प्रमाणपद्धतिः
(८) प्रमाणपद्धतिस्
त्रिविधमनुमानम् । कार्यानुमानं कारणानुमानमकार्यकारणानुमानं चेति । तत्राद्यं यथा । धूमोऽग्नेः । द्वितीयं यथा । विशिष्टमेघोन्नतिर्वृष्टेः । इयांस्तु विशेषः । कार्यं कारणमात्रमनुमापयति । कारणं तु समग्रमेव कार्यमिति । तृतीयं यथा । रसो रूपस्येति । पुनर्द्विविधम् । दृष्टं सामान्यतो दृष्टं चेति । तत्र प्रत्यक्षयोग्यार्थानुमापकं दृष्टम् । यथा धूमोऽग्नेः । प्रत्यक्षायोग्यार्थानुमापकं सामान्यतो दृष्टम् । यथा रूपादिज्ञानं चक्षुरादेः । अथवा यथा भूतयोर्व्याप्तिग्रहणं तथा भूतयोरेव लिङ्गलिङ्गिभावे दृष्टम् । यथा धूमाग्न्योः । व्याप्यव्यापकयोरन्यादृशत्वेऽपि तत्सामान्याकारानुगमेन लिङ्गलिङ्गिभावे सामान्यतो दृष्टम् । यथा कृषीवलस्य कर्षणादिप्रवृत्तेर्धान्यादिफलवत्त्वदर्शनेन यज्ञादेः स्वर्गादिफलानुमानम् । प्रेक्षावत्प्रवृत्तित्वफलवत्त्वसामान्यानुगमात् ।
जयतीर्थविजय
अनुमानविभागादीनामपि प्रतिज्ञातत्वादनुमानं विभजते ॥ त्रिविधमित्यादिना । अथवा कार्यकारणभावाद्वा स्वभावाद्वा नियामकादविनाभावनियमदर्शनादकार्यकारणानुमानमनभ्युपगच्छतां सौगतानां मतमपाकर्तुमनुमानं बिभजते ॥ त्रिविधमित्यादिना ॥ कार्यानुमानमिति कार्यरूपमनुमापकमित्यर्थः । एवं कारणेत्यादावपि द्रष्टव्यम् ॥ धूमोऽग्नेरिति । अनुमानमिति शेषः । विभागस्य प्रयोजनान्तरमाह ॥ इयानिति । प्रमाणलक्षणे सम्भवपरिशेषावनुमेत्यादाविवावान्तरविशेषसूचनार्थं विभाग इति भावः ॥ कारणमात्रमिति । समग्रं कारणमित्यर्थः । कार्यमितीति । अनुमापयतीत्यनुषज्यते । शिष्याणां विषयव्याप्त्यर्थं प्रकारान्तरेणानुमानं विभजते पुनरिति । ते एव विधे दर्शयति ॥ दृष्टमिति । दृष्टार्थकमित्यर्थः । एवं सामान्यतो दृष्टमित्यस्याप्यर्थो ज्ञेयः । विभक्तधना भ्रातरः पीतजला गाव इतिवदत्रार्थपदलोपो द्रष्टव्यः । दृष्टपदद्वयेऽपि दृश्धातोश्चाक्षुषज्ञानार्थत्वं वारयन्विवक्षितार्थकथनपूर्वकं द्वयोर्लक्षणमाह ॥ प्रत्यक्षेत्यादिना ॥ यथा रूपादीति । अयं देवदत्तश्चक्षुष्मान् । रूपादिद्रष्टृत्वादित्यादिप्रकारेणानुमानं द्रष्टव्यम् । अथेदानीं विशेषपदाध्याहारेण विशेषतो दृष्टं सामान्यतो दृष्टमिति विभागं मनसि निधायाद्यस्य संज्ञानुसारेण लक्षणमाह । अथवेति । यथाभूतयोर्येन रूपेण ज्ञातयोः ॥ अन्यादृश्यत्वेऽपीति । अनुमितिहेतुभूतसमुचितदेशवृत्तिताज्ञाने विशेषरूपेण विषयत्वेऽपीत्यर्थः ॥ लिङ्गलिङ्गिभाव इति । व्याप्यव्यापकभाव इत्यर्थः ।
भावदीपः
पूर्वं कार्यमेवैतत्सर्वं कल्पयतीत्युक्त्या कार्यरूपमेकविधमेवानुमानमिति धीनिरासाय वादिविप्रतिपत्तिनिरासाय चाह ॥ त्रिविधमिति । कार्यानुमानमित्यादौ कर्मधारयः करणे ल्युट् । कार्यं सत्कारणस्यानुमापकं यत्तत्कार्यानुमानमित्यर्थः । एवमग्रेऽपि ॥ विशिष्टेऽपि । उदकपूर्णमेघस्यौन्नत्यमित्यर्थः । ननु कार्यात्कारणानुमाने धूमोऽग्नेरित्येवोक्तम् । न त्वार्द्रेन्धनाग्नेरिति विशेषणमुपात्तम् । कारणात्कार्यानुमाने तु विशिष्टमेघोन्नतिरिति कारणे विशेषणमुक्तम् । कुत एवमित्यतो वा कार्यानुमानसम्भवेऽपि न कारणानुमानं युक्तम् । अयोगोलके सत्यप्यग्नौ धूमाभावेन व्याप्त्यभावादित्यतो वाऽऽह ॥ इयांस्त्विति । कारणमात्रं न तत्र व्यापकीभूते समग्रत्वविशेषणम् । कारणमात्रेणापि व्याप्तिसत्त्वेन विशेषणकृत्याभावात् । कारणं तु समग्रमेव कृत्स्नकारणकलाप एव कार्याव्यभिचारात्कार्यमनुमापयति । न त्वेकदेश इत्यर्थः ॥ यथा रूपादिज्ञानमिति । रूपज्ञानं करणसाध्यं जन्यक्रियात्वाच्छिदिक्रियावत् । करणं च न घ्राणादि । तस्य गन्धादिज्ञानकरणत्वादिति सामान्यपरिशेषाभ्यां वा रूपज्ञानं चक्षुःकरणकम् । तदन्वयव्यतिरेकित्वादिति वा । अयं चक्षुष्मान्रूपज्ञानित्वात्सम्मतवदिति वा । चक्षुषोऽनुमापकम् । एवं गन्धादिज्ञानं घ्राणादेरित्यर्थः ॥ व्याप्यव्यापकयोरिति । दृष्टान्ते व्याप्तिनिरूपकयोरित्यर्थः ॥ यज्ञादेरिति । यज्ञादिप्रवृत्तेरित्यर्थः । यज्ञादिप्रवृत्तिः स्वर्गादिफलवती प्रवृत्तित्वात् । कृषीवलस्य धान्यादिफलकर्षणादिप्रवृत्तिवदिति प्रयोगे कृषीवलस्य कर्षणादिप्रवृत्तेर्धान्यादिफलत्वेऽपि यज्ञादिप्रवृत्तेस्तत्कुत इति चोदिते प्रेक्षावत्प्रवृत्तित्वाविशेषादित्युक्त्वा यत्र प्रेक्षावत्प्रवृत्तित्वं तत्र फलवत्त्वमिति नियमादिति व्याप्यव्यापकभाव इत्युच्यते । तत्र यज्ञादिप्रवृत्तित्वस्वर्गादिफलवत्वयोर्लिङ्गलिङ्गिशब्दित ज्ञाप्यज्ञापकभावः प्रेक्षावत्प्रवृत्तित्वफलवत्वयो र्व्याप्यव्यापकभाव इत्यादिरूपमपि सामान्यतो दृष्टानुमानमित्यर्थः ।
श्रीविजयीन्द्रतीर्थ
क्वचित्स्वक्रियाव्याघातेन व्यभिचारशङ्कानिराससूचनायानुमानविभागमाह ॥ त्रिविधमिति । कार्यरूपं कारणरूपमुभयभिन्नं चेत्यर्थः । यद्यपि षष्ठीसमासे सम्बन्धिशब्दमहिम्ना कार्यरूपं कारणरूपं चानुमानं क्रमेण लभ्यते । तथाऽप्युदाहरणक्रमानुरोधेन कर्मधारयो व्याख्यातः । उदाहरति ॥ तत्रेति ॥ विशिष्टेति । व्याप्त्यनुपहितव्यावर्तकधर्मवतीत्यर्थः । नन्वजनितकार्यस्यापि कारणस्य नाशाद्य्वभिचारेण न कारणस्य कार्यानुमापकतेति विभागानुपपत्तिमाशङ्क्य सकलकारणसहितैककारणस्यानुमानत्वं वक्तुमाह ॥ इयांस्त्विति ॥ कारणमात्रमिति । व्यापकतायां न विशेषणनियम इत्यर्थः॥ समग्रमिति । सकलेतरसमवहितमित्यर्थः । विभागान्तरमाह ॥ पुनरिति । नैयायिकमतानुसारेणोभयोर्लक्षणमाह ॥ तत्रेति । भाट्टानुसारेणाह ॥ अथवेति । यथैव व्यक्त्या व्याप्तिग्रहस्तस्या एव यत्र कालान्तरे व्याप्तिस्मरणेऽनुमितिस्तत्र दृष्टम् । व्यक्त्यन्तरस्यानुमितिविषयत्वे सामान्यदृष्टमिति तात्पर्यार्थः ॥ व्याप्यव्यापकयोरिति । व्याप्तिग्रहविषयीभूतयोरित्यर्थः ॥ प्रवृत्तित्वेति । प्रवृत्तिविषयत्वेत्यर्थः । यज्ञादिपदं वा प्रवृत्तिपरम् ॥ प्रेक्षावदिति । प्रथमव्याख्याने प्रवृत्तिविषयत्वेत्यर्थः । बहुव्रीहिसमासो वाऽयं द्रष्टव्यः।
श्रीवेदेशभिक्षु
अकार्यकारणानुमानम् । कार्यकारणभिन्नानुमानम् । विशिष्ट इति । इतरकारणविशिष्ट इत्यर्थः । कारणमात्रं नेतरकारणविशिष्टम् । यत्कार्यं तत्कारणपूर्वकमिति नियमात् । अत एव धूमेनाग्नि मात्रस्यैवानुमानं न धूमजनकस्वेतरसकलसहितस्य व्यर्थत्वादिति भावः । कारणं यथा स्वयमेकमेव कार्येणानुमीयते न तथा स्वयं तदनुमापयति । किन्तु स्वेतरसकलकारणसहितमेवेत्याह ॥ समग्रमेवेति । स्वेतरसकलकारणसहितमेवेत्यर्थः । कारणमात्रस्य कार्यव्यभिचरितत्वेन सामग्रया एव तदव्यभिचारादिति भावः । अत एव पूर्वं विशिष्टमेघोन्नतिरित्युक्तम् ॥ यथाभूतयोरिति ॥ यद्धर्मावच्छिन्नयोर्व्याप्यव्यापकभावस्तद्धर्मपुरस्कारेणैव साध्यसाधनभावे दृष्टानुमानमित्यर्थः ॥ अन्यादृश्यत्व इति । यद्धर्मपुरस्कारेण साध्यसाधनभावस्तद्धर्मभिन्नधर्मावच्छिन्नत्व इत्यर्थः । एवं च यद्धर्मपुरस्कारेण व्याप्तिग्रहस्तद्धर्मभिन्नधर्मपुरस्कारेण लिङ्गलिङ्गिभावे सामान्यतो दृष्टमित्यर्थः । नन्वेवमतिप्रसङ्गः । धूमत्ववह्नित्वपुरस्कारेण व्याप्तिग्रहे रूपत्वरसत्वपुरस्कारेण लिङ्गलिङ्गिभावस्यापि सामान्यतो दृष्टतापत्तेरित्यत उक्तं तत्सामान्याकारानुगमेति । तयोर्व्याप्यव्यापकयोर्यत्सामान्याकारः सामान्यधर्मो व्याप्यव्यापकतावच्छेदकतारूपं तस्य लिङ्गलिङ्गिनोरपि साक्षाद्भानमेवेत्यर्थः । अत्रेत्थं प्रयोगः । यज्ञादिकं स्वर्गफलवत्प्रेक्षावद्यजमानप्रवृत्तिमत्त्वात् । यत्प्रेक्षावत्प्रवृत्तिमत्तत्फलवत् । यथा कर्षणादिकमिति । यज्ञादेः प्रवृत्तिमत्त्वं च विषयत्वेनेति ज्ञातव्यम् ।
**अभिनवामृतम् **
कार्यकारणमात्रमिति । धूमादिकार्यं वह्न्यादिकृत्स्नकारणमनुमापकमित्यर्थः । यथा धूमो वह्नेः साधक एवमदृष्टकालेश्वरार्द्रेन्धनसंयोगादेरपि साधको व्याप्तिसद्भावादिति भावः ॥ कारणं तु समग्रमेवेति । समग्रमेव कारणं कार्यमनुमापयति । समग्रकारणस्यैव कार्यव्याप्तत्वेन प्रत्येकं व्याप्त्यभावात् । न प्रत्येकं कार्यमनुमापयतीत्यर्थः । व्याप्तिसद्भावस्यैव कार्यव्याप्यत्वेन प्रत्येकं व्याप्त्यभावान्न प्रत्येकं कार्यमनुमापयतीत्यर्थः ।
**आदर्शः **
॥ यज्ञादेः स्वर्गफलत्वानुमानमिति । ननु प्रेक्षावत्प्रवृत्तिविषयत्वहेतुना सफलत्वमात्रं यागादिप्रवृत्तेस्तद्विषयीभूतयागादेर्वा सिध्यति । परिशेषेण स्वर्गफलकत्वं सिध्यतीति नेदमुदाहरणमिति चेत् । तथाऽपि स्वर्गान्यफलकत्वे सति सफलत्वरूपहेतुना स्वर्गफलकत्वस्य कल्पनीयतया तादृशहेतोरपि यद्यदन्याफलकत्वे सति सफलं तत्तत्फलत्वमिति सामान्यव्याप्तिसापेक्षत्वेनोदाहरणत्वसम्भवात् । वस्तुतस्तु स्वर्गफलकत्वाभावज्ञानरूपेतरबाधसहकारेण प्रेक्षावत्प्रवृत्तित्वहेतुनैव स्वर्गफलकत्वं सिध्यतीति युक्तमेवोदाहरणमिति द्रष्टव्यम् ।
**वाक्यार्थमञ्जरी **
नन्वत्र साध्यत्वे कारणं केवलमुपात्तम् । अग्निरित्येवोक्तत्वात् । साधने त्वितरसहितविशिष्टमेघेत्युक्तेः । किमत्र नियामकमित्यत आह ॥ इयांस्त्विति । नैय्यायिकमतानुसारेणाह ॥ तत्रेति । भट्टमतानुसारेणाह ॥ अथवेति ॥ यज्ञादेरिति । यज्ञादिप्रवृत्तेरित्यर्थः ।
श्रीविट्टलभट्ट
अनुमानं विभज्य दर्शयति ॥ त्रिविधमिति । अनुमानं त्रिविधमित्यर्थः ॥ कार्यानुमानमिति । कार्यमनुमीयतेऽनेनेति व्युत्पत्त्या कारणस्यानुमानमित्यर्थः ॥ कारणानुमानमिति । कारणमनुमीयतेऽनेनेति व्युत्पत्त्या कार्यस्यानुमानमित्यर्थः ॥ अकार्यकारणानुमानं चेति । कार्यकारणाभ्यामन्यत्करणव्युत्पत्त्या कार्यकारणातिरिक्तस्यानुमानमित्यर्थः ॥ यथा धूमाग्नेरिति । अनुमानमिति शेषः ॥ विशिष्टमेघोन्नतिरिति । निबिडावयवविशिष्टानां मेघानां समूहविशेषरूप उत्कर्ष इत्यर्थः । अनुमानमिति शेषः । ननु कारणस्य कार्यमिव कार्यस्य न कारणमनुमानम् । समुत्पादितकार्यस्यापि कारणस्य नाशेन व्यभिचारादित्यत आह ॥ इयांस्तु विशेष इति । कारणमात्रमित्यत्र मात्रशब्दः कृत्स्नपरः । तथा च प्रत्येकं मिलितानि च सर्वाणि कारणानीत्यर्थः ॥ कारणं तु समग्रमेवेति । समग्रं सकलं स्वेतरसकलकारणमिलितमेव न तु प्रत्येकमित्यर्थः । अनुमीयत इत्यनुवर्तते । समग्रकार्यस्यानुमानमिति भावः । समग्रं पूर्णं स्वेतरकारणसहितमेव । कारणं च परमकारणरूपं कारणं त्विति यावत् । यच्चरमकारणं न तत्कार्यं व्यभिचरतीति भावः । इतिशब्दस्येयान्विशेष इत्यनेनान्वयः ॥ पुनर्द्विविधमिति । द्विविधं चेत्यर्थः । अनुमानमित्यनुवर्तते ॥ प्रत्यक्षयोग्यार्थेति । अनुमानमित्यनुवर्तनीयम् । यद्वाऽर्थशब्दो ज्ञेयरूपविशेषरूपानुमेयपरः । तथा च प्रत्यक्षयोग्योऽर्थोऽनुमेयो यस्य तत्तथा प्रत्यक्षयोग्यार्थानुमापकमिति यावत् ॥ रूपादिज्ञानं चक्षुरादेरिति । रसादिरादिशब्दार्थः रसनादिर्द्वितीयादिशब्दार्थः । अयं चक्षुष्मान् । रूपसाक्षात्कारत्वद्य्वतिरेकेणान्धवदित्यादिप्रकारेण रूपादिज्ञानं चक्षुराद्यनुमापकमिति ज्ञेयम् ॥ यथाभूतयोरिति । यद्धर्मावच्छिन्नयोर्व्याप्तिग्रहस्तद्धर्मावच्छिन्नयोरेवानुमापकानुमेयभावे सति तल्लिङ्गं दृष्टानुमानमित्यर्थः ॥ व्याप्यव्यापकयोरिति । लिङ्लिङ्गिनोरन्यादृशत्वेऽपि यथा भूतयोर्व्याप्तिग्रहस्तथाविधत्वाभावेऽपि तत्सामान्याकारानुगमेन तल्लिङ्गं दृष्टं दृष्टानुमानमित्यर्थः ॥ कृषीवलस्येति । कृषिकस्येत्यर्थः । धान्यादिकामस्योपलक्षणमेतत् । कर्षणादिप्रवृत्तेर्धान्यादिफलवत्त्वनियमेन कर्षणहलेन भूम्युल्लेखनम् । कर्षणादौ प्रवृत्तेर्धान्यादिरूपेष्टसाधनत्वदर्शनेनेत्यर्थः । भोजनादिप्रथमादिशब्दार्थः । तृप्त्यादिद्वितीयादि शब्दार्थः । कर्षणादिप्रवृत्तत्वस्य धान्यरूपेष्टसाधनत्वेन व्याप्तिदर्शनेनेति तात्पर्यार्थः ॥ यज्ञादेरिति । तद्विषयकप्रवृत्तरूपलक्षणमेतत् । स्वर्गादेः फलं यस्य तत्तथा । भावप्रधानो निर्देशः । स्वर्गादिरूपेष्टसाधनत्वमिति यावत् । तस्यानुमानमनुमितिरित्यर्थः । अनुमापकं च स्वर्गोद्देश्यकप्रेक्षावत्प्रवृत्तिरिति हृदयम् । ननु कर्षणादिप्रवृत्तेर्धान्यादिरूपेष्टसाधनत्वदर्शनेन यज्ञादिप्रवृत्तेः स्वर्गादिरूपेष्टसाधनत्वानुमानं कथं स्यादित्यत आह ॥ प्रेक्षावत्प्रवृत्तिफलवत्त्वेति । प्रेक्षावत्प्रवृत्तित्वेष्ट साधनत्वयोः सामान्ययोः साधारणकारणयोरनुगमाद्दृष्टान्ते सद्भावादित्यर्थः । इदमत्राकूतम् । यज्ञादिप्रवृत्तिः स्वर्गादिफलत्ववती स्वर्गाद्युद्देश्यकप्रेक्षावत्प्रवृत्तित्वात् । कृष्यादिप्रवृत्तिवदित्यनुमाने लिङ्गलिङ्गिनोर्दृष्टान्तेऽसत्वेऽपि तत्सामान्याकारयोः सत्त्वात् । यदुद्देश्यकप्रेक्षावत्प्रवृत्तिर्या सा तत्फलवतीति सामान्यतो व्याप्तिग्रहसम्भवादस्य लिङ्गस्य स्वर्गादिफलवत्त्वानुमापकत्वं युक्तमिति । अनुमानमित्यनुवर्तते ।