०१ सन्ध्याधिकरणम्
॥ १ ॥ सन्ध्याधिकरणम् ॥
१ ॐ सन्ध्ये सृष्यिराह हि ॐ
हि यस्मात् । “अथ रथान्’ इति (बृ।६-३-१०) श्रुतिः सन्ध्ये जाग्रत्सुषुप्तिसन्धौ भवतीति स्वप्ने भगवतः सृष्यिमाह । अतः सृष्यिः स्वप्नपदार्थसृष्यिः । भगवत एव जायत इत्यर्थः ।
२ ॐ निमरातारञ्चैके पुत्रादयश्च ॐ
चो यतः । एके शाखिनः । एनं भगवन्तम् । “य एषु सुप्तेषु’ इति (कठ। ५-८) स्वप्नपदाथर्निर्मातारमामनन्ति । अपरे च पुत्रादयः । तस्माद्विष्णोरेव जायन्त इति वदन्ति । तस्माद्विष्णोरेव स्वाप्नसृष्यिरित्यर्थः ।
३ ॐ मायामात्रन्तु कात्स्नयेनानभिव्यक्तिस्वरूपत्वात् ॐ
तुरेवार्थे । सन्ध्यं मायामात्रं निमित्तोपादानभूताभ्यां मायाशब्दितेच्छावासनाभ्यामेव निर्मितं न बाह्यकारणकम् । कुतः कात्स्नयेनानभिव्यक्तस्वरूपत्वात् बाह्यवत्सम्यगनभिव्यक्तस्वरूपत्वादित्यर्थः ।
४ ॐ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॐ
चो यतः । स्वाप्नपदार्थः सूचकः शुभाशुभज्ञापकः । अतोऽपि नासत्यः । तत्कुतः “यता’ इति (छां।५-२-९) श्रुतेः । प्रत्यक्षतः फलदर्शनाच्चेति हि शब्दः । किञ्च तद्विदः स्वाप्नविदो व्यासादयः आचक्षते च । “यदा’ इति श्रुतौ स्वाप्नार्थानामर्थक्रियाकारित्वं वदन्त्यतोऽपीत्यर्थः ।
०२ पराभिध्यानाधिकरणम्
॥ २ ॥ पराभिध्यानाधिकरणम् ॥
१ ॐ पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॐ
यस्मात् । ततः परमात्मनः सकाशात् । अस्य जीवस्य । बन्धविपर्ययौ बन्धमोक्षौ भवतः । तस्मात्पराभिध्यानात्तु परमात्मेच्छयैव । सन्ध्यं तिरोहितं लीनं भवति । न कारणान्तरादित्यर्थः ।
०३ देहयोगाधिकरणम्
॥ ३ ॥ देहयोगाधिकरणम् ॥
१ ॐ देहयोगाद्वासोऽपि ॐ
देहयोगाद्वासोऽपि देहाभिमानेनावस्थितिरूपजाग्रदवस्थापि पराभिध्यानादेव भवति नान्यत इत्यर्थः ।
०४ तदभावाधिकरणम्
॥ ४ ॥ तदभावाधिकरणम् ॥
१ ॐ तदभावो नाडीषु तच्छतेरात्मनि ह ॐ
अस्य जीवस्य नाडीषु आत्मनि नाडीस्थिते परमात्मन्येव । तदभावः जाग्रत्स्वप्नयोरभावः । सुषुप्तिर्जायते । तस्य तदा तत्प्रवेशो भवति । कुतः तच्छते; “आसु तदा नाडीषु’ (छां।८-६-३) श्रुतेः तथा श्रवणादित्यर्थः । हेत्यस्यार्थस्य युक्ततामाह ।
०५ प्रबोदाधिकरणम्
॥ ५ ॥ प्रबोदाधिकरणम् ॥
१ ॐ अतः प्रबोधोऽस्मात्
अस्य जीवस्य प्रबोधः सुप्तरुत्थानम् । अस्मात् परमात्मन एव भवति नान्यतः । कुतः “एष एव’ इति (कौण्डिण्य) श्रुत्वादित्यर्थः ।
०६ कर्मानुस्मृत्यधिकरणम्
॥ ६ ॥ कर्मानुस्मृत्यधिकरणम् ॥
१ ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ
चशब्दोऽप्यर्थे । स एव ईश्वर एव । सर्वेषामपि सर्वदा सर्वावस्थाप्रेरकः । न देशाकालान्तरेऽन्यः । कुतः कर्मानुस्मृतिशब्दविधिभ्यः “एष ह्येव’ इति (कौ।३-८) कर्मणामीशाधीनत्वश्रुतेः । प्रदर्शक इत्यनुकूलस्मृतेश्च । “एष’ इति शब्दाच्चात्मानमिति (बृ।उ।३-४-१५) विधेश्चेत्यर्थः ।
०७ सम्पत्त्यधिकरणम्
॥ ७ ॥ सम्पत्त्यधिकरणम् ॥
१ ॐ मुग्धेऽर्धसम्पत्तिः परिशेषात् ॐ
मुग्धे मुर्छायाम् । जीवस्यार्धसम्पत्तिः परमात्मन्यर्धप्रवेशः । कुतः परिशेषात् प्रसक्तप्रतिषेधपूर्वकानुमानादित्यर्थः ।
०८ नस्थानतोऽप्यधिकरणम्
॥ ८ ॥ नस्थानतोऽप्यधिकरणम् ॥
१ ॐ न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॐ
परस्य परमात्मनः । स्थानतोऽपि अक्ष्यादिस्थानभेदादपि । उभयलिङ्गं भिन्नरूपम् । नास्ति । किन्तु सर्वत्र सर्वस्थानेषु स्थितं रूपमेकमेव । कुतः हि यस्मात् । “सर्वेषु’ इति (ऐ।आ।३-२-३) श्रुतिरत्रास्ति । अत इत्यर्थः ।
२ ॐ न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॐ
भेदात् कार्यकारणबद्धाविति (मां।२-१६) स्वप्नजाग्रदनुभवजनकत्वरूपभेदकत्वधर्मश्रवणात् विश्वादिरूपाणां नाभेद इति चेन्न । कुतः प्रत्येकं परस्परम् । तेषां रूपाणाम् । अतद्वचनात् “एष त आत्मा’ इत्यभेद श्रुतेरित्यर्थः ।
३ ॐ अपि चैवमेके ॐ
यत एवमभेदं चशब्दादनन्तरूपत्वं चैके शाखिनः “अमात्रः’ इति (मां।४-७) श्रुतौ पठन्ति । अपि अभेदेऽपि भेदव्यपदेशः स्थानभेदाद्युज्यते इत्यर्थः ।
०९ अरूपाधिकरणम्
॥ ९ ॥ अरूपाधिकरणम् ॥
१ ॐ अरूपवदेव हि तत्प्रधानत्वात् ॐ
ब्रह्म अरूपवदेव प्राकृतरूपरहितमेव । कुतः तत्प्रधानत्वात् प्रकृत्याद्युत्तमत्वात् । हिशब्दसूचितास्थूलमिति (बृ।५-८-८) श्रुतेश्चेत्यर्थः ।
२ ॐ प्रकाशवच्चावैयर्थ्यम्
चो हेतुसूचकः । प्रकाशवत् लोकविलक्षणचक्षुरादिप्रकाशे नास्ति प्रकाश इति व्यावहारस्येव । अवैयर्थ्यं न ब्रह्मणो रूपित्वश्रुतीनामप्रामाण्य् । कुतः तस्यारूपपित्वेऽपि विलक्षणरूपित्वभ्युपगमादित्यथर्ः ।
३ ॐ आह च तन्मात्रम् ॐ
यत “ऐकात्म्यम्’ इति (मां।२-७) श्रुतिः ब्रह्मणः तन्मात्रं विज्ञानानन्दैकस्वरूपं रूपमाह वक्तीत्यर्थः । अतो न वैलक्षण्यानिरुक्तिरिति चशब्दार्थः ।
४ ॐ दर्शयति चाथो अपि स्मर्यते ॐ
चो यतः । चः समुच्चये । न केवलं ब्रह्मणः आनन्दाद्यात्मकत्वं दर्शयति । किन्तु “तद्विज्ञानेन’ (मुं।२-२-८) इति श्रुतिः ज्ञानस्य ब्रह्मात्मकत्वमपि दर्शयति प्रतिपादयति । अथो इत्यर्थान्तरवाचि । अथो विज्ञानस्यापि ब्रह्मरूपत्वं स्मर्यते व्यासादिभिः “शुद्धस्फटिकम्’ इत्यादिना (मात्स्ये) अतो न ज्ञानानन्दयोः ब्रह्मस्वरूपत्वमप्रामाणिकमित्यर्थः ।
१० उपमाधिकरणम्
॥ १० ॥ उपमाधिकरणम् ॥
१ ॐ अत एव चोपमा सूर्यकादिवत् ॐ
अत एव ईशतद्रूपाणामभेदोक्तेरेव । अत एव चेतनत्वादिहेतोरेव । उपमा जीवस्य मत्स्यादिसाम्यम् । मत्स्यादिवदीश्वराभेद इति चेत् । नेति शेषः । चशब्देन भिन्नत्वसाम्ये समुच्चिनोति । कुतः यतः सूर्यकादिवत् यथा जलप्रतिबिम्बितसूर्यकादेः सूर्यादिप्रतिबिम्बत्वाद्भिन्नत्वं तथा जीवस्य प्रतिबिम्बत्वात् भिन्नत्वमित्यर्थः । यद्वा । अत एव मत्स्यादीनां ब्रह्मणो ज्ञानादिगुणैरविशेषोक्तेरेव । अत एव सूर्यकादिवत् । उपमा सूर्यकाद्युपमा । जीवस्य मत्स्यादितुल्यांशत्वे तदविशेषापत्तेरेव उपमा ब्रह्मप्रतिबिम्बतेत्यर्थः । अत एव ब्रह्मप्रतिबिम्बत्वादेव सूर्यकादिवन्न ब्रह्माभिन्नो जीव इति चशब्दार्थः । अथवा । अत एव प्रकृताभ्यां तदधीनत्वतत्सदृशत्वाभ्यामेव । उपमा सूर्यकादिवदित्यपमा । जीवस्येश्वरप्रतिबिम्बत्वात् नोपाध्यधीनत्वादिना न तन्निवृत्त्या प्रतिबिम्बतानिवृविरित्यर्थः ।
११ अम्बुवदधिकरणम्
॥ ११ ॥ अम्बुवदधिकरणम् ॥
१ ॐ अम्बुवदग्रहणात्तु न तथात्वम् ॐ
सादृश्यार्थे वतिः । सादृश्यं स्नेहाख्यविशेषेण विवक्षितम् । तथा च यतः अम्बुवदग्रहणात् स्नेहसहितमाहात्म्यज्ञानाभावात् । भक्तिं विनेति यावत् । तथात्वं सुखाद्यात्मकत्वरपेश्वरसादृश्यम् । न तु सम्यग्व्यज्यते । अतो भक्तिरेव सम्यक् स्वरूपाभिव्यक्तिजनिकेति तदर्थं सा कर्तव्येत्यर्थः ।
१२ वृद्धिह्रासाधिकरणम्
॥ १२ ॥ वृद्धिह्रासाधिकरणम् ॥
१ ॐ वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॐ
वृद्धिह्रासभाक्त्वं भक्त्यादेः साधकेष्वाधिक्यन्यूनता न तावदङ्गीकार्यम् । कुतः अन्तर्भावात् महदल्पफलवतां ब्रह्मादीनामन्येषां च भक्तत्वेऽन्तर्भावात् । तथापि कुतो वृद्धिह्रासभाक्त्वम् । एवं भक्तितारतम्ये सत्येव । उभयसामञ्जस्यात् उभयान् महदल्पफलान् ब्रह्मादिजीवान् प्रति फलदातुरीश्वरस्य सामञ्जस्यात् वैषम्येन फलदानस्य भक्तितारतम्येन युक्तत्वात् । अन्यथा अयुक्तत्वात् । अतस्तदङ्गीकायर्मित्यर्थः ।
२ ॐ दर्शनाच्च ॐ “अथात’ इति (तै २-८) श्रुतौ “यथेति’ स्मृतौ च फलतारतम्यदर्शनात् उक्तत्वाच्चोक्तं युक्तमित्यर्थः
१३ पालकत्वाधिकरणम्
॥ १३ ॥ पालकत्वाधिकरणम् ॥
१ ॐ प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ॐ
हि यतः । नैतावदेनेति (ऋ।१०-३१-८) श्रतिः प्रकृतैतावत्त्वं प्रकृतस्य सृष्ययादिकर्तृत्वस्य । एतावत्त्वं सृष्यिसंहारकर्तृकत्वमात्रपर्यवसितत्वम् । प्रतिषेधति निराचष्ये । ततः सृष्ययादिकतरृकत्वात् । भूयः अधिकम् । पालकत्वं च ब्रवीति । अतः पालकत्वात् सृष्यिं चेति सूचितपालकत्वाख्यं महिमान्तरमपि हरेरस्तीति ज्ञापयतीत्यर्थः । चशब्देन सृष्यिं चेति स्मृतिः (ब्रह्माण्डे) सूचिता ।
१४ अव्यक्तत्वाधिकरणम्
॥ १४ ॥ अव्यक्तत्वाधिकरणम् ॥
१ ॐ तदव्यक्तमाह ॐ
तत् ब्रह्म । अव्यक्तं पुरुषप्रयत्नेन द्रष्युमशक्यस्वभावम् । कुतः हि यस्मात् । अव्यक्तं च निष्कलमिति (कौण्ठरव्य) श्रुतिस्तथाऽह तस्मादित्यर्थः ।
२ ॐ अपि संराधने प्रत्यक्षानुमानाभ्याम् ॐ
अपि भक्तिरहिताराधनेनापि न ब्रह्म व्यक्तीकर्तुं शक्यम् । कुतः संराधनेऽपि सम्पूजनेऽपि । अव्यक्तत्वस्य प्रत्यक्षानुमानाभ्यां ज्ञानिप्रत्यक्षसूक्ष्मत्यहेतुकानुमानाभ्यां सिद्धत्वादित्यर्थः ।
३ ॐ प्रकाशवच्चावैशेष्यम् ॐ
चो नञर्थः । प्रकाशवत् यथाग्नेः स्थूलसूक्ष्माभ्यां व्यक्तत्वाव्यक्तत्वे । तथा ब्रह्म न किन्तु स्वतोऽव्यक्तमेव । कुतः यतः अवैशेष्यं ब्रह्मणि स्थूलसूक्ष्मत्वविशेषो नास्ति । अत इत्यर्थः ।
४ ॐ प्रकाशवच्च कर्मण्यभ्यासात् ॐ
प्रकाशश्च अपरोक्षज्ञानञ्च । कर्मणि विषयभूते ब्रह्मणि । अभ्यासात् श्रवणादेरावर्तनात् । भवीत्यर्थः ।
५ ॐ अतोऽनन्तेन तथाहि लिङ्गम् ॐ
अतः अव्यक्तत्वे प्रत्यक्षत्वे प्रमाणसद्भावात् । तदन्यथाऽनुपपत्त्या । अनन्तेन अपरिच्छिन्नेन ब्रह्मणा । तत्प्रसादेनाव्यक्तस्यापरोक्ष्यं भवतीति ज्ञायते । न केवलमनुपपत्तिमात्रात् किं तर्हि । हि यस्मात् । तथा लिङ्गं तस्याभिध्यानादित्युक्तमीशप्रसादस्य बन्धनिवृत्तिहेतुत्वरपम् । प्रसादस्य दर्शनहेतुत्वज्ञापकमस्ति तस्मादित्यर्थः ।
१५ अहिकुण्डलाधिकरम्
॥ १४ ॥ अहिकुण्डलाधिकरम् ॥
१ ॐ उभयव्यपदेशात्त्वहिकुण्डलवत् ॐ
ब्रह्म आनन्दगुणकं तद्रूपञ्च भवति । कुतः उभयव्यपदेशात् आनन्दो ब्रह्म (तै।३-६) आनन्दं ब्रह्मणः (तै।२-४) इत्यादिश्रुतिषु गुणात्मकत्वेन गुणित्वेन च ब्रह्मणः उक्तत्वात् । तदपि कथम् । अहिकुण्डलवत् यथाऽहेः सर्पस्य । कुण्डलत्वं कुण्डलित्वञ्च । विशेषात्तथेत्यर्थः ।
२ ॐ प्रकाशाश्रयवद्वा तेजस्त्वात् ॐ
यथा प्रकाशाश्रयस्यादित्यस्य प्रकाशरूपत्वं तदाश्रयत्वञ्च तद्वत् ब्रह्मणोऽपि । अन्यपरित्यागेनादित्यदृष्यान्ते को हेतुरित्यत उक्तम् । तेजस्त्वादिति । ब्रह्मादित्ययोरुभयोरपि तेजोरूपत्वात् तदभिप्रायेण तद्दृष्यान्तीकरणमित्यर्थः ।
३ ॐ पूर्ववद्वा ॐ
यथा कालः पूर्वेणाभिन्नोऽपि पूर्वकाल इति पूर्वपदेन विशिष्यते तथा ब्रह्म आनन्देन विशिष्यत इत्यर्थः । आदरार्थं स्थूरलसूक्ष्मबुद्धिविवक्षया वा दृष्यान्तत्रयोक्तिः ।
४ ॐ प्रतिषेधाच्च ॐ
ब्रह्मगुणानां ब्रह्मणश्च “नेह नानास्ति’ (कठ।२-४) इति भेदस्य । प्रतिषेधाच्च ब्रह्म गुणात्मकमित्यर्थः ।
१६ परमताधिकरणम्
॥ १६ ॥ परमताधिकरणम् ॥
१ ॐ परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॐ
ब्रह्मगुणजातं परं लोकविलक्षणम् । कुतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः “एष सुतुः’ (छां।८-४-१) इति सेतुत्वोक्तेः । “यतो वाचः’ (तै।२-४) इत्युन्मानशब्दितपूर्णत्वोक्तेः । “एतस्यैवानन्दस्य’ (बृ।६-३-२२) इति बिम्बप्रतिबिम्बभावसम्बन्धोक्तेः । अन्यज्ज्ञानन्त्विति लौकिकानन्दाद्भेदोक्तेश्चेत्यर्थः ।
२ ॐ दर्शनात् ॐ
अन्यानन्दादीनां प्रत्यक्षसिद्धत्वान्मनोवाग्विषयत्वाच्च ब्रह्मानन्दस्यातथात्वादेव लोकविलक्षणत्वमित्यर्थः ।
३ ॐ बुद्धयर्थः पादवत् ॐ
यथा लोकपादविलक्षणेषु जीवाख्यभूतेषु “पादोऽस्य विश्वा भूतानि’ (ऋ।१०-९०-३) इति पादपदप्रयोगः । बुद्धयर्थः भूतानां ईशांशत्त्वज्ञापनार्थः । तथाऽलौकिकेऽपि ब्रह्मानन्दादावानन्दपदप्रयोगः । बुद्धयर्थः अनुकूलतया वेदनीयत्वादिधर्मज्ञापनार्थ इत्यथर्ः ।
१७ स्थानविशेषाधिकरणम्
॥ १७ ॥ स्थानविशेषाधिकरणम् ॥
१ ॐ स्थानविशेषात्प्रकाशदिवत् ॐ
प्रकाशादिवत् यथा सूर्यकान्तादिगतसूयरादिप्रतिबिम्बेऽग्निजकनकत्वादि वैचित्यम् । स्थानविशेषात् सूर्यकान्तादिस्थानगुणवैचित्यादुपपद्यते । तथा ब्रह्मादिस्थानगतभक्त्यादिगुणवैचित्याद्भागवदानन्दप्रतिबिम्बेषु ब्रह्माद्यान्देष्वपि वैचित्यमुपपद्यत इत्यर्थः ।
२ ॐ उपपत्तेश्च ॐ
बिम्बभूतभगवदैश्वर्यवशादेव प्रतिबिम्बभूतब्रह्माद्यानन्दवैचित्योपपत्तेश्च तत्प्रतिबिम्बमितरेषां युक्तमित्यर्थः ।
१८ तथान्यत्वाधिकणम्
॥ १८ ॥ तथान्यत्वाधिकणम् ॥
१ ॐ तथाऽन्यत्प्रतिषेधात् ॐ
यथा जीवाननदादि ब्रह्मनन्दादेर्विलक्षणम् । तथा ध्यानकाले प्रतीतं वासनात्मकं वस्तु । ब्रह्मणोऽन्यत् तद्भिन्नम् । कुतः “यन्मनसा’ (केन।१-६) इति श्रुतावन्यस्य ब्रह्मत्वप्रतिषेधादित्यर्थः ।
१९ सर्वगतत्वाधिकरणम्
॥ १९ ॥ सर्वगतत्वाधिकरणम् ॥
१ ॐ अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॐ
अनेन भगवतैव । सर्वदेशकालयोः सृष्ययादिर्भवति । न तु देशकालान्तरयोरन्येन । कुतः सर्वगतत्वमायामयशब्दादिभ्यः “एष सर्वगत;’ इति (भाल्लवेय) सर्वगतत्वश्रुतेः । तस्य च सृष्ययाद्यर्थत्वात् । विष्णौ प्रयुक्तमायामयशब्दव्याख्यानरूपसर्वत्रेत्यादि (चतुवरेदशि) श्रुतेश्चेत्यर्थः । अन्यत्र प्रमाणाभावाच्चेत्यादिशब्दार्थः ।
२० फलाधिकरणम्
॥ २० ॥ फलाधिकरणम् ॥
१ ॐ फलमत उपपत्तेः ॐ
फलं स्वर्गादि । अतः ईश्वरादेव भवति । न कर्मतः । कुतः उपपत्तेः ईश्वरस्य चेतनत्वेन फलदातृत्वस्य युक्तत्वादित्यर्थः ।
२ ॐ श्रुतत्वाच्च ॐ
श्रुतत्वाच्च “रातिः’ इति (बृ।५-९-२८) श्रुत्युक्तत्वाच्चेश्वरस्यैव फलदातृत्वमित्यर्थः ।
३ ॐ धर्मं जैमिनिरत एव ॐ
जैमिनिराचार्यः धर्मं फलप्रदमाह । तं च धर्मम् । अत एव ईश्वरादेव जन्यं मन्यते । कुतः अत एव “एष ह्येव’ इति (कौ।३-८) श्रुतेरेवेत्यर्थः ।
४ ॐ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॐ
बादरायणाचार्यस्तु । पूर्वं पूर्वोक्तम् । ब्रह्म धर्मं चोभयं फलहेतुं मन्यते । तत्र ब्रह्मकर्तृत्वेन कमर् करणत्वेन हेतुरिति विशेषस्तुशब्दार्थः । कुतः हेतुव्यपदेशात् “पुण्येन’ इति (प्र।३-७) श्रुतौ ब्रह्मकर्मणोः कर्तृत्वकरणत्वरूपहेतुत्वस्योक्तत्वादित्यर्थः । इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां तृतीयाध्यायस्य द्वितीयः पादः ॥ ३ ॥ २ ॥