०१ (१६)

प्रमाणपद्धतिः

प्रमाणस्य द्वैविध्यम्

(१६) प्रमाणपद्धतिः

द्विविधं प्रमाणं केवलमनुप्रमाणं चेति । तत्र यथार्थज्ञानं केवलप्रमाणम् । यथार्थमिति संशयादिव्युदासः । ज्ञानमिति प्रत्यक्षस्य । लिङ्गज्ञानं वाक्यज्ञानं च लिङ्गिनि वाक्यार्थे चानुप्रमाणमपि लिङ्गे वाक्ये च केवलप्रमाणमिति नातिव्याप्तिः । इदं च साक्षाज्ज्ञेयविषयीकारित्वात्केवलमित्युच्यते ।

जयतीर्थविजय

नन्वनुप्रमाणत्वेनाभिमतयोर्लिङ्गज्ञानवाक्यज्ञानयोरपि केवलत्वापत्तिः । तयोरपि यथार्थज्ञानत्वरूपतल्लक्षणलक्षितत्वादित्यत आह ॥ लिङ्गेति । अयं भावः । लिङ्गवाक्यज्ञानयोः केवलत्वमनुप्रमाणत्वं चाभ्युपगम्यते । न चैकस्योभयरूपत्वविरोधः । विषयभेदेनोभयोपपत्तेरिति । यथार्थज्ञानस्य केवलपदवाच्यत्वे निमित्तमाह ॥ इदं चेति । चशब्दो वाक्यालङ्कारे ॥ साक्षादिति । अनन्यद्वारोपाधितया विषयस्य ज्ञाततासम्पादकत्वादिति भावः । न तु प्रतीत एवार्थः । उक्तं हि सुधायाम् । केवलं विषयस्य ज्ञाततां ज्ञानमुपाधितया करणानि तु तज्जनकतया सम्पादयन्तीत्येतावन्तं विशेषमाश्रित्य केवलानुप्रमाणभेदः समर्थित इति । यथावस्थितार्थविषयत्वस्योभयत्र साम्यादिति च ।

भावदीपः

अवसरप्राप्तं विभागमाह ॥ द्विविधमिति । यथार्थज्ञानं यथावस्थितार्थविषयकं ज्ञानमित्यर्थः । संशयादीत्यादिपदेन विपर्ययतदुभयज्ञानयोर्लिङ्गाभासज्ञानवाक्याभासज्ञानयोर्ग्रहः । प्रत्यक्षस्य सन्निकर्षस्य वा सन्निकृष्टेन्द्रियजातस्य वेत्यर्थः । व्युदास इत्यनुषङ्गः । प्रत्यक्षस्येत्युपलक्षणम् । इच्छाद्वेषप्रयत्नचलनक्रियाणामित्यपि ध्येयम् । यदि तु यथावस्थितज्ञानोपाधिकवस्तुविषविषयीकारि ज्ञानमित्येवार्थस्तदा तु नोपलक्षणम् । प्रत्यक्षस्येत्येव साधु । तस्य ज्ञानसाधनतया ज्ञेयविषयीकारित्वमिति ध्येयम् । नन्विदं लक्षणमनुमानागमयोरनुप्रमाणयोरतिव्याप्तमित्यतो विषयभेदेन लक्ष्यत्वान्न दोष इत्याह ॥ लिङ्गज्ञानमिति । ननु लिङ्गज्ञानादिकं स्वकार्यलिङ्गव्यवहारादिजननेऽनन्यापेक्षत्वाद्यथा केवलमित्युच्यते तथा स्वकार्यलिङ्गिज्ञानादिजननेऽप्यनन्यापेक्षत्वाल्लिङ्गाद्यंशेऽपि केवलप्रमाणतापत्तिरित्यत आह ॥ इदं चेति । यथार्थज्ञानमित्यर्थः । नोक्तरूपकैवल्यमात्राभिमतं किन्तु साक्षाज्ज्ञेयविषयीकारित्वम् । ननूक्तं करणानामपि साक्षाद्वस्तुविषयत्वमस्तीति चेत् । सत्यम् । साक्षाज्ज्ञेयविषयीकारित्वं नाम स्वविषये ज्ञेयत्वावधाने स्वात्मान्यानपेक्षत्वम् । तच्च पटादिप्रमितेरेवास्ति न करणानाम् । लिङ्गज्ञानादेर्लिङ्ग्यादौ ज्ञेयत्वावधाने स्वात्मान्यानुमित्यादिसापेक्षत्वात् । अतो न लिङ्ग्याद्यंशे लिङ्गज्ञानादेः केवलतापत्तिरिति । लक्षणे तु साक्षादित्यविवक्षितमिति ज्ञानपदमर्थवदिति भावः ।

श्रीविजयीन्द्रतीर्थ

॥ केवलमिति । साक्षाज्ज्ञेयविषयकं यथार्थमित्यर्थः ॥ अनुप्रमाणमिति । यथार्थत्वे सति परम्पराज्ञेयविषयकमित्यर्थः । नन्वनुमाने शाब्दे च यथार्थज्ञानसाधने इदं लक्षणमतिव्यापकमत आह ॥ लिङ्गज्ञानं चेति । तथा च ज्ञानमानकरणतापक्षे ज्ञानपदेनैव वारणम् । लिङ्गादिज्ञानकारणतापक्षे तस्य द्विविधप्रमाणरूपत्वात्सङ्ग्राह्यत्वमेवेत्यर्थः । ननु किमिति तत्केवलमत आह ॥ इदं चेति ॥ तदिति । केवलप्रमाणमित्यर्थः ।

श्रीवेदेशभिक्षु

तद्विभागमाह ॥ द्विविधमिति । प्रमाणानामानन्त्येऽपि साक्षात्पारम्पर्येण यथार्थे तारतम्यज्ञापनार्थोऽयं विभागः । तदेव दर्शयन्द्वे विधे दर्शयति ॥ केवलमिति । प्रधानाभिप्रायेण प्रथममुद्दिष्टं केवलं लक्षयति ॥ तत्रेति ॥ ज्ञानमिति ॥ प्रत्यक्षस्येति । यद्यप्यनुप्रमाणमात्रं व्यावर्तनीयम् । यथार्थं केवलमित्युक्तेऽनुप्रमाणमात्रेऽतिव्याप्तिप्रसक्तेः । तथाऽपि लिङ्गज्ञानवाक्यज्ञानयोरनुमानागमरूपयोर्ज्ञानात्मकत्वेन व्यावर्त्यमित्यनुपदमेव वक्ष्यामः । अत एव प्रमाणलक्षणटीकायां ज्ञानमित्यनुप्रमाणव्युदास इति स्पष्टमुक्तम् । नन्वथाऽपि लिङ्गज्ञानवाक्यज्ञानयोरनुमानागमलक्षणानुप्रमाणयोरतिव्याप्तिस्तयोरपि यथार्थज्ञानत्वादित्यत आह ॥ लिङ्गज्ञानमिति । अयमाशयः । यथार्थत्वे सति ज्ञानत्वमित्येव न लक्षणम् । येन लिङ्गज्ञानादावतिव्याप्तिः स्यात्किन्तु यद्विषयापेक्षया यथार्थत्वमुपपादनीयं साक्षात्तद्विषयकज्ञानत्वमेव लक्षणत्वेन विवक्षितम् । एवं च लिङ्गज्ञानवाक्यज्ञानयोर्लिङ्गिवाक्यार्थापेक्षया यथार्थ्यविवक्षायां साक्षात्तद्विषयकज्ञानत्वावश्यम्भावाल्लिङ्गिवाक्यरूपविषयापेक्षया याथार्थ्योपपादने तु साक्षात्तद्विषयकज्ञानज्ञानत्वभागस्यापि तत्र सत्त्वेन लक्ष्यत्वान्न कुत्राप्यतिव्याप्तिरिति । केचित्तु तयोरपि लक्ष्यत्वान्नातिव्याप्तिरिति भाव इत्याहुः । तच्चिन्त्यम् । लिङ्गवाक्यरूपविषये तयोर्लक्ष्यत्वेन तदपेक्षयाऽतिव्याप्त्यभावेऽपि लिङ्गिवाक्यार्थापेक्षयाऽपि तयोः केवलत्वापत्तेरपरिहारादिति । ननु यथार्थज्ञानस्य केवलमिति संज्ञा कुत इत्यत आह ॥ इदं चेति । यद्यपि संज्ञानिरुक्त्यैव लक्षणं सिध्यति । तथाऽपि ृङ्गिग्रहाकतया तज्ज्ञापनार्थं यथार्थमानं केवलमित्युक्तम् ।

अभिनवामृतम्

॥ यथार्थमिति । यथार्थमिति विशेषणात्संशयादेः केवलनिरास इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । अस्ति तावत्केवलं नाम प्रमाणमिति वार्तां श्रुतवतः संशयादौ प्रत्यक्षे च केवलबुद्धिः प्रसक्ता । ततो यथार्थज्ञानं केवलमिति तल्लक्षणज्ञाने यथार्थमिति विशेषणेन संशयादेः केवलत्वबुद्धिनिरासः । ज्ञानमिति विशेषणेन तु प्रत्यक्षस्य केवलबुद्धिनिरास इति विवेकः । एतेन यथार्थमिति संशयादवतिव्यप्तिनिरास इति वक्तव्यं न तु संशयादिव्युदास इति परास्तम् । अस्य लक्षणस्य लिङ्गज्ञाने चातिव्याप्तिरित्यत आह ॥ लिङ्गज्ञानमिति । यद्यपि लिङ्गवाक्य एवनुप्रमाणे । तथाऽप्यवान्तरप्राधान्यविवक्षयाऽनुप्रमाणत्वमङ्गीकृत्यैवमुक्तम् । अत एव न निर्दोषोपपत्तिरनुमानमित्युत्तरग्रन्थविरोधः । ननु लिङ्गज्ञानं वाक्यज्ञानं लिङ्गे वाक्ये च केवलप्रमाणमिति नातिव्याप्तिरित्ययुक्तम् । लिङ्गे वाक्ये च केवलत्वेऽपि लिङ्ग्यादावकेवलत्वेन प्राप्त्याऽतिव्याप्तेः । लक्षणातिव्याप्त्युत्पादनेनैव परिहर्तव्यत्वात् । न ह्युपपत्तिरनुमनमित्यनुमानलक्षणस्य शब्दो नित्यः कृतकत्वादित्यत्राप्यतिव्याप्ता उद्भावितायां कृतकत्वस्य नित्यत्वं प्रत्याभासत्वेऽप्यनित्यत्वं प्रत्यनुमानत्वान्नातिव्याप्तिरिति परिहरति । किन्तु निर्दोषपदेनैव चेत् । उच्यते । अस्य वा लिङ्गज्ञानवाक्यज्ञानयोर्विषयविशेषमादाय लक्ष्यत्वाभावे विषयविशेषं प्रति लक्ष्यत्वान्नातिव्याप्तिरिति नाभिप्रायः येनोक्तदोषः स्यात् । किं नाम नेदं सामान्यं लक्षणमपि तु यद्यस्य यथार्थज्ञानं तत्र तत्र केवलमिति तत्र तत्केवलानामेकयोक्त्या लक्षणनिरूपणम् । ततश्च वन्हिकेवललक्षणरूपधूमज्ञाने वाक्यार्थज्ञानलक्षणं वाक्यज्ञाने न वर्तत इत्याशयः । लिङ्गवाक्ये च केवलप्रमाणमित्युक्तिस्तु लिङ्गवाक्यप्रयुक्तमेव यथार्थज्ञानत्वं न तु लिङ्गवाक्यार्थप्रयुक्तमिति ज्ञापनार्था । ततश्चैवं योजना । यद्यपि लिङ्गज्ञानं वाक्यज्ञानं लिङ्गिनि वाक्यार्थे च न प्रमाणमित्यलक्षणम् । तथाऽपि न लिङ्गवाक्यं वाक्यार्थयोः केवलयथार्थज्ञानमिति यावत् । अपि तु लिङ्गे वाक्ये च लिङ्गवाक्ययोरेव केवलं यथार्थज्ञानम् । ततश्च लक्षणाभावान्नातिव्याप्तिरिति । एतल्लक्षणज्ञाने प्रयोजनमाह ॥ साक्षाज्ज्ञेयविषयीकारित्वादिति । इदं च ज्ञानं साक्षाज्ज्ञेयविषयीकारित्वाद्यथार्थज्ञानत्वात्केवलमिति व्यवह्रियत इत्यर्थः । यथार्थज्ञानं केवलमिति लक्षणज्ञाने च यद्यथाज्ञानं जानाति तत्तत्केवलशब्दवाच्यं प्रत्येतीति भावः ।

आदर्शः

॥ संशयादिव्युदास इति । यथार्थपदस्योक्तरीत्या दोषप्रयोज्यविषयताशून्यत्वार्थकत्वादिति भावः ॥ साक्षादिति । इतराप्रयोज्यत्वविषयितावत्त्वादित्यर्थः ।

श्रीविट्टलभट्ट

प्रमाणविभगमाह ॥ द्विविधं प्रमाणमिति । प्रमाणानामानन्त्येऽपि साक्षात्पारम्पर्येण याथार्थ्यज्ञापनार्थोऽयं त्रिभागः । द्विविधे प्राधान्याप्रधान्यानुसारेणोद्दिशयति ॥ केवलमनुप्रमाणं चेति । केवलप्रमाणमित्यर्थः । प्रथमोद्दिष्टं लक्षयति ॥ तत्रेति । तयोर्यथावस्थितज्ञेयविषयीकारिज्ञानं केवलप्रमाणमित्यर्थः । विशेषणकृत्यमाह ॥ यथार्थेति । विपर्यय आदिशब्दार्थः ॥ प्रत्यक्षस्येति । व्युदास इत्यनुवर्तते । केवलप्रमाणलक्षणस्यानुप्रमाणे लिङ्गज्ञाने वाक्यज्ञाने चातिव्याप्तिमाशङ्क्यापाकरोति ॥ लिङ्गज्ञानं वाक्यज्ञानं चेति । लिङ्गमनुमेयमित्यर्थः । इति हेतोरतिव्याप्तेर्दोषो नास्तीत्यर्थः । लक्ष्यत्वात्तत्र लक्षणसत्त्वं न दोष इति भावः । ननु लक्ष्यवदलक्ष्यत्वस्यापि सत्त्वात्कथं तत्र लक्षणसत्त्वं न दोषः । न च तत्र लिङ्गांशे वाक्यांशे केवलप्रमाणलक्षणस्य सत्त्वेऽपि लिङ्ग्यंशे वाक्यार्थांशे तन्नास्तीति वाच्यम् । यथावस्थितज्ञेयविषयीकारित्वे सति ज्ञानत्वस्य तल्लक्षणस्योभयत्र साम्यात् । अत एवानुप्रमाणगतविशेषणव्यावृत्तिकथनावसरे यथार्थज्ञानमित्येवोक्ते प्रत्यक्षेऽव्याप्तिश्च युक्तमिति चेन्न । साक्षाज्ज्ञेयविषयीकारित्वस्यात्र लक्षणतया विवक्षितत्वात् । अत एवेदं साक्षाज्ज्ञेयविषयीकारित्वात्केवलमित्युच्यत इति वक्ष्यति । न हि तत्पदप्रवृत्तिनिमित्तं लक्षणं नेति सम्भवति । तदसाधारणधर्मस्यैव तत्पदप्रवृत्तिनिमित्तत्वात् । न चैवं ज्ञानपदवैय्यर्थ्यप्रसङ्गः । तस्यैव साक्षादित्यर्थपरत्वेनावैय्यर्थ्यात् । अमुख्यप्रयोगे किं निमित्तमिति चेत् । ृङ्गिग्राहकया केवलप्रमाणज्ञानमिति ब्रूमः । तदुक्तं प्रमाणलक्षणटीकायाम् । संज्ञानिरुक्त्यैव लक्षणे सिद्धे ृङ्गिग्राहकया तज्ज्ञापनार्थं पृणग्लक्षणारम्भ इति । यथार्थज्ञानतत्साधनयोर्याथार्थ्याविशेषाद्यथार्थज्ञानं केवलमित्युक्तौ किं निमित्तमिति जिज्ञासायामाह ॥ इदं चेति । इदं केवलप्रमाणमित्युच्यत इत्यर्थः । यद्यपि ज्ञेयविषयीकारित्वमुभयत्र समानं तथाऽपि ज्ञानमुपाधितया ज्ञेयताशरीरप्रविष्टत्वेन ज्ञेयतासम्पादकं ज्ञानसाधनं तु ज्ञेयताशरीरप्रविष्टज्ञानसम्पादकतया ज्ञेयतासम्पादकमिति विशेषणं ज्ञानं साक्षाज्ज्ञेयविषयीकारितत्साधनमिति बोध्यम् ।