१ अर्चिराद्यधिकरणम्
॥ १ ॥ अर्चिराद्यधिकरणम् ॥
१ ॐ अर्चिरादिना तत्प्रथितेः ॐ
उत्क्रान्तो ज्ञानी अचिर्रादिना मार्गेण गच्छति । कुतः तत्प्रथितेःप्रस्य “तेऽचिर्षमभिसम्भवन्ति’ इति (छां।५-१०-१) श्रुतौ तस्यार्थस्य प्रसिद्धत्वादित्यर्थः ।
२ वायुशब्दाधिकरणम्
॥ २ ॥ वायुशब्दाधिकरणम् ॥
१ ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ
अविशेषविशेषाभ्यां वायोः प्राप्यत्वश्रुतेः उभयपर्यालोचनया वायोः द्वितीयप्राप्यत्वमेवेत्यर्थः ।
३ तटिदधिकरणम्
॥ ३ ॥ तटिदधिकरणम् ॥
१ ॐ तटितोऽधि वरुणः सम्बन्धात् ॐ
तटितोऽधि तटित्प्राप्त्यनन्तरं वरुणः प्राप्यः । कुतः सम्बन्धात् वरुणस्य तटित उपरि सम्बन्धादित्यर्थः ।
४ आतिवाहिकाधिकरणम्
॥ ४ ॥ आतिवाहिकाधिकरणम् ॥
१ ॐ आतिवाहिकस्तल्लिङ्गात् ॐ
पूर्वं द्वितीयप्राप्यत्वेनोक्तो वायुरातिवाहिक एव न मुख्यः । कुतः तल्लिङ्गात् । पूर्वप्राप्यत्ववायुशब्दात् । अर्चिषः स इति रपतद्धर्मादेरित्यर्थः ।
२ ॐ उभयव्यामोहात्तत्सिद्धेः ॐ
सप्तम्यर्थे पञ्चमी । उभयव्यामोहात् पूर्वोक्तवायुरातिवाहिको मुख्यो वा उत्तरोक्तवायुरातिवाहिको मुख्यो वेति सन्देहे । तत्सिद्धेः तेन सिवस्पतित्वविशेषणेन तस्य उत्तरोक्तस्य वायोर्मुख्यत्वसिद्धः नानिर्णय इत्यर्थः ।
५ वैद्युताधिकरणम्
॥ ५ ॥ वैद्युताधिकरणम् ॥
१ ॐ वैद्युतेनैव ततस्तच्छतेः ॐ
ज्ञानी वैद्युतेनैव विद्युत्पतिना वायुनैव ब्रह्म गच्छति । न तु मध्ये ततः वायोरन्यः प्राप्योऽस्ति । कुतः तच्छतेः तस्य वायोरेव “स एनान् ब्रह्म गमयतीति’ (छां।४-१५-६) ब्रह्मगमयितृत्वश्रुतेरित्यर्थः ।
६ कार्याधिकरणम्
॥ ६ ॥ कार्याधिकरणम् ॥
१ ॐ कार्यं बादरिरस्य गत्युपपत्तेः ॐ
कार्यं उत्पत्तिमच्चर्तुमुखाख्यं ब्रह्म । वायुर्गमयतीति स इति श्रुत्यर्थ इति बादरिराचार्यो मन्यते । कुतः अस्य चतुर्मुखस्यैव । गत्युपपत्तेः प्राप्यत्वोपपत्तेरित्यर्थः ।
२ ॐ विशेषितत्वाच्च ॐ
यदीति (कौषारव) श्रुतौ प्राप्तव्यब्रह्मणश्चर्तुर्मुखपदेन विशेषितत्वाच्चोक्तं युक्तमित्यर्थः ।
३ ॐ सामीप्यात्तु तद्वयपदेशः ॐ
यतस्तद्वयपदेशः “ब्रह्मवित्’ इति (तै।२-१) परब्रह्मप्राप्तिश्रुतिः । सामीप्यात् चतुर्मुखं प्राप्याचिरेण परं प्राप्नोतीति कालसामीप्यादेव । तदनुसृत्यैव प्रवर्तते । अतो न तद्विरोध इत्यर्थः ।
४ ॐ कार्यात्यये तदध्यक्षेण सहातः परमभिदानात् ॐ
कायरात्यये महाप्रलये । तदध्यक्षेण सह कार्यस्वामिना चतुर्मुखेन सह । अतः चतुर्मुखात् । परं उत्तमं ब्रह्म । ज्ञानी गच्छति । अभिधानात् तथा श्रुतेरित्यर्थः ।
५ ॐ स्मृतेश्च ॐ
ब्रहम्णेति स्मृतेर्विद्यमानत्वाच्च ज्ञानी चतुर्मुखेन सह परं प्रापनोतीति सिध्यतीत्यर्थः ।
६ ॐ परं जैमिनिर्मुख्यत्वात् ॐ
ज्ञानी परं ब्रह्मैव प्राप्नोति । न तु कार्यब्रह्म । कुतः मुख्यत्वात् ब्रह्मशब्दस्य परब्रह्मण्येव मुख्यत्वादिति जैमिनिराचार्यो मन्यत इत्यर्थः ।
७ ॐ दर्शनाच्च ॐ
ज्ञानी परं ब्रह्मैव गच्छति । कुतः तेन श्रवणादिभिः परब्रह्मण एव दृष्यत्वादित्यर्थः । १४ ॐ न च कार्ये प्रतिपत्त्यभिसन्धिः ॐ ॥ इतोऽपि ज्ञानिनः कार्यब्रह्मप्राप्तिरनुपन्ना । कुत; चो यतः । कायरे ब्रह्मणि विषये ज्ञानिनः प्रतिपत्त्यभिसन्धिः । प्रतिपविः उपास्ति; । अभिसन्धिः प्रप्नुवानीतीच्छा नास्ति । अत इत्यथर्ः ॥ ८ ॥
८ ॐ अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात्तत्क्रतुश्च ॐ
वायुरप्रतीकालम्बनान् व्याप्तोपासकानधिकारिणः नयति परं ब्रह्म गमयति । अन्यान् प्रतीकालम्बनान् प्रतीकशब्दितदेहान्त उपासकान् कार्यब्रह्म नयतीति ““स एनान्’ इति (छां।४-१५-६) श्रुत्यर्थ इति बादराणाचार्यो मन्यते । कुतः उभयथा च दोषात् । एनां व्यवस्थामनङ्गीकृत्य सर्वेषां एकैकप्राप्त्यङ्गीकारे कार्यब्रह्मपरब्रह्मप्राप्त्यङ्गीकारे कार्यब्रह्मपरब्रह्मप्राप्तिपक्षद्वयोक्तदोषप्राप्तेः । ननु यत्प्राप्तुमभिवाञ्छिति तत्प्राप्नोतीति (पाद्म) वचनात्तत्तदिच्छामात्रेण तत्तत्प्राप्तिसम्भवान्नोक्तव्यवस्थाङ्गीकार्येत्यत आह । तत्क्रतुश्चेति । अनेन स यथा कामो भवति तत्क्रतुः भवतीत्यादि (बृ।६-४-५) श्रुतिः गृह्यते । चशब्दो यत इत्यथरे । यतः स यथेति श्रुतिः तत्तत्प्राप्तीच्छामात्रेण तत्तत्प्राप्तिं प्रतिषिध्य तज्ज्ञानोपासनापरोक्षैरेव तत्प्राप्तिं वक्ति । अतस्तत्तदिच्छामात्रेणैव न तत्प्राप्तिः यज्यते इत्यर्थः ॥ ९ ॥
९ ॐ विशेषं च दर्शयति ॐ
चो यतः अन्तः प्रकाशा इति (चतुर्वेदशि) श्रुति; केचनाप्रतीकालम्बनाः केचन प्रतीकालम्बना इति विशेषं भेदं दर्शयति प्रतिपादयति । तस्माच्चोक्तं युक्तमित्यर्थः ॥ १० ॥ इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां चतुर्थाध्यायस्य तृतीयः पादः ।