नित्यसमः
(६६) प्रमाणपद्धतिः
॥ नित्यसमः ॥ विशेषणधर्मस्य तदतद्रूपताविकल्पेन धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमः । यथा शब्दोऽनित्य इत्युक्तेऽनित्यत्वं नित्यमनित्यं वा । आद्ये धर्मिणो नित्यत्वा पातः । द्वितीये तन्नाशे पुनः शब्दस्य नित्यत्वापत्तिरित्यादि । अत्र स्वपक्षे निर्वाहान्तरविवक्षया परपक्षे दौर्घट््यापादने तात्पर्यं चेत्सदुत्तरमेव । विशिष्टस्वरूपनिराकरणं चेत्तदादौ निर्वाहो वाच्यः । तदनभ्युपगमेन प्रवृत्तस्य स्वन्यायस्वक्रियाविरोधाविति ।
जयतीर्थविजय
स्वपक्षे स्वस्य प्रतिवादिनः पक्षे । शब्दनित्यत्व इत्यर्थः । परपक्षे शब्दानित्यत्वपक्ष इत्यर्थः ॥ विशिष्टेति । अनित्यत्वविशिष्टशब्दस्वरूपेत्यर्थः ॥ निर्वाहो वाच्य इति । शब्दनित्यत्ववादिनेति शेषः ॥ स्वन्यायेति । एवं धर्मधर्मिभावनिरासे शब्दादेर्नित्यत्वं भिन्नमभिन्नं वेति जातेरेवानुत्थानात्स्वन्यायविरोध इत्यर्थः ॥ स्वक्रियेति । उक्तविकल्पेन धर्मधर्मिभावस्यालीकत्वेन कृतकत्वहेतुरसाधकस्तर्कपराहतत्वादिति प्रतिषेधहेतुप्रयोगरूपस्वक्रियाविरोध इत्यर्थः ।
भावदीपः
विशेषणधर्मस्य साध्यधर्मस्येत्यर्थः । धर्मिणो विशेषस्य ॥ धर्मिणोऽपि नित्यत्वापात इति । नित्यधर्माश्रयस्यानित्यत्वायोगादिति भावः । इत्यादीत्यादिपदेन नित्यत्वं शब्दाद्भिन्नमभिन्नं वा । आद्येऽनवस्थापत्त्या भिन्नानित्यत्ववैशिष्ट्यभङ्गः । शब्दस्य तदभिन्नत्वे तु न सुतरां तद्वैशिष्ट्यमित्यादिग्रहः । तथैव वरदराजोक्तेः ॥ अत्रेति । नित्यधर्म इत्यस्य दौर्घट्यापादान इत्यन्तेनान्वयः । स्वपक्षे नित्यत्वपक्ष इत्यर्थः ॥ विशिष्टस्वरूपेति । विशिष्टपदार्थमात्र (त्वेन) खण्डनतात्पर्यं चेदित्यर्थः ॥ तदादाविति । तदा तस्मिन्पक्षेऽनित्यत्वस्य ध्वंसप्रतियोगित्वरूपतया तस्य नित्यत्वेऽपि नित्यधर्माश्रयस्य नित्यत्वमिति न नियमः । जात्याश्रयस्य घटादेरनित्यत्वदृष्टेरित्यादिरूपेण जातिवादि विकल्पितकोट्योरन्यतरकोटेरादौ व्याघातोक्तेः पूर्वं निर्वाहो वाच्य इत्यर्थः ॥ तदनभ्युपगमेनेति । उक्तनिर्वाहानभ्युपगमेन दूषणे प्रवृत्तस्येत्यर्थः ॥ स्वन्यायेति । वादिसाधनं कृतकत्वं न साध्यसाधकं तर्कपराहतत्वादिति जातिवाद्युक्तप्रतिषेधहेतावपि साध्यसाधकत्वं धर्मितो भिन्नमभिन्नं वा । आद्येऽनवस्थापत्त्या भिन्नसाध्यासाधकत्वाभावः । द्वितीये धर्मधर्मिभावायोगेन कृतकत्वं नासाधकत्ववदित्यपि सुवचत्वात्स्वन्यायविरोधः । विशिष्टवस्तुमात्रमपाकुर्वन्स्वाभिमतासाधकत्वरूपसाध्यवैशिष्ट्यसाधनाय प्रवर्तत इति स्वक्रियाविरोधश्चेत्यर्थः ।
श्रीविजयीन्द्रतीर्थ
॥ स्वस्वरूपेति । उपलब्धिश्चेदुपलब्धिविषयत्वेन घटादितुल्यत्वम् । स्वस्वरूपेऽनुपलब्धित्वेऽभिव्यक्तावपीत्यर्थः ।
श्रीवेदेशभिक्षु
विषयापेक्षयाऽप्युपलब्धितानिरासे चैतद्विषयकोपलब्धिजननाय शब्दप्रयोगरूपस्वक्रियाविरोधोऽपि न हि सम्भवति । उपलब्धिः स्वातिरिक्तार्थेऽपि नोपलब्धिरिति वदति । तादृशार्थोपलब्धये शब्दव्यवहारं च करोतीति स्वरूपेणैतज्जातिप्रवृत्तिप्रकारमुदाहरति ॥ यथेति ॥ आद्य इति । न हि धर्मो नित्यो धर्मो चानित्य इति युज्यत इति भावः ॥ नित्यत्वापत्तेरिति । अनित्यत्वनाशे नित्यत्वापत्तेरावश्यकत्वादिति भावः । स यथा । अनित्यत्वं शब्दाद्भिन्नमभिन्नं वा आद्येऽनवस्था । द्वितीयेऽन्यतरमात्रावशेष इत्यादि । आदिपदेन वैरूप्येणाप्येतज्जातिप्रवृत्तिप्रकारं सङ्गृह्णाति ॥ सदुत्तरमेवेति । स्वव्याहतेरभावादिति भावः ॥ विशिष्टस्वरूपेणेति । वैरूप्येण प्रवृत्तावुक्तरीत्याऽस्या जातेर्विशिष्टस्वरूपमात्रे स्वरूपनिराकरणेऽपि प्रयोगसम्भवादिति भावः । अत एवाह परः । उपलक्षणं नामैतत् । नित्यसमेत्यन्वर्थसंज्ञा तूपरञ्जकधर्मसम एवेति । ततश्च नित्यानित्यभिन्नाभिन्ने कार्याकार्ये श्रितानाश्रितसत्यासत्यसन्दिग्धासन्दिग्धे इत्याद्या विकल्पक्रमाः सङ्गृहीता भवन्तीति ॥ निर्वाह इति । तर्कस्य व्याप्त्याद्यभावाद्युक्ताङ्गहानिरिति वक्तव्यमित्यर्थः । तदनभ्युपगमे च निर्वाहप्रकारानभ्युपगमे । धर्मधर्मिभावमात्रापलापेन जातेरप्यनुत्थानात्स्वन्यायविरोधः । विशिष्टं नास्तीति वाक्यार्थस्यापि विशिष्टरूपत्वेन स्वक्रियाविरोधश्चेति भावः ।
अभिनवामृतम्
॥ धर्मिण इति । धर्म्यभावे धर्मायोगात्तन्निर्वाहाय प्रथमं धर्मिणो नित्यत्वं वाच्यम् । तस्मिन्सति नानित्यतावैशिष्ट्यं विरुद्धत्वादिति भावः ॥ द्वितीये तन्नाश इति । अनित्यत्वमनित्यत्वमिति वदता धर्मिणो नित्यत्वं वाच्यम् । परस्परविरुद्धयोरन्यतरप्राप्तिं विनाऽन्यतरनिवृत्त्ययोगात् । तस्मिन्सत्यनित्यः शब्द इति रिक्तं वचः स्यादिति भावः । साध्यधर्मस्य तदतद्रूपताविकल्पेन प्रत्यवस्थानं पाक्षिकजयहेतुरुत्थानबीजम् । बाधितविषयत्वमारोप्यम् ॥ अत्र स्वपक्ष इति । अनित्यत्वमनित्यत्वमेव किं नाम धर्मिणा सहैव नश्यति । न चैवं सति तन्नाशे धर्मिणो नित्यत्वं प्राप्नोति । सत्येव धर्मिणि परस्परविरुद्धयोरेकस्य निवृत्तावपरस्य प्राप्तिरिति नियमादिति स्वमनसि समाधानं कृत्वा वादिपक्षे दौर्घट्यव्युत्पादनमात्रे तात्पर्यं चेत्सदुत्तरमेवेत्यर्थः ॥ विशिष्टस्वरूपेति । परचित्तवर्तिनो निर्वाहानभ्युपगमस्याद्यापि ज्ञातुमशक्यत्वात्प्रागुक्तदिशा निर्वाह एव वाच्यो न जातित्वमित्यर्थः । तदनभ्युपगमेनेति । अभिप्रायाविष्करेण तु जातित्वं वक्तव्यम् । किं नाम जातिवादिना स्वाभ्युपगमघटाद्यनित्यतानिर्वाहाय पूर्वोक्तनिर्वाहस्याभ्युपगमात्तत्प्रतिबन्दीविरोध इत्यर्थः । तथा शब्दोत्पादनाय स्वानुष्ठीयभेरीताडनादिक्रियाविरोधः । नित्यस्योत्पादनायोगेन तदुत्पादनक्रियाया नित्यत्वविरोधादिति स्वन्यायविरोधः स्वक्रियाविरोधः स्वेच्छया वक्तव्य इत्यर्थः ।
श्रीविट्टलभट्ट
॥ विशेषणधर्मस्य तदतद्रूपताविकल्पेनेति । विशेषणरूपसाध्यसमस्य तद्रूपस्य तद्रूपत्वाभावविकल्पेन धर्मिणस्तद्विशिष्टत्वनिराकरणमित्यर्थः । प्रमाणबाधेन तद्विशिष्टत्वभङ्गवारणाय विशेषणस्य तदतद्रूपताविकल्पेनेति विशेषलक्षणं लक्ष्ये दर्शयति ॥ यथेति ॥ धर्मिणो नित्यत्वापात इति । निराश्रयस्य सत्त्वायोगादिति भावः । तन्नाशेऽनित्यत्वस्य नाश इत्यर्थः ॥ शब्दस्य नित्यत्वोपपत्तिरिति । नित्यत्वविरुद्धस्यानित्यत्वाभावे नित्यत्वस्यावश्यम्भावाद्धर्मिणो नित्यत्वापत्तिरिति भावः ॥ इत्यादीति । अनित्यत्वं शब्दाद्भिन्नमभिन्नं वा । आद्येऽनवस्थाप्रसङ्गाद्भिन्नानित्यत्वभङ्गः । द्वितीये तस्य वृत्तित्वाभावाद्भङ्ग्यन्तरेण शब्दस्यानित्यत्वं नास्तीत्यापात इत्यादिरादिशब्दार्थः ॥ अत्रेति । एवं धर्मिणः शब्दस्यानित्यत्वविशिष्टत्वभङ्गापादने कृते तदापादनं सदुत्तरमेव न जातिरिति वाच्यमित्यर्थः । स्वपक्षे शब्दनित्यत्वपक्षे निर्वाहान्तरविवक्षया नित्यत्वं नित्यमनित्यं चेति विकल्प्याद्यदूषणस्य परिहारं वक्ष्यामीत्याशयेन परपक्षे शब्दानित्यत्वपक्षे दौर्घट्यापादनेऽयुक्तत्वप्रसञ्जन इत्यर्थः । एतदापादनं सदुत्तरमेव न जातिरिति वाच्यमित्यर्थः ॥ तदनभ्युपगमेन प्रवृत्तस्येति । क्वचिदपि पक्षे निर्वाहानङ्गीकारेण दूषणे प्रवृत्तस्य तु स्वन्यायविरोधस्वक्रियाविरोधौ स्यातामित्यर्थः । अत्र वादिसाधनं कृतकत्वं साध्यसाधकं न प्रतितर्कपराहतत्वादिति परस्य विवक्षितम् । असाध्यसाधकत्वं भिन्नमभिन्नं वा । आद्येऽनवस्थाप्रसङ्गात् । भिन्नस्य तस्य तत्राभावः । द्वितीये तत्र साध्यसाधकत्वाभावेन तद्विरोध साधकत्वप्राप्तेः साध्यसाधकत्वभङ्ग इत्यादिरूपेण परदूषणस्यापि दूषणसम्भवादस्य स्वन्यायविरोधत्वं शिष्टमात्रं निराकुर्वन्साध्यसाधकत्वविशिष्टस्य साधनाय प्रवर्तत इति स्वक्रियाविरोधत्वं चेत्यभ्युपगतत्वादस्यान्तर्भाव इत्यनुसन्धेयम् ।