१ वाङ्मनसाधिकरणम्

॥ १ ॥ वाङ्मनसाधिकरणम् ॥ ॥ ॐ वाङ्मनसि दर्शनाच्चशब्दाच्च ॐ ॥ वाक् वागभिमानिन्युमापदगृहीता वारुणी सौपर्णी च । मनसि मनोऽभिमानिरुद्रशब्दितशेषे गरुडे च विलीयते । कुतः वाचो मनोऽधीनत्वादिति शेषः । तत्कथम् । दर्शनात् तस्य प्रत्यक्षसिद्धत्वात् । किञ्च शब्दाच्च तथा श्रुतेश्चेत्यर्थः ।

१ ॐ अत एव च सर्वाण्यनु ॐ

चशब्दोऽप्यर्थः । सर्वाणि दैवतान्यपि । अनु यथाऽनुकूलम् । स्वस्वयाग्येषु देवेषु लीयन्ते । कुतः अत एव “अग्नौ’ इति (गौपवन) श्रुतेरेवेत्यर्थः ।

२ मनःप्राणाधिकरणम्

॥ २ ॥ मनःप्राणाधिकरणम् ॥

१ ॐ तन्मन; प्राण उत्तरात् ॐ

तन्मनः पूर्वोक्तमनोऽभिमानी शेषः सुपर्णश्च । प्राणे तच्छब्दितचतुर्मुखे । लीयते । कुतः उत्तरात् “मनः प्राणे’ (छां।६-१५-१) इत्युत्तरवाक्यादित्यर्थः ।

३ अध्यक्षाधिकरणम्

॥ ३ ॥ अध्यक्षाधिकरणम् ॥

१ ॐ सोऽध्यक्षे तदुपगमादिभ्यः ॐ

सः चतुर्मुखः अध्यक्षे अधिपतौ परमात्मनि लीयते । कुतः तदुपगमादिभ्यः परमात्मप्राप्त्यादिप्रतिपादकेभ्यः “सर्व’ इत्यादिश्रुत्यादिभ्यः इत्यर्थः ।

४ भूताधिकरणम्

॥ ४ ॥ भूताधिकरणम् ॥

१ ॐ भूतेषु तच्छतेः ॐ

विशिष्योक्तेभ्योऽन्येभ्यो देवाः । भूतेषु पञ्चभूतेषु । लीयन्ते । कुतः तच्छतेः “भूतेषु देवाः’ इति (बृहत्) श्रुतेश्चेत्यर्थः । ॥ नैकस्मिन् दर्शयतो हि ॐ ॥ नैकस्मिन् अग्वावेव सर्वे देवा न लीयन्ते । किन्तु यथायोगं सर्वभूतेषु । कुतः हि यस्मात् दर्शयतः “पृथिव्यामृभवः’ इति “ऋभवः पृथिव्यामिति’ महोपनिपच्चतुर्वेदशिखे च तथा प्रतिपादयतः । तस्मादित्यर्थः ।

५ समनाधिकरणम्

॥ ६ ॥ समनाधिकरणम् ॥

१ ॐ समना चासृत्युपक्रमादमृतत्वञ्चानुपोष्य ॐ

आद्यश्चो नञः समाकर्षणार्थः । “द्वौवावेति’ श्रुतिसमुच्चयो द्वितीयः । तथा च लक्ष्मीर्न लीयते । कुतः यतस्तस्याः अनुपेष्य परमात्मानमनुपास्यैव । अमृतत्वं नित्यमुक्तत्वम् । तत्कुतः । असृथ्युपक्रमात् कदाऽपि संसारोपक्रमाभावात् । सोऽपि कुतः यतः समना देशतः कालतः समो ना परमपुरुषो यस्याः सा समना तस्मादित्यर्थः ।

२ ॐ सूक्ष्मं प्रमरणतश्च तथोपलब्धेः ॐ

प्रकृतेरपि सूक्ष्मं ब्रह्म प्रमाणतः ज्ञानान३न्दादिगुरपरिमाणतश्चाधिकम् । कुतः तथोपलब्धेः “सर्वत’ इति (तरश्रु) तथा श्रुतेः । अतोऽपि प्रकृतेः न ब्रह्म साम्यमित्यर्थः ।

३ ॐ नोपमर्देनातः ॐ

अतः साम्यतदभावयोः साधितत्वात् । नोपमर्देन स्वातन्तादिगुणाबाधेन । प्रकृतेः परमात्मना नित्यमुक्तत्वादिनैवसाम्यमित्यर्थः ।

४ ॐ अस्यैव चोपपत्तेरूष्मा ॐ

ऊष्मावत्वानूष्मावत्वप्रतिपादिका “द्विधा हीदम्’ इति (सौपर्ण) श्रुतिरप्यस्यैव किञ्चित्साम्यरूपार्थस्यैवोपपत्तेः घटनायोपपादिका भवतीत्यथर्ः ।

५ ॐ प्रतिषेधादिति चेन्न शारीरात् ॐ

प्रतिषेधात् ईश्वरस्यान्यसाम्यप्रतिषेधात् । प्रकृतेः देशकालव्याप्त्यादिनापि परमात्मसाम्यं नेति चेन्न । कुतः यतः शारीरात् जीवेनैवेश्वरस्य साम्यं प्रतिषिध्यते न प्रकृतितः । अत इत्यथर्ः ।

६ ॐ स्पष्यो ह्येकेषाम् ॐ

हि यस्मात् । एकेषां शाखासु प्रकृतेः अथेति (माध्यन्दिन) समाऽसमत्ववादः स्पष्योऽस्ति तस्मादित्यर्थः ।

७ ॐ स्मर्यते च ॐ

कृष्णादिभिरुक्तार्थे मत्स्य इति (वाराहे) स्मर्यते चेत्यर्थः ।

६ पराधिकरणम्

॥ ७ ॥ पराधिकरणम् ॥

१ ॐ तानि परे तथाह्याह ॐ

तानि सर्वाणि दैवतानि चतुर्मुखद्वारा । परे परमात्मनि । लीयन्ते । कुतः हि यस्मात् तथाऽऽह सर्व इति (कौषारव) श्रुतिः तथाऽऽह तस्मादित्यर्थः ।

७ अविभागाधिकरणम्

॥ ८ ॥ अविभागाधिकरणम् ॥

१ ॐ अविभागो वचनात् ॐ

भगवदिच्छातद्भक्तेच्छानाम् । अविभागो विषयैक्यम् । न तु विरोधः । कुतः वचनात् “एते देवाः” इति (गौपवन) श्रुतेरित्यर्थः ।

८ तदोकोऽधिकरणम्

॥ तदोकोऽधिकरणम् ॥

१ ॐ तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॐ

तस्मिन्नुत्क्रान्तिकाले । तदोकोऽग्रज्वलनं तस्य परमात्मनः ओकसः आश्रयभूतस्य हृदयस्याग्रे ज्वलनं भवति । अथ तत्प्रकाशितद्वारः तेन प्रकाशेन विद्योतितमार्गः सन् । देहाज्जीव उत्क्रामति । ननु कथमेतद्युज्यते । विद्यासामर्थ्यात् ज्ञानसामर्थ्यात् । तच्छेषगत्यनुस्मृतियोगाच्च विद्याङ्गप्राप्यस्मरणसाहित्याच्च । किञ्च हार्दानुगृहीतः हृदयस्थभगवदनुगृहीतः सन् याति । कया शताधिकया सुषुम्नानाड्येत्यर्थः ।

२ ॐ रश्म्यनुसारी ॐ

रश्म्यनुसारी अन्तःस्थितादित्यप्रकाशानुसारी सन् जीवो निष्कामतीत्यर्थः ।

३ ॐ निशि नेति चेन्न सम्बन्धात् ॐ

ननु निशि आदित्यरश्मीनामभावात् । ज्ञानिनः उत्क्रमणं । नेति चेन्न न स्यादिति चेन्न । कुतः सम्बन्धात् सूर्यरश्मीनां सवर्दा सम्बन्धादित्यर्थः ।

४ ॐ यावद्देहभावित्वाद्दर्शयति ॐ

यावद्देहभावित्वात् रश्मिसम्बन्धस्य यावच्छरीरभावित्वात् । रात्रावपि ज्ञानिनः उत्क्रमणं युक्तम् । कुतः दर्शयति चो यतः । दर्शयति “संसृष्या’ इति (माध्यन्दिनायन) श्रुतिः तथा प्रतिपादयति अत इत्यर्थः ।

५ ॐ अतश्चायनेऽपि हि दक्षिते ॐ

चशब्दः प्रतिज्ञाद्वयसमुच्चये । अपि दक्षिणे मरणादिति स्मृतिसत्वेऽपि । दक्षिणे अयने दक्षिणायनकाले । ज्ञानिनः उत्क्रान्तिर्युक्ता । कुतः अतः सौररश्मिसहस्रनाडीसम्बन्धस्य तदापि सत्वात् । हि यतः । एवं अतः दक्षिणायनदृष्यान्तेन रात्रावुत्क्रान्त्यभावो न वाच्य इत्यर्थः ।

९ योग्यधिकरणम्

॥ १० ॥ योग्यधिकरणम् ॥

१ ॐ योगिनः प्रति स्मर्येते स्मार्ते चैते ॐ

चो यतः । एते ब्रह्मचन्द्रगती । योगिनः प्रति ज्ञानकर्मयोगिनः प्रति । स्मर्येते स्मृत्या उच्येते । स्मार्ते च स्वानुस्मतिसाध्ये च । गतीत्यादिना (अध्यात्मे) स्मर्येते । अतस्तयोर्न केवलं कालादिकतत्वमित्यर्थः । इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां चतुर्थाध्यायस्य द्वितीयः पादः ॥