०१ तदन्तराधिकरणम्

॥ १। तदन्तराधिकरणम् ॥ (१) ॐ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ॥ तदन्तरप्रतिपत्तौ शरीरान्तरप्राप्त्यर्थम् । जीवः सम्परिष्वक्तः पृथिव्यादिभूतसंयुक्त एव । रंहति इमं देहं परित्यज्य लोकान्तरं गच्छतीति ज्ञायते । कुतः । प्रश्ननिरूपणाभ्यां "" वेत्थ यथेति’’ (छा।५-३-९) श्वेतकेतुमृषिं प्रति प्रवाहणस्य राज्ञः प्रश्नात् । तथा “इति त्विति’ प्रवाहणोक्तपरिहाराच्चेत्यर्थः ॥ १ ॥

०२ त्यात्मकत्वाधिकरणम्

॥ २ ॥ त्यात्मकत्वाधिकरणम् ॥

१ ॐ त्यात्मकत्वात्तु भूयस्त्वात् ॐ

जीवः सर्वभूतपरिष्वक्त एव गच्छति । नाद्भिरेव । आप इति विशेषोक्तिस्तु त्यात्मकत्वात् अपां क्षितिसलिलानकात्मकत्वात् । तेष्वप्यपां भूयस्त्वात् । बाहुल्यात् । युजयते । अतो न तद्विरोध इत्यर्थः ॥

०३ प्राणगत्यधिकरणम्

॥ ३ ॥ प्राणगत्यधिकरणम् ॥

१ ॐ प्राणगतेश्च ॐ

भूतव्याप्तप्राणशब्दितेन्द्रियाणां जीवेन सह गमनश्रवणाच्च । जीवो भूतसम्परिष्वक्त एव गच्छतीत्यर्थः ।

०४ अग्य्राद्यधिकरणम्

॥ ४ ॥ अग्य्राद्यधिकरणम् ॥

१ ॐ अग्य्रादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॐ

अग्न्यादिगतिश्रुतेः प्राणानां यत्रेति अग्न्यादीन् प्रति गमनस्योक्तेर्न जीवेन सह गमनमिति चेन्न । कुतः भाक्तत्वात् “यत्रेति’ श्रुतेः (बृ।५-२-१३) प्राणभागविषयत्वादित्यर्थः ।

०५ प्रथमाधिकरणम्

॥ ५ ॥ प्रथमाधिकरणम् ॥

१ ॐ प्रथमेऽश्रवणादितिचेन्न ता एव ह्युपपत्तेः ॐ

प्रथमे तस्मिन्नित्युपक्रमे । प्रथमे द्युनामके । प्रथमाग्नौ होमश्रवणात् भूतानां जीवसाहित्यश्रवणशभावाच्च । न जीवो भूतसहितो गचछतीति चेन्न । कुतः हि यतः । ता एव प्रस्तुता आप एवोपक्रमगतश्रद्दाशब्देनोच्यन्ते । अतः तत्कुतः उपपत्तेः “अपः पुरुषवचसो भवन्ति’ (छां।५-९-१) इत्युपसंहारोपपत्तेरित्यर्थः ।

०६ अश्रुतत्वाधिकरणम्

॥ ६ ॥ अश्रुतत्वाधिकरणम् ॥

१ ॐ अश्रुतत्वादितिचेन्नष्यादिकारिणां प्रतीतेः ॐ

अश्रुतत्वात् भूतानां जीवेन सह गमनस्य “अग्निं वागप्येति’ इतिवत् प्रत्यक्षश्रवणाभावान्न तेषां सह गमनमिति चेन्न । कुतः “अथैनमिति’ (कौण्डिण्य) श्रुत्या इष्यादिकारिणां यागहोमकृताम् । प्रतीते; प्रत्यक्षत एव भूतवियोगसहयोगयोरवगमादित्यर्थः ।

०७ भाक्ताधिकरणम्

॥ ७ ॥ भाक्ताधिकरणम् ॥

१ भाक्तं वाऽनात्मवित्त्वात्तथाहि दर्शयति ॐ निआम्यकर्मिणां उक्तममृतत्वं भाक्तं अमुख्यम् कुतः अनात्मवित्त्वात् तेषामब्रह्मज्ञानित्वात् वाशब्देन जिज्ञासुज्ञानिकृताकाम्यकर्मजन्यामृत्वमपि न संसारनिवृविरुपमुख्यामृतत्वरूपम् किन्तु अन्तःकरणशुद्धयानन्दातिशयरूपनिरतिशयपरममुख्यमिति पक्षद्वयं सूचयति कुत एतत् हि यस्मात् “अमृतो वा’ इति “स एनमिति’ (बृ ३-४-१५) “कर्मणा’ इति “आत्मानम्’ इति च श्रुतिः तथोक्तार्थान् दर्शयति प्रतिपादयति तस्मादित्यथर्ः

०८ कृतात्ययाधिकरणम्

॥ ८ ॥ कृतात्ययाधिकरणम् ॥

१ ॐ कृतात्ययेऽनुशयवान् दृष्यस्मृतिभ्याम् ॐ

कृतात्यये कृतस्य कर्मणः स्वगरादौ भोगेनात्यये क्षये सति । पुनरनुशयवान् भुक्तशेषवानेवेमं लोकं प्रत्यागच्छतीति ज्ञायते । कुतः दृष्यस्मृतिभ्याम् । “ततःशेषेण’ इति दृष्यशब्दितश्रुतेः । “मुक्तशेषेति’ स्मृतेश्चेत्यर्थः ।

०९ यथेताधिकरणम्

॥ ९ ॥ यथेताधिकरणम् ॥

१ ॐ यथेतमनेवञ्च ॐ

जीवेन यथा येन मार्गेण स्वर्गादिकम् । इतं प्राप्तम् । तथा तेन । अनेवं अन्येन मार्गेण च । जीव इमं लोकमागच्छतीत्यर्थः ।

१० चरणाधिकरणम्

॥ १० ॥ चरणाधिकरणम् ॥

१ ॐ चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः ॐ

गतागतं न यज्ञादेर्भवति । किन्तु चरणात् यज्ञाङ्गभूताचारादेव । चरणाचार इति श्रुतेरिति चेन्न । कुतः यतः श्रुतिः तदुपलीणार्थाजहत्स्वार्थलक्षणया यज्ञाचारोभयप्रतिपादिकेति कार्ष्णाजिनिराचार्यो मन्यते । अत इत्यर्थः । ॥ ११ ॥ आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॐ ॥ उपलक्षणार्थत्वे चरणशब्दस्यानर्थक्यम् । कुतः रमणीयकपूयपदाभ्यामेव कर्मोपलक्षणसम्भवादिति चेन्न । कुतः तदपेक्षत्वात् तस्य साध्वसाधुयज्ञादित्त्वस्य तदपेक्षत्वात् आचारादिसापेक्षत्वात् । तथा च तद्बोधार्थं तत्पदसार्थक्यं सम्भवतीत्यर्थः ।

२ ॐ सुकतदुष्कृते एवेति तु बादरिः ॐ

सुकृथदुष्कृते साध्यसाधुकर्मणी एव श्रुतिस्थचरणशब्दवाच्ये न तु तदङ्गाचरणमिति बादरिराचार्यो मन्त इत्यर्थः । तुशब्दात् स्वशब्दात् स्वसिद्धान्तोऽपि स एव इति सूचयति ।

११ अनिष्याधिकरणम्

॥ ११ ॥ अनिष्याधिकरणम् ॥

१ ॐ अनिष्यादिकारिणामपि च श्रुतम् ॐ

चशब्दो दुःखान्तरसमुच्चये । न केवलमिष्यादिकारिणामेव गतागतं किन्त्विष्यशब्दितयागादिकर्मविरुद्धपापकारिणामपि । कुतः यतः श्रुतं “तस्य इह’ इति (भाल्लवेय’ श्रुत्या तथोक्तम् । अत इत्यर्थः ।

२ ॐ संयमनेत्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॐ

तुशब्दोऽवधारणे । सप्तमी द्वितीयार्थे । संयमने नरके । सम्यम्यमशासनमनुभूयैव स्थितानामितरेषामिष्यादिकारिभ्योऽन्येषां मध्ये आरोहावोहौ केषाञ्चिदारोहः नरकादुत्थानं केषाञ्चिदवरोहः ततोऽपि नीचस्थाने नित्यनरके पातो भवति । कुतः तद्गतिदर्शनात् तेषां अनिष्यादिकारिणां तद्गतेः एवंविधगतेः दर्शनात् “सवर्’ इह इति (कौण्ठरव्य) श्रुतावुक्तत्वादित्यर्थः ।

३ ॐ स्मरन्ति च ॐ

स्मृतिकर्तारः उक्तमर्थं “गच्छन्ति’ इत्यादिस्मृतिभिः प्रतिपादयन्ति चेत्यर्थः ।

१२ अपिसप्ताधिकरणम्

॥ १२ ॥ अपिसप्ताधिकरणम् ॥

१ ॐ अपि सप्त ॐ

स्मर्तारः रौरवादिसप्तविधानपि नरकान् “रौरवः’ इति (भारते’ स्मृतिभिः प्रतिपादयन्तीत्यर्थः ।

१३ तत्राप्यधिकरणम्

॥ १३ ॥ तत्राप्यधिकरणम् ॥

१ ॐ तत्रापि च तद्वयापारादविरोधः ॐ

चशब्दो दुःखानुभवं विनैवेत्यर्थसूचकः । तथा च तत्रापि नरकेऽपि । तद्वयापारात् दुःखानुभवं विनैव तस्येश्वरस्य प्रेरणाख्यव्यापारसत्वादविरोधः । ईश्वरस्य नरके स्थित्वा तत्स्थजीवानियन्तृत्वे “सर्वं’ इति श्रुतिविरोधः । तन्नियन्तृत्वे दुःखभोक्तृत्वमित्युभयविधविरोधो नेत्यर्थः ।

१४ विद्याधिकरणम्

॥ १४ ॥ विद्याधिकरणम् ॥

१ ॐ विद्याकर्मणोरिति तु प्रकृतत्वात् ॐ

तुशब्दोऽवधारणे । “अथैतयोः पथोः’ इति (छां।५-१०-८) श्रुतावेतयोरित्यस्य ज्ञानकर्मणोरित्येवार्थः । न तु दूमाचिरादिमार्गयोरिति । येन जीवस्य फलस्वातन्त्यं स्यात् । कुतः प्रकृतत्वात् । “तद्य इत्थम्’ इति (छां।५-१०) तयोरपि प्रकृतत्वादित्यर्थः ।

१५ तृतीयाधिकरणम्

॥ १५ ॥ न तृतीयाधिकरणम् ॥

१ ॐ न तृतीये तथोपलब्धेः ॐ

तृतीये “तिर्यम्यातना तमः’ इत्युक्ताधोगतिषु तृतीये तमसि । न सुखमस्तीति शेष; । कुतः तथोपलब्धेः तथा प्रतीतेरित्यर्थः ।

२ ॐ स्मर्यतेऽपि च लोके ॐ

अन्धे तमसि सुखराहित्यं “नान्धे तमसि’ इति (भविष्यतपर्व) स्मृतिकर्त्रा स्मर्यते च स्मृत्या च प्रतिपाद्यते । किञ्चैतत् लोकेऽपि लोकदृष्यव्याप्तिकानुमानेनापि सिद्धमित्यर्थः ।

३ ॐ दर्शनाच्च ॐ

तृतीये सुखराहित्यं हिरण्यगर्भप्रत्यक्षाच्च सिद्धमित्यर्थः ।

४ ॐ तृतीये शब्दावरोधः संशोकजस्य ॐ

तृतीय इत्यावर्तते । तृतीये तमसि । तत्रापि तृतीये अन्धे तमसि तद्विषये । यः शब्दः । तेन संशोकजस्य सम्यक् शोकजस्य । मोहस्यावरोधः प्राप्तिर्भवतीत्यर्थः ।

५ ॐ स्मरणच्च ॐ

तमस्त्रैविध्यस्य तृतीयतमसः श्रवणे श्रोतृमोहप्राप्तिश्च “महातमः’ इति )कौर्म) स्मृत्या तदुभयं सिद्धमित्यर्थः ।

१६ तत्स्वाभाव्याधिकरणम्

॥ १६ ॥ तत्स्वाभाव्याधिकरणम् ॥

१ ॐ तत्स्वाभावापत्तिरुपपत्तेः

कर्मणि तत्स्वाभाव्यापत्तिः तस्य धूमादिदेवस्य स्वाभाव्यस्य स्वभावसदृशस्वभावस्य । प्राप्तिरेव । न तदैक्यं तत्पदप्राप्तिर्वा । कुतः उपपत्तेः अन्यस्यान्यैक्यादृष्ययास्यैवार्थस्य युक्तत्वादित्यर्थः ।

१७ नातिचिरेणाधिकरणम्

॥ १७ ॥ नातिचिरेणाधिकरणम् ॥

१ ॐ नातिचिरेण विशेषात् ॐ

स्वगरान्निर्गतः कर्मी नातिचिरेण अचिरेणैव । भूमावागत्य ब्राह्मणादियोनिं प्राप्नोति । न चिरेण । कुतः विशेषात् “तस्य इहेति’ (छां।५-१०-७) विशेषवचनादित्यर्थः ।

१८ अन्याधिकरणम्

॥ १८ ॥ अन्याधिकरणम् ॥

१ ॐ अन्याधिष्ठिते पूर्ववदभिलापात् ॐ

कमिर्णो अन्याधिष्ठिते अन्यजीवाभिमन्यमानव्रीह्यादिशरीरे प्रवेश एव न तु तदभिमानित्वम् । येन दुःखं स्यात् । तर्हि “व्रीहियवाः’ इत्यभेदोक्तिः कथमित्यत उक्तम् । पूर्ववदिति । यथा “धूमो भूत्वा’ इत्यादै (छां।५-१०-५) धूमादिभावोक्तिः तथा । कुत एतत् अभिलापात् “सोऽवामतः’ इति (कौषारव) श्रुतौ तथाभिधानादित्यर्थः ।

२ ॐ अशुद्धमिति चेन्न शब्दात् ॐ

हिंसारूपत्वाद्यज्ञस्य कर्मासिद्धं दुःखसाधनमिति चेन्न । कुतः शब्दात् श्रुतिवाक्यविहितत्वादित्यर्थः ।

१९ रेतोऽधिकरणम्

॥ १९ ॥ रेतोऽधिकरणम् ॥

१ ॐ रेतः सिग्योगोऽथ ॐ

कर्मिणः प्रथमं रेतःसिग्योगः रेतःसिचा पित्रा योगः सम्बन्धः । तत्प्रवेश इति यावत् । अथ अनन्तरम् । मातृप्रवेशो भवति न तु प्रथमेवेत्यर्थः ।

२० योन्यधिकरणम्

॥ २० ॥ योन्यधिकरणम् ॥

१ ॐ योनेः शरीरम् ॐ

ल्यबूलोपे पञ्चमी । कर्मी पितृद्वारा मातृयोनिं प्रविश्यैवाथ तत्र शरीरं न तद्विनेत्यर्थः । इति श्रीजगन्नाथयतिकृतायां सूत्रदीपिकायां तृतीयाध्यायस्य प्रथमः पादः ।