०२ (७)

प्रमाणपद्धतिः

(७) प्रमाणपद्धतिः

ज्ञेयविषयीकारित्वं च साक्षाद्वा साक्षाज्ज्ञेयविषयीकारिसाधनत्वेन वा विवक्षितमिति नानुप्रमाणेष्वव्याप्तिः । ज्ञेयविषयीकारित्वेनैव प्रमातृप्रमेययोर्व्यवच्छेदः । तयोः साक्षाज्ज्ञेयविषयीकारित्वाभावात् । साक्षाज्ज्ञेयविषयीकारिकारणत्वेऽपि तत्साधनत्वाभावाच्च ।

जयतीर्थविजय

कथं तर्ह्यनुप्रमाणेष्वव्याप्तिपरिहार इत्यत आह ॥ ज्ञेयविषयीकारित्वं चेति । चशब्दो वाक्यालङ्कारे । स्वसम्पादितज्ञेयतोपलक्षितविषयकत्वमित्यर्थः ॥ साक्षादिति । उपाधितयेत्यर्थः ॥ साक्षाज्ज्ञेयविषयीकारिसाधनत्वेनेति । ज्ञानजननद्वारा ज्ञेयतासम्पादकत्वेनेत्यर्थः । प्रमात्रादिव्यावृत्त्यर्थं साधनग्रहणम् । इमे च साक्षात्पारम्पर्ये न ज्ञेयविषयीकरणविषये । सुधायामनुप्रमाणानामपि साक्षाज्ज्ञेयविषयीकारित्वस्य सृदृढं प्रतिपादितत्वात् । किन्तु ज्ञेयतासम्पादन एव । एवं चानुप्रमाणस्य ज्ञानवत्स्वविषये घटादौ साक्षाज्ज्ञेयतासम्पादकत्वाभावेऽपि ज्ञानजननद्वारा तत्सम्पादकत्वान्नाव्याप्तिरिति भावः । उक्तं हि सुधायाम् । केवलं विषयस्य ज्ञेयतां ज्ञानमुपाधितया करणानि तु तज्जनकतया सम्पादयन्तीत्येतावन्तं विशेषमाश्रित्य केवलानुप्रमाणभेदः समर्थित इति । यथावस्थितज्ञेयविषयीकारित्वस्योभयत्रापि साम्यादिति च । अत्र यद्यपि बहु वक्तव्यमस्ति तथाऽपि विस्तरभयादुपरम्यते । ननु यथावस्थितज्ञेयविषयीकारि प्रमाणमिति । निष्कृष्टे प्रमाणलक्षणे यथावस्थितत्वमेव प्रमाणलक्षणमस्तु । किं ज्ञेयविषयीकारित्वेनेत्याशङ्क्य तद्-व्यावर्त्यमाह ॥ ज्ञेयविषयीकारित्वेनैवेति । गम्यविषयीकारिगत्यादावतिव्याप्तिवारकेणैवेत्यर्थः । अत्र ज्ञेयविषयीकारित्वं नामास्मदुक्तरीत्या स्वसम्पादिता या ज्ञेयता तदुपलक्षितविषयकत्वम् । तेन गत्यादौ नातिव्याप्तिः । गत्यादिना गतिविषये ग्रामादौ गम्यतायाः सम्पादनेऽपि ज्ञेयताया असम्पादनेन स्वसम्पादिताया ज्ञेयताया एव तत्राप्रसिद्धेः । उपलक्षितग्रहणेनातीतादिगोचरयथार्थज्ञाने नाव्याप्तिः । तत्र ज्ञेयताविशिष्टविषयकत्वाभावेऽपि तदुपलक्षितविषयकत्वस्य सत्त्वात् । तन्निरासमुपपादयति ॥ तयोरिति । ननु प्रमातृप्रमेययोर्ज्ञानवत्साक्षाज्ज्ञेयविषयीकारित्वाभावेऽपि चक्षुरादिवत्साक्षाज्ज्ञेयविषयीकारिसाधनत्वेनास्त्वित्यत आह ॥ साक्षादिति । कारणत्वेऽपीति प्रमेयांशे कारणताभ्युपगमवादः । प्रमेयस्यातीतानागतादिरूपत्वेन ज्ञानपूर्वकालेऽभावेन कारणत्वं नास्तीति भावः । अभ्युपगमवादमेव सूचयति कारणत्वेऽपीत्यपिशब्देन ॥ तत्साधनत्वाभावादिति ॥ यज्जातीयानन्तरमित्यादिना वक्ष्यमाणसाधनत्वाभावादित्यर्थः ।

भावदीपः

॥ साक्षाद्वेत्यादि । नन्वेवमपि साधनत्वं न ज्ञाने । साक्षाज्ज्ञेयविषयत्वं च करणेषु नेत्यन्यतरविवक्षायामन्यतरत्राव्याप्तिः । उभयविवक्षायामपि ज्ञानकरणाननुगमेन पुनः स एव दोष इति चेन्मैवम् । ज्ञानं यथा साक्षादन्यव्यवधानेनार्थविषयकं तथा तत्साधनानीन्द्रियलिङ्गशब्दरूपानुप्रमाणान्यप्यन्याव्यवधानेन साक्षादेवार्थविषयकाणि । न हि तानि किमप्यविषयीकृत्य ज्ञानं जनयितुमीशते । यत्सन्निकृष्टकरणेन यज्ज्ञानमुत्पद्यते स तस्य विषय इति विषयत्वनिर्वचनात् । सन्निकर्षशब्देन प्रत्यासत्तेरभिमतत्वात् । इन्द्रियाणामर्थैः संयोग इव लिङ्गशब्दयोरपि लिङ्गिवाक्यार्थाभ्यां व्याप्तिशक्तिरूपप्रत्यासत्त्या लिङ्गिवाक्यार्थधीजनकत्वेन करणानि यत्सम्बध्य ज्ञानं जनयन्ति तस्यैव ज्ञानविषयस्य करणानि प्रत्यपि विषयत्वात् । एवं चार्थविषयीकारित्वं ज्ञानरूपकेवलप्रमाणे साधने इन्द्रियलिङ्गशब्देषु चैकरूपमेव । परन्त्वर्थे यज्ज्ञेयत्वं तज्ज्ञानोपाधिकम् । न करणोपाधिकम् । अतो ज्ञेयविषयीकारित्यत्र ज्ञेयत्वांशेऽनन्यापेक्षत्वान्यापेक्षत्वरूपभेदमात्रेण साक्षात्त्वतत्साधनत्वव्यवहार इति न कश्चिद्दोषः । तदुक्तं सुधायाम् । ‘‘ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम्’’ इत्येतदनुव्याख्याव्याख्यानावसरे यथावस्थितार्थविषयत्वस्योभयत्र साम्यात् । ज्ञानविषय एव हि करणानां विषयः । न हि किमप्यविषयीकुर्वन्त्येतानि तज्ज्ञानं जनयन्ति । नाप्यन्यविषयाणि । अतिप्रसङ्गात् । केवलं विषयस्य ज्ञेयता ज्ञानोपाधितया । करणानि तु तज्जनकतया सम्पादयन्तीत्येतावन्तं विशेषमाश्रित्य केवलानुप्रमाणभेदः समर्थितः । यदि चैतावताऽप्यव्याप्तिदोषस्तदा सर्वत्रापि यत्किञ्चिद्वैलक्षण्यस्यापि वक्तुं शक्यत्वादतिप्रसङ्गः स्यादिति । समग्रप्रमाणलक्षणस्याव्याप्तिं निरस्याधुना लक्षणगतपदद्वयस्यापि कृत्यं विवक्षुरेकस्य तावदाह ॥ ज्ञेयविषयीकारित्वेनैवेति । यथावस्थितत्वमात्रस्य तयोः सत्त्वादतिव्याप्तावनेनैव विशेषणेन तद्-व्यावृत्तिरित्यर्थः । कथमित्यतो ज्ञेयविषयकत्वस्य द्वेधाभिमतत्वात्तद्द्वयमपि तत्र नेत्याह ॥ तयोरिति ॥ साक्षादिति । ज्ञानाव्यवधानेनेत्यर्थः । तयोर्निर्विषयकत्वादिति भावः । नन्वेवं विषयीकारित्वेनैव तयोर्व्युदासे किं ज्ञेयेत्युक्त्येति चेत् । सत्यम् । तत्तु गमनादिक्रियास्वनतिव्याप्त्यर्थम् । अत्र तु स्वभावानुवादमात्रामिति ज्ञेयम् ॥ तत्साधनत्वाभावादिति । अतिशयितकारणस्यैवात्र साधनत्वेन विवक्षतत्वादिति भावः । कारणत्वेऽपीत्यभ्युपगमवादः । प्रमातुः करणत्वेऽपि प्रमेयस्य तदभावात् । विषयस्य क्वापि जनकतासम्मतेरिति तत्त्वोद्योतटीकोक्तेः । उक्तं हि तर्कताण्डवे च । प्रत्यक्षप्रमास्वनुगतगुणभङ्गे चक्षुरादिवत्कारणत्वेन धर्मिग्राहकप्रमाणासिद्धोऽर्थः सन्निकर्षेणान्यथासिद्धत्वान्न प्रमाहेतुरिति ।

श्रीविजयीन्द्रतीर्थ

तदेवाह ॥ साक्षादिति । प्रमातुः प्रमेयत्वोपपादनेऽपि प्रमेयव्यवच्छेद इत्युक्ते कथञ्चिदसम्भवशङ्का स्यादतः प्रमात्रिति पृथगुक्तिस् तयोर्लक्षणप्रसक्तिमाह ॥ तयोरिति ।

श्रीवेदेशभिक्षु

ननु ज्ञेयविषयीकारित्वं ज्ञानधर्मः । तथा चेन्द्रियाद्यनुप्रमाणेष्वव्याप्तिरित्यत आह ॥ ज्ञेयविषयीकारित्वं चेति । करणेष्वपि सम्यग्ज्ञानसाधनतया परम्परया ज्ञेयविषयीकारित्वमस्त्येव । न हि साक्षादेव ज्ञेयविषयीकारित्वं लक्षणे विवक्षितम् । येनोक्तदोषः स्यात् । अपि तूभयसाधारणं ज्ञेयविषयीकारित्वमात्रमिति भावः । इदं च पररीत्यैवोक्तम् । स्वमते तु ज्ञान इव करणेष्वपि साक्षादेव ज्ञेयविषयीकारित्वमस्तीति नोक्ताव्याप्तिरिति द्रष्टव्यम् । उक्तं हि सुधायाम् । ज्ञानविषय एव करणानां विषयः । न हि किमप्यविषयीकुर्वन्त्येतानि ज्ञानं जनयन्ति । नाप्यन्यविषयाणीत्यादि । अन्ये तु । ज्ञेयविषयीकारित्वं साक्षाद्वा साक्षाज्ज्ञेयविषयीकारिसाधनत्वेनैवेत्यत्र प्रत्येकं लक्षणत्वेऽव्याप्तेर्मिलितस्य तत्त्वेऽसम्भव इत्याशङ्क्य साधनाश्रययोरन्यतरत्वे सतीत्यादिवत्साक्षाज्ज्ञेय विषयीकारितत्साधनान्यतरत्वस्य विवक्षितत्वाददोष इत्याहुः । तच्चिन्त्यम् । अन्यतरत्वस्यान्यान्यपर्यवसन्नत्वेनेतरभेदसाधने साध्याविशेषप्रसङ्गात् । अन्यथाऽव्याप्तितावदस्थ्यादिति । एतेन ज्ञेयविषयीकारित्वस्येच्छायामतिव्याप्तिः । ज्ञानपददाने चानुप्रमाणेन्द्रियादिष्वव्याप्तिरिति कस्यचिद्दूषणमपास्तम् । न हीच्छायां स्वोपाधिकज्ञेयत्वोपेतविषयीकारित्वमस्ति । येनातिव्याप्तिशङ्कावकाशः । ज्ञेयविषयीकारीति विशेष्यस्य व्यावर्त्यमाह ॥ ज्ञेयेति । प्रमातृप्रमेययोः किं ज्ञानवत्साक्षाज्ज्ञेयविषयीकारित्वमुत करणवज्ज्ञानसाधनतया परम्परया । नाद्य इत्याह ॥ तयोरिति । लक्षणप्रसक्तिं दर्शयन्द्वितीयं दूषयति ॥ साक्षादिति ॥

अभिनवामृतं

ननु ज्ञेयविषयीकारित्वं ज्ञान एव मुख्यं करणेष्वौपचारिकम् । न चोपचारेण लक्षणवत्ता भवति । उपचारत्वव्याघातात् । तथा चानुप्रमाणेष्वव्याप्तिरित्यत आह ॥ ज्ञेयविषयीकारित्वं चेति । नात्र मुख्यमेव ज्ञेयविषयीकारित्वं लक्षणत्वेन विवक्षितम् । किन्नाम साक्षान्मुख्यं वाऽस्तु साक्षाज्ज्ञेयविषयीकारिसाधनत्वेनौपचारिकं वाऽस्त्विति विवक्षितमिति नानुप्रमाणेष्वव्याप्तिरित्यर्थः । ननु ज्ञेयविषयीकारित्वस्य करणेष्वमुख्यताभिधानं सुधाविरुद्धम् । तथा हि । न चैवमव्याप्तिर्लक्षणस्येति वाच्यम् । ज्ञानमेव यथार्थं करणानि तज्जनकतया तथोपचर्यन्त इत्यङ्गीकारे हि सा स्यात् । न चैवम् । यथावस्थितार्थविषयत्वस्योभयत्रापि साम्यात् । ज्ञानविषय एव हि करणानां विषयः । न हि किमप्यविषयीकुर्वन्ति करणानि ज्ञानं जनयन्ति । नाप्यन्यविषयाणीति सुधोक्तिरिति चेन्न । भावानवबोधात् । न हि ज्ञेयविषयीकारित्वमुपचरितं नेति सुधाशयः । गमनस्य गम्यविषयकत्वमिवेन्द्रियादेरैन्द्रियिकादिविषयत्वेन ज्ञेयविषयीकारित्वाभावात् । किं नाम ज्ञेयविषयीकारित्वान्तर्गतं विषयीकारित्वमुपचरितं नेत्याशयः । अत एव हि न हि किमप्यविषयीकुर्वन्ति करणानि ज्ञानं जनयन्तीत्येवोक्तम् । अन्यथा ज्ञेयमविषयीकुर्वन्ति करणानि ज्ञानं जनयन्तीत्यवक्ष्यत् । नन्वित्थं सुधाशयवर्णनमयुक्तम् । न चैवमव्याप्तिर्लक्षणस्येति प्राक्शङ्किताव्याप्त्यपरिहारप्रसङ्गादिति चेत् । स्यादयं दोषः । यदि ज्ञेयविषयीकारिभावत्वाप्रयुक्तामव्याप्तिमाशङ्क्य सुधाकृता परिहारोऽयमभिहित इति स्यात् । न चैवम् । किं नाम युक्त्यादिकरणानि तु विषयस्य ज्ञेयतायामुपाधिभूतं ज्ञानं जनयन्तीत्युक्ते इन्द्रियाणां ज्ञानजनकत्वमेव विषयीकारित्वमिति मन्यमानस्य चोद्यम् । न चैवम् । अव्याप्तिर्लक्षणस्येत्यादिनाऽऽशङ्क्य परिहारोऽयमभिहित इति । ननु ज्ञेयविषयीकारित्वान्तर्गतं विषयीकारित्वममुख्यं नेत्युक्तम् । अनुप्रमाणलिङ्गज्ञानेन वाक्यज्ञानेन चानुभवाभावेन लिङ्गवाक्यार्थविषयकत्वस्यानानुभाविकत्वात् । अन्यथा लिङ्गवाक्यार्थयोरिव लिङ्गिवाक्यार्थयोरपि केवलप्रमाणापत्त्याऽनुप्रमाणं न स्यादिति चेत् । उच्यते । द्विविधं विषयीकारित्वम् । गमनासाधारणमनुमेयमाद्यम् । द्वितीयं तूल्लेखित्वलक्षणं ज्ञानेच्छादिसाधारणं प्रत्यक्षसिद्धम् । तदेव केवलत्वप्रयोजकम् । यज्ज्ञानं यमर्थमुल्लिखति तत्तस्मिन्नर्थे केवलम् । एवं च लिङ्गवाक्यज्ञाने लिङ्गवाक्ये उल्लिखत इति तत्र केवले । गमनं ग्राममिव लिङ्गवाक्यज्ञाने लिङ्गवाक्यार्थौ विषयीकुरुत इति तत्रानुप्रामाणम् । यद्यपि लिङ्गज्ञानं वाक्यज्ञानं वा नानुप्रमाणम् । तत्प्रामाण्यवादस्त्वङ्गीकारवाद इति वन्ह्यादिविषयता नोपपादनीया । तथाऽप्यनुप्रमाणावान्तरव्यापारयोर्लिङ्गज्ञानवाक्यज्ञानयोरनुप्रमाणस्येव साध्यादिविषयताऽस्तीति वस्तुस्थितिमनुरुद्ध्य वन्ह्यादिविषयत्वमुपपादितम् । अत्र ज्ञेयविषयीकारित्वमिति वस्तुतो यज्ज्ञेयं तद्विषयीकारित्वमिति न विवक्षितम् । किन्तु यद्विषयीकरणं वस्तुनो ज्ञानसम्बन्धितायां साक्षाद्वा ज्ञानं साधनत्वेन परम्परया वा निमित्तं भवति तद्वत्त्वं विवक्षितम् । ज्ञानविषयीकरणं तु साक्षान्निमित्तम् । करणविषयीकरणं तु ज्ञानोत्पत्तिद्वारेति विवेकः । ततश्च नास्य लक्षणस्य गमनेऽतिव्याप्तिः । तद्विषयीकरणस्य वस्तुनो गतिसम्बन्धितानिमित्तत्त्वेऽपि साक्षात्परम्परया वा ज्ञानसम्बन्धितानिमित्तत्वाभावात् । इममेवाभिप्रायं मनसि निधायानुव्याख्याने ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम् । सुधायां च । ज्ञानमेव हि विषयस्य ज्ञेयतायां साक्षादुपाधिर्भवति । अतस्तद्विषयस्य ज्ञेयत्वं मुख्यमिति ज्ञानस्यैव मुख्यतो याथार्थ्यम् । युक्त्यादिकरणानि तु विषयस्य ज्ञेयतायामुपाधिभूतं ज्ञानं जनयन्तीति तद्विषयस्य ज्ञेयत्वममुख्यम् । तत एव तेषां याथार्थ्यमप्यमुख्यमितीत्युक्तम् । ज्ञानविषयीकरणव्यापारस्यार्थनिष्ठज्ञेयतां प्रति निमित्तत्त्वात्तद्विषयस्य ज्ञेयता मुख्येत्युच्यते । करणविषयीकरणस्य तु ज्ञेयतानिमित्तत्वस्योपकारित्वात्तद्विषये विद्यमानाऽपि ज्ञेयताऽमुख्येत्युपचर्यत इत्येव सुधाऽनुव्याख्यानयोरभिप्रायः । अन्यथा ज्ञानविषयस्य करणविषयस्य चैकत्वात्तत्र ज्ञेयत्वं मुख्यं वा स्यादमुख्यं वा स्यात् । तद्यथा देवदत्तायाः पुत्रो देवदत्तस्य पुत्रः । तत्र विद्वत्त्वं देवदत्तप्रयुक्तमिति कृत्वा न हि भवति देवदत्तपुत्रे विद्वत्त्वं मुख्यं देवदत्तायाः पुत्रत्वममुख्यमिति । ज्ञानविषयीकरणव्यापारस्यार्थनिष्ठज्ञानसम्बन्धितानिमित्तत्वे ज्ञेयत्वमिति व्यवहारे ज्ञानस्योपाधित्वमवर्जनीयमिति कृत्वा सुधायां स्वोपाधिकस्वनिमित्तक ज्ञेयविषयीकारित्वं प्रमाणमिति विवक्षित्वा गमनेऽतिव्याप्तिः परिहृता । न च मुख्यामुख्यभेदेन द्विविधं याथार्थ्यं लक्षणत्वेन विवक्षितमिति परस्पराव्याप्तिरिति वाच्यम् । परस्पराव्याप्तेरदोषत्वात् । तदुक्तं सुधायाम् । वस्तुतस्त्वेकमिवानेकमपि स्वस्वाश्रये व्यावर्त्यादिकं कुर्वतो भवत्येव लक्षणम् । अत एव कणादः क्रियावद्गुणवत्समवायिकारणमिति क्रियावत्त्वमपि द्रव्यलक्षणत्वेनाहेति । ननु नेदं प्रमाणलक्षणम् । लक्षणप्रयोजनस्य लक्ष्यस्यालक्ष्याद्य्वावृत्तिबोधस्य वा लक्ष्यस्य लक्ष्याद्य्वावृत्तिबोधस्य वाऽनेनाजननादित्यत आह ॥ ज्ञेयविषयीकारित्वेनैवेति । अर्थमनतिक्रम्य विषयीकारित्वेनैवेत्यर्थः । अत्रैवकारेणानेनैव लक्षणेन व्यावृत्तिः सिध्यति । न तु तदर्थं लक्षणान्तरं प्रणेयमित्याचष्टे । अस्ति तावत्प्रमाणं नाम तत्त्वमिति वार्तां ृण्वतः प्रमाणेष्विव प्रमातृप्रमेययोरपि प्रामाण्यबुद्धिः प्रयुक्ता भवति । ततो यद्यथावस्थितज्ञेयविषयीकारि तत्प्रमाणमिति तल्लक्षणज्ञाने सतीदमेव प्रमाणं न प्रमातृप्रमेये इत्यवधारणात्मकं ज्ञानं जायत इति लक्षणप्रयोजनस्यानेनैव जननाद्भवत्येवेदं लक्षणमिति भावः । एतेन प्रमातृप्रमेयाभ्यां व्यवच्छेद इति वक्तव्यं न तु प्रमातृप्रमेययोरिति परास्तम् । अस्य वाक्यस्यालक्ष्यस्य लक्ष्याद्य्वावृत्तिरूपप्रयोजनप्रदर्शनपरत्वेन लक्ष्यस्यालक्ष्याद्य्वावृत्तिप्रयोजनप्रदर्शनपरत्वाभावात् । एतेनैवांशस्यातिव्याप्तिप्रसङ्गे तत्परिहाराय विशेषणान्तरमुपादेयम् । प्रकृते च ज्ञेयविषयीकारित्वस्यैव समग्रलक्षणत्वेनातिव्याप्तिप्रसङ्गाभावात्तत्परिहाराभिधानमयुक्तमिति परास्तम् । ननु लक्षणं लक्ष्ये विद्यमानत्वेन लक्ष्यमलक्ष्याद्य्वावर्तयितुं न त्वलक्ष्यं लक्ष्याद्य्वावर्तयितुं शक्नोति । तत्राविद्यमानत्वादित्यत आह ॥ तयोरिति । प्रमातृप्रमेययोर्ज्ञेयविषयीकारित्वस्य तत्साधनत्वस्य चाभावात्प्रमातृप्रमेययोर्व्यवच्छेद इति पूर्वेण सम्बन्धः । ज्ञेयविषयीकारिकारणत्वेऽपीत्युक्तिस्तु प्रमातृप्रमेययोः साधनत्वाभावोऽसिद्धः साधनत्वस्यानुभवसिद्धत्वादिति शङ्कापरिहाराय । यदनुभूयते तज्ज्ञेयविषयीकारिकारणत्वमेव न तु साधनत्वमतो नासिद्धिरिति ज्ञापनार्था । इदमुक्तं भवति । स्यादयं दोषः । यदि लक्षणं लक्ष्यमलक्ष्यादिवालक्ष्यं लक्ष्यत्वमुख्येनैव व्यावर्तयतीति ब्रूमः । न चैवम् । किं नाम व्यावृत्तिमुखेन । ततश्च लक्षणयोर्व्यतिरेकसद्भावादलक्ष्यस्य लक्ष्याद्व्यावर्तकत्वमुपपन्नमेवेति । अत्र लक्षणाभावयोर्न प्रत्येकव्यावृत्तिबुद्धिहेतुत्वम् । किन्तु समुचितयोरिति द्योतनाय साधनत्वाभावाच्चेति च शब्दः । न तु साधनद्वयसमुच्चये च शब्द इति बोध्यम् । एतेन ज्ञेयविषयीकारित्वेनैव प्रमातृप्रमेययोर्व्यवच्छेद इति वाक्येन किं लक्षणस्य प्रमातृप्रमेययोरतिव्याप्तिः परिह्रियत उत लक्ष्यस्यालक्ष्याद्य्वावृत्तिरभिधीयते । नाद्यः । ज्ञेयविषयीकारित्वस्य लक्षणस्यैव तत्राप्राप्तत्वेनैवातिव्याप्तिपरिहाराभिधानायोगात् । उत्तरवाक्यवैय्यर्थ्याच्च । लक्षणस्याभावोपपादनयोत्तरवाक्यमिति चेन्न । साध्यवैशिष्ट्यापातात् । यावद्विशेषाभावेन सामान्याभावस्य साध्यत्वान्न साध्यावैशिष्ट्यमिति चेन्न । यावद्विशेषाभावेनैवातिव्याप्तेः परिहृतत्वेन सामान्याभावसाधनवैय्यर्थ्यात् । विशेषाभावयोर्मिलितयोर्हेतुत्वेन साधनत्वाभावाच्चेति समुच्चायकचशब्दवैय्यर्थ्याच्च । न द्वितीयः । लक्ष्यस्येतरभेदसाधनाय तत्रैव लक्षणस्य व्युत्पादनीयत्वेन प्रमातृप्रमेययोस्तदभावाभिधायकोत्तरवाक्यद्वयवैय्यर्थ्यप्रसङ्गादिति निरस्तम् । अस्य ग्रन्थस्य लक्ष्यव्यावर्तकतया लक्ष्यावधारणरूपप्रयोजनव्युत्पादनपरत्वस्योक्तत्वात् ।

आदर्शः

नन्विदं लक्षणमिन्द्रियेष्वव्याप्तम् । तत्रार्थविषयकत्वाभावात् । न च चक्षुषोऽयं विषय इत्यादिसार्वलौकिकव्यवहारात्सविषयकत्वमेवेति वाच्यम् । तद्व्यवहारस्य गौणत्वात् । अतीन्द्रियत्वेन चक्षुरादीनां तद्धर्मत्वेन सविषयकत्वेन प्रत्यक्षायोगेन तादृशलिङ्गाद्यभावेनानुमित्यादेरयोगेनागमादेरदृष्टेः प्रमाणाभावेन सविषयकत्वाभावस्य सिद्धत्वादित्यत आह ॥ ज्ञेयविषयीकारित्वं चेति । साक्षाज्ज्ञानावगाहिप्रत्यक्षेण साक्षाज्ज्ञेयविषयीकारित्वेन लिङ्गेनेत्यर्थः । ननु ज्ञानसाधनत्वेन लिङ्गेन सविषयकत्वानुमाने लिङ्गस्य तत्साधनस्य वाऽनुमितिविषयविषयकत्वापत्त्या सविषयकत्वस्य केवलान्वयित्वापत्तिः । ज्ञानसाधनत्वस्याप्रयोजकत्वाच्च ज्ञानकर्तृत्वेन प्रमातुस्तत्कर्मत्वेन प्रमेयस्य च सविषयकत्वापत्तेश्च । ज्ञानसाधनत्वेन हेतुना सर्वेषु ज्ञानकरणेषु सविषयकत्वसिद्ध्यापत्तिश्च । न हि ज्ञानसाधन एव सविषयकत्वमङ्गीकार्यं न कर्त्रादावित्यत्र राज्ञामाज्ञाऽस्ति । न च यथार्थज्ञानतत्साधनान्यतरत्वं लक्षणत्वेन विवक्षितम् । अतो नेन्द्रियेष्वतिव्याप्तिरिति वाच्यम् । तथा सति लक्षणोक्तेर्वैयर्थ्यापत्तेः । अन्यतरत्वस्यान्यान्यरूपत्वेन लक्ष्येतरत्वज्ञानस्यान्यस्मिन् लक्ष्ये तदितरत्वज्ञानस्य च लक्षणज्ञानसाध्यस्य लक्षणज्ञानात्पूर्वमावश्यकत्वात् । न चैवं सति लक्षणोक्तिमात्रस्य वैय्यर्थ्यापत्तिः । लक्षणे लक्षणत्वज्ञानाभावे व्यभिचारित्वेनेतरभेदानुमापकत्वाभावप्रसङ्गेन लक्षणत्वस्यावश्यं ज्ञातव्यतया तस्य चालक्ष्यघटितमूर्तिकत्वेन लक्ष्यभेदज्ञानस्येतरत्रावश्यकत्वात् । लक्ष्येऽपीतरभेदज्ञानस्यावश्यकत्वादिति वाच्यम् । सर्वस्यापि पदार्थस्य स्वेतराणि सामान्यतस्तत्प्रतियोगिकभेदवत्त्वेन ज्ञानस्यानुभाविकत्वेन लक्ष्यतावच्छेदकविशिष्टस्य सामान्यतः स्वेतरभिन्नत्वेन धर्मान्तरविशिष्टाद्भिन्नत्वेन च ज्ञानेऽपि व्यक्तिविशेषे लक्षणज्ञानेन लक्ष्यतावच्छेदकविशिष्टवाचकपदवाच्यत्वस्य लक्ष्यतावच्छेदके तद्धर्मविशिष्टप्रतियोगिकभेदस्य पूर्वमज्ञायमानस्य ज्ञायमानत्वेन तत्सार्थक्यसम्भवात् । न चैवमस्ति प्रकृते । यथार्थज्ञानतत्साधनानि यावन्ति तत्तद्भेदस्येतरस्मिंस्तादृशभेदविशिष्टानि यावन्ति तत्तद्भेदस्य लक्ष्ये सामान्यतो ज्ञातत्वेऽपि व्यक्तिविशेष एवोक्तभेदस्यैव व्यक्तिविशेषे लक्षणज्ञानरूपत्वात् । न च प्रमाणपदवाच्यत्वविशिष्टे इतरधर्मविशिष्टप्रतियोगिकभेदज्ञानमेव फलमिति वाच्यम् । लक्ष्यतावच्छेदकविशिष्टे लक्षणज्ञानस्यैव तद्विशिष्टे इतरभेदानुमितिरूपत्वात् । यथार्थज्ञानतत्साधनेष्वनुगतलक्षणोक्त्ययोगश्च । प्रमाणपदस्याक्षादिवन्नानार्थकत्वेनोभयबोधकत्वेऽपि नानाशक्त्यैव बोधकेनान्यतरत्वस्य प्रमाणपदप्रवृत्तिनिमित्तत्वे मानाभावश्च । यद्रूपविशिष्टत्वज्ञानेन प्रमाणपदं प्रयुङ्क्ते तद्रूपस्यैवेदानीं निर्वचनीयत्वम् । अत एवोत्तरत्र ल्युटोऽधिकरणेऽप्यनुशासन सिद्धत्वात्प्रमातुरपि लक्ष्यत्वमाशङ्क्य लौकिकव्यवहारगोचरत्वाभावेनालक्ष्यमुपपाद्यैकया शक्त्या ज्ञानतत्साधनोभयबोधकत्वस्याप्यभावेनानुगतलक्षणोक्त्यनुपपत्तिमाशङ्क्य धात्वर्थागमस्योभयत्रापि साम्यादिति समाधानमुक्तम् । तत्र याथार्थ्यरूपधात्वर्थस्योभयत्र प्रमापदप्रयोक्तृभिरनुसन्धीयमानत्वरूपानुगमस्य सत्त्वादित्यर्थः । याथार्थ्यज्ञानेनैव तत्पदप्रयोगात्तस्यैव प्रवृत्तिनिमित्तत्वमिति याथार्थ्यस्य सामान्यरूपत्वं युक्तमित्याशयः । यद्यपि प्रपूर्वकमाङ्माने इति धातुव्याख्यानाद्धातोर्ज्ञानत्वघटितार्थत्वं तथाऽपि तद्घटकस्यापि याथार्थ्यस्य धातुबोध्यत्वरूपधात्वर्थमभिप्रेत्य धात्वर्थेत्युक्तम् । यद्वा । धातूनामनेकार्थत्वाल्लोकप्रयोगानुसारेण याथार्थ्यमात्रवाचकत्वमप्यस्तीत्याशयः । केचित्तु । ‘‘मानं ज्ञानं लयश्चैव मर्यादा चापि कथ्यत’’ इति वचनान्मर्यादारूपधात्वर्थस्येत्यर्थः । अतिक्रमाभावस्यैव मर्यादारूपत्वेन प्रकृतेऽर्थातिक्रमाभावरूपमर्यादा याथार्थ्यरूपैव भवतीति तस्य धात्वर्थत्वमित्याहुः । एवं चोक्तान्यतरत्वस्य लक्षणत्वे तद्विरोधो विभागानुपपत्तिश्च अन्यतरत्वेनानुगमस्य पुनर्विभागस्य च निष्प्रयोजनत्वात् । तथा सत्युक्तरीत्या चतुर्विधस्यापि वक्तुं शक्यत्वादिति साक्षाज्ज्ञेयविषयीकारित्वेन तत्साधनत्वेन वेत्युपपादनासङ्गतिश्च । उक्तरीत्या तदाश्रयत्वेन वेत्यपि वक्तुं शक्यत्वाच्च तृतीयाया अन्वयाच्च ‘‘याथार्थ्यमेव प्रामाण्यं तन्मुख्यं ज्ञानशब्दयो’’ इत्यनुव्याख्याने याथार्थ्यस्यैवोक्तत्वाच्च । सुधायामिन्द्रियापेक्षयैव शब्दे याथार्थ्यं मुख्यं न ज्ञानवदित्युपपादितत्वाच्च नान्यतरत्वस्य लक्षणत्वेनाभिमतत्वं युक्तमिति । अत्रोच्यते । ज्ञानकरणेष्वपि सविषयकत्वमङ्गीक्रियते । अर्थप्रकाशनशक्तेरेव विषयितारूपत्वात् । तदतिरिक्तविषयिताऽङ्गीकारे मानाभावात् । अर्थप्रकाशकत्वं च तद्विषयव्यवहारादिप्रयोजकशक्तिमत्त्वम् । इत्थं च दोषाप्रयोज्यार्थविषयकव्यवहारादि प्रयोजकशक्तिमत्त्वं पर्यवसितम् । प्रयोजिकाचात्र साक्षात्परम्परासाधारणी । इत्थं च ज्ञाने साक्षाद्य्ववहारादिजनिका शक्तिः करणेषु ज्ञाने तादृशशक्तिसम्पादनद्वारा तादृशीति । अत एव सुधायां ज्ञानजननानुकूलशक्त्यैव तद्याथार्थ्यजनकत्वम् । स्वतस्त्वमित्यनेन ज्ञाननिष्ठतद्वति तत्प्रकारत्वरूपप्रामाण्यस्य करणजन्यत्वमुक्तं वेदितव्यम् । तथा चोभयत्रापि दोषाप्रयोज्यार्थविषयकत्वमक्षतम् । न च ज्ञाननिष्ठायां विषयितारूपायां शक्तौ करणगतशक्तिप्रयोज्यत्वे मानाभावः । अर्थविशेषविषयकत्वविशिष्टज्ञानोत्पत्तिप्रयोजकशक्तौ विशेषणीभूतार्थविषयकत्वप्रयोजकत्वस्याक्षतत्वात् । न च चाक्षुषत्वावच्छिन्नं प्रति चक्षुस्त्वेन कारणताऽङ्गीक्रियते । न त्वर्थविशेषविशिष्टत्वावच्छिन्नं प्रतीति वाच्यम् । तथा सत्यर्थविशेषविषयकत्वस्याकस्मिकत्वापत्तेः । घटादिरूपविषयविशेषविषयकप्रत्यक्षेच्छया प्रवृत्त्यनुपपत्तेश्च । न च चाक्षुषत्वरूपसामान्यधर्मावच्छिन्नविषयकेच्छयैव प्रवृत्तिः । तस्य सिद्धत्वेनेच्छाविषयत्वायोगात् । न च संशयाधीना प्रवृत्तिः । अनुभवविरोधात् । स्वसन्निकृष्टार्थविशेषविषयकप्रत्यक्षत्वावच्छिन्नप्रयोजकशक्तिमत्त्वनिश्चयेनैव सन्निकर्षार्थं चक्षुःप्रवृत्तेरनुभूयमानत्वात् । न च स निश्चयो भ्रमः । सार्वजनीनप्रतीतेर्विना बाधं भ्रमत्वकल्पनाया अनुचितत्वात् । चक्षुषा तादृशप्रतीतेर्जननेन विजातीयसंवादस्य सत्त्वाच्च । न च चाक्षुषं प्रत्येव चक्षुषो हेतुता विषयतासम्बन्धेन प्रत्यक्षत्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन विषयस्य हेतुता क्लृप्ता । तथा च तत्तद्विषयविशेषविषयितया विशिष्टप्रत्यक्षत्वावच्छिन्नं प्रति तत्तद्विषयो हेतुरिति न तत्तदर्थविषयकत्वस्याकस्मिकत्वापत्तिः । तत्तद्विषयसत्तानिश्चयाय प्रवृत्तिश्च युज्यत इति वाच्यम् । विषयस्य सन्निकर्षोत्पादनेनैव कृतार्थतयाऽन्यथासिद्धत्वेन प्रत्यक्षत्वावच्छिन्नं प्रति करणत्वायोगात् । तत्त्वोद्योतटीकायां विषयस्य कारणत्वसम्प्रतिपत्तेरित्युक्तत्वात् । स्मृत्यादिरूपे मानसप्रत्यक्षे तत्तारूपविषस्य नष्टत्वेऽपि संस्काररूपसन्निकर्षेणैव भानस्यानुभवसिद्धत्वाच्च । चाक्षुषप्रत्यभिज्ञायां तत्ताया भानाच्च । न चालौकिकप्रत्यक्षत्वावच्छिन्नं प्रति विषयस्य हेतुत्वाङ्गीकारान्न दोष इति वाच्यम् । अन्यत्र क्लृप्तनियतपूर्ववृत्तिसन्निकर्षादिनैव कार्यसम्भवे तत्सहभूतत्वेनान्यथासिद्धत्वात् । संशये भ्रमे च भासमानपुरुषरजतादिविषयाभावेऽपि तद्रूपप्रत्यक्षस्य जायमानत्वाद्य्वभिचारश्च । न च संशयादौ भासमानपुरुषरजतादौ लौकिकविषयितैव नास्तीति वक्तुं शक्यते । रजतं पश्यामीत्यनुभवव्याकोपात् । न च चक्षुषस्तत्सन्निकर्षस्य सत्त्वाद्भवत्पक्षेऽपि शुक्त्यादिप्रत्यक्षापत्ती रजतादिप्रत्यक्षानुपपत्तिश्च समैवेति वाच्यम् । मन्मते चक्षुरादेः स्वसन्निकृष्टार्थविषयकत्वविशिष्टप्रत्यक्षादिजननानुकूलशक्तिमत्त्वेऽपि दोषविशेषेण तादृशशक्तेः प्रतिबन्धान्न तदर्थाकारकप्रत्यक्षोत्पत्तिः । विपरीतशक्तेराहितत्वाद्रजताद्याकारकप्रत्यक्षोत्पत्तिश्च । वेत्रबीजादौ भर्जनादिरूपसहकारिणां सहजशक्तिविघटकत्वस्य विपरीतशक्त्याधायकत्वस्य च दर्शनादित्यङ्गीकारेण दोषाभावात् । न च दोषस्यापि तादृशप्रत्यक्षं प्रति कारणत्वमङ्गीक्रियत इति वाच्यम् । अनन्तदोषाणामननुगतानां कारणत्वकल्पनापेक्षया करणेष्वेव तादृशशक्त्यङ्गीकारस्य लघुत्वात् । न च दोषाणां सहजप्रतिबन्धकत्वविपरीतशक्त्याधायकत्वाङ्गीकाराद्भवन्मतेऽपि गौरवमिति वाच्यम् । त्वन्मतेऽपि तद्दोषाणां तत्तत्प्रतीतिविशेषं प्रति कारणताया अङ्गीकर्तव्यत्वात् । अन्यथा दोषस्थले भ्रमस्यानुत्पत्तिप्रसङ्गात् । एवं शुक्त्यादिविषयघटिततत्सान्निकर्षादिघटितसामग्रीसत्त्वाच्छुक्त्याद्याकारकप्रत्यक्षापत्तिवारणाय तत्तद्दोषाभावानामपि तत्तदाकारकप्रत्यक्षादौ कारणत्वमङ्गीकार्यम् । तथा च तत्तद्दोषघटितसमुदाये तदभावघटितसमुदाये चाननुगते तत्तत्प्रयोजकत्वस्याधिकस्याङ्गीकारात्त्वन्मते गौरवम् । मन्मते तु न दोषाभावघटिते दोषघटिते वा समुदायेन तत्तत्प्रत्यक्षप्रयोजकत्वम् । तयोरकारणत्वेन सामग्रीकोट्यघटकत्वात् । यद्यपि मन्मते सर्वेषां धर्माणां प्रातिस्विकत्वाङ्गीकारेण नैकं सर्वत्र कारणं कारणतावच्छेदकं वा सम्भवति । तथाऽप्येकजातीयत्वरूपानुगमः सम्भवत्येव । एकजातीयं प्रति विजातीयानां कारणत्वे सर्वेषां कार्याणामेकेनैव सादृश्येनोपस्थितत्वेन तत्कारणानामुपस्थापकसादृश्याभावेनैकबुद्ध्युपारोहासम्भवेनैकदा तादृशकार्यकारणभावग्रहो न सम्भवतीति पुनः प्रयत्नान्तरापेक्षाऽस्तीति गौरवमिति तादृशानुगमोऽवश्यक एवेति भवत्पक्षे शुक्त्याकारकप्रत्यक्षे शुक्तित्वेन कारणतेत्यनुगमो न सम्भवतीति । किञ्चालोकस्याञ्जनादेश्च चक्षुरादिगतशक्तिव्यञ्जकत्वात्तादृशशक्तिसिद्धिः । न चालोकस्य पृथक्वारणत्वम् । तदभावेऽप्यञ्जनादिनाऽन्धकारस्थितपदार्थप्रत्यक्षसिद्धेर्व्यभिचारात् । तस्यापि कारणत्वमङ्गीकृत्याव्यवहितोत्तरत्वादिनिवेशेन व्यभिचारपरिहारादिकं तु गौरवपराहतम् । वस्तुतस्त्वालोकस्य कारणत्वेऽपि चक्षुर्गतशक्तिव्यञ्जकत्वमङ्गीकार्यमेव । तमसा चक्षुर्गतशक्तेः कुण्ठीभूतत्वेन तदभावसम्पादकत्वस्यावश्यकत्वात् । अन्यथाऽल्पालोके सत्यपि केषाञ्चिद्वर्णादिप्रत्यक्षं केषाञ्चिन्नेति विशेषस्यानुभवसिद्धस्याभावप्रसङ्गात् । करणे शक्त्यङ्गीकारे तु शक्तौ तारतम्यसत्त्वादुत्कृष्टशक्तिमच्चक्षुषाऽल्पालोकेऽपि प्रत्यक्षं भवति । शक्तेरेकजातीयत्वेऽप्युत्कृष्टशक्तेरेवाल्पालोके व्यक्त्यङ्गीकारात् । व्यक्तिश्च कुण्ठीभावापादकत्वमिति । एवं न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुरित्यादिना दिव्यशब्देन शक्तिविशेषत्वबोधकेन चक्षुष्येव शक्तेः कथनाच्च । एकेनैव चक्षुषोद्भूतरूपादिमत्पिशाचादिशरीरस्य दर्शनतदभावयोरनुभवसिद्धत्वेनेन्द्रियेष्वेव तादृशशक्तेस्तत्कुण्ठीभावस्य च पिशाचशक्तिनिबन्धनस्यावश्यकत्वाच्च । अनुमानागमयोस्त्वर्थविषयकत्वप्रत्ययहेतुत्वं तु सर्वसम्मतमेव । यत्तु तत्रापि तत्तलिङ्गाव्यवहितोत्तरत्वं तत्तच्छब्दव्यवहितोत्तरत्वावच्छिन्नमेव कार्यं न तु विषयविशेषावच्छिन्नमपीति । तत्तुच्छम् । कारणतायाः शक्तिरूपत्वेनोदासीनपदार्थजननानुकूलशक्त्यङ्गीकारे गौरवात् । अर्थविशेषबोधोद्देशेन वाक्यविशेषोच्चारणाभावप्रसङ्गाच्च । एवं कारणगतायाः शक्तेर्ज्ञानगतार्थप्रकाशनशक्तिप्रयोजकत्वादर्थप्रकाशनप्रयोजकत्वमिति सविषयकत्वमावश्यकं कर्तुश्चात्मनो न सविषयकत्वम् । करणप्रेरणद्वारा करणगतशक्तिव्यञ्जन एवोपक्षीणत्वात् । अत एवात्मना प्रेरितं चक्षुः सत्यपि विषये दोषविशेषेणाहितशक्त्यन्तरं सन् न कर्तुरिच्छाविषयीभूतं ज्ञानं जनयति । प्रमेयस्य ज्ञानजनकत्वस्यैवाभावान्न शङ्काविषयत्वमपि । मतान्तरे प्रत्यक्षं प्रति विषयस्य जनकत्वाङ्गीकारात्तद्रीतिमवलम्ब्य प्रमेयस्य जनकत्वेऽपीत्युक्तम् । अत एव चक्षुष उद्भूतरूपादयो विषया न गुरुत्वादय इत्यादयः सार्वजनीनाः प्रयोगास्तत्तदर्थविषयकत्वविशिष्टज्ञानजननाकूलशक्तितदभावबोधाभिप्रायका न गौणाः । शब्दे त्वेतद्वाक्ये आकाङ्क्षादिविशेषविशिष्टैतत्पदसत्त्वात्तज्जन्यज्ञाने तदर्थस्य प्रकारतेति सार्वजनीनस्फुटप्रतीतेः सत्त्वाच्छब्दबोधीयविषयताप्रयोजकशक्तिमत्त्वं स्फुटम् । एतदभिप्रायेणैवानुव्याख्याने तन्मुख्यं ज्ञानशब्दयोरिति याथार्थ्यरूपार्थविषयकत्वस्य शब्दनिष्ठस्येन्द्रियादिनिष्ठशक्त्यपेक्षया मुख्यत्वमुक्तमित्यादि बोद्धव्यं सुधीभिरित्यलं विस्तरेण । न चैवमपि यादृच्छिकसंवादिनि लिङ्गे वाक्ये चातिव्याप्तिः । तत्र ज्ञानस्य यथार्थत्वेन तत्करणेष्वपि याथार्थ्यसत्त्वादिति वाच्यम् । तत्र ज्ञानस्य यथार्थत्वेऽपि करणगततज्जननानुकूलशक्तेर्दोषप्रयुक्तत्वेनाययार्थत्वात् । न च लिङ्गज्ञानस्य व्याप्त्यंशे पक्षधर्मत्वांशे वा भ्रमत्वस्यावश्यकत्वेन तन्निष्ठायाः शक्तेः कथञ्चिद्दोषप्रयुक्तत्वसम्भवेऽपि वाक्यनिष्ठायास्तदसम्भवः । न च तत्राकाङ्क्षाज्ञानं योग्यताज्ञानं तात्पर्यज्ञानं वा भ्रमः । तद्वाक्यस्य संवादित्वेन योग्यताज्ञानस्य भ्रमत्वासम्भवात् । आकाङ्क्षादेश्च सत्त्वाद्विप्रलम्भस्य वाक्योत्पत्तिप्रयोजकत्वेऽपि शाब्दबोधोत्पत्तौ तस्याप्रयोजकत्वादिति वाच्यम् । आकाङ्क्षादिमत्पदकदम्बस्यैव वाक्यत्वेनाकाङ्क्षाया विप्रलम्भमूलत्वेन तादृशाकाङ्क्षाया एव दोषत्वात् । तत्प्रयोज्यशाब्दबोधजननानुकूलशक्तेरपि दोषप्रयोज्यत्वात् । तर्हि तज्ज्ञाने तदाकारत्वानुपपत्तिस्तादृशाकारसमर्पकस्यान्यस्याभावादिति वाच्यम् । अस्यैव वाक्यस्य तदाकारकज्ञानोत्पत्तौ प्रयोजकत्वेऽपि तज्ज्ञाननिष्ठप्रामाण्याप्रयोजकत्वात् । न च नदीतीरवृत्तित्वविशिष्टफलनिष्ठविषयतानिरूपकत्वस्यैव प्रामाण्यपदार्थत्वेन तादृशफलनिष्ठविषयताप्रयोजकत्वमङ्गीकृत्य प्रामाण्याप्रयोजकत्ववचनं रिक्तमेवेति वाच्यम् । तज्ज्ञानीयफलनिष्ठविषयताप्रयोजकत्वेऽपि तादृशविषयताया नदीतीरवृत्तित्वविशिष्टफलवृत्तित्वेऽप्रयोजकमित्यर्थकत्वात् । न च तर्हि तस्याकस्मिकत्वापत्तिः । ईश्वरेच्छाया एव प्रयोजकत्वात् । कुत एतदिति चेत् । विप्रलम्भमूलकवाक्यसामान्यस्य कुत्रापि प्रमात्वप्रयोजकत्वस्यादृष्टत्वात् । प्रत्युत यत्र यत्प्रतिपद्यते तदभाववत्तन्निष्ठत्वस्यैव तादृशविषयतायां सत्त्वम् । अत एव नाहं तमर्थमज्ञासिषं तूष्णीमवदं यदृच्छया तत्प्रमाणमभूदिति वदति । तादृशप्रमात्वे निर्दोषवाक्यत्वावच्छिन्नमेव प्रयोजकं द्रव्यत्वानुमापकत्वाद्गुणवत्त्वस्य द्रव्यत्वप्रयोजकत्वम् । यथा निर्दोषवाक्यत्वावच्छिन्नजन्यत्वज्ञानानन्तरं तज्ज्ञानीयविशेष्यतायां तद्वन्निष्ठत्वे संशयो न भवति किन्तु निश्चय एवेति । तादृशवाक्यत्वावच्छिन्न एव प्रमात्वप्रयोजिका शक्तिर्न यादृच्छिकसंवादवाक्ये लिङ्गे चेति नातिव्याप्तिरिति सर्वमकलङ्कम् । केचित्तु । तद्वाक्योत्पत्तिप्रयोजकस्य वक्तृनिष्ठज्ञानस्य भ्रमत्वेन दोषरूपत्वम् । तस्य चाकाङ्क्षादिसम्पादनद्वारा समानाकारबोधौपयिकशक्तिसम्पादकत्वात्तद्वाक्यनिष्ठशक्तेर्दोषप्रयोज्यत्वम् । श्रोत्रसमवेतबोधसमानाकारत्वेऽपि वक्तृसमवेतज्ञानस्य भ्रमत्वं चासदर्थविषयकत्वात् । श्रोत्रज्ञानविषयीभूतविद्यमानार्थस्तु न वक्तृज्ञानविषयः । सन्निकर्षादितज्ज्ञानसामग्य्रभावात् । नाहं तमर्थं जानामि किन्तु तूष्णीमवदमिति तस्यैवानुभवाच्चेति वदन्ति । दोषाप्रयोजनयथावस्थितार्थविषयकत्वं वा लक्षणम् । प्रायो यथावस्थितार्थविषयकत्वं दोषाप्रयोज्यमेव भवतीति ज्ञापनाय यथावस्थितेत्यादिविशेषणमिति दोषप्रयोज्यविषयितावत्त्वमित्येव लक्षणमिति वाऽस्त्विति सुधायामुक्तम् । ननु तादृशानुपूर्वीसामान्यरूपेण प्रमात्वप्रयोजकशक्तिमित्यपि भवतीति तत्रातिव्याप्तिरिति वाच्यम् । तादृशवाक्यत्वेन रूपेण तदभाववन्निष्ठविधिरूपविषयिता प्रयोजिकाऽपि भवतीति तदन्यनिष्ठविषयतानिरूपकान्यत्वाभावादतिव्याप्त्यभावात् ।

वाक्यार्थमञ्जरी

॥ ज्ञेयविषयीकारित्वेनैवेति । असम्भवपरिहारायाविवक्षितेनैवेत्येवकारार्थः ॥ तयोः साक्षाज्ज्ञेयविषयीकारिकारणत्वेऽपीति ।

श्रीविट्टलभट्ट

ननु साक्षाज्ज्ञेयविषयीकारित्वादस्तु केवलप्रमाणस्य ज्ञेयविषयीकारित्वम् । तत्साधनस्यानुप्रमाणस्य तन्नास्त्येव ज्ञेयविषयीकारित्वम् । तत्र तद्विषयकत्वव्यवहारस्तज्ज्ञेयविषयीकारिसाधनत्वादौपचारिक एव । अतः प्रमाणलक्षणस्यानुप्रमाणेषु प्रत्यक्षानुमानागमेष्वव्याप्तिरित्यत आह ॥ ज्ञेयविषयीकारित्वं चेति । चस्त्वर्थः । साक्षादित्यनन्तरं ज्ञेयविषयीकारित्वेनेति शेषः । निषिद्धत्वेन पापसाधनमित्यदादाविवात्रापि प्रयोजके तृतीया । तथा च ज्ञेयविषयीकारित्वं तु साक्षाज्ज्ञेयविषयीकारित्वेन वा साक्षाज्ज्ञेयविषयीकारिसाधनत्वेन वा प्रयोजकत्वेन विवक्षितमित्युपगतमिति हेतोर्नानुप्रमाणेष्वव्याप्तिरित्यर्थः । ज्ञेयविषयीकारितायां न केवलं साक्षज्ज्ञेयविषयीकारित्वं तन्त्रं किन्तु साक्षाज्ज्ञेयविषयीकारिसाधनत्वमपि । तत्राद्यस्यानुप्रमाणेष्वसत्त्वेऽपि द्वितीयस्य सत्त्वाज्ज्ञेयविषयीकारित्वं सामान्यं केवलप्रमाण इवानुप्रमाणेष्वप्यस्तीति नाव्याप्तिरिति भावः । ननु ज्ञेयविषयीकारित्वे साक्षाज्ज्ञेयविषयीकारिसाधनत्वमपि न तन्त्रम् । ज्ञानकारणस्य ज्ञेयविषयतायां मानाभावादिति चेन्न । अनुपदमेवात्र प्रमाणस्य वक्ष्यमाणत्वात् । ननु तार्किकैर्ज्ञानात्मादेर्ज्ञानकारणस्यापि व्यापारानुबन्धितया ज्ञेयत्वानुपगमाज्ज्ञेयविषयीकारिज्ञानकरणत्वस्येव तत्कारणत्वस्यापि तन्त्रत्वसम्भवाच्च यथावस्थितज्ञेयविषयीकारित्वं प्रमातृप्रमेययोरप्यस्तीत्यपि स्यादित्यत आह ॥ ज्ञेयविषयीकारित्वेनैवेति । अव्याप्तिपरिहारायाभ्युपगतं ज्ञेयविषयीकारित्वेनैवेत्यर्थः । साक्षाज्ज्ञेयविषयीकारित्वं तत्साधनत्वं च द्वयमेव ज्ञेयविषयतायां तन्त्रमित्यभिप्रेत्य तदभावाज्ज्ञेयविषयीकारित्वाभावमुपपदायति ॥ तयोरिति । न चास्तु साक्षाज्ज्ञेयविषयीकारिकारणत्वेऽपि ज्ञेयविषयीकारित्वम् । अन्यथा तत्साधनत्वेऽपि तन्न स्यादिति वाच्यम् । ज्ञानकारणस्य ज्ञेयविषयतायां मानाभावात् । न हि ज्ञानकारणमात्मादिकं घटादिविषयकमित्यत्र किञ्चिन्मानमस्ति । न च ज्ञानसाधारणकारणत्वापेक्षया लाघवाज्ज्ञानकारणत्वमेवास्तु तत्र तन्त्रमिति वाच्यम् । प्रमातरि प्रमेये च सविषयकत्वव्यवहारप्रसङ्गात् । न ह्यात्मा घटादिर्वा घटादिकं विषयीकरोतीति कश्चिद्य्ववहरति । अन्यथा प्रमाणपदवाच्यतायां लाघवात्प्रमितिकारणत्वं तन्त्रमित्यापातात् । ततोऽपि लाघवान्नियतपूर्ववृत्तित्वं पूर्ववृत्तित्वमात्रं वा ज्ञेयविषयतायां तन्त्रमित्यापाताच्च । ज्ञानकारणस्य तु सविषयत्वे त्विदानीं मम मनो धर्ममेव गोचरयति । नाधर्मं मम चक्षुर्लक्ष्यमेव विषयीकरोति । न तद्-व्यतिरिक्तमित्यादिव्यवहारस्यात्रार्थे प्रत्यक्षं प्रमाणमत्रार्थेऽनुमानं प्रमाणमत्रार्थे आगमः प्रमाणम् । रूपादयश्चक्षुरादिविषयाः । अबाधितविषयमनुमानं बाधितविषयो हेतुरित्यादि शास्त्रीयव्यवहारस्य शास्त्रस्य सविषयतयोपपादकाथातो ब्रह्मजिज्ञासेत्याद्यागमस्य कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् । इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यत इत्याद्यगमस्य च मानत्वात् । इन्द्रियार्थानित्यस्येन्द्रियविषयानित्येवार्थः । इन्द्रियपदस्य लक्षणाप्रसङ्गात् । कर्मेन्द्रियाणां ज्ञानजनकत्वाभावाच्च । किञ्च चक्षुरादीन्द्रियाणि स्वविषयसन्निकृष्टानि साक्षात्कारं जनयन्ति । उत स्वाविषयसन्निकृष्टानि साक्षात्कारं जनयन्ति । न द्वितीयः । चक्षुरादिना गन्धादिसाक्षात्कारोदयप्रसङ्गात् । आद्ये सिद्धं ज्ञानकारणानां सविषयत्वमिति दिक् । एतेन ज्ञानसाधनेषु सविषयत्वव्यवहारो मुख्य इत्यपास्तम् । बाधकाभावात् । प्रत्युत चक्षुरादीनां निर्विषयत्वे गन्धादिसाक्षात्कारजनकत्वरूपबाधकस्य सत्त्वाच्च । ज्ञानसाधनत्वाप्रतिसन्धानेऽपि कर्मेन्द्रियादौ सविषयत्वबुद्धेश्च । अन्यथा चक्षुरादीनि ज्ञानकारणान्येव सविषयाणि तज्जन्यत्वात् । ज्ञाने सविषयत्वव्यापारो मुख्य इत्यापाताच्च । ननु ज्ञानकारणेष्वपि ज्ञेयविषयत्वव्यवहारस्य मुख्यत्वे साधनेष्वपि ज्ञेयविषयत्वव्यवहारस्य मुख्यत्वे साधनेष्वपि ज्ञेयविषयीकारित्वं मुख्यमित्यापन्नम् । तथा च ज्ञेयविषयीकारित्वं ज्ञाने मुख्यमनुप्रमाणेष्वमुख्यमिति सिद्धान्तविरोध इति चेन्न । ज्ञानतत्साधनयोर्ज्ञेयविषयीकारित्वसाम्येऽपि केनचिद्विशेषेण मुख्यत्वामुख्यत्वाङ्गीकारसम्भवेनाविरोधात् । तदुक्तं सुधायाम् । न चैवमव्याप्तिर्लक्षणस्येति वाच्यम् । ज्ञानमेव यथार्थं करणानि तु तज्जनकतया तथोपचर्यन्त इत्यङ्गीकारे हि स्यात् । न चैवम् । यथावस्थितज्ञेयविषयीकारित्वस्योभयत्र साम्यात् । ज्ञानविषय एव हि करणानां विषयः । न हि किमप्यविषयीकुर्वन्त्येतानि तज्ज्ञानं जनयन्ति । अतिप्रसङ्गात् । केवलविषयस्य ज्ञेयतां ज्ञानमुपाधितया करणानि तज्जनकतया सम्पादयन्तीत्येतावन्तं विशेषमाश्रित्य केवलानुप्रमाणाभेदः समर्थित इति । न च तयोः करणत्वेऽपीत्यस्य विषयस्य क्वापि जनकतेति तत्त्वोद्योतटीकोक्तिविरोधः । अत्र प्रमेयस्य कारणत्वोक्तिः प्रमेयविशेषस्यान्तःकरणादेः कारणत्वाभिप्रायेण वा प्रमेयस्य प्रयोजकत्वाभिप्रायेण वा परोक्तानुवादरूपेण वा प्रवृत्ता तद्वाक्यं तु कारणत्वनिषेधाभिप्रायेण प्रवृत्तमित्यविरोधः । इति ।