०१ (६)

प्रमाणपद्धतिः

प्रमाणसामान्यलक्षणम्

(६) प्रमाणपद्धतिः

तत्रादौ तावत्प्रमाणसामान्यलक्षणमुच्यते । यथार्थं प्रमाणम् । प्रमाणमिति लक्ष्यनिर्देशः । यथार्थमिति लक्षणोक्तिः । एवमुत्तरत्रापि ज्ञातव्यम् । अत्र यथाशब्दोऽनतिक्रमे वर्तते । अर्थशब्दश्चार्यत इति व्युत्पत्त्या ज्ञेयवाची । ज्ञेयमनतिक्रम्य वर्तमानं यथावस्थितमेव ज्ञेयं यद्विषयीकरोति नान्यथा तत्प्रमाणमित्यर्थः ।

जयतीर्थविजय

शिष्टबुद्धिसौकर्यायोत्तरत्र वक्ष्यमाणमादौ दर्शयति ॥ तत्रेति । प्रमाणलक्षणविभागादीनां मध्य इत्यर्थः । प्रथममवच्छेदेकैक्येनैक्यमापन्नस्यैवानन्तरं विभज्योद्देष्टव्यत्वात्सामान्य लक्षणकथनान्तरमेव तद्विभाग इति वक्तुमादौ सामान्येति चोक्तम् । क्रमेण विशेषलक्षणादिकमभिधीयत इति वक्तुं तावदित्युक्तम् । अधुना तदर्थमिदमारभ्यत इति प्रतिज्ञानुसारेणाचार्योक्तमेव प्रमाणलक्षणामाह ॥ यथार्थमिति । यथाशब्दस्य योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यरूपार्थचतुष्टयत्त्वात्तेषां मध्ये वीप्सायाः शब्दधर्मत्वेन प्रकृतेऽयोगाद्योग्यताया विवक्षितत्वेऽतीन्द्रियप्रमायामव्याप्तेरुल्लेखयोग्यविषयत्वस्य भ्रमसाधारण्यात्सादृश्यं तु न वक्ष्यमाणाद्यथाशब्दार्थानतिक्रमात्पर्यवसानगत्या भिद्यत इति मन्वानः स्वाभिमतं यथाशब्दार्थमाह ॥ अत्रेति । अत्रेत्युक्त्या न सर्वत्रेत्यर्थः । अत्र यथार्थं प्रमाणमिति प्रमाणलक्षणोदीरितवाक्ये । एतेन यथार्थज्ञानजनका यथार्था युक्तयः स्मृता इत्यनुव्याख्यानेऽपि यदि यथाशब्दस्यानतिक्रमार्थकत्वं तदा यथाऽसादृश्य इति सूत्रेणाव्ययीभावसमासे सत्यव्ययीभावश्चेति सूत्रेणाव्ययत्वे सति यथार्थं युक्तय इति भवितव्यमिति निरस्तम् । तत्र यथाशब्दस्य सादृश्यार्थमादाय बहुव्रीहिसमासे साधुत्वसम्भवाज्ज्ञानार्थयोश्च मन्दारमञ्जरीरीत्या सत्त्वमेव सादृश्यं तथा च यथार्था युक्तय इत्यत्र यथा सदृशाः सन्तोऽर्था यासां ता इति बहुव्रीहिः । अत एवोक्तं सुधायाम् । अव्ययीभावस्य क्लीबाव्ययत्वं छन्दःकल्पत्वेनानादृत्य यथार्था इत्युक्तं कथञ्चिद्ब्रहुव्रीहितामाश्रित्येति । न चानुव्याख्याने यथाशब्दस्य सादृश्यार्थकत्वे यथाशब्दोऽनतिक्रमे वर्तत इत्यस्य सुधया साकं विरोधः स्यादिति वाच्यम् । अबाधितार्थविषयीकारित्वरूपसुधोक्तलक्षणस्य यथावस्थितज्ञेयविषयीकारित्वरूपानातिक्रमघटितलक्षण एव पर्यवसानात्फलत ऐक्येन विरोधानवकाशात् । अत एवोक्तं मन्दारमञ्जर्याम् । यथाशब्दोऽनतिक्रमे वर्तत इति टीकाकारवचनं तु फलितप्रदर्शनपरतया व्याख्यातव्यमिति । एतावत्या कुसृष्ट्या किं सादृश्यार्थकत्वस्वीकारेणेति चेत् । यथार्था युक्तयः स्मृता इत्यादिप्रयोगनिर्वाहार्थमिति सङ्क्षेपः । अर्थोभिधेयरैवस्तुप्रयोजननिवृत्तिष्वित्यभिधानादर्थशब्दस्य नानार्थत्वात्तेषां मध्येऽभिधेयादिवाचित्वे प्रत्यक्षादिज्ञानेऽव्याप्तिप्रसङ्गाद्विषयापरपर्यायवस्तुवाचित्वे सकर्मकक्रियामात्रेऽतिव्याप्तेः । कोऽत्रार्थशब्देन विवक्षित इति जिज्ञासायामाह ॥ अर्थशब्दश्चेति । ननु कथमर्थशब्दस्य ज्ञेयवाचित्वम् । तत्र रूढेरभावादित्यत आह ॥ अर्यत इतीति । ऋगताविति धातोः कर्मण्यौणादिके थप्रत्यये कृते सार्वधातुकार्धधातुकयोरिति गुणे च कृते ऋवर्णस्थानीयत्वेन ऋकारस्थान आदिश्यमानस्याकारस्य गुणस्योरण्रपर इति रपरत्वे च सति अर्थ सति रूपसिद्धिः । ऋधातोर्गत्यर्थत्वेन ज्ञानार्थत्वादर्थशब्दो ज्ञेयवाचीति भावः । यथार्थशब्दस्याव्ययीभावसमासे विग्रहं दर्शयति ॥ ज्ञेयमिति । अव्ययीभावसमासे आदिपदस्योपरि निपातेनार्थशब्दस्योपरि निपातः । अत्र कुम्भस्य समीपे उपकुम्भमितिवत् । ज्ञेयमनतिक्रम्येत्येतावानेव यथार्थशब्दार्थः । तथा सति यथार्थं प्रमाणमिति वाक्यस्य ज्ञेयमनतिक्रम्य प्रमाणमित्यर्थप्रतीत्याऽन्वयापर्यवसानेन तत्पूर्त्यमध्याहृत्याह ॥ वर्तमानमिति । नन्वत्रानतिक्रमः किं यथा प्रातर्गार्हपत्याहवनीययोर्जुहुयादित्यत्र होमद्वयस्य समानकालत्ववत्प्रमाणज्ञेययोः समानकालत्वमाहोस्विद् यथा कौशाम्बिदेवदत्तो व्याघ्रसूकरावपश्यदीत्यत्रेव समानदेशत्वम् । नाद्यः । अतीतानागतगोचरयथार्थज्ञानेऽव्याप्तेः । न द्वितीयः । विषयसमानदेशत्वस्यान्तरसुखादिज्ञाने सत्त्वेऽपि बाह्यघटादिज्ञानेऽभावेनाव्याप्तेरित्याशङ्कापरिहाराय वाक्यतात्पर्यार्थमाह ॥ यथावस्थितमेवेति । शुक्तौ रजतारोपस्यापि धर्म्यंशे यथावस्थितज्ञेयविषयीकारित्वात्प्रामाण्यापत्तावाह ॥ नान्यथेति । अयं भावः । शुक्तौ रजतारोपस्य धर्म्यंशे यथावस्थितज्ञेयविषयीकारित्वात्प्रामाण्यं स्यादिति वदन् प्रष्टव्यो जायते । किं विशेष्यभूतशुक्त्यंशे प्रामाण्यं स्यादित्युत विशेषणीभूतरजतत्वांश इति । आद्य इष्टापत्तिः । यत्तु यदंशे यथावस्थितज्ञेयविषयीकारि तत्तदंशे प्रमाणमिति विवक्षितत्वात् । न द्वितीयः । तस्य रजतत्वांशे यथावस्थितज्ञेयविषयीकारित्वाभावेन प्रामाण्यापादनानवकाशादिति ॥ इत्यर्थ इति । इति तात्पर्यविषयीभूतार्थ इत्यर्थः । नन्वत्र ज्ञेयविषयीकारित्वं नाम येन केनचिद्यज्ज्ञेयं तद्विषयीकारित्वं वाऽहोस्वित्स्वसम्पादिता या ज्ञेयता तदुपलक्षितविषयीकारित्वं वा । नाद्यः । गम्यविषयीकारिगतावतिव्याप्तेः । तस्या अप्ययं ग्राम इति ज्ञानेन ज्ञेयस्य ग्रामस्य विषयीकरणात् । न द्वितीयः । अनुप्रमाणे चक्षुरादावव्याप्तेः । यथार्थज्ञानस्य ज्ञेयत्वघटकत्वेनोपाधितया ज्ञेयतासम्पादकत्वेऽपि चक्षुरादेस्तदभावादिति चेन्न । द्वितीयपक्षस्यैव विवक्षितत्वात् ।

भावदीपः

एवमुपयुक्तमुक्त्वा प्रमाणसामान्यलक्षणोक्तिं प्रतिजानीते ॥ तत्रेति । तत्र लक्ष्यलक्षणादिस्वरूपे ज्ञाते सतीति वा । आद्यपद्येनैवोद्देशे सतीति वा । सामान्यलक्षणविभागविशेषोद्दोशादिषु मध्य इति वा । आदौ हेतुगर्ममिदम् । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यं चेति यथाशब्दार्थचतुष्टयेऽत्र विवक्षितार्थमाह ॥ अत्रेति । अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिष्वित्यनेकार्थकशब्दार्थेष्वत्र विवक्षितमर्थमाह ॥ अर्थशब्दश्चेति । कर्मव्युत्यत्त्येत्यर्थः । व्युत्पत्तिरवयवशोऽर्थकथनम् । ऋगताविति धातोः कर्मण्यौणादिकेथप्रत्यये सार्वधातुकार्धधातुकयोरिति गुणे कृतेऽर्थ इति निष्पत्तेः । गत्यर्थस्य ज्ञानार्थत्वात् । ज्ञानोपलक्षितवस्तुवाचीत्यर्थः । पदार्थमुक्त्वा वाक्यार्थमाह ॥ ज्ञेयमिति । ज्ञानोपलक्षितमित्यर्थः । तेन ग्रामं गच्छतीत्यादौ ग्रामस्यापि वस्तुतो ज्ञेयत्वात्तदनतिक्रान्तायां क्रियायां नातिव्याप्तिः । तत्र ग्रामस्य क्रियोपलक्षितत्वेन क्रियोपलक्षितग्रामविषयकत्वेन ज्ञानोपलक्षितग्रामानतिक्रमाभावात् । फलितमाह ॥ यथावस्थितमिति । येन प्रकारेणावस्थितमेव ज्ञानपरिचायितं वस्तु यद्विषयीकरोतीत्यर्थः । तत्प्रमाणमित्यर्थ इत्यत्र प्रमाणमित्युच्यत इति शेषोक्त्या व्यवहारसाधकत्वं बोध्यम् । तेन न पुनरुक्ततादोषः । अत्रानातिक्रमणरूपे यथापदार्थेऽनतीत्यंशार्थो यथावस्थितमेवेति । अर्थपदार्थो ज्ञेयमिति । क्रमणपदार्थो विषयीकरोतीति ज्ञेयम् ।

श्रीविजयीन्द्रतीर्थ

आदाविति प्राधान्यमाह । शिष्यबुद्धिसमाधानार्थमाह ॥ प्रमाणेति । सामान्यस्याज्ञाने विशेषजिज्ञासानुदयाद्वक्ष्यमाणविशेषलक्षणसङ्गतिमाह ॥ सामान्येति ॥ यथार्थमिति । लक्ष्यलक्षणयोर्लक्ष्यत्वलक्षणत्वभ्रान्तिं वारयितुमाह ॥ प्रमाणमिति । लक्ष्यर्निर्देश इति । उक्तन्यायमतिदिशति ॥ एवमिति । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्येषु यथाशब्दार्थेष्वभिप्रेतमर्थमाह ॥ अत्रेति । अत्र लक्षणे । ननु घटाद्यर्थमतिक्रम्यात्मन्यन्तः करणे वा ज्ञानादेर्वर्तमानादव्ययीभावार्थपदार्थानतिवृत्तेरसम्भव इत्याशङ्क्याह ॥ अर्थशब्दश्चेत्यादिना प्रमाणमित्यर्थ इत्यन्तेन । तथा च विषयीकारे पदार्थानतिविलक्षणान्नासम्भव इत्यर्थः । एवं च येन सम्बन्धेन यद्यत्रास्ति तेन सम्बन्धेन तत्र तद्विषयिकारि प्रमाणमिति द्रष्टव्यम् । एतेन ज्ञेयविषयीकारित्वं यदि विषयविषयिभावः सम्बन्धस्तदेच्छायामतिव्याप्तिः । यदि च ज्ञेयविषयकज्ञानत्वं तदेन्द्रियादावनुप्रमाणेऽव्याप्तिः । यदि च ज्ञानजनकत्वागर्भं तदार्थेऽतिव्याप्तिः । तत्साधनत्वगर्भत्वे ज्ञानेऽव्याप्तिः । न च ज्ञानतत्साधानान्यत्वं विवक्षितमिति साम्प्रतम् । तदन्यान्यत्वस्य तदन्यभेदात्मकस्यैतल्लक्षणसाध्यत्वेनासिद्धेरिति परास्तम् । ज्ञेयेन सह ज्ञानतद्विषयत्वतत्साधनान्यानिरूपितसविषयत्वव्यवहारप्रयोजकसम्बन्धवत्प्रमाणमिति तल्लक्षणार्थस्य विवक्षितत्वात् । एवं च पुरोवर्तिनि घटत्वज्ञाने घटादौ चक्षुरादिप्रमाणं घटादौ प्रत्यक्षं प्रमाणमित्यादौ सप्तम्यर्थरूपविषयत्वानुभवेन पूर्वोक्तसम्बन्धस्य केवलानुप्रमाणयोः सत्त्वात् । घटे घटः प्रमाणमित्यनुभवाभवादिच्छाविषयत्वस्यान्यनिरूपितत्वान्न किञ्चिद्दूषणमिति मन्तव्यम् ।

श्रीवेदेशभिक्षु

॥ तत्रेति । वक्तव्यत्वेन बुद्धिस्थानामुद्देशलक्षणपरीक्षणां मध्य इत्यर्थः । तत्रोपयुक्ते । निरूपित इति शेष इत्यप्याहुः । उद्देशस्य प्रमाणमित्यनेनैव लाभात्सामान्यलक्षणोक्तिं विना विभागावसराभावात्तावत्र न प्रकृताविति ध्येयम् । यथार्थज्ञानं केवलमित्यादौ विशेषलक्षणाभिधानमिह तु सामान्यलक्षणामिधानमतो न पुनरुक्तिरिति भावेन सामान्येत्युक्तम् । विशेषलक्षणस्याप्युत्तरत्राभिधानस्य भावेन तावदित्युक्तम् । मन्दानां लक्ष्यलक्षणवैपरीत्यभ्रममवारणाय तद्विवेकमाह ॥ प्रमाणमिति । योग्यता वीप्सा पदार्थानतिक्रमः सादृश्यं चेति यथाशब्दार्थः । तत्र तावन्न सादृश्यमत्र यथाशब्दार्थत्वेन विवक्षितम् । यथाऽसादृश्य इत्यव्ययीभावविधाने सादृश्यान्यत्वेन विशेषणात् । समासान्तरस्य चासामर्थ्यादिना प्रतिहतत्वात् । अर्थात्यन्तसादृश्यस्य ज्ञानादावसम्भवात् । यत्किञ्चित्सादृश्यस्य चातिव्यापकत्वाच्च । योग्यतावीप्सार्थत्वे तु वाक्यशेषाभावेनार्थयोग्यतां विनाऽर्थानां वा प्रामाण्यापत्तिरतोऽत्र यथाशब्दः पदार्थानतिक्रमवाची विवक्षित इत्याह ॥ अत्रेति । लक्षणवाक्य इत्यर्थः । नन्वर्थशब्दोऽभिधेयधनवस्तुप्रयोजननिवृत्तिषु वर्तते । तथाऽभिधानम् । अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिष्वित्यमरकोशे । तत्र न तावदभिधेयार्थः सम्भवति । अव्याप्तिप्रसङ्गात् । अभिधेयानतिक्रमस्य शब्दमात्रवृत्तेर्धनाधनातिक्रमस्यापि तत्तज्ज्ञानमात्रवृत्तित्वात् । अतो विषयापरपर्यायवस्तुवाचक एव विवक्षितो वाच्यः । न तत्सम्भवति । गमनादावतिव्याप्तेः । न हि गमनं गम्यमतिक्रम्य वर्तते । नापि च्छिदा छेद्यमित्यत आह ॥ अर्थशब्दश्चेति । तत्र रूढ्यभावादाह ॥ अर्यत इति । अर्तेरौणादिकस्य थप्रत्ययस्य सिद्धत्वत् । गत्यर्थानां ज्ञानार्थत्वादिति भावः । एवं पदार्थमुक्त्वा वाक्यार्थमाह ॥ ज्ञेयमिति । नन्वेवमपि न गमनादावतिव्याप्तिपरिहारः । गमनादीनामपि ज्ञेयमनतिक्रम्य वर्तमानत्वात् । न हि तद्विषयो ग्रामादिः सर्वथा न ज्ञेय इति वक्तुं शक्यते । पित्रादिवज्ज्ञेयशब्दस्य सम्बन्धिशब्दत्वेन स्वज्ञेयमनतिक्रम्य वर्तमानं यत्तप्रमाणमित्यर्थात् । स्वमेयत्वं च स्वोपाधिक ज्ञेयत्वोपेतत्वं भवति च घटादिर्ज्ञानतत्करणाभ्यामुपाधिनिमित्ताभ्यां ज्ञेयः । तथा च न गमनादावतिव्याप्तिः । न हि गमनेनोपाधिना गमनेन वा निमित्तेन ग्रामो ज्ञेयः किन्तु गम्य एवेति कथमव्याप्तिः । न च स्वशब्दस्य प्रमाणपरत्वेनात्माश्रयः । ज्ञानतत्करणाभ्यामुपाधिनिमित्ताभ्यां यज्ज्ञेयं तदनतिक्रम्य वर्तमानं प्रमाणमित्यर्थात् । स्वगुणग्राहकमिन्द्रियं श्रोत्रमित्यत्र यथेति । ननु ज्ञेयमनतिक्रम्य वर्तमानत्वं ज्ञानस्य तत्करणस्य वा कथम् । तस्यान्तःकरणादिवृत्तित्वेन तदतिक्रम्यैव वर्तमानत्वात् । न च यथावस्थितज्ञेयविषयीकारित्वं तावद् विवक्षतमिति वाच्यम् । तथा सति विभ्रमेऽतिव्याप्तिप्रसङ्गात् । तस्यापि यथावस्थितेदमंशविषयत्वादित्यत आह ॥ यथावस्थितमेवेति । विभ्रमस्तु यथावस्थितमपि विषयीकरोति । अविद्यमानरजताद्युल्लेखादतो नातिव्याप्तिरिति भावः ।

अभिनवामृतम्

प्रमाणसामान्यलक्षणमुच्यत इति प्रतिज्ञातत्वाद्यथार्थं प्रमाणमिति सर्वमपि लक्षणमिति भ्रमं वारयितुमाह ॥ प्रमाणमिति लक्ष्यनिर्देश इति । एतेन बोधार्थं लक्ष्यलक्षणविभागश्चेल्लक्षणलक्षणादावेव वक्तव्यः । तद्विहायात्र कथनमयुक्तमिति परास्तम् । ननु यथाशब्दस्य त्रयोऽर्थाः । योग्यता वीप्सा सादृश्यं चेति । तत्र न तावत्सादृश्यार्थत्वं सम्भवति । यथाऽसादृश्य इत्यसादृश्यविहिताव्ययीभावसमासानुपपत्तिप्रसङ्गात् । नापि प्रथमद्वितीयौ । क्रमेणार्थस्य योग्यतायामर्थस्य वीप्सायां चातिव्याप्तिप्रसङ्गादित्यत आह ॥ यथाशब्द इति । यथाशब्दस्य न त्रय एवार्थाः किन्तु पदार्थानतिवृत्तिरपि । तदुक्तं सुधायाम् । योग्यता वीप्सा पदार्थानतिवृत्तिः सादृश्यं च यथाशब्दार्था इति । पदार्थमुक्त्वा वाक्यार्थमाह ॥ ज्ञेयमतिक्रम्येति । नन्विदं लक्षणं विभ्रमेऽतिव्याप्तम् । विभ्रमस्य ज्ञेयतातिरिक्तविषयत्वाभावेन ज्ञेयमनतिक्रम्य वर्तमानत्वादित्यतः स्वाभिसन्धिमुद्धाटयति ॥ यथावस्थितमेवेति । ज्ञानस्य ज्ञेयानतिक्रमो नाम ज्ञेयभिन्नविषयत्वाभावः । येन भ्रमेऽतिव्याप्तिः स्यात् । किन्नाम यद्देशकालयोर्यद्वस्तु यथा वर्तते तथैव तद्विषयीकारित्वमनतिक्रमो विवक्षित इति भावः । एतेन यथाशब्दस्यानतिक्रमवाचिनः प्रमाणधर्मप्रतिपादकत्वेनार्थविशेषणार्थत्वाभावाद्यथावस्थितमेवेत्याशयवर्णनमपदार्थत्वादवाक्यार्थत्वादयुक्तमिति परास्तम् । यथाशब्दमहिम्नैवास्यार्थस्य लाभात् ।

आदर्शः

॥ तत्रादाविति । विभागादितः पूर्वकाल इत्यर्थः । सामान्यधर्मज्ञानानन्तरमेव विशेषधर्मावच्छिन्ने जिज्ञासोदयात् । प्रतिज्ञावाक्येनादौ सामान्यलक्षणस्यैव जिज्ञासितत्वात्तदेवादौ वक्तव्यमित्याशयः । लक्षणोक्तिप्रतिज्ञानन्तरं प्रवृत्तमिदं वाक्यं लक्षणपरमेवेति मन्दां शङ्कां निवर्तयति ॥ प्रमाणमिति लक्ष्यनिर्देश इति । प्रमाणपदतात्पर्यविषयत्वं लक्ष्यतावच्छेदकम् । प्रमाणत्वरूपसामान्यधर्मे जातिरूपे मानाभावात् । वक्ष्यमाणलक्षणस्य प्रमाणपदार्थत्वात् । अत एव भ्रमेपीदमंशे प्रमाणमिति व्यवहारः । एतत्तत्त्वं व्यक्तीभवत्युपरिष्टात् । लक्षणकथनमिति । प्रमाणपदशक्यतावच्छेदककथनमित्यर्थः । ननु यथाशब्दस्य सादृश्यार्थकत्वं न सम्भवति । यथाऽसादृश्य इति सादृश्यार्थकयथाशब्दस्याव्ययीभावसमासनिषेधात् । समासविधेरनित्यत्वमङ्गीकृत्य समासाङ्गीकारेऽप्यर्थानुपपत्तेः । तथा हि । अर्थसादृशं प्रमाणमित्युक्तं स्यात् । ज्ञानस्य गुणत्वादर्थस्य द्रव्यादिरूपत्वात्सादृश्यायोगात् । येन केनापि रूपेण साजात्यस्य भ्रमेऽपि सत्त्वात् । न च सत्तायाः साजात्यं विवक्षणीयम् । भ्रमविषयस्यासत्त्वात्स्वविषयसाजात्यादतिव्याप्तेः । न चाधिष्ठानातिरिक्तविषयसजातीयत्वं यदाकारं यद्विज्ञानं तत्सजातीयत्वं वा विवक्षितमिति रजताकारे विभ्रमे रजतसजातीयत्वाभावान्न दोष इति वाच्यम् । शशविषाणमसदिति प्रमायामव्याप्तेः । तत्र स्वविषयीभूतशशविषाणादिसजातीयत्वाभावादित्यत आह ॥ यथाशब्दोऽनतिक्रमे वर्तत इति । अतिक्रमो नामान्यसम्बन्धित्वम् । ज्ञानस्यार्थानतिक्रमो नामार्थान्यासम्बन्धित्वमर्थान्याविषयकत्वे सत्यर्थविषयकत्वं पर्यवसितम् । अर्थानुरूपसम्बन्धशून्यत्वस्य महतां पूजाया अकरणे तेषामतिक्रमः कृत इति सार्वजनीनव्यवहारात् । यो यादृशस्तत्स्वरूपानुसारेण स्थित्याभावस्यातिक्रमशब्दार्थत्वं ज्ञेयम् । एवं महतां समक्षं नीचस्यापि तत्साम्येन पूजायाः करणेऽपि तेषामतिक्रमः कृत इति सार्वजनीनव्यवहारात् । तदन्यसम्बन्धित्वस्यापि तदतिक्रमशब्दार्थत्वम् । एवं च ज्ञानार्थयोरनुरूपः सम्बन्धो विषयविषयिभाव एवेत्युक्तार्थलाभात् । नन्वत्रार्थपदस्य प्रयोजनादिपरत्वे उदासीनार्थावगाहिनोऽप्रामाण्यं स्यात् । अभिधेयार्थकत्वे त्वसत्पदाभिधेयत्वेन ज्ञानसामान्येऽप्यतिव्याप्तिः । किञ्च क्रियासामान्येऽप्यतिव्याप्तिः । गत्यादिक्रियायाः स्वविषयीभूतग्रामादिसम्बन्धित्वे सति तदनधिकरणीभूतस्वोत्तरदेशासम्बन्धित्वात् । स्वपूर्वदेशविषयका गतयो ग्रामप्राप्तिरूपगत्युद्देश्यका एवेति परम्परया ग्रामविषयका एव । अत एव ग्रामोत्तरदेशगमन एवातिक्रान्तो ग्राम इति सर्वलोकव्यवहारः । तासां गतीनां ग्रामविषयकत्वे विवादेऽपि प्राप्तिरूपगतावतिव्याप्तिर्दुर्वारेत्यत आह ॥ अर्थशब्द इति । नन्वसतोऽपि ज्ञेयत्वादुक्तदोषतादवस्थ्यमिति चेन्न । ज्ञेय इत्यस्य ज्ञानोत्पत्तिप्रयोजककरणसन्निकर्षप्रयोज्यविषयताश्रय इत्यर्थः । तथा चासतः करणसन्निकर्षाश्रयत्वाभावान्न तद्विषयके ज्ञानेऽतिव्याप्तिः । एवं न गत्यादावतिव्याप्तिः । ज्ञानप्रयोज्यविषयताऽश्रयनिष्ठविषयतानिरूपकत्वमित्यत्र ज्ञेयनिष्ठविषयतापदेन ज्ञानप्रयोज्यैव विलक्षणैवाकाराख्यविषयतानिरूपितैव विषयता प्रतीयते । ज्ञाततायाःखण्डितत्वात् । यथा पितुर्द्रव्यं सुतो गृह्णीयादित्युक्तौ द्रव्यविशेष एव प्रतीयते । सर्वेषां जनकपुंस्त्वाख्यपितृत्वसत्त्वेन सर्वपितृसम्बन्धिद्रव्यम् । तथा धूमवत्त्वपदाद्धूमवद्धर्मत्वेन धूम एव प्रतीयते न तु तद्वृत्तिधर्मान्तरं शब्दस्वाभाव्यात् । एवं प्रकृतेऽपि ज्ञेयनिष्ठविषयतेत्युक्तौ ज्ञानप्रयोज्यविषयताभानात्तन्निरूपकत्वं स्वज्ञानातिरिक्तक्रियायामभावाद्दोषाभावात् । एतादृशसन्निकर्षाश्रयश्च यथावस्थितार्थ एव भवतीत्याशयेनाह ॥ यथावस्थितमेवेति । केचित्तु । सर्वस्यापि शब्दस्य स्ववाच्येषु मध्ये यन्मुख्यं प्रथमतस्तदुपस्थापकत्वं स्वभावः । अत एव न भ्रान्ते ज्ञानिपदप्रयोगः । ज्ञानिपदादपरोक्षज्ञानिन एवोत्सर्गतः प्रतीतेः । एवं च ज्ञानगतायाः करणसन्निकृष्टार्थप्रकाशनशक्तिरूपाया विषयिताया औत्सर्गिकत्वाद्दोषप्रयोज्याया अन्यशक्तेरागन्तुकत्वात्स्वाभाविकागन्तुकयोः स्वाभाविकाया एव मुख्यत्वाद्दोषाप्रयोज्यविषयितानिरूपितविषयाश्रयएव प्रथमं प्रतीयते । तादृशश्च यथावस्थित एव भवतीत्यतो न दोष इत्याशयेनाह यथावस्थितमेवेतीत्याहुः । नन्वेवमपि शशविषाणमसदिति प्रतीतावव्याप्तिः । यथावस्थितार्थविषयकत्वमित्यस्य येन धर्मेण विशिष्टो यस्तादृशविशिष्टविषयकत्वे सति तदन्यविशिष्टाविषयकत्वमित्यर्थकत्वेन प्रकृते विषाणो शशीयत्वस्य भानेन विषाणस्य तादृशत्वतादृशविशिष्टनिष्टविधिरूपविषयतानिरूपकत्वे सति विशिष्टत्वाभावेनोक्तविशिष्टान्यत्वात् । न च तादृशप्रतीतावखण्डसत एव भानं न विषाणादौ शशीयत्वं प्रतीयत इति वाच्यम् । अनुभवविरोधात् । तादृशाखण्डव्यक्तेः पूर्वबुध्द्यनारूढत्वेन तत्र शक्तिग्रहासम्भवेन शशविषाणपदात्तस्योपस्थितेरयोगात् । विषाणं न शशीयमिति बाधग्रहदशायामपि तादृशसद्विशेषे सत्त्वासत्त्वावगाहिबोधप्रसङ्गाच्चेति चेत् । मैवम् । तदन्यविशिष्टाविषयत्वमित्यस्य तदन्यविशिष्टनिष्ठ विधिरूपविषयतानिरूपकान्यत्वमित्यर्थकत्वेन दोषाभावात् । शशीयत्वविशिष्टविषाणनिष्ठाविषयताया विधिरूपत्वाभावात् तस्या विषयताया अनुवादरूपत्वात् । असत्त्वविषयतैव विधिरूपाविधिरूपत्वमनुवादरूपत्वं च प्रकारतात्वादिवद्विषयतागतोऽनुभवसिद्धो जातिविशेषः । सा प्रतीतिः शशीयत्वांशे न मानम् । नापि भ्रमः किन्त्वसत्त्वांश एव । तथा च तद्वन्निष्ठा या तद्धर्मनिष्ठविधिरूपविषयता तन्निरूपकत्वे सति तदवृत्तिधर्मनिष्ठविधिरूपविषयतानिरूपिततन्निष्ठविषयतानिरूपकान्यत्वमिति निष्कर्षः । केचित्तु यथावस्थितेत्यस्य दोषाप्रयोज्यताविषयतावत्त्वे सति दोषप्रयोज्यविषयताशून्यत्वमित्यर्थः । लक्षणवाक्यादुक्तरीत्योक्तार्थस्यैव प्रतीतेः । वस्तुतो यथावस्थितार्थविषयताया एव दोषाप्रयोज्यत्वाबाहुलिकाभिप्रायेण स्फुटप्रतिपत्त्यर्थं तथोक्तिः । इत्थं च शशविषाणमसदित्यादिवाक्याधीने शाब्दे न दोषप्रयोज्यविषयिताऽस्ति । योग्यताभ्रमादेरेव दोषत्वेन तदभावात् । पूर्वं तत्सत्त्वे सत्त्वप्रकारकस्यैवोत्पत्तेरसत्त्वप्रकारकत्वानुपपत्तेः । सतोऽसत्त्वविषयताया असतः सत्त्वविषयताया एव दोषप्रयोज्यत्वात् । अत एवोक्तं भगवत्पादैस्तत्त्वनिर्णये । सतोऽसत्त्वप्रतीतेरसतः सत्त्वप्रतीतेरेव भ्रान्तित्वादिति । परन्तु दोषाघटिताकाङ्क्षादिघटितसामग्रीजन्येति तत्राव्याप्तेरभावात् । दोषाप्रयोज्यविषयतावत्त्वमित्येवोक्ताविदं रजतमिति भ्रमेऽतिव्याप्तिः । तत्रेदंविषयताया दोषाप्रयोज्यत्वात् । अतो दोषाप्रयोज्यविषयताशून्यत्वमित्युक्तम् । तावन्मात्रोक्तौ घटादावतिव्याप्तिरतः पूर्वदलम् । इदं च सर्वांशे यथार्थ्यनिर्वचनम् । दोषाप्रयोज्यविषयताश्रयत्वं सामान्यतः प्रमाणत्वं बोध्यमित्याहुः ।

वाक्यार्थमञ्जरी

अर्यते ज्ञायते । व्युत्पत्त्याऽवयवार्थप्रतिपत्त्या । गत्यर्थकादृधातोरुषिकुषिगार्तिभ्यनितिथन्प्रत्यये सार्वधातुकार्धधातुकयोरिति रकारस्याकारगुणे उरण्रपर इति रपरत्वे चार्थेति रूपसिद्धिरिति भावः । नन्वतिक्रम्य वर्तमानत्वमसम्भवि । ज्ञानादिरूपप्रमाणस्य घटादिज्ञेयमतिक्रम्यान्तः करणवृत्तित्वात् । न च ज्ञेयविषयीकारित्वं विवक्षितमिति वाच्यम् । अनुप्रमाणाव्याप्तेः । ज्ञेयविषयीकारित्वस्य ज्ञानमात्रधर्मत्वात् । न च ज्ञेयविषयीकारिज्ञानकारणत्वेन परम्परया ज्ञेयविषयीकारित्वमनुप्रमाणेष्वस्तीति न तेष्वव्याप्तिरिति वाच्यम् । तथात्वे ज्ञानकारणयोः प्रमातृप्रमेययोरतिव्याप्तिप्रसङ्गात् । न च ज्ञानसाधनत्वमेव परम्परया ज्ञेयविषयीकारित्वं विवक्षितमतो ज्ञानकरणमात्रयोः प्रमातृप्रमेययोर्नातिव्याप्तिरिति वाच्यम् । तथाऽपि साक्षाज्ज्ञेयविषयीकारिणोः संशयविपर्ययोस्तत्साधनतया परम्परया विषयीकारिदुष्टेन्द्रियादौ चातिव्याप्तेः । न च यथावस्थितज्ञेयविषयीकारित्वं विवक्षितमिति वाच्यम् । संशयादेरपि धर्म्यंशे तथात्वेनातिव्याप्तेरपरिहारादित्यत आह ॥ यथावस्थितमेवेत्यादिना साधनानां निरास इत्यन्तेन । एवकारव्यावर्त्यमाह ॥ नान्यथेति । व्यधिकरणधर्मं प्रकारतया न विषयीकरोतीत्यर्थः । अत्र निर्दोषत्वं विशेषणीयम् । तेन यादृच्छिकसंवादिज्ञापकयोरव्याप्तिः । विषयीकरोतीत्यर्थः ।

श्रीविट्टलभट्ट

उत्तरत्रापि प्रमाणकथनोपयोग्यर्थ एव कथ्यत इति शङ्कावारणाय प्रमाणलक्षणाभिधानं प्रतिजानीते ॥ तत्रेति । तस्मिन्नुक्तरीत्या प्रमाणलक्षणाभिधाने सफले सतीत्यर्थः । यद्वा तत्र प्रमाणपद्धतिं कुर्म इत्येव वक्तव्यतयोपस्थितेषु प्रमेयेष्वित्यर्थः । अथवा तत्र प्रमाणसामान्यविशेषलक्षणोक्तेरवसराभावादिति हृदयम् । तावदुद्देशानन्तरमित्यर्थः । यद्वा यावत्तावच्च साकल्य इत्यभिधानात्तावत्सकलं पूर्णमित्यर्थः । उद्देशपरीक्षासहितं प्रमाणसामान्यलक्षणमुच्यत इति भावः । प्रमाणपद्धतिमित्यनेनैवोद्देशकृतत्वाल्लक्षणमाह ॥ यथार्थमिति । लक्ष्यलक्षणोक्त्या मन्दानां वैपरीत्यशङ्कावारणायाह ॥ प्रमाणमितीति । निर्देश उक्तिरित्यर्थः । उक्तन्यायमत्राप्यतिदिशति ॥ एवमुत्तरत्रापि ज्ञातव्यमिति । उत्तरत्रापि वक्ष्यमाणलक्षणवाक्येष्वप्येवं ज्ञातव्यम् । असाधारणधर्मोक्तिरन्या च लक्षणोक्तिरित्यवगन्तव्यमित्यर्थः । योग्यता वीप्सा पदार्थानतिवृत्तिः सादृश्यं चेति यथाशब्दार्थेषु विवक्षितमर्थमाह ॥ अत्र यथाशब्द इति । अत्र प्रमाणलक्षणवाक्य इत्यर्थः । अनतिक्रमे वर्ततेऽनतिक्रमरूपार्थे प्रतिपादकतया वर्तते । अनतिक्रमरूपमर्थं प्रतिपादयतीति यावत् । अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिष्वित्यभिधानात् । अर्थशब्दस्याभिधेयाद्यन्यतमपरत्वभ्रमवारणाय योगेनाभिप्रेतमर्थमाह ॥ अर्थशब्दश्चेति । अर्थशब्दस्त्वित्यर्थः । अत्र चौणादिकस्य थप्रत्ययस्य प्रसिद्धत्वाद्गत्यर्थानां च ज्ञानार्थतयार्थत इति व्युत्पत्त्या ज्ञेयवाचित्वमिति बोध्यम् । पदार्थमुक्त्वा विग्रहमाह ॥ ज्ञेयमिति । ननु ज्ञेयमनतिक्रम्य वर्तमानं प्रमाणमित्युक्तम् । प्रमितेस्तत्करणस्य प्रमाणस्य ज्ञेयो घटादिकमतिक्रम्य परित्यज्यान्यत्र सत्त्वादित्यत आह ॥ यथावस्थितमेव ज्ञेयमिति । ज्ञेयं घटादिकमतिक्रम्यान्यथावर्तमानं विषयीकारि प्रकारान्तरेण विषयीकारीति यावत् । ज्ञेयमनतिक्रम्य ज्ञेयं प्रकारान्तरेण विना यद्देशकालर्योर्ज्ञेयं यादृशं तथैवेति यावत् । वर्तमानं विषयीकारीति विग्रहवाक्ये विवक्षितत्वाद्यथार्थमेव ज्ञेयं यद्विषयीकरोति तत्प्रमाणमित्येतद्यथार्थं प्रमाणमित्यस्यार्थः । एवेत्यस्य विवरणं नान्यथेति ।