०२ (९)

प्रमाणपद्धतिः

(९) प्रमाणपद्धतिः

पुनर्द्विविधम् । साधनानुमानं दूषणानुमानं चेति । तत्राद्यं यथा । धूमप्रमित्याऽग्निप्रमितिसाधनम् । दूषणानुमानमपि द्वेधा । दुष्टिप्रमितिसाधनं तर्कश्चेति । तत्राद्यं यथा । नेदं स्वसाध्यसाधनसमर्थम् । प्रमाणबाधितत्वादित्यादि । कस्यचिद्धर्मस्याङ्गीकारेऽर्थान्तरस्यापादनं तर्कः।

जयतीर्थविजय

यदुक्तं प्राक् तर्कोऽनुमानमेवेति वक्ष्याम इति तत्समर्थयितुं प्रकारान्तरेणानुमानं विभजते ॥ दुष्टिप्रमितीति । परोदीरिते दोषप्रमितिसाधनमित्यर्थः ॥ प्रमाणबाधितत्वादित्यादीति । आदिपदेन व्याप्तिविधुरत्वादेः परिग्रहः ॥ कस्यचिदिति । व्याप्यस्येति शेषः ॥ अर्थान्तरस्येति । व्यापकस्येति शेषः।

भावदीपः

तर्कोऽनुमानमेवेति वक्ष्याम इत्युक्तम् । तदीदानीं व्यनक्ति ॥ पुनर्द्विविधमित्यादिना ॥ अग्निप्रमितिसाधनमिति । अग्निप्रमित्युत्पादनमित्यर्थः ॥ दुष्टिप्रमितीति । कार्याक्षमताप्रमितिजनकमित्यर्थः । नेदमिति । वह्निरनुष्णः पदार्थत्वादित्युक्ते परो वक्ति पदार्थत्वादिति त्वदुक्तं साधनं न साध्यसाधनसमर्थमित्यादि । तर्कस्वरूपमाह ॥ कस्यचिदिति । वह्न्यभावादेरर्थान्तरस्य धूमाभावादेरापादनं प्रसक्तताप्रतिपादनमित्यर्थः ।

श्रीविजयीन्द्रतीर्थ

तर्कस्वरूपमाह ॥ कस्यचिदिति । व्याप्यस्येति शेषः । एवमर्थान्तरमपि व्यापकत्वमेवेति द्रष्टव्यम् । तर्कस्यानुमानत्वं वक्तुं विभागान्तरमाह ॥ पुनरिति ॥ दुष्टीति । असाधकत्वेत्यर्थः ।

श्रीवेदेशभिक्षु

॥ साधनानुमानमिति । स्वपक्षसाधकानुमानमित्यर्थः ॥ दूषणानुमानमिति । परपक्षप्रतिक्षेपानुमानमित्यर्थः ॥ दुष्टीति । यद्यपि दुष्टिप्रमितिसाधनत्वं तर्केऽप्यस्ति । तर्कादपि परपक्षायुक्तता प्रमितिः । तथाऽप्यापादनरूपेण तस्य तथात्वमस्य तु साधनरूपेणेति भेदः । अत एवाह ॥ दुष्टिप्रमितिसाधनमिति । परपक्षायुक्तताप्रमितौ साधनरूपमित्यर्थः । इत्यादीत्यादिपदेन प्रमाणलक्षणटीकाद्युदाहृतं नायं निरग्निकमित्यादिकमपि सङ्गृहीतमिति ध्येयम् । इयांस्तु विशेषः । हेत्वयुक्ताप्रमितिसाधनरूपमेकमपरं साध्यायुक्तताप्रमितिसाधनरूपमिति । दुष्टिरसाधकतेति क्वचित् । तदसत् । प्रमाणलक्षणटीकादिगतोदाहरणाव्याप्तेः॥ कस्यचिदिति । व्याप्यस्येति शेषः । एवमर्थान्तरमपि व्यापकमेवानिष्टभूतं द्रष्टव्यम् ।

अभिनवामृतम्

॥ पुनर्द्विविधमिति । त्रिधा विभक्तमनुमानं पुनर्द्विविधमित्यर्थः । अनेन कार्याद्यनुमानानां प्रत्येकं द्वैविध्यमुक्तमित्यवधेयम् ॥ व्याप्यव्यापकभावयोरन्यादृशत्वेऽपीति । दृष्टान्ताभावेन विशेषव्याप्तिग्रहायोगात्सामान्यव्याप्तिर्यत्र गृह्यते तत्सामान्यतो दृष्ट इत्यर्थः । अयमत्र प्रयोगक्रमः । यज्ञादिप्रवृत्तिः स्वर्गफलिका । स्वर्गार्थिपे्रक्षावत्प्रवृत्तित्वात् । या यदर्थिप्रेक्षावत्प्रवृत्तिः सा तदपेक्षितफलहेतुर्यथा कृषीवलस्य कर्षणादिप्रवृत्तिर्धान्यादिफलिकेति साधनानुमानं दूषणानुमानं चेति । यद्यपि दूषणानुमानमपि साधनानुमानमेव । तथाऽपि प्रयोगप्रकारवैचित्र्यात्कुरुपाण्डवन्यायेन पृथगुक्तिः । दूषणानुमानस्य साधनानुमानत्वादेव निर्धूमो भवतीत्यसाधनादिति वक्ष्यति । अन्यथा निर्धूमत्वासाधनादित्यवक्ष्यत् ॥ तत्राद्यं यथेति । तत्राद्यं साधनानुमानं यथा कदा प्रवृत्तं भवतीति ज्ञेयमिति प्रश्न इत्यर्थः । उत्तरमाह ॥ धूमप्रमित्येति । प्रयोक्तृधूमादिति हेतुप्रयोगेण धूमप्रमितिमुत्पाद्य तयाऽग्निप्रमितिसाधनमग्निप्रमित्युत्पादनं क्रियते तदा साधनानुमानं प्रवृत्तमिति बोध्यमिति भावः ॥ नेदं स्वसाध्यसाधनसमर्थमिति । समर्थमित्यतःपरं स्यादिति शेषः । अवश्यं चैतदेवं विज्ञेयम् । अन्यथाऽनुमानस्यास्य धूमानुमानतौल्येन पृथग्विभागो न स्यात् । न हि व्याप्तिपक्षधर्मताग्रहयोर्वैचित्र्यस्याभावे प्रयोगप्रकारवैचित्र्यस्याभावे दुष्टप्रमितिसाधनमित्येतावता भेदो भवति । अन्यथा घटा द्यनुमानानां विधान्तरत्वं स्यादविशेषात् । अनुमानविशेषस्य स्याच्छब्दयोग इत्यनुमतं भाष्यकारस्य ।

वस्तुत्वात्तुरगः ृङ्गी पुष्पवत्खं सुतैर्युता ।

चित्रिणी च रसःषष्ठो रसत्वात्सोत्तरो भवेत् ॥ इत्यभिधानात् ।

नन्वेवं तर्हि दुष्टिप्रमितिसाधनानुमानस्य तर्काद्भेदो न सिध्द्येत् । प्रयोगप्रकारवैचित्र्याभावादिति चेन्न । तत्रापि प्रयोगप्रकारवैचित्र्यसद्भावात् । तथा हि । दुष्टिप्रमितिसाधनानुमाने प्रतिज्ञायामेव स्याच्छब्दप्रयोगः । हेतुवाक्यं साधनानुमानवदेव पञ्चम्यन्तं विपर्ययपर्यवसानाभावस्तर्कोत्पादकं प्रथमतः प्रयोक्तव्यम् । तत्रादौ यदिशब्दोऽन्त्ये तु स्याच्छब्दः । आपाद्यं तु पश्चादापादनीयम् । तत्रादौ तर्हिशब्दोऽन्त्ये तु स्याच्छब्दः । विपर्यये पर्यवसानं चेत्यादिभेद इति । कस्यचिद्धर्मस्याङ्गीकार इति । अप्रामाणिकस्य कस्यचिदर्थस्याङ्गीकारे तद्-व्यापकस्यानिष्टार्थान्तरस्यापादनं तर्क इत्यर्थः ।

आदर्शः

॥ तर्कश्चेतीति । तर्कस्यानुमानरूपत्वे किं मानमिति चेत् । व्याप्तिज्ञानजन्यत्वादिति ब्रूमः । न च संशयोत्तरप्रत्यक्षस्याप्यनुमितित्वापत्तिः । तस्य सन्निकर्षजन्यत्वेन पश्यामीत्यनुभवेनच बाधात् । अत्र च तादृशापवादकप्रमाणाभावात् । आपत्त्या साध्यप्रमित्युत्तरं कल्पयामीत्यनुमितित्वग्राहकानुभवसद्भावाच्च । यथा साध्यप्रमितेर्व्याप्तिज्ञानजन्यत्वं तथोपपादितमनुमितिसामान्यलक्षणकथनावसरे प्रतीतिकार्यविलोपलक्षणानवस्थेति । आपादनप्रकारस्तु यदीदं प्रतीतं कार्यमसिद्धानवस्थितकारणपरम्परासत्ताप्रयोज्यसत्ताकं स्यात्तर्ह्यसत्स्यादिति । यथा भेदस्याज्ञानाधीनत्वपक्षे भेदसापेक्षत्वेना ज्ञानस्य ज्ञानभेदपरम्परायाः प्रमाणान्तरासिद्धत्वेन तत्सत्ताया एवाभेदेन प्रयोजनकत्वेनाङ्गीकृतस्याभावात्तत्प्रयोज्यत्वेनाङ्गीकृत्या भेदसत्ताया अभावेन भेदस्यासत्त्वप्रसङ्ग इति । व्याप्तिस्तु यद्यत्सत्ताप्रयोज्यस्वसत्ताकं तत्तत्सत्ताभावाधिकरणकालवृत्ति । यथा घटसत्ताप्रयोज्यसत्ताकं घटवृत्तिरूपादीति । यथा घटवृत्तिरूपादेर्घटानधिकरणकालवृत्तित्वं दृष्टं तद्वदुक्तपरम्पराया अप्रामाणिकत्वेन सर्वकालस्यापि तदधिकरणभिन्नत्वेन तदवृत्तित्वं सर्वकालसत्त्वमेवेत्यसत्त्वापादनं युक्तमेवेति भेदस्य प्रत्यक्षादिप्रमाणसिद्धत्वादसच्चापादनमनिष्टम् । न च भेदोऽसदिति वक्तुं शक्यत इति विपर्यये पर्यवसानम् । तस्मान्नाज्ञानकल्पित इत्यनुमितिरिति । अथवा यद्यजन्यं प्रयोज्यं वा तत्तदुत्तरत्वानधिकरणकालवृत्ति । यथा घटो दण्डोत्तरत्वानधिकरणकालवृत्तिरिति व्याप्तिः । तदुत्तरत्वं च तदधिकरणक्षणध्वंसाधिकरणत्वम् । तथा चोक्तपरम्पराघटकभेदाद्यधिकरणक्षणाप्रसिध्या तद्धटितोत्तरत्वाप्रसिध्या सर्वकालस्यपि तदनधिकरणत्वेन तदवृत्तित्वापादनमसत्त्वापादनमेवेति बोध्यम् ।

वाक्यार्थमञ्जरी

॥ प्रमितिसाधनमिति । प्रमित्युपपादनमित्यर्थः ॥ प्रमाणबाधितत्वादिति । प्रमाणबाधितप्रतिज्ञार्थवत्त्वादित्यर्थः ॥ आपादनमिति । अङ्गीकार्यतया ज्ञापनमित्यर्थः । ननु व्याप्याङ्गीकारेऽ निष्टव्यापकप्रसञ्जनं तर्क इति प्रमाणलक्षणटीकोक्तलक्षणे व्याप्यादिपदव्यावर्त्यमस्ति न वा । अस्ति चेदत्रापि प्रष्टव्यम् । न चेत्तत्रापि न वक्तव्यमेवेति चेन्न । भावानवबोधात् । सेतिकर्तव्यताकं हि कारणम् । तत्र तर्कः करणधर्मी तस्य च वक्ष्यमाणानि व्याप्त्यादीन्यङ्गानि तत्र करणधर्मिणः प्राधान्यादङ्गेभ्यः पृथक्कृत्यात्रोक्तिः । प्रमाणलक्षणटीकायां च सेतिकर्तव्यताकस्यैवेति न दोषः ।

श्रीविट्टलभट्ट

साधनेति । साध्यतेऽनेनेति व्युत्पत्त्या साधनं स्वपक्षसाधकमनुमानं दूष्यतेऽनेनेति व्युत्पत्त्या परपक्षदूषणात्मकमनुमानं चेत्यर्थः ॥ धूमप्रमित्येति । अग्निप्रमितेरग्निसद्भावप्रमितेः साधनं सिद्धिरुत्पत्तिर्भवतीत्यर्थः । अग्निसाधकं धूमवत्त्वं साधनानुमानमिति भावः । दूषणानुमानमपीति । परपक्षासाधुत्वप्रमितिसाधनमपीत्यर्थः ॥ दुष्टीति । साध्यासाधकत्वरूपदुष्टत्वप्रमितिसाधनमित्यर्थः ॥ प्रमाणबाधितत्वादित्यादीति । अतः प्रतिपक्षत्वादित्यादिरादिशब्दार्थः । तस्यानुमानान्तर्भावज्ञापनाय तत्स्वरूपं निरूपयति ॥ कस्यचिद्धर्मस्येति । व्याप्यस्याङ्गीकारेऽर्थान्तरस्यानिष्टस्य व्यापकस्यापादानमङ्गीकर्तव्यताज्ञापनमित्यर्थः । तदुक्तं प्रमाणलक्षणटीकायाम् । व्याप्याङ्गीकारेऽनिष्टप्रसञ्जनं तर्क इति । विष्णुतत्त्वनिर्णयटीकायां च । व्याप्याङ्गीऽकारेऽनिष्टव्यापकप्रसञ्जनं तर्क इति । प्रसञ्जनमानपादनमित्यनर्थान्तरम् । आपादनं चाङ्गीकार्यताज्ञापनमेव । तदुक्तं सुधायाम् । आपादनं नामाङ्गीकार्यताज्ञापनमिति । यद्ययं पर्वतो निरग्निकः स्यात्तर्हि निर्घटः स्यादितीष्टापादनव्यवच्छेदायानिष्टस्येत्युक्तम् । यद्ययं निर्वह्निः स्यात्तर्हि वृक्षरहितः स्यादित्यनिष्टापादनव्यवच्छेदाय व्यापकस्येत्युक्तम् । एवमपि न तद्-व्यवच्छेदः । वृक्षरहितत्वादेरपि व्यापकत्वात् । न हि वृक्षराहित्यं कस्याप्यव्यापकमिति सम्भवति । अतस्तदापादनेऽप्यतिव्याप्तिस्तदवस्थेति तद्वारणाय व्याप्याङ्गीकार इत्युक्तम् । पितुर्धनं पुत्रो गृह्णीयादित्यत्र पुत्रशब्दस्य तत्पुत्र एव पर्यवसानाद्य्वाप्याङ्गीकारे व्यापकस्यापादनमित्यत्रापि व्यापकशब्दस्य तद्-व्यापके पर्यवसानात्तद्-व्यवच्छेदः । अनिष्टपदं परित्यज्य सर्वस्योक्तौ यद्ययं निर्वह्निः स्यात्तर्ह्याभिधेयः स्यादितीष्टापादनेऽतिव्याप्तिस्तद्-व्यवच्छेदायानिष्टपदोपादानम् । अङ्गपञ्चकयुक्त एव तर्केण प्रतिरोध इत्यर्थः ।