०१ पुरुषार्थाधिकरणम्
॥ १ ॥ पुरुषार्थाधिकरणम् ॥
१ ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ
पुरुषैरर्थ्यमानं यच्छुभफलं तत्सर्वमपि । अतः ब्रह्मदर्शनाद्भवति न तु मोक्षमात्रम् । कुतः शब्दात् “यं यं’ इति (मु।३-१-१०) श्रुतेरिति भगवान् बादरायणो मन्यत इत्यर्थः ।
२ ॐ शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॐ
शेषत्वात् ज्ञानस्य कर्माङ्गत्वात् । निमित्तादेव पुरुषार्थवादः “यं यम्’ इति (मु।३-१-१०) श्रुतौ ज्ञानस्य स्वर्गादिपुरुषार्थसाधनत्ववादः न तु मोक्ष इव स्वर्गादौ प्राधान्यात् । तत्कथम् । यथा अन्येषु स्वर्गसाधनकर्मशेषभूतेषु धनादिषु । यथा स्वर्गं धनादिति प्राधान्यवादः । तथेति जैमिनिराचार्यो मन्यत इत्यर्थः ।
३ ॐ आचारदर्शनात् ॐ
“यज्ञेन यज्ञं’ इति (तै।आ। ३-१२-१७) देवानामपि कर्मानुष्ठानश्रुतेश्च न ज्ञानादेव सर्वपुरुषार्थप्राप्तिरत्यर्थः । ४० ॐ तच्छ्रतेः ॐ ॥ “यदेव विद्यया’ इति (छां।१-१-१०) ज्ञानस्य कर्मशेषत्वश्रुतेः न तत्प्रधानमित्यर्थः ।
४ ॐ समन्वारम्भणात् ॐ
न कर्मणः ज्ञानशेषत्वम् । तत्साम्यच्च । किन्तु प्राधान्यम् । कुतः समन्वारम्भणात् “कर्मणैवेति’ (माठरश्रु) प्राधान्येन स्वर्गाद्यारम्भकत्वश्रुतेरित्यर्थः ।
५ ॐ तद्वतो विधानात् ॐ
तद्वतः विधानात् “ज्ञानी च कर्माणि’ इति (कमठ श्रुति) कर्मविधानात् न ज्ञानिकर्म लीलारूपमित्यर्थः ।
६ ॐ नियमाच्च ॐ
ज्ञानिनोऽपि कर्मनियमस्याकरणे प्रत्यवायस्य च “कुर्वन्’ इति (ई।२) श्रुतेश्च । न ज्ञानिकर्म लीलारूपमित्यर्थः ।
७ ॐ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॐ
तुशब्दो व्यासमतविशेषद्योतकः । बादरायणस्य त्वेवं ज्ञानादेव सर्वपुरुषार्थप्राप्तिरित्येवं मतम् । कुतः अधिकोपदेशात् अधिकस्य ज्ञानजन्यमोक्षे कर्माधीनातिशयस्य “ज्ञानादेव’ इति (कौण्ठरव्य) श्रुतावुक्तत्वात् । किञ्च तद्दर्शनाच्च तस्य ज्ञानजन्यफले कर्मजन्यादिशयस्य राजसूयादिना (भविष्यत्पर्वणि) युधिष्ठिरादावुपलम्भाच्चेत्यर्थः । अत्र भगवन्मतं देवतानिष्ठज्ञानविषयम् । जैमिन्यादिमतं तदन्यमनुष्यनिष्ठज्ञानविषयम् । अतो न विरोध इति ज्ञेयम् ।
८ ॐ तुल्यं तु दर्शनम् ॐ
ज्ञानिकर्म न ज्ञानेऽतिशयकृत् । किन्तु ज्ञानफल एव । कुतः यतो दर्शनं ज्ञानम् । तुल्यं तु कमर्करणाकरणयोः सममेव । अत इत्यर्थः ।
०२ असार्वत्रिकाधिकरणम्
॥ २ ॥ असार्वत्रिकाधिकरणम् ॥
१ ॐ असार्वत्रिकी ॐ
ज्ञानाधिकारिता सर्वजनस्थिता नेत्यर्थः ।
२ ॐ विभागः शतवत् ॐ
विभागः केषाञ्चिज्ज्ञानाधिकारिता अन्येषां नेति विभागः । शतवत् परापरब्रह्माधिकदेवताशतस्यैव सोमाधिकारःनान्येषामिति विभागवत् “नवकोट्यो हि’ इत्यादावुक्तत्वादित्यर्थः ।
३ ॐ अध्ययनमात्रवतः ॐ
यथाशक्ति सर्ववेदाध्ययनवतो ब्रह्मविद्याधिकारिता नान्यस्येत्यर्थः ।
०३ अविशेषाधिकरणम्
॥ ३ ॥ अविशेषाधिकरणम् ॥
१ ॐ नाविशेषात् ॐ
देवादीनां ज्ञानाधिकारिता । अविशेषात् साम्यात् । न । किन्तु तारतम्यादिनेत्यर्थः ।
०४ स्तुत्यधिकरणम्
॥ ४ ॥ स्तुत्यधिकरणम् ॥
०१ ॐ स्तुतयेऽनुमतिर्वा ॐ
ज्ञानिनः सदसत्प्रवृत्त्योर्विशेषोऽस्त्येव । कुतः यतः यथेष्याचारो ज्ञानी मुच्यत एवेति ज्ञानिस्तुतय एव “येन स्यात्केन स्यात्’ इत्युच्यते । अनुमतिर्वा ज्ञानिनां यथेष्ठाचारेऽभ्यनुज्ञामात्रं वा न त्वत्र यथेष्चारविधिरत इत्यर्थः ।
०२ ॐ कामकारेणचैके ॐ
एके शाखिनः । कामकारेण च यथेष्याचारेणापि ज्ञानिनां मोक्षं “कामचाराः’ इति (सामशाखा) श्रुतौ पठन्ति । अतो न ज्ञानिनः सदसत्प्रवृत्त्योर्मोक्षहानिः । किन्तु फले विशेषमात्रमस्तीत्यर्थः ।
०३ ॐ उपमर्दञ्च ॐ
चशब्दोऽप्यर्थः । यदा ज्ञानिनः प्रारब्धकर्मणोऽपि किचिद्भुक्तस्य ज्ञानेनोपमर्दं ईषत्फलह्रासम् । “ओमित्युच्चार्य’ इति (तुर) श्रुतावेके शाखिन; पठन्ति । तदा ज्ञानोत्तरकालीनासत्कर्म न मोक्षप्रतिबन्धकमिति किं वर्णनीयमित्यर्थः ।
०४ ॐ ऊर्ध्वरेतस्सु च शब्दे हि ॐ
कामचाराणामपि ज्ञानिनां मुक्त्यधिकारवत् कामचाराणां जिज्ञासूनां न ज्ञानाधिकारः । कुतः हि यस्मात् । शब्दे य इममिति (माठर) श्रुतावूर्ध्वरेतस्त्वादिगुणवत्स्वेव ज्ञानोपदेशो विहितः । तस्मादित्यर्थः ।
०५ ॐ परामर्शं जैमिनिरचोदना चापवदति हि ॐ
जैमिनिः परामर्शं “येन स्यात्’ इति वाक्ये प्रातरुत्थायेत्यादिश्रुत्युक्तसदाचारस्यैव ग्रहणमभ्युपेत्यात्र सदाचारस्यैव स्वेच्छया नियमेनाचरणं प्रतिपाद्यम् । न तु निषिद्धस्य करणमिति मन्यते । कुतः हि यस्मात् । अचोदना अनिषिद्धं ज्ञानिना कार्यमिति विध्यभावः अपवदति च प्रत्युत “ब्रह्मणो न हन्तव्यः’ इति श्रुतिः विकर्म निषेधति च इति तस्मादित्यर्थः ।
०६ ॐ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॐ
बादरायणः भगवान् बादरायणस्तु । अनुष्ठेयं स्वेच्छया श्रुत्याद्युक्तानुष्ठानयोग्यकिञ्चित्कर्माचरणाभ्यनुज्ञानमेव “येन स्यात्’ इति (बृ।५-१-१) श्रुतेरर्थः । न तु सवर्कर्मकरणाय यथेष्ठाचारविधिरेवेति मन्यते । कुतः साम्यश्रुतेः केनापि प्रकारेण प्रवृत्तावपि “ईदृश एव’ इति ज्ञानिनः साम्योक्तेः ।
०७ ॐ विधिर्वा धारणवत्^ॐ
यथा वेदधारणविधेः त्रैवर्णिकाधिकारिकत्वमेव न तु सर्वाधिकारिकत्वम् । तथा विधिः ज्ञानिनामेव “येन स्यात्’ इति (बृ।५-१-१) स्वेच्छाचारविधिः न त्वज्ञानिनामित्यर्थः । वाशब्दः प्रगुक्तपक्षद्वयात् अस्य पक्षान्तरत्वद्योतकः ।
०८ ॐ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वत् ॐ
“केन स्यात्’ इति वाक्यं पूवरोक्तस्तुतिरेव न स्वेच्छाचरणविधिः । कुत; उपादानात् ज्ञानिभिरपि “सन्ध्यामुपासीत’ इत्यादि साधारणविधिस्यीकारादिति चेन्न । कुतः अपूर्वत्वात् अशब्दवाच्यपरमात्माधीनत्वादित्यर्थः । तथा च ज्ञानिनः स्वेच्छाचरणविधेरप्यभावे सर्वविध्यतिदूरत्वप्रसङ्गेन परमात्माधीनत्वं न स्यादिति भावः ।
०९ ॐ भावशब्दाच्च ॐ
भावः इच्छाभावशब्दघटित “यथा विधानम्’ इति (तुर) श्रुतेश्च “केन स्यात्’ इत्ययं कामचारविधिरित्यर्थः ।
१० ॐ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॐ
नियमेन सर्वधर्माचरणविधिपक्षस्यानुष्ठेयानां मध्ये स्वेच्छया कतिपयधर्माचरणाभ्यनुज्ञानपक्षस्य स्वेच्छाचरणविधिपक्षस्य च परस्परविरुद्धत्वात् । “येन स्यात्’ इत्यादयः पारिप्लवाथराः अव्यवस्थितार्थका इति चेन्न । कुतः विशेषितत्वात् “त्रेधाहि ज्ञानिनः’ इति (गौपवन) श्रुतौ ज्ञानिनां विधिनियतादिपदैः विशेषितत्वेन तेषामनेकप्रकारत्वस्योक्तत्वादित्यर्थः ।
११ ॐ तथा चैकवाक्योपबन्धात् ॐ
उक्तपक्षत्रयानुसारिवाक्यानां अधिकारिभेदमाश्रित्याविरोधेनैकवाक्यतायाः युक्तत्वात् । तथा च श्रुतीनामेकवाक्यत्वे सिद्धे “येन स्यात्’ इति वाक्यस्यापि एकवाक्योपबन्धात् अधिकारिभेदेन व्यवस्थितार्थकत्वोपपत्तेः न पारिप्लवार्थत्वमित्यर्थः । तथा च जैमिनिमतं मनुष्यज्ञानविषयम् । व्यासमतं देवताविषयम् । “विधिर्वा’ इतिमतं विधिवेत्तृत्तिषयमिति न विरोध इति भावः ।
१२ ॐ अत एव चाग्नीन्धनाद्यनपेक्ष ॐ
ज्ञानस्य मोक्षसाधनत्वे अग्नीन्धनाद्यनपेक्षा अग्निहोदिसत्कर्मसापेक्षितत्वं नास्ति । कुतः अत एव कामचाराणामपि मोक्षस्य प्रमाणसिद्धत्वादित्यर्थः ।
१३ ॐ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॐ
अश्ववत् यथा गतिसाधनाश्वादयः गतिनिष्पत्यर्थमेवापेक्ष्यन्ते न तत्फलं ग्रामादिप्राप्त्यर्थम् । तथा मोक्षसाधनज्ञानोत्पत्तावेव । सर्वापेक्षा सर्वधर्मापेक्षा । न तु ज्ञानफलमोक्षेऽपि । कुतः यज्ञादिश्रुतेः “विविदिषन्ति यज्ञेन’ इति (बृ।६-४-२२) ।
१४ ॐ शमदमाद्युपेतः स्यात्तथापि तु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॐ
यद्यपि ज्ञानेनैव मोक्षो नियतः । तथापि ज्ञानी शमदमाद्युपेतः स्यात् शमदमादियुक्तो भीवेत् । कुतः तद्विधेः “आचार्यात्’ इति (माठर) श्रुत्या तस्या ज्ञानिनः शमदमादेः विधानात् । तथापि न ज्ञानिनः शमदमादिवैयर्थ्यम् । कुतः तदङ्गतया ज्ञानाङ्गतया ज्ञानफलोपकर्यमतस्तेषां शमदमादीनामवश्यानुष्ठेयत्वात् अवश्यमनुष्ठानार्हत्वात् । तुशब्दः शमदमादेः पूर्णफलाथर्त्वं सूचयति ।
१५ ॐ सर्वान्नानुमतिश्च प्राणात्यये तद्दशर्नात् ॐ
चशब्द एवार्थे । ज्ञानिनः सर्वान्नानुमतिः “यदि ह वा अप्येवं वित्’ इति निषिद्धानिषिद्धसर्वभक्षणस्याभ्यनुज्ञानश्रुतिः । प्राणात्यये प्राणत्यागकालविषयैव न तु सर्वकालविषया कुत तद्दर्शनात् तस्मिन्नर्थे " न वा अजीविष्यम्’ इति (छां।१-१०-४) श्रुतेः तदर्थरूपलिङ्गदर्शनाच्चेत्यर्थः ।
१६ ॐ अबाधाच्च ॐ
ज्ञानिनां निषिद्धाकरणे बादकाभावाच्च निषिद्धं न कार्यमित्यर्थः ।
१७ ॐ अपि स्मर्यते ॐ
तत्करणेऽल्पफलता च “अतीत’ इत्यादिना (हरिवंशेषु) कृष्णादिभिः स्मतिभिः निषिद्धं न कार्यमिति स्मर्यते च । अतोऽपि न निषिद्धं ज्ञानिभिः कार्यमित्यर्थः ।
१८ ॐ शब्दश्चातोऽकामचारे ॐ
चो यतः । अकामचारे निषिद्धकर्मभावे । शब्दः “स य एतदेवं वित्’ इति (कौण्डिन्य) श्रुतिरस्ति । अतोऽपि न निषिद्धं ज्ञानिना कार्यमित्यर्थः ।
१९ ॐ विहितत्वाच्चश्रमकर्मापि ॐ
चः कारणसमुच्चये । अपिः वर्णाश्रमधर्मसमुच्चये । ज्ञानिना न केवलं निषिद्धमकार्यम् । किन्तत्वाश्रमधर्मोऽपि वर्णाश्रमोचितकमरापि सम्पूर्णफलार्थं कार्यम् । कुतः विहितत्वात् “पश्यन्नपि’ इति (कौषारव) श्रुतिविहितत्वादित्यर्थः ।
२० ॐ सहकारित्वेन च ॐ
ज्ञानिना सम्पूर्णफलसिद्धयै सत्कर्म कार्यमेव । कुतः “यथा राज्ञाः’ इति (कमठ) श्रुतौ ज्ञोक्षफलातिशयकर्मणो ज्ञानसहकारित्वेनोक्तत्वाच्चेत्यर्थः ।
०५ उभयलिङ्गाधिकरणम्
॥ ५ ॥ उभयलिङ्गाधिकरणम् ॥
१ ॐ सर्वथाऽपि तु त एवोभयलिङ्गात् ॐ
सर्वथापि देशकालगुरूपदेशाद्यनेकसाधनसम्पत्तावपि ये ज्ञानयोग्याः त एव ज्ञानमाप्नुवन्ति । नायोग्याः । कुतः उभयलिङ्गात् । उभयोः योग्यायोग्ययोः इन्द्रविरोचनयोः । विरिञ्चोपदेशसाम्येऽपि सम्यग्विपरीतज्ञानप्राप्तिरूपज्ञापकादेवेत्यर्थः ।
२ ॐ अनभिभवं च दर्शयति ॐ
चो यतः । “दैवीमेव’ इति श्रतिः । न केवलं योग्यायोग्यस्वरूपं दर्शयति । किन्त्वनभिभवं च स्वभावतिरस्काराभिभवञ्च । दर्शयति प्रतिपादयति । अतो नायोग्यानां ज्ञानप्राप्तिरित्यर्थः ।
३ ॐ अन्तरा चापि तु तद्दृष्येः ॐ
चशब्दोऽवधारणे । तुशब्दो विशेषार्थः ।अन्तरा सम्यग्ज्ञानविपरीतज्ञानयोः मध्ये । स्थितानां नित्यसंसारिणामपि मिश्रस्वभावानभिभव एव । कुतः तद्दृष्येः तेषां तस्मिन् मिश्रज्ञान एव तस्योदाहृतस्य दृष्येर्दर्शनादित्यर्थः ।
४ ॐ अपि स्मर्यते ॐ
कृष्णादिभिः (गीतायां) स्वभावानभिभवः “असुराः’ इति (स्कान्दे) स्मर्यते च । अतोऽपि देवदानवमानवस्वभावानां नाभिभव इत्यर्थः ।
५ ॐ विशेषानुग्रहं ॐ
चशब्दो युक्तिसमुच्चये । यतः “ऋण्वे वी’ (ऋ।६-४७-१६) इति श्रुतेः देवेषु परमेश्वरस्य विशेषानुग्रहञ्च दर्शयति प्रतिपादयति । अतो देवानामेव सम्यक् ज्ञानतत्फले नान्येषामित्यर्थः ।
६ ॐ अतस्त्वितरञ्ज्यये लिङ्गाच्च ॐ
तुशब्दोऽवधारणे । अतो देवभागादसुरभागस्य कदाप्यूनत्वाभावात् । इतरत् असुरवृन्दमेव । अतो देवभागाज्ज्यायः बहुलम् । कुतः लिङ्गात् “तस्मान्न जनतामियात्’ इति (बृ।३-३-१०) जनसङ्घप्रवेशनिषेधोक्त्यन्यथाऽनुपपत्तिरूपलिङ्गात् । चशब्दसूचित “ततः कनीयसा’ इति (बृ।३-३-१) श्रुतेश्चेत्यर्थः ।
७ ॐ तद्भूतस्य तु तद्भावो जैमिनेरपि नियमातद्रूपाभावेभ्यः ॐ
तद्भूतस्य तु देवभूतस्यैव । तद्भावः देवताभावः एवमसुरस्यैवासुरभावः जैमिनेराचार्यस्यापि सिद्ध एव । कुतः नियमातद्रूपाभावेभ्यः नासुरा इति चशब्दसूचितश्रुतेः “यो यद्रूपः’ इति अतद्रूपशब्दोक्तान्यस्यान्यरूपत्वाभावश्रुतेः । अभावः अभूतिः । देवासुराणाम् । “ते भूतिः’ इति (ऐ।आ।२-१-८) इति भावशब्दितश्रुतेरित्यर्थः ।
०६ आधिकारिकाधिकरणम्
॥ ६ ॥ आधिकारिकाधिकरणम् ॥
१ ॐ न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॐ
चशब्दः ज्ञानार्थिनां अयोग्याकाङ्क्षावर्जनरूपेतिकर्तव्यतान्तरसूचक; । आधिकारिकमपि देवतापदमपीतरैर्नाकङ्क्ष्यम् । भगवदैश्वर्यादिकं तु सुतरामिति सूचयितुमपिशब्दः । कुतः पतनानुमानात् अयोग्येच्छात्वतः पतनस्य स्मार्तयुक्तिसिद्धत्वात् । अत एव तदयोगात् अयोग्याकाङ्क्षाया कर्तुमयुक्तत्वादित्यर्थः ।
२ ॐ उपपूर्वमपीत्येके भावशमनवत्तदुक्तम् ॐ
भावशमनवत् भावे चित्तष शमनं भगवन्निष्ठा येषां ते भावशमनाः ऋषयः तत्पदं यथा नाकाङ्क्ष्यम् । किमुत सुतरां देवादिपदमिति सूचयितुमपिशब्दः । इत्येके शाखिनः मन्यन्ते । कुतः यतो ज्ञानार्थिनां यथेतीन्द्रद्युम्नश्रुतौ । तदुक्तं तथोक्तम् । अत इत्यर्थः ।
३ ॐ बहिस्तूभयथाऽपि स्मृतेराचाराच्च ॐ
बहिस्तु देवादिपदेभ्योऽन्यत्र । ज्ञाने भक्त्यादिविषये । उभयथाऽप्याकाङ्क्षायां अनाकाङ्क्षायामपि न दोषः । कुतः देवर्षिरिति स्मृतेराचाराच्च नानात्वमिति शुभाचारविधायकशब्दाच्चेत्यर्थः ।
०७ फलश्रुत्यधिकरणम्
॥ ७ ॥ फलश्रुत्यधिकरणम् ॥
१ ॐ स्वामिन; फलश्रुतेरित्यात्रेयः ॐ
समुदायविवक्षया स्वामिन इत्येकवचनम् । तथा च स्वामिनां देवानामेव । ज्ञानफलं भवति न प्रजानाम् । कस्मात् तेषामेव ज्ञानस्वामित्वात् “यदु किञ्च’ इति (माध्यान्दिन) तेषामेव फलश्रुतेश्चेत्येवमात्रेयाचार्यो मन्यत इत्यर्थः ।
२ ॐ आर्त्विज्यमित्यौडुलोमिस्तस्महि परिक्रियते ॐ
हि यस्मात् । तस्मै प्रजार्थं देवैः परिक्रियते प्रजाद्वारा ज्ञानं सम्पाद्यते । तस्मादार्त्विज्यं आत्विर्ज्यमिवेति शेषः । ऋत्विजां यज्ञफलमिव प्रजानामप्यल्पज्ञानफलमस्तीत्यौडुलोमिराजार्यो मन्यत इत्यर्थः ।
३ ॐ सहकायर्न्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॐ
तद्वतो प्रजावतो राज्ञः, विश्यवतो गुरोश्च । विध्यादिवत् विधानफलयोरिव । यथा प्रजानां शिष्याणां पालनव्याख्यानयोः राजगुरुसहकारित्वेन विधानं फलञ्च तयोरेव मुख्यतया स्वविहितज्ञानदाने प्रजानां सहकार्यन्तरविधिः देवैरनुग्राह्यरूपविशेषसहकार्यन्तरत्वेन करणम् । पक्षेणपक्षत्वेन । तृतीयं आत्रेयौडुलोमिपक्षापेक्षया तृतीयः । अयमेव बादरायणीयपक्ष इत्यर्थः ।
०८ कृत्स्नभावाधिकरणम्
॥ ८ ॥ कृत्स्नभावाधिकरणम् ॥
१ ॐ कृत्स्नभावात्तु गृहिणोपसंहारः ॐ
यतः “कुटुम्बे’ इति (छां।८-१५-१) श्रुतौ गृहिणो गृहस्थस्यैव मोक्षफलोक्त्या पर्यवस्यति । कृत्स्नभावात सम्पूर्णगृहस्थधर्मवतो देवानपेक्ष्यैव । अतः श्रुत्यविरोधाच्च यतेरेव सर्वाश्रमिषूत्तमत्वमित्यर्थः ।
२ ॐ मौनवदितरेषामप्युपदेशात् ॐ
मौनवत् यतित्वस्येव । इतरेषशं अन्याश्रमधर्माणामपि । उपदेशात् “देवा एव ब्रह्मचारिणः’ इति (कौण्ठरव्य) श्रुतावुक्तत्वात् । सर्वाश्रमिभ्यो देवानामुत्तमत्वमित्यर्थः ।
०९ अन्वयाधिकरणम्
॥ ९ ॥ अन्वयाधिकरणम् ॥
१ ॐ अनाविष्कुर्वन्नन्वयात् ॐ
गुरुः अनाविष्कुर्वन्सभादिषु आविष्कारमकुर्वन्नेव । शिष्येभ्यो विद्यामुपदिशेत् । कुतः अन्वयात् अयोग्यानामपि ज्ञानप्राप्त्या अतिप्रसङ्गरूपयुक्तेरित्यर्थः ।
१० ऐहिकाधिकरणम्
॥ १० ॥ ऐहिकाधिकरणम् ॥
१ ॐ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॐ
अप्रस्तुतप्रतिबन्धप्रस्तुतप्रतिबन्धशब्दोक्तप्रारब्धकर्माभावे । अपरोक्षज्ञानमैहिकं श्रवणादीनां सम्पूर्तिजन्मन्येव भवति । प्रतिबन्धे तु जन्मान्तरे भवति । कुतः तद्दर्शनात् “श्रुत्वा’ इति (सौपर्ण) श्रुतौ तथा प्रतिपादनादित्यर्थः ।
११ मुक्तिफलाधिकरणम्
॥ ११ ॥ मुक्तिफलाधिकरणम् ॥
१ ॐ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॐ
एवं यथा ज्ञानेऽनियमः तथा मुक्तिफलानियमः । मोक्षाख्यफलेऽपि ज्ञानिनः तच्छरीरपातानन्तरमेव मोक्ष इति नियमो नास्ति । किन्तु असति प्रारब्धे तद्देहपातानन्तरमेव । सति तु तद्देहान्तरावसाने मोक्षो भवति । ननु कुत एवं कल्प्यत इत्यत उक्तम् । तदिति । तस्यां ब्रह्मसंस्थो इति श्रतौ तस्मिन् ब्रह्मणि अवस्थितस्य । तज्ज्ञानिन इति यावत् । अवधृतेः अमृतत्वमेत्येवेति मोक्षफलावधारणादित्यर्थः । अतः प्रतिबन्धकल्पनेति भावः । उक्तस्य सर्वस्यैतदध्यायार्थस्य प्रसिद्धत्वसूचनार्था द्विरुक्तिः । इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां तृतीयाध्यायस्य चतुर्थः पादः ॥