०१ (८)

प्रमाणपद्धतिः

प्रमास्वरूपम्, संशयस्वरूपम्

(८) प्रमाणपद्धतिः

प्रमावान्प्रमाता । प्रमाविषयः प्रमेयम् । यथार्थज्ञानं प्रमा । यथार्थग्रहणेन संशयविपर्ययतत्साधनानां निरासः । अनवधारणं ज्ञानं संशयः । अनवधारणग्रहणं सम्यग्ज्ञानविपर्ययव्युदासार्थम् । घटादिनिवृत्त्यर्थं ज्ञानमिति ।

जयतीर्थविजय

॥ प्रमावानिति । प्रमाता स्वामीत्यर्थः । तेनान्तःकरणस्याप्युपादानोपादेयभाव सम्बन्धेनान्तःकरणवृत्तिरूपप्रमावत्त्वात्प्रमातृत्वापत्तिरिति निरस्तम् ॥ प्रमाविषय इति । प्रमयाऽस्तीति गृह्यमाण इत्यर्थः । तेन भ्रमेणास्तीति गृह्यमाणे शुक्तिरूप्यादौ तथा बाधकप्रत्ययेन नास्तीति गृह्यमाणे तत्रैव पुनर्नातिव्याप्तिरिति ज्ञेयम् । प्रमाणलक्षणगतयथावस्थितपदकृत्यमाह ॥ यथार्थग्रहणेनेति । यथाशब्दस्य योऽर्थो यथावस्थितत्वं तद्ग्रहणेनेत्यर्थः । यथावस्थितग्रहणेनेत्येव वाच्ये यथार्थग्रहणेनेत्युक्तिराचार्योक्तप्रमाणलक्षणगतयथाशब्दार्थग्रहणेनैव संशयादिनिरासो न तदर्थमस्माभिः पदान्तरं दत्तमिति सूचयितुम् ॥ अनवधारणेति । नन्वनवधारणज्ञानत्वं संशयत्वम् । अवधारणत्वं च संशयभिन्नज्ञानत्वमित्यन्योन्याश्रय इति चेन्न । अवधारणत्वं च निष्कम्पप्रवृत्तिजननयोग्यज्ञानत्वमिति निर्वचनेनान्योन्याश्रयानवकाशात् । ननु प्रवृत्तेर्निष्कम्पत्वं निःसंशयत्वमेवेति पुनरप्यन्योन्याश्रय इति चेन्न । प्रवृत्तेर्निष्कम्पत्वं नाम ज्ञाने स्पष्टत्ववत्प्रवृत्तिगतो जातिविशेष एवेति न कश्चित्क्षुद्रोपद्रवः ।

भावदीपः

व्यावर्त्यतया प्रसक्तं प्रमातृप्रमेयस्वरूपमाह ॥ प्रमावानिति । प्रमाया मनोधर्मत्वेऽपि तत्स्वामित्वाद्धनी गोमानित्यादिवत्प्रमावानित्युक्तिर्युक्ता ॥ प्रमाविषय इति । विषयत्वं प्राङ्निरुक्तम् । प्रसक्तप्रमास्वरूपत्वं चाह ॥ यथार्थेति । यथावस्थितार्थविषयीकारि ज्ञानं प्रमेत्यर्थः । अर्थशब्दो वस्तुपर्यायः । आद्यविशेषणेन संशयविपर्यययोर्नातिव्याप्तिः । द्वितीयेन तु चक्षुरादीन्द्रियरूपानुप्रमाणेषु नातिव्याप्तिः । स्मृतिस्तु लक्ष्यैवेति स्पष्टत्वाद्वा केवलप्रमाणलक्षणे वक्ष्यमाणत्वाद्वाऽत्र नोक्तम् । एवं प्रमाणलक्षणे ज्ञेयविषयीकारित्वव्यावर्त्यं तत्प्रसक्तानुप्रसक्तं चोक्त्वाऽधुना यथावस्थितेति पदकृत्यमाह ॥ यथार्थेति । यथापदस्य योऽर्थो ज्ञेयानतिक्रमणरूपं यथावस्थितवस्तुविषयीकारित्वं तद्ग्रहणेनेत्यर्थः। ज्ञेयविषयीकारित्वस्य साक्षाद्वा साक्षाज्ज्ञेयविषयीकारिसाधनत्वेन वा द्वेधाऽभिमतत्वादाद्यस्य संशयविपर्यययोरन्त्यस्य तत्साधनयोरतिव्याप्तौ यथावस्थितेति ज्ञेयविशेषणेन तन्निरास इत्यर्थः । प्रसक्त संशयादेः स्वरूपं प्रपञ्चेनाह ॥ अनवधारणेत्यादिनेत्याचार्य इत्यन्तेन । विप्रतिपत्तिरपि साधारणीत्यन्तं संशयतत्साधनचिन्ताप्रकरणमिति ज्ञेयम् । संशयं लक्षयति ॥ अनवधारणेति । अवधारणं निश्चयः । तद्भिन्नमनवधारणम् । निश्चयत्वानधिकरणज्ञानमिति यावत् । पदकृत्यं स्वयमेवाह ॥ अनवधारणेति ॥

श्रीविजयीन्द्रतीर्थ

प्रमातृशब्दार्थस्य प्रमाजननानुकूलयत्नवत्त्वस्य यथाश्रुतस्य सर्वत्र प्रमातर्यसम्भवादाह ॥ प्रमावानिति । प्रमेयशब्दाभिधेयमाह ॥ प्रमाविषय इति । प्रमां लक्षयति ॥ यथार्थेति । सन्मात्रविषयकज्ञानमित्यर्थः । यद्वा येन सम्बन्धेन यद्यत्रास्ति तेन तत्र तद्विषयकारि ज्ञानमित्यर्थः । प्रमाणसामान्यलक्षणगतयथार्थ पदव्यावर्त्यमाह ॥ यथार्थेति । लक्षणद्वयेऽपि यथासम्भवं व्यावर्त्यमाह ॥ यथार्थेति ॥ अनवधारणेति । ननु किमिदमनवधारणत्वम् । न तावत्प्रकारायोगव्यवच्छेदाविषयकत्वम् । पुरुषोऽयमिति निश्चयेऽतिव्याप्तेः । असम्भवाच्च । संशये प्रकारायोगव्यवच्छेदात्मिकायाः कोटेरेव विषयत्वात् । नाप्यवधारणानिश्चयः । न तद्भिन्नत्वं निश्चयत्वस्य संशयान्यज्ञानत्वेनान्योन्याश्रयात् । न चैकमात्रकोटिकं ज्ञानमवधारणम् । तथा द्विकोटिकं ज्ञानं संशय इति वाच्यम् । द्रव्यं घटश्चेति समुच्चयेऽतिव्याप्तेः । विरोधित्वमपि कोटौ विशेषणमिति चेन्न । यद्ययंनिर्वह्निः स्यात्तदा निर्धूमः स्यादित्यादौ तर्केऽतिव्याप्तेः । तत्रैकस्मिन्पर्वतादौ व्याप्यारोपान्निर्धूमत्वस्य चक्षुरादिना धूमवत्त्वस्य विषयत्वादिति । मैवम् । एकस्मिन्धर्मिण्येकजातिसामग्न्य विषयकारिप्रमाविरोध्युभयकोटिज्ञानं संशय इति तदर्थात् । तर्के तु व्याप्यारोपप्रमाणाभ्यामुभयकोटिज्ञानात् । यद्वा एकस्मिन् धर्मिणि साधारणधर्मोपस्थितभासमानविरोधोभय कोटिकज्ञानं संशयः । एतदेव हृदि निधाय वक्ष्यति ॥ वयन्तु ब्रूम इति । संशयत्वं जातिरेव । न च चाक्षुषत्वादिना सङ्करः । सर्वत्र मानसस्यैव संशयस्य स्वीकारात् । न च चक्षुषा सन्देहेऽनुव्यवसायविरोधः । चक्षुषोऽपि प्रयोजकत्वेन तथाऽनुव्यवसायात् । अस्ति च धर्म्युपनयद्वारा मानसेऽपि संशये चक्षुरुपयोग इत्याहुः । तन्न । एवं हि विषयत्वमपि जातिः स्यात् । चक्षुषा रजतं पश्यामीत्यनुव्यवसायस्य त्वद्रीत्यैवोपपाद्यत्वात् । यदि च शाब्दोऽपि विपर्ययोऽस्तीति शाब्दत्वादिना जातिसङ्करान्नैवं तदा शाब्दोऽपि संशयोऽस्तीति जातिसङ्करान्नैवमिति प्रकृतेऽपि समानमिति दिक् ॥ सम्यग्ज्ञानेति । सम्यङ्निश्चयेत्यर्थः ।

श्रीवेदेशभिक्षु

प्रमातृप्रमेययोर्व्यवच्छेद इत्युक्तम् । तत्र कः प्रमाता किं प्रमेयमित्यत आह ॥ प्रमावानिति । यद्यपि प्रमाताऽपि प्रमेयो भवति । तथाऽपि विशेषविवक्षयेदमुदितम् । प्रमातृप्रमेय लक्षणान्तर्गतप्रमाणलक्षणमाह ॥ यथार्थेति । संशयविपर्ययनिरासाय यथार्थेति । करणव्यावृत्त्यर्थं ज्ञानमिति । अत्र यज्ज्ञानं यदंशे यथावस्थितार्थविषयीकारि तज्ज्ञानं तदंशे प्रमेति विवक्षितमतो न कश्चित्क्षुद्रोपद्रव इति ध्येयम् । एवं ज्ञेयविषयीकारिपदव्यावर्त्यमुक्त्वेदानीं यथाशब्दार्थभूतयथावस्थितेत्यस्य व्यावर्त्यमाह ॥ यथार्थेति । यथाशब्दस्य योऽर्थस्तद्गहणेनेत्यर्थः । ज्ञेयविषयीकारित्वं च साक्षात्संशयविपर्ययरूपज्ञाने तत्साधनत्वेन तत्करणेष्वपि वर्तत इत्यतिव्याप्तिस्तन्निरासाय यथाशब्दार्थग्रहणमित्यर्थः । केचित्त्वनन्तरोक्तप्रमाणलक्षणान्तर्गतयथार्थपदकृत्यमाह यथार्थग्रहणेनेत्याहुः । तच्चिन्त्यम् । तथात्वे तत्साधनानामित्यस्यासम्मतत्वापत्तेरिति । ननु संशयविपर्ययतत्साधनानामेवाज्ञाने तत्रातिव्याप्तिज्ञानमपि न सम्भवतीत्यतः संशयलक्षणं तावदाह ॥ अनवधारणमिति । क्रमेण पदद्वयव्यावर्त्यमाह ॥ अनवधारणेति । अवधारणत्वं यद्यपि नैककोटिव्यवच्छेदविषयत्वे सत्यपरकोटिविषयत्वं वक्तुं शक्यम् । तद्भिन्नत्वस्यायं घट इत्यादावपि सत्त्वेनातिव्याप्त्यापत्तेः । नापि निश्चयत्वम् । संशयभिन्नज्ञानस्यैव निश्चयरूपत्वेनान्योन्याश्रयत्वप्रसङ्गात् । तथाऽप्येकाकारावगाहिज्ञानत्वं विवक्षितम् । तथा च तद्भिन्नमनेकाकारावगाहिज्ञानत्वं संशयत्वमिति पर्यवस्यति । नन्विदमप्ययुक्तम् । स्थाणुपुरुषविति समूहालम्बनेऽतिव्याप्तेः । एकस्मिन्धर्मिणीति विवक्षायामपि वृक्षः शिंशुपा चेति निश्चयेऽतिव्याप्तेः । विरुद्धानेकाकारविवक्षायां चेदं रजतमिति भ्रमेऽतिव्याप्तेरिति चेन्न । एकस्मिन्धर्मिणि भासमानविरुद्धानेकाकारावगाहि ज्ञानत्वस्य विवक्षितत्वात् । अत्र विरोधे भासमानत्वस्य विवक्षितत्वान्नोक्तदोष इति ध्येयम् । अत्र कश्चित् । एवमपि तर्केऽतिव्याप्तिः । तत्राप्येकस्मिन्पर्वते व्याप्यारोपान्निर्धूमत्वस्य चक्षुरादिना धूमवत्त्वस्य च विषयत्वादित्याह । तत्तुच्छम् । न हि व्याप्यारोपजनिते निर्धूमत्वारोपे धूमवत्त्वं विषयः । येनातिव्याप्तिशङ्कावकाशः । किन्तु तत्र चाक्षुषं धूमवत्त्वज्ञानमन्यदेवेति ।

अभिनवामृतं

यथार्थज्ञानमिति । यथार्थग्रहणं किमर्थम् । ज्ञानं प्रमेत्येव किं नोच्यते । न च संशयविपर्यययोरतिव्याप्तिवारणार्थं तदिति वाच्यम् । संशयविपर्यययोरलक्ष्यत्वाभावेन तत्रातिव्याप्त्यभिधानायोगात् । तथा हि । इदं रजतमिति तावदेकं ज्ञानं धर्म्यंशे प्रमारूपम् । प्रकारांशे त्वप्रमारूपमित्यङ्गीकार्यम् । अन्यथाऽपसिद्धान्तः स्यात् । न च तस्यैकज्ञानस्य प्रमारूपत्वमङ्गीकृत्य तद्भिन्नत्वरूपमलक्ष्यत्वं वक्तुं शक्यम् । तादात्म्यस्यान्योन्याभावविरुद्धत्वात् । न च भेदाभेदावङ्गीकर्तुं शक्यौ । अपसिद्धान्तात् । लक्ष्यादत्यन्तभेदस्यैवातिव्याप्तिप्रयोजकत्वेन भिन्नमात्रे लक्षणस्य व्यावर्तनीयत्वाच्चाभेदेनातिव्याप्तिमाशङ्क्य लक्षणपरिहारेऽभेदेनाव्याप्तिप्राप्त्या लक्षणस्य तत्र वक्तव्यत्वापाताच्चेति चेत् । उच्यते । नेदं सामान्यलक्षणमपि तु यद्यस्य यथार्थज्ञानं तत्तत्प्रमेति विशेषलक्षणम् । ततश्च ज्ञानं प्रमेत्युक्ते यद्यस्य ज्ञानं तत्तस्य प्रमेति वाक्यार्थः स्यात् । तच्च लक्षणमिदं रजतमित्यादिभ्रमेऽतिव्याप्तम् । रजतत्वावगाहिज्ञानादत्यन्तभिन्नत्वात् । तच्च तत्रातिव्याप्तिपरिहारार्थं यथार्थं पदं सार्थकमिति । नन्वनुप्रमाणेष्वव्याप्तिपरिहाराय यथा साक्षाज्ज्ञेयविषयीकारिसाधनत्वेन प्राप्तमौपचारिकं ज्ञेयविषयीकारित्वं लक्षणत्वेन विवक्षितमित्युच्यते । तथा संशयविपर्ययतत्साधनेष्वव्याप्तिवारणाय प्रयतितव्यमित्यत आह ॥ यथार्थग्रहणेनेति । यथार्थं प्रमाणमिति लक्षणकथनेनैवायथार्थानां संशयविपर्ययतत्साधनानामलक्ष्यत्वस्य ज्ञापितत्वेनाव्याप्तिप्रसङ्गाभावान्न तदर्थं प्रयतितव्यमिति भावः । एतेन यथार्थग्रहणेनेति वाक्येन यथार्थं प्रमाणमिति लक्षणे पदकृत्यमभिधीयते । उत यथावस्थितमेव ज्ञेयं यद्विषयीकरोतीति विवरणवाक्ये । नाद्यः । यथार्थातिरिक्तपदाभावेन तावन्मात्रोक्तिप्रयुक्तातिव्याप्तेरप्रसक्तत्वे यथार्थपदेन तत्परिहाराभिधानायोगात् । नापि द्वितीयः । तस्मिन्वाक्ये यथार्थपदाभावात् । न च यथाशब्दस्यार्थो यथार्थ इति व्युत्पत्त्या यथार्थग्रहणेत्यनेन यथावस्थितग्रहणेनेत्युच्यत इति वाच्यम् । अर्थविशेषणस्य यथावस्थित्वस्य यथाशब्दार्थत्वाभावात् । यथाशब्दोऽनतिक्रमे वर्तत इति स्वयमेवाभिधानात् । यथावस्थितग्रहणेनेत्यनुक्त्वा यथार्थग्रहणेनेति वक्रोक्तौ कारणाभावाच्चेति परास्तम् ॥ घटादिनिवृत्त्यर्थमिति । घटादौ लक्षणस्य निवृत्त्यर्थं ज्ञानपदमित्यर्थः । नन्वनवधारणं संशय इत्युक्ते न घटादौ लक्षणं प्राप्नोति । अनवधारणमित्युक्त्यैवावधारणभिन्नज्ञानत्वेन सदृशमित्यर्थलाभात् । तदुक्तं महाभाष्ये । नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः । नञा युक्तम् इवयुक्तं च तदन्यस्मिंस्तत्सदृशकार्यं विज्ञायते । तद्यथा । अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृशं पुरुषमानयति । नासौ लोष्ठमानीयकृती भवतीति चेत् । उच्यते । ज्ञानमात्रस्य धर्म्यंशेऽवधारणत्वेनानवधारणत्वज्ञानत्वयोः समनियतत्वात् । अवधारणभिन्नस्य ज्ञानभिन्नत्वेन ज्ञानत्वेन सादृश्यायोगात् । अन्येनैव रूपेण सादृश्यं ग्राह्यमिति घटादावतिव्याप्तिरवर्जनीया । ततश्च ज्ञानमुपादेयम् । न चावधारणभिन्नस्य ज्ञानत्वासम्भवः । ज्ञानमित्यनेनेदं सामान्यलक्षणम् । किन्तु यद्यदवधारणभिन्नत्वे सति यस्य ज्ञानं तत्तस्य संशय इति विशेषलक्षणमिति सूचनात् । ततश्च स्थाणुर्वापुरुषो वेत्येतज्ज्ञानं धर्म्यंशावधारणमपि प्रकारावधारणभिन्नत्वे सति तज्ज्ञानत्वात्संशयो भवति । केचित्तु । असम्भवपरिहारायावधारणशब्दस्य भावप्रधानत्वमङ्गीकृत्य न विद्यतेऽवधारणं यस्येति विगृह्यानवधारणशब्दस्यावधारणत्वानधिकरणत्वमर्थमाहुः । तन्न । एवमप्यसम्भवानिस्तारात् । ज्ञानस्य निरंशत्वेन प्रदेशवृत्तित्वरूपव्याप्यवृत्तित्वायोगात् । कथं तर्हि प्रमात्वाप्रमात्वयोरेकदेशवृत्तित्वं न कथञ्चिदुभयोरपि । एकस्मिन्देवदत्ते पुत्रत्वपितृत्वयोरिव व्याप्यवृत्तित्वाङ्गीकारात् । न चैवमारोप्येऽपि प्रमात्वं धर्मिण्यप्रमात्वं स्यादिति वाच्यम् । देवदत्तपितृत्वपुत्रत्वयोरिव व्यवस्थोपपत्तेः । अत एव सर्वमपीदं रजतमित्यादिज्ञानं धर्म्यंशे प्रमा प्रकारांशेत्वप्रमेत्याशयेन सर्वं ज्ञानं धर्मिण्यभ्रान्तं प्रकारे तु विपर्यय इति प्राचां प्रवादः । अन्यथा घटादिज्ञानरूपप्रकारांशे विपर्ययत्वाभावात्सर्वं प्रकारे विपर्यय इत्युक्तं स्यादिति ।

आदर्शः

प्रमां लक्षयति ॥ यथार्थेति । तत्साधनवारणाय ज्ञानेति । प्रमाणसामान्यलक्षणे यथार्थपदनिवेशे प्रयोजनमाह ॥ यथार्थग्रहणेनेति । ज्ञेयविषयीकारित्वोक्तौ संशयविपर्यययोः साक्षाज्ज्ञेयविषयीकारित्वेन तत्साधनेषु तत्साधनत्वेन निमित्तेन ज्ञेयविषयीकारित्वसत्त्वादतिव्याप्तिरित्यर्थः । केचित्तु । प्रमाणलक्षणस्य यथार्थपदस्यैवेदं प्रयोजनाभिधानम् । न च तर्हि संशयविपर्यययोर्ज्ञानत्वेनातिव्याप्तिसम्भवेऽपि तत्साधनेषु कथमतिव्याप्तिर्लिङ्गज्ञानादेस्तत्साधनस्य प्रमात्वे लक्ष्यत्वेनाव्यावृत्तत्वात् । अप्रमात्वे विपर्ययपदेनैव गृहीतत्वात् । इन्द्रियादेश्चज्ञानत्वेनातिव्याप्तिप्रसक्तेरेवाभावादिति वाच्यम् । संशयकारणीभूततर्काभासादेः साधनपदेन गृहीतत्वात् । तर्कस्य चापत्तित्वेनातिव्याप्तिप्रसक्तेः सम्भवात् । निर्वक्ष्यमाणविपर्ययत्वस्यापत्तिरूपे ज्ञानेऽभावेन विपर्ययपदेन तस्यागृहीतत्वादित्याहुः । संशयं लक्षयति ॥ अनवधारणमिति । अवधारणभिन्नत्वे सति ज्ञानत्वमित्यर्थः । निश्चयभिन्नत्वे सति ज्ञानत्वं संशय इत्यर्थः । न च निश्चयत्वस्य संशयान्यरूपत्वेनान्योन्याश्रयः स्यादिति वाच्यम् । सत्त्वासत्त्वान्यतरविषयतानिरूपकत्वस्यैव निश्चयरूपत्वेनान्योन्याश्रयाभावात् । संशयेऽपि सत्त्वविषयताऽस्तीति न शङ्कनीयम् । यादृशविषयताशालिज्ञाने जाते इदं सदिति व्यवहरति निःशङ्कं प्रवर्तते च तादृशविजातीयविषयताया विषयानौपाधिकायाः सत्त्वविषयतापदार्थत्वात् । एवमसत्त्वविषयताया अपि विजातीयत्वं यादृशविषयताशालिज्ञाने सतीदमसदिति व्यवहरति निःशङ्कं निवर्तते वा तादृशविषयताया असत्त्वविषयतापदार्थत्वाद् इति बोध्यम् । न हि संशयोत्तरमयं स्थाणुः पुरुष इति वा व्यवहरति तदर्थी निःशङ्कं प्रवर्तते वा नायं स्थाणुरिति व्यवहरति निवर्तते वा । अतस्तादृश्या विषयानौपाधिकाया विजातीयायाः सत्त्वविषयताया असत्वविषयतायाश्च न संशयसाधारण्यम् । आहार्ये चासत्त्वविषयता नियमेनास्तीति तस्याप्युक्तनिश्चयत्वं युज्यते एव । अत एव तादृशविषयताव्यावृत्ता संशयविषयता कोटितेत्युच्यते । यद्यपि विजातीयविषयतानिरूपकत्वं संशयत्वं तदन्यत्वं निश्चयत्वमित्यपि वक्तुं शक्यते तथाऽपि संशयी या विषयता नैकजातीया सम्भावनाया अपि संशयत्वेन तद्विषयताया इतरसंशयव्यावृत्तत्वात् । किंसज्ञकोऽयं वृक्ष इत्यादिबहुकोटिकस्थले तु विजातीया नैकविधा । अन्यतरत्वेनान्यतमत्वेन वाऽनुगमस्तु न सम्भवतीति पूर्वमेवावेदितमतो निश्चयान्यत्वेनानुगमः कृतः । स च नियमेनानेकाकारो भवति । अत एव तत्त्वोद्योतटीकायां न च भेदे विकल्पो युज्यत इति वाक्यव्याख्यानावसरे संशयस्य प्रश्नहेतुत्वस्फुटीकरणायैकस्मिन्धर्मिणि विरुद्धानेकाकारं ज्ञानं विकल्प इत्युक्त्वा संशय इति यावदिति पर्यवसानं कृतम् । अन्यथा तस्यैव संशयपदार्थत्वेन यावदिति पर्यवसानकारणानुपपत्तेः । प्राचीनास्त्वेकस्मिन्धर्मिणि विरुद्धत्वेन भासमाननानाधर्मावगाहि ज्ञानं संशय इत्यर्थ इति व्याचक्षते । तत्पक्षेऽवधारणमित्यस्यैकाकारमित्यर्थः । तद्भिन्नत्वमित्युक्तावर्थादनेकाकारत्वं लभ्यते । यथाश्रुतस्य पदकृत्यकथनपरं घटादिनिवृत्त्यर्थं ज्ञानमिति वाक्यं बोध्यम् । वन्हिमान् हृदस्तद्विरुद्धवन्ह्यभाववानित्याहार्यज्ञानवारणाय तदन्यत्वं निवेशनीयम् ।

वाक्यार्थमञ्जरी

नन्वत्र प्रमेयपदस्य घटादेर्ज्ञानकरणत्वकथनमयुक्तम् । ज्ञानं प्रत्यर्थस्य क्वापि जनकतासम्मतेरिति तत्त्वद्योतटीकायां विषयस्य ज्ञानकारणत्वनिराकरणात् । न चात्र प्रमेयपदेन सर्वजगत्कारणकालादिरेव विवक्षितस्तत्प्रमाविषय इति वाच्यम् । तत्तत्प्रमाकरणवाचकसाधनपदेन तत्तत्प्रमाकर्तृकर्मकारकयोरेव व्यावर्तनीयत्वात् । अत एव प्रमाणलक्षणटीकायां हेतुरित्युच्यमाने प्रमातृप्रमेययोरपि प्रसङ्गात्तत्साधनग्रहणम् । सतोरपि कर्तृकर्मणोर्यदभावात्कार्याभावो यदनन्तरं चासति प्रतिबन्धे भवत्येव कार्यं तदुच्यते साधनमिति साधनलक्षणे तत्प्रमाकर्मैव प्रविष्टम् । एतदेवाभिप्रेत्य तत्रैव प्रमातुः प्रमेयत्वेऽपि विवक्षावशात्पृथगुक्तिरित्युक्तम् । प्रकृतप्रमाविषयविवक्षावशादित्यर्थः । अतः कथमेतदिति चेत् । सत्यम् । तथाऽपि पररीत्याऽत्र विषयस्य कारणत्वोक्तिरित्यदोषः । यद्वा मानमातृप्रमेयाणां तदुच्छित्तिर्न हि क्वचिदित्यनुव्याख्याने मानादिभेदेन त्रिविधमेव विश्वमिति सुधायां च प्रमाणप्रमातृप्रमेयरूपविश्वयोर्व्यावृत्त्यादित्यत्र प्रमेयपदेन प्रमाणप्रमातृभिन्नप्रमाणकारणीभूतविश्वग्रहणं प्रमाणलक्षणटीकावाक्यमपि सामान्यविषयं व्याख्येयमिति न दोषः ॥ यथार्थग्रहणेनेति । यथाशब्दस्य यस्तात्पर्यार्थो यथावस्थितमात्रविषयीकारित्वं तन्मध्ये यथावस्थितमात्रेतिग्रहणेनेत्यर्थः । अत एव प्रमाणलक्षणटीकायां यथार्थं यथावस्थितार्थविषयीकारीत्युक्तम् । अर्थविषयीकारित्वस्य संशयविपर्ययसाधारणस्य तद्विशेषणोपादानमित्युक्तम् ॥ प्रमावानितीति । प्रमास्वामीत्यर्थः ॥ अवधारणज्ञानमिति । ननु नञस्त्रयोऽर्थाः सन्ति । पर्युदासाख्यान्योन्याभावः प्रसज्यप्रतिषेधरूपसंसर्गाभावो वध्यघातुकभावादिरूपो विरोधश्चेति । आद्यो यथा । अनश्व इत्यादि । द्वितीयो यथा । नास्त्यत्र घट इत्यादि । तृतीयो यथा । असुर इत्यादि । तेष्वत्राद्यार्थो नाभ्युपगन्तुमुचितः । तथात्वे नावधारणमित्यनेनैवावधारणभिन्नज्ञानत्वेनावधारणसादृशमित्यर्थलाभेनासदृशे घटादावतिव्याप्त्यभावेन व्यावर्तकज्ञानपदवैय्यर्थ्यापत्तेः । यथाऽऽहुः । नञिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थगतिः । नञा युक्तमिव न च युक्तं यत् तस्मिंस्तत्सदृशे कार्यं विज्ञायते । तद्यथा । अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृशं पुरुषमानयति नासौ लोष्ठमानीय कृती भवति । नापि द्वितीयः । प्रसज्यप्रतिषेधोऽत्र क्रियया सह यत्र नञिति वचनेन प्रसज्यप्रतिषेधार्थकस्य नञःक्रियासापेक्षत्वेनासमर्थेऽवधारणमत्र नास्तीति वाक्यरूपत्वापत्त्याऽनवधारणमिति समासानुपपत्तेः । समर्थः पदविधिरिति सामर्थ्ये सत्येव समासविधानात् । क्रियासापेक्षस्य च नञः प्रतियोगिसमर्पकावधारणपदेन सामर्थ्याभावात् । सापेक्षमसमर्थमिति स्मरणात् । अवधारणाभावस्य सम्यङ्निश्चयादिसाधारणत्वेनातिव्याप्तेश्च । नापि तृतीयः । घटादेरवधारणाविरोधित्वेनानवधारणत्वस्य तत्राप्रसक्त्या तद्-व्यावर्तकज्ञानपदवैय्यर्थ्यापत्तेः । तस्मात्कथमेतदिति चेत् । अत्रोच्यते । अस्तु तावदाद्योऽर्थः । न चोक्तदोषोऽर्थः । ज्ञानत्वेनैवावधारणसादृश्यं वक्तव्यमित्यत्र नियामकाभावात् । ननु नञन्वितपदार्थगतसामान्यधर्मेण सादृश्यं वक्तव्यम् । अन्यथाऽतिप्रसङ्गात् । न चात्र ज्ञानत्वातिरिक्तः सामान्यधर्मोऽस्तीति तेनैव सादृश्यं वाच्यमिति चेत् । अत्रैवं प्रष्टव्यम् । किं सामान्यधर्मसादृश्यमात्रं प्रयोजकमुत विशेषधर्मसादृश्यमपि । नाद्यः । तथात्वेऽनश्व इत्यनेन रासभस्येव गवादिप्रतिपत्तिप्रसङ्गात् । अस्ति हि तत्र पशुत्वेन सामान्यधर्मेण सादृश्यम् । न द्वितीयः । प्रकृतेऽवधारणसंशययोर्ज्ञानत्वादिसाधारणधर्मसादृश्यं विना विशेषधर्मेण सादृश्याभावात् । तस्माद्विवक्षानुसारेण सादृश्यं वाच्यम् । तदत्राप्यस्ति । ज्ञानार्थयोरबाधितत्वरूपसामान्यधर्मेण सादृश्यम् । सम्मतं चैतज्ज्ञानार्थसादृश्यं यथार्था प्रतीतिरित्यादिप्रयोगं कुर्वतां सर्वेषाम् । तथा हि । नात्र यथाशब्दः सादृश्यभिन्नार्थः । यथाऽसादृश्य इत्यसादृश्यार्थैरव्ययीभावविधानेनाव्ययीभावे चोपकुम्भमित्यादिवन्नपुंसकनिर्देशापत्तेः । अतः सादृश्यार्थत्वमेव वाच्यम् । न चोदाहृतसूत्रेण सादृश्यार्थत्वे समासनिषेधाद् यथा हरिस्तथा हर इत्यादिवदसमास एव स्यादिति वाच्यम् । समासान्तरनिषेधेऽपि यथा सदृशोऽर्थो यस्याः सेति बहुव्रीहिसमासोपपत्तेः । उक्तं हि सुधायाम् । कथञ्चिद्बुहव्रीहितामाश्रित्य वेति । न चाबाधितत्वमपहाय ज्ञानार्थयोः सादृश्यान्तरमस्ति प्रामाण्योपयुक्तम् । अतोऽन्योन्याभावार्थत्वेनानुपपत्तिः । अथवा संसर्गाभावाश्रयत्वमस्तु । अवधारणशब्दो भावप्रधानः । तथा चोक्तरीत्या तत्पुरुषासम्भवेऽप्यघटं भूतलमित्यत्रेव न विद्यतेऽवधारणमवधारणत्वं यस्य तदनवधारणमिति बहुव्रीहिसमासे न किञ्चिद्बाधकम् । न च संशयस्यापि धर्म्यंशेऽवधारणत्वेन तत्रावधारणभिन्नत्वं वाऽवधारणत्वानधिकरणत्वं वा नास्तीत्यसम्भव इति वाच्यम् । प्रकारावधारणज्ञानत्वस्याभिमतत्वात् । अवधारणत्वं च निश्चयत्वं तच्च व्यवस्थितकोटिकत्वमतो नात्र कश्चित्क्षुद्रोपद्रव इति सङ्क्षेपः ।

श्रीविट्टलभट्ट

व्यवच्छेद्यज्ञानं विना तद्-व्यवच्छेदस्य ज्ञातुमशक्यत्वेन प्रमातृप्रमेययोर्लक्षणमाह ॥ प्रमावान् प्रमाता प्रमाविषयः प्रमेयमिति । प्रमावान् प्रमातेत्यर्थः । प्रमाज्ञानाभावे तद्धटितप्रमातृप्रमेयलक्षणज्ञानायोगात् प्रमालक्षणमाह ॥ यथार्थज्ञानं प्रमेति । यथावस्थितवस्तुविषयीकारिज्ञानमित्यर्थः । यथार्थेति संशयविपर्ययोर्व्युदासः । ज्ञानमिति प्रत्यक्षादेर्निरासः । ननु प्रमाविषयः प्रमेयमित्यत्र शुक्तिरूप्यव्यवच्छेदाय प्रमाशरीरप्रविष्टयथाशब्दस्योपादानमिति वक्तव्यम् । न च तत्सम्भवति । यथाशब्दार्थोपादानेऽपि तद्-व्यवच्छेदायोगात् । शुक्तिरूप्यमसदिति प्रमितिविषयत्वस्य तत्र सत्त्वादिति चेन्न । स्वासत्त्वानुल्लेखिप्रमितिविषयः प्रमेयमिति विवक्षितत्वात् । असत्त्वं च न प्रमेयत्वानधिकरणत्वं येनान्योन्याश्रयः स्यात् । किन्तु कालत्रयवर्तिनिषेधप्रतियोगित्वमिति प्रमाणलक्षणवाक्ये यथावस्थितपदकृत्यमाह ॥ यथार्थग्रहणेनेति । यथाशब्दार्थस्य यथावस्थितत्वस्य ग्रहणेनेत्यर्थः। व्यावर्त्यज्ञानं विना व्यावृत्तज्ञानासम्भवाद्यथाशब्दार्थव्यावर्त्यस्य संशयस्य तावल्लक्षणमाह ॥ अनवधारणज्ञानमिति । अनवधारणमवधारणभिन्नं निश्चयभिन्नं ज्ञानं संशय इत्यर्थः। निश्चयत्वं च सकम्पत्वं च प्रवृत्तिगतो जातिविशेष इति न कश्चित्क्षुद्रोपद्रव इति बोध्यम् । विशेषणकृत्यमाह ॥ अनवधारणज्ञानमित्यादिना ।