०४ (११)

प्रमाणपद्धतिः

(११) प्रमाणपद्धतिः

न चैकेनैव साधारणधर्मेण भाव्यमिति नियमोऽस्ति । तथातथाप्रतिपन्नत्वं तस्य तस्य धर्म इति विप्रतिपत्तिरपि साधारणीति । विपरीतनिश्चयो विपर्ययः । विपरीतेति सम्यङ्निश्चयव्युदासः । निश्चय इति संशयज्ञानस्य । स च प्रत्यक्षानुमानागमाभासेभ्यो जायते । यथा शुक्तिकायामिदं रजतमित्यादि ।

जयतीर्थविजय

नन्वस्मन्मते विशिष्टस्यातिरिक्तत्वेन नित्यव्यावृत्तत्वविशिष्टमाकाशगुणत्वमेकमनित्यव्यावृत्तत्वविशिष्टाकाशगुणत्वमन्यदिति कथं द्वयोः साधारणधर्मत्वमित्यत आह ॥ न चेति । नैयायिकैरप्येकस्मिन्पुरुषे दण्डकुण्डलवत्त्वज्ञानानन्तरं दण्डकुण्डलयोश्चैत्रमैत्रमात्रधर्मत्वं प्राङ्निश्चितवतः पुरुषस्य मैत्रव्यावृत्तदण्डवत्त्वादयं चैत्रो वाऽऽहोस्विच्चैत्रव्यावृत्तकुण्डलवत्त्वादयं मैत्रो वेति जायमानसंशयस्य साधारणधर्मजन्यत्वाभ्युपगमादिति भावः ॥ तथातथेति । भौतिकत्वेनाभौतिकत्वेनेत्यर्थस् तस्य तस्य भौतिकस्याभौतिकस्येत्यर्थः । अत्रापि धर्म इति सप्तम्यन्तं पदम् ॥ विप्रतिपत्तिरिति । विरुद्धार्थप्रतिपादकवाक्यद्वयविषयत्वमित्यर्थः ॥ विपरीतेति । विशेष्येऽविद्यमानधर्मप्रकारकनिश्चय इत्यर्थः ।

भावदीपः

ननु सत्यं द्वौ धर्मौ साधारणौ । तथाप्येको नित्यानित्यवस्तुधर्मसाधारणो नास्तीत्यत आह ॥ न चेति । परैरप्येकस्मिन्नेव मनसि क्रियावत्त्वस्पर्शरहितत्वाभ्यां मूर्तत्वामूर्तत्वसन्देहाभ्युपगमादिति भावः ॥ तथातथेति । भौतिकत्वेनाभौतिकत्वेन विप्रतिपत्तिविषयत्वं तस्य तस्य भौतिकस्याभौतिकस्य । यथा क्रियावत्त्वं मूर्तमात्रस्य धर्मः स्पर्शराहित्यममूर्तमात्रस्य धर्म इति द्वाभ्यां साधारणधर्माभ्यां मनः किं मूर्तममूर्तमिति सन्देह उत्पद्यत इत्युच्यते । तथा भौतिकमात्राभौतिकमात्रसाधारणाभ्यां तथा तथा प्रतिपन्नत्वाभ्यामिन्द्रियेषु तथा तथा तत्सन्देह इति साऽपि साधारणीत्यर्थः । प्राग्व्यावर्त्यतया प्रसक्तयोः क्रमप्राप्तविपर्ययतत्साधनयोः स्वरूपमाह ॥ विपरीतेति । वस्तु यथाऽस्ति ततो विपरीतविषयकनिश्चय इत्यर्थः ॥ स चेति । विपरीतनिश्चयः । आभासपदं प्रत्येकमन्वेति । प्रत्यक्षाभासानुमानाभासेति ॥ इत्यादीति । धूलीपटले धूमभ्रमाद्वन्हिमानयं देश इत्यस्य नदीतीरे पञ्च फलानि सन्तीति विप्रलम्भकादिवाक्यजन्यस्य च सङ्ग्रहः ।

श्रीविजयीन्द्रतीर्थ

नन्वत्र कोटिद्वयसमानाधिकरण एक एव धर्मः सांशयिकः । प्रकृते त्वेककोटिसमानाधिकरणं धर्मद्वयं सांशयिकमिति वैषम्यमत आह ॥ न चैकेनैवेति । कोटिसहचरितवद्धर्मिज्ञानत्वेनैव हेतुता । न तूभयकोटिसहचरितधर्मवद्धर्मिज्ञानत्वेन गौरवात् । न चैवमेकधर्मज्ञानादपि संशयापत्तिः । द्वितीयकोटिस्मृतेरभावात् । अन्यथोभयकोटिसहचरितधर्मज्ञानमपि न हेतुः स्यात् । विशेषदर्शनदशायां संशयाजनकत्वात् । विशेषादर्शनमपि तद्धेतुरिति तदा प्रकृतेऽपि दीयतां दृष्टिरिति भावः । यद्यप्याकाशविशेषगुणत्वस्यानेन रूपेणोभयकोटिसहचाराप्रत्ययदशायामुभयव्यावृत्तत्वज्ञानकालेऽपि संशयसम्भवान्नैतदुचितमिव । तथाऽपि संशयत्वावच्छेदेन साधारणधर्मज्ञानस्य लाघवेन हेतुत्वे सिद्धे तत्रापि तत्कल्पनादक्लृप्तस्य हेतुत्वकल्पनायां गौरवादिति बोध्यम् । विप्रतिपत्तेः साधारणधर्मत्वमाह ॥ तथेति । तथा तथा प्रतिपन्नत्वं भौतिकत्वाभौतिकत्वविप्रतिपत्तिविषयत्वं तस्य तस्य भौतिकस्याभौतिकस्येत्यर्थः । एवमन्यत्राप्यूह्यम् । ननु विप्रतिपत्तिविषयत्वमज्ञात्वाऽपि विप्रतिपत्तिवाक्यस्थपदैः कोट्युपस्थितौ सत्यां संशयसम्भवात्कथमेवम् । न हि साधारणो धर्म एव तत्र नास्तीति ब्रूमः । अपि तु तदा तस्यापरामर्श इति । किञ्च विप्रतिपत्तिविषयत्वं साक्षान्नास्तीति व्यापारानुबन्धितया तद्वाच्यम् । न तत्सम्भवति । विप्रतिपत्तिवाक्ययोः परस्परप्रतिबन्धेन सत्प्रतिपक्षवज्ज्ञानाजनकत्वादिति । मैवम् । भौतिकत्वाभौतिकत्वविशिष्टज्ञानाभिप्रायकपदोपस्थाप्यत्वस्य तदभिप्रायकपदसमभिव्याहृतपदोपस्थाप्यस्य वा विप्रतिपत्त्युद्देश्यत्वस्य विप्रतिपत्तिविषयत्वोक्त्यभिधानात् । एतत्प्रतिसन्धानस्य पूर्वोक्तयुक्त्या कल्पनौचित्यात् । अन्यथा कारणान्तरकल्पनापत्तिरिति सर्वमवदातम् । निरस्यज्ञानं विना निरासज्ञानं न सम्भवतीति निरस्यं विपर्ययं लक्षयति ॥ विपरीतेति । संशयान्यतदभाववद्विशेष्यकतत्प्रकारकज्ञानमित्यर्थः । निरस्यं विपर्ययसाधनं दर्शयति ॥ स चेति ।

श्रीवेदेशभिक्षु

ननूर्ध्वतालक्षणसाधारणधर्मस्यैकस्यैव कोटिस्मरणद्वारा संशयहेतुत्वं दृष्टम् । इह तु नित्यधर्मव्यावृत्तधर्मवत्त्वमनित्यव्यावृत्तधर्मवत्त्वं चेति धर्मद्वयं साधारणमुक्तम् । तत्कथं तस्य संशयहेतुत्वमित्यत आह ॥ न चेति । एकस्येव धर्मद्वयस्यापि संशयहेतुत्वे बाधकाभावादिति भावः । न चोर्ध्वतादेः पुरोवृत्तिनिष्ठस्य कोटिद्वयसहचरितत्वमेव साधारण्यं दृष्टम् । इह तु शब्दनिष्ठयोर्नित्यव्यावृत्तधर्मत्त्वानित्यव्यावृत्तधर्मवत्त्वयोः प्रत्येकं नित्यत्वानित्यत्वरूपैकैककोटिसहचरितत्वेऽपि न तदुभयसहचरितत्वम् । अतः कथमेतयोः साधारण्यमिति । पुरोवृत्तिनिष्ठस्य धर्मस्य कोटिसहचरितत्वमेव साधारण्यम् । लाघवात् । तावत एव कोटिस्मरणोपयोगित्वाच्च । न तु कोटिद्वयसहचरित्वम् । गौरवात् । कोटिस्मरणानुपयोगित्वाच्च । ऊर्ध्वतादौ कोटिद्वयसाधारण्यमार्थिकमेव । अत एव तत्त्वप्रकाशिकायां धर्मद्वयस्यापि तत्र तत्राधिकरणेषु संशयबीजत्वमुक्तमित्यवधेयम् । इदानीं विप्रतिपत्तेरपि साधारणधर्म एवान्तर्भावमुपपादयति ॥ तथेति । तथा प्रतिपन्नत्वं भौतिकत्वेन प्रतिपन्नत्वं तस्य भौतिकस्य घटादेर्धर्मः । स च साधारणः । धर्मिभूतेष्विन्द्रियेष्वपि सत्त्वात् । एवं तथाप्रतिपन्नत्वमभौतिकत्वेन प्रतिपन्नत्वं तस्याभौतिकस्यात्मादेर्धर्मः । सोऽपीन्द्रियसाधारण इत्यर्थः । साधारणधर्मैक्यनियमश्च पूर्वमेव त्याजित इति भावः ॥ विप्रतिपत्तिरपीति । विरुद्धार्थकवाक्यद्वयजन्यप्रतीतिद्वयमित्यर्थः । साधारणी साधारणधर्मत्वेन संशयजनिका न पृथक् कारणमित्यर्थः । यदि च विप्रतिपत्तिपदेन विरुद्धार्थकं वाक्यद्वयं विवक्षितं तदा साधारणीत्यस्य वक्ष्यमाणरीत्या साधारणधर्मजन्यसंशयजननानुकूलेति व्याख्यानं द्रष्टव्यम् । अयमिहाभिप्रायः । विप्रतिपत्तिरूपं वाक्यद्वयं न साक्षात्संशयजनकं येन पृथक् कारणं स्यात् । प्रत्येकं वाक्यद्वयस्य निश्चयजनकत्वात् । न ह्येकैकवाक्यं व्युत्पन्नस्य स्वार्थनिश्चयमजनयदनुभूयते । स्वार्थनिश्चयजननानन्तरं तत्संशयमपि जनयतीत्यङ्गीकारे विरम्य व्यापारप्रसङ्गः । नापि परम्परया । अन्यथासिद्धेर्वक्ष्यमाणत्वात् । तस्मात्तत्र तटस्थाभ्यां वाक्याभ्यां तावदिन्द्रियाणि भौतिकत्वादिना प्रतीयन्ते । अनयोश्च प्रतीत्योर्द्वयोरपि प्रामाण्यमप्रमाण्यं वा न सम्भवति । परस्परविरुद्धेन वस्तुविकल्पप्रसङ्गात् । वस्तुनो निःस्वभावत्वप्रसङ्गाच्च । उभयत्राप्यनिश्चये वाऽन्यतरप्रामाण्यनिश्चयोऽनुपपन्नः । अतः किमत्र भौतिकत्वप्रतीतिः प्रमाणमुताभौतिकत्वप्रतीतिरिति प्रतीतिद्वयप्रामाण्ये सन्दिहानोऽर्थोऽपि भौतिकत्वादौ सन्देहवान्भवतीति वक्तव्यम् । एवं च भौतिकत्वादिप्रतीतिलक्षणसाधारणधर्मे दर्शनजन्य एवायं भौतिकत्वादिसंशय इत्यायातम् । इन्द्रियेषु भौतिकत्वादिना प्रतिपन्नत्वज्ञानेन जायमानत्वात् । प्रतिपन्नत्वस्य च प्रतीतावेव पर्यवसानात् । भौतिकत्वादिप्रतीत्योश्चोक्तरीत्या साधारण्यात् । न च प्रामाण्यसंशयस्यैवात्र जनकत्वं न प्रतीतिलक्षणसाधारणधर्मदर्शनस्येति वाच्यम् । प्रामाण्यसंशयस्योत्तेजकत्वेनोक्तसाधारणधर्मदर्शनजन्या शङ्काप्रामाण्यशून्यार्थनिश्चयरूपप्रतिबन्धकाभावसम्पादकत्वेनान्यथासिद्धतया तत्राजनकत्वस्य त्वयाऽपि वाच्यत्वात् । अन्यथा प्रामाण्यसंशयस्यान्यज्ञानान्तर्भावेन पृथक् संशयकारणत्वेन परिगणनप्रसङ्गः । विप्रतिपत्तिरूपवाक्यद्वयं तु प्रामाण्यसंशयधर्मिरूपभौतिकत्वादिप्रतीतिजननायैव केवलमुपयुज्यत इति सुतरामन्यथासिद्धम् । न भौतिकत्वादिसंशयकारणत्वशङ्कामप्यधिरोहतीति । एतेन तदपि निरस्तम् । यत्केनचिदुक्तं तथातथाप्रतिपन्नत्वमज्ञात्वाऽपि विप्रतिपत्तिवाक्यस्थपदैः कोट्युपस्थितौ सत्यां मानससंशयसम्भवात्कथमेतत् । न हि साधारणो धर्म एवात्र नास्तीति ब्रूमः । येन तदुपन्यासः सार्थकः किन्तु तदा तस्यापरामर्श एवेतीति । प्रतिपन्नत्वं हि प्रतीतिपर्यवसन्नम् । प्रतीतेश्चाज्ञाने तद्धर्मिकप्रामाण्ये संशयानुपपत्तौ तदाहितभौतिकत्वादिसंशयस्याप्यसम्भवात् । न चायं स्वारसिक एव मानससंशयो न प्रामाण्यसंशयाहितः येन प्रतीतज्ञानमावश्यकमिति वाच्यम् । प्रत्येकं वाक्यद्वयस्य निश्चयजनकत्वेन तन्निश्चितेऽर्थे स्वारसिकसंशयाभावात् । न च तत्र वाक्ययोः परस्परप्रतिबन्धेन निश्चयजनकत्वमेव नास्तीति वाच्यम् । अनुभवविरोधात् । अन्यथा कथायां वादिप्रतिवादिप्रतिज्ञावाक्ययोरपि परस्परप्रतिबन्धेन प्राश्निकान्प्रत्यबोधकत्वापत्त्या तेषां तदीयगुणहेतुगुणदोषावधारकत्वं न स्यात् । अतो वाक्यद्वयप्रतीतेऽर्थे जायमानः संशयः प्रामाण्यसंशयाहित एव वक्तव्यः । तत्र च धर्मज्ञानस्याकारणत्वेन प्रतीतिज्ञानमप्यावश्यकमेवेति । केचित्तु प्रतिपन्नत्वपदेन प्रतिपन्नस्य भावो वाक्यमेव ग्राह्यम् । तदेव साधारणधर्मतया विवक्षितम् । तज्ज्ञानं चावश्यकमेवेत्याहुः । एवं सकारणकं संशयं निरूप्येदानीं विपर्ययं निरूपयति ॥ विपरीतेति । विपरीतत्वं च पुरोवर्तिनि सर्वथाऽविद्यमानप्रकारकत्वमिति द्रष्टव्यम् । क्रमेण विशेषणद्वयकृत्यमाह ॥ विपरीतेत्यादिना । इदानीं विपर्ययसाधनमाह ॥ स चेति । त्रयमप्युदाहरति ॥ यथेति । आदिपदेन धूमभ्रमाद्वन्ह्यभाववति वन्ह्यनुमितिः प्रतारकवाक्यजन्यज्ञानं च ग्राह्यम् ।

अभिनवामृतं

ननूर्ध्वत्ववदेकस्यैव कोटिद्वयसाहचर्याभावात्कथं साधारणत्वमित्यत आह ॥ न चैकेनैवेति । एतेन साधारणधर्मत्वेनाभितस्याकाशगुणत्वस्य द्वित्वाभावात्साधारणधर्मस्यैकत्वनियमखण्डनं प्रकृतावनुपक्तमिति परास्तम् ॥ तथातथाप्रतिपन्नत्वमिति । साधारणीत्यतःपरं स्यादिति शेषः । यद्युपलब्ध्यनुपलब्ध्योरन्तर्भावस्य वक्तुं शक्यत्वात्पार्थक्यं नोच्यते तर्हि विप्रतिपत्तिरपि पृथङ् न वक्तव्या । विप्रतिपत्तेरन्तर्भावस्य वक्तुं शक्यत्वादिति भावः । एतेन विप्रतिपत्तेरसाधारणीति किं लौकिकप्रतीतिरुत स्वसमयानुरोधेनोच्यते । नाद्यः । तदभावात् । न हि लौकिका इन्द्रियेषु भौतिकत्वाभौतिकत्वप्रतिपादकद्वयेन जातमपि कोट्युपस्थितिमपहाय तथाप्रतिपन्नत्वमपहाय तथाप्रतिपन्नत्वमनुसन्धाय तेन कोटिद्वयं स्मृत्वा संशयितारो भवन्ति हि । न द्वितीयः । स्वसमयस्याप्रामाणिकत्वादिति परास्तम् । अस्माभिरपि परधिक्करणार्थमेवान्तर्भावस्यापादितत्वेन तदन्तर्भावस्यासम्मतत्वात् । इदमत्र तत्त्वम् । असाधारणधर्म एव संशयहेतुर्न । विशेषस्मरणकारणत्वाभावात् । उपलब्ध्यनुपलब्धिविप्रत्तिपत्तयस्तु विशेषोपस्थितिकारणत्वाद्भवन्त्येव संशयकारणहेतव इति । एवमन्येऽपि यथासम्भवं संशयहेतवो द्रष्टव्याः । अवश्यं चैतदेवं विज्ञेयम् । एतेषां संशयहेतुत्वस्य व्यावहारिकत्वात् । तत्त्वप्रकाशिकायां समयपादे प्रत्यधिकरणं वादिविप्रतिपत्तिः सन्देहबीजमिति स्वयमेवाभिधानाच्च । न च तत्पररीत्योक्तमिति वाच्यम् । बहुवारमभिहितस्य पररीतित्वं सकृदभिमतस्य युक्तिबाधितस्य सिद्धान्तत्वमित्यङ्गीकारायोगात् ।

आदर्शः

॥ विपरीतनिश्चय इति । नन्वीश्वरप्रमायामतिव्याप्तिः । तस्याः सद्रजतमिति ज्ञानवांश्चैत्र इत्याकारकत्वात् । ज्ञानांशे रजतस्य तस्मिंश्च सत्तायाश्च भानात् । सद्रजतमिति व्यवहारप्रयोजकत्वेन सत्त्वविषयतायास्तत्र सत्त्वात् । न च साक्षादसत्त्ववति सत्त्वविषयतानिरूपकत्वं सत्त्वविषयनिरूपितासन्निकृष्टमुख्यविशेष्यतानिरूपकत्वमिति यावत् । तथा चेश्वरज्ञाने मुख्यनिशेष्ये चैत्रे साक्षात्सत्त्वाभानेनातिव्याप्तिरिति वाच्यम् । तथाऽपि सद्रजतमिति वाक्याभासजन्येऽभ्रान्तपुरुषीयज्ञानेऽतिव्याप्तेः । न चाभ्रान्तस्य तादृशज्ञानं न जायत इति वाच्यम् । अनुभवव्याकोपात् । योग्यताज्ञानस्य शाब्दबोधकारणतायां मानाभावेन तदभावेऽपि शाब्दबोधोपपत्तेः । अयोग्यताज्ञानं प्रतिबन्धकमित्यपि न ज्ञानसामान्येऽप्रतिबन्धकत्वात् । अन्यथा प्रतिवादिवाक्याज्ज्ञानानुत्पत्तिप्रसङ्गेन तन्निराकरणाय प्रवृत्त्यनुपपत्तेः । न च तत्र वाक्यलिङ्गकानुमितिरिति वाच्यम् । अयोग्यताग्रहदशायामनुमितेरप्यनुपपत्तेः । वाक्यादर्थं प्रत्येमि ृणोमीत्यनुभवविरोधाच्च । अन्यथा सर्वत्राप्युक्तरीत्या सर्वत्राप्युक्तरीत्या ज्ञानानुमिति संभवेन शाब्दबोधस्यैव विलोपप्रसङ्गात् । स्वमिस्मन्नेव तादृशवाक्यप्रयोक्तृत्वस्य व्यभिचारित्वादनुमित्यनुपपत्तेश्च । न चास्त्येव वादिवाक्याधीनं वा तत्समानाकारं वा ज्ञानम् । तथाऽप्याहार्यत्वाद् भ्रम एवेति लक्ष्यमेवेति वाच्यम् । तस्य भ्रमत्वे मानाभावात् । किं लोक प्रतीतिर्मानं स्वसिद्धान्तो वा । नाद्यः । तादृशपुरुषे लोकानां भ्रमत्वव्यवहाराभावात् । प्रत्युतायं न भ्रान्तः किन्तु भ्रान्तोक्तार्थमनुवदत्येवेति च वदन्ति । न द्वितीयः । त्वत्समयस्य निर्मूलत्वात् । अत एव तदभाववति तत्प्रकारकं भ्रम इत्यपि निरस्तम् । उक्तातिव्याप्तेरेवेति चेत् । मैवम् । दोषप्रयोज्यतदभाववति तन्निष्ठनिषयताकनिरूपकत्वस्यैव भ्रमत्वेन दोषाभावात् । तथा हि । सत्त्वविषयतयैव द्विविधा विधिरूपाऽनुवादरूपा चेति । तत्राद्या तद्विषयकेच्छादिरूपप्रवृत्तिजननस्वभावा । द्वितीया तु तद्वाचकपदोल्लेखादिप्रयोजकाऽपि नेच्छादिजनने शक्ता । विधिरूपत्वमनुवादरूपत्वं च विषयतानिष्ठो धर्मविशेषः । तत्र विधिरूपैव विषयतादोषप्रयोज्या । तात्पर्याज्ञानादिदोषघटितसामग्रीप्रयोज्यत्वात् । द्वितीया तु तात्पर्यधीप्रयोज्याऽपि तात्पर्यधीबोद्धृसमवेता न भ्रमरूपेति दोषप्रयोज्या । एवं विधिरूपविषयतानिरूपकमेव ज्ञानं बाधग्रहप्रतिबध्द्यम् । नानुवादरूपविषयाश्रयं ज्ञानमिति बाधकालेऽपि वादिवाक्यादुत्पद्यते । तादृशज्ञानं क्वचिदाहार्यं क्वचिदापत्तिरूपमित्यनेकविधं न भ्रमरूपं नापि प्रमारूपमिति । अथवा तदभाववति तन्निष्ठविधिरूपविषयतानिरूपकत्वं भ्रमत्वम् । ईश्वरज्ञानादिनिष्ठा विषयता न विधिरूपा किन्त्वनुवादरूपैव । तदुक्तं तत्त्वविवेकटीकायाम् भ्रान्तोऽयं शुक्तिकाशकलं कलधौततयाऽऽकलयतीत्यनुवादरूपैव न विधिरूपेत्यतो न दोषः ।

वाक्यार्थमञ्जरी

॥ एकेनैवेति । एकजातीयेनैवेत्यर्थः ।

श्रीविट्टलभट्ट

ननूर्ध्वतात्वेन संशयधर्मिगतोर्ध्वताजातीयस्य स्थाणुत्वपुरुषत्वरूपकोटिद्वयसहचरितत्ववन्नित्यव्यावृत्तत्वेनाकाशविशेषगुणत्वजातीयस्य नित्यत्वानित्यत्वरूपकोटिद्वयासहचरितत्वादनित्यव्यावृत्तत्वेन तत्सजातीयस्यापि कोटिद्वयासहचरितत्वादाकाशविशेषगुणत्वस्य कथं साधारणधर्मत्वमित्यत आह ॥ न चैकेनैवेति । एकेनैवैकजातीयेनैव साधारणकोटिद्वयसहचरितेन धर्मेण भाव्यं भवितव्यमिति नियमो राजाज्ञारूपो नास्तीत्यर्थः । अयमभिसन्धिः । धर्मिनिष्ठधर्मसमानधर्मस्य कोटिसहचरितत्वमात्रेणापि धर्मिनिष्ठधर्मस्य साधारणत्वसम्भवात्तत्समानधर्मस्य कोटिद्वयसहचरितत्वमनपेक्षितमेव । गौरवात् । अन्यथा प्रत्येकं देवदत्तयज्ञदत्तनिष्ठतपोबललब्धदण्डकुण्डलसमानाकारदण्डकुण्डलरूपधर्मद्वयस्यपुरोवर्तिन्युपलम्भे सत्ययं देवदत्तो वा यज्ञदत्तो वेति सन्देहस्य च साधारणधर्मजन्यत्वाभावापातात् । तथा च धर्मिनिष्ठसमानधर्मस्यैकजातीयस्यैव कोटिद्वयसामानाधिकरण्यं नापेक्षितमिति । विप्रतिपत्तेः साधारणधर्मत्वमुपपादयति ॥ तथेति । तथा प्रतिपन्नत्वं तस्य भौतिकस्य धर्मस्तथा । प्रतिपन्नत्वमभौतिकत्वेन प्रतिपन्नत्वं तस्याभौतिकस्य धर्मः । यद्वा तस्य धर्मिणो भैतिकत्वाभौतिकत्वयोरधिकरणस्य धर्म इति हेतोर्विप्रतिपत्तिर्विरुद्धार्थकवचनद्वय्यपि साधारणी धर्मिभौतिकाभौतिकवृत्तिरित्यर्थः । असाधारणधर्मविप्रतिपत्त्योः साधारणधर्मान्तरकथनसमाप्तिपर इति शब्दः । इदानीं पदार्थग्रहणव्यावर्त्यस्य विपर्ययस्य लक्षणमाह ॥ विपरीतनिश्चय इति । विपरीतो वैपरीत्येनार्थविपरीतकारी । अयथार्थ इति यावत् । निश्चयः सकम्पप्रवृत्त्यहेतुज्ञानमित्यर्थः ॥ संशय ज्ञानस्येति । संशयरूपज्ञानत्येत्यर्थः । व्युदास इत्यनुवर्तते । संशयविपर्ययस्य साधनव्यावृत्त्यर्थं यथार्थग्रहणम् । कृतकानि तत्सधनानीति । जिज्ञासायामाह ॥ स चेति । स विपर्ययश्चशब्दोक्तः संशयश्च द्वयं प्रत्यक्षाभासानुमानाभासशब्दाभासेभ्यो जायत इत्यर्थः । एतेनार्थापत्त्याभासादिकं पृथग्विपर्ययसाधनं प्रत्यक्षाभास एवेति मतं कुमतमिति सूचयति । अर्थापत्त्याद्याभासादेरनुमानाभासरूपत्वात्प्रत्यक्षाभासवत्साधारणानैकान्तिकादेरप्यनुमानाद्याभासस्य संशयसाधनत्वात्तदयुक्तमित्यवगन्तव्यम् । यद्वा संशयः साधारणधर्मजन्य इत्युक्तम् । विपर्ययस्तु केन जायत इति जिज्ञासायामाह ॥ स चेति । विपर्ययस्त्वित्यर्थः । विपर्ययस्य प्रत्यक्षाभासादिजन्यत्वमुदाहरणमुखेन दर्शयति ॥ यथा शुक्तिकायामिदं रजतमित्यादीति । प्रत्यक्षानुमानागमाभासेभ्यो जायत इत्यनुवर्तते । इतीत्यनन्तरं विपर्यय इति पूरणीयम् ॥ शुक्तिकायामिदं रजतमिति । साक्षात्काररूपो विपर्यय इत्यर्थः । अनुमितिरूपविपर्ययादिरादिशब्दार्थः । ननु प्राभाकरादयो ज्ञानमयथार्थं नास्त्येवेति वर्णयन्ति । तत्कथं संशयविपर्ययतत्साधानव्यावृत्त्यर्थं ग्रहणमित्याशङ्कमानं प्रतितन्मतं दूषयितुमनुवदति ॥ आहुरिति शेषः ।