४२ (६२)

अविशेषसमः

(६२) प्रमाणपद्धतिः

॥ २० ॥ (२) (१८) ॥ अविशेषसमः ॥ साधनप्रतिबन्द्या तदितरधर्मेण तद्वतां सर्वपदार्थानामविशेषापादनमविशेषसमः । यथा यदि धूमवत्त्वात्पर्वतमहानसयोरग्निमत्त्वाविशेषः । तदा सर्वभावानां सत्त्वादनित्यत्वाविशेषप्रसङ्ग इति । अत्र व्याप्त्यादिसदसद्भावाभ्यां विशेषान्न प्रतिबन्दीग्रहणमित्युत्तरं वाच्यम् । तदनङ्गीकारेण प्रवृत्तस्य स्वन्यायविरोध इति ।

जयतीर्थविजय

॥ साधनप्रतिबन्द्येति । उत्कर्षसमव्यावृत्त्यर्थं तदितरधर्मेणेति पदम् । तद्वतां साधनेतरधर्मवतामित्यर्थः । एतदेवोक्तं वरदराजेन ।

धर्मेणैकेन केषाञ्चिदविशेषप्रसञ्जनम् ।

साधनप्रतिबन्द्या यत्सोऽविशेषसमो मत ॥ इति ।

सर्वभावानामिति । सर्वपदार्थानामित्यर्थः ॥ अविशेषप्रसङ्ग इति । तथा च तर्कपराहतो वादिहेतुरिति भावः । स्वव्याहतिं वक्तुमुत्तरकथाप्रवृत्तिमाह ॥ अत्रेत्यादिना वाच्यमित्यन्तेन ॥ तदनङ्गीकारेणेति । व्याप्तिसदसद्भावाभ्यां विशेषमङ्गीकुर्वाणस्येत्यर्थः ॥ स्वन्यायेति । प्रतिषेधहेतावपि पदार्थत्वाविशेषादसाधकत्वापत्तेरिति भावः ।

भावदीपः

॥ अनित्यत्वाविशेषप्रसङ्ग इति । तथा च वाद्युक्तहेतुरप्रयोजक इति भावः ॥ स्वन्यायेति । वादिसाधनमसाधकमप्रयोजकत्वादप्रयोजकहेत्वाभासवदिति जातिवाद्युक्तप्रतिषेधहेतावपि यद्यप्रयोजकत्वाद्धेतोः पक्षदृष्टान्तयोरसाधकत्वाविशेषस्तर्हि प्रमेयत्वाविशेषात्सर्वं नित्यं स्यादित्यपि सुवचत्वात्स्वन्यायविरोध इत्यर्थः ।

श्रीवेदेशभिक्षु

॥ उत्तरं वाच्यमिति । तथा च कृतौ ज्ञप्तौ च पूर्वं साध्यसत्त्वमनुपयोगि किन्तु तज्ज्ञानमेवातो युक्ताङ्गाधिकत्वमेवेति भावः ॥ अत्रेति । तथा च युक्ताङ्गहानिरिति द्रष्टव्यम् । उत्कर्षसमव्यवच्छेदाय तदितरधर्मेणेति । वादिसाधनव्यतिरेकधर्मेणेत्यर्थः ।

अभिनवामृतम्

॥ साधनप्रतिबन्द्येति । साधनप्रतिबन्द्या साधनेतरधर्मेण तद्वतां सर्वापाद्यानां तत्सहचरितधर्मवत्तयाऽविशेषापादनमविशेषसम इत्यर्थः । विद्यमानमपि व्याप्तिसदसद्भावाभ्यां विशेषमनादृत्य प्रतिबन्द्या प्रत्यवस्थानं पाक्षिकजयहेतुरुत्थानबीजम् । असाधकमारोप्यम् ॥ स्वन्यायेति । अन्नमिष्टसाधनमन्नत्वादित्यनुमाने यद्यन्नमिष्टसाधनं स्यात्तर्हि सत्त्वात्सर्वभावानामनित्यत्वं स्यादित्यति प्रसङ्गपरिहाराय व्याप्तिसदसद्भावाभ्यां विशेषस्य परेणाङ्गीकृतत्वात्प्रतिबन्दीविरोध इत्यर्थः ।

श्रीविट्टलभट्ट

॥ साधनप्रतिबन्द्येति । साधनेन पक्षदृष्टान्तयोरविशेषापादनरूपे उत्कर्षसमेऽतिव्याप्तिवारणाय तदितरे साधने व्यतिरिक्तेनेत्युक्ततदितरधर्मेण साधनेतरधर्मवतामविशेषापादने बीजप्रदर्शनार्थसाधने प्रतिबन्द्येत्युक्तम् । न तु तद्विशेषणं लक्षणशरीरप्रविष्टम् ॥ अत्रेति । एवमविशेषापादने कृत इत्यर्थः । अस्या इत्युत्तरं वाच्यमित्युत्तरेणान्वयः । व्याप्त्यादिसदसद्भावाभ्यामबाधितविषयत्वादिरादिशब्दार्थः । साध्यवदितरधर्मेण व्याप्त्या बाधितविषयत्वादिसद्भावासद्भावाभ्यां विशेषाद्वैलक्षण्यात् साधनप्रतिबन्द्युपपादनं सम्भवतीत्युत्तरं वक्तव्यमित्यर्थः ॥ तदनङ्गीकारेण प्रवृत्तस्येति । तस्य व्याप्त्यादेरनङ्गीकारेण प्रतिबन्दीग्रहणेन प्रवृत्तस्य स्वन्यायविरोधो भवतीत्यर्थः । अत्र वादिसाधनं स्वसाध्यसाधकं न अप्रयोजकत्वात्सम्मतवदिति जातिवादिनो विवक्षितम् । अस्यापि हेतोरुक्तन्यायेन निराकरणसम्भवादविशेषसमः स्वन्यायविरोधान्तर्गत इति ज्ञेयम् ।