०३ (१०)

प्रमाणपद्धतिः

(१०) प्रमाणपद्धतिः

वयन्तु ब्रूमः । असाधारणधर्मविप्रतिप्रत्त्योरपि साधारणधर्म एवान्तर्भावः । असाधारणो हि धर्मो न स्वरूपेण संशयहेतुः । विशेषस्मरणकारणत्वाभावात् । किन्तु व्यावृत्तिमुखेनैव । तथा च नित्यव्यावृत्तत्वमनित्यस्यानित्यव्यावृत्तत्वं च नित्यस्य धर्म इति साधारण एव ।

जयतीर्थविजय

वयन्त्विति तुशब्दार्थभूतवैलक्षण्यं दर्शयति ॥ असाधारणेति । असाधारणधर्मं साधारणधर्मेऽन्तभावयितुं येन रूपेण ज्ञातो धर्म उभयकोट्युपस्थापकस्तद्रूपमुभयकोट्युपस्थापकमिति मनसि निधाय साधारणधर्मताप्रयोजनकमुभयकोट्युपस्थापकतावच्छेदकमसाधारणधर्मेऽपि परिशेषमुखेन द्रढयति ॥ असाधारणो हीति । असाधारणो धर्म आकाशविशेषगुणत्वादिः । स्वरूपेण स्वस्य रूपं स्वरूपमिति व्युत्पत्त्या स्वधर्मेण विशेष्यभूतगुणत्वादिना ज्ञातो न संशयहेतुरित्यर्थः । कुत इत्यत आह ॥ विशेषेति । कोटिस्मरणकारणत्वाभावादित्यर्थः । असाधारणधर्मस्य पृथक् संशयहेतुत्वं वदताऽपि न येन केनचिद्रूपेण तज्ज्ञानस्य हेतुत्वं वक्तुं शक्यम् । शब्द आकाशगुण इति ज्ञाने सत्यपि कोटिद्वयस्मरणानुत्पत्त्या संशयानुत्पादात् । अतः कोटिद्वयस्मृतिद्वारेणैवासाधारणधर्मः संशयहेतुरीति भावः । ननु धर्मत्वादिना ज्ञातेऽ साधारणधर्मो न कोटिस्वमारकश्चेत्तर्हि केन रूपेण ज्ञातः सन्नसाधारणधर्मः कोटीः स्मारयित्वा संशयहेतुरिति पृच्छति ॥ किन्त्विति । उत्तरमाह ॥ व्यावृत्तिमुखेनेति । उभयकोटिमद्य्वावृत्तत्वरूपेण ज्ञातोऽसाधारणधर्मः कोटीः स्मारयन्संशयहेतुरिति शेषः । एवं च सत्युभयकोट्युपस्थापकतावच्छेदकनित्यव्यावृत्तत्वविशिष्टस्याप्याकाशगुणत्वस्य साधारणत्वं सिद्धमित्युपपादयति ॥ तथा चेति । व्यावृत्तिमुखेन ज्ञातस्यैव धर्मस्य कोटिस्मारकत्वे सिद्धे सतीत्यर्थः । धर्म इति सप्तम्यन्तं पदम् । नित्यस्य धर्मे गगनपरिमाणादावनित्यघटादिव्यावृत्तत्वेन रूपेणासाधारणस्य साधारणत्वमित्यर्थः । इदमुक्तं भवति । साधारणधर्मत्वं नामोभयकोट्युपस्थापकतावच्छेदकरूपावच्छिन्नधर्मत्वम् । उभयकोट्युपस्थापकतावच्छेदकत्वं नाम येन रूपेण ज्ञातस्योभयकोटिस्मारकत्वं तत्त्वम् । तादृशं च रूपमूर्ध्वतादावुभयकोटिसहचरितत्वम् । तद्रूपेण ज्ञातस्यैवोर्ध्वतादेरुभयकोटिस्मारकत्वात् । आकाशगुणत्वादौ तूभयकोटिमद्य्वावृत्तत्वमिति ।

भावदीपः

प्रतिज्ञातमन्तर्भावं व्यनक्ति ॥ असाधारणो हीति । कुतो न हेतुरित्यत आह ॥ विशेषस्मरणेति । नित्यत्वानित्यत्वरूपकोटिस्वमरणेत्यर्थः । आकाशविशेषगुणत्वेन रूपेण ज्ञातस्य तादृशकोटिद्वयोपस्थाने बीजाभावादिति भावः । ततः किमित्यत आह ॥ तथा चेति । अनित्यत्वस्येत्यनन्तरं धर्म इत्यनुषज्यते । सप्तम्यन्तं धर्मपदं नित्यव्यावृत्तत्वं तत्राविद्यमानत्वम् । अनित्यस्य धर्मे घटरूपादौ । अनित्यव्यावृत्तत्वं च नित्यधर्मे गगनपरिमाणादौ वर्तत इति नित्यानित्यवस्तुधर्मेषु साधारणयोरनित्यव्यावृत्तत्वनित्यव्यावृत्तत्वयोराकाशगुणत्वे वर्तमानात्तादृशसाधारणधर्मद्वयोपेतोऽयमाकाशविशेषगुणत्वधर्मः स्वाधिकरणे शब्दे नित्योऽनित्यो वेति सन्देहमादधातीति सोऽपि साधारण एव । तादृशधर्मविशिष्टः सन्नेव संशयाधायको न स्वत इति स्वयमपि तथैव भवति ।

श्रीविजयीन्द्रतीर्थ

नन्वत्र विभिन्नकारणव्यक्तिजन्यत्वाद्विभिन्नकारणतावच्छेदकाद्वा । नाद्यः । कारणव्यक्तेरनन्तत्वेन संशयानन्तविधत्वापत्तेः । नान्त्यः । कारणतावच्छेदकभेदस्याभावात् । सर्वेषां साधारणधर्मत्वेनैव हेतुत्वादित्याह ॥ वयं तु ब्रूम इति ॥ न स्वरूपेणेति । असाधारणधर्मत्वेनाज्ञात इत्यर्थः ॥ विशेषेति । अज्ञातस्य कोटिस्मृतिरूपव्यापारजनकत्वादित्यर्थः । किमतो यद्येवमत आह ॥ तथा चेति । ननु कोटिद्वयसहचरितधर्मो धर्मिणि ज्ञायमानः सांशयिकः साधारणः । ऊर्ध्वत्ववत् । अयं तु धर्मोऽसाधारणः । तत्कथमनयोरैक्यम् । न हि साधारणधर्मज्ञानत्वेन हेतुता । धर्मिभिन्ननिष्ठतया ज्ञानमानस्य तत्त्वापत्तेः । अपि तु साधारणधर्मत्वेन साधारणज्ञानं वा तद्धेतुः । यस्तु प्रकृते नास्त्येव । किञ्च किमिदं नित्यव्यावृत्तत्वम् । नित्यनिष्ठात्यन्ताभावप्रतियोगित्वं वा नित्यवृत्त्यन्योन्याभावप्रतियोगितावच्छेदकत्वं वा नित्यभिन्नत्वं वा । नाद्यौ । तयोरनित्यधर्मत्वाभावादन्यत्वस्य नित्यवृत्तित्वात् । नान्त्यः । नित्यभिन्नत्वस्य साधारणत्वेऽपि किमायातम् । आकाशविशेषगुणत्वे न हि स धर्मो नास्तीति ब्रूमः । किन्त्वाकाशगुणत्वं न साधारणमिति । मैवम् । यावन्निष्ठात्यन्ताभावप्रतियोगिधर्मवत्त्वस्यानेन विवक्षितत्वात् । एतस्य च घटशब्दसाधारणत्वात् । शब्दस्याकाशविशेषगुणत्वस्य च यावन्नित्यनिष्ठात्यन्ताभावप्रतियोगित्वात् । तद्वत्त्वाच्च । घटशब्दयोरिति । एवमुत्तरत्रापि द्रष्टव्यम् ।

श्रीवेदेशभिक्षु

उदयनमतमपि दूषयितुं सिद्धान्तमतमाह ॥ वयं तु ब्रूम इति । न प्रतिज्ञामात्रेणार्थसिद्धिरित्यतस्तावदसाधारणधर्मस्य साधारणधर्म एवान्तर्भावमुपपादयति ॥ असाधारणधर्मो हीति । स्वरूपेण ज्ञात इति शेषः । आकाशविशेषगुणत्वाद्यसाधारणधर्मो हि नाज्ञात एव संशयहेतुः । अतिप्रसङ्गात् । किन्तु ज्ञात एव । तज्ज्ञानं च न स्वरूपेणाकाशविशेषगुणत्वादिनेत्यर्थः । कुतो नेत्यत आह ॥ विशेषेति । असाधारणधर्मादिज्ञानस्य संशयहेतुत्वं कोटिस्मरणादिद्वारैव वाच्यम् । प्रकारान्तरेणोपयोगादर्शनात् । असाधारणधर्मस्य स्वरूपेण ज्ञानं च न कोटिद्वयस्मरणजनकम् । न हि शब्दनिष्ठाकाशगुणत्वज्ञाने नित्यानित्यत्वकोट्युपस्थितिर्भवतीति भावः । असाधारणधर्मः स्वरूपेण संशयहेतुर्न चेत्कथं संशयहेतुरिति पृच्छति ॥ किन्त्विति । उत्तरमाह ॥ व्यावृत्तीति । नित्यानित्यव्यावृत्तत्वेन ज्ञात इत्यर्थः । आकाशविशेषगुणत्वं नित्यव्यावृत्तमनित्यव्यावृत्तमिति ज्ञाने हि शब्दस्य नित्यव्यावृत्तधर्मवत्त्वस्य नित्यत्वसहचरितत्वेनाकाशादौ च दर्शनात् । ततश्च व्यावृत्तिमुखेन ज्ञातस्य विशेषस्मरणकारणत्वमस्तीति संशयहेतुत्वमुपपन्नमिति भावः । अस्त्वेवं व्यावृत्तिमुखेन ज्ञान एवासाधारणधर्मः संशयहेतुस्तथाऽपि तस्य साधारणधर्म एव कथमन्तर्भाव इत्यत आह ॥ तथा चेति । नित्यव्यावृत्तत्वं च नित्यावृत्तित्वमनित्यव्यावृत्तत्वमनित्यावृत्तित्वमुक्तरीत्या नित्यव्यावृत्तत्वं नित्यस्याकाशादेधर्मे वर्तते । एवं च नित्यव्यावृत्तधर्मवत्त्वमनित्ये घटादौ संशयधर्मिणि शब्दे च साधारणम् । अनित्यव्यावृत्तधर्मवत्त्वमुक्तरीत्या च नित्ये गगनादौ शब्दे च साधारणम् । प्रसिद्धकोट्यधिकरणपुरोवृत्तिसाधारणस्यैव साधारणशब्दार्थत्वादिति भावः ।

अभिनवामृतं

ननु असाधारणधर्मस्य साधारणधर्मेऽन्तर्भाव इति व्याहतमित्यतः स्वाभिसन्धिमुद्धाटयति ॥ असाधारणधर्मेति । असाधारणधर्मस्वरूपे विचार्यमाणे च डोलायमानसंशयहेतुरेव भवतीति भावः । एतेनासाधारणधर्मस्यैकधर्मिकैकोटिकसंशयहेतुत्वान्न संशयहेतुरित्युक्तमित्यपि परास्तम् । तमेव विचारं दर्शयति ॥ विशेषेति । कथं तर्हि संशयहेतुत्वव्यवहार इति पृच्छति ॥ किन्त्विति । संशयहेतूपस्थापकत्वेन संशयहेतुत्वमुपचर्यत इति भावेनाह ॥ व्यावृत्तिमुखेनेति । व्यावृत्तिर्वैलक्षण्यम् । इदमुक्तं भवति । वस्तुतो नासाधारणधर्मः संशयहेतुः । विशेषस्मृत्यहेतुत्वात् । किन्तु संशयहेतुर्नित्यानित्यवैलक्षण्योपस्थापकत्वात्संशयहेतुरित्युपचर्यते । आकाशविशेषगुणत्वादेव हि शब्दो नित्यविलक्षणोऽनित्यविलक्षणश्च । ततश्च नित्यानित्यवैलक्षण्ये एव संशयहेतू । यद्यपि नित्यव्यावृत्तत्वानित्यव्यावृत्तत्वे नित्यानित्याविरोधिनी । तथाऽप्यन्यतरप्राबल्यनिर्णयात्सत्प्रतिपक्षहेतू इव सन्देहजनके भवतः । नन्वेवं व्यावृत्तेरेवासाधारणधर्मस्य संशयहेतुत्वमवर्जनीयमित्याह ॥ तथा चेति । असाधारणधर्मस्य विशेषस्मरणकारणत्वायोगेन संशयकारणत्वे निरस्ते सति व्यावृत्तिरूपो धर्मो नित्यव्यावृत्तत्वमनित्यस्यानित्यव्यावृत्तत्वं नित्यस्य धर्म इत्येव साधारणः सन्नेव संशयहेतुः । न त्वसाधारणत्वेनेत्यर्थः । एतेनासाधारणधर्मस्याकाशविशेषगुणत्वस्य संशयहेतुत्वात्तस्यैव नित्यानित्यत्वरूपसहचारे वक्तव्ये नित्यव्यावृत्तत्वानित्यव्यावृत्तत्वयोस्तत्कथनमयुक्तमिति परास्तम् ।

आदर्शः

असाधारणधर्मविप्रतिपत्त्योरिति । साधारणधर्मस्य ज्ञानं यथा संस्कारोद्बोधकतया कोटिस्मृतिहेतुर्न तथाऽसाधारणधर्मज्ञानं संशयहेतुः किन्त्वसाधारणधर्मत्वेनैव ज्ञातं संशयहेतुकोटिस्मृतिजनकं भवति । तथा हि । तदितरावृत्तित्वे सति तद्वृत्तित्वस्यैवासाधारणरूपत्वेनाकाशविशेषगुणत्वरूपासाधारणधर्मे शब्देतरावृत्तित्वे ज्ञाते शब्देतरेषां नित्यानित्यानां सत्त्वेन पश्चान्नित्यावृत्तित्वमनित्यावृत्तित्वं च ज्ञायते आकाशविशेषगुणत्वे ज्ञायते । तथा चासाधारणधर्मत्वज्ञानानन्तरं नित्यावृत्तित्वेनानित्यावृत्तित्वेनाकाशगुणत्वरूपधर्मो ज्ञायते । येन रूपेण संशयकोटिसामानाधिकरण्यं ज्ञातं तेनैव रूपेण तत्सजातीयत्वज्ञानस्य कोटिस्माररकत्वान्नित्यत्वने निश्चितावृत्तित्वविशिष्टस्यैवानित्यत्वसामानाधिकरण्येन ज्ञातत्वात्तेन रूपेण ज्ञातं सत् कोटिस्मारकं भवति । एवमनित्यावृत्तित्वेन ज्ञातं सत् कोटिस्मारकं भवतीति तथा ज्ञानात्संशयः । नन्वेवं सति घटाघटकोटिकसंशयस्यापत्तिः । उक्तरीत्या घटतदभाववद्य्वावर्त्यत्वज्ञानसम्भवात् । न च तत्कोटिविषयकजिज्ञासाभावादभावः । तादृशजिज्ञासायाः साधारणधर्मसाध्यत्वेन तस्या अप्यापत्तेरिति वाच्यम् । इच्छाया इष्टत्वेष्टसाधनत्वान्यतरज्ञानसाध्यत्वेन कोटिनिर्णये तज्ज्ञानाभावेन तत्रेच्छाया असम्भवात् । घटाघटकोटिनिर्णये इष्टत्वनिर्णयदशायां तादृशजिज्ञासाया अपि सत्त्वात्तादृशसंशयस्येष्टत्वमेव । न च कोटिस्मृतेरेव संशयोपपत्तौ साधारणधर्मज्ञानस्य कारणत्वाङ्गीकारो निर्युक्तिक इति चेत् । मैवम् । साधारणधर्मज्ञानजन्यकोटिस्मरणस्यैव संशयकारणत्वेन तदर्थं साधारणधर्मज्ञानोपपादनस्य तत्कारणतायाश्च युक्तत्वात् । किं तत्र मानमिति चेत् । ृणु । संशयकोटिसमानाधिकरणसजातीयत्वस्यैव साधारणधर्मरूपत्वेन तादृशधर्मस्य सम्बन्धिज्ञानविधया कोटिस्मारकत्वेन स्वनिष्ठसामानाधिकरण्यरूपसम्बन्धप्रतियोगित्वेनैव कोटिस्मारकत्वेन तादृशस्मृतेरेव तादृशसाधारणधर्माधिकरणे कोटिप्रसञ्जकत्वादिति । एवं विप्रतिपत्तिवाक्याज्जायमानबोधस्यैव कोटिज्ञानरूपत्वेऽपि न तस्य संशयहेतुता । तादृशज्ञानस्य निश्चयरूपत्वेन संशयहेतुत्वायोगात् । किन्तु तादृशबोधे प्रामाण्यसन्देहे तद्विषयीभूतभौतिकत्वादेः संशयस्यानुभवसिद्धत्वात् । अत एव न संशयरूपः शाब्दबोधः । प्रत्येकं वाक्यश्रवणेन शाब्दबोधस्य जातत्वेन पश्चाज्जायमाने संशये वाक्यजन्यत्वकल्पने मानाभावात्संशये तात्पर्याभावाच्च । वाक्यघटकीभूतनिखिलपदात्पदार्थोपस्थित्यैक एव संशयः स्वीक्रियते खण्डवाक्यार्थबोधो न स्वीक्रियत इति तु न युक्तम् । पदार्थोपस्थित्यादेः कारणताया निराकरिष्यमाणत्वात् । अन्विताभिधानसामर्थ्यात्तत्पदश्रवणे शाब्दबोधस्यावश्यकत्वाच्च वाक्यद्वयस्यैककर्तृकत्वाभावाच्च । न च विप्रतिपत्तिजन्यशाब्दबोधे प्रामाण्यसन्देह एव संशयहेतुरस्तु कृतं साधारणधर्मदर्शनतज्जन्यकोटिस्मृत्यादिनेति वाच्यम् । अन्यत्र क्लप्तस्य साधारणधर्मदर्शनादेरेव कार्यसम्भवे संशयस्य पृथक् हेतुताकल्पने मानाभावेन गौरवादिति प्रामाण्यसन्देहस्य निश्चितप्रामाण्यकोटिनिश्चयरूपसंशयप्रतिबन्धकाभावमात्रसम्पादकत्वेन कथनात् ॥ नित्यव्यावृत्तत्वमिति । नित्यत्वेन निश्चितावृत्तिधर्मत्त्वमित्यर्थः ॥ अनित्यव्यावृत्तत्वमिति । अनित्यत्वेन निश्चितावृत्तिधर्मत्वमित्यर्थः । यथाश्रुते आकाशगुणत्वादिरूपे नित्यानित्यवृत्तित्वाभावादसङ्गतेः । केचित्तु । नित्यभिन्नत्वं नित्यव्यावृत्तत्वम् । अनित्यभिन्नत्वमनित्यव्यावृत्तमित्यर्थः लक्षणस्य लक्ष्येतरभेदानुमापकत्वेनाकाशविशेषगुणत्वरूपं लक्षणं शब्दे तदितरव्यावृत्तिं ज्ञापयति । असाधारणधर्मस्यैव लक्षणत्वात् । व्यावृत्तिश्च साधारणधर्म इति वदन्ति ।

वाक्यार्थमञ्जरी

स्वरूपेणेति । स्वीयेनाकाशविशेषगुणत्वादिनेत्यर्थः ॥ व्यावृत्तिमुखेनेति व्यावृत्तिपुरस्कारेणेत्यर्थः । धर्म इति सप्तम्यन्तम् ।

श्रीविट्टलभट्ट

तन्मतं दूषयितुमुपक्रमते ॥ वयं तु ब्रूम इति ॥ असाधारणधर्मविप्रतिपत्त्योः साधारण एवान्तर्भाव इति । न केवलमुपलब्ध्यनुपलब्ध्योः साधारणधर्मेऽन्तर्भावः किन्त्वसाधारणधर्मविप्रतिपत्त्योश्चेत्यपरेर्थः । असाधारणधर्मस्य तत्रान्तर्भावमुपपादयति ॥ असाधारणो हि धर्म इति । स्वरूपेणेत्यनन्तरं ज्ञात इति शेषः । असाधारणो धर्म आकाशगुणत्वं हि यस्मात्स्वरूपेण स्वेन स्वकीयेन रूपेणाकारेण ज्ञातोऽसाधारणधर्मत्वेन ज्ञात इति यावत् । असाधारणधर्मस्याकाशविशेषगुणत्वस्य संशयहेतुताया नासाधारणधर्मत्वं तन्त्रमिति भावः । तेन रूपेण कुतो न हेतुरिति हेत्वाकाङ्क्षायामाह ॥ विशेषेति । विशेषयोर्धर्मविशेषयोर्नित्यत्वानित्यत्वयोः संशयकोट्योः स्मरणस्य हेतुत्वादित्यर्थः । यथाऽसाधारणो धर्म ऊर्ध्वत्वं पुरोवर्तिनि ज्ञातुं स्थाणुत्वपुरुषत्वरूपकोटिस्मृतिद्वारैवायं स्थाणुर्वा पुरुषो वेति संशयहेतुर्भवति । यथा च साधारणधर्मः प्रमेयत्वं पुरोवर्तिनि ज्ञातः सन्नित्यत्वानित्यत्वरूपकोटिस्मृतिद्वारैव शब्दो नित्योऽनित्यो वेति संशयहेतुर्भवति । तथा साधारणधर्म आकाशविशेषगुणत्वं संशयधर्मिणि ज्ञातः सन्नित्यत्वानित्यत्वरूपकोटिस्मृतिद्वारैव शब्दो नित्योऽनित्यावेति संशयहेतुर्भवति । तथा साधारणधर्म आकाशविशेषगुणत्वं संशयधर्मिणि ज्ञातः सन्नित्यत्वानित्यत्वरूपकोटिस्मृतिद्वारैव शब्दो नित्योऽनित्यो वेति संशयहेतुर्भवतीत्येव वाच्यम् । न चासाधारणधर्मत्वेन ज्ञातमाकाशगुणत्वं नित्यत्वानित्यत्वरूपकोटिद्वयोपस्थापकं भवति । आकाशविशेषगुणत्वं शब्दमात्रवृत्तीति ज्ञानेऽपि नित्यत्वानित्यत्वयोः स्मरणात् । अन्यथा तेन स्थाणुत्वपुरुषत्वयोरपि स्मरणात् । तथा चाकाशविशेषगुणत्वस्यासाधारणधर्मत्वं न कोटिद्वयोपस्थापकतावच्छेदकरूपमतो न तेन रूपेण संशयहेतुरिति हृदयम् । तर्हि केन रूपेण संशयहेतुरिति पृच्छति ॥ किन्त्विति । उत्तरमाह ॥ व्यावृत्तिमुखेनैवेति । नित्यानित्याभ्यामिति शेषः । नित्यानित्याभ्यां व्यावृत्तिमुखेनैव व्यावृत्तिपुरस्कारेणैव । नित्यानित्यावृत्तित्वपुरस्कारेणैवेति यावत् । अस्यासाधारणो धर्मः संशयहेतुरित्यनुवृत्तेनान्वयः । इदमुक्तं भवति । यत्रासाधारणधर्मस्योर्ध्वत्वस्य कोटिद्वयोपस्थापकतावच्छेदकं स्थाणुपुरुषवृत्तित्वम् । स्थाणुपुरुषत्वेनोपलब्धस्य तस्य शब्दे धर्मिण्युपलब्धे सति स्थाणुत्वपुरुषत्वयोः स्मरणात् । तथा च तेनैव रूपेण तस्य संशयहेतुत्वम् । यथा च साधारणानैकान्तिकस्य प्रमेयत्वस्य सपक्षविपक्षवृत्तित्वं कोटिद्वयोपस्थापकतारूपावच्छेदकरूपं सपक्षविपक्षवृत्तित्वेनोपलब्धस्य तस्य शब्दे धर्मिण्युपलब्धे नित्यत्वानित्यत्वयोः स्मरणात् । तथा च नित्यरूपसपक्षवृत्तित्वेनैव तस्य संशयहेतुत्वम् । तथा साधारणधर्मस्याकाशविशेषगुणत्वस्य नित्यव्यावृत्तत्वमनित्यव्यावृत्तत्वमुभयं कोटिद्वयोपस्थापकतावच्छेदकरूपं नित्यव्यावृत्तत्वेन ज्ञातस्य तस्य धर्मिणि शब्द उपलब्धो नित्यत्वानित्यत्वयोः स्मरणात् । नित्यव्यावृत्तत्वेन हि तस्मिन्ज्ञाते सति तस्यानित्यवृत्तित्वं वाच्यम् । नित्यानित्यत्वकोट्युपस्थितिर्भवति । अनित्यावृत्तित्वेन तस्मिन्ज्ञाते तर्हि तस्य नित्यवृत्तित्वमभ्युपेयमिति नित्यत्वकोट्युपस्थितिर्भवति । अत एव कोटिद्वयोपस्थापकतावच्छेदकरूपत्वमप्युक्तमनैकान्तिकत्वं लक्षणं लक्ष्ये उपपादयता रुचिदत्तेन साधारणानैकान्तिकप्रमेयत्वादौ सपक्षविपक्षवृत्तित्वं कोटिद्वयोपस्थापकतावच्छेदकरूपमित्युक्तम् । तथा चाकाशविशेषगुणत्वस्यासाधारणधर्मस्य कोटिद्वयोपस्थापकतायां नित्यानित्यावृत्तित्वं तन्त्रमित्याकाशविशेषगुणत्वरूपोऽसाधारणधर्मस्तेन रूपेणैव संशयहेतुरिति । उक्तं चैतद्वरदराजीयटीकायाम् । अनेकधर्मसंश्रयमुदाहरति ॥ द्वितीयस्त्विति । नित्यव्यावृत्तसावयवत्वादिधर्मविशिष्टं घटादिकमनित्यं दृष्टम् । अनित्यव्यावृत्तपरममहत्त्वादिविशिष्टं गगनादिकं नित्यं दृष्टम् । गन्धस्तूभयव्यावृत्तत्वेनानुसन्धीयमानस्तदुभयस्मृतिद्वारा संशयहेतुर्भवतीत्यर्थ इति । एतेन नित्यानित्यव्यावृत्ततयाऽऽकाशविशेषगुणत्वस्य ज्ञानं संशयधर्मिणि शब्द एव वाच्यमिति धर्मज्ञान एव नित्यत्वानित्यत्वयोः स्मरणात्तत्स्मृतिरनपेक्षितैवेति कथमसाधारणधर्मजन्यकोटिस्मृतेरेव संशयहेतुत्वेन साधारणधर्मज्ञानजन्मकोटिस्मरणस्य संशयहेतुत्वाच्च । अन्यथा दैवात्स्थाणुत्वपुरुषत्वस्मृतिमत एव यदि पुरोवर्तिन्यूर्ध्वत्वज्ञानं वृत्तं तथा स्थाणुत्व पुरुषत्वकोटिस्मृतेः सिद्धत्वात् । साधारणधर्मज्ञानस्यापि कोटिस्मृतिद्वारा संशयहेतुत्वाभावप्रसङ्गात् । साधारणधर्मस्योर्ध्वत्वस्य पुरोवर्तिन्यनुपलम्भेऽपि स्थाणुपुरुषवृत्तित्वेन तस्यानुपलम्भे स्थाणुत्वपुरुषत्वयोः स्मरणात् । तेन रूपेणानुसन्धीयमानस्यैतस्य कोटिद्वयोपस्थापकत्वं वाच्यमिति तस्यापि कोटिस्मृतिद्वारा संशयहेतुत्वविलोपापाताच्च । यदि कदाचित्स्थाणुपुरुषवृत्तित्वेनोपलब्धस्योर्ध्वत्वस्य पुरोवर्तिन्युपलब्धिमात्रं कोटिद्वयोपस्थापकमेवेति मन्यसे तर्हि साधारणधर्मस्यापि कदाचिन्नित्यानित्याव्यावृत्तितयोपलब्धस्य संशयधर्मिण्युपलब्धिमात्रं कोटिद्वयोपस्थापकमित्यङ्गीकुरु । अविशेषादिति । नन्वस्तु कोटिद्वयस्थापकतावच्छेदकेनेतरसाधारण्येन नित्यानित्यव्यावृत्तत्वेनैव रूपेणाकाशविशेषगुणत्वरूपासाधारणधर्मस्य संशयहेतुत्वम् । तथाऽपि प्रकृते किमायातमित्यत आह ॥ तथा चेति । असाधारणो धर्म इत्यनुवर्तते । धर्म इत्येतदनित्यश्चेत्यनेनापि सम्बध्यते । अस्तीति शेषः । नित्यव्यावृत्तत्वं नित्येऽवर्तमानत्वमनित्यस्य घटादेर्धर्मे घटत्वादावस्ति । अनित्यव्यावृत्तत्वेऽनित्येऽवर्तमानं नित्यस्यात्मादेर्धर्मे आत्मत्वादावस्ति इति हेतोराकाशविशेषगुणत्वरूपासाधारणधर्मः साधारण एव धर्मिनित्यानित्यात्मघटादिवृत्तिरेव न तु नित्यत्वानित्यत्वसहचरित इत्यर्थः । इदमुक्तं भवति । पुरोवर्तिनिष्ठस्य दीर्घपरिमाणरूपो घटत्वस्य पुरोवर्तिमात्रनिष्ठत्वेन धर्मिव्यतिरिक्तस्थाणुपुरुषावृत्तित्वेऽपि तज्जातीयस्योर्ध्वत्वात्तस्य तत्र सत्त्वादूर्ध्वत्वस्य साधारणधर्मत्ववदसाधारणधर्मस्याकाशविशेषगुणत्वस्य शब्दमात्रवृत्तित्वेऽपि नित्यव्यावृत्तत्वेन तज्जातीयस्य घटत्वादेरनित्यत्वात् । अनित्यव्यावृत्तत्वेन तज्जातीयस्यात्मत्वादेर्नित्यवृत्तित्वात्साधारणत्वमेव । अन्यथा संशयस्य धर्मिनिष्ठोर्ध्वत्वस्य तन्मात्रवृत्तितया धर्मातिरिक्तस्थाणुपुरुषावृत्तित्वेन साधारणधर्मत्वाभावप्रसङ्गात् । आकाशविशेषगुणत्वेन तज्जातीयो धर्मो न नित्यानित्यवृत्तिरिति चेत् । किं तर्हि तेन रूपेण साधारणत्वरहितस्यापि तस्य नित्यानित्यव्यात्तत्वेन रूपेण साधारणत्वानपायात् । अन्यथा पुरोवर्तिनिष्ठोर्ध्वत्वस्य संशयधर्म्यतिरिक्तस्थाणुपुरुषावृत्तितया साधारणधर्मत्वाभावप्रसङ्गात् । तस्मात्पुरोवर्तिनिष्ठोर्ध्वत्वस्य तद्धर्मपुरस्कारेण स्वसमानधर्मस्य स्थाणुत्वपुरुषत्वकोट्युपस्थापकत्वं तेन रूपेण साधारणधर्मत्वमभ्युपेयम् । तथा च पुरोवर्तिनिष्ठोर्ध्वत्वस्योर्ध्वतात्वेन स्वसमानधर्मस्य स्थाणुपुरुषवृत्तित्वेन स्थाणुत्वपुरुषत्वरूपकोटिद्वयोपस्थापकत्वादूर्ध्वतात्वेनास्य यथा साधारणधर्मत्वं तथाऽऽकाशविशेषगुणत्वस्य नित्यव्यावृत्तत्वेन स्वसमानधर्मस्य घटादेरनित्यवृत्तित्वादनित्यत्वरूपकोट्युपस्थापकता अनित्यव्यावृत्तत्वेन स्वसमानधर्मस्यात्मत्वादेर्नित्यवृत्तित्वान्नित्यत्वकोट्युपस्थापकता चास्तीत्याकाशविशेषगुणत्वरूपासाधारणधर्मस्य नित्यानित्यव्यावृत्तत्वेन स्वसमानधर्ममभ्युपेयमेवेति । केचित्तु । नित्यव्यावृत्तत्वेन नित्यस्य घटपरिमाणादेर्धर्मोऽनित्यव्यावृत्तत्वेन नित्यस्यात्मपरिमाणादेर्धर्म इति हेतोराकाशविशेषगुणत्वरूपोऽसाधारणधर्मः साधारणधर्म एव । धर्मिनित्यत्वानित्यत्वाधिकरणवृत्तिरेवेत्यर्थः । यद्यप्याकाशगुणत्वं न नित्यानित्यव्यावृत्तम् । तथाऽपि दीर्घपरिमाणरूपस्य पुरोनिष्ठोर्ध्वत्वस्य स्थाणुपुरुषावृत्तित्वेप्यूर्ध्वतात्वेन तत्समानधर्मस्य स्थाणुपुरुषवृत्तित्वात्साधारणत्ववदसाधारणधर्मस्याप्याकाशविशेषगुणत्वस्य नित्यानित्यव्यावृत्तत्वेन स्वसमानधर्मस्य नित्यानित्यवृत्तित्वात् साधारणधर्म एवेति हृदयमित्याहुः ।