युद्ध-नृसिंह-जपः 2025

Sankalpa and shloka for our Indian Armed Forces by HH Sri Sri Sri Sathyathma Tirtharu

सङ्कल्पः

अस्माकं मातृभूमि-पुण्यभूमि-कर्मभूमिभूतस्य
उपगणस्थानम् आरभ्य ब्रह्मदेशपर्यन्तं परिक्रान्तस्य अखण्डभारतदेशस्य

धीसचिव-कर्मसचिव-कोशसचिव-अमात्य-महामात्य- महामात्र-स्पश-महास्पश-प्रणिधि-महाप्रणिधि- राष्ट्रप्रतिनिधि-राजप्रतिनिधि-महादूतानां राज्याङ्गभूतानाम्
निर्विघ्नराजकार्यपरिपूर्ति-द्वारा

भौशुण्डिक-पादातिक-आयुधिक-कावचिक- कृतपुङ्ख-धानुष्क-रथिकानाम् ,
अनीकिनीपति-वरूथिनीपति-वाहिनीपति- पृतनापति-सेनापति-चमूपति-व्यूहपति-पत्तिपति-गुल्मपति- चक्रपति-गणपति-बलपति-जलदलपतीनाम्
वैमानिक-वैतानिक-वैरात्रिक-वैतालिक-वैज्ञानिकानाम्
अमित-पराक्रमौदार्य-वीर्य-धैर्य-शौर्यावाप्ति-द्वारा

देशाभिवृद्धि-संवृद्धि-संसिद्धि-सद्बुद्धिकण्टकानां महामद-दुर्मदान्ध-दुर्मतान्ध- दुर्विचार-दुराग्रह-दुराचार-दुर्व्यसन- कष्ट-पापिष्ठवरिष्ठ-भ्रष्ट-कष्टातिकष्ट-प्रविष्ट-धृष्टतरारिष्ट(टेररिष्ट)भयोत्पादकादीनाम् अन्तःसत्त्व-सम्प्लव-समूलोत्पाटनार्थं

सरस-रभस-पादापात-भाराभिराव-प्रचलित-
रिपु-वक्षो–रूक्ष-रक्त-प्रवाह–प्रखर-नखर-वज्रोत्खात- रूक्षारि-वक्षः-शिखरि-शिखर-रक्ताक्त-सन्दोह- श्रीमद्-उग्र-नरसिंह–प्रसाद-प्रपुष्ट- हिन्दू-सेना-दर्शनेनैव
शत्रूणां मोहन-भ्रामण-ज्वारण-स्फोटन-वेपन-भीषणो-च्छोषणो-च्चारणोन्मादनोत्तापनोत्तम्भनार्थम्

वीर-धनिक-प्रकाशक-जनप्रशासक- सुहृत्-प्रधानप्रशासक-शूर-पुरोहित-वैद्याभियन्तृ- पोषका-ह्लादक-कल्याणकारक-पदाभिषिक्त- रुद्र-वस्व्-आदित्य-विश्वेदेव-मित्र-वरुण- इन्द्र-पावक-अश्वि-त्वष्टृ-पूष-सोम-भग- नियन्तृ-जगन्मातृ-महालक्ष्मी-प्रसाद-सिद्ध्यर्थम्

आयोधनायोजित-योधानां आयुर्-आरोग्य-स्फूर्त्य्-उत्साह-परिपूर्ति-सिद्ध्यर्थं,

तरु-गुल्मानां छायाप्रदानेन,
महागिरि-महाप्रस्तर-कन्दराणां गूहनेन,
शकुन्तानां शुभ-शकुन-सूचनेन,
सरी-सृपनां विष-बाधा-विदूरणेन च
सहकारावाप्त्य्-अर्थम्

उद्भट-भट-विक्रमाक्रान्त-विजय-लक्ष्मी-प्राप्त्यर्थम् …

श्लोकः

युद्धसन्नद्धयोधेषु स्थित्वान्तःप्रेरको भृशम्। नारसिंहप्रभुः नित्यं हन्यात् दस्युजनान् खलान् ।।