०१ (१)

प्रमाणपद्धतिर्

अथानुमानपरिच्छेदो

ऽनुमानलक्षणम्

(१) प्रमाणपद्धतिः

निर्दोषोपपत्तिरनुमानम् । उपपत्तिर्व्याप्यं युक्तिर्लिङ्गमिति पर्यायः । अविनाभावो व्याप्तिः । साहचर्यनियम इति यावत् । व्याप्तेः कर्म व्याप्यम् । तस्याः कर्तृ व्यापकम् । यथा धूमस्याग्निना व्याप्तिरव्यभिचरितः सम्बन्धः । यत्र धूमस्तत्राग्निरिति नियमात् । तत्र धूमो व्याप्यः । अग्निर्व्यापकः ।

जयतीर्थविजय

क्रमप्राप्तमनुमानं निरूपयति ॥ निर्दोषेति । बाधादिदोषरहितेत्यर्थः । उपपत्तिर्व्याप्यमित्यर्थः । एवं च निर्दोषपदं बाधितसाध्यके स्वरूपासिद्धे च हृदो वन्हिमान्धूमादित्यादावतिव्याप्तिवारणाय । उपपत्तिपदं तु प्रत्यक्षादावतिव्याप्तिवारणाय । निर्दोषपदेन स्वोचितदोषरहितत्वस्य विवक्षितत्वात् । नन्वत्राचार्यैरनुमा युक्तिरेवोक्तेत्यादिना युक्तित्वादेरनुमानलक्षणत्वेनोक्तत्वात्तद्विरोध इत्याशङ्क्यैकार्थत्वान्न विरोध इत्याशयेनाह ॥ उपपत्तिरित्यादिना । उपपत्त्यादिशब्दानां मध्येऽन्यतमशब्दार्थज्ञाने सति सर्वेषां पर्यायत्वं ज्ञातुं शक्यत इत्युपपत्तिशब्देन व्याप्यं विवक्षितमितिमनसि निधाय व्याप्यपदार्थघटकीभूतां व्याप्तिमाह ॥ अविनाभाव इति । नन्वविनाभावो नाम साध्येन विना साधनस्याभावो वा साध्येनाविना साध्यसाहित्येन साधनस्य भावो वा । नाद्यः । केवलान्वयिनि शब्दोऽभिधेयः प्रमेयत्वादित्यादौ साध्याभावाप्रसिध्द्याऽव्याप्त्यापत्तेः । न द्वितीयः । साध्यसाहित्यस्य व्यभिचारिसाधारणत्वेनातिव्याप्तेः । किञ्चोर्ध्वदेशो वृष्टिमानधोदेशे नदीपूरादित्यत्राव्याप्तेः । वृष्टिरूपसाध्याभाववत्यधोदेशे नदीपूररूपसाधनसत्त्वादिति चेत् । अत्र समाहितं तर्कताण्डवे । यद्देशकालसम्बद्धस्य यस्य यद्देशकालसम्बद्धेन येन विनाऽनुपपत्तिस्तस्य तेन सा व्याप्तिः । अनुपपत्तेर्व्याप्तित्वं च प्रमाणलक्षणे परिशेषोऽर्थापत्तिरनुमानमित्यविशेष इत्यनेनार्थापत्तिरिवानुमानमप्यावश्यकानुपपत्त्यैव गमकमित्युक्तत्वात् । उपमानेऽपि न हि स्वसदृशेनासदृशं क्वचिद्दृष्टमित्यनेन गवयनिष्ठगोसादृश्यस्य गोनिष्ठगवयसादृश्यं विनाऽनुपपत्तेरेवोक्तत्वात् । पद्धतौ च निर्दोषोपपत्तिरनुमेति प्रमाणलक्षणस्थोपपत्तिशब्दो न पर्यायमात्रम् । किन्तु साध्ये सत्युपपद्यते । अन्यथा तु नेति भावेनोपपत्तिर्व्याप्यमिति व्याख्यातत्वात् । प्रमाणलक्षणटीकायामपि जीवनवत्त्वे सति गृहेऽसत्त्वरूपे व्याप्येऽनुपपद्यमानार्थप्रमितिरर्थापत्तिरित्यनुपपद्यमानपदप्रयोगात् । परिशेषादेरनुमानत्वाङ्गीकारे धूमोऽप्यनुपपत्त्याऽग्निं गमयन्नानुमानं स्यादित्युक्तत्वात् । सुधायां चानुमा युक्तिरेवोक्तेत्यनुव्याख्यानस्थयुक्तिशब्दस्य युज्यत एवेति युक्तिरिति व्याख्यातत्वाच्च भाष्यकाराद्यभिप्रेतमेव । यत्तु विमतो गौर्गवयसदृशः । गवयगतसादृश्यप्रतियोगित्वादिति प्रमाणलक्षणटीकायां हेतुसाध्ययोः सामानाधिकरण्यसम्पादनं तत्परमतमाश्रित्य । अत एव तत्रैवेति प्रयोगसम्भवादित्युक्तम् । अत एव हि पद्धतावसौ गौरेतद्गवयसदृशः । अस्य गवयस्य तद्गोसदृशत्वादिति वैयधिकरण्येनैव प्रयुक्तम् । अत एव च सुधायां रोहिण्युदयासन्नः कृत्तिकाऽभ्युदिता यत इत्यनुव्याख्यानोक्ते व्यधिकरणप्रयोगे कालादिपक्षीकारेणैकाधिकरण्यमाशङ्क्यैवं प्रयोगविपरिणामे प्रमाणं नेत्युक्तम् । अनुपपत्तिश्चासम्भवः प्रमाणविरोध इति यावत् । उक्तं हि प्रमाणलक्षणटीकायाम् । अनुपपत्तिश्चासम्भव इति । या तु परेण व्याप्त्या गमकमनुमानमनुपपत्त्या गमिकाऽर्थापत्तिरित्यनुमानार्थापत्त्योर् भेदे शङ्किते तं प्रति टीकाकारीया केनचिद्विना कस्यचिदनुपपत्तिर्हि तयोर्व्याप्तिं विना नोपपद्यत इत्यनुपपत्तिव्याप्त्योर्भेदोक्तिः साऽनुपपत्तिनियामकद्वैधीभावकार्यकारणभावाद्यभिप्राया नियतसामानाधिकरण्यानौपाधिकसम्बन्धरूपपराभिप्रेतव्याप्त्यभिप्राया वेति न टीकाविरोधः । इयमेव व्याप्तिः साध्येन विना साधनस्याभावोऽनुपपत्तिरिति भावेनाविनाभाव इति साहचर्यनियम इति चोच्यते । यस्यानुपपत्तिः स व्याप्यः येन विनाऽनुपपत्तिः स व्यापकः । इयं च व्याप्तिः प्रसिद्धेषु धूमाद्यनुमानेष्वधोदेशे नदीपूराद्यनुमितिष्वर्थापत्त्यादिरूपानुमानेष्वात्माश्रयान्योन्याश्रयचक्रकानवस्थाव्याघाताद्यापादकेषु केवलव्यतिरेकिषु सर्वत्र केवलान्वयिषु चानुगताऽऽवश्यकी च । अन्यथाऽप्रयोजकतापातात् । हेतुरस्तु साध्यं मास्त्वित्येवाव्याप्तेः शङ्क्यमानत्वाच्च । न चात्माश्रयादिकमापाद्यमापादकसमानाधिकरणत्वेन कुत्रचित्प्रमितम् । तथात्वेऽनिष्टत्वायोगात् । उक्तं च टीकाकारैः । न हि कुत्राप्यात्माश्रयादि प्रमाणप्रमितमिति । न चैवं व्यतिरेकव्याप्तिः । केवलान्वयिन्यपि साध्यं विनाऽनुपपत्तेः सत्त्वात् । वृष्टिरूपसाध्याभाववत्यधोदेशे पूररूपसाधनाभावस्याभावेन व्यतिरेकव्याप्त्यभावेऽपि पूरे वृष्टिं विनाऽनुपपत्तेर्दर्शनाच्च । किञ्च वन्हिं विनाऽनुपपत्तिर्धूमगता । व्यतिरेकव्याप्तिस्तु वन्ह्यभावगतेति कथं तयोरभेदः । वन्ह्यभावस्य धूमाभावेन व्याप्तिरपि धूमाभावं विनाऽनुपपत्तिरेव । सा च वन्ह्यभावेन धूमाभावे साध्ये व्याप्यगतत्वादन्वयव्याप्तित्वेनैवाङ्गम् । धूमेन वन्हौ साध्ये तु धूमानिष्ठत्वान्न साक्षादङ्गम् । न च केवलान्वयिन्यव्याप्तिः । तत्र साध्याभावस्यासत्त्वादेव साध्याभावे सति साधनस्य योपपत्तिस्तदभावरूपानुपपत्तेः सत्त्वात् । मन्मतेऽप्रामाणिकस्यापि निषेधप्रतियोगित्वात् । तथा च कृत्तिकोदयस्य समानकालया भिन्नदेशया रोहिण्युदयासत्त्या विनेवाधोदेशे नदीपूरस्यापि भिन्नदेशकालयोर्ध्वदेशवृष्ट्याऽनुपपत्तिलक्षणव्याप्तिरस्तीति सामानाधिकरण्य इव वैयधिकरण्येऽप्युक्तरूपा व्याप्तिर्युक्ता । प्रत्युत नदीपूरादौ सामानाधिकरण्य एवोक्तरूपा व्याप्तिरयुक्ता । न ह्यधोदेशे गतो नदीपूरः स्वदेशगतां वृष्टिं विनाऽनुपपन्नः । किन्तु ततोऽप्यूर्ध्वदेशगताम् । ननु साध्याभावेनैव सम्बद्धस्य नदीपूरस्य वृष्टिरूपसाध्येन कथं व्याप्तिरिति चेत् । नियमेन साध्याभावसम्बद्धस्य द्रव्यत्वस्य संयोगेन कथं व्याप्तिः । यदि तत्र फलबलेन व्याप्तिलक्षणे प्रतियोग्यसमानाधिकरणेति विशेषणाद्य्वाप्तिसिद्धिस्तर्ह्यत्रापि फलबलेनैव व्याप्तिलक्षणान्तरस्यैवोक्तत्वात्तत्सिद्धिरिति । विस्तरभयान्नेह कृत्स्नमुच्यते । अत्र प्रपञ्चनं तर्कताण्डवादेवावगन्तव्यम् । अनुपपत्तिरेव व्याप्तिरिति । व्याप्तिलक्षणनिष्कर्षमाह ॥ साहचर्येति । अत्र साहचर्यं नियमयतीति व्युत्पत्त्या साहचर्यनियमशब्देन तर्कताण्डवोक्तानुपपत्तिरेवोच्यते । अन्यथा तत्रोक्तदूषणग्रासात् । तथा पूर्ववाक्येऽप्यनिनाभावशब्देन साध्येन विना साधनास्याभाव उपपत्त्यभाव इति व्युत्पत्त्याऽनुपपत्तिरेवोच्यते । उक्तं च तर्कताण्डवे । इयमेव व्याप्तिः साध्येन विना साधनस्याभावोऽनुपपत्तिरिति भावेनाविनाभावः साहचर्यनियम इति चोच्यत इति । यदर्थं व्याप्तिर्निरूपिता तदाह ॥ व्याप्तेरिति । साध्येन विना नोपपद्यत इत्यनुपपत्तिलक्षणक्रियायाः कर्म आश्रय इत्यर्थः ॥ तस्या इति । साध्येन विना साधनं नोपपद्यत इत्यनुपपत्तिलक्षणक्रियायाः कर्तृतृतीयान्तादिपदवाच्यं व्यापकमित्यर्थः । व्याप्तिमुदाहृत्य दर्शयति ॥ यथेति । व्याप्तिरनुपपत्तिरित्यर्थः । अव्यभिचरितो व्यभिचार्यसल्लिङ्गतद्-व्यावृत्तः सम्बन्ध इत्यर्थः । ननु धूमाग्न्योरनुपपत्तिलक्षणव्याप्तिरस्तीत्यत्र किं मानमित्यत आह ॥ यत्रेति । एवं च साहचर्यनियमस्य किञ्चिन्नियामकं विनाऽनुपपत्त्या तन्नियामिका धूमस्य वन्हिना विनाऽनुपपत्तिरङ्गीकार्येति भावः ॥ तत्रेति । धूमाग्न्योर्मध्य इत्यर्थः ।

भावदीपः

अवसरप्राप्तमनुमानं प्रमाणलक्षणोक्तदिशा लक्षयति ॥ निर्दोषेति । उपपत्तिर्घटनेति भ्रमं वारयन्नग्रेतनव्याप्त्युक्तिप्रसञ्जकतयोपपत्तिपदस्य विवक्षितमर्थमाह ॥ उपपत्तिर्व्याप्यमिति ॥ पर्याय इति । एतावत्येव वक्तव्ये युक्तिर्लिङ्गमित्युक्तिस्तु निर्दोषयुक्तिरनुमेति बृहद्भाष्येऽनुमा युक्तिरेवोक्तेत्यनुव्याख्याने लिङ्गं हेतुरिति मिथ्यात्वानुमानखण्डने च भगवत्पादाक्तेस्तत्तदविरोधायेति ज्ञेयम् । इतिपदस्य प्रत्येकमन्वयः । तेन पर्यायमित्येकवचनं साधु । ननु किं व्याप्यं नामेत्यतस्तत्स्वरूपमग्रे विवक्षुर्व्याप्तिस्वरूपं तावदाह ॥ अविनाभाव इति । नन्वविनाभावो नाम किं विनाऽभावो वाऽविनाऽपरित्यज्य साहित्येनेति यावद् भावो वर्तनं वा । नाद्यः । तस्य केवलान्वयिन्यभावात् । अस्य व्यतिरेकव्याप्तित्वेन वक्ष्यमाणदिशाऽनुमानानङ्गत्वात् । न द्वितीयः । व्यभिचारिण्यतिव्याप्तेरित्यत आह ॥ साहचर्येति । तथा च व्यभिचारिणि नातिव्याप्तिरिति भावः । इदानीं व्याप्यस्वरूपमाह ॥ व्याप्तेः कर्मेति । व्याप्तिर्नाम व्यापनक्रिया तां प्रति कर्मकारकं यत्तद्-व्याप्यते कार्त्स्न्येन सम्बध्यतेऽनेनेति व्युत्पत्त्या व्याप्यमित्यर्थः ॥ कर्तृ व्यापकमिति । व्याप्नोति कार्त्स्न्येन सम्बध्नातीति व्यापकम् । विपूर्वादापृव्याप्तावित्यस्मात्कर्तरि ण्वुल्प्रत्यय इति भावः । उदाहृत्य दर्शयति ॥ यथेति । व्याप्तिः साहचर्यनियम इति प्रागुक्तिरयुक्ता । तथात्वे नियमस्य व्याप्तिघटितत्वेनात्माश्रयापत्तेः । अतोऽभिप्रायमाह ॥ अव्यभिचरितस्सम्बन्ध इति ।

श्रीविजयीन्द्रतीर्थ

प्रमाणपद्धतिमित्यनेन प्रमाणत्वाक्रान्ततयाऽनुमानस्यापि प्रतिज्ञाविषयत्वेऽपि प्रत्यक्षस्य स्वेतरसकलप्रमाणोपजीव्यत्वस्योत्कटेच्छाविषयत्वेन तन्निरूप्यानुमानं निरूपयति ॥ निर्दोषोपपत्तिरिति अनुमानं प्रमाणमित्यर्थः । ननु ज्ञायमानं लिङ्गमनुमानमुच्यते । तत्कथमुपपत्तिरनुमानमिति । तत्राह ॥ उपपत्तिर्युक्तिरित्यादि । उपपत्तिशरीरप्रविष्टाया व्याप्तेर्लक्षणमाह ॥ अविनाभाव इति । ननु साध्येन विनाभावो नेत्यस्य साध्याभाववन्निष्ठाभावप्रतियोगित्वात्तस्य तदभावस्य केवलान्वयित्वादित्यत आह ॥ साहचर्येति । हेतुसमानाधिकरणप्रतियोगिविरोध्यभावाप्रतियोगिसाध्यसामानाधिकरण्यमित्यर्थः । अतो नियमस्य व्याप्तित्वेन नात्माश्रयशङ्का । साध्ये तादृशाभावाप्रतियोगित्वस्यैव नियमपदार्थत्वात् । व्याप्तेः सम्बन्धरूपाया अनुयोगिप्रतियोगिनौ दर्शयति ॥ व्याप्तेरित्यादिना । अत्र यद्यपि व्याप्त्याश्रयो व्याप्तिरित्येव वक्तुमुचितं तथाऽपि वन्हिर्धूमं व्याप्नोतीत्यादिव्यवहारोपपादनाय कर्मत्वादिनोक्तमिति ध्येयम् । तदिदमुदाहरणमुखेन दर्शयति ॥ यथेति । ननूपपत्तिरनुमानमेवास्तु । किं निर्दोषत्वप्रवेशेनेत्यत आह ॥ तत्रेति । तथा च प्रमारूपानुमित्युपहितस्यैवानुमानत्वात्तदनुपहिते लक्ष्ये यथोक्तोपपत्तित्वस्य सत्त्वादति व्याप्तिवारणाय तत्प्रवेश इति भावः ।

श्रीवेदेशभिक्षु

उपपत्तिशब्दार्थमाह ॥ उपपत्तिरिति । अत्र यद्यप्युपपत्तिर्व्याप्यमित्येतावतैवालम् । तथाऽप्याचार्यैरनुव्याख्यानादावनुमा युक्तिरेवोक्ता । अत्र यद्यप्युपपत्तिशब्दस्य व्याप्यपर्यायत्वेनाव्याप्ते हेतावतिव्याप्तिवारणाय न निर्दोषत्वं विशेषणम् । तथाऽप्यसिद्धे बाधितादौ चातिव्याप्तिवारकं तदिति बोध्यम् । तत्र युक्तिशब्देन यथार्थानुमितिजनकत्वरूपमुख्यार्थस्यैव विवक्षितत्वात् । अत्र व्याप्यमात्रस्यैवामुख्योपपत्तिशब्देन ग्रहणात् । अत एव सुधायामत्र पुनरन्तर्गतनिर्दोषत्वं मुख्यमेवार्थमुपादाय युक्तिरित्येवोक्तमित्युक्तम् । व्याप्तिघटितत्वेन व्याप्यस्य व्याप्तिलक्षणमाह ॥ अविनाभाव इति । अत्र भावः सत्ता । एवं च साध्येन विना साधनस्य भावो नेत्यनेन साध्याभाववन्निष्ठाप्रतियोगित्वं व्याप्तिरित्युक्तं भवति । न चैतत्सम्भवति । तुच्छस्यापि वन्हिव्याप्यतापत्तेः । तदत्यन्ताभावस्य केवलान्वयित्वेन वन्ह्यभाववन्निष्ठत्वात् । अत्र विवक्षितमर्थं स्वयमेवाह ॥ साहचर्येति । अत्र साहचर्यं स्वदेशकाल विशेषगतस्य हेतोः स्वदेशकालगतेन साध्येन सम्बन्धमात्रं विवक्षितम् । न तु सामानाधिकरण्यमेव । अधोदेशे नदीपूरादावव्याप्तेः सम्बन्धमात्रं तु तत्राप्यस्ति वृष्टिमदूर्ध्वदेशनिरूपिताधोदेशगतत्वात्पूरस्य । एवमन्यत्रापि कृत्तिकोदयादौ हेतुसाध्यसम्बन्धमात्रमुपपादनीयम् । असतश्चोक्तरूपत्वाभावान्नातिव्याप्तिः । व्यभिचारिसम्बन्धव्यावर्तनाय नियम इत्युक्तम् । नन्वेवं नियमस्य व्याप्तिरूपतयाऽऽत्माश्रय इति चेन्न । नियमपदेनाव्यभिचारस्य विवक्षितत्वात् । तथा चाव्यभिचरितसाध्यसम्बन्धो व्याप्तिरित्युक्तं भवति । अत एवाग्रे वक्ष्यति ॥ व्याप्तिरव्यभिचरितः सम्बन्ध इति । अत्र च सम्बन्धविशेषणत्वमिति चोद्यानवकाश इति ध्येयम् । केचित्तु हेतुसमानाधिकरणप्रतियोगिविरोध्यभावाप्रतियोगिसाध्यसामानाधिकरण्यमित्यर्थः । अतो न नियमस्य व्याप्तित्वेनात्माश्रयशङ्केत्याहुः । अत्र व्यधिकरणे नदीपूरादावव्याप्तिः कथं परिहरणीयेति चिन्त्यम् । यदर्थे व्याप्तिनिरूपणं कृतं तदिदानीमाह ॥ व्याप्तेरिति । अत्र यद्यपि व्याप्त्याश्रयो व्याप्यमित्येव वक्तुमुचितः । तथाऽपि वन्हिर्धूमं व्याप्नोतीतिव्यवहारानुसारेणैवमुक्तमिति ध्येयम् । यत्र व्याप्तिसम्भावनयोर्मध्ये ।

अभिनवामृतं

निर्दोषोपपत्तिरनुमानमिति शब्दानां मुख्यामुख्यभेदेन वृत्तिद्वयसद्भावादुपपत्तिशब्देनामुख्यवृत्तिमुपादाय हेत्वाभासप्रतिपत्तिः स्यात् । सा मा भूदिति मुख्यवृत्तिरेव विवक्षितेति ज्ञापनाय निर्दोषग्रहणं न त्वतिव्याप्तिवारणायेति बोध्यम् । तदुक्तं सुधायाम् । शब्दानां खलु मुख्यामुख्यभेदेन द्वे वृत्ती । एवं चोपपत्तिशब्दादुपपत्ताविव तदाभासेऽपि प्रतिपत्तावुत्पन्नायां तद्-व्यवच्छेदेन मुख्यार्थोपदर्शनार्थं तत्र निर्दोषग्रहणं कृतम् । अत्र पुनरन्तर्गतं निर्दोषत्वं मुख्यमेवार्थमुपादाय युक्तिरेवेत्युक्तम् । तदिदमुक्तम् । युक्तिरेवेति न तु निर्दोषत्वविशेष्य इति । एतेन यद्युपपत्तिशब्दस्य मुख्यार्थो विवक्षितस्तर्हि व्यावृत्त्यभावान्निर्दोषग्रहणं व्यर्थम् । अथामुख्यार्थो विवक्षितस्तदा विशेषणविशेष्यभावानुपपत्तिः । न हि निर्दुष्टो हेत्वाभासः सम्भवति । माता वन्ध्येतिवद्य्वाघातात् । असम्भवलक्षणलक्ष्यस्यामुख्योपपत्तिशब्दार्थत्वाभावादिति परास्तम् । यदाह प्रमाणलक्षणटीकायाम् । निर्दोषोपपत्तिरनुमानमुपपत्तिरिति लिङ्गमुच्यते । साहचर्यबलेनार्थगमकं लिङ्गं निर्दोषग्रहणमनुमानाभासव्युदासार्थमित्युक्तम् । व्याप्त्याद्यनुमानलक्षणरहितोऽनुमानवदवभासमानोऽनुमानाभासः । उपपत्तिग्रहणं प्रत्यक्षादिव्युदासार्थमित्युक्तम् । ततश्चातिव्याप्तिवारणाय निर्दोषेति विशेषणं नेति वदतां तद्विरोध इति चेत् । न । भावानवबोधात् । न ह्यनुमानाभासेऽतिव्याप्तिनिरासाय निर्दोषत्वविशेषणं प्रत्यक्षादावतिव्याप्तिनिरासायोपपत्तिविशेषणमिति प्रमाणलक्षणटीकाभिप्रायः । येनोक्तदोषः स्यात् । किं नामोपपत्तिशब्दस्य मुख्यामुख्यभेदेन वृत्तिद्वयसद्भावादमुख्यवृत्तिमादायानुमानाभासेऽनुमानत्वबुद्धिःस्यात्तन्निरासाय निर्दोषग्रहणम् । ततश्चानुमानबुद्धिरनुमानाभासनिवृत्ता भवति । ननु वृत्तिद्वयोपेतमुपपत्तिशब्दं प्रयुज्यानभिप्रेतार्थनिरासाय स्वाभिप्रायप्रयोजनं किं निर्दोषेण निर्दोषमात्रमेव लक्षणं किं न स्यादिति चेन्न । निर्दोषत्वमात्रमपि लक्षणत्वेनैव प्रतिपत्त्याऽलम् । सर्वदोषशून्यत्वस्य क्वाप्यभावात् । यत्किञ्चिद्दोषशून्याभिप्राये च प्रत्यक्षादौ तद्दोषशून्यत्वदर्शनेनानुमानबुद्धिः स्यात्ततोऽवश्यमुपपत्तिदोषशून्यत्वमिह विवक्षितमिति स्वाभिप्राय आविष्करणीयः । आविष्करणं च द्वेधा भवति । वक्ष्यमाणदोषाणां परिगणनं कृत्वा तद्रहितमित्युक्तया वा निर्दोषोपपत्तिरित्युपपत्तिग्रहणेन तत्र शब्दलाघवाय निर्दोषोपपत्तिरनुमानमित्याशयः । अवश्यं चैतदेवं विज्ञेयम् । हेत्वाभासानामुपपत्त्याभासत्वेनोपपत्तित्वाभावादिति व्याप्त्यभावेन तत्परिहाराय निर्दोषग्रहणमित्यङ्गीकारायोगात् । उपपत्तिशब्दस्यामुख्यवृत्तिमादायातिव्याप्त्युपादाने निर्दोषविशेषणानुपपत्तेः । उपचाररूपामुख्यवृत्त्या हेत्वाभास मात्रस्यैवोपस्थितत्वेन तस्य निर्दोषविशेषणत्वायोगात् । उपपत्तिशब्दस्य न हेत्वाभासेषूपचारवृत्तिरङ्गीक्रियते । किं नाम सदसदुपपत्तिसाधारणी वृत्तिरङ्गीक्रियत इति निर्दोषत्वविशेषणं सार्थकमिति चेन्न । सदसत्साधारणवृत्तेरप्रामाणिकत्वात् । न ह्युपपत्तिशब्दस्य मुख्यार्थविवक्षयैव लक्षणसामञ्जस्ये सत्यप्यप्रामाणिकं वृत्त्यन्तरमभ्युपगम्यातिव्याप्तिं प्रापय्य तत्परिहाराय विशेषणं देयमिति कुलधर्मः । सुधाविरोधस्तु स्पष्ट एव । नापि निर्दोषमनुमानमित्युक्ते इन्द्रियादावतिव्याप्तिः । उपपत्तिदोषवैधुर्यस्य तत्राभावात् । अभिप्रायानवबोधेनातिव्याप्तिशङ्कायामपि तत्परिहारविशेषणदानायोगादिति । तर्कताण्डवेऽपि निर्दोषोपपत्तिरनुमा । उपपत्तिर्व्याप्यं निर्दोषत्वेति विशेषणान्नासिद्धादावतिव्याप्तिरित्युक्तम् । उपपत्तिशब्दस्य मुख्य एवार्थ विवक्षित इति ज्ञापनाय निर्दोषेति विशेषणादसिध्द्यादावतिर्व्याप्तिर्नास्त्येवेति तत्परिहाराय न यतितव्यमिति तदाशयो बोध्यः । अन्यथा सुधाविरोधो दुष्परिहारः स्यात् । प्रधानाङ्गत्वाद्य्वाप्तेर्लक्षणमाह ॥ अविनाभाव इति । अविना व्यापकाव्यतिरेकेण व्याप्यस्याभावः सत्तेत्यर्थः । इममेवाभिप्रायं व्यनक्ति ॥ साहचर्यनियम इति ॥ यावदिति । ननु नियमो नाम व्याप्तिः । ततश्च व्याप्तिलक्षणे व्याप्तेः प्रविष्टत्वादात्माश्रय इति चेत् । कथमिदमवगतं लोकोत्तरप्रज्ञेन । नियमो व्याप्तिरिति यावता कृतकत्वनित्यत्वयोर्नियमेनासाहचर्यमिति प्रयोगोऽस्ति । न च तत्र नियमो व्याप्तिरिति शक्यते वक्तुं विरोधात् । न हि जातु जना धूमाग्न्योर्व्याप्तिवद्धूमाग्न्योर्नियम इति व्याहरन्ति । येन नियमो व्याप्तिरिति प्रतीमः । प्रत्युत धूमाग्न्योः साहचर्यनियम इति व्याहरन्ति । येन नियमो नाम व्याप्तिपदार्थैकदेशो न तु व्याप्तिरिति । ननु वृष्ट्यादिसाधननदीपूरादिव्याप्तावव्याप्तं लक्षणमिदमिति चेत् । उच्यते । अत्र साहचर्यनियमो नाम यद्देशकालयोर्व्याप्यसत्तातद्देशकालयोर्व्यापकसत्तैवेति न विवक्षितः । किं नाम व्यापकोचितदेशकालाद्यवच्छेदेन साध्यमविहायैव स्वोचितदेशकालयोः सत्ता साहचर्यनियमशब्दार्थो विवक्षितः । न चासौ नदीपूरादौ शक्यते नेति वक्तुम् । ऊर्ध्वदेशपूर्वकालाद्यवच्छेदेन वृष्टिसद्भाव एव तदुत्तरकालावच्छेदेनाधोदेशे नदीपूरसद्भावात् । एवमन्यत्रापि स्वयमेवोहनीयम् । ननु व्याप्तिर्व्याप्यव्यापकघटिता । अतस्तत्प्रतिपत्तिं विना न प्रत्येतुं शक्येत्यन्योन्याश्रय इति चेन्न । लक्ष्यभूतव्याप्तेरकर्मकत्वेन व्याप्यव्यापकान्तर्गतव्याप्तेश्च सकर्मकत्वेन भिन्नत्वादित्याशयेनाह ॥ व्याप्तेः कर्मेति । एतेन साध्याव्यतिरेकेण सत्तारूपाया व्याप्तेरकर्मकत्वात्कर्मण्यप्रत्ययायोगेन व्याप्यमिति प्रयोगानुपपत्तिरिति परास्तम् । व्याप्यशरीरान्तर्गताया व्याप्तेराप्नोत्यर्थकत्वेन सकर्मकत्वात् । एतेनैवोपपत्तिर्युक्तिर्लिङ्गं व्याप्यमिति पर्याय इति व्याप्यस्य प्रकृतत्वात्तल्लक्षणाभिधानस्योपयोगेऽपि व्यापकलक्षणाभिधानमयुक्तमप्रयुक्तत्वादिति परास्तम् । वन्हिर्धूमं व्याप्नोतीति प्रयोगाद्य्वाप्तिक्रियां प्रति वन्हेः कर्तृत्वं धूमस्य कर्मत्वमुपपन्नमिति बोध्यम् । नन्वनुमानाङ्गभूता व्याप्तिरन्या । व्याप्यव्यापकशरीरान्तर्गता व्याप्तिरन्येत्युक्तम् । वन्हिव्याप्यधूमवानयमिति परामर्शे ण्यप्रत्ययान्तव्याप्यशब्दोल्लेखबलाद्वन्हिव्याप्तिकर्मताया एव धूमे भासमानत्वेन व्याप्यशरीरान्तर्गतव्याप्तेरनुमानाङ्गकौचित्यात् । न हि या परामर्शे भासते सा नाङ्गम् । या च परामर्शे न भासते साऽङ्गमिति सम्मतम् । तस्मादविनाभावो व्याप्तिरित्यादिलक्षणमयुक्तमिति चेत् । उच्यते । व्याप्यशब्दोऽयं बव्हर्थः । अस्ति व्यापनक्रियाकर्मणि वन्हिव्याप्यो धूम इत्युक्ते वन्हिनिष्ठव्यापनक्रियाविषयो धूम इति भावात् । अस्ति व्यापनक्रिया हि देवदत्तव्याप्योऽयं ग्राम इत्युक्ते देवदत्तव्याप्तिमर्हतीत्यवगमात् । अस्ति साहचर्यनियमाश्रये वह्निव्याप्यधूम इत्युक्ते वन्ह्यविनाभावाश्रये धूम इति प्रतीतेः । न चानुशासनाभावः । कृत्यल्युटो बहुलमित्यनुशासनात् । तद्योऽविनाभावाश्रये वर्तते तस्यायमुल्लेखो वन्हिव्याप्यधूमवानयमिति । न त्वव्यापिनः क्रियाकर्मत्ववाचिनो व्याप्यशब्दस्यायमवभासः । अवश्यं चैतदेवं विज्ञेयम् । व्याप्तिग्रहणवेलायां यत्र धूमस्तत्राग्निरिति साहचर्यनियमरूपव्याप्तेरेव गृहीतत्वेन परामर्शे तद्भानौचित्यात् । न च यत्र धूमस्तत्राग्निरिति वन्हिनिष्ठव्यापनक्रियापत्तिरिति युक्तम् । अविनाभावस्य स्पष्टमवभासात् । व्याप्तिशरीरान्तर्गते व्याप्यव्यापके लक्षयित्वा व्याप्तिमुदाहरणमुखेन दर्शयति ॥ यथा धूमस्याग्निनेति । अग्निसम्बन्धस्याव्यभिचरितत्वं दर्शयति ॥ यत्र धूमस्तत्रेति । व्याप्तेः कर्म व्याप्यमित्यादिनोक्तव्याप्यव्यापके उदाहरणमुखेन दर्शयति ॥ तत्र धूमो व्याप्य इति ।

आदर्शः

आखणाश्मानमानम्य गुरुभिर्नतमादरात् ॥

अनुमापद्धतिव्याख्यां करिष्यामो यथामति ॥ १ ॥

क्रमप्राप्तमनुमानं निरूपयति ॥ निर्दोषेति । दोषाभावविशिष्टस्यैव प्रमोत्पत्तिनियतत्वात्तस्यैव प्रमाणत्वं न केवलोपपत्तेरित्यर्थः । यद्यपि दुष्टाया नोपपत्तिपदवाच्यत्वं तथाऽपि तस्मिन्नपि हेत्वादिपदप्रयोगात्तस्याप्युपस्थितिः स्यादिति निर्दोषेत्युक्तम् । ननु यथार्था युक्तयः स्मृता इत्यनुव्याख्याने युक्तेरनुमानत्वमुक्तम् । मिथ्यात्वानुमानखण्डने लिङ्गं हेतुरिति लिङ्गस्यैवानुमानत्वमुक्तमितितद्विरोधः । लोके व्याप्य एवानुमानत्वव्यवहारात्तद्विरोधश्चेत्यत आह ॥ उपपत्तिरिति । व्याप्यपदार्थस्य व्याप्तिघटितत्वाद्य्वाप्तिः केत्यत आह ॥ अविनाभाव इति । विनाऽभावाधिकरणे भावः सत्तावृत्तित्वमित्यर्थः । विनाभावस्याभावोऽविनाभाव इत्यर्थः । नन्वभावाधिकरणवृत्तित्वस्य केवलान्वयित्वेन तदभावोऽप्रसिद्ध इति चेत् । यमित्यध्याहृत्य विनेत्यस्य यदभावाधिकरण इत्यर्थत्वेन दोषाभावात् । ननु यदभावाधिकरणे यस्त्ववृत्तिः स तद्-व्याप्य इत्यक्तं स्यात् । असतः कुत्राप्यवृत्तित्वेन यदभावाधिकरणावृत्तित्वादतिव्याप्तेः । वह्न्यभावाधिकरणे हृदादौ धूमादेः कालिकादिसम्बन्धेन वृत्तेरसम्भवश्चेति चेन्न । अविनेत्यत्र यदभावमित्यध्याहारो विनेत्यस्याभावाधिकरण इत्यर्थः । तथा च यदभावाभावाधिकरणे इत्युक्तं स्यात् । द्वितीयाभावः प्रतियोग्येवेति यदधिकरणे भावः सत्त्वं वृत्तित्वमपि लभ्यते । अतो न दोष इत्याशयेनाह ॥ साहचर्यनियम इति । न च नियमपदार्थस्य व्याप्तिघटित

तयाऽऽत्माश्रय इति वाच्यम् । साध्यसहचरितत्वे सति तदभावासहचरितत्वमित्यर्थकत्वेन दोषाभावात् । ननु धूमवान्वन्हेरित्यादावतिव्याप्तिः । साध्यसहचरितस्य वह्नेः साध्याभावाधिकरणीभूतायोगोलकादाववृत्तित्वात् । न च वह्नित्वेन रूपेण पर्वतीयवह्नेरप्ययोगोलकादौ वृत्तित्वमप्यस्तीति वाच्यम् । वह्नित्वेनास्तीत्यस्यार्थस्य निरूपयितुमशक्यत्वात् । न च यद्धर्मविशिष्टस्य साध्याभाववद्वृत्तित्वं तद्धर्मवत्त्वं वा साध्याभाववद्वृत्तितावच्छेदकधर्मवत्त्वं वा तदर्थः । धूमाभाववद्वृत्तितावच्छेदकं वह्नित्वं भवति । वह्नित्वविशिष्टस्यायोगोलकवृत्तित्वं चेति तद्विशिष्टत्वात् । वह्नित्वेन सामान्यरूपेणायोगोलकवृत्तीति वाच्यम् । सिद्धान्तेऽनुगतधर्माभावादयोगोलकीयवह्निवृत्तिवह्नित्वस्य पर्वतीयवह्न्यादाव भावात् । अधिकरणतानिरूपितावच्छेकत्वादीनामप्रामाणिकत्वेन सिद्धान्ते वह्नित्वेऽयोगोलकीयवृत्तितावच्छेदकत्वस्याप्यभावात् । अवच्छेदकत्वादीनामङ्गीकारेऽप्ययोगोलकवृत्त्यवृत्तिवह्नित्वे तद्वृत्तितावच्छेदकत्वासम्भवात् । अयोगोलकवृत्तिवह्निनिष्ठवह्नित्वे तत्सम्भवेऽपि तस्य पर्वतीयवह्न्यादावभावात् । न च निखिलवह्निव्यक्तीनां तद्वृत्तितावच्छेदकत्वमङ्गीक्रियत इति वाच्यम् । तत्र मानाभावात् । न च वह्निरयोगोलकवृत्तीति प्रतीतौ प्रकारतावच्छेदकतया प्रतीयमानत्वमेव हि तत्र प्रामाण्यम् । तच्चायोगोलकीयवह्निनिष्ठवह्नित्व एव न तु पर्वतीयवह्निनिष्ठवह्नित्वे । तथा सत्ययोगोलकीयवह्नावपि पर्वतीयवह्नित्ववृत्तित्वापातात् । प्रमायां तस्मिन्भासमानत्वात् । ततश्चानुगतधर्माङ्गीकारः कृतः स्यात् । प्रमायां तस्मिन्भासमानमपि तत्र नास्तीति वदन् श्लाघनीयप्रज्ञ एवेति चेन्न । साध्यसहचरितत्वे सति साध्याभावसहचरितसजातीयान्यत्वस्य विवक्षितत्वात् । धूमवान्वह्नेरित्यत्र महानसादिवृत्तेर्धूमाभावासहचरितत्वेऽपि धूमाभावसहचरितायोगोलकीयवह्निसजातीयत्वेन दोषाभावात् । सजातीयान्यत्वं च सजातीयत्वविशिष्टप्रतियोगिकं ग्राह्यम् । तेन तादृशवह्निसजातीयवह्निव्यक्त्यन्तरान्यत्वसत्त्वेऽपि न क्षतिः । तद्वह्निर्धूमाभावसहचरितपर्वतीयवह्निनेति प्रतीतिसिद्धे भेदे धूमाभावसहचरितसजातीयत्वविशिष्टप्रतियोगिकत्वानङ्गीकारात् । विशिष्टस्यातिरिक्तत्वेन विशेष्यगतधर्माणां विना प्रमाणमसिद्धेः । न च प्रमेयत्वादिना वह्न्यभावसहचरितघटादिसाजात्यस्य धूमादावपि सत्त्वाद्वह्निमान्धूमादित्यादावव्याप्तिरिति हेतुतावच्छेदकाभिव्यङ्ग्यसादृश्यविशिष्टान्यत्वस्यैव विवक्षितत्वात् । यादृशधर्मविशिष्टस्य हेतुत्वं स धर्मो हेतुतावच्छेदकः । धूमादेरपि मेयत्वादिना रूपेण वह्निव्यभिचारित्वमिष्टमेव । ननु तथाऽप्यूर्ध्वदेशो वृष्टिमानधोदेशे नदीपूरादित्यत्र साध्यसाहचर्याभावान्नदीपूरेऽव्याप्तिः ।

तृतीयाया अवच्छेदकत्वार्थकत्वेऽनुशासनाद्यभावात् । किन्तु वैशिष्ट्यार्थकत्वमेव सहयोगाद्यभावेऽपीत्थम्भूतलक्षणे तृतीयेति सूत्रेणैव तृतीया जटाभिस्तापसो नास्तीत्यादिवाक्यवत् । तथा च घटसंयोगाभावो वा संयोगविशिष्टघटाभावो वा तादृशप्रतीतिविषयः । अत एव न्यायामृते भूतले घटो नास्तीति प्रतीतेर्वक्तृतात्पर्यानुसारेण घटसम्बन्धध्वंसप्रागभावविषयकत्वमुक्तम् । एवमधिकरणताऽपि न संसर्गावच्छिन्ना । संयोगेन घटोऽस्तीति प्रतीतेः संयोगविशिष्टघटविषयकत्वमेव न त्वधिकरणतायां संयोगसम्बन्धावच्छिन्नत्वविषयकत्वम् । नापि संसर्गस्याधिकरणतायां प्रयोजकत्वविषयकत्वं वा । तत्र प्रमाणाभावात् । न च संयोगेन घटाधिकरणे समवायेन घटो नास्तीति प्रत्ययानुपपत्तिः । घटरूपप्रतियोगिनः सत्त्वादिति वाच्यम् । समवायस्यैवालीकत्वात् । सत्त्वेऽपि विशिष्टस्यातिरिक्तत्वेन तादृशविशिष्टरूपप्रतियोग्यभावादेव तादृशप्रत्ययोपपत्तेः । लक्षणे साध्यतावच्छेदकविशिष्टप्रतियोगिका भावस्यैव निवेशेन विशिष्टाभावमादाय न दोषः । न च तादृशाभावाप्रसिद्धिः । अभावावगाहिप्रतीतिसामान्यस्य तत्तदधिकरणसम्बन्धविशिष्टस्य प्रतियोगिन एव विषयीकरणादिति वाच्यम् । अभावज्ञानोपयोगिज्ञाननिरूपिताधिकरणविषयताभिन्नविषयताया एव प्रतियोगितारूपत्वेन तस्याः शुद्धवन्हावपि सम्भवात् । किञ्च संसर्गस्याधिकरणतायां प्रयोजकत्वं न सम्भवति पर्णद्वयस्य संयोगसत्त्वेऽपि धर्मधर्मिता नास्तीत्यन्वयव्यभिचारात् । न च संयोगो वृत्त्यनियामक इति वाच्यम् । तस्यैव परिवृत्त्यस्थापने आधारादेयभावप्रतीतेः । न च तदानीं संयोगान्तरोत्पत्तिरिति वाच्यम् । पर्णयोः परस्परसंयोगनाशकक्रियाया अनुत्पन्नत्वेन पूर्वसंयोगनाशाभावस्यानुभवसिद्धत्वात् । अभावस्य स्वस्मिन्स्वधर्मितासत्त्वेन स्वस्मिन्स्वसम्बन्धाभावाद्य्वतिंरेकव्यभिचारश्च । न च नास्त्येव स्वस्मिन्स्वधर्मितेति वाच्यम् । घटाभावे घटो नास्तीत्यबाधितप्रतीतेः । तत्रापि विशेषणताख्यसंसर्गोऽङ्गीक्रियत इति वाच्यम् । सम्बन्धस्य भेदव्याप्तत्वेन स्वस्मिन्स्वसंसर्गासम्भवात् । तादृशसंसर्गस्य सप्तपदार्थातिरिक्तत्वप्रसङ्गात्प्रमाणाभावाच्च । न च धर्मित्वानुपपत्तिरेव मानमिति वाच्यम् । धर्मितायाः संसर्गप्रयोज्यत्वसिद्ध्युत्तरकालीनत्वादस्याः कल्पनाया अन्योन्याश्रयात् । न चासम्बद्धयोराधाराधेयभावः कथं युज्यत इति चेत् । असंयुक्तयोः संयोग इवेति गृहाण । तत्रापि सम्बन्धान्तरमङ्गीक्रियत इति चेत् । असम्बद्धस्यैतत्सम्बन्धत्वासम्भवेन सम्बन्धान्तरस्याङ्गीकर्तव्यता स्यात् । तदङ्गीकारे तत्र सम्बन्धान्तरापेक्षत्वेनानवस्थाप्रसङ्गात् । न च समवायस्य न सम्बन्धान्तरापेक्षा । स्वयमेव स्वस्य सम्बन्धित्वं सम्पादयति । स्वनिर्वाहकत्वान्नानवस्थेति चेत् । धर्मताया धर्मिताया अपि सम्बन्धत्वेन स्वनिर्वाहकत्वसम्भवेनाप्रामाणिकपरम्पराकल्पनस्यायुक्तत्वादित्यलं विस्तरेण । न चाभावाधिकरणताया संसर्गविशेषावच्छिन्नत्वानिवेशेऽसम्भव एव स्यात्सर्वत्राप्येककाले साध्याभावाधिकरणे हेतोर्वृत्तित्वादिति वाच्यम् । साध्याभावाधिकरणतायां साध्याधिकरणदेशभेदकालभेदान्यतराप्रयोज्यत्वस्य विवक्षितत्वात् । प्रतियोग्यभावयोरेकदेशवृत्तित्वे कालभेदः प्रयोजकः । एककालवृत्तित्वे देशभेदः प्रयोजकः । एवं च क्षणनिष्ठसाध्याभावाधिकरणताया देशभेदप्रयोज्यत्वेन तदप्रयोज्याधिकरणता । जलहृदादिनिष्ठवन्ह्यभावाधिकरणतैव तदवृत्तित्वाद्धूमस्य लक्षणसमन्वयात् । एवं पर्वत एव कालभेदेन वन्ह्यभावधूमयोः सत्त्वेऽपि पर्वतादिनिष्ठवन्ह्यभावाधिकरणतायाः कालभेदप्रयोज्यत्वेन तदप्रयोज्याधिकरणता हृदादिनिष्ठैवेति तत्र धूमस्यासत्त्वाल्लक्षणसमन्वयः । न च तथापीष्ट साधनं भोजनत्वादित्यादावौत्सर्गिकव्याप्तिमत्यव्याप्तिः । इष्टसाधनत्वाभावाधिकरणे विषपात्रादिदूषितान्नभोजनेऽपि भोजनत्वहेतोः सत्त्वात् । न च शुद्धभोजनत्वं व्यभिचार्येव किन्तु तत्तद्भोजनान्यभोजनत्वमेव लक्ष्यमिति वाच्यम् । तथा सति लोकानां भोजनस्वरूपहेतुता स्वप्रवृत्तिविषयीभूतभोजने इष्टसाधनत्वानुमित्यनुपपत्तेः । न च तत्तद्भोजनान्यभोजनत्वहेतुनैवेष्टसाधनत्वानुमितिरिति वाच्यम् । भोजनविशेषे तत्तद्भोजनान्यत्वस्यैव ज्ञातुमशक्यत्वेन कस्यापि तत्रेष्टसाधनत्वानुमित्यभावप्रसङ्गेन प्रवृत्त्यभावप्रसङ्गात् । न च सम्भावनयैव प्रवृत्तिर्न निश्चयेनेति चेत् । अनुभवविरोधात् । न च निश्चयो भ्रम एवेति चेत् । लोकानां तस्मिन्भ्रान्तित्वव्यवहाराभावात् । भ्रान्तित्वेऽपि कारणत्वस्य वक्तव्यत्वाच्च । न च निश्चयः । प्रत्यक्षं शाब्दबोधो वा । अनुभवविरोधात् । प्रत्यक्षायोग्यत्वाच्च । अनुमितित्वेऽपि न लिङ्गान्तरजन्या भोजनत्वज्ञानमात्रेण तादृशज्ञानस्य जायमानत्वात् । न च व्यभिचाराभाव भ्रमकाल एवोत्पद्यत इत्यपि भोजनविशेषे इष्टसाधनत्वाभावज्ञानकालेऽपि भोजनत्वज्ञानमात्रेणानुमितेरनुभवात् । अतो भोजनत्वेऽप्यनुमितिकारणज्ञानाविषयीभूता व्याप्तिरस्त्येवेत्युक्तलक्षणस्य तत् साधारण्याभावादव्याप्तिरेवेति चेन्न । साध्याभावाधिकरणतायां साध्याधिकरणताविघटकधर्मान्तराप्रयोज्यत्वस्यापि विशेषणस्य विवक्षितत्वाद्भोजनविशेषनिष्ठेष्टसाधनत्वाभावाधिकरणताया विषपात्रादिसम्बन्धरूपधर्मान्तरप्रयोज्यत्वेन तदप्रयोज्यसाध्याभावाधिकरणता भोजनान्यनिष्ठैव । तत्र भोजनस्यावृत्तित्वाल्लक्षणसमन्वयात् । इत्थं च साध्यतावच्छेदकविशिष्टाधिकरणदेशकालभेदाप्रयोज्या साध्याधिकरणताविघटकधर्मान्तराप्रयोज्या साध्यतावच्छेदकविशिष्टप्रतियोगिकाभावाधिकरणता तन्निरूपिततद्धर्म वत्सम्बन्धवत्सजातीयान्यत्वे सति साध्यतावच्छेदकविशिष्टाधिकरणतानिरूपिततद्धर्मव्यङ्ग्यसाजात्यप्रतियोगित्वमनुयोगित्वं वा व्याप्तिरिति फलितम् । पदकृत्यानि स्वयमूह्यानि । केचित्तु । ननु साहचर्यनियम इत्यत्र नियमपदार्थस्यैव व्याप्तिरूपत्वेन व्याप्तिलक्षणस्य व्याप्तिघटितत्वादात्माश्रयोऽनवस्था वेत्यत आह ॥ अविनाभाव इति । यादृशसाहचर्यरूपसम्बन्धेन विना स्वस्याभावोऽस्थितिस्तादृशसम्बन्धवत्त्वमित्यर्थः । तथा च साध्यसम्बन्धस्य हेतुसमकालत्वोक्त्या स्वाभाविकत्वं लभ्यते । सम्बन्धे स्वाभाविकत्वं चानौपाधिकत्वमेव । एवं चानौपाधिकसम्बन्धो व्याप्तिरित्युक्तं भवतीत्याहुः । न च संयोग्येतद्वृक्षत्वादित्यत्राव्याप्तिः । संयोगाभाववत्येतद्वृक्षे एतद्वृक्षत्वरूपहेतोः सत्त्वादिति वाच्यम् । अग्रे संयोगस्य विद्यमानत्वेन मूलनिष्ठसंयोगाभावाधिकरणताया मूलाग्ररूपदेशभेदप्रयोज्यत्वेन देशभेदाप्रयोग्यतादृशसाध्याभावाधिकरणतैतद्वृक्षान्येष्वेवेति तत्रैव तद्वृक्षत्वस्यावृत्तित्वाल्लक्षणसमन्वयात् । नन्वग्रमूलरूपावयवभेदस्य वृक्षनिष्ठसंयोगाधिकरणतायां तदभावाधिकरणतायां च प्रयोजकत्वं कुतः कल्प्यत इति चेत् । प्रतियोग्यभावयोरेकाधिकरणवृत्तित्वघटकत्वं कालभेदस्यैकदेशवृत्तित्वं सम्पादकत्वं तथा प्रकृतेऽप्यवयवभेद एव दृष्टानुसारेण प्रयोजकताकल्पनस्यैव न्याय्यत्वात् । तदभावे प्रतिनिधेः कल्पनीयत्वात् । ननु संयोगाधिकरणताया वृक्षनिष्ठाया अग्रमवच्छेदकमेव । तदभावाधिकरणताया मूलमवच्छेदकम् । अग्रे वृक्षः संयोगी मूले नेति प्रतीत्याऽवच्छेदकत्वस्यैव सिद्धेः । न चावच्छेदकत्वसिद्धावपि प्रतियोग्यभावयोः परस्परं विरुद्धयोरेकाधिकरणवृत्तित्वं कथं घटत इति चेत् । अवच्छेदकभेदेनैकाधिकरण्यसम्भवादेकावच्छेदकावच्छेदेनैकत्र वृत्तित्वं विरुद्धं न त्ववच्छेदकभेद इति चेत् । आगतं तर्हि मूलाग्रभेदस्य प्रयोजकत्वम् । तयोरेवावच्छेदकत्वेनाङ्गीकृतत्वात् । परन्त्वकिञ्चित्करेणाप्रमाणिकेनावच्छेदकेन न किमपि प्रयोजनं पश्यामः । मूलाग्रयोरवच्छेदकत्वसत्त्वेऽपि तद्भेदस्य प्रतियोग्यभावाधिकरणताप्रयोजकत्वस्यावयोरावश्यकत्वात् । न चाग्रे वृक्षः संयोगीति प्रतीत्याऽग्रादेरवच्छेदकत्वं सिध्द्यतीति चेत् । सप्तम्या अवच्छेदकत्वार्थकत्वे मानाभावात् । अग्रे वृक्षः संयोगीत्यस्याग्रवृत्तिसंयोगाश्रयो वृक्ष इत्यर्थः । एवं मूले वृक्षो न संयोगीत्यस्य मूलवृत्तिसंयोगाश्रयो नेत्यर्थः । अवयवावयविनोरभेदात्तत्तदवयववृत्तिपदार्थाश्रयत्वमवयवीभूतवृक्षादेः सम्भवत्येव । अभेदश्च प्रत्यक्षसिद्धः । एतन्मूलवृत्तिकपिसंयोगस्त्वप्रसिद्ध इति चेत् । अत एव तद्विशिष्टभेदो वृक्षे सम्भवति । प्रतियोग्यसिद्धेरदोषत्वात् । अत एकैकस्मिन्वृक्षे विरुद्धयोः प्रतियोग्यभावयोः कथं समावेशः सम्भवतीति तत्तधिकरणयोर्भागयोर्भिन्नत्वान्न त्ववच्छेदकभेदवद् लोकानुसारेण कल्पनायाः कर्तव्यत्वादिति वदन्ति । केचित्तु कपिसंयोग्येतद्वृक्षत्वादित्यत्राव्याप्तिरिति न वाच्यम् । संयोगाभावस्यैतद्वृक्षवृत्तित्वे मानाभावात् । मूले वृक्षो न संयोगी किन्त्वग्र इति प्रतीतिबलान्मूलावच्छेदेन संयोगाभाववत्त्वं वृक्षे सेत्स्यतीति वाच्यम् । अवच्छेदकताया मूलादिनिष्ठाया अप्रामाणिकत्वात् । मूलस्यैव संयोगाभावाधिकरणत्वाङ्गीकारात् । चक्षुषा भूतले घटस्येव मूले एव तदभावप्रतीतेरनुभवात् । तदनुसारेणैवाभिलापकवाक्यस्याप्यर्थस्य वाच्यत्वात् । मूल इति सप्तम्यर्थसंसर्गविशिष्टवृक्षे संयोगिभेदप्रतीतावपि सविशेषणे विधिनिषेधौ विशेषणमुपसङ्क्रामतो विशेष्ये बाधिते विशेषणे हीति न्यायेन मूल एव संयोगिभेदं बोधयति । शिखी नष्ट इति वाक्यं यथा शिखायामेव ध्वंसप्रतियोगित्वं बोधयति । अन्यथा वृक्षे संयोगो नास्तीति प्रत्ययप्रसङ्गः । संनिकर्षादेः कारणकलापस्य सत्त्वात् । वस्तुतस्तु मूले वृक्षः कपिसंयोगीति वाक्येन मूलवृत्तिसंयोगाद्भेद एव प्रतीयते । स चैतद्वृक्षेऽबाधित एव । शिखी नष्ट इत्यत्र विशिष्टे ध्वंसप्रतियोगित्वमेव प्रतीयते । तच्चाबाधितमेव विशिष्टस्यातिरिक्तत्वादिति । यदि चावच्छेदकत्वानवगाहिप्रतीताववच्छिन्नस्य भानं तर्हि वृक्षे संयोगोऽस्तीति प्रत्ययो न स्यात् । वृक्षस्य मूले संयोगो नास्तीति प्रतीत्या मूलस्य संयोगाभावाधिकरणत्वेन तदवच्छेदकत्वायोगाच्च । तदभाववतोऽपि तदवच्छेदकत्वाङ्गीकारे वृक्षे वृक्षे संयोगो नास्तीत्यपि प्रत्ययप्रसङ्गः । न च वृक्षे संयोगाभावसत्त्वेऽपि तदवच्छेदकता नाङ्गीक्रियत इति वाच्यम् । वृक्षे मूलेन संयोग इति प्रतीतेर्मूलनिष्ठसंयोगाभावाधिकरणतायामवच्छेदकत्वं वृक्ष एवावगाहत इत्यपि वक्तुं शक्यत्वेनानया प्रतीत्यैव वृक्षे संयोगाभावावच्छेदकत्वसिद्धेः सम्भवात् । अन्यथा मूले व्यधिकरणतैव सिध्द्येन्नावच्छेदकत्वमित्यापातात् । न च भवन्मतेऽपि वृक्षमूलयोरभेदेन मूलवृत्तिसंयोगाभावस्य कथं वृक्षावृत्तित्वमिति वाच्यम् । भेदस्याप्यङ्गीकृतत्वेन प्रमितानामेव वृक्षे न सर्वेषां मूलवृत्तिधर्माणामिति सम्भवात् । न च मूलनिष्ठसंयोगाभावाधिकरणताया वृक्षावच्छेद्यत्वेऽपि वृक्षनिष्ठसंयोगाभावाधिकरणतायां मूलावच्छेद्यत्वमेव न वृक्षावच्छेद्यत्वमिति वृक्षे न कपिसंयोग इति प्रतीत्यापत्तिरिति वाच्यम् । मूलवृक्षयोरभेदेन मूलनिष्ठसंयोगाधिकरणताया एव वृक्षनिष्ठत्वेन वृक्षनिष्ठाधिकरणत्वावच्छेदकत्वाङ्गीकाराभावस्यातिरिक्तत्वात् । न च मन्मते वृक्षमूलयोर्भेद एवेति वाच्यम् । प्रत्यक्षेणाभेदस्यैव गृहीतत्वेन भेदस्यासिद्धेः। वृक्षमूलयोरभेदग्रहवतः पुरुषस्य तादृशप्रत्ययोत्पत्तौ बाधकाभावेन वृक्षे वृक्षे संयोगो तदभावो वेति प्रतीतेः कदाचिदप्यापत्तेः । मूलनिष्ठसंयोगाभावाधिकरणताभिन्नाया वृक्षनिष्ठाधिकरणताया अप्रतीत्या मानाभावेनाधिकरणताद्वयस्यासिद्ध्या न वृक्षत्वादीनामवच्छेदत्वाद्यङ्गीकारेणाप्युक्तापत्तिवारणासम्भवः। तस्मादवच्छेदकत्वादीनामप्रामाणिकत्वेन न वृक्षे संयोगाधिकरणे संयोगाभावधिकरणतेत्याहुः । ननु व्याप्य इत्यस्य व्याप्त्याश्रय इत्यर्थः । तथा च निर्दोषत्वे सति व्याप्त्याश्रयत्वमनुमानलक्षणमित्युक्तम् । तथा सति तर्केऽव्याप्तिः । कस्यचित्पदार्थस्याङ्गीकारेऽर्थान्तरापादनं तर्क इत्युक्तत्वादापाद्यमानधूमाभाव एव तर्कः । स च न साध्यीभूतवन्हिव्याप्य इत्यत आह ॥ व्याप्तेः कर्मेति । व्याप्यपदस्य कर्मवाचकयत्प्रत्ययान्तत्वाद्वन्हिर्धूमं व्याप्नोतीति प्रयोगाद्धेतोर्व्याप्तिकर्मत्वमस्त्येव । अयमाशयः । क्रियाजन्यफलशालित्वमेव कर्मत्वम् । प्रकृते व्याप्तिरूपक्रियाप्रयोज्यं फलम् । अनुमितिजननानुकूला शक्तिर्व्याप्तिज्ञानाभावे धूमादिरूपहेतुज्ञानमात्रादनुमितेरनुत्पत्तेः । न च व्याप्तिज्ञानमपि साक्षादनुमितिहेतुः किन्तु लिङ्गज्ञानमेव । व्याप्तिज्ञानं तु सहकारि । सहकारित्वं च करणगतशक्त्युपबृंहकत्वम् । यथा लोकेऽञ्जनविशेषादेश्चक्षुर्गतशक्तिव्यञ्जकत्वं वेत्रबीजानां कदलीकाण्डजनने भर्जनं सहकारि । ननु वन्हिव्याप्यधर्मवान्पर्वत इति विशिष्टज्ञानमेवानुमितिहेतुर्न लिङ्गज्ञानमात्रमिति वाच्यम् । ज्ञानद्वयादप्यनुमितेरानुभाविकत्वेन तत्रापि विशिष्टज्ञानकल्पने गौरवात् । न च ज्ञानद्वयादनुमित्यङ्गीकारे कारणताद्वयं कल्पनीयम् । मम त्वेक एव कार्यकारणभावः । यद्यपि गुरुरूपस्य कारणतावच्छेदकत्वान्मन्मते विशेषणविशेष्यभावे विनिगमनाभावान्नानाधर्माणां गुरूणां कारणतावच्छेदकत्वप्राप्त्या कारणाभावबाहुल्येन च कल्पनागौरवम् । तथाऽपि समनियतकारणतानामैक्याङ्गीकारे न गौरवम् । किञ्च तज्ज्ञानविशिष्टैतज्ज्ञानविशिष्टतज्ज्ञानविशिष्टतज्ज्ञानत्वादिकारणतावच्छेदकानां भवन्मतेऽपि बहुत्वम् । सामानाधिकरण्यकालिकविशेषणतयोर्ज्ञानयोर्वैशिष्ट्यविधया निवेशनाधिक्यं च । यदि समवायसम्बन्धेन स्वतन्त्रं कारणताद्वयं मिलितयोः फलोपधायकत्वाङ्गीकारान्नैकज्ञानकालेऽनुमित्यापत्तिरित्युच्यते । तथाऽपि त्वन्मतेऽपि विषयतानां विनिगमनाप्रयुक्तकारणबाहुल्यमस्त्येव । व्याप्त्यंशे निश्चयत्वनिवेशश्चाधिकः । व्याप्तिविशिष्टवैशिष्ट्यावगाहित्वेन ज्ञानस्य कारणत्वे तु न तन्निवेशः । तादृशज्ञानं प्रति विशेषणतावच्छेदकनिर्णयस्य कारणीभूतस्य पूर्वं सत्त्वेन तदंशसंशयात्मकत्वस्यासम्भवात् । इत्थं च फलमुखगौरवस्यादोषत्वा (फलं कार्यकारणभावग्रहः । तन्मुखं तदधीनं यद्गौरवज्ञानं तस्यादोषत्वात् । तत्तदनुमित्यव्यवहितपूर्ववृत्तित्वाश्रयकत्वरूपकार्यकारणभावग्रहाप्रतिबन्धकत्वात् ।) विशिष्टवैशिष्ट्यावगाहिज्ञानं कल्प्यत इति । मैवम् । धूमालोकपरामर्शजन्यानुमितौ तत्तत्परामर्शानव्यवहितोत्तरत्वनिवेशस्य कार्यतावच्छेदककोटौ निवेशस्य भवन्मतेऽप्यावश्यकतया विषयतानां विशेषणविशेष्यभावे विनिगमकाभावेन कार्यतावच्छेदकबाहुल्यस्यावश्यकत्वेन तन्निमित्तकार्यकारणभावबाहुल्यस्यावश्यकत्वेन तन्मतापेक्षया गौरवस्य स्फुटत्वात् । ज्ञानद्वयकारणतापक्षे पक्षधर्मतानिश्चयोत्तरानुमितित्वमेव पक्षधर्मताज्ञानकार्यतावच्छेदकं व्याप्तिनिश्चयोत्तरानुमितित्वमेव । वन्हिसाध्यकपर्वतादिनानापक्षकानुमितिसाधारणं कार्यतावच्छेदकमिति लाघवस्य स्फुटत्वात् । त्वन्मते विशिष्टपरामर्शोत्तरत्वस्य धर्मितावच्छेदकभिन्नभिन्नानुमितिसाधारण्यासम्भवेन तत्र तत्रातिरिक्तायाः कारणतायाः कल्पनेन गौरवस्य स्फुटत्वात् । वस्तुतस्तु कारणताशक्तिरूपाऽखण्डैव स्वरूपसम्बन्धरूपसमवच्छेदकत्वादिकं त्वप्रमाणमेव । यद्भेदात्कारणताकार्यतयोरपि भेदः स्यात्किन्तु तयोर्ज्ञापकं तदाश्रययोरितरव्यावर्तकमवच्छेदकमित्युच्यते । यथा घटत्वावच्छिन्नं प्रति दण्डत्वेन कारणता तत्र दण्डत्वं सादृश्यविशेषजननद्वारा तादृशसादृश्यानुयोगिनि प्रतियोगिषु च कारणत्वबुद्धिं जनयति कारणभेदं च ज्ञापयत्येवं सादृश्यज्ञानद्वारा सर्वेषु घटेषु कार्यताबुद्धिं जनयतीति कारणतावच्छेदकं कार्यतावच्छेदकमित्युच्यते । एवं च विशेषणविशेष्यभावे विनिगमनाविरहेण समनियतानां परामर्शवृत्तिनानाधर्माणामुक्तावच्छेदकत्वसत्त्वेऽपि न कारणताभेदः । एकस्या एव कारणताया नानाधर्मज्ञानजन्यज्ञानविषयत्वसम्भवात्स्वाश्रयेषु स्वानधिकरणव्यावृत्तिबुद्धिविषयत्वसम्भवाच्च । न हि धूमालोकादिनानाधर्मज्ञाप्यसत्त्वेऽपि वन्हेर्भेदोऽस्ति । एवं तादृशमवच्छेदकत्वं गुरुधर्मस्यापि सम्भवत्येव । न हि नानारूपत्वं गन्धापेक्षया गुर्वित्येतावता पृथिवीत्वाज्ञापकं पृथिव्याव्यावर्तकं वा न भवति । अत एव गुरुत्वात्कारणतावच्छेदकं न सम्भवतीत्युक्तिरसङ्गतैव । किन्तु गुरुधर्मपुरस्कारेण कारणत्वं वक्तुरेव कौशल्यज्ञापकं गुरुत्वं गुरोर्धर्मस्य लघुधर्मापेक्षया विलम्बोपस्थितिकत्वेन खटिति व्यावर्तकाद्यसम्भवात् । लघोः शीघ्रोपस्थितिकत्वेन तस्यैव वक्तव्यत्वात् । एवं च नोक्तगौरवादिभिया विशिष्टस्य तत्त्वेन कारणत्वपरित्यागः । किन्तु ज्ञानद्वयस्थले सर्वत्र क्षणविलम्बेन विशिष्टज्ञानकल्पने मानाभावेन विशिष्टज्ञानं विना क्वचिज्ज्ञानद्वयेनाप्यनुमित्युत्पत्तौ बाधकाभावात् । अतः केवलपक्षधर्मताज्ञानमप्यनुमितिहेतुर्व्याप्तिज्ञानं सहकारीत्यङ्गीक्रियते । अन्यथा पर्वतो वन्हिमानित्युक्ते कुत इति इति प्रश्ने धूमादित्युक्ते रसगतत्वापातात् । व्याप्यधूमादिति वक्तव्यत्वापातात् । न हि चन्दनप्रभववन्हिमानित्युक्ते कुत इति प्रश्ने धूमादिति वदन्ति किन्तु सुरभिधूमादित्येव वदन्ति । अतः केवलपक्षधर्मताज्ञानस्य कारणत्वमङ्गीकरणीयम् । न च तथाऽपि व्याप्तिज्ञानस्यापि कारणत्वमङ्गीकार्यमेवेति वाच्यम् । सहकारिकारणत्वस्येष्टत्वात् । स्वातन्त्र्येणैव कारणत्वमास्तां किं कारणीभूतपक्षधर्मताज्ञानगतशक्तिव्यञ्जकत्वकल्पनेनेति चेत् । तथा सति ज्ञायमानलिङ्गस्यानुमितिकरणतावद्य्वाप्तेरप्यनुमानत्वापत्तिः । यद्यपि व्याप्त्यादेः करणसन्निकर्षरूपत्वात्सन्निकर्षस्यापि प्रत्यक्षप्रमाणत्ववत्प्रमाणत्वमङ्गीकर्तुमुचितम् । तथाऽपि न लिङ्गवत्प्रामाण्यं किन्तु लिङ्गविशेषणतयैव प्रामाण्यम् । तथाऽपि लिङ्गगतशक्तिव्यञ्जकत्वमङ्गीकार्यम् । पर्वतस्य वन्हिमत्त्वे धूमादिहेतोरिव व्याप्तेः प्रमाणत्वेन पृथगुपन्यासाभावाल्लिङ्गविशेषे गमकता कुत इत्याकांक्षायामेव व्याप्त्यादेरुपन्यासात् । व्याप्तिमुख्यविशेष्यकज्ञानस्यानुमितिजनकत्वाभावाल्लिङ्गविशेषणतया ज्ञाताया एव व्याप्तेरुपयुक्तत्वात् । व्याप्तेर्लिङ्गधर्मत्वाच्च लिङ्गज्ञानमेवानुमितिहेतुः । व्याप्तिस्तज्ज्ञानं वा स्वाश्रये स्वनिरूपके वा लिङ्गप्रमितिजननानुकूलां शक्तिं सम्पादयति । अतो व्याप्तिप्रयोज्यानुमितिजननानुकूलशक्तिरूपफलाश्रयत्वाद्य्वाप्यत्वं धूमादेर्न तु व्याप्त्याद्याश्रयाद्य्वाप्य इति व्यवहारविषयत्वमिति । अत एव प्रमाणलक्षणे व्याप्तिबलेनार्थावगमकं लिङ्गमित्युक्तम् । प्रकृते चापाद्यमाने धूमाभावे तदापत्तौ वा या वन्ह्यभावनिष्ठधूमाभावनिरूपिता व्याप्तिः सा वन्ह्यनुमितिजननानुकूलां शक्तिं सम्पादयति । धूमाभावस्य व्याप्त्यनाश्रयत्वेऽपि तन्निरूपकत्वादाश्रय इव निरूपकेऽपि शक्तिविशेषाधाने बाधकाभावात् । तथा च धूमाभावे तदापत्तौ वा वन्ह्यभावनिष्ठस्वनिरूपितव्याप्त्याहितसाध्यप्रमानुकूलशक्तिमत्त्वसत्त्वान्निर्दोषोपपत्तित्वरूपलक्षणं नाव्याप्तमिति । न च वन्ह्यभावनिष्ठधूमाभावनिरूपिता व्याप्तिरापत्तिस्वरूपनिष्पत्तावेवोपयुज्यते । आपत्तावनुमितिजननाकूलशक्तिसम्पादकत्वे मानाभाव इति वाच्यम् । व्याप्तावप्रामाण्यग्रहदशायां निष्पन्नत्वादापत्तेरनुमित्यापत्तेः । न च तत्स्थले आपत्तावप्रामाण्यधीर्जायत इति वाच्यम् । तदभाववति तत्प्रकारकत्वरूपस्याप्रामाण्यस्यापत्तौ पूर्वमेव निश्चितत्वात् । व्याप्तिधीकाले तादृशाप्रामाण्यग्रहसत्त्वादनुमित्यभावप्रसङ्गादापत्तेर्भ्रमरूपत्वस्य कथमप्यसम्भवेन भ्रमत्वरूपाप्रामाण्यस्याप्यसम्भवाद् भ्रमस्य विधिरूपविषयताघटितत्वेनापत्तीयविषयताया विजातीयत्वेन विधिरूपत्वाभावात् । एतत्तत्त्वमधस्ताद्विवोचितं वेदितव्यम् । अथोच्यते । आपत्तिर्न विजातीयविषयतावज्ज्ञानम् । तथात्वे प्रमाणाभावात् । आपत्तेर्धूमाभावपर्वततत्सम्बन्धमात्रावगाहित्वे तर्हि स्यादिति पदद्वयस्य यदीति पदस्य चानर्थक्यप्रसङ्गात् । किन्तु धूमाभावानङ्गीकारे स्वक्रियाविरोधज्ञानमेवापत्तिः । प्रकृते च व्याप्त्यङ्गीकाररूपैव क्रिया विरुद्धा । इत्थं च वन्ह्यभावे धूमाभावव्याप्तेरभावज्ञाने आपत्तेरेव लीनत्वान्ननुमितिरिति चेन्न । धूमाभावानङ्गीकारस्तद्-व्याप्यवन्ह्यभावाङ्गीकाररूपस्वक्रियाविरुद्ध इति वाक्याधीनज्ञानापेक्षया यद्यग्निर्न स्यात्तदा धूमोऽपि न स्यादित्यापादकवाक्याधीनप्रतीतेर्विलक्षणाया अनुभवसिद्धत्वात् । अनुभवानादरे सर्वव्यवस्थोच्छेदप्रसङ्गः । धूमाभावमनङ्गीकृत्य वन्ह्यभावाङ्गीकारकर्तुः स्वक्रियाविरोधव्युत्पादनेन तद्वाक्यस्य स्वव्याहतत्वेन तद्वाक्यस्य जात्युत्तरत्वेन च ज्ञातत्वेन विपर्ययपर्यवसानस्य निष्प्रयोजनत्वेन तर्काङ्गत्वं न स्यात् । वन्हिप्रमां प्रत्युक्तविरोधज्ञानस्य कारणत्वासम्भवेनापत्त्या वन्हिप्रमानुत्पत्तिप्रसङ्गश्च । न च वन्ह्यनुमितिर्नोत्पद्यत एवेति वाच्यम् । विपक्षे बाधकेनात्र वन्हिं कल्पयामीति सर्वानुभवसत्त्वादापत्तेरेव बाधकपदार्थत्वाद्विपक्षे बाधकसत्त्वादिदमङ्गीकार्यमिति परःशतं शास्त्रेषु व्यवहारस्य सत्त्वात् । वाद्यङ्गीकृतपक्षाभावासाधने वादिनिवृत्तेरयोगेनापत्तेर्वैय्यर्थ्यापत्तेश्च । मयाऽपि वाद्यङ्गीकृतसाध्याभावत्वेन प्रकृतसाध्यसाधकत्वस्याङ्गीकृतत्वात् । न च विपर्ययपर्यवसानस्याव्यापकाभावधीरूपत्वाद्विपर्यये पर्यवसाने व्याप्यीभूतवन्ह्यभावस्याभावो न सिध्यतीति वाच्यम् । तर्ह्यापत्तेरनुमित्यकारणत्वेन तत्कारणानुपपत्तेः । न च वादिनिवृत्त्यर्थमापत्तिकारणमापत्तौ कृतायां जातित्वं ज्ञास्यत इति वाच्यम् । यत्र वादिना पक्षविशेष धूमादिकमपश्यता वन्ह्यभावोऽङ्गीकृतस्तत्रापत्तेर्व्यर्थत्वापत्तेः । धूमाभावानङ्गीकारबोधस्य धूमोऽस्त्वित्यादिवाक्यस्याप्रयुक्तत्वेन जातित्वव्यापकत्वासम्भवाद्वन्हिप्रमायामापत्तेरनुपयुक्तत्वात्तत्रापत्तेरनुदयप्रसङ्गश्च । धूमाङ्गीकाररूपधूमाभावानङ्गीकारस्य प्रतिवादिन्यसत्त्वेन तत्र स्वक्रियाविरोधोद्भावनस्यासङ्गतत्वात् । धूमाभावङ्गीकाराभावस्यैवानङ्गीकारपदार्थत्वे प्रतियोगिस्मरणाद्यभावनिबन्धनधूमाभावाङ्गीकाराभावस्य वन्ह्यभावाङ्गीकारविरुद्धत्वाभावेनापत्तेरप्रामाण्यापत्तेः । तद्-व्याप्यत्वेन गृहीतधर्माङ्गीकारविरुद्धो व्यापकानङ्गीकार इति चेत् तर्हि धूममजानतः प्रतियोगिज्ञानाभावेन धूमाभावमप्यजानतोऽदर्शनाद् वह्नि र्नास्तीति वदतो वादिनो वन्ह्यभावाङ्गीकारे धूमो न स्यादित्यापादनस्यासङ्गतत्वापत्तिः । तत्र वन्ह्यभावस्यधूमाभावव्याप्यत्वेनागृहीतत्वात् । तस्मादापत्ति र्विजातीयविषयतावज्ज्ञानमेव । यत्तु तर्कस्य भ्रमरूपत्वान्न प्रमाणत्वमिति । तत्तुच्छम् । तदभाववति तत्प्रकारत्वस्य भ्रमरूपत्वाभावात् । किन्तु तत्प्रकारकविजातीयविषयताश्रयज्ञानस्यैव भ्रमरूपत्वात् । तादृशविजातीयविषयताया आपत्तावनङ्गीकारात् । न च तथाऽपि तर्कस्य प्रमाजनकत्वं न सम्भवति । तर्केण हेतावप्रामाण्यशङ्कानिरासद्वारा व्याप्तिनिश्चय एव जायते । तेन प्रकृते हेतुनैव साध्यानुमितिरिति वाच्यम् । मध्ये पुनः परामर्शान्तरकल्पने गौरवापातात् । नन्वक्लृप्तस्य प्रकृतहेत्ववृत्तिव्याप्तिनिश्चयस्य कारणताकल्पनापेक्षया परामर्शान्तरकल्पनमेव ज्याय इति चेत् । शास्त्रे प्रकृतसाध्यव्याप्यहेतुमनुपन्यस्यापत्तिमात्रस्य शतधा क्रियमाणत्वेनापत्तेर्हेतुताया अपि क्लृप्तत्वात् । आपत्त्यनन्तरमनुमितिस्तावदनुभवसिद्धा साध्यं तर्कयामीत्यनुभवस्य सर्वसाक्षित्वात् । तत्र च व्याप्यस्यानुक्तत्वेन व्याप्यज्ञानाभावेन सिद्धे परिशेषादापत्तिजन्यत्वस्यैव सिद्धेः । न च तत्राप्यापद्यमानप्रतियोगिन एव हेतुत्वेनाभिमतत्वेन तद्धेतौ व्याप्यादिसिध्द्यर्थमेव तर्कोक्तिरिति वाच्यम् । अनुभवविरोधाद्गौरवाच्च ।

अन्यथा शब्दस्यापि पृथक् प्रामाण्यासिद्धिप्रसङ्गः । तत्रापि वैशेषिकोक्तदिशा व्याप्त्याद्यनुसन्धानेनैव शाब्दत्वेनाभिमतस्योत्पत्तिः । अक्लृप्तशब्दादिकारणत्वकल्पनापेक्षया व्याप्त्याद्यनुसन्धनकल्पनस्य गौरवानापादकत्वात् । ृणोमीत्यनुभवस्य शाब्दत्वस्यानुमितित्वव्याप्यधर्मत्वेनाप्युपपत्तेः । व्याप्त्याद्यनुसन्धानं तत्रानुभवविरुद्धमिति चेत् । अत्रापि व्याप्त्यन्तरानुसन्धानादिस्तथैवेति । किञ्चापत्तिस्थले आपादकाभावाभावत्वेन रूपेण साध्यानुमितिः । साधनस्थले वन्हित्वादिरूपेण वन्ह्याद्यनुमितिरिति फलभेदस्यानुभवसिद्धत्वात् । अत एवास्य दूषणानुमानत्वं प्रतिवाद्युक्तार्थाभावसाधकत्वात् । ननु तथाऽपि नापत्तेरनुमितिजनकत्वं किन्तु व्यतिरेकव्याप्तिज्ञानविपर्ययपर्यवसानयोर्द्वयोरेव हेतुत्वसम्भवान्नैयायिकादिभिरपि केवलव्यतिरेकिस्थले यन्न पृथिवीतरेभ्यो भिद्यते तन्न पृथिवीत्युदाहरणं न च नेयं तथेति पक्षे हेत्वभावाभावबोधकं चोपनयं साध्यभावाभावत्वेन साध्यबोधकं तस्मान्न तथेति निगमनं च दर्शयद्भिः साध्याभावे हेत्वभावव्याप्यत्वग्रहस्य व्यापकीभूतहेत्वभावाभावत्वेन पक्षे हेतुज्ञानस्य करणतायाश्चाङ्गीकृतत्वादिति चेन्न । तत्र व्यापकत्वेन गृहीतधूमाभावनिवृत्त्यैव वह्न्यभावाभावज्ञानात् । तत्र च व्यापकाभावव्याप्याभावयोर्व्याप्तिज्ञानाभावे व्यापकत्वेन गृहीतधूमाभावाभावग्रहेऽपि वन्ह्यभावाभावविषयकबुद्धेरनुदयेन यो यद्य्वापकशून्यः स तद्-व्याप्यशून्य इति सामान्यव्याप्तिज्ञानसहकृत एव धूमाभावाभावग्रहो वन्ह्यभावाभावग्रहं जनयति । अत एव केवलव्यतिरेकिणो लिङ्गस्य सिद्धान्तेऽङ्गीकारः । उक्तसामान्यव्याप्तिग्रहमपेक्ष्यैव साध्यधीजनकत्वात् । व्यतिरेकव्याप्तिग्रहस्य तादृशसामान्यव्याप्तिग्रहाभावे केवलव्यापकाभावग्रहेऽपि प्रकृतानुमित्यजनकत्वात् । एवं चापात्तिस्थले तादृशसामान्यव्याप्तेरनुसन्धानाभावेऽप्यनुमितेरनुभवसिद्धत्वेनापत्तेः कारणत्वाङ्गीकारस्यैव युक्तत्वात् । अन्यथा सर्वत्रापत्तिरेवानुमितिकारणमनुमानं त्वापत्तिनिष्पत्त्यर्थमिति स्याद्विनिगमकाभावात् । अनुभवस्य च प्रकृतेऽपि प्रदर्शितत्वात् । अथ व्यापकत्वेन गृहीतधर्माभावज्ञानस्योक्तरीत्या सामान्यव्याप्तिग्रहसापेक्षत्वं कुतः सामान्यव्याप्तिग्रहसत्त्वे व्याप्याभावधीजनकत्वं तदभावे तदभाव इति सर्वानुभवसिद्धान्वयव्यतिरेकबलादेवेति । केचित्तु व्याप्तिस्तु साध्यसम्बन्धः । तदभावाधिकरणवृत्तित्वे सति तदधिकरणवृत्तित्वरूपः । प्रकृते हेत्वभावाधिकरणवृत्तित्वस्य हेत्वभावाभावाधिकरणवृत्तित्वस्य च साध्याभावे भानेऽपि हेत्वधिकरणे साध्यसन्देहस्तु स्यादेव व्याहतत्वादेरभावात् । व्याघातबाधितत्वादिशङ्कया वह्न्यभावनिष्ठहेत्वाधिकरणावृत्तित्वस्य साध्यनिष्ठहेत्वधिकरणावृत्तित्वं प्रति साक्षाद्विरोधित्वाभावात् । यद्यपि हेत्वधिकरणे साध्यसन्देहस्य साध्याभावे हेत्वधिकरणवृत्तित्वावगाहित्वेन व्याप्तिज्ञानस्य तदभावावगाहित्वेन साक्षाद्विरोधिविषयकत्वेन प्रतिबन्धकत्वमेवेति प्रतिभाति । तथाऽपि साध्याभावे हेत्वधिकरणवृत्तित्वसंशयासम्भवेऽपि हेत्वधिकरणे साध्यधीजनकत्वासम्भवेन साध्यवत्तासंशयस्तु स्यादेव । तथा हि । वन्ह्यभावो धूमाभाववद्धृत्तिर्धूमाभावाभाववदवृत्तिश्च धूमाभावाभाववांश्च पर्वत इति ज्ञानसत्त्वेऽपि यस्मिन्धूमाभावाभावो ज्ञायते तदवृत्तित्वग्रह एव वन्ह्यभावे भवेन् न तु तस्मिन्वह्न्यभावाभाववत्त्वम् । ननु भावाभावयोरन्यतरस्यावृत्तित्वेऽन्यतरस्य वृत्तित्वं नियतमेवेति वाच्यम् । उक्तनियमज्ञानकाले साध्याभावाभावे तद्वृत्तित्वग्रहजनकत्वेऽपि तज्ज्ञानाभावकाले तद्धीजनकत्वासम्भवात् । सर्वेषामुक्तनियमज्ञानं वर्तत एवेति न शङ्क्यम् । मायावादिषु तदभावात् । जगति मिथ्यात्वतदभावयोरुभयोरपि निषेधाङ्गीकारात् । किञ्चाप्रामाणिकप्रतियोगिकत्वमभावस्येति नियमोऽभावस्य प्रतियोग्यारोपे यत्प्रधानं तेन साकं विरोधः । अतो व्यतिरेकित्वं चेति मते देशविशेषसंसृष्टघटादिरूपासत्प्रतियोगिकाभावस्य प्रतियोग्यारोपे यत्प्रधानं तदधिकरणावृत्तित्वेऽपि तत्पतियोगिनोऽसद्विशेषस्य तत्र वृत्तित्वाभावात् । तन्मते भावाभावयोरेकतरनिषेधे एकतरसत्त्वनियम इत्यस्य गौणप्रतियोगिनं प्रतियोग्यारोपे प्रधानरूपमादायोपपादनं कार्यम् । तस्माज्ज्ञानद्वयसत्त्वेऽपि साध्याधिकरणतायाः शङ्कासम्भवेन धूमाभावाभाववति वह्न्यभावाभावज्ञानमापत्तिमपेक्षत एव । आपत्तेरापादका भावाभाववद्विशेष्यकत्वनियमेन वह्न्यभावाभाववत्त्वेन वह्निप्रमितौ स्वतन्त्रकारणता स्वीक्रियते । पूर्वं सर्वानुभवस्य प्रदर्शितत्वात् । अत एवापत्तेः साध्यप्रमितौ स्वातन्त्र्येण हेतुत्वादनुमानमित्युच्यते । विपर्यये पर्यवसानं तु सहकारि । तस्मात्तर्कस्यानुमानसामान्यलक्षणाक्रान्तत्वादनुमानत्वं निर्बाधमित्यलं विस्तरेण । पर्वते यद्यग्निर्न स्यात्तर्हि धूमोऽपि न स्यादिति तर्काभिलापकवाक्यस्यायमर्थः । यदीत्यत्र यत्पदस्य प्रमात्वेन गृह्यमाणं ज्ञानमर्थः । पूर्वं वादिवाक्येन तादृशज्ञानस्य बुद्धिस्थत्वात् । तदुत्तरप्रत्ययस्य विषयताऽर्थः । तस्या अग्निपदार्थान्विते नञर्थेऽभावेऽन्वयः । पर्वतेऽग्निर्नेत्यस्य पर्वतवृत्तित्व विशिष्टवह्निप्रतियोगिकाभाव इत्यर्थः । स्यादित्यस्य सत्ताश्रय इत्यर्थः । तथा च यद्यग्निर्न स्यादित्यस्य प्रमात्वेन गृह्यमाणज्ञानविषयताविशिष्टपर्वतवृत्तित्वविशिष्टवह्निप्रतियोगिकोऽभावः सत्ताश्रय इति बाधः । इदं वाक्यं तर्हीत्यत्र तत्पदशक्तिग्रहाय तात्पर्यग्राहम् । तथा च तर्हीत्यत्र तत्पदस्य प्रमात्वेन गृह्यमाणं तादृशाभावविषयकं ज्ञानमित्यर्थः । तदुत्तरप्रत्ययस्य समकालीनत्वमुत्तरकालीनत्वं वाऽर्थः । स्यात्पदार्थे सत्तायामन्वयः । तस्या धूमोऽपि नेति वाक्यबोधे पर्वतवृत्तित्वविशिष्टधूमाभावेऽन्वयः । इत्थं च पर्वतवृत्तित्वविशिष्टवन्हिप्रतियोगिकाभावविशेष्यकसत्ताश्रयत्वप्रकारकं यत्प्रमात्वेन गृह्यमाणं ज्ञानं तत्कालीनसत्ताश्रयः । पर्वतवृत्तित्वविशिष्टधूमाभाव इति बोधः । सत्तायां विधिरूपत्वाभावान्न भ्रमत्वम् । वह्न्यभावस्य व्याप्यत्वात्तदङ्गीकारे व्यापकीभूतधूमाभावाङ्गीकारो न्यायप्राप्त इति ज्ञापयितुं यदीत्याद्युक्तिः । तेन स्वक्रियाविरोधोऽपि सूचितो भवति । प्राचीनग्रन्थेषु प्रकारान्तरेणान्तर्भावप्रकारोक्तिसत्त्वेऽपि तदविरुद्धत्वादयमपि प्रकारो ज्ञातव्य इत्यलम् । ननु साहचर्यस्यैव व्याप्तित्वमस्तु किं नियमपदेन । न च धूमवान्वह्नेरित्यत्रातिव्याप्तिः । अयोगोलकीयवह्नौ तदभावेनातिव्याप्तेरभावात् । तदतिरिक्तवह्नेर्व्याप्तत्वमिष्टमेव । न च साहचर्यमात्रज्ञानादनुमित्यापत्तिः । हेतुतावच्छेदकावच्छेदेन साहचार्यज्ञानस्यानुमितिहेतुत्वेन तादृशज्ञानसत्त्वे इष्टापत्तिः । अत एव व्याप्तिप्रमाधीनानुमितेर्भ्रमत्वानुपपत्तिरित्यपि निरस्तम् । हेतुतावच्छेदकावच्छेदेन साध्यसामानाधिकरण्यज्ञानस्य भ्रमत्वेनानुमितेर्व्याप्तिप्रमाऽनधीनत्वात् । न च हेतुतावच्छेदकसामानाधिकरण्येन व्याप्तिज्ञानमप्यनुमितिहेतुः । तथा सति चैकधूमे वन्हिसामानाधिकरण्यनियमज्ञानेनापि धूमान्तरदर्शनादनुमित्यापत्तेः ।

वाक्यार्थमञ्जरी

॥ निर्दोषोपपत्तिरिति । नन्वत्र निर्दोषपदकृत्यमस्ति न वा । नाद्यः । अनुमा युक्तिरेवोक्तेत्यनुव्याख्यानविरोधात् । तत्रैवकारेण निर्दोषत्वव्यावर्तनात् । न द्वितीयः । तद्ग्रहणानुपपत्तेरिति चेत् । उच्यते । अत्रोपपत्तिर्हि लिङ्गमुच्यते । तच्च यदा प्रमाणलक्षणटीकानुसारेण साहचर्यबलेनार्थगमकं विवक्षितं तदा पर्वतोऽग्निमान्प्रमेयत्वादिति व्यभिचारिण्यतिव्याप्तिः । यदा च मिथ्यात्वानुमानखण्डनटीकानुसारेण व्याप्तिबलेनार्थगमकं विवक्षितं तदा हृदो वह्निमान्धूमादिति स्वरूपासिद्धे बाधिते चातिव्याप्तिरतो निर्दोषपदम् । तत्र व्याप्तिसमुचितदेशादिसिद्धिबलेनाविरुद्धार्थगमकत्वरूपमुख्यार्थस्य विवक्षितत्वाद्युक्तिरेवेत्युक्तम् । तदुक्तं सुधायाम् । अस्ति खलु शब्दानां मुख्यामुख्यभेदेन द्वयी वृत्तिः । एवं चोपपत्तिशब्दादुपपत्ताविव तदाभासेऽपि कृतम् । अत्र पुनरन्तर्गतं निर्दोषत्वं मुख्यमेवार्थमुपादाय युक्तिरित्येवोक्तम् । तदिदमुक्तं युक्तिरेवेति न तु निर्दोषत्वविशेषणतेत्यर्थ इति । एतदभिप्रायेण प्रमाणलक्षणटीकायां निर्दोषग्रहणमनुमानाभासाव्युदासार्थमित्युक्तम् ॥ पर्याय इति । एकप्रवृत्तिनिमित्त इत्यर्थः । ननु कोऽयमविनाभावः । अविना साध्याव्यतिरेकेण साधनस्य भावो वा विना साध्यव्यतिरेकेण भावो वा । नाद्यः । साध्यसाहित्यरूपस्य तस्य त्वन्मते अनुमानाङ्गत्वाच्चेत्यतः प्रथमपक्षाङ्गीकारेणाविनाभावशब्दार्थमाह ॥ साहचर्येति । द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः । अन्यथा तत्प्रयोगे वैय्यर्थ्यापत्तेः । अतिशयश्च व्याप्तिः । नियमश्चाव्यभिचार इति । इदं च सम्बन्धगर्भतयाऽविनाभावशब्दार्थकथनं पररीत्या । साध्यसम्बन्धकथनस्य प्रायिकत्वाभिप्रायेण वा । व्याप्तिस्तावदनुमानाङ्गम् । व्याप्तिश्च सम्बन्धविशेषः । न च व्याप्त्याश्रययोः सम्बन्धोऽस्तीति चेन्मैवम् । अविनाभावमात्रस्य व्याप्तित्वादिति भक्तिपादीयसुधायां सम्बन्धस्य व्याप्तित्वनिषेधात् । अत एव सर्वव्याप्तिसङ्ग्रहायाविनाभावो व्याप्तिरित्युक्तम् । अन्यथा साहचर्यनियम इत्येव ब्रूयात् । वस्तुतस्तु स्वदेशकालविशेषगतस्य साधनस्य स्वदेशकालगतविशेषगतसाध्येन विनाऽनुपपत्तिरेवाविनाभावशब्दार्थस्तर्कताण्डवरीत्या ध्येयः ॥ व्याप्तेः कर्मेत्यादि । देवदत्तो ग्रामं प्राप्नोतीत्यत्रेव वह्निर्धूमं व्याप्नोतीत्युक्ते वह्निधूमयोः क्रमेण कर्तृकर्मभावप्रतीतेरिति भावः ।

श्रीविट्टलभट्ट

प्रत्यक्षनिरूपणान्तरमनुमानं लक्षयति ॥ निर्दोषोपपत्तिरिति । उपपत्तिशब्दार्थजिज्ञासायामाह ॥ उपपत्तिरिति । उपपत्तिर्युक्तिर्लिङ्गं व्याप्यमित्यादिशब्दाः पर्याया इत्यर्थः । अत्रोपपत्तिर्व्याप्यमिति पर्यायावित्येतावताऽलम् । तावताऽप्युपपत्तिशब्दार्थज्ञानसम्भवात् । तथाऽपि युक्तिलिङ्गपदोपादानं भगवत्पादैरनुव्याख्यानेऽनुमा युक्तिरेवेत्युक्तत्वान्मिथ्यात्वानुमानखण्डने लिङ्गं हेतुरिति चोक्तत्वात्तद्विरोध इति शङ्कावारणाय । तथा च निर्दोषं व्याप्यमनुमानमित्यर्थः । न च प्रत्यक्षेऽतिव्याप्तिः स्वविषयघटादिसन्निकृष्टे निर्दुष्टे चक्षुरादीन्द्रिये निर्दोषत्वे सति घटाद्यर्थव्याप्यत्वस्य साक्षिणि निर्दोषत्वे सति सुखाद्यर्थव्याप्यत्वस्य च सत्त्वेन विशिष्टलक्षणस्य प्रत्यक्षे सत्त्वादिति वाच्यम् । व्याप्यमित्यनेन व्याप्यार्थगमकत्वस्य विवक्षितत्वात् । तदुक्तं प्रमाणलक्षणटीकायाम् । यथोपपत्तिर्लिङ्गं व्याप्तिबलेनार्थधीहेतुस्तथोपक्रमादयोऽपीति । व्याप्त्यपेक्षयाऽर्थगमकमनुमानमिति चोक्तमिति च । उक्तं च तत्रैवानुमानलक्षणव्याख्यानावसरे साहचर्यबलेनार्थगमकं लिङ्गमिति । अत्र साहचर्यपदं नियतसाहचर्यरूपव्याप्तिपरम् । अन्यथोदाहृतवाक्यद्वयविरोधात् । पद्धतौ ततश्चानुमानस्य द्वयं सामर्थ्यम् । व्याप्तिः समुचितदेशादौ सिद्धिश्चेत्युक्तत्वेन व्याप्तेरनुमानत्वबलतया व्याप्त्यैकदेशस्य साहचर्यस्यानुमानबलत्वायोगात् । साहचर्यमात्रस्यानुमानाङ्गत्वे धूमस्य पक्षतानिश्चयदशायां साहचर्यमात्रनिश्चयेनार्थगमकत्वापातात् । अस्मिन् लिङ्गे साध्यसाहचर्याभावाच्च । साहचर्यग्रहणं तु लिङ्गं प्रायेण साहचर्यवदेव भवतीति ज्ञापयितुं न तु लिङ्गपदस्य व्याप्यपदीयपर्यायत्वाभिप्रायेणेति बोध्यम् । तथा च निर्दोषं व्याप्त्याऽर्थगमकमनुमानमित्युक्तं भवति । प्रत्यक्षागमव्यवच्छेदाय व्याप्येति विशेषणम् । व्याप्तेः प्रत्यक्षागमसहकारित्वात् । तेन तद्-व्यवच्छेदः । अत एव प्रमाणलक्षणटीकायां न ह्यागमव्याप्तिमनपेक्ष्य बोधकाबोधका अनुभूयन्त इत्युक्तम् । निर्दोषमविनाभावरूपम् । व्याप्त्यैकदेशेनावस्थानेनार्थगमकमनुमानमित्येवोक्तावनवस्थानपदेन सावधानावस्थानोक्तावसम्भवः । धूमादिसद्धेतौ क्वापि सर्वथाऽनवस्थानस्याभावात् । साध्येन सहानवस्थानोक्तौ भूधूमादौ लक्ष्ये लक्षणस्यातः साध्येन सहनवस्थानस्य तत्राभावात् । अतस्तत्परिहारार्थं व्याप्यमित्युक्तम् । साध्यसामानाधिकरण्येषु नियतसामानाधिकरण्यं व्याप्तिरिति पक्षेऽपि सामानाधिकरण्यमात्रेण धूमादेरर्थगमकत्वाभावादनिर्दोषं साहचर्येणार्थगमकमनुमानमित्युक्तौ लक्ष्ये लक्षणस्याभावः । तत्परिहारार्थं व्याप्तौ हि विशेषणम् । व्याप्त्याऽर्थगमकमनुमानमित्येवोक्तौ वन्हिव्याप्ये स्वरूपासिद्धिर्धूमादावव्याप्तिस्तद्वारणाय निर्दोषपदम् । ननु प्रतिज्ञादृष्टान्तदोषा निर्दोषपदेनाव्यवच्छेद्या उत व्यवच्छेद्याः । नाद्यः । हेतुदोषस्येव प्रतिज्ञादोषस्य बाधप्रतिरोधादेरप्यनुमितिप्रतिबन्धकत्वेन निर्दोषपदव्यवच्छेद्यत्वात् । निर्दोषपदव्यवच्छेद्यतायां यस्यानुमितिरूपप्रमाप्रतिबन्धकत्वरूपदोषत्वस्योभयत्र साम्यात् । अन्यथा दोषस्यापि निर्दोषपदव्यवच्छेद्यत्वापातात् । अविशेषात् । प्रत्यक्षलक्षणेऽपि करणदोषाणामेव निर्दोषपदव्यवच्छेद्यत्वान्न तु विषयदोषाणामित्यापाताच्च । द्वितीये बाधादिहेतुदोषान्तर्भूत इत्यङ्गीक्रियते उत तदनन्तर्भूत इति वा । नाद्यः । प्रमाणविरोधादीनां प्रत्यभिज्ञादिदोषत्वस्य वक्ष्यमाणत्वात् । द्वितीये हेतुविशेषणेन निर्दोषत्वेन तद्-व्यवच्छेदो न युक्त इति चेन्न । हेतुविशेषणेनापि निर्दोषत्वेन तद्-व्यवच्छेदसम्भवात् । तथा हि । प्रमाणप्रतिबन्धकरहितोपपत्तिर्हि निर्दोषोपपत्तिः । अनुमितिरूपप्रमाप्रतिबन्धकत्वं च निर्दोषपदव्यवच्छेद्यतया तत्रानुमितेश्च तावदविवादम् । तच्च हेतुदोषयोरिव प्रतिज्ञादृष्टान्तदोषाणामप्यस्त्येव । असिध्द्यादिहेतुदोषसद्भाव इव बाधादिप्रतिज्ञाविशेषसद्भावेऽपि लिङ्गेन प्रमारूपानुमित्यनुदयात् । अत एवाव्यापके तत्रोपपत्तिदोषा यत्सद्भावे लिङ्गाभिमतं ज्ञानमेव न जनयन्ति संशयविपर्ययौ वा कुर्वन्ति ते दोषा इत्यनेन प्रतिज्ञादिदोषसाधारण्येनैव निर्दोषपदव्यवच्छेद्यदोषात् । वक्ष्यति । उक्तं च विष्णुतत्त्वनिर्णयटीकायाम् । तथा च वक्ष्यमाणविरोधादिदोषरहितमुपपत्तियुक्त्यादिशब्दवाच्यमनुमेति । तथा च हेतुदोषसद्भाव इव प्रतिज्ञादृष्टान्तदोषसद्भावे लिङ्गस्य सदोषत्वमेव । तथा च न दाहजनकत्वाभावसम्पादकमणिमन्त्रौषधादिप्रतिबन्धकस्य पुरुषादिनिष्ठत्वेऽपि स प्रतिबन्धक एव तदभावे वन्हेः प्रतिबन्धकशून्यत्वमेव लिङ्गस्यापि प्रमितिजनकत्वाभावसम्पादकत्वस्य स्वनिष्ठस्य वा दोषसत्त्वे दोषत्वमेवेति तेन प्रतिज्ञादृष्टान्तदोषव्यवच्छेदो युक्त एव । नन्वेवं सति प्रत्यक्षेणेन्द्रियविशेषणेनादोषत्वेनार्थदोषव्यवच्छेदोऽस्त्विति चेन्न । अर्थस्यापि तत्र लक्षणेऽवश्यं विशेषणीयत्वादर्थदोषरहितस्यैव वाऽर्थस्य तत्र प्रवेशकथनमात्रेणार्थदोषव्यवच्छेदसम्भवादिन्द्रियविशेषणनिर्दोषत्वस्य तद्-व्यवच्छेदकत्वकल्पकाभावादिति । नन्वेवं सति यादृच्छिकसंवादादिलिङ्गस्य निर्दोषत्वमुत सदोषत्वम् । नाद्यः । असिध्द्यादेरदोषत्वापातात् । न द्वितीयः । सति प्रमाप्रतिबन्धके दोषे तेन प्रमोत्पत्त्यसम्भवादप्रमोत्पत्तिप्रसङ्गाच्चेति चेन्न । तस्य सदोषत्वाभ्युपगमात् । न चोक्तदोषप्रसक्तिः । उत्तेजकाभावकाल एव तस्य प्रतिबन्धकत्वात् । विषयस्तत्त्वस्योत्तेजकतया प्रमाप्रतिबन्धकत्वयोग्यदोषे सत्यप्युत्तेजकाभावविशिष्टाप्रमाप्रतिबन्धकत्वोपेतस्य दोषस्य तत्राभावेनोक्तचोद्यानवकाशादिति । उपपत्तिर्व्याप्यमुक्तम् । तत्र का व्याप्तिरिति जिज्ञासायां व्याप्तिलक्षणमाह ॥ अविनाभाव इति ॥ येन विना यस्य भावः सत्त्वम् । अवस्थानमिति यावत् । अभावोऽनवस्थानं तत्तस्य व्याप्तिरित्यर्थः । अत एव सुधायां जीवतो गृहेऽभावस्यानुपपद्यमानहानात्किं सर्वथाऽसम्भवः किं वा बहिर्भावेनानवस्थानमिति विकल्प्याद्यदूषणमभिधाय द्वितीये व्याप्तिरेव सेतीत्युक्तम् । या तु प्रमाणलक्षणटीकायां केनचिद्विना कस्यचिदनवस्थानं हि तयोर्व्याप्तिं विनोपपद्यत इत्यव्याप्त्यनवस्थानरूपनुपपत्त्योर्भेदोक्तिः सा व्याप्यानुपपत्तौ भेद इति परमतमभ्युपेत्यार्थापत्तेरनुमानान्तर्भावकथनार्थं प्रवृत्ता न तु केनचिद्विना कस्यचिदनवस्थानरूपानुपपत्तेर् वस्तुनोर्व्याप्तिर्भेदोऽस्तीत्यभिप्रेत्यान्यथा द्वितीये व्याप्तिरेव सेतीति सुधावचनविरोधात् । प्रमाणलक्षणटीकायामपि परिशेषादेव मानत्वानङ्कीकारे धूमोऽप्यनुपपत्त्याऽग्निं गमयन्नानुमानं स्यादिति । तदुत्तरवाक्येऽनुमानाङ्गभूतव्याप्तावनुपपत्तिपदप्रयोगाच्च । तथा च यस्य स्वाधिकरणत्वानधिकरणान्यतरागतेन येन विना यदवस्थानं तदभावस्य तेन व्याप्तिरित्युक्तं भवति । अधिकरणं च देशः कालश्च । एवं च समानाधिकरणयोरिव व्याश्रययोरपि व्याप्तिर्लक्षिता भवति । नदीपूरादेः स्वाधिकरणदेशकालसम्बन्धवृष्ट्यादिनाऽवस्थानाभावेन न लक्षणस्य तत्र सत्त्वात् । न ह्यूर्ध्वदेशपूर्वकालयोर्वृष्ट्याद्यभावेऽधोदेशोत्तरकालयोर्नदीपूरस्यावस्थानं सम्भवति । ननु तदभाववति विद्यमानस्य नदीपूरादेस्तेन व्याप्तिर्न सम्भवतीति चेन्न । संयोगाभाववति विद्यमानस्य द्रव्यत्वादेरिवास्यापि व्याप्तिसम्भवात् । अनुभवबलात्तत्सङ्ग्रहेण व्याप्तिलक्षणं वाच्यमित्येतदत्रापि समानां व्याश्रययोरपि व्याप्तेरनुभवसिद्धत्वात् । लोको ह्यधोभागे नदीपूरं दृष्ट्वोर्ध्वभागो वृष्टिमानित्यनुमिनोति । न च केवलान्वयिसाध्यकस्य हेतोर्व्याप्त्यभावप्रसङ्गः । साध्याभावस्यासत्त्वादेव साध्यभावे सति यदवस्थानं तदभावरूपव्याप्तेस्तत्रासम्भवात् । अत एव भावनिरूपकत्वादसतोऽवस्थानस्य कथमभाव इति चेन्न । अतीतानागतयोरसतोरेवाभावनिरूपकत्वदर्शनादुक्तनियमाभावात् । कदाचित्सतोरस्तीति चेत्किं तावता निरूपणकाले सत्त्वस्याभावेनाभाव निरूपणे तस्यानुपयुक्तत्वात् । अन्यथा भिन्नकालगतसत्त्वस्येव भिन्नदेशगतसत्त्वस्यापि कार्योपयोगितापत्त्या भिन्नदेशे सता दण्डेन घटरूपकार्योदयप्रसङ्गात् । घटस्यापि प्रथमक्षणे प्रत्यक्षतापाताच्च । प्रत्यक्षताप्रयोजकस्य महत्त्वे सत्युद्भूतरूपवत्त्वस्य कदाचित्तत्र सत्त्वादिति समानाधिकरणहेतुनिष्ठव्याप्तेर्बहुवादिसम्मतत्वाप्रायिकत्वाच्च । तत्र व्याप्तिलक्षणं प्रदर्शयितुमविनाभावरूपव्याप्तिः समानाधिकरणेषु हेतुषु नियतसामानाधिकरण्यरूपत्वेन पर्यवस्यतीत्यभिप्रेत्य साहचर्यनियम इत्याह ॥ साहचर्यनियम इति । द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायात्साध्येन विनाऽवस्थानाभावप्रतिपादकस्याविनाभावशब्दस्य साध्यसमानाधिकरणहेतुषु साध्येन सहैवावस्थाननाशपर्यवसानात्साध्यसमानाधिकरणहेतुषु साहचर्यनियमोऽविनाभावशब्दार्थ इति बोध्यम् । एतेन नियतासामानाधिकरण्यस्याव्याप्तित्वे व्याश्रययोर्व्याप्तिर्न स्यादिति चोद्यं निरस्तम् ॥ साहचर्यानियम इति । यावदित्यस्य वचनस्याविनाभावः साध्यसामानाधिकरण्येषु हेतुसाध्यनियतसामानाधिकरण्यरूपं साध्यसम्बन्धमन्तर्भाव्यं भवतीत्यभिप्रायेण प्रवृत्तत्वात् । तथा च सर्वेष्वपि हेतुषु नायमविनाभावशब्दार्थ इति नोक्तचोद्यावकाश इति । तदुक्तं सुधायाम् । स्यादेतत् । व्याप्तिस्तावदनुमानाङ्गम् । सम्बन्धविशेषश्च व्याप्तिः । न च व्याश्रययोः सम्बन्धो युज्यते । अतो व्याश्रयस्यादोषत्वात् । सम्मते विषये विपरिणाम इति । मैवम् । अविनाभावमात्रस्य व्याप्तित्वात् । सम्मते विषयेऽपि विपरिणाम इति मैवम् । अविनाभावमात्रस्य व्याप्तित्वात् । अविनाभावश्च क्वचिदेकाश्रयत्वमान्तर्भाव्य भवति । यथा कृतकत्वस्यानित्यत्वेन । अत एवान्यगतेन कृतकत्वेन नित्यत्वासिद्धिः । क्वचिद्भिन्नाश्रययोरेव यथा धूमस्याग्निनेति । तथा च साध्याधिकरणवृत्तिरूपसाध्यसम्बन्धवस्तुहेतुषु यस्य नियतसम्बन्धः स तस्य व्याप्तिरित्युक्तं भवति । न च नियमस्य निरुच्यमानव्याप्तित्वादात्माश्रय इति वाच्यम् । नियमशब्देन व्याप्त्यैकदेशभूताव्यभिचारस्यैव कथनात् । अत एव धूमस्याग्निना व्याप्तिरव्यभिचरितसम्बन्ध इति वक्ष्यति । उक्तं च सुधायाम् । नियतः सम्बन्धो व्याप्तिः । नियमश्चाव्यभिचार इति । व्याप्तेरुभयनिरूप्यत्वात्किं तत्र व्याप्यमिति जिज्ञासायामाह ॥ व्याप्तेः कर्मेति । यद्वाऽऽप्नोतीति क्रियाकारककर्मतद्-व्याप्यमित्यर्थः । व्याप्तिरूपक्रियाकर्मणा व्याप्यत्वे तस्याः कर्म किमिति जिज्ञासायामाह ॥ तस्या इति । समानाधिकरणेषु हेतुष्वविनाभावशब्दोक्तं नियतसम्बन्धरूपं व्याप्तेर्लक्षणं लक्ष्ये दर्शयति ॥ यथेति । अव्यभिचरितः स्वाश्रयजातीये सर्वत्र विद्यमानाधीनः सम्बन्धः साध्याधिकरणवृत्तित्वरूपसाध्यसम्बन्ध इत्यर्थः । यद्यपि सुधायां धूमाग्नी खलु न समवायवृत्त्या समानाश्रयौ नापि संयोगवृत्त्योर्ध्वदेशसंयोगत्वाद्धूमस्याधोदेशसंयोगस्यासिद्धत्वादित्युक्तत्वान्न सामानाधिकरण्यरूपः सम्बन्धस्तयोरस्ति । तथाऽप्येकपर्वतसंयोगिता द्वयोरस्तीत्येतावतैव सामानाधिकरण्यरूपसम्बन्धोक्तिरिति बोध्यम् । अत एव सुधायां तथाऽप्येकपर्वतसंयोगिता द्वयोरस्तीति चेदित्युक्तम् । लक्षणसत्त्वमुपपादयति ॥ यत्रेति । धूम इत्यनन्तरमग्निरित्यनन्तरं चास्तीति शेषः । इति हेतोर्नियमाद्वन्हिसम्बन्धस्य धूमेऽव्यभिचार इत्यर्थः । धूमाग्न्योर्व्याप्तिरुक्ता । तत्र व्याप्तिकर्मकत्वरूपं व्याप्यत्वं कस्य तत्कर्तृकत्वं रूपं व्यापकत्वं च कंस्येति जिज्ञासायामाह ॥ तत्रेति । धूमाग्न्योर्मध्य इत्यर्थः ।