विकल्पसमः
(५२) प्रमाणपद्धतिः
॥ २० ॥ (२) (७) विकल्पसमः । धर्माणां धर्मान्तरव्यभिचारदर्शनेन साधनस्यापि साध्यव्यभिचारचोदनं विकल्पसमः । यथा कृतकत्वाविशेषेऽपि किञ्चिन्मूर्तं दृष्टं घटादि किञ्चिदमूर्तं रूपादि तथा कृतकमपि किञ्चिन्नित्यं किञ्चिदनित्यं किं न स्यादिति । अत्र शङ्कामात्रं चेत्सदुत्तरमेव । उपाध्यभावादिना समाधेयं धर्मान्तरव्यभिचारेणास्यापि व्यभिचार साधनं चेद्धर्मान्तरव्यभिचारो हेतुर्वा स्याद्दृष्टान्तो वा । आद्ये व्याप्त्यभावो वक्तव्यः । द्वितीये हेत्वभावान्न्यूनम् । हेतोरनङ्गत्वादिहेत्वङ्गीकारे प्रतिदृष्टान्तसमसाङ्कर्यम् । धर्मत्वादिहेत्वङ्गीकारे व्याप्त्यभाव एव । तदनङ्गीकारे तु स्वन्यायविरोध इति ।
जयतीर्थविजय
॥ धर्माणामिति । हेतूकृतानां तदतिरिक्तानां वा केषाञ्चिद्धर्माणामिति भावः ॥ मूर्तमिति । परिच्छिन्नपरिमाणोपेतमित्यर्थः ॥ अमूर्तमिति । परिच्छिन्नपरिमाणयोगरहितमित्यर्थः । एतदेवाह वरदराजोऽपि ।
धर्मस्यैकस्य केनापि धर्मेण व्यभिचारतः ।
हेतोश्च व्यभिचारोक्तिर्विकल्पसमजातित ॥ इति ।
असामर्थ्यद्वयं दर्शयितुमुत्तरकथाप्रकारमाह ॥ उपाध्यभावादिनेति । आदिशब्देन विपक्षे बाधकस्तर्को गृह्यते ॥ हेतुर्वा स्यादिति । कृतकत्वमनित्यत्वव्यभिचारि मूर्तत्वव्यभिचारित्वादिति हेतुरित्यर्थः । दृष्टान्तो वेति । कृतकत्वमनित्यत्वव्यभिचारि यथा मूर्तत्वव्यभिचारीति दृष्टान्तो वेत्यर्थः । व्याप्त्यभाव इति । यत्र मूर्तत्वव्यभिचारित्वं तत्रानित्यत्व व्यभिचारित्वमिति व्याप्त्यभाव इत्यर्थः ॥ प्रतिदृष्टान्तेति । अनङ्गत्वधिया हेतोः प्रतिदृष्टान्तमात्रतः । प्रत्यवस्थानमाचख्युः प्रतिदृष्टान्तलक्षणमिति तल्लक्षणादिति भावः ॥ तदनङ्गीकार इति । व्याप्तेरङ्गत्वानङ्गीकार इत्यर्थः ॥ स्वन्यायविरोध इति । कृतकत्वं न साध्यसाधकम् । अनैकान्त्यादिति हेतोरपि धर्मत्वादिहेतुना साध्यव्यभिचारापत्त्या व्याघात इत्यर्थः ।
भावदीपः
॥ धर्माणामिति । धर्मस्यैकस्य केनापि धर्मेण व्यभिचारतो हेतोः स्वव्यभिचारोक्तिर्विकल्पसमजातितेत्युक्तदिशा धर्मस्येति वाच्ये बहुवचनोक्तेरयमर्थः । हेतुभूतधर्मस्य धर्मान्तरेण धर्मान्तरस्य साध्यधर्मेण धर्मान्तरस्य धर्मान्तरेण वा व्यभिचारदर्शनेनेति ध्येयम् । एतच्च सदुत्तरव्यावृत्त्यर्थमुक्तम् । तत्राद्यमात्रस्योदाहरणमाह ॥ यथा कृतकत्वेति । यथा कृतकत्वं मूर्तत्वामूर्तत्वधर्माभ्यां रूपादौ घटादौ व्यभिचरिततया दृश्यते । तथा नित्यत्वानित्यत्वे च धर्मौ स्थलभेदेन व्यभिचरेदेवं च शब्दोऽनित्यः कृतकत्वादित्यत्र शब्देऽनित्यत्वमपि किं न व्यभिचरेदित्यर्थः । उपाध्यभावादिनेत्यादिपदेनानुकूलतर्कग्रहः ॥ हेतुर्वा स्यादिति । कृतकत्वस्य मूर्तत्वादिधर्मान्तरव्यभिचाराद्धेतोरनित्यत्वव्यभिचारोऽपि स्यादिति साधनं वा तद्-व्यभिचारवदनित्यत्वव्यभिचारोऽपीति दृष्टान्तेन साधनं वेत्यर्थः ॥ प्रतिदृष्टान्तेति । प्रतिदृष्टान्तमात्रेण प्रत्यवस्थानरूपत्वेन तल्लक्षणस्य वक्ष्यमाणत्वादिति भावः ॥ धर्मत्वादीति । कृतकत्वमनित्यत्वव्यभिचारि धर्मत्वात् । वस्तुत्वाद्वा । अनित्यत्वव्यभिचार्यमूर्तत्ववदिति हेत्वङ्गीकारे व्याप्तिरूपयुक्ताङ्गहीनत्वं वाच्यमित्यर्थः । तदनङ्गीकारे व्याप्त्यनङ्गीकारे त्वित्यर्थः । कृतकत्वं न साध्यसाधकम् । व्यभिचारित्वात् । वह्न्यसाधकप्रमेयत्वहेतुवदिति जातिवाद्युक्तप्रतिषेधानुमानेऽपि प्रमेयत्वस्य घटत्वादिधर्मव्यभिचारात् । त्वदुक्तव्यभिचारित्वादित्युक्त हेतुरप्यसाधनरूपसाध्यव्यभिचारी स्यादिति स्वन्यायेनैव स्वस्य विरोध इत्यर्थः ।
श्रीविजयीन्द्रतीर्थ
॥ न्यूनमिति । हेत्वनुक्तेरिति भावः ॥ प्रतिदृष्टान्तेति । प्रतिदृष्टान्तेनैव प्रत्यवस्थानादिति भावः ॥ साध्यवदिति । पक्षवदित्यर्थः ।
श्रीवेदेशभिक्षु
॥ धर्माणामिति । अत्र व्यभिचारदर्शनेनेत्यस्यायमर्थः । साधनस्य धर्मान्तरेण धर्मान्तरस्य साध्यधर्मेण धर्मान्तरस्य धर्मान्तरेण वा व्यभिचारदर्शनेनेति । अत्रोपाधिव्यभिचारदर्शनेन साधनस्य साध्यव्यभिचारस्वन्यायविरोधचोदनेन सदुत्तरेऽतिव्याप्तिपरिहाराय व्यभिचारदर्शनेनेत्यन्तम् । तथा चानुपाधिरूपयत्किञ्चिद्धर्मव्यभिचारदर्शनहेतुकं हेतोः साध्यव्यभिचारचोदनं विकल्पसमजातिरित्युक्तं भवति । उक्तक्षणत्वेन साधनस्य धर्मान्तरेण व्यभिचारदर्शनेन साध्यव्यभिचारचोदनमुदाहरति ॥ यथेति ॥ धर्मान्तरव्यभिचारेणेति । उक्तव्यभिचारत्रयेणेत्यर्थः ॥ प्रतिदृष्टान्तेति । तत्रापि प्रतिदृष्टान्तेनैव प्रत्यवस्थानादिति भावः ।
अभिनवामृतम्
॥ धर्माणामिति । धर्मान्तरस्य धर्मान्तरेण व्यभिचारं प्रदर्श्य साध्यसाधनयोर्व्यभिचारचोदने पाक्षिकजयबुद्धिहेतुर्व्याप्यत्वासिद्धत्वमारोप्यम् ॥ सदुत्तरमेवेति । प्रष्टव्यप्रश्न एव न जातिरित्यर्थः । एतेन शङ्काया अनुत्तरत्वाच्छङ्कामात्रं चेत्सदुत्तरमेवेत्युक्तमयुक्तमिति परास्तम् । प्रश्नत्वेऽपि कुतो न जातित्वमित्यत आह ॥ उपाध्यभावादिनेति । पराजयहेतुत्वाभावान्निग्रहस्थानत्वमेव नास्ति । कुतो जात्युत्तरमिति भावः ॥ धर्मान्तरव्यभिचारेणेति । व्यभिचारदर्शनेनेत्यर्थः । धर्मान्तरव्यभिचारदर्शनेनास्यापि व्यभिचारसाधनं चेद्वक्तव्यमित्यर्थः । किं वक्तव्यमित्यत आह ॥ धर्मान्तरव्यभिचार इति । लक्षणपर्यालोचनया धर्मान्तरव्यभिचारस्य हेतुत्वं तावद्गम्यते । अधोदेशे नदीपूरदर्शनेनोर्ध्वदेशवृष्ट्यनुमानमिति वाक्यान्नदीपूरस्य हेतुत्वावगतिदर्शनात् । तथा दृष्टान्तत्वमपि गम्यते । देवदत्तदर्शनेन यज्ञदत्तं ज्ञातवानित्यादिवाक्याद्देवदत्तस्य दृष्टान्तत्वावगतिदर्शनात् । न च निर्णायकादर्शनमिति सन्देहसद्भावप्रश्नः । लक्षणवाक्यलब्धव्यभिचारस्य दृष्टान्तत्वं न महानसादिवन्मुख्यम् । अपि तु साध्योपस्थितिहेतुविषयत्वमात्ररूपं पारिभाषिकम् । एतेन धर्मान्तरव्यभिचारस्य लक्षणपर्यालोचनया हेतुत्वनिर्णयेन संशयाभावात्प्रश्नोऽनुपपन्न इति परास्तम् । लक्षणपर्यालोचनयैवोक्तदिशा संशयलाभात् । तथोदाहरणवाक्ये किञ्चित्पदोक्तयोर्मूर्तामूर्तयोर्यथा तथाशब्दसमभिव्याहारेण दृष्टान्तत्वमात्रप्रसक्तिसद्भावेऽपि न धर्मान्तरव्यभिचारस्य तत्प्रसक्तिः । यथा तथाशब्दसमभिव्याहाराभावात् । अनित्यत्वव्यभिचाररूपसाध्यनिश्चयस्य तत्राभावाच्चेति परास्तम् । लक्षणवाक्येन पारिभाषिकदृष्टान्तत्वलाभाङ्गीकारेण मुख्यदृष्टान्तत्वलाभ इत्यनङ्गीकारात् । अत एव साध्यसाधनवैकल्यादिदृष्टान्तदोषो नाभिहितः ॥ व्याप्त्यभाव इति । आदौ व्याप्त्यभाव एव वक्तव्यो न जातित्वम् । परचित्तवर्तिनो व्याप्त्यनभ्युपगमस्याद्यापि ज्ञातुमशक्यत्वादिति भावः ॥ हेतोरनङ्गत्व इति । तदा जातित्वं वक्तव्यम् । किं नाम प्रतिदृष्टान्तसम एव वक्तव्यः । न तु विकल्पसम इति प्रभेदान्तरं कल्पनीयमिति भावः ॥ स्वन्यायविरोध इति । स्वाभिमतप्रमेयान्तरं निर्वाहव्याप्तेः परेणाङ्गीकारात्तत्प्रतिबन्दीविरोध इत्यर्थः ।
वाक्यार्थमञ्जरी
॥ धर्मत्वादिहेतुत्वाङ्गीकार इति । अनित्यत्वं कृतकत्वव्यापकं न भवति । धर्मत्वान्मूर्तत्ववदिति साधन इत्यर्थः ॥ स्वन्यायविरोध इति । प्रतिवादिना ह्युक्तरीत्या कृतकत्वस्यानित्यत्वव्यभिचारित्वमभिधाय नेदं कृतकत्वं साध्यसाधकमनैकान्तिकत्वात् । धूमसाधनवह्निवदिति वादिसाधनस्यासाधकत्वं साधनीयम् । तत्रापि व्यभिचारो वक्तुं शक्यते । तथा हि । अनैकान्तिकत्वाविशेषेऽपि किञ्चिद्द्रव्यं दृष्टम् । वह्न्यादि किञ्चिद्द्रव्यं प्रमेयत्वादि । तथाऽनैकान्तिकमपि किञ्चित्साध्यसाधकं किञ्चिदसाधकं किं न स्यात् । एवं च धर्मत्वासाध्यसाधकत्वमनैकान्तिकत्वाव्यापकमेव । न चात्र व्याप्तिर्नास्तीति वाच्यम् । तदनावश्यकत्वस्य त्वयैवोक्तत्वादिति । तथा च धर्मान्तरव्यभिचार एव प्रयोजकः किं व्याप्त्येति तद्वाक्यन्यायेन नेदं कृतकत्वं साधनाङ्गमित्यादितद्वाक्यस्य विरोधात् स्वन्यायविरोधान्तर्भाव इति भावः ।
श्रीविट्टलभट्ट
॥ धर्माणां धर्मान्तरव्यभिचारदर्शनेनेति । अत्र षष्ठ्यन्तधर्मपदहेतुरूपधर्मपरम् । धर्मान्तरपरं च हेतुरूपधर्मस्य धर्मान्तरेण वा धर्मान्तरस्य साधर्म्येण वा धर्मान्तरस्य धर्मान्तरेण वा व्यभिचारदर्शनेन हेतोरपि साध्यव्यभिचारचोदनं विकल्पसमजातिरित्यर्थः । सद्दूषणानैकान्तिकोद्भावनव्यवच्छेदाय तृतीयान्तं विशेषणम् । तत्र हेतोर्धर्मान्तरव्यभिचारदर्शनेन साध्यव्यभिचारचोदनस्योदाहरणमाह ॥ यथा कृतकत्वाविशेषेऽपीति ॥ अत्र शङ्कामात्रं चेदिति । चेच्छब्दो यद्यर्थे । अत्र धर्माणां धर्मान्तरव्यभिचारदर्शनेन साधनस्य साध्यव्यभिचारचोदने कृते तच्चोदनं यदि हेतोः साध्यव्यभिचारशङ्कामात्रं तर्ह्युत्तरमेव न जात्युत्तरमित्यर्थः । मात्रपदं व्यभिचारसाधननिवृत्तिपरम् । ननु यदीदं सदुत्तरं तर्हि सदनुमानजातमुष्णं स्यात् । एतादृशशङ्कायाः सर्वत्र सम्भवादित्यत आह ॥ उपाध्यभावादिनेति । व्यभिचारस्योपाधिव्याप्तत्वात् कृतकत्वस्यानित्यत्वरूपसाध्यसम्बन्धउपाध्यभावेन वाऽऽदिपदोक्तानुकूलतर्केण वा तत्परिहरणीयमित्यर्थः ॥ धर्मान्तरव्यभिचारेणास्यापीति । सम्बन्धसामान्ये षष्ठी । कृतकत्वरूपसाधनस्य मूर्तत्वरूपसाधर्म्यान्तरव्यभिचारेणानित्यत्वरूपसाध्यस्यापि व्यभिचारसाधनं नित्यत्वरूपसाध्यसम्बन्धिव्यभिचारसाधनं यदि क्रियते तर्हीति शेषः । धर्मान्तरस्य व्यभिचारो धर्मान्तरनिरूपकहेतुर्वा स्याद् दृष्टान्तो वा स्यादिति योज्यम् । आद्ये धर्मान्तरव्यभिचारो हेतुरिति पक्षे धूमे महानसत्वरूपधर्मान्तरव्यभिचारस्य साध्याव्यभिचारेण साध्येन व्याभिचाराद् व्याप्त्यभावो वाच्य इत्यर्थः ॥ द्वितीय इति । धर्मान्तरव्यभिचारो दृष्टान्त इति । पक्षे हेत्वभावान्न्यूनं वाच्यमिति योज्यम् । हेतोरनङ्गीकारे प्रतिदृष्टान्तसमसाङ्कर्यमिति प्रतिदृष्टान्तेन प्रत्यवस्थानं प्रतिदृष्टान्तसम इत्यनेन चोक्तस्य प्रतिदृष्टान्तसमलक्षणस्यामूर्तत्वरूपधर्मान्तरेण व्यभिचारः । तथा साध्यानित्यत्वेन व्यभिचारसाधने धर्मवत्त्वादिति हेत्वङ्गीकारे धर्मवत्त्वस्य पटत्वादौ साध्यानित्यत्वव्यभिचारदर्शनाद्य्वाप्त्यभाव एव वक्तव्यम् । न तु स्वन्यायविरोध इत्यर्थः । परचित्तवर्तिनो व्याप्त्यनङ्गीकारस्य प्राकृतज्ञानस्याशक्यत्वादिति भावः ॥ तदनङ्गीकार इति । तस्याव्याप्तेः साधनाङ्गतयाऽनङ्गीकाराभिधानं स्वन्यायविरोधो भवतीत्यर्थः । नेदं कृतकत्वं स्वसाध्यसाधकं साध्यव्यभिचारित्वादनित्यत्वसाधनसाधकप्रमेयत्ववदिति । तस्य प्रतिषेधहेतोर्धर्मान्तरेण केवलान्वयिधर्मत्वेना नित्यत्वसाधके गुणवत्त्वादौ व्यभिचारदर्शनेन साध्यासाधकव्यभिचारचोदनत्वसम्भवात्स्वोक्तन्यायेन स्वविवक्षितप्रतिषेधहेतुदूषणस्यापि सुवचत्वादियं जातिः स्वन्यायविरोध इत्यवगन्तव्यम् ।