प्रमाणपद्धतिर्
निग्रहस्थानानि
(२४) प्रमाणपद्धतिः
तानि च ॥ १ ॥ प्रतिज्ञाहानिः ॥ २ ॥ प्रतिज्ञान्तरम् ॥ ४ ॥ प्रतिज्ञाविरोधः ॥ ४ ॥ प्रतिज्ञासन्न्यासः ॥ ९ ॥ हेत्वन्तरम् ॥ ६ ॥ अर्थान्तरम् ॥ ७ ॥ निरर्थकम् ॥ ८ ॥ अविज्ञातार्थम् ॥ ९ ॥ अपार्थकम् ॥ १० ॥ अप्राप्तकालम् ॥ ११ ॥ न्यूनम् ॥ १२ ॥ अधिकम् ॥ १३ ॥ पुनरुक्तम् ॥ १४ ॥ अननुभाषणम् ॥ १५ ॥ अज्ञानम् ॥ १६ ॥ अप्रतिभा ॥ १७ ॥ विक्षेपः ॥ १८ ॥ मतानुज्ञा ॥ १९ ॥ पर्यनुयोज्योपेक्षणम् ॥ २० ॥ निरनुयोज्यानुयोगः ॥ २१ ॥ अपसिद्धान्तः ॥ २२ ॥ हेत्वाभासश्चेति द्वाविंशतिः ।
भावदीपः
तानि निग्रहस्थानानि । वक्ष्यमाणबहुत्वापेक्षया बहुवचनम् ।
श्रीविजयीन्द्रतीर्थ
परोक्तरीत्या तदुद्देश्यमाह ॥ तानीति ।
अभिनवामृतं
तानि चेति । परोदीरितानि चेत्यर्थः ।
श्रीविट्टलभट्ट
नैय्यायिकैरन्यथा परिगणितत्वात्कथमनुक्तनियम इत्याशङ्कावारणाय परोदिरितनिग्रहस्थानमात्रान्तर्भावं वक्तुं तदुक्तविभागमाह ॥ तानि चेति । नैय्यायिकोक्तानीत्यर्थः ।