प्रमाणपद्धतिः
प्रत्यक्षस्य फलम्
(३०) प्रमाणपद्धतिः
हानोपादानोपेक्षाबुद्धयः प्रत्यक्षस्य फलमिति केचिदाहुः । तदप्यसत् । तासामनुमानफलत्वात् । तथा हि । कण्टकादिस्वरूपमात्रं प्रदर्श्य प्रत्यक्षं निवर्तते । अथदानीं पूर्वानुभूतस्य कण्टकादेरनिष्टसाधनत्वमनुभूतं स्मृत्वाऽस्य च कण्टकादित्वेन तदनुमिमानस्य हानबुद्धिरुपजायते । एवं कदलीफलादाविष्टसाधनत्वानुमानानन्तरमुपादानबुद्धिरुत्पद्यते । तृणादौ चौदासीन्यमनुमायोपेक्षाबुद्धिः प्रतिपद्यते । अतो विशिष्टविषयसाक्षात्कार एव प्रत्यक्षस्य फलमिति ॥ इति श्रीमज्जयतीर्थपूज्यचरणविरचितप्रमाणपद्धतौ प्रत्यक्षपरिच्छेदः समाप्तः ॥ १ ॥
जयतीर्थविजय
सविकल्पकनिर्विकल्पकेत्यादिनोपक्रान्तप्रत्यक्षप्रमाद्वैविध्यमुपसंहरन्नेव स्वमते करणरूपप्रत्यक्षस्य फलमाह ॥ अत इति । निर्विकल्पकस्य निरस्तत्वादित्यर्थः ॥ विशिष्टविषयेति । इदमित्थमिति सप्रकारकेत्यर्थः ॥
इति श्रीमद्दक्षिणमधुरश्रीनिवासभट्टोपाध्यायानां शिष्यस्य जनार्दननामिनः कृतौ प्रमाणपद्धतिटिप्पणे जयतीर्थविजयनामि्न प्रत्यक्षपरिच्छेदः समाप्तः ॥ १ ॥
भावदीपः
प्रत्यक्षज्ञानफलेऽपि विवादमनूद्य निराह ॥ हानेति । प्रत्यक्षस्यापरोक्षज्ञानस्येत्यर्थः । अनुमानफलत्वादनुमितिजन्यत्वादित्यर्थः । कण्टकादिस्वरूपं प्रदर्श्येत्युक्त्या प्रत्यक्षादिज्ञानजनन एव प्रत्यक्षस्योपयोगो दर्शितः । अथ कण्टकादिदृष्ट्यनन्तरम् । इदानीं तत्काले स्मृत्वेत्यनेन व्याप्तिस्मृतिरुक्ता । इदानीमित्यनेन स्मृतेरेवावसरप्राप्तिरुक्ता । उपनयमाह ॥ अस्य चेति । एतेन विमतं कण्टकाद्यनिष्टसाधनं कण्टकादित्वात्प्रगुक्तानुभूतकण्टकादिवदिति प्रयोगः सूचितः । हानबुद्धिः परित्यागबुद्धिरित्यर्थः । एवमित्यनेन कदलीफलादिस्वरूपं प्रदर्श्य प्रत्यक्षं निवर्तत इत्यादेः परामर्शः । कण्टाकादिपदस्थाने कदलीफलादिपदप्रक्षेपप्रयोगोऽत्रोत्तरत्र च पूर्वत्रेव ध्येयः । अभ्यासपाटवाच्छीघ्रं जायमानानुमितिफले हानादिबुद्धौ प्रत्यक्षफलत्वभ्रम इति भावः ॥ अत इति । परोक्तस्यानुपपन्नत्वादित्यर्थः ॥ विशिष्टेति । द्रव्यगुणादिविशिष्टेत्यर्थः । प्रत्यक्षस्य करणभूतस्य फलमित्यर्थः ॥
॥ इति श्रीप्रमाणपद्धतिभावदीपे श्रीराघवेन्द्रयतिविरचिते प्रत्यक्षपरिच्छेदः ॥ छ ॥ छ ॥
श्रीविजयीन्द्रतीर्थ
॥ प्रत्यक्षमिति । तथा च लिङ्गविशिष्टपक्षग्रहे तदुपक्षीणं न विशिष्टसाधनत्वादिग्रहे हेतुरित्यर्थः । कथं तर्हि तद्ग्रह इत्यत आह ॥ अथेदानीमिति ॥ स्मृत्वेति । कण्टकत्वनिष्ठव्याप्तिनिरूपकतयेति शेषः । तृतीयलिङ्गपरामर्शमाह ॥ अस्य चेति । यद्यप्यत्रास्त्येव प्रत्यक्षोपयोगस्तथाऽपि हानबुद्ध्यजनकत्वे निवर्तत इत्युक्तम् । इष्टसाधनत्वानुमानानन्तरमिति । इष्टसाधनत्वानुमितिजनकलिङ्गज्ञानानन्तरमित्यर्थः ॥ उदासीन्यनुमायेति ॥ इष्टसाधनत्वानिष्टसाधनत्वाभावानुमितिहेतुलिङ्गज्ञानानन्तरमित्यर्थः । स्वाभिमत प्रत्यक्षे फलमाह ॥ अत इति । परोक्तप्रत्यक्षफलत्वभवनाक्षमत्वादित्यर्थः । न च प्रत्यक्षप्रतियोगित्वमादय प्रत्यक्षफलत्वमिति वाच्यम् । तथा च घटादेरपि प्रत्यक्षफलत्वापातादिति ॥ छ ॥ छ ॥
इति श्रीप्रमाणपद्धतिटीकायां श्रीसुरेन्द्रपूज्यपादशिष्यविजयीन्द्रभिक्षुरचितायां प्रत्यक्षप्रकरणं समाप्तम् ॥ छ ॥
श्रीवेदेशभिक्षु
कण्टकादीत्यत्रादिपदेन सर्पादिसङ्ग्रहः ॥ प्रत्यक्षमिति । तथा च लिङ्गविशिष्टपक्षग्रहोपक्षीणं प्रत्यक्षम् । कदलीफलादावित्यत्रादिपदेनापूपादिग्रहणम् । एवं तृणादावित्यत्रादिपदेन काकदन्तादिसङ्ग्रहः ॥ स्मृत्वेति । कण्टकत्वनिष्ठव्याप्तिनिरूपकतयेति शेषः । न च प्रत्यक्षप्रयोज्यत्वमात्रेण तत्फलमिति वाच्यम् । तथात्वे घटादिपदप्रत्यक्षफलत्वप्रसङ्गात् । स्वाभिमतप्रत्यक्षफलमाह ॥ अत इति । परोक्तस्य तत्फलत्वाभावादित्यर्थः ॥ छ ॥
॥ इति श्रीमद्वेदेशभिक्षुविरचितप्रमाणपद्धतिटीकायां प्रत्यक्षनिरूपणं समाप्तम् ॥ छ ॥ छ ॥
श्रीविट्टलभट्ट
स्वयं प्रत्यक्षफलं वक्तुं परोक्तफलं दूषयितुमनुवदति ॥ हानोपादानोपेक्षाबुद्धय इति । परित्यागस्वीकारौदासीन्यानां बुद्धय इत्यर्थः । प्रत्यक्षद्वैविध्यकथनसमुच्चयार्थश्चशब्दः ॥ प्रत्यक्षं निवर्तत इति । प्रत्यक्षं चरितार्थं भवतीत्यर्थः ॥ अथेति । कण्टकादिसाक्षात्कारोदयानन्तरमिदानीं तस्मिन्काल इत्यर्थः । अस्य स्मृत्वेत्यनेनान्वयः ॥ अनुभूतमिति । तदन्वयव्यतिरेकानुविधायित्वलिङ्गान्यनुभवविषयीकृतमित्यर्थः । स्मृत्वेत्यनन्तरं तद्दृष्टान्तेति शेषः । अस्य च प्रत्यक्षं द्रष्टव्यम् । वृश्चिकादेरपीत्यर्थः॥ इष्टसाधनत्वानुमानानन्तरमिति । तदन्वयव्यतिरेकत्वलिङ्गे चेष्टासाधनमनुमायेत्यर्थः ॥ औदासीन्यमिति । इष्टानिष्टसाध्वत्वमिति तृणादित्वेनानुमाय तेनानुमानोपेक्षाबुद्धिहेतुतोपादेयराहित्यबुद्धिः प्राप्यत इत्यर्थः । स्वमते प्रत्यक्षफलमाह ॥ अत इति । हानोपादानोपेक्षाबुद्धीनां प्रत्यक्षायोगादित्यर्थः । निर्विकल्पकरूपसाक्षात्कारोऽपि प्रत्यक्षफलमिति मतं कुमतमिति ज्ञानायोक्तम् ॥ विशिष्टविषयेति । इति शब्दः प्रत्यक्षप्रकरणपरिसमाप्तौ वर्तत इति ।
॥ इति श्रीनिवासबालनृसिंहभट्टसूनुना विठ्ठलभट्टेन रचितायां प्रमाणपद्धतिटीकायां प्रत्यक्षप्रकरणविवरणं समाप्तम् ॥ १ ॥ छ ॥