च तात्पर्यज्ञानस्य कारणत्वाङ्गीकारेऽपि दोषाभावः । तथा हि । यथा घटादिपदानां घटरूपार्थबोधने सहजा शक्तिस्तथा वेदेऽप्यर्थविशेषबोधजननानुकूला शक्तिः स्वाभाविकी । पदानामनादित्वेनानादिकाले तदर्थविशेषबोधजननानुकूलशक्तेः स्वाभाविकत्वात् । अनादिक्रमनिष्ठाया उपक्रमाद्यनुकूलाया अनादिकाले एकजातीयबोधानुकूलायाः शक्तेः स्वाभाविकत्वस्यैवोचितत्वात् । नन्वद्वैतबोधादीनामपि वेदतात्पर्यविषयसत्त्वेन तस्या अपि शक्तेरनादित्वेन तज्जन्याद्वैतज्ञानादेरपि प्रामाण्यापत्तिरिति वाच्यम् । तादृशज्ञानानानुकूलायाः शक्तेरुपक्रमाद्यननुगुणत्वेन दोषमूलत्वेन दोषाभावात् । लोके उपक्रमाद्यननुगुणाया वाक्यनिष्ठबोधजनानुकूलशक्तेः स्वतन्त्रवक्त्रन्यसमवेतदोषमूलकत्वस्य प्रायः दृष्टत्वेन स्वाभाविकत्वासम्भवात् । न च तस्याः शक्तेः स्वतन्त्रवक्त्रन्यधर्मप्रयोज्यत्वमात्रसिद्धावपि दोषप्रयोज्यत्वनिश्चयः कथं तादृशानादिकालीनदोषस्याप्यदृष्टेरिति वाच्यम् । उपपत्तेः सर्वापेक्षया प्रबलत्वेन तद्विरुद्धत्वेन ज्ञानस्य बाधितत्वेन तत्करणस्याप्रामाण्यस्य तद्विषये आवश्यकत्वेन तादृशशक्तेर्दोषमूलत्वसिद्धेः सम्भवात् । अनादेस्तादृशदोषस्यायोग्यतादिरूपस्य तेनैव सिद्धेः । बृहद्भाष्यादौ तादृशशक्तौ तात्पर्यप्रयोगस्यानादि शाब्दबोधानुकूलत्वमात्रेण गौणो ज्ञेयः । किञ्चाद्वैतादिविषयकज्ञानस्य वेदेनायोग्यानामनादिकाले जायमानत्वेऽपि नैकजातीयत्वम् । तत्तद्बुद्धिदोषानुसारेण तत्तदुपपादनप्रकाराणां भिन्नभिन्नत्वमेव । अत एवेदानीमपि तदीयग्रन्थेषु नैकप्रकारेणोपपादनमस्ति किन्तु प्राचीननवीनग्रन्थेषूपपादनस्य भिन्नप्रकारत्वं प्रायोऽस्तीत्यतो दोषमूलत्वम् । एवं सर्वसमयानां प्रवाहतोऽनादित्वेऽपि नैकप्रकारत्वं सर्वकल्पेष्विति दोषमूलत्वं नासम्भावितमिति ध्येयम् । वेदद्रष्टारस्तु पूर्वकल्पेऽधीततादृशक्रमत्वेन तदधीनज्ञानवन्त एव । एतत्कल्पे कालव्यवधानादिदोषेण विस्मृतत्वेऽपि योगविशेषाधीनपरमेश्वरप्रसादादिना तादृशार्थज्ञानजननानुकूलशक्तिमत्तया तं वाक्यविशेषं स्मारयन्ति ।
इदमेव वेदद्रष्टृत्वं नाम । तथा च स्वाभिप्रेततथाविधबोधाय तं वाक्यं प्रयुञ्जन्ति । यथा घटादिपदानि घटविशेषरूपार्थबोधाय घटादिपदानां तादृशव्यक्तिसदृशव्यक्तिबोधकत्वमिवानादिक्रमविशिष्टवाक्यशक्तेरपि तत्सदृशार्थविषयकत्वात् । वसिष्ठादीनां पूर्वकल्पीयवसिष्ठादिसदृशत्वेनैतत्कल्पीयवसिष्ठादिघटितवाक्यार्थस्य पूर्वकल्पीयवसिष्ठादिघटितवाक्यार्थतुल्यत्वात्तादृशं बोधं जनयति । तादृशतात्पर्यनिर्णयायैव शास्त्रस्य प्रवृत्तत्वेन न शास्त्रवैय्यर्थ्यम् । यस्त्वन्योऽर्थः प्रतीयते तादृशार्थ एव पूर्वं प्रतीत इति नियमाभावेन सादृशार्थबोधानुकूला शक्तिर्दोषप्रयोज्येति न तत्र प्रामाण्यापत्तिः । न च बौद्धादिशास्त्रे दोषप्रयोज्यतदभिपे्रतार्थबोधानुकूलशक्तेरेव गमकत्वदर्शनादत्राप्युपक्रमादयो वक्तृसमवेतेच्छाविषयत्वमेव बोधविशेषे ज्ञापयेयुः । न तु दोषाप्रयोज्यत्वं स्वाभाविकत्वं वा शक्ताविति कथमुपक्रमादिभिरुक्ततात्पर्यनिर्णय इति वाच्यम् । स्वतन्त्रवक्त्रन्यसमवेतदोषाप्रयोज्यशाब्दबोधानुकूलशक्तेरेव तात्पर्यपदार्थत्वेनोपक्रमादीनां तज्ज्ञापकत्वाङ्गीकारात् । बौद्धादिशास्त्रे उपक्रमादिभिरुक्ततात्पर्ये ज्ञातेऽपि स्वतन्त्रवक्तृदोषप्रयोज्यत्वेन तन्निष्ठशक्तेरप्रामाण्यं तच्छास्त्रस्य । वेदे च स्वतन्त्रवक्तुरभावेन दोषसामान्याप्रयोज्यत्वं शक्तौ ज्ञायत इति प्रामाण्यसिद्धिः । अत एव वक्यविशेषे तात्पर्ये ज्ञातेऽपि वक्तुराप्तत्वसन्देहात्प्रामाण्यसन्देहः । न चेश्वर एव स्वतन्त्रो वक्ता वेदस्य तस्य सजातीयोच्चारणमनपेक्ष्योच्चारणकर्तृत्वादिति तदीयविप्रलम्भादिमूलकत्वसन्देहः कथं निवर्ततामिति वाच्यम् । स्वसजातीयक्रमप्रत्यक्षानुकूलव्यापाराधिकरणकालानुत्तरकालवृत्तिस्वप्रत्यक्षानुकूलव्यापारकर्तृत्वस्यैव स्वतन्त्रकर्तृपदार्थत्वात् । तस्येश्वरेऽभावात् । यदा यदेश्वरो वेदमुच्चरति तदा तत्पूर्वमुच्चारणमस्त्येवेति तदनुत्तरत्वं कस्मिन्नप्युच्चारणे नास्तीति स्वतन्त्रकर्तृत्वं नास्त्येवेत्युच्चारणं विहाय व्यापारत्वेन निवेशात् । मौनिकृतश्लोके तत्कृतत्वनिर्वाहस्तत्रापि लेखनादिरूपव्यापारस्य सत्त्वात् । उक्तस्वतन्त्रकर्तुः सत्त्वे तज्जन्यबोधे दोषमूलकत्वादिशङ्का सम्भवति । तत्पूर्वकालेऽप्युच्चारणसत्त्वेन तस्मिन्नेतत्कालीनविप्रलम्भप्रयोज्यकल्पनायां बीजाभावेन पूर्वकालीनोच्चारणेऽविप्रलम्भमूलकत्वसिद्धौ तत्सजातीयत्वेनास्यापि तदमूलकत्वसिद्धेः । विप्रलम्भस्यानादित्वकल्पने सर्वेषां विप्रलम्भत्वकल्पने च महागौरवम् ।
किञ्च सर्वोच्चारणकर्तुरेकत्वसिद्धेरीश्वरसिद्धिं विना योगेन बहूनां पुरुषाणां विप्रलम्भादिदोषकल्पने गौरवमेव । न तूच्चारणेष्वेककर्तृकत्वे लाघवमित्येककर्तृकत्वं सिद्ध्यतीति कल्प्यम् । केषुचिदुच्चारणेषु ब्रह्मादिकर्तृकत्वस्य प्रत्यक्षसिद्धत्वेनैककर्तृकत्वस्य बाधितत्वात्तज्जन्यज्ञानस्य युक्त्यादिप्रमाणाबाध्यत्वेनाप्रामाण्यनिश्चयाभावेन तदन्यथाऽनुपपत्त्याऽपि दोषमूलकत्वकल्पनायोगात् । ज्ञानानां परस्परं संवादित्वेन प्रमाणत्वाच्च । ईश्वरसिद्धिश्च वेदप्रामाण्यं विना न सम्भवतीति सिद्धे वेदप्रामाण्ये तेनैव विप्रलम्भकत्वादिदोषमूलकत्वाभावः सिध्यतीति नोत्पन्नज्ञानेऽप्रामाण्यशङ्काऽपीति ध्येयम् । न च वक्त्रिच्छैव तात्पर्यपदार्थो नोक्तशक्तिर्ममात्रैवार्थे तात्पर्यमित्यादौ तात्पर्यपदेनेच्छाया एव प्रतीतेरिति वाच्यम् । वाचकत्वं हि तात्पर्यं ‘यदर्था अखिला रवा’ इत्यनुव्याख्याने सुधायां शाब्दबोधजननानुकूलशक्तेरपि तात्पर्यपदार्थस्योक्तत्वात् । क्वचिदिच्छायास्तात्पर्यपदार्थत्वेऽप्युक्तशक्तेस्तात्पर्यपदार्थत्वे बाधकाभावात् । यत्तु शाब्दप्रमानुकूला शक्तिस्तात्पर्य उपक्रमादिभिः सैव ज्ञाप्यत इति । तन्न । तथा सति बौद्धाद्यागमेषूपक्रमादिभिस्तात्पर्यस्य ज्ञायमानत्वेन तदागमस्यापि प्रामाण्यापत्तेः । तत्रोपक्रमादीनां प्रमानुकूलशक्तिसाधकत्वाभावे व्यभिचारित्वेन वेदेऽपि तत्साधकत्वासम्भवः । ननूपक्रमादयो बोधविशेषे वक्त्रिच्छाविषयत्वमेव साधयन्ति नोक्तां शक्तिमिति वाच्यम् । वाक्यसम्बन्धिनामुपक्रमादीनां स्वाव्यभिचारीभूतस्वार्थसम्बद्ध्यर्थसाधकत्वस्यैवोचितत्वात् । वाक्योच्चारणेनैव तादृशबोधेच्छायाः सिद्धेः । वाक्यस्य परार्थत्वेन तत्प्रयोजकाकाङ्क्षादेरेव ज्ञाप्यत्वाच्च । किञ्च न वक्तृसामान्यसमवेतबोधसामान्येच्छाज्ञापकत्वम् । अतिप्रसङ्गात् । किन्तु स्वतन्त्रवक्तुः ।
तथा च वेदे च स्वतन्त्रवक्ता नास्तीति बाधनिर्णयवतां मीमांसकादीनां पक्षतावच्छेदकविशिष्टपक्षज्ञानाभावात्तात्पर्यानुमितिर्न स्यात् । किञ्च तात्पर्यज्ञानस्य शाब्दबोधकारणता न स्यात् । तात्पर्यग्रहदशायामेव फलीभूतबोधसिद्धेः । न च बोधविषयीभूतार्थयोः परस्परं संसर्गस्तात्पर्यज्ञानांशेनैव भासते किन्तु तत्तदर्थविषयकत्वेन तत्तदर्थप्रकारकत्वेन तत्तदर्थसंसर्गकत्वेनैव बोधो भासत इति न फलीभूतबोधसिद्धिरिति वाच्यम् । तादृशविशेष्यतानिरूपिततादृशसंसर्गावच्छिन्नप्रकारतानिरूपकत्वादिधर्मभानस्याश्रयीभूतवस्तुभानं विना भानायोगात् । तादृशज्ञाने जात एव तत्प्रत्यक्षवेलायां तद्धर्मभूततत्प्रकारकत्वादेर्भाने कालान्तरे तद्धर्मस्मृतावाश्रयाभाने बीजाभावात् । अपूर्वार्थविषयकशाब्दानुपपत्तेश्च । पूर्वं तत्समानाकारकज्ञानस्याभावेन तद्धर्मभूततत्तदर्थविशेष्यकत्वादिघटितधर्मज्ञानाभावेन तेन रूपेण तात्पर्यज्ञानांशे बोधभानासम्भवात् । न च तज्ज्ञानवृत्तिविशिष्टविषयताज्ञानाभावेऽपि तत्तदर्थविशेष्यकत्वादीनां ज्ञानान्तरेऽनुभूतानां भानं सम्भवतीति वाच्यम् । तथा सति समूहालम्बनादिव्यावर्त्यभावेन विशिष्टावगाहिबोधनियमाभावप्रसङ्गात् । न चोपदेशादिना तद्धर्मज्ञानं सम्भवतीति वाच्यम् । यस्य नोपदेशादिस्तया पूर्वार्थबोधानुपपत्तेः । मन्मते तु स्वतन्त्रवक्त्रन्यदोषाप्रयोज्यत्वेन शाब्दत्वरूपसामान्यधर्मेण भानोपपत्तिः । ननु तात्पर्यबोधस्य शाब्दबोधकारणत्वमेव नास्ति । अत एव वाक्यादर्थद्वयप्रतीतौ तत्प्रामाण्यादिनिश्चयाय तात्पर्यविचारो दृष्ट इति चेत् । सत्यम् । विनाऽपि तात्पर्यज्ञानं वाक्यादर्थद्वयप्रतीतिरिति । तथाऽपि सत्त्वावगाहिबोधे तात्पर्यज्ञानं प्रयोजकम् । दोषशङ्कास्थले वाक्यादर्थप्रतीतावपि सत्त्वासत्त्वौदासीन्येन प्रतीयते बाधग्रहकालीनवाक्यादिव । अत एवोक्ततात्पर्यरूपशक्तिप्रयोज्यत्वे सिद्धे वक्तुरुत्सर्गत आप्तत्वनिश्चये दोषाप्रयोज्यत्वमेव ज्ञायत इति सत्त्वावगाही शाब्दबोधो जायते । सत्त्वावगाहिबोध एव शाब्दबोधपदेन व्यवह्रियत इति तादृशशाब्दबोधं प्रति तात्पर्यज्ञानस्य कारणत्वम् । अन्यथा योग्यताज्ञानस्यापि कारणत्वाभावप्रसङ्गात् । अयोग्यताज्ञानसत्त्वेऽपि वादिवाक्याच्छाब्दोत्पत्तेर्व्यभिचारात् । न च स शाब्दबोध एव न भवत्याहार्यमानसप्रत्यक्षमेवेति वाच्यम् । तद्वाक्याच्छतमित्यनुभवविरोधात् । अन्यथा सर्वस्यापि बोधस्य मानसत्वापत्तेः ।
ननु सर्वत्र शाब्दबोधे तात्पर्यज्ञानस्य कारणत्वमिति गतः पक्ष इति चेत् । मन्मते दोषाप्रयोज्याकाङ्क्षादेरेव तात्पर्यपदार्थत्वेनाकाङ्क्षाज्ञानाभावे शाब्दबोधस्यैवानुदयेनाकाङ्क्षारूप तात्पर्यज्ञानस्य सर्वत्र कारणत्वात् । परन्तूपक्रमादिना दोषाप्रयोज्यत्वेन ज्ञाने सत्त्वावगाहिबोधमपि जनयति । दोषशङ्कास्थले सत्त्वानवगाहिबोधं जनयतीति दोषाभावात् । न चैवं सर्वत्रापि प्रथमं सत्त्वानवगाहिबोधस्ततस्तात्पर्य ज्ञानं ततः सत्त्वावगाहिबोध उत्पद्यत इत्यङ्गीक्रियतामिति वाच्यम् । सर्वत्र बोधद्वयस्यानुभवविरुद्धत्वात् । न चोत्सर्गतो वक्तरि दोषज्ञानाभावस्यापि सत्त्वावगाहिबोधे कारणत्वं स्यादिति चेत् । इष्टापत्तेः । तदभावे वाक्यात्संशयस्यैवानुभवसिद्धत्वात् । तस्मादुक्तशक्तिराकाङ्क्षादिज्ञानसाहित्येन शाब्दबोधानुकूला शक्तिर्भिन्नभिन्नैव क्रमविशेषवत्पदसमुदायस्यैव वाक्यत्वेन वाक्याद्बोधो जायत इत्यनु भवेन प्रतीयते । सैव न तु पदनिष्ठा शक्तिर्भिन्नाऽखण्डा । तत्र मानाभावात् । यथा चैतत्तथोपपादयिष्यते चोपरिष्टात् । एतेन तात्पर्यगर्भ एव श्रुतिकुमार्याः पुंयोगो मानमित्युदयेनोक्तम् । उक्तस्वतन्त्र कर्तृकत्वाभावेऽप्युक्ततात्पर्यसम्भवाद्वेदाप्रामाण्यवादिनां बौद्धादीनां कथमपौरुषेयत्वसाधनमिति चेत् ।
तदनङ्गीकारे धर्माधर्मसिद्धिप्रसङ्गेन तैरप्यङ्गीकारयिष्यमाणत्वात् । तत्प्रकारश्च तत्त्वनिर्णयादौ प्रदर्शितो द्रष्टव्यः । प्रत्यक्षैकप्रमाणत्ववादिनो लोकायतिकस्य कथमिति चेत् । अनुमानादिप्रामाण्यानङ्गीकारे तन्मूलवाग्व्यवहारादिकर्तुस्तस्य व्याहतभाषित्वेन जात्युत्तररूपनिग्रहस्थानेन निगृहीतत्वात् । तदङ्गीकारे च धर्मानिश्चयस्य कार्यत्वे तत्कारणे सामान्यतः सिद्धे तस्य चोक्तपरिशेषप्रमाणेनापौरुषेयत्वसिद्धिः । तन्निश्चयस्य दोषमूलकत्वमेव सिद्ध्येदिति चेन्न । विचारपटूनां बहूनां प्रेक्षावतां विना प्रमाणं दोषकल्पने गौरवाद्वेदापौरुषेयत्वकल्पनस्य लघुत्वेन दोषस्य तन्निश्चयकारणत्वासिद्धेश्च वाक्यविशेषस्य सिद्धत्वात् । तस्य कर्तृप्रसिद्ध्यभावेन सकर्तृकत्वे प्रमाणाभावेनानुपलब्धिरूपलिङ्गेन चापौरुषेयत्वस्य सिद्धिसम्भवादिति कृतं विस्तरेण ।
श्रीविट्टलभट्ट
अनुमाननिरूपणानन्तरं क्रमप्राप्तमागमं प्रमाणलक्षणानुसारेण लक्षयति ॥ निर्दोषः शब्द इति । अनुमानस्य ये दोषास्तद्रहितः शब्द आगम इत्यन्यथाप्रतीतिवारणाय शब्ददोषकथनपूर्वकं निर्दोषशब्दार्थमाह ॥ निरभिधेयत्वेनेति । निर्गतमभिधेयं वाच्यं यस्य तन्निरभिधेयं तस्य भावस्तत्त्वं वाच्यरहितत्वमिति यावत् । तथा च शब्दानामवाचकत्वेन वाचकत्वेऽप्यन्योन्यमन्वयाभावेन वा पदार्थान्वयाबोधकत्वमित्यर्थः । विपरीतबोधकत्वं विपरीतस्य विद्यमानार्थस्य बोधकं ज्ञापकं तस्य भावस्तत्त्वमित्यर्थः । ज्ञापकत्वं ज्ञातमात्रज्ञापकत्वमित्यर्थः । अप्रयोजनत्वं प्रयोजनरहितत्वमित्यर्थः । अनभिमतप्रयोजनत्वमनभिलषितप्रयोजनत्वमित्यर्थः । अशक्यसाधनप्रतिपादनं कृत्यसाध्येष्टसाधनाभिधानमित्यर्थः । लघूपाये सति गुरूपायोपदेशनमनायाससाध्येष्टसाधने सति विद्यमाने बह्वायाससाध्येष्टोपायप्रतिपादनमित्यर्थः । अज्ञानसंशयविप्रलम्भमूलत्वमादिशब्दार्थः । इत्यादयो दोषाः प्रमाप्रतिबन्धकास्तद्रहित इत्यर्थः ।
ननु ज्ञातज्ञापकत्वादयो न शब्ददोषास्तत्सद्भावेऽपि शब्देन प्रमोत्पत्तिदर्शनादिति चेन्न । सति ज्ञातज्ञापकत्वादौ शब्देन स्वार्थप्रमित्यनुदयात् । तथा हि । न तावच्छब्दात्प्रतीत एवार्थः । यजमानः प्रस्तर इत्यादिपौरुषेयवाक्यप्रतीतार्थस्य च शब्दार्थतापातात् । मीमांसा वैय्यर्थ्याच्च । किन्तु तात्पर्यगोचर एव । अत एव यत्परः शब्दः स एव शब्दार्थ इति प्रेक्षावतां प्रवादः । तत्तात्पर्यगोचरार्थस्त्वज्ञात एव भवति । मानविरोधस्यैव मानान्तरप्राप्तेरपि तत्परताविरोधित्वात् । अत एवानन्यलभ्यः शब्दार्थ इति विदुषां प्रवादः । यथोक्तं मायावादखण्डनटीकायाम् । अज्ञातो हि विषयो भवति । अन्यथाऽतिप्रसङ्गादिति । उक्तं सुधायाम् । ब्रह्मैव वाक्यार्थम् इति चेन्न । तस्य स्वप्रकाशत्वादिति । तथा च ज्ञातज्ञापकशब्दप्रतीतार्थस्य शब्दार्थत्वाभावादज्ञातज्ञापकशब्दस्याज्ञातविषयान्तराभावे सर्वथा निर्विषयत्वेन स्वार्थप्रमित्यजनकत्वान्न प्रामाण्यम् । गौरश्वः पुरुषो हस्तीत्यादिपदजातवज्ज्ञातज्ञापकवाक्यं दुष्टमप्रमां चेत्यभ्युपेयम् ।
ननु प्रमाकरत्वाज्ज्ञातज्ञापकं वाक्यं प्रमाणमिति चेन्न । यजमानः प्रस्तर इत्यादिवाक्यस्य प्रमासाधनत्वात्प्रमाणमित्यापातात् । न्यायसाम्यात् । यजमानः प्रस्तर इत्यादिवाक्यं स्वार्थाप्रमित्यसाधनत्वात्प्रमाणमिति चेत् । तर्हि ज्ञातज्ञापकं वाक्यं स्वार्थप्रमित्यजनकत्वान्न प्रमाणमविशेषात् । तस्माद्यथा यजमानः प्रस्तर इत्यादिवाक्यस्य भ्रमसाधनत्वेऽपि स्वार्थगोचरप्रमासाधनत्वाभावान्न प्रामाण्यम् । तथा ज्ञातज्ञापकवाक्यस्य प्रमितिसाधनत्वेऽपि स्वार्थप्रमितिसाधनत्वाभावान्न प्रामाण्यमिति । न च ज्ञातज्ञापकशब्दस्य दुष्टत्वे प्रमाणत्वाभावे च स्मृत्यनुवादयोर्नाप्रामाण्यमिति प्रमाणलक्षणवाक्यविरोधः । प्रामाण्यमनुवादस्य स्मृतेरपि च हीयत इत्यनुव्याख्यानविरोधश्च स्यात् । गृहीतग्राहिणोऽप्यनुवादस्य ताभ्यां प्रामाण्यकथनादिति वाच्यम् । विनाऽर्थस्य चानुवादस्यातथाविधेयनिषेधसंसर्गज्ञापकत्वादग्निर्हिमस्य भेषजमित्यादेश्चानुवादस्यार्थान्तरपरत्वाच्चानुवादस्य प्रामाण्येऽपि स्मृतिवदज्ञातज्ञापकत्वेनाविरोधादिति । एवं निष्प्रयोजनत्वमपि शब्ददोषः । तस्मिन्सति शब्देन स्वार्थप्रमित्यनुदयात् । तथा हि । शब्दबोध्योऽर्थो हि शब्दार्थः शब्देन बोधनीयश्चार्थः । साक्षात्परम्परया चादुष्टसाधनरूप एव । न तूदासिनः शब्दस्य परार्थत्वात् । न हि निष्प्रयोजनवाक्यानि परार्थानि सम्भवन्ति । व्याहतेः । अत एवोक्तं सुधायाम् । शास्त्रस्य विषयप्रयोजनाभ्यां भाव्यम् । प्रमात्वात्परार्थत्वाच्चेति । तथा च परार्थेन शब्देन परप्रयोजनरूपज्ञानविषय एव बोधनार्थो न त्वन्यदिति स एव परोपदेशरूपशब्दविषयो भवत्यतो निष्प्रयोजनमसौ काकदन्ता इति वाक्यं निर्विषयतया स्वार्थप्रमित्यजनकत्वादाकाङ्क्षाद्यङ्गरहित वाक्यवद्दुष्टमप्रमाणं भवति । यद्यपि फलवत्त्वं न प्रामाण्यं यार्थार्थं प्रामाण्यमित्यङ्गीकारात् । नापि प्रामाण्यव्यापकम् । तृणादिज्ञाने प्रामाण्यसद्भावेऽपि निष्फलत्वदर्शनात् । तथा च कथं सफलत्वाभावः प्रामाण्याभावे तन्त्रम् । तथाऽपि वाक्यप्रामाण्यं सफलत्वनियतमिति निष्प्रयोजनवाक्यमप्रमाणम् । तदुक्तं सुधायाम् । एतदुक्तं भवति । प्रामाण्यमात्रस्य प्रयोजनवत्त्वेन व्याप्त्यभावेऽपि तद्विशेषस्य वाक्यप्रामाण्यस्यास्त्येव पदानामिष्टसाधन एव । गृहीतसङ्गतिकत्वात् । पदसङ्गतिग्रहणसव्यपेक्षस्यैव वाक्यस्य बोधकत्वात् । फलस्य विषयविशेषप्रामाण्यनिर्णयहेतुत्वाच्च । अतो व्यापकाभावे व्याप्याभावप्रामाण्याभावात्प्रामाण्याभावोपपादनमुपपन्नमेवेति । एतेन ज्ञातज्ञापकं वाक्यमपि निष्प्रयोजनत्वेनाप्रमाणं चेत्युक्तं वेदितव्यम् । एवमभिमतं प्रयोजनं विरक्तं प्रति वाणिज्योपदेशरूपं वाक्यमपि निष्प्रयोजनवाक्यतुल्यतया दुष्टमप्रमाणं चेति ज्ञातव्यम् । एवमशक्यसाधनमप्रतिपादकं ‘चोलेषु तृषितं पङ्गुं प्रति सन्ति सुरसति शीतलानि जलानि’ इति वाक्यमपि निष्प्रयोजनवाक्यतुल्यत्वाद् दुष्टमप्रमाणम् । न हीष्टसाधनमपि तत्कृत्यसाध्यं तस्येष्टसाधनं भवति । अतस्तदपि निष्प्रयोजनवाक्यवन्निर्विषयत्वाद् दृष्टमप्रमाणं चेति बोध्यम् । एवं सति लघूपाये गुरूपायैकस्याप्यपेक्षाभावात्प्रत्युत लघूपाय एव सर्वस्याप्यपेक्षासद्भावात्सति लघूपाये बुद्धिपूर्वकं तं परित्यज्य गुरूपायबोधकं परानभिलषितार्थबोधकत्वान्निष्प्रयोजनवाक्यतुल्यतया भवति दुष्टमप्रमाणम् । किञ्च सति लघूपाये बुद्धिपूर्वकं तं परित्यज्य गुरूपायबोधकं विप्रलम्भकवाक्यतुल्यत्वाद्भवति दुष्टमप्रमां चेति युक्तं ज्ञातज्ञापकत्वादीनां परार्थभूतशब्ददोषत्वमिति । ‘आगमोऽदुष्टवाक्यं चे’ति ब्रह्मतर्कानुसारेण लक्षणान्तरमाह ॥ निर्दोषं वाक्यमिति वेति ।
ननु निर्दोषः शब्द आगम इत्यत्र शब्दपदं वाक्यपरं न वा । नाद्यः । लक्षणद्वयाभावेन वाशब्दानुपपत्तेः । न द्वितीयः । प्रमाणलक्षणटीकायां निर्दोषः शब्द आगम इति लक्षणवाक्ये मूलस्थशब्दपदस्य शब्दो वाक्यात्मेत्यनेन वाक्यपरत्वकथनवैय्यर्थ्यादिति चेन्न । द्वितीयपक्षाङ्गीकारात् । न च तत्पक्षोक्तदोषप्राप्तिः । तत्रापि निर्दोषशब्दस्यैवागमलक्षणत्वसम्भवेऽपि भगवत्पादैरानन्दतीर्थमुनिना ब्रह्मतर्कानुसारतः । ‘मानलक्षणमित्युक्तं सङ्क्षेपाद्ब्रह्मसिद्धय’ इत्यनेन स्वग्रन्थस्य ब्रह्मतर्कानुसारित्वकथनात् । ब्रह्मतर्कानुसारित्वज्ञापनाय ‘निर्दोषः शब्द आगम’ इत्यागमलक्षणस्थशब्दपदस्य शब्दो वाक्यात्मेत्यनेन वाक्यपरत्वकथनसम्भवेनावैय्यर्थ्यात् । पद्धतौ त्वावश्यकनिर्दोषत्वविशेषणादेव सकलागमाभासव्यवच्छेदसम्भवात्प्रमाणलक्षणोक्तयथाश्रुतागमलक्षणवाक्यानुसारेणैकं लक्षणमभिधाय ब्रह्मतर्कानुसारेणापि लक्षणान्तरमुक्तमिति न कश्चित्क्षुद्रोपद्रवः । यद्वा प्रमाणलक्षणोक्तेऽप्यागमलक्षणवाक्ये शब्दपदं यथाश्रुतमेवास्तु । न चैवं सति शब्दो वाक्यात्मेति तट्टीकावचनवैय्यर्थ्यापत्तिः । वाक्यत्वस्य लक्षणशरीराप्रवेशेऽप्यागमरूपी शब्दो वाक्यात्मक एव न त्वेकपदरूप इति वस्तुस्थितिप्रदर्शनार्थम् । तद्वाक्यप्रवृत्त्युपपत्तेर्वैय्यर्थ्याभावात् । अत एव प्रमाणलक्षणटीकायां शब्दो वाक्यात्मेत्युक्तव्यावृत्तिकथनावसरे निर्दोष इत्यागमाभासनिवृत्तिरित्यनेन निर्दोषत्वविशेषणादेव सकलागमाभासव्यावृत्तिरुक्ता । शब्द इति प्रत्यक्षस्य व्युदास इत्यनेन शब्दत्वरूपविशेषणादेव व्यावृत्तिरभिहिता । अन्यथा वाक्यमिति प्रत्यक्षस्य व्युदास इत्याद्यवक्ष्यत् । न चैवं सति प्रमाणलक्षणोक्तागमलक्षणस्य ब्रह्मतर्कानुसारित्वं न स्यादिति वाच्यम् । वाक्यत्वस्य लक्षणशरीरप्रवेशेऽपि ब्रह्मतर्कोक्तवाक्यात्मैव शब्द आगम इत्यभ्युपगमेन ब्रह्मतर्कानुनारित्वसिद्धेरिति ।