५
संस्कृत व्याख्यानम् –
वेदशास्त्रप्रवर्तनाय कृष्णभीमाभ्यामाज्ञप्तानां दुर्वासःप्रभृतीनां प्रवृत्तिप्रकारः, ततो नानाविधदुर्मत-विजृम्भणं,तन्निरासेन सच्छास्त्रसम्प्रदायप्रवर्तनाय श्रीहर्याज्ञया च वायोरवतारश्चोत्तरसर्गचतुष्टये निरूप्यते । ततःपरमहंसा इत्यादिना । ततः श्रीकृष्णनिर्देशानन्तरं, ये,अत्रिजो दुर्वासा एव आद्यः येषां ते, परमहंसाः
सन्यासिनः कृष्णभीमाभ्याम् अनुशिक्षिताः वेदशास्त्रसम्प्रदायप्रवर्तनाय आज्ञप्ताः । ते परमहंसाः, व्यासस्य
भगवत आश्रयात् आधारात् वेदाश्च शास्त्राणि च वेदशास्त्राणि अवर्तयन् प्रवर्तितवन्तः। वृतु वर्तने- णिजन्त. कर्तरि. लङ्. पर.ब.।।१।।
छ. गू. प्र. –
पूर्वचतुःसर्गे रामकृष्णकथां सङ्क्षेपेण उक्त्वा पारम्पारगुरुपीठिकाकथनार्थं अष्टाविंशतितमे कलियुगे त्रिशतोत्तरे चतुःसहस्रवत्सरे गते सति । त्रैपुराः असुराः बुद्धेन मोहिताः सन्तः । परीक्षिदाद्याः क्षेमकन्ताः राजानः कलियुगे
सहस्रवत्सरान् राज्यं कृत्वा गताः । अनन्तरं नानाप्रकारमिथ्यावादशास्त्राणि चक्रुः । सर्वसिद्धान्तशास्त्रेषु नष्टेषु सत्सु
सच्छास्त्रे सम्प्रदायप्रवृत्त्यर्थं श्रीवायुरवतारं श्रीनारायणाज्ञया चकार । तत्कथामुत्तरचतुःसर्गे नारायणपण्डिताचार्यः कथयति । तत इति । कृष्णपाण्डवगमनानन्तरं कृष्णभीमानुशिक्षिताः अत्रिजो दुर्वासा एव आद्यो येषाम् अत्रिजाद्याः ते तथा । ये परमहंसाः व्यासाश्रयात् वेदशास्त्राणि अवर्तयन् ।।१।।
संस्कृतव्याख्यानम् –
मायावादप्रवर्तकस्य सङ्करस्य उत्पत्तिं वक्तुमुपोद्घातम् आरचयति– कृष्ण इत्यादिना । कृष्णे भीमे विषये अधिकमतिशयितं नवविधमित्यर्थः, विद्वेषं दधतः पूर्वं विद्यमानमेव पोषयन्तः,असुराः कल्यादिदैत्याः, भग्नं नाशितं बाहुबलं येषां ते तथोक्ताः सन्तः, वाग्भिः प्रहरणैः युद्धानि वाग्युद्धानि जल्पवितण्डादिकथारूपाणि तैः, तत्वस्य वेदशास्त्रमुख्यार्थस्य विप्लवमुत्सादनम् ईषुुः ईप्सितवन्तः । इषु इच्छायां धा.अक.कर्तरि.लिट्.पर प्र.ब । बाहुभ्यां कृष्णभीमजयस्य दुष्करत्वं मन्यमाना असुरा विप्रत्वेन अवतीर्य वेदाद्यपार्थकथनादिना तदनीहितमचिकीर्षन् इति भावः ।।२।।
छ. गू प्र
कृष्ण इति । कृष्णे भीमे च कृष्णभीमविषये विद्वेषमधिकम् अति यथाभवति तथा । इदमव्ययम् । दधतः असुराः दैत्याः बाह्वोर्बलं बाहुबलं भग्नं बाहुबलं येषां ते भग्नबाहुबलाः सन्तः वाग्युद्धैः वागाख्यशरैः युद्धानि वाग्युद्धानि तैः तथा । तत्वस्य विप्लवं नाशं तत् तथा ईषुः । इषु इच्छायां लिट् ।।२।।
संस्कृत व्याख्यानम् –
रह इति ।।बुद्धिमन्तः विपरीतलक्षणया दुर्बुद्धिमन्तः, यद्वा अबुद्धिमन्तः इति च्छेदः ।। विरुद्धबुद्धिमन्त इत्यर्थः । नञो विरुद्धार्थकत्वात् । ते कृष्णभीमयोरनिष्टं चिकीर्षन्तःसर्वे समस्ताः दैत्याः एकान्ते सम्भूय
मिलित्वा स्वेषां कार्यस्य तत्वविप्लवकारणरूपस्य सिद्धये,यथाप्रज्ञाविजृम्भणं प्रज्ञायां बुद्धौ विजृम्भणं प्रति-भासमनमतिक्रम्य,यथाप्रज्ञाविजृम्भितमिति पाठे बुद्धौ प्रतिभासमनतिक्रम्येत्यर्थः,स्वच्छन्दमिति भावः । अन्योन्यं परस्परं न्यमन्त्रयन् आलोचितवन्तः । मन्त्रशब्दात् तत्करोतीत्यर्थे णिचि लङ् पर.प्र.ब.।।३।।
छ. गू.प्र. –
रह इति । ये तत्वविप्लं ईषुः ते अबुद्धिमन्तः मिथ्याज्ञानिनः एकान्ते सम्भूय मिलित्वा ते सर्वे, स्वकार्यं स्वेषां कार्यं तस्य सिद्धिः तस्यै स्वकार्यसिद्धये । अन्योन्यं परस्परम् अव्ययं अप्रज्ञायां असद्बुद्धेः विजृम्भणप्रकाशः यथा भवति तथा अप्रज्ञाविजृम्भणं न्यमन्त्रयन् । मन्त्र विचारणे लङ् ।।३।।
संस्कृत व्याख्यानम् –
तेषु मुख्यानां केषाञ्चिन्नामनिर्देशपूर्वकं तद्वचनप्रकारमाह– शकुनिरिति ।। द्वापरो द्वापरयुगाभि- मानी शकुनिस्तन्नामक दैत्यः लोकायतस्य चार्वाकस्य तनूजेन पुत्रेण चाणक्येन तदाख्येन कुनीतिज्ञेन प्रचोदितः सभायां भाषणाय प्रेरितस्सन् तत्वार्थेन स्वस्य तत्वतया सम्मतया बृंहितं पूर्णं वचः आह स्म । ब्रूञ् व्यक्तायां वाचि -धा.सक.कर्तरि लट्.पर.प्र.ए ।।सू ।।लटः स्म इति स्मयोगादतीतार्थत्वं लटः ।।सू ।। ब्रुवः पञ्चानामादित आहो ब्रुवः इति लटि आहादेशः। तत्रार्थबृंहितमिति पाठे तत्र तेषु मध्ये अर्थपूर्णं वचः आह स्म इत्यर्थः।।४।।
छ. गू. प्र. –
शकुनिरिति । लोकायततनूजेन चार्वाकस्य सुतेन चाणक्येन बाणाख्येन इति क्वचित् पाठः । प्रचोदितः द्वापरः द्वापराभिमानी शकुनिः तत्वार्थैः बृंहितं स्वमततत्वपूर्णं वचः आह स्म । स्म अतीते । उवाच । बृंहाद्याहश्च मन्त्राणाम् इति सूत्रेण ब्रूञ् व्यक्तायां वाचि तस्य लटि पञ्चसु आहादेशः । आह लट् परस्मैपदम् ।।४।।
संस्कृत व्याख्यानम् –
वचनप्रकारमाह । दुर्धर्ष इति ।। भीमसेनः, नः अस्माभिः, कर्तरि षष्टी । दुर्धर्षः धर्षयितुमशक्यः ।
कृष्णोऽपि अत्यन्तं दुस्सहः । सोढुमशक्यः । ताभ्यां कृष्णभीमाभ्यां निरीक्षिताः सक्रोधमवलोकिताः,दैत्याः अस्मदाद्याः मृत्युं मरणंयान्ति यास्यन्ति । ‘या प्रापणे’ धा. लट् प. प्र. ब । मृतेर्निष्चिततया वर्तमानसामीप्यात् वर्तमानवद् व्यपदेशः । तत्र सन्देहः नास्ति ।। ५।।
छ.गू.प्र.–
किमित्याह । नः अस्माकं भीमसेनः धर्र्तुम्मशक्यः दुर्धर्षः । कृष्णः अत्यन्तं दुस्सहः उत्कृष्टेन सोढुं अशक्यः । ताभ्यां कृष्ण भीमाभ्य• निरीक्षिताः दैत्याः मृत्युं मरणं यान्ति । तत्र सन्देहः नास्ति । ‘या प्रापणे’ लट् ।।५।।
संस्कृत व्याख्यानम् –
कृष्ण इति ।। कृष्णः दैवं देवता स्वामितया भजनीय इत्यर्थः । भीमः गुरुः तत्वोपदेशकः । पार्र्षती द्रौपदी च वेदविद्या तदभिमानिनी । तस्याः द्रौपद्यभिमन्यमानवेदविद्याया उत्सादनेन अपव्याख्यनपूर्वकं तात्पर्यार्थप्रच्यावनेनैव तौ कृष्णभीमौ अतिसङ्कटं यातःप्राप्नुतः । प्रमाणाभावेन जनानां स्वमाहात्म्यज्ञानदौर्लभ्येनआराधनलोपात् कृष्णस्य, वेदस्य, तत्वज्ञानजननशक्तिकुण्ठने सति तत्वज्ञानार्थं वेदाध्ययनकामजननाभावेन उपदेश्याभावात् स्वस्य उपदेष्टृता लोपात् भीमस्य च सङ्कटं भवतीति भावः ।।६।।
छ. गू.प्र. –
पुनः किमाह । कृष्ण इति । कृष्णः दैवं देवता भीमो गुरुः पार्षती द्रौपदी वेदविद्या वेदशास्त्राभिमानिनी । तस्याः वेदविद्यायाः उत्सादनेनैव विनाशनेनैव तौ भीमकृष्णौ अतिसङ्कटं कष्टं अत्यन्तकष्टं यातः । ‘या प्रापणे’ लट्
द्विवचनम् ।।६।।
संस्कृत व्याख्यानम् –
तस्मादिति ।। तस्मात् वेदोत्सादनेन कृष्णभीमयोः सङ्कटजननरूपात् कारणात् कैश्चित्
अस्मासु समर्थैः भुवि भूमौ उत्पद्य जनित्वा वेदस्य व्याख्यानेन सम्यगर्थवर्णनेन शालिषु विद्वत्पूर्णितेषु जनेषु प्रविश्य विद्या उत्साद्यताम् ।‘षदलृ विशरण गत्यवसाधनेषु’ -धा. कर्मणि लोट्. आत्म. प्र.ए ।।७।।
छ. गू.प्र. –
तस्मादिति । यस्मात् कारणात् अतिसङ्कटं यातः तस्मात् कारणात् जनेषु कैश्चित् दैत्यैः । अव्ययम् । भूतले भूमौ उत्पद्य भूत्वा अव्ययम् । वेदव्याख्यानशालिषु वेदानां व्याख्यानेषु शालिनः आसक्ताः तेषु विद्वत्सु पण्डितेषु जनेषु प्रविश्य वेदविद्या उत्साद्यताम् । षदलृविशरण गत्यवसादनेषु. कर्मणि लोट्. आत्मनेपदम् एकवचनम् ।।७।।
संस्कृत व्याख्यानम्
विपरीतानीति । अपि किञ्च । विपरीतानि विपरीतार्थप्रतिपादकानि बहूनि अनेकानि शास्त्राणि कर्तव्यानि । विपरीतशास्त्राणि च पार्वतीं प्रति रुद्रेण उक्तानि पाद्मे उत्तरखण्डे द्विचत्वारिंशे अध्याये -
रुद्र उवाच––
श्रुणु देवि प्रवक्ष्यामि तामसानि यथाक्रमात् । येषां श्रवणमात्रेण पातित्यं ज्ञानिनामपि ।।
प्रथमं हि मयैवोक्तं शैवं पाशुपतादिकम् । मद्भक्त्यावेशितैर्विप्रैः सम्प्रोक्तानि ततःपरम् ।।
कणादेन तु सम्प्रोक्तं शास्त्रं वैशेषिकं महत् । गौतमेन तथा न्यायं साङ्ख्यं तत्कपिलेन वै ।।
धिषणेन तथा प्रोक्तं चार्वाकमिति गूहितम् । दैत्यानां नाशनार्थाय हरिणा बुद्धरूपिणा ।।
बौद्धशास्त्रमसत्प्रोक्तं नग्ननीलपटादिकम् । मायावादमसच्छास्त्रं प्रच्छन्नं बौद्धमुच्यते ।।
मयैव कथितं देवि कलौ ब्राह्मणरूपिणा । मणिमान्निहतः पूूर्वं भीमेन शुभबुद्धिना ।।
सञ्जातो ब्राह्मणकुले तपसा मां प्रसाद्य वै । मिथ्यावादमसच्छास्त्रं चकार स तु सङ्करः ।।
इत्यारभ्य ‘शास्त्राणि इमानि गिरिजे तामसानि निबोध मे’ इत्यन्तेन असत्तर्कैः व्याप्त्यादिगुणरहितैः प्रमाणबाधादि दोषयुक्तैः च अनुमानैः सत्तर्कैः व्याप्त्यादि गुणयुक्तैः वेदो अप्रमाणं निरर्थकत्वात् कचटतपादिवत् असङ्गतत्वात् जरद्गवादिवाक्यवत् इत्याद्यनुमानैश्च वेदविद्या निरस्यतां उत्साद्यताम् । ‘असुक्षेपणे’ धा. कर्मणि लोट् ।।८।।
छ. गू. प्र –
विपरीतानीति ।। विपरीतानि मिथ्या भूतानि शास्त्राणि कर्तव्यणि अपि असत्तर्कैः वेदविद्या निरस्यतां
कैश्चिदपि । ‘असु क्षेपणे’ लोट् आत्मनेपदम् ।।८।।
संस्कृत व्याख्यानम् –
वेदेति । कार्यान्तरं कृष्णभीमक्लेशोत्पादनरूपं स्पृहयन्तीति तथोक्तानां कार्यान्तरस्पृशामिति पाठे कार्यान्तरं स्पृशन्ति अङ्गीकुर्वन्ति इति तादृशानां इत्यर्थः। नः अस्माकं, वेदाश्च शास्त्राणि च तेषां समाहारो वेदशास्त्रं,तस्मात् तत्परित्यागात् इत्यर्थः । भीतिः नास्तिकताप्राप्तिरूपा नास्ति । वेदविप्लवनाय चार्वाकशास्त्रेणैव अलं, किमनेन अभिनवमार्गान्वेषणेन इत्यत आह -लोकायतेति ।। जनैः आस्तिकैः लोकयतस्य चार्वाकस्य मतं, मानैः प्रत्यक्षातिरिक्त वेदादि प्रमाणैः हीनं वेदादिविरुद्धार्थप्रतिपादकमित्यर्थः । इत्यतो हेतोः नाद्रियते नाङ्गीक्रियते । ‘दृञ् आदरणे’ धा कर्मणि लट्. आत्म. प्र. ए.। नाद्रियते जनः इति पाठे जनः आस्तिकलोकः नाद्रियते न विश्वसति इति व्याख्येयम् । तदा कर्तर्येव लट् ।।९।।
छ.गू.प्र –
वेदेति ।। कार्यान्तरस्पृहां अन्यत् कार्यं कार्यान्तरं कार्यान्तरे स्पृक् इच्छा येषां ते कार्यान्तरस्पृहः तेषां नः
अस्माकं वेदशास्त्रात् द्वन्द्वैकवद्भावः । भीतिः नास्ति । लोकायतमतं चार्वाकशास्त्रं मानहीनं प्रामाणरहितमिति नाद्रियते नमन्यते । ‘दृञ् आदरणे’ कर्मणि लट् ।।९।।
संस्कृत व्याख्यानम् –
एवं तर्हि जनविश्वसनीयैरक्षपादादिसमयैः इष्टसिद्धिः स्यात् इत्याशङ्क्याऽह- अक्षपाद इति ।। अक्षपादः तन्नामा कश्चित् शास्त्रप्रणेता कणादो वैशेषिकसमयप्रवर्तकः, अपरो नारायणावतारात् कपिलादन्यः, जडः तत्वज्ञानरहितः, कपिलस्तन्नामकदैत्यश्चेत्येते,शास्त्रान्तराणि भिन्नभिन्नशास्त्रान्तराणि कृत्वापि वेदद्वेषं वेदे कण्ठतो अप्रामाण्यकथनरूपं विरोधं न कुर्वते नाचरन्ति । अतो न तैरिष्टसिद्धिप्रत्याशेति भावः । ‘डुकृञ् करणे’ धा. कर्तरि लट्.आत्म. प्र. ब. । कपिलश्चापरो जन इति पाठे अपरो जनः स्फोटब्रह्मतावादी पाणिन्यादिरित्यर्थः ।।१०।।
छ. गू. प्र. –
अक्षपादः कणादश्च कपिलश्च अपरः अन्यो जनः जनसमूहः । शास्त्रान्तराणि शास्त्राणि कृत्वापि वेदद्वेषं न
कुर्वते । डुकृञ् करणे कर्तरि लट् आत्मनेपदं बहुवचनं ।।१०।।
संस्कृत व्याख्यानम् –
स्फुटवेदाप्रामाण्यवादिबौद्धशास्त्रेणापीष्टसिद्धिप्रत्याशा नास्तीत्याह- हरेणेति ।। पूर्वं हरेण रुद्रेण निहताः, त्रैपुराः रौप्यायसहिरण्मयभेदेन त्रयाणां पुराणां सम्बन्धिनः तत्र वसन्त इत्यर्थः, असुराः पुनः जाताः
भुव्युत्पन्नाःसन्तः,संसर्गस्य आस्तिक्यहननसम्बन्धस्य दोषेण असुरेषु हीनतया सम्भावनीयाःसन्तः, त्रयीं वेदं श्रद्धधुः प्रमाणत्वेन आदृतवन्तः । ‘डुधाञ् धारणपोषणयोः’-धा. सक.कर्तरि लिट्.पर.प्र.ब.।।११।।
छ. गू.प्र. –
हरेणेति ।। पूर्वं हरेण निहताः हताः त्रिपुराणां सुवर्णरजतायसां सम्बन्धिनः असुराः पुनर्जाताः इति शेषः ।
संसर्गस्य सम्बन्धस्य दोषः तेन । पामराः नीचाः सन्तः त्रयीं वेदविद्यां श्रद्धधुः । स्वीकृतवन्तः विश्वासं चक्रुः । ‘डुधाञ् धारण पोषणयोः’ । विवर्णः पामरो नीचः इत्यमरः ।।११।।
संस्कृत व्याख्यानम् –
बुद्धः तन्नामकरूपधारी हरिः वेदः अप्रमाणं अयथार्थज्ञानजनकः इत्येवम् उक्त्वा अनृतत्वव्याघात-नैरर्थक्यसिद्धार्थबोधकत्वादिहेतुभिरुपपाद्य,तान् त्रैपुरान् असुरान् व्यमोहयत् । बाल्ये एव स्वीयजातकर्मादि-
संस्कारकाले दीयमानाहुतिग्रहणायागतानां रुद्रादिसर्वदेवानां आयुधनिगरणाद्यशक्यकार्यकरण•दिना
स्वमाहात्म्यं प्रदर्श्य बालेनापि स्वेनेरीते अर्थे विश्वासमुत्पाद्य मोहितांश्चकार । हि प्रसिद्धम् । ततो अनन्तरं ते परं आपाततः प्रतीयमानादन्यं देवादिवेद्यत्वेन श्रेष्टं च तस्य बुद्धस्य हरेर्मतिं शून्यादिशब्दानां ‘शमूनं कुरुते
यस्मात्’इत्याद्यविरुद्धसद्भावरूपां अज्ञात्वा बौद्धशास्त्रम् आपाततो बुद्धोक्तमार्गानुसारित्वात् तथा व्यवह्रिय-माणशास्त्रं तेनुः विस्तारितवन्तः । तनु विस्तारे धा.लिट्. पर. पर.ब.।।१२।।
छ. गू. प्र. –
वेद इति ।। बुद्धावतारे देवः अप्रमाणमित्युक्तत्वा तान् त्रैपुरान् असुरान् अमोहयत्।मुहु वैचित्ये लङ् । हि
प्रसिद्धिः । ततो दैत्याः सार्वविभक्तिकस्तसिः । परं तन्मतं सम्मतं तत्तथा अज्ञात्वा बौद्धं बुद्धसम्बन्धिनं शास्त्रं तेनुः । तनु विस्तारे लिट् ।।१२।।
संस्कृत व्याख्यानम् –
ब्रह्म वेदं हरिं वा अणन्ति जानन्ति इति ब्राह्मणाः आस्तिकाः इत्यर्थः । पृषोदरादित्वात् वर्ण-
व्यत्ययः । यद्वा ब्राह्मणाः ब्राह्मणादयः सर्वेऽपि वेदप्रामाण्याभ्युपगन्तारः ।।सू ।। कडाराः कर्मधारय इत्यत्रेव
बहुवचनमाद्यर्थे । निर्गता आश्रमेभ्यः ब्रह्मचर्यादिभ्यो निराश्रमाः तान्, दुराचारान् नग्ननीलपटधारणादिगर्हिता-चारयुक्तान् श्रुतीः वेदान्, प्रत्यक्षं स्फुटं, द्विषतः अप्रमाण्यमभ्युपगच्छतः,वेदबाह्यान् वेदानधिकारिणः, न विद्यते कौशलं समयोचिताचारचातुर्यं येषां ते, एतान् दैत्यस्वरूपान् बौद्धान् गर्हयन्ति निन्दन्ति । गर्ह कुत्सायां-धा सक.कर्तरि लट्.पर.ब.।।१३।।
छ.गू. प्र –
निराश्रमानिति । ब्रह्म अणन्तीति ब्राह्मणाः दुराचारान् अण पणगतौ, गत्यर्थास्ते ज्ञानार्थाः निराश्रमान् निर्गताः आश्रमाः ब्रह्मचर्याद्याः येषां ते तान् श्रुतीः वेदान् । प्रत्यक्षं साक्षात् साक्षात्कारमित्यव्यम् । विद्विषतः द्वेषं कुर्वतः वेदबाह्यान् अकौशलान् जातु दैत्यान् एतान् गर्हयन्ति । ‘गर्ह निन्दायां’ लट् ।।१३।।
संस्कृत व्याख्यानम् –
जैनादिमतान्यप्येवमेवेत्याह जैनेति ।। जैनाः जिनोक्ततत्वाभ्युपगन्तारः आर्हताःपाशुपताः पशुपतेः शिवस्य भक्ताः शैवपाशुपतकालामुखमहाप्रभेदेन चतुर्विधाश्च आद्या येषां ते वादिनश्च, न केवलं बौद्धा इति चार्थः । लोकानां वैदिकजनानां विद्वेषस्य गेचराः विषयाः । कुत एवम् ? अत उक्तम्- वेदेति ।। एते जिनाद्याः वेदविद्वेषिणोऽपि श्रुतिविरोधिनोऽपि तत्र वेदविरोधकरणे उपायं न जानते न जानन्ति । ‘ज्ञा अवबोधने’ धा. सक. क र्तरि लट्.आत्म.प्र ब.।।१४।।
छ. गू.प्र. –
जैनेति । जैनाश्च पाशुपतशास्त्रज्ञाः लोकविद्वेषगोचराः लोकविद्वेषस्य गोचराः । इत्येते । तत्र द्वेषे उपायं युक्तिं न जानते । ‘ज्ञा अवबोधने’ लट् बहुवचनम् ।।१४।।
संस्कृत व्याख्यानम् –
अधुना स्वाभिमतमुपायमाह – सर्वानित्यादिना ।। अस्मासु एकः द्विजो ब्राह्मणः भूत्वा,परमुत्तमं, आश्रमं यत्याश्रमं श्रितस्सन् वेदान्ती इति व्यपदेशेन व्यवहारेण । इत्थम्भूतलक्षणे तृतीया । सर्वान् वेदान् निरस्स्यन् अभिमतार्थप्रच्यावनेन निराकुर्वाणः पुरुषः, नः अस्माकं पर उत्तमः, सुहृत् प्रियः । वेदप्रामाण्याभ्युप-गन्तृवेषेणैव वेदविप्लावने कृते नास्माकं लोकविद्वेषगोचरता भवतीत्येव मुख्य उपाय इति भावः ।।१५।।
छ. गू.प्र. –
सर्वानिति । कश्चित् द्विजो भूत्वा परं आश्रमं सन्न्यासाश्रमं आश्रितः सन् वेदान्तिव्यपदेशेन वेदान्तिनः
व्याजेन वेदान्तिव्याजेन सर्ववेदान् तान् निराकरिष्ययतीत्यर्थः । कारकपदम् । अस्माकं परः मुख्यः सुहृत् सखा ।।१५।संस्कृत व्याख्यानम् –
प्रकृतकार्यकुशलं शृृङ्गग्राहिकतया दर्शयति – अस्मिन्निति । अयं यः पुरा भीमेन संहृतत्वात् स्वत एव भीमद्वेषयुक्त स इत्यर्थः, मणिमान् तन्नामको दैत्य एव नान्य एतादृश इत्येवकारार्थः, अस्मिन् प्रकृते वेद-विप्लावानरूपे कार्ये विदग्धः कुशलः दृश्यते मया इति शेषः । ‘दृशिर् प्रेक्षणे’ धा कर्मणि लट् । मणिमानेव लक्ष्यते इति पाठे लक्ष्यते प्रकृतकार्यकरणोपयोगिलक्षणवत्तया ज्ञायते इत्यर्थः । अयं मणिमान् अधुना राज्ञा कलिना कार्यस्य वेदविप्लावनरूपल्य सिद्धये आदेष्टव्यः आज्ञापितव्यः । स्वत एव भीमप्रतीकारम् इच्छन् अयं आज्ञापितश्चेत् कार्यं शीघ्रं सेत्स्यतीति भावः ।।१६।।
छ.गू.प्र.–
अस्मिन्निति । अस्मिन् कार्ये विदग्धोयं कुशलः मणिमानेव दृश्यते । अमुना राज्ञा कलिना कार्यसिद्धये आदेष्टुं आज्ञापयितुं योग्यः आदेष्टव्यः । मया इति शेषः । दृश्यते ‘दृशिर् प्रेक्षणे’ लट् आत्मनेपदम् ।।१६।।
संस्कृत व्याख्यानम् –
एवमिति ।। एवमुक्तप्रकारेण द्वापरेण शकुनिना उक्ताः कलिः पूर्वः येषां ते सुरद्विषो दैत्याः, हृष्टाः सन्तुष्टाः सन्तः मणिमन्तम् आहूय आकार्य सम्भाव्य मानयित्वा बभाषिरे जगदुः । ‘भाषृ व्यक्तायां वाचि’- धा- सक.कर्तरि लिट्. आत्म. प्र.ब.।।१७।।
छ. गू. –एवमिति ।। द्वापरेण द्वापराभिमानिना उक्ताः कलिःपूर्वः येषां ते दैत्याः हृष्टाः सन्तः मणिमन्तं बभाषिरे । भाषव्यक्तायां वाचि लिडात्मनेपदम् ।।१७।।
संस्कृत व्याख्यानम् –
वचनप्रकारमाह- याहीत्यादिना ।। हे भ्रातः सहोदर हे मणिमन् । परमप्रीतिविषयत्वात् भ्रातृपदेन
सम्बोधनम् । याहि गच्छ, भूमिं प्रति इति शेषः । ‘या प्रापणे’-धा-कर्तरि लोट्.पर.म.ए । तुभ्यं नमः
प्रणामोऽस्तु । त्वं मह्याः भुवस्तलप्रदेशे द्विजकुले इति शेषः, उत्पद्यस्व जायस्व । ‘पद गतौ’ धा.कर्तरि लोट् आत्म,म ए. । उदुपसृष्टत्वात् जन्यर्थत्वमकर्मकता च। वेदाः पुराणानि च आद्यानि यासां ताः, विद्याः चतुर्दश-विद्याः, भृशमत्यन्तं दृतं शीघ्रं विप्लावय नाशय, तत्वज्ञानजननशक्तिरहिताः कुरु इत्यर्थः । ‘प्लव् गतौ’-धा.
सक, णिजन्तः, कर्तरि लोट् पर. म. ए. । विपूर्वकत्वात् नाशार्थत्वम् ।।१८।।
छ. गू.प्र. –
याहीति ।। हे भ्रातः सहोदर मणिमन् तुभ्यंं नमः । त्वं भूमिं प्रति इति शेषः। याहि गच्छ।याप्रापणे लोट्
परस्मैपदम् । त्वं महीतले उत्पद्यस्व । ‘पद गतौ’ कर्तरि लोेडात्मनेपदम् । वेदपुराणाद्याः विद्याः । भृशं सम्यक् दृतं शीध्रं विप्लावय । ‘प्लव गतौ’ कर्तरि लोट् ।१८।।
संस्कृत व्याख्यानम् —
विद्याविप्लावनप्रकारमाह– विदूषयेति ।। विष्णोः देशतः कालतः गुणतश्च व्याप्तस्य हरेः, गुणान् जगत्स्रष्टृत्वादीन् विदूषय मिथ्यात्वविकल्पनादिना निन्दय । ‘केवलो निर्गुणश्चे’ति श्रुतेः आपातप्रतीतमर्थ-माश्रित्य निर्गुणं ब्रह्म तत्वं ब्रूहि इति भावः । ‘दुष वैकृत्ये’ -धा. सक, णिजन्तः, कर्तरि लोट् पर. म. ए.। जीवानामैक्यं परस्परं ब्रह्मणा चाभेदं, प्रतिपादय ‘तत्वमसी’ति श्रुतेः आपातप्रतीतिमनुरुद्ध्य ब्रूहि । ‘पद गतौ’
धा.सक, णिजन्तः,कर्तरि लोट् पर. म. ए. । ननु भीमभीत्या नेदं मया कतुर्ं शक्यमित्यत आह – भूमाविति। भूमौ भूलोके वृकोदरस्य भीमस्याभावात्, त्वं आशङ्कां मृतिशङ्कां कर्र्तुं नार्हसि । ‘अर्ह पूजायां योग्यत्वे च’-
धा. कर्तरि लोट् पर. म. ए.।।१९।।
छ. गू. प्र. —
हे मणिमन् त्वं विष्णोः गुणान् विदूषय दुष दूषणे लोट् । जीवैक्यं जीवानां ब्रह्मणा सहैक्यं एकत्वं जीवानां परस्परमैक्यं च प्रतिपादय । ‘पद गतौ’ लोट् । भूमौ वृकोदराभावात् आशङ्कां कर्र्तंु नार्हसि । ‘अर्ह पूजायां’ लट् परस्मैपदं मध्यमपुरुषैकवचनम् ।।१९।।
संस्कृत व्याख्यानम् —
नन्विदानीं भीमस्य भूमावभावेऽपि अस्मदारम्भविज्ञानेन भूमिं प्रत्यागमने किं मया विधेयमित्यत आह– अस्मास्विति । स्वस्थः स्थिरचित्तः स्वर्गस्थश्चापि, अयं भीमः,अस्मासु मणिमत्प्रभृतिषु बद्धं स्थिरी-कृतं वैरं विरोधो येन तथोक्तस्सन् अस्वस्थतां कदा नु दैत्यान् हनिष्यामीति उत्कटमनश्चाञ्चल्यं गतोऽपि, विष्णोः हरेः अनुज्ञाभावतः आज्ञाविरहितो अधुना सम्प्रति भवत्प्रयत्नकाले एव नावतारति न प्रादुर्भवति । अधुना इति वर्तमानकालवाच्यव्यययोगात् अवतरति इति वर्तमाननिर्देशः । तेन न भविष्यदर्थकलकाराभाव-विरोधः ।।२०।।
छ. गू. प्र —
भीमाभावस्य कारणमाह -अस्मास्विति । अयं भीमः अस्मासु बद्धं वैरं यस्य सः बद्धवैरः सन् स्वस्थोऽपि
अस्वस्थस्य भावो अस्वस्थता । तां तथा गन्तुं विष्णोरनुज्ञाभावतः अस्मद्धेतुतः अधुना नावतरति नायाति । तृ प्लव तरणयोः ।।२०।।
संस्कृतव्याख्यानम् —
जन्मानन्तरं सन्न्यासग्रहणायान्वेषणीयान् जनानाह– वंश्या इति । सनकादीनां वंश्याः सन्न्यास-ग्रहणेन विद्याग्रहणेन च वंशे भवाः, एकदण्डाः त्रिदण्डाश्च तेषां सनकादीनामनुव्रताः अनुसारिणः यतयः
सन्न्यासिनः, अधुना, भुवि, वर्तन्ते सन्ति । ‘वृतु वर्तने’ - धा. अक.कर्तरि. लट्. पर. प्र.ब. ।। २१ ।।
छ.गू.प्र. —
वंश्या इति ।। अधुना भुवि सनकादीनां वंशे भवाः वंश्याः एकदण्डो येषां ते एकदण्डाः । त्रयो दण्डा येषां ते त्रिदण्डाः यतयः सनकादाीनां तदनुव्रताः सन्तः वर्तन्ते । ‘वृतु वर्तने’ लडात्मनेपदम् ।। २१ ।।
संस्कृत व्याख्यानम् —
परतीर्थेति । तत्र तेषु सन्न्यासिषु मध्ये को मुख्यः, महत् अधिकं तपो यस्य स तथोक्तः, महत्तम इति पाठे अतिशयेन महान् इत्यर्थः । परतीर्थ इत्यभिधा नाम यस्य सः यतिः सन्न्यासी अस्तीतिशेषः । तं परतीर्थं आश्रित्य, तच्छिश्यो भूत्वा इत्यर्थः । प्रवर्थस्व वेदविप्लावनविधौ प्रवत्तो भव । ‘वृतु वर्तने’ धा लोट् आत्म,
म,ए । ततः तच्छिष्यत्वात्, त्वं जनैः सम्भाव्यसे मान्यसे । ‘भू प्राप्तौ’-धा.सक, णिजन्तः, कर्मणि लट्, आत्म, म. ए.। सम्पूर्वकत्वात् मानार्थकता ।।२२।।
छ. गू. प्र.—
परेति । तत्र भरतखण्डे महत्तपो यस्य सः महातपाः परतीर्थाभिधः परतीर्थेति अभिधा यस्य सः परतीर्था-
भिधः । एको मुख्यस्तिष्ठति वर्तते । त्वं तं परतीर्थं आश्रित्य प्रवर्तस्व औतमिति शेषः । ‘वृतुवर्तने’ लोडात्मने-
पदम् । ततो अनन्तरं जनैःसम्भाव्यसे लडात्मनेपदम् । ‘एके मुख्यान्यकेवलाः’ इत्यमरः ।।२२।।संस्कृत व्याख्यानम् —
सन्यासान्तरकार्यमाह– वेदान्तेति ।। हे मणिमन् त्वं वेदानामन्तो निर्णयो येभ्यस्तानि च तानि
सूत्राणि ब्रह्मसूत्राणि च तैः, यद्वा -वेदान्ता उपनिषदश्च सूत्राणि च तैः एको भेदरहित आत्मा सद्रूपः एकात्मा तस्य भावः ऐकात्म्यम् आत्मैकत्वमित्यर्थः । तद्गोचरो विषयो यस्य तत् । एकात्मगोचरमिति पाठे एको भेद-
वर्जित आत्मा सद्रूपः गोचरो विषयो यस्य तत् इत्यर्थः । अस्माकं दैत्यानां मतं वितत्य विस्तार्य,आत्मैक-त्वपरतया उपनिषत्सूत्राणि च योजयद्भाष्यं विधायेति भावः । सकलान् समस्तान् वेदान् ‘द्वासुपणे’त्यादीन्, अतत्वमयथावस्थितं मिथ्याभूतमावेदयन्तीति अतत्वावेदकाः तान् वद ब्रूहि । कुर्विति पाठे तथा प्रतिभासमानान् तान् कुर्विति भावः ।।२३।।
छ.गू.प्र––
वेदन्तेति । हे मणिमन् त्वं ऐकात्म्यगोचरं सदात्मस्वरूपं यस्य स एकात्मा । एकात्मनो भावः ऐकात्म्यं गोचरः विषयः यस्य तत्तथा । अस्माकं मतं शास्त्रं वेदान्तसूत्रैः वेदान्तोपनिषत्सूत्राणि ब्रह्मसूत्राणि च वेदान्तसूत्रौः तथा वितत्य विसृत्य सकलान् वेदान् अतत्वावेदकान् अतत्त्वमयथार्थः असम्मतान् वेदयन्तीति अतत्त्वावेदकाः तान् वद । ‘वद व्यक्तायां वाचि’ लोट् परस्मैपदम् ।। २३ ।।
संस्कृत व्याख्यानम् —
मिथ्यावादमिति । ततो मनोमालिन्यात् ते सज्जना अपि केचित् मिथ्यावादं, विश्वं मिथ्या इति वादो यस्मिन् तत् तत्वशास्त्रं श्रद्धधते विश्वसन्ति । ‘डुधाञ् धारणपोषणयोः’ धा.सक. कर्तरि लट् आत्म.प्र ब.। परे असुरावेशवशीकृतेभ्यो भिन्नाः तद्वादनिराकरणसमर्थाः, मिथ्यावादम् उदासते उपेक्षन्ते । उत् पूर्वकात् ‘आस उपवेशने’ इत्यतो आत्मनेपदे प्रथमपुरुषे बहुवचनम् । कश्चिदेव शक्तिमान् पण्डितः,मिथ्यावादं निराकर्तुं सर्वस्य मिथ्यात्वे श्रुत्यर्थतया अङ्गीकृते सर्वान्तःपातिनो गुरुशिष्यभावोपास्योपासकभावादेः मिथ्यात्वापत्त्या वेेदान्तश्रवणाद्यभावप्रसङ्ग इत्यादिरूपेण दूषयितुं, समीहते यतते । ‘ईह चेष्टायां’-धा.कर्तरि. लट्. आत्म.
प्र. ए. । केचित् श्रद्धधिरे परे । ‘उदासते निराकर्तुं केचिदेव समीहते’ इति पाठस्तु लेखकदोषनिबन्धनः, प्राचीनकोशेष्वदर्शनात्, असङ्गतत्वाच्चोपेक्ष्यः ।।२६।।
छ.गू.प्र.—
मिथ्येति । ततः अनन्तरं केचित्तेऽपि सज्जनाः मिथ्यावादं श्रद्धधिरे । विश्वासं चक्रुः । श्र इत्युपसर्गः ‘डुधाञ् धारण पोषणयोः’ लडात्मनेपदम् । अपरे अन्ये निराकर्तंु उदासते । ‘आस उपवेशने’ प्रथमपुरुषबहुवचनम् । कश्चिदेव निराकर्तुं समीहते । ‘ईह -इच्छायां’ कर्तरि लिडात्मनेपदम् बहुवचनम् ।२६।।
संस्कृत व्याख्यानम् —
नन्वसहायस्य मम कथमिदं कार्यं सुकरं स्यादित्यत आह– अभिप्रायादिति । अस्माकं जनाः दैत्याः केचित् कतिपयाः,अभिप्रायात् वेदविद्योत्सादनाभिप्रायात्, कर्मतः जन्मान्तरप्रापककर्मवशात् वा भुवि भूमौ जाता उत्पन्नाः सन्ति । अन्ये जनिष्यन्ति, त्वज्जन्मानन्तरमिति शेषः । अतः त्वं निस्सहायः सहायरहितः,न
जायसे न भवसि । जनी प्रादुर्भावे धा.अक.कर्तरि(जनिष्यन्ति) लट्.पर.प्र.ब.(जायसे) लट्.आत्म.म.ए.
।। २७ ।।
छ.गू. प्र. —
अभिप्रायादिति । केचिदस्मज्जनाः दैत्याः भुवि अभिप्रायात् स्वेच्छया कर्मतोवा जाताः अन्ये अपरे जनिष्यन्ति । हे मणिमन् त्वं निर्गतः सहायो यस्मात्सः निस्सहायः सन् न जनिष्यसि । जायसे । ‘जनी प्रादुर्भावे’
।। २७ ।।
संस्कृत व्याख्यानम्—
इतीति । इत्येवं दैत्यैः कल्यादिभिः समादिष्टः आज्ञप्तः, मणिमान् भीमस्य वृकोदरस्य भीमतां भयङ्करतां मनसा शङ्कमानोऽपि भुवि भूमौ, उत्पत्तौ मनः दधे भुव्युत्पत्तुम् अनुमेने इति भावः । ‘डुधाञ् धारणपोषणयोः’ धा.सक.कर्तरि. लिट्.आत्म. प्र.ए. ।। २८ ।।
छ. गू प्र—
इतीति । एवं दैत्यैः समादिष्टः मणिमान् मनसा भीमभीमतां भीमस्य भयङ्करस्य भावः भीमभीमता तां तथा शङ्कमानोऽपि भुवि उत्पत्तुं मनो दधे । ‘डुधाञ् धारणपोषणयोः’ लिडात्मनेपदम् ।। २८ ।।
संस्कृत व्याख्यानम् —
कथान्तरमाह – तदिति । तत्काले मणिमदुत्पत्तिनिर्णयकाले, सकला मही भूमिः शाक्यशास्त्रेण बौद्धशास्त्रेण विस्तृता व्याप्ता अभूत् । प्रसृता इत्यपि पाठः । ततो बौद्धसास्त्रात्, वैदिका वेदोक्ता आश्रमा-ब्रह्मचर्यादयोधर्मा गुरुकुलवासाग्निहोत्रवनवासप्रणवजपादयश्च आदयो यस्य तस्य धर्मज्ञानादेः, पराभूतिः
तिरस्कारः, अभूत् ।।२९।।
छ.गू.प्र.—
तत्काले इति । तत्काले मणिमदागमनकाले शाक्यशास्त्रेण सकला मही विस्तृता व्याप्ता । ततो वैदिकाश्रम-धर्मादेः वेदानां सम्बन्धिनो वैदिकाः, वैदिकाश्च ते आश्रमाश्च वैदिकाश्रमधर्माश्च वैदिकाश्रमधर्माः, वैदिकाश्च धर्मादयो यस्य स तथा पराभूतिः तिरस्कारः अभूत् । लुङ् ।।२९।।
संस्कृत व्याख्यानम् —
पराभूतिप्रकारमाह– इन्द्रजालैरिति ।। सौगता बौद्धाः प्रभुं तद्देशाधिपं, राजानम्, इन्द्रजालैः
अविद्यमानवस्तुप्रदर्शनादिभिः मोहकैः वशीकृत्य, शून्यं तत्वमनारोपितं वस्तु, इति,संश्राव्य उपदेश्य च तेन राज्ञा प्रयोजककर्त्रा सतः सज्जनान् उदसादयन् उत्सादितवन्तः । सौगतः प्रभुः इति पाठे प्रभुः समर्थः सौगतः बौद्धाचार्यः सतः सज्जनान् उदसादयत् इति व्याख्येयम् । सौगतमिति पाठे तु राजविशेषणमिदम् । सुगतदेशा-धिपमित्यर्थः ।।३०।।
छ.गू.प्र.—
कथमित्यत आह - इन्द्रजालैरिति । इन्द्रजालैः मायाविद्याभिःसुगतसम्बन्धि सौगतं प्रति सुगतसम्बन्धि-देशस्य राजानं प्रभुं वशीकृ त्य सतःसमस्तान् जनान् शून्यतत्वं संश्राव्य सम्यगुपदेशं कृत्वा तेन राज्ञा वैदिकाश्रम इति शेषः । उदस•दयन् ‘षदऌविशरणगत्यवसादनेषु’ लट् परल्मैपदम् ।।३०।।
संस्कृत व्याख्यानम् —
बौद्धोत्सादनं वक्तुमुपोद्घाततया कथान्तरमाह– तत इति । ततः अनन्तरं, गोविन्द इति नाम यस्य सः, विद्यासु वेदादिषु विशारदः पण्डितः,द्विजो विप्रः अभूत् । स गोविन्दः, चतुर्वर्णेषु ब्राह्मणक्षत्रिय-वैश्यशूद्रेषु जाताः कन्याः, ऊढ्वा विवाह्य, पुत्रान्, अजीजनत् उत्पादितवान् । ‘जनी प्रादुर्भावे’- धा.
सक.णिजन्तः. कर्तरि. लुङ्. पर. प्र.ए. ।। ३१ ।।
छ. गू. प्र. —
तत इति । ततो अनन्तरं विद्याविशारदः विद्यायां कुशलः गोविन्दनामा गोविन्दभट्ट इति नाम यस्य स तथा द्विजो अभूत् । सः गोविन्दभट्टः ब्राह्मणादिचतुर्वर्णेभ्यो चतुर्वर्णजाः ऊढ्वा अवाप पुत्रान् अजीजनत् उद्वाह्य जनया-मास । जनी प्रादुर्भावे लट् ।। ३१ ।।
संस्कृत व्याख्यानम् —
पुत्राणां नामान्याह- शबर इति । शबरः, विक्रमादित्यः,हरिश्चन्द्रः,अथ सर्वेभ्योऽनन्तरं,भर्तृहाभर्तृहरिः, भर्तृहृत् इत्यपि पाठः । इत्येते क्रमात् ब्राह्मण्यादिषु जाताः, पुत्राः, धृतानि गृहीतानि वर्णानां ब्राह्मणादीनाम् आश्रमाणां ब्रह्मचर्यादीनां च व्रतानि यैस्ते, कोविदाः पण्डिताः,आसन् अभवन् । ‘अस भुवि’-धा. अक, कर्तरि लङ् प्र.ब.।।३२।।
छ.गू.प्र.—
कस्यां कस्यां कः को जातः तेषां नाम किमिति जिज्ञासायामाह- शबर इति । शबर इति ब्राह्मण्यां शबरः । क्षत्रियायां विक्रमादित्यः । वैश्यायां हरिश्चन्द्रः । शूद्रायां भतृहृत् । दकारान्तः । इतिनामानः कोविदाः एते कुमाराः
धृतव्रणाश्रमव्रताः धृतानि वर्णाश्रमव्रतानि येषां ते ब्रह्मक्षत्रियवैश्यशूद्राणां ते तथा आसन् । ‘अस भुवि’ लङ् ।।३२।।
संस्कृत व्याख्यानम् —
गोविन्द इति । गोविन्दः,दाराः भार्याः पुत्राश्च आद्या यस्य गृहादेः तत्,विहाय त्यक्त्वा,महीं भूमिम् अचारयत् सञ्चारं कृतवान् । ‘चरगति भक्षणयोः’ इत्यतः स्वार्थे णिचि लङ् परस्मैपदम् । विहायाथाचरन्महीम् इत्पि पठन्ति । शबरः तन्नामा ब्राह्मणीपुत्रः, रहः विजने, जैमिनेः व्यासशिष्यस्य तन्नाम्नो ऋषेः, सूत्राणां कर्ममीमांसापराणां भाष्यं, ‘सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः ।।’ इत्युक्तलक्षणकं व्याख्यानग्रन्थं,कृतवान् । ‘डुधाञ् धारणपोषणयोः’ -धा. सक, कर्तरि लङ्, आत्म,प्र ए.।।३३।।
छ.गू.प्र.—
गोविन्द इति । अथ पुत्रजननान्तरं गोविन्दः दारपुत्राद्यं दाराश्च पुत्राश्च दारपुत्राः त एव आद्या यस्य
तत् दारपुत्राद्यं क्षत्रियादि विहाय महीं अचरत् ‘चरगतिभक्षणयोः’ लङ् । शबरो ब्राह्मणीजः जैमिनेःसूत्राणां भाष्यं
व्याख्यानं रहः एकान्ते व्यधत्त चकार । ‘डुधाञ्’ धारणपोषणयोः लङ•त्मनेपदम् ।।३३।।
संस्कृत व्याख्यानम्—
क्ष्मामिति । विक्रमादित्यःतन्नामकःक्षत्रियकन्यापुत्रः,क्ष्मां भूमिम् अपात् अरक्षत् । ‘पा रक्षणे’-धा. सक. कर्तरि लङ्. परस्मै.प्र.ए. । हरिश्चन्द्रः एतदाख्यो वैश्यकन्याजः, सुरोत्तमान् देवश्रेष्टान्, इष्ट्वा यज्ञेन
सन्तोष्य, तेभ्यः, आयुर्वेदे वैद्यशास्त्रे वशितां स्वातन्त्र्यलक्षणं परमुत्तमं वरं प्रसादं अलभिष्ट प्राप्तवान् । ‘डु लभष् प्राप्तौ’ - धा. सक, कर्तरि लुङ्, आत्म,प्र ए.।।३४।।
छ.गू.प्र.—
क्ष्मामपादिति । तैश्चतुर्भिः पुत्रैःकृतं तदाह । विक्रमादित्यः क्षत्रियतनुजः क्ष्मां मेदिनीं अपात् । ‘पा रक्षणे’
लङ् । हरिश्चन्द्रो वैश्यातनूजः सुरोत्तमान् इष्ट्वा याजयित्वा वशो अस्यास्तीति वशी, वशिनो भावः वशिता आयुर्वेदस्य वैद्यशास्त्रस्य वशिता तां तथा परं वरं अलभीष्ट । देेवेभ्यः । परः ।।३४।।
संस्कृत व्याख्यानम्—
गत्वेति । स भर्तृहरिः तन्नामकः शूद्रापुत्रः, यज्ञभुवं ब्राह्मणाधिष्टितयज्ञस्थलं, गत्वा, विप्रैः ब्राह्मणैरनुमोदितस्सन् शूद्रत्वेन स्वतो अधिकाराभावेन विप्रानुज्ञावश्यकता इति भावः । यज्ञस्य हृदयम् अभिप्रायं विचार्य,इमां महीं भूमिं.चचार । ‘चरगति भक्षणयोः’ -धा. सक, कर्तरि लिट्, पर.प्र ए.।।३५।।
छ.गू.प्र.—
गत्वेति । भतृहरिः शूद्रातनूजः यज्ञभुवं गत्वा विप्रानुमोदितस्सन् विप्रैः सन्तोषितस्सन् यज्ञहृदयं विचार्य इमां महीं चचार । लिट् ।।३५।।
संस्कृत व्याख्यानम्—
आर्यस्येति । वेदविदुषः वेदज्ञस्य आर्यस्य गोविन्दभट्टपुत्रेषु चतुर्षु ज्येष्टस्य शबरस्य, उभौ द्वौ तनयौ सुतौ प्राभूतां जातौ । भट्टःकुमारः, तन्नमा, तयोर्मध्ये प्रथमो ज्येष्टः । भट्टनारायणः परः अनन्तरजः।।३६।।
छ.गू.प्र. —
आर्यस्येति । वेदविद्वान् तस्य वेदविदुषः वेदज्ञस्य सकाशतः आर्यस्यश्रेष्टस्य शबरस्य भट्टाख्यः कुमारः प्रथमः भट्टकुमारः परः अन्यः भट्टनारायणः इति तनयौ प्राभूताम् अभूताम् ‘भू सत्तायां’ लङ् ।।३६।।
संस्कृत व्याख्यानम् –
कुमार इति । तदा बौद्धमतप्रचारकाले, धर्मसङ्कटे वर्णाश्रमधर्मलोपरूपक्लेशे, सम्प्राप्ते सति,
कुमारो भट्टकुमारः,नारायणेन स्वानुजेन, सम्मन्त्र्य बौद्धशास्त्रप्रचारेण आस्तिकमतं प्रलुप्तं तदुज्जीवनाय बौद्धशास्त्रदूषणम् आवश्यकम्,तद्दूषणं च तज्ज्ञानं विना न सम्भवतीति बौद्धशास्त्राधिगतिः आवश्यकी इति आलोच्य, तन्मतस्य बौद्धमतस्य वित्तये ज्ञानाय,बौद्धं बौद्धमतानुयायिनं कञ्चिदाचार्यं भेजे सिषेवे । ‘भज
सेवायां’-धा. सक, कर्तरि लिट्, आत्म,प्र ए.।।३७।।
छ.गू.प्र–
कुमार इति । तदा बौद्धस्य शास्त्रस्य वित्तिःज्ञानं तस्यै तथा बौद्धं बौद्धं भेजे । ‘भज सेवायां’ लिडात्मनेपदम् ।।३७।।
संस्कृत व्याख्यानम् –
प्रासादेति ।। अथ बौद्धाचार्योपसत्तिप्रारम्भान्तरं प्रासादस्य गृहोपरिनिबद्धगृहस्याग्रे, अभ्यञ्जयिता गुरोश्शिरसि तैलविलेपनं कुर्वन्, भट्टः भट्टकुमारः,शाक्यस्य बौद्धस्य,वेदस्य विप्लावनम्
अप्रामाण्यप्रतिपादनादिना दूषणं तस्य व्यख्यां सम्यक् प्रतिपादनं श्रुत्वा अश्रूणि नेत्राम्बूनि पदे बौद्धपादे
न्यपातन् । ‘पतलृ गतौ’-धा. णिजन्त. सक, कर्तरि लङ्, पर.प्र. ए.।।३८।।
छ.गू.प्र –
प्रासादेति । अथ प्रासादस्य हर्म्यस्य अग्रं प्रासादाग्रं तस्मिन् अभ्यञ्जयिता उपाध्यायशाक्यशिरसि तैलसेचनं कुर्वन् भट्टः भट्टकुमारः वेदविप्लावनव्याख्यां वेदनां विप्लावनस्य व्याख्या अप्रमाणमिति वचनस्य व्याख्या तां तथा श्रुत्वा शाक्यचरणे अश्रूणि न्यपातयत् । पतऌ पातने लङ् । हर्म्यादि धनिनां वासः प्रासादो देवभूभुजामित्यमरः ।।३८।।
संस्कृत व्याख्यानम् –
तदिति । स बौद्धाचार्यः तेेषामश्रूणाम् उष्णिमा उष्णत्वमेव अनुमनं व्याप्तिसमुचितदेश-
वृत्तित्वादियुक्तं लिङ्गं तेन, विप्रस्य भट्टकुमारस्य,आधिं वेदविप्लावनश्रवणजनितां मानसव्यथाम् अबोधि
ज्ञातवान् । ‘बुध अवगमने’ इत्यतः कर्तरि लुट् ।।सू।। दीपजनबुधपूरितायामायिभ्यो अन्यतरस्याम् इति चिणा-
देशे ।। सू ।। चिणो लुक् इति लुङ्गादेशे तकारस्य लुकि इदं रूपमिति बोध्यम् । आधिं विबुद्ध्य स इत्यपि
पाठः । अयमत्र प्रयोगः – अयं भट्टो वेददूषणश्रवणेन दुःखातिरेकवान् भवितुमर्हति, एतत्काले अश्रुविशेष-मोचकत्वात् सामान्येन पुत्रमरणजनितदुःखयुक्ताश्रुमोचकपुरुषवत् इति । आधिज्ञानफलं वक्ति – हन्यता-
मिति । एष पुरोवर्ती भट्टकुमारः छद्म कपटम् आत्मनि मनसि यस्य सतादृशः स्वीयमास्तिकत्वं कपटेन आच्छादयति इति भावः । अतो हन्यतां हन्यतां, भवद्भिरिति शेषः।हननादरात् द्विरुक्तिः।इत्येवं जगाद च
स्वशिष्यान् प्रतीति शेषः । ‘हन हिंसागत्योः’ धा.णिजन्त.सक.कर्मणि.लोट्.आत्म. प्र.ए. । गद व्यक्तायां वाचि-धा. णिजन्त. सक, कर्तरि लिट्.पर. प्र.ए.।।३९।।
संस्कृत व्याख्यानम् –
तदानीं अस्मिन् बौद्धे हन्तुं स्वं संहर्तंु कामो यस्य तस्मिन् तादृशे सति भट्टाः वेदाः,प्रमाणं प्रमितिजनकाश्चेत् अहं जीवामि प्राणत्यागकारणीभूते उन्नतस्थानात् पतनरूपे कर्मणि आचरितेपि प्राणान् धारयामि इत्येवं वचः ब्रुवन् उच्चारयन् सन् धरण्याः भुवस्तलप्रदेशे,न्यपतत् प्रासादाग्रात् इति शेषः । पतलृ गतौ धा. कर्तरि लङ्. पर.प्र. ए.।।४०।।
छ.गू.प्र. –
तदानीमिति । भट्टकुमारः इदानीमस्मिन् कले अस्मिन् शाक्ये हन्तुं कामो यस्य सः तस्मिन् हन्तुकामे सति तं कामं मनस्यरित्य तु नाराः वेदाः प्रमाणं चेदहं जीवामि ति वचो ब्रुवन् धरणीतले प्रासादाग्रात् न्यपतत् । पतऌ निपाते लङ् । जीवप्राणने लट् उत्तमपुरुषषैकवचनम् ।।४०।।
संस्कृत व्याख्यानम् –
शङ्कु इति । ततः वेदाः प्रमाणं चेदिति वेदप्रामाण्यसंशयकारणात्, तस्य भट्टस्य स एकञ्चक्षुः लोचनं शङ्कोः सूक्ष्माग्रादारुविशेषस्य वेधेन क ठिणतरस्पर्शेण, नष्टं भग्नम् अभवत्।हे भट्ट वेदानां प्रामाण्ये विषये सन्देहात् त्वं काण एकलोचनहीनः असि । असभुवि धा.कर्तरि लट् पर.म.ए. । इत्येवम् अशरीरेण,
अस्मदादिदेहसदृशरहितेन वायुदेवेन उच्चारिता वाक् वाणी तदा श्रुता इति शेषः ।।४१।।
छ.गू.प्र –
शङ्कुरिति ।। ततः प्रासादात् पतनानन्तरं तस्य भट्टकुमारस्य एकं चक्षुः शङ्कुवेधेन शङ्कोः स्थाणोः वेधः तेन तथा नष्टं अभूत् । वेदप्रामाण्यसन्देहात् । हे भट्ट कुमार त्वं काणः एकलोचनः असि इति अशरीरस्य वाक् अभवत्
इत्यर्थः । अस भुवि लट् मध्यमपुरुषैकवचनम् । काणः स्यादेकलोचनः इत्यमरः। स्थाणुरस्त्री ध्रुवः शङ्कुरित्यमरः।।४१।।
संस्कृत व्याख्यानम् –
कदाचिदिति । कदाचित् कस्मिंश्चित्काले राजा सौगताधिष्टितदेशपतिः तं भट्टकुमारं, रहः एकान्तस्थले बौद्धजनरहितप्रदेशे इत्यर्थः, समाहूय आकार्य हे द्विजेन्द्र ब्राह्मणश्रेष्ट भट्टकुमार, देवताजनेन वेदप्रामाण्यसन्देहात् काणोऽसि इति वाक्योच्चारकेण वायुदेवेन सम्भाव्यं माननीयम् । यद्वा देवताजनैः आस्ति-
कलौकैश्च सम्भाव्यं,ते मतं किंस्वित् कीदृशम् इतीदम् अब्रवीत् । ब्रूञ् व्यक्तायां वाचि -धा सक.कर्तरि लङ् पर.प्र,ए, ।।४२।।
छ.गू.प्र.–
कदाचिदिति । राजा सौगतः कदाचित् कस्मिंश्चित्काले तं भट्टकुमारं रहः समाहूय वक्ष्यमाणवचनं
अब्रवीत् । ब्रूञ् व्यक्तायां वाचि लङ् । किमिति । हे द्विजेन्द्र ते देवताजनसम्भाव्यं वायुना मानितं किंस्वित् प्रमाणं कथितं किम् ।।४२।।
संस्कृत व्याख्यानम् –
इतीति ।। इत्येवं महीभर्त्रा राज्ञा उक्तः,सः, भट्टः विशेषेण शङ्का बौद्धेभ्यः तद्देशाधिपतेर्वा भीतिरस्य सञ्जातेति विशङ्कितः स न भवतीति अविशङ्कितः अत्रस्तः सन् तारकादित्वात् इतच् आह स्म ।।सू।। लटस्म इति स्म योगादतीतार्थत्वम् । हे राजन् मुमुक्षुभिः संसारदुःखात् मोक्तुमिच्छद्भिः वर्णानां ब्राह्मणादीनां आश्रमाणां ब्रह्मचर्यादीनां च उचिता योग्याः धर्माः अध्ययनगुरुकुलवासादयः, न हातव्याः न त्याज्याः अननुष्टाने प्रत्यवायश्रवणादिति भावः।।४३।।
छ.गू.प्र. –
इत्युक्त इति । महीभर्त्रा राज्ञा इत्युक्तः स भट्टः न विद्यते शङ्का विशेषेण यस्मिन् सः तथा अविशङ्कितःसन् तदस्य सञ्जातं तारकादिभ्यः इतिसूत्रेण जाते अर्थे शङ्काशब्दस्य।इतश्च । हे राजन् वर्णाश्रमोचिताः धर्माः मुमुक्षुभिः मोक्षमिच्छन्तीति मुमुक्षवः तैः तथा न हातव्याः इति । सौगतराजानं आह स्म । ततो ब्रूह स्म । लट् परस्मैपदम् ।।४३।।
संस्कृत व्याख्यानम् –
वेदा इति वेदाः प्रमाणं यथार्थज्ञानजनकाः, इत्येवं रूपम् अस्माकं मतं देवेन परमात्मना अनुशिक्षितम् आज्ञप्तम् । गतिं सुखस्थानम् इच्छद्भिः, पुरुषैः सौगतं बौद्धसम्बन्धि, मतं चैत्यवन्दनादि कर्तव्यम् इत्येवमादिरूपं हातव्यम् त्याज्यम् ।।४४।।
छ.गू.प्र. –
पुनः किमित्याह- वेदा इति । हे राजन् वेदाः प्रमाणम् । देवानुशिक्षितं अस्मन्मतंं अस्माकं प्रमाणं इति गतिमिच्छद्भिः पुरुषैः सौगतं मतं बौद्धशास्त्रं हातव्यम् त्याज्यम् ।।४४।।
संस्कृत व्याख्यानम् –
यदीति । हे क्ष्मेश भूपते, त्वं यदि यर्हि प्रसीदसि अस्माकं प्रसन्नो भवसि तर्हि वयं सौगतान् बौद्धान् विजयामहे पराभावयामः । जी जये सक,कर्तरि लट्, उ ब ।।सू।। विपराभ्यां जेः इत्यात्मनेपदम्
वर्तमानसामीप्याद्वर्तमानव्यपदेशः । षदलृ विशरणगत्यवसादनेषु- धा.कर्तरि.लट्.पर.म.ए.। प्रोपसृष्टत्वात् अनुकूलेच्छार्थकत्वम् । न चेत् न जेष्यामश्चेत् अस्मान् अन्हाय शीघ्रम् । निस्राक् झट् इति अञ्जसा अह्नाय
द्राक् मङ्क्षु सपदि द्रुते इत्यमरः । वन्हौ अग्नौ निश्चयात् विचारमन्तरेण प्रवेशय प्रविष्टान् कारय । विश प्रवेशने धा, सक.णिजन्तः कर्तरि लट् पर.म.ए. ।।४५।।
छ.गू.प्र –
यदीति । हे क्ष्मेश हे राजन् यदि त्वं प्रसीदसि तर्हि वयं सौगतान् विजयामहे । अन्हाय द्राक् अव्ययमिदम् । न चेत् यदि वयं न विजयामहे त्वं अस्मान् निश्चयात् वन्हौ प्रवेशय विशप्रवेशने । लङ् ।।४५।।
संस्कृत व्याख्यानम् –
इतीति । इत्येवं भट्टस्य वचः वाक्यं, श्रुत्वा नृपो राजा विस्रम्भेण विश्वासेन हे भट्ट त्वं यदि तान् सौगतान् जेष्यसि पराभावयिष्यसि तर्हि अहं तान् पराजितान् बौद्धान् वन्हौ अग्नौ प्रवेशये प्रविष्ठान् कारये इत्येवम् अब्रवीत् । ब्रूञ् व्यक्तायां वाचि -धा. सक.कर्तरि लङ् पर.प्र.पु.ए.। विशप्रवेशने धा णिजन्तः कर्तरि लङ् आत्म. म.ए. ।।४६।।
छ.गू.प्र –
इतीति । इतिभट्टवचः श्रुत्वाविस्रम्भेन विश्वासेन भट्टकुमारं अब्रवीत् । लङ् । हेे भट्टकुमार यदि तान् सौगतान् जेष्यसि तर्हि अहं वन्हौ प्रवेेशये । इति अब्रवीत् इत्यर्थः । विशप्रवेशने लङ् आत्मनेपदम् उत्तमपुरुषैकवचनम् ।।४६।।
संस्कृत व्याख्यानम्–
तस्येति । तस्य बौद्धदेशाधिपतेः राज्ञः वचः वाक्यं श्रुत्वा, विस्रब्धःविश्वासं प्राप्तः, स तादृशः, महीसुरः ब्राह्मणो भट्टः, सनारायणभट्टः नारायणभट्टनामकेन अनुजेन सहितस्सन् सशबरः शबरनामकेन पित्रा च सहितस्सन् भृशमत्यन्तं मुमुदे सन्तोषं प्राप्तः । त्रयोपि सन्तुतुषुरिति भावः । मुद हर्षे -धा. अक. कर्तरि लिट् आत्म. प्र. ए.।।४७।।
छ.गू.प्र –
तस्येति । सनारायणभट्टः शबरेण पित्रा सह वर्तत इति सशबरः सः महीसुरः ब्राह्मणः भट्टकुमारः तस्य राज्ञो वचःश्रुत्वा विस्रब्धः सन् भृशं अत्यन्तं मुमुदे मुमोद । मुद हर्षे लिट् ।।४७।।
संस्कृत व्याख्यानम् –
बौद्धानां जये प्रयत्नमाह– अपक्षपातिनि इति । क्षत्रे राज्ञि एकस्मिन् पक्षे पातः स्वीयताभिमानः पक्षपातः सोऽस्यास्तीति पक्षपाती, स न भवतीति तस्मिन् सति पक्षद्वयेऽपि समदृष्टियुक्ते सतीत्यर्थः । स भट्टः तर्कैः दूषणानुमानैः कर्कशां निराकर्तुमशक्यां, बौद्धशास्त्रं निकृन्तति छिनत्तीति तादृशीं, शाबरस्य शबरनामक-
स्वतातसम्बन्धिनो भाष्यस्य जैमिनिसूत्रभाष्यस्य, टीकां व्याख्यां व्याख्यानग्रन्थं चक्रे कृतवान् । डुकृञ् करणे -धा.सक. कर्तरि लिट्, आत्म प्र ए.।।४८।।
छ.गू.प्र. –
अपक्षेति । सभट्टकुमारः क्षतात् त्रायत इति क्षत्रः । तस्मिन् क्षत्रे राज्ञि अपक्षपातिनि सति पक्षपातो
अस्यास्तीति पक्षपाती । तस्मिन् तथा बौद्धशास्त्रनिकृन्तनीं बौद्धशास्त्रं निकृन्तति छेत्ति इति निकृन्तनी तां तर्क-
कर्कशां तर्कैः कर्कशा तां अनुमानैः कठिनां शबरभाष्यस्य जैमिनेः सूत्राणां शबरस्यपितुः सम्बन्धि भाष्यस्य टीकां
चक्रे - डुकृञ्करणे लिडात्मन्•पदम् ।।४८।।
संस्कृत व्याख्यानम् –
नारायणेनेति । कदाचित् स भट्टः, नारायणेन भटट्टेन समेयिवान् युक्तस्सन्, पुरस्य राजाधिष्टित-
नगरस्य द्वारि द्वारे तोरणस्य पुरबहिर्द्वारस्य अग्रे ऊर्ध्वभागे पत्रिकां, सौगतैस्साकमहं वादं करिष्यामीत्यभि-
प्रायबोधिकां अपताकयत् पताकमिव अङ्कयामास । पताकशब्दात् तत्करोतीत्यर्थे णिचि लङ् परस्मैपद प्रथमपुरुषैकवचनम्।।४९।।
छ.गू.प्र. –
नारायणेनेति । भट्टनारायणेन समेयिवान् युक्तः सन् सकारान्तः सः भट्टकुमारः कदाचित् एकदा पुरस्य द्वाः पुरद्वारः तस्यांं पुरद्वारि तोरणाग्रे स्थम्भाग्रे पत्रिकां अपताकयत् । पत्रिकालम्बनं चकार सुब् धातुः ।।
संस्कृतव्याख्यानम्–
वन्हीति ।। कुमारः,वन्हौ प्रवेश एव ग्लहः पणःपराजितेन कार्यतया प्रतिज्ञाविषयो यस्यास्तया, वितण्डया स्वपक्षस्थापनरहितया परपक्षनिराकरणमात्रफलकतया, माध्यमिकान् बौद्धान् निगृह्य विजित्य श्रुतीनां वेदानाम् अपन्हवतः अप्रामाण्यकथनादिरूपादलापात् नष्टं क्षीणमायुुर्येषां तान् माध्यमिकान्, अन्हाय शीघ्रं वन्हौ गमयाञ्चकार प्रवेशयामास । गम्लृ गतौः धा सक.णिजन्तः. कर्तरिलिट् पर.प्र.ए. ।।५०।।
छ.गू.प्र –
वन्हीति । कुमारः वन्हिप्रवेशग्लहया वन्हिप्रवेशाख्यग्लहे द्यूते स्थातव्यद्रव्यं यस्याः सा तया वितण्डाख्यवादेन स्वमतस्थापनं विना परनिराकरणेन माध्यमिकान् जैनान् अन्हाय शीघ्रं निगृह्य विजित्य श्रुतीनां वेदानां अपन्हवतः नष्टमायुः येषां ते नष्टायुषः तान् तथा माध्यमिकान् वन्हौ गमयाञ्चकार प्रापयामास । गम्ऌ गतौ ।।५०।।
संस्कृत व्याख्यानम् –
वन्हिप्रविष्टेभ्योऽवशिष्टानां बौद्धानां स्थितिप्रकारमाह– सांयात्रिकैरिति । कतिचित् केचन बौद्धाः समुदितानां यान्त्रा संयात्रा क्रयाद्यर्हवस्तुसङ्ग्रहार्थं देशसञ्चारः प्रयोजनं एषामिति सांयात्रिकाः तैः
पोतवणिग्भिः सह ययुः देशान्तरं गताः । या प्रापणे धा सक.कर्तरि लिट् पर.प्र.ब.। सम्प्राप्तं भुक्तं भूः यस्यां सा तथोक्ता च सा भूश्च सम्प्राप्तभूः पाकशाला तस्यां, निलीना इतरेषां अग्निप्रवेशकाले आच्छादिताः, बक्कः तन्नामको बौद्धः मुख्यः प्रधानः येषां ते केचन सुगताः बौद्धाः अन्यो वेषः वेषान्तरं तेन आस्तिकवेषधारणेन,गतः प्राप्तः सौगतलिङ्गानां केशोल्लुण्ठननीलपटधारणादीनां बौद्धचिह्नानां भङ्गो नाशो यैस्ते तथोक्तास्सन्तः, राज्यस्य बौद्धाधिष्टितराष्ट्रस्य अन्ते अवस्थानेस्थितेषु वर्त्मसु मार्गेषु गताःसन्तः विचेरुः सञ्चारं कृतवन्तः । चर गतिभक्षणयोः धा.सक.कर्तरि लिट् पर.प्र.ब ।। अत्र गतसौगत इति, सुगतास्सुगता इति च असकृत् वर्णावृत्तःछेकानुप्रासः शब्दालङ्कारः।।५१।।
।। श्रीमन्नृसिंहवर्यानुग्रहजप्रज्ञराघवेन्द्रेण मणिमञ्जरीप्रकाशे जनितेऽभूत्पञ्चमसर्गः ।।
छ.गू.प्र –
सांयात्रिकैः इति । कतिचित् कतिचन सम्म्प्राप्तभुक्तभुवि सम्प्राप्ता च सा भुक्तिश्च सम्प्राप्तभुक्तिः भूः तस्यां तथा किञ्चिद्द्रविणादिकं गृहीत्वा तण्डुलपिष्टादिपाचिकाद्याः गृहीत्वा इति यावत् । माषभुक्तिगृहं वा निलीनाः यतः सांयात्रिकैः पोतवणिग्भिः सह ययुः बक्कमुख्याः बक्काख्यसौगत एव मुख्यो येषाम्बौद्धानां ते तथा वेषान्तरेण अन्यवेषेण कृतसौगत-लिङ्गभङ्गाः कृतः सौगतानां लिङ्गस्य चिन्हस्य भङ्गो येषां ते तथा । केचन राज्यान्तवर्त्मसु स्वराज्य बहिर्मार्गेषु गताः
सन्तः विचेरुः । चरगतिभक्षणयोः लिट् । सायान्त्रिकः पोतवणिक् इत्यमरः ।।५१।।
।। इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचितमणिमञ्जरीटीकायां
गूढभावप्रकाशिकायां पञ्चमः सर्गः समाप्तः ।।
७
संस्कृतव्याख्यानम् – अस्मिंस्तु सर्गे सङ्करमरणानन्तरं तच्छिष्यैरुपद्रुतस्य सशिष्यप्राज्ञतीर्थार्यस्य प्रवृत्तिप्रकारः, श्रीमध्वार्य प्रादुर्भावः, सङ्क्षेपतस्तच्चरितं च निरूप्यते – मायाविना इत्यादिना ।। पत्तले पादतले कालडीग्रामे जन्म उत्पत्तिर्यस्य तेन मायाविना कपटिना सङ्करेण समादिष्टाः आस्तिकमतोत्सादने आज्ञप्ताः मूर्खाः विवेकरहिताः ज्ञानोत्तमादयः नन्दिग्रामं तन्नामकं संवसथविशेषं, समासाद्य प्राप्य, हंसानां प्राज्ञतीर्थादीनां मठं अदहन् भस्मीकृतवन्तः ।। ‘दह भस्मीकरणे’ – धा, सक, कर्तरि लङ्, पर. प्र.ब ।। १ ।। छ.गू.प्र. – मायाविनेति ।। मायाविना मिथ्याज्ञानिना पत्तलजन्मना कालडीग्रामजन सङ्करेण समादिष्टाः आज्ञप्ताः मूर्खाःज्ञानोत्तमादयः नन्दिग्रामं समासाद्य प्राप्य हंसानां प्राज्ञतीर्थसहितसन्न्यासिनां मठं अदहन् । दहनमकुर्वन् ‘दह- भस्मीकरणे’ लङ् परस्मैपदं प्रथमपुरुषबहुवचनम् ।।१।। संस्कृतव्याख्यानम् – निजघ्नुः इति ।। दैत्यास्सङ्करशिष्याः ग्रामे नन्दिग्रामे गवां व्रजं समूहं, बालकानपि, भैरव्या भैरवी- देवताकया आभिचारिकविद्यया निजघ्नुः संहृतवन्तः । ‘हन हिंसागत्योः’ – धा, सक, कर्तरि लिट्, पर.प्र.ब । विप्रान्, ब्राह्मणान्, अज्वरयन् ज्वरपीडितानकुर्वन् । ‘ज्वर सन्तापे’ धातोः णिजन्तात् कर्तरि लङ् पर प्र.ब. । अबलाः पतिव्रतास्त्रियः उदसादयत् – स्वधर्म प्रच्युता अकुर्वन् । ‘षद्लृ विशरणगत्यवसादनेषु’ – धा. णिजन्त, कर्तरि लङ्, पर. प्र.ब. ।। २ ।। छ.गू.प्र. – निजघ्नुरिति ।। दैत्याः सङ्करशिष्याः भैरव्या भैरव्याख्ययाशक्त्या ग्रामे नन्दिग्रामे गोव्रजं गवां व्रजं समूहं बालकानपि निजघ्नुः । ‘हन हिंसागत्योः’ कर्तरि लिट् परस्मैपदम् । प्रथमपुरुषबहुवचनम् । विप्रान् प्राज्ञतीर्थशिष्यान् ब्राह्मणान् अज्वरयन् ज्वरपीडितान् चक्रुः । ज्वरसन्तापे कर्तरि लङ् प्रथमपुरुषबहुवचनम् । अबलाः विप्रपत्नीः द्वितीया-बहुवचनम् । उदसादयत् अहिंसन् ‘हन हिंसागत्यो’र्लङ् ।। २ ।।संस्कृतव्याख्यानम् – प्राज्ञतीर्थ इति ।। शिष्यैस्सहवर्तत इति सशिष्यः । छिन्नो दण्डः कमण्डलुश्चेत्येतौ यस्य स तथोक्त-स्सन्, पुरुषाभ्यां क्षराक्षराभ्यामुत्तमस्य हरेरिदं पौरुषोत्तमं, सदुत्तमं, क्षेत्रं लोके जगन्नाथाख्यया प्रसिद्धपुण्य- स्थानं उद्दिश्य, प्रातः उषःकाले, प्रस्थितः निर्गतवान् । छ.गू.प्र.– प्राज्ञतीर्थ इति ।। सशिष्यः शिष्यैः सहितः असौ प्राज्ञतीर्थः प्रज्ञा ज्ञानमेषामस्तीति प्राज्ञाः तेषां ज्ञानिनां तीर्थं आश्रय इति यावत् । छिन्नदण्डकमण्डलुः सन् छिन्नौ छेदितौ दण्डकमण्डलू यस्य स तथा । पौरुषोत्तमं पुरुषोत्तमसम्बन्धि सत्क्षेत्रं सत् समीचीनं क्षेत्रं जगन्नाथक्षेत्रमुद्दिश्य उद्देशं कृत्वा प्रातःकाले प्रस्थितः गतः कारकक्रियापदम् । योनौ जला-वतारे च मन्त्राद्यष्टादशस्वपि । पुण्यक्षेत्रे तथापात्रे तीर्थस्यद्दर्शनेषु च ।।३।। संस्कृतव्याख्यानम् – मायिन इति ।। मायिनः कपटिनस्सङ्करशिष्याः तान् प्राज्ञतीर्थादीन् अनुदृत्य अनुसृत्य पृष्ठतो गत्वा विजनस्थले निर्जनप्रदेशे, अभिहत्य मुष्टिभिः प्रहृत्य, निपात्य, सम्प्राप्तं प्राणानां श्वासोच्छ्वासादिवायूनां सङ्कटं जीवनानुकूलसञ्चारवर्जनरूपसम्बन्धो यैस्तान्, हंसाग्य्रान् यतिश्रेष्ठान् प्रति, ऊचुर्वक्ष्यमाणप्रकारेणाभिदधुः । ‘वच परिभाषणे’ – धा, सक, कर्तरि, लिट्, पर, प्र.ब ।। ४ ।। छ.गू.प्र. – मायिन इति ।। मायिनो ज्ञानोत्तमादयः हंसाग्य्रान् सन्न्यासिश्रेष्ठान् प्राज्ञतीर्थादिकान् अनुद्रुत्य विजने विगताः जनाः यस्मात् तत्तथा तस्मिन् जले अभिहत्य निपात्य । सप्राप्तप्राणसङ्कटां येषां ते तथा तान् ऊचुः । ‘वच परिभाषणे’ ।।४।। संस्कृतव्याख्यानम् – किमूचुरित्यत आह – अस्मान् इति ।। हे प्राज्ञतीर्थादयः यूयं अस्मान् मायावादिनः अनुव्रजध्वं वा अस्मन्मताङ्गीकारेणानुसृत्य गच्छत वा म्रियध्वं मृता भवत वा । ‘व्रज गतौ’ – धा,सक,कर्तरि, लोट्, आ. म. ब. । व्रजतेश्चान्द्रादिमते उभयपदितासम्भवादात्मनेपदप्रयोगः उपपन्नः । ‘मृञ् प्राणत्यागे’ - धा, अक, कर्तरि, लोट्, आ.म.ब. ।। विचिन्त्यतां अस्मदनुसरणमरणयोर्यद्रोचते तदालोच्यतां भवद्भिरिति शेषः ।। ‘चिति स्मृत्यां’ – धा, कर्मणि, लोट्, आत्म, प्र. ए ।। इत्येवं मूर्खैः कार्याकार्यविवेकरहितैः, मायिभिस्सङ्करशिष्यैः, उक्ताः ते प्राज्ञतीर्थाद्याः वयं युष्मान् अन्वियाम अनुसराम ।। ‘इण् गतौ’ – धा, सक, कर्तरि, लिङ्, पर. उ. ब. । ‘अन्वयाम’ इत्यपि पाठः ।। तर्हि लोडन्तं बोध्यम् ।। इत्येवं अब्रुवन् ।। ‘ब्रूञ् व्यक्तायां वाचि’ – धा, सक, कर्तरि, लङ्, पर. प्र.ब. ।। ५ ।। छ.गू.प्र. – अस्मानिति ।। ते प्राज्ञतीर्थादयः मूर्खैर्मायिभिः हे प्राज्ञतीर्थादयः यूयं अस्मान् अनुव्रजध्वं वा म्रियध्वं वा भवद्भिर्विचिन्त्यतां इत्युक्ताः सन्तः हे मायिनः युष्मान् अन्वयामेति दैत्यान् अब्रुवन् । ‘व्रज गतौ’ लोट् आत्मनेपदम् । मध्यमपुरुषबहुवचनम् । ‘मृङ् प्राणत्यागे’ मध्यमपुरुषबहुवचनम् । ‘इण् गतौ’ लिट् परस्मैपदम् । उत्तमपुरुषबहुवचनम् ।।५।। संस्कृतव्याख्यानम् – अथेति ।। अथ युष्मानन्वियामेति प्राज्ञतीर्थादिवचनाकर्णनानन्तरं खलो दुर्जनः ज्ञानोत्तमः तदाख्य-सङ्करशिष्यः तेभ्यः प्राज्ञतीर्थादिभ्यः, दण्डादिकं सन्न्यास्युपकरणं दत्वा लाञ्छनमास्तिकसन्न्यासिचिह्नभूतं – दण्डगतधेन्वादिमुद्रोर्ध्वपुण्ड्रादिकं व्यत्यस्य भस्माङ्कनादिना विपरीतं कृत्वा च आसुरमसुराणां सम्बन्धि, आकूतं अभिमतं मायावादं उपदिदेश उपादिष्टवान् । ‘दिश अतिसर्जने’ – धा, सक, कर्तरि. लिट्. पर, प्र.ए. ।। ‘मतमासुरम्’ इत्यपि पाठः ।। ६ ।। छ.गू.प्र. – अथेति ।। अथ खलः ज्ञानोत्तमास्तेभ्यः प्राज्ञतीर्थादिभ्यः दण्डकमण्डलुशाठ्यादिसर्वलाञ्छनं वैष्णवचिह्नः व्यत्यस्य निरस्यासुरं असुरसम्बन्धि आकूतं निष्टां उपदिदेश उपदेशं चकार । ‘दिश अतिसर्जने’ लिट् ।।६।। संस्कृतव्याख्यानम् – तेभ्य इति ।। निपुणाः कालोचितकार्यकरणकुशलाः परमाः हंसाः परमहंसनामकसन्न्यासिभूूताः ते प्राज्ञतीर्थादयः गूढमाच्छादितं चेतो मनः लक्षणया तद्गतवञ्चनाभिप्रायो येषां ते तथोक्तास्सन्तः, तेभ्यो ज्ञानोत्तमादिभ्यः, तर्कैर्दुष्टयुक्तिभिः कर्कशं कठिनं, शारीरकं शारीरकाख्यब्रह्मसूत्रव्याख्यानरूपतया शारीरकाख्यं सङ्करनिर्मितं श्रुत्वा अधीत्य व्याचख्युः मायिमनस्समाधानाय शिष्येभ्यो व्याकृतवन्तः ।। ‘ख्या प्रकथने’ - धा, सक, कर्तरि, लिट्, पर. प्र.ब. । ‘परमारूढचेतसः’ इति पाठे – परमं सर्वोत्तमं हरिमारूढं विषयीकरणेन सम्बद्धं चेतो येषां ते इत्यर्थः । ‘तर्ककर्कशा’ इति चतुर्थपादपाठे – भाष्यं श्रुत्वा तर्ककर्कशास्सन्तो व्याचख्युरिति योजना ।। ७ ।। छ.गू.प्र. – तेभ्य इति ।। निपुणाः कुशलाः परमाहंसाः ते प्राज्ञतीर्थादयः गूढचेतसः गूढचित्ताः सन्तः तेभ्यः ज्ञानोत्तमादिभ्यः शारीरकं भाष्यं श्रुत्वा तर्ककर्कशाः सन्तः व्याचख्युः व्याख्यानं चक्रुः । ‘ख्या प्रकथने’ । ततः शारीरकं श्रुत्वा निरा- चक्रे । महाप्रभुरिति वचनात् ।। ७ ।। संस्कृतव्याख्यानम् – मायिन इति ।। अमी प्राज्ञतीर्थादयः एवं मायिचिह्निधारणादिना प्रकारेण, सन्तोषेण प्राज्ञ- तीर्थादिवशीकरणजनितहर्षेण विवशः परवशः आशयोऽभिप्रायो येषां तान्, आनन्दबाल इति मठः तं गच्छन्तीति तथोक्तान्, मायिनो ज्ञानोत्तमादीन्, वञ्चयित्वा एते वस्तुतोऽस्मन्मतप्रविष्टास्संवृत्ता इति बुद्धिं जनयित्वा, तैर्मायिभिः सह, न्यवसत् उषितवन्तः ।। ‘वस निवासे’ – धा. अक.कर्तरि. लङ्. पर.प्र.ब. ।। ८ ।। छ.गू.प्र. – मायिन इति ।। अमी सत्यप्रज्ञादयः सन्तोषविवशाशयान् सन्तोषेण विवशः परावशः आशयोऽभिप्रायो येषां ते तांस्तथा । आनन्दबालमठगान् । एवं वञ्चयित्वा तैर्ज्ञानोत्तमादिभिः सह न्यवसन् ‘वस निवासे’ । ‘कदाचिज्जातु सार्धं तु साकं सत्रा समं सह’ इत्यमरः ।।८।। संस्कृतव्याख्यानम् – विश्वस्येति ।। मायिनो ज्ञानोत्तमादयः प्राज्ञतीर्थार्यं एकस्सजातीयविजातीयस्वगतनानात्वरहित- श्चासौ आत्मा च एकात्मा । एकात्मनो भाव ऐकात्यं चिदैक्यम् । तस्योपास्तौ उपासनायां निष्टितं सञ्जात-निष्ठं, विश्वस्य अत एव मायावादे निखिलं मायाकल्पितमिति वादे रतं आसक्तं दृष्ट्वा, मुहुः पुनः पुनः, जहृषुः सन्तुतुषुः ।। ‘तुष तुष्टौ’ – धा, अक, कर्तरि, लिट्, परस्मै, प्र.ब ।। ‘जहृषुर्मुदा’ इति पाठे तु – मुदा सन्तोषेण जहृषुरतिरिक्ता बभूवुरिति व्याख्येयम् ।। ९ ।। छ.गू.प्र. – विश्वस्येति ।। मायिनो ज्ञानोत्तमादयः प्राज्ञतीर्थं ऐकात्म्योपास्तौ सञ्जाता निष्ठा यस्य सः तं तथेति शेषः । विश्वस्य विश्वासं कृत्वा मायावादरतं दृष्ट्वा मुहुः बहुशः जहृषुः ‘हर्ष हर्षणे’ लिट् ।।९।। संस्कृतव्याख्यानम् – तं सशिष्यमिति ।। अयं हीति च श्लोकद्वयमेकवाक्यतया योज्यम् । अथ प्राज्ञतीर्थार्यस्याद्वैत- निष्ठविश्वासानन्तरम्, पाने – मद्याद्यपेयपाने, भोगेषु – स्रक् चन्दनादिसेवनेषु अबलासु स्त्रीषु चाकाङ्क्षा – स्पृहा येषां ते तथोक्ताः, मायिनो ज्ञानोत्तमादयः, शिष्यैः स वर्तत इति सशिष्यं, तं प्राज्ञतीर्थार्यम्, सन् प्रशस्त आचारो यस्य तं, तथोक्तं अवलोक्य दृष्ट्वा ।। १० ।। छ.गू.प्र. – तमिति ।। अथ मायिनो ज्ञानोत्तमादयः स्वशिष्यं प्राज्ञतीर्थं सदाचारं सत् आचारः यस्य स तथा । तं अवलोक्य पानभोगाबलाकाङ्क्षाः सन्तः पानानि च भोगाश्च अबलाः स्त्रियश्च तासु आकाङ्क्षा येषां ते तथा । तं प्राज्ञतीर्थं विहाय शनैः ययुः । ‘इच्छाऽकाङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथ’ इत्यमरः ।।१०।। संस्कृतव्याख्यानम् – सत्सु प्रशस्तेष्वाचारेषु, अतिकर्कशः भृशं निश्चलमतिः, अयं अस्मद्वशीकृतः, प्राज्ञतीर्थार्यः, गुरून् उपदेशकस्थानापन्नान्, दुराचारान् अस्मान्, गर्हयेद्धि निन्दयेदेव इति भीरवो भययुक्तास्सन्तः, विहाय प्राज्ञतीर्थार्यं स्वमठे विसृज्य, शनैः मन्दं किञ्चिद् व्याजं प्रकल्पेति भावः ।। प्रययुः प्रस्थाय स्थानानन्तरं गताः । ‘या प्रापणे’ – धा, कर्तरिलिट्, पर. प्र.ब. ।। ‘गर्ह निन्दने’ – धा, सक, कर्तरिलिङ्, पर. प्र. ए. ।।११।। छ.गू.प्र. – कस्मात् कारणात् तद्विहाय गता इत्यस्याभिप्रायमाह । हि यस्मात् कारणादयं प्राज्ञतीर्थः सदाचारातिकर्कशः दुष्टाचारान् गुरून् अस्मात् गर्हयेदिति कारणात् । भीरवः भीताः सन्तः ‘गर्ह निदायाम्’ लिट् । ‘हिर्हेताववधारण’ इत्यमरः ।।११।। संस्कृतव्याख्यानम् – प्राज्ञतीर्थ इति ।। तदा मायिनां गमनानन्तरकाले, प्राज्ञतीर्थः, सम्मतान् स्वानुकूलान्, हंसान् सन्न्यासिनः, शिष्यान्, रहसि एकान्ते, आहूय, आह उवाच । विभक्तिप्रतिरूपकमिदमव्ययम् ।। वचनं विशिनष्टि – महानेष इत्यादिना ।। एष मायिनामस्मासु विश्वासजननेन इतः स्वयमेव गमनरूपः, महान् पूज्यः, अनुग्रहः प्रसादः, हरिणा, कृत अस्मास्विति शेषः । अन्यथा दुस्सङ्गपरिहारः कथं स्यादिति भावः ।। १२ ।। छ.गू.प्र. – प्राज्ञतीर्थ इति ।। तदा मायिनां गमनानन्तरं प्राज्ञतीर्थः सम्मतान् अनुकूलान् हंसान् सन्न्यासिनः शिष्यान् रहसि एकान्ते आहूय हरिणा श्रीविष्णुना महानेषः अनुग्रहः कृतः कारकपदं इत्याह ।।१२।। संस्कृतव्याख्यानम् – बर्बरा इति ।। बर्बरास्तन्नामकनीचजातितुल्याः अतिक्रूरस्वभावा इति यावत् । सर्वे, मायिनो ज्ञानो-त्तमादयः नोऽस्मान् विश्वस्य, ययुर्गताः । ‘या प्रापणे’ – धा, सक, कर्तरि, लिट्, पर. प्र.ब. । एतत्, नोऽस्माकं, सुखं आनन्दकरम् ।। वयं तु, चतुर्णां मासानां व्रतं एकस्थानवासादिनियमम्, पारयित्वा समाप्य इतोऽस्मात्स्थानात्, यामो गच्छामः ।। ‘या प्रापणे’ – धा, सक, कर्तरि, लट्, पर. उ.ब. ।। १३ ।। छ.गू.प्र. – पुनः किमित्यत आह – बर्बरा इति ।। बर्बरा मायिनो मूर्खाः ज्ञानोत्तमादयः अस्मान् विश्वस्य सुखं ययुः । लिट् । चातुर्मास्यव्रतं चत्वारो मासास्तेषां व्रतं चातुर्मास्यव्रतम् । तत्तथा पारयित्वा यामः । ‘या प्रापणे’ लट् ।।१३।। संस्कृतव्याख्यानम् – गत्वेति ।। वयं, गङ्गां भागीरथीं, गत्वा प्राप्य ततस्तस्यां, सार्वविभक्तिकस्तसिः ।। स्नात्वा, मायिभ्यो ज्ञानोत्तमादिभ्यस्सम्भवो जन्म यस्य तत् तथोक्तं, अंहः पापं, मुक्त्वा त्यक्त्वा, मायिनो मायावादिन इति व्याजेन कपटेन, शनैश्शनैः, नन्दिग्रामं तन्नामकं प्राचीनस्थानं प्रति, यास्यामो गमिष्यामः ।। ‘या प्रापणे’ – धा, सक, कर्तरि, लृट्, पर. उ.ब. ।। १४ ।। छ.गू.प्र. – गत्वेति ।। वयं गङ्गां भागीरथीं गत्वा ततः भागीरथ्यां पारयित्वा मायिसम्भवं मायिभ्यः सम्भवो जन्म यस्य तत् तथा अंहः मुक्त्वा । मायिव्याजेन मायिन इति व्याजेन शनैः शनैः नन्दिग्रामं यास्यामः । ‘या प्रापणे’ लृट् । ‘कलुषं वृजिनैनोघमंहोदुरितदुष्कृतम्’ इत्यमरः । सार्वविभक्तिकस्तसिः ।।१४।। संस्कृतव्याख्यानम् – इतीति ।। प्राज्ञतीर्थार्यः इत्येवं, उक्त्वा अभिधाय, चातुर्मास्यात्, अनन्तरं, सशिष्यस्सन्, गत्वा प्रस्थाय, गङ्गायां भागीरथ्यां, स्नात्वा, उत्तरां दिशं प्रति, अयात् गतवान् । ‘या प्रापणे’ – धा सक, कर्तरि लङ्, पर.प्र.ए. ।। १५ ।। छ.गू.प्र. – इतीति ।। प्राज्ञतीर्थार्यः चातुर्मास्यव्रतानन्तरं सशिष्यः सन् गत्वा गङ्गायां स्नात्वा उत्तरां दिशं आयात् । ‘या प्रापणे’ ।।१५।। संस्कृतव्याख्यानम् – नन्दिग्राममिति ।। आर्यो ज्ञानादिना वृद्धः, प्राज्ञतीर्थः नन्दिग्रामं तन्नामकं मायिभयात् त्यक्तं निजस्थानं, समासाद्य प्राप्य, हरिं नारायणं, संस्मार्य स्वयं स्मृत्वा स्मारयित्वा च तज्जनान् मायिपीडित-लोकान्, निष्क्रान्ता रोगेभ्यः मायिसंसर्गजनितदुःखेभ्यो नीरोगास्तान्, अकरोत् कृतवान् ।। ‘डुकृञ् करणे’ – धा, सक, कर्तरि, लङ्, पर, प्र.ए. । रहः एकान्ते मायिनामविदितं यथा तथेत्यर्थः ।। नाथं स्वामिनं नारायणं, असेवयत् सेवितवान् शिष्यादिभिस्सेवां कारितवांश्च ।। ‘सेवृ सेवायां’ – धा, णिजन्तः, कर्तरि लङ्, पर, प्र.ए. ।। हरिर्महान् स्वामी नतु हरिरेवाहमित्युपासनां स्वयं कुर्वन् शिष्यानशिक्षयदिति भावः ।। १६ ।। छ.गू.प्र. – नन्दिग्राममिति ।। आर्यः प्राज्ञतीर्थार्यः नन्दिग्रामं समासाद्य सज्जनान् मायिज्वरपीडितान् हरिं संस्मार्य स्वयं स्मृत्वा स्मारयित्वा । नीरोगान् निर्गतो रोगो येभ्यस्ते तथा तान् अकरोत् । रहः नाथं श्रीनारायणं असेवयत् । ‘डुकृञ् करणे सेवायां’ लङ् । ‘रुक्स्त्रीरूजाचोपतापरोगव्याधिगदामयाः’ इत्यमरः ।।१६।। संस्कृतव्याख्यानम् – प्राज्ञतीर्थ इति ।। प्राज्ञतीर्थः, तच्छिष्याश्च, बदर्यां बदरिकाश्रमे, जनैर्विष्णुभक्तलोकैः, भक्त्यादरेण, सम्भाविताः मानितास्सन्तः, न तु मायिसंसर्गनिमित्तादवमानिता उपेक्षिता इति भावः ।। एतेन प्राज्ञतीर्थादयो नन्दिग्रामाद्बदरीं गता इति सूचितम् । तीर्थे बदरीस्थे नारदादितीर्थादौ, स्नात्वा, मुनयो व्यर्थभाषण- त्यागरूपमौनयुक्तास्सन्तः, तीव्रं कठिनं, तपः उपवासादिव्रतं, अचरन् कृतवन्तः ।। ‘चर गतिभक्षणयोः’ – धा, सक, कर्तरि, लङ्, पर.प्र.ब. ।। १७ ।। छ.गू.प्र. – प्राज्ञतीर्थ इति ।। प्राज्ञतीर्थश्च शिष्याः नन्दिग्रामवासिभिः भक्त्या स्नेहेन सभाजिताः सन्तः बदर्यां तीर्थे स्नात्वा । मुनयो मौनिनः सन्तः तीव्रं तपः अचरन् । ‘चर गतिभक्षणयोः’ । ‘तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः’ इत्यमरः ।।१७।। संस्कृतव्याख्यानम् – नारायणेति ।। हे नारायण दोषविरुद्धगुणाश्रय हरे, नारायणशब्दार्थोऽनेकधा प्रपञ्चितः आकरेषु, तत एवावसेयः ।। तुभ्यं नमः ।। हे तात्विकास्सुरास्तत्वाभिमानिदेवाः, वो युष्मभ्यं नमः ।। सू ।। नमस्स्व- स्तीत्यादिना नमः शब्दयोगात्तुभ्यं व इति चतुर्थी ।। हा हा मायिनां सकाशादस्माकं महाकष्टमापतितम्, हे गुरो सत्यप्रज्ञार्य, हे नाथ भो स्वामिन्, नोऽस्माकं, सुगतिं सद्गतिं, देहि प्रयच्छ ।। ‘दाञ् दाने’ – धा, सक, कर्तरि लोट्, पर. म. ए. ।। ‘तात नस्सुमतिं देहि’ इति पाठे – तात सन्न्यासदातृत्वात् सन्न्यासजन्मनि जनकेति सत्यप्रज्ञसम्बोधनं, सुमतिं प्रशस्तां हरिविषयकबुद्धिमित्यर्थः ।। इत्येवं, प्राज्ञतीर्थार्यः, चुक्रुशुः गुरुं प्रत्याक्रोशनं कृतवन्तः ।। ‘कृश आह्वाने’ – धा, सक, कर्तरिलिट्, पर. प्र.ब ।।१८ ।। छ.गू.प्र. – नारायणेति ।। प्राज्ञतीर्थार्यः नारायण तुभ्यं नमः नमो वस्तात्विकाः सुराः युष्माकं नमः । गुरो हे सत्यप्रज्ञ नाथ हे श्रीनारायण नोऽस्माकं सुगतिं देहि । हाहा इति चुक्रशुः ।‘क्रुश आक्रोशने’ लिट् परस्मैपदम् । ‘हाविषादाशु- गीतिषु’ । ‘अहहेत्यद्भुते खेदे हिर्हेताववधारण’ इत्यमरः ।।१८।। संस्कृतव्याख्यानम् – तेषामिति ।। सत्यप्रज्ञस्तन्नामकः प्राज्ञतीर्थार्यगुरुः महर्षिभिः, साकं सह, तेषां प्राज्ञतीर्थादीनां, कृते इति शेषः, आविरभूत् प्रकटोऽभूत् ।। दैत्यैः ज्ञानोत्तमादिभिर्मायिभिः स्वमतादरणार्थं बाधिताः सर्वे, ते, हंसा सन्न्यासिनः प्राज्ञतीर्थादयः, तस्मै सत्यप्रज्ञाय, द्रुतं अविलम्बितं यथा तथा, नेमुर्वन्दितवन्तः । ‘णमु प्रह्वत्वे शब्दे च’ – धा, सक, कर्तरि लिट्, पर.प्र.ब. ।। सू – ‘क्रियार्थोपपदस्य’ इत्यादिना ‘तस्मै’ इति चतुर्थी ।। ‘सर्षये दैत्यपीडिता’ इति पाठे – सर्षये ऋषिभिस्सहिताय, तस्मै सत्यप्रज्ञाय इत्यर्थः ।। १९ ।। छ.गू.प्र.– तेषामिति ।। महर्षिभिःसाकं सत्यप्रज्ञतीर्थः गुरुः तेषां प्राज्ञतीर्थादीनां आविरभूत् । प्रकटी बभूव । दैत्यपीडिताः सन्न्यासिनः तस्मै सत्यप्रज्ञाय द्रुतं नेमुः । ‘णमु प्रह्वत्वेशब्दे भावे’ लिट् ।।१९।। संस्कृतव्याख्यानम् – क्रन्दत इति ।। महत्तपो यस्य स महातपाः, तेषां प्राज्ञतीर्थादीनां, महत्, भयं सत्सम्प्रदायबहि- र्भावाद्दुस्सम्प्रदायप्रवेशाच्च महाननर्थोस्माकं भविष्यतीति चिन्ताजनितं साध्वसं, जानन् ज्ञानदृष्ट्या विद्वान्, सत्यप्रज्ञः, क्रन्दतः क्रोशतः, भूमौ पतितान्, तान् प्राज्ञतीर्थादीन्, आज्ञया उत्तिष्ठतेति वचनमात्रेण उत्थाप-यामास ।। ‘ष्ठा गतिनिवृत्तौ’ – धा, णिजन्तः, कर्तरि लिट्, पर. प्र.ए. ।। ‘उवाच स महत्तम’ इति द्वितीय पादपाठे तु – महत्तमोऽतिशयेन महान्, स सत्यप्रज्ञः, उवाच सान्त्ववचनानुच्चरितवानिति सामान्यवचन- परतया व्याख्येयम् ।। इतरथा उत्तरश्लोकस्थेन ‘उवाच’ इत्येनन पौनरुक्त्यं स्यात् ।। २० ।। छ.गू.प्र. – क्रदन्त इति ।। महातपाः क्रन्दतः क्रोशन्त भूमौ पतितान् आज्ञयोत्थापयामास । तेषां महद्भयं जनान् उवाच । लिट् । ‘भीतिर्भीः साध्वसं भयम्’ इत्यमरः ।।२०।। संस्कृतव्याख्यानम् – उपविश्येति ।। तस्मिन् बदरिकाश्रमे, आसने, उपविश्य आसीनो भूत्वा, तान् प्राज्ञतीर्थादीन्, मुनीन्, उपवेश्य च, उवाच जगाद ।। ‘वच परिभाषणे’ – धा. सक. कर्तरि लिट्, पर. प्र. ए. । वचन- मनुवदति – अहमित्यादिना ।। भो मुनयः अहं तपसा योगसामर्थ्येन, भवतां युष्माकं, अखिलं दुर्जनजनितं, भयं, वेद्मि जानामि ।। ‘विद ज्ञाने’ कर्तरि लट्, पर. उ.ए. । ‘उपविश्याश्रमे तस्मिन्’ इति पाठे – तस्मिन् बदरिकाश्रमस्थे आश्रमे स्वाश्रम इत्यर्थः ।। २१ ।। छ.गू.प्र. – उपविश्येति ।। सत्यप्रज्ञः तस्मिन् आसने उपविश्य मुनीन् मननशीलान् उपवेश्य अहं तपसाखिलं भवतां युष्माकं भयं वेद्मीत्युवाच ।।२१।। संस्कृतव्याख्यानम् – अयमिति ।। अयं वर्तमानः कालः, साक्षादनुपचारेण, कलेस्तन्नामकस्य मुख्यासुरस्य ।। तेन कलिना, जनास्सज्जनाः, उपद्रुताः तत्वज्ञानप्रच्यावनादिना पीडिताश्च । हे वत्साः हे बालाः प्राज्ञतीर्थाद्याः, एतेन कल्युपद्रवनिवारणे भवतां शक्तिर्नास्तीति सूचितम् ।। यूयं अत्युग्रं दुस्सहं, तत्वस्य अनारोपितस्य विप्लवेन मिथ्यात्वनिर्गुणत्वादिप्रतिवादिनोत्सादनेन सङ्कटं क्लेशं, विमुञ्चत त्यजत ।। ‘मुच्लृ मोक्षणे’ – धा. सक. कर्तरि. लोट्, पर. म. ब. ।। २२ ।। छ.गू.प्र. – अयमिति ।। वत्साः हे कुमाराः साक्षात्प्रत्यक्षतः कलेः कालः तेन कलिकालेन जनाः सज्जनाः उपद्रुताः पीडिताः अत्युग्रासह्यतत्वविप्लवसङ्कटंं तत्वशास्त्रनाशकष्टं विमुञ्चत । ‘मुच्लृ मोक्षण’ इति धातो र्लोङात्मनेपदं मध्यमपुरुषबहुवचनम् । ‘साक्षात्प्रत्यक्षतुल्ययोः’ ।।२२।। संस्कृतव्याख्यानम् – तवेति ।। हे प्राज्ञतीर्थ, अमी पुरोवर्तिनः, तव, अन्तेवासिनश्शिष्याः पौरुषोत्तमे पुरुषोत्तमस्य हरेः सम्बन्धिनि, क्षेत्रे जगन्नाथाख्यपुण्यस्थाने, पुरुषाभ्यां क्षराक्षराभ्यामुत्तमं हरिं, उपास्य, परामुत्तमां, सिद्धिं मोक्षाख्यां, यान्तु प्राप्नुवन्तु ।। ‘या प्रापणे’ धा, सक, कर्तरि लोट्, पर. प्र.ब ।। ‘अमी हि प्राज्ञतीर्थार्यान्ते- वासिनः’ इत्यपि पाठः ।। २३ ।। छ.गू.प्र. – तवेति ।। हे प्राज्ञतीर्थ अमी तवान्तेवासिनः शिष्याः पौरुषोत्तमक्षेत्रे मायिनिर्मितकृष्णकलेवरविद्यमानक्षेत्रे जगन्नाथ इति यावत् । पुरुषोत्तमं नारायणं उपास्य परामुत्तमां मोक्षमिति यावत् । ‘या प्रापणे’ धातोर्लिट् प्रथमपुरुष-बहुवचनम् ।।२३।। संस्कृतव्याख्यानम् – एवं सर्वेषामपि स्वमात्रमुक्तिसाधनानुष्ठानाभ्यानुज्ञाने, सत्सम्प्रदायस्य लोकप्रवर्तक एव न स्यादि- त्यत आह – शिष्येष्विति ।। हे प्राज्ञतीर्थ – ते तव । शिष्येषु एकः अत्युत्तमः, श्रुतीनां वेदानां, सम्प्रदायस्य परम्परागतस्य, तत्सादृश्यादिरूपार्थोपदेशस्य, अभिगुप्तये प्रवर्तनेन संरक्षणार्थं, मायिभिर्मायावादिभिः, सार्धं सह, तेषां मायिनां, छन्दाणामभिप्रायाणामनुवर्तनैरनुसरणैः, चरतां सञ्चारं करोतु ।। ‘चर गतौ’ – धा, सक, कर्तरि लोट्, पर. प्र.ए. ।। अत्र कर्मविवक्षाभावादकर्मकतया प्रयोगः ।। चान्द्रादिमतानुरोधादात्मने- पदिता । ‘शिष्यः एकः’ इति प्रथमे ‘छन्दानुवर्तिनः’ इति चतुर्थे च पादे पाठाङ्गीकारे – तेषां मायिनां छन्दानुवर्तिनोभिप्रायानुसारिणस्ते, एकः शिष्यः, चरतामित्यन्वयः ।। २४ ।। छ.गू.प्र.– शिष्येष्विति ।। हे प्राज्ञतीर्थ तव शिष्येषु मध्ये एकः श्रुतीनां वेदानां सम्प्रदायाभिगुप्तये सम्प्रदायस्य रक्षार्थं तेषाम् । लोडात्मनेपदम् । ‘अभिप्रायवशौछन्दौ’ इत्यमरः ।।२४।। संस्कृतव्याख्यानम् – सन्न्यासयेदिति ।। सः मायिभिस्सह सञ्चारायाभ्यनुज्ञातस्त्वच्छिष्यः निपुणं सत्सम्प्रदायप्रवर्तन- कुशलं, वंशस्य दुर्वासःप्रभृतिपरमहंसवंशस्य धरं धारकं, एकं, द्विजं, विप्रं, सन्न्यासयेत्, यत्याश्रमवन्तं कुर्यात् । ‘असु क्षेपणे’ धा, णिजन्तः, सक, कर्तरिलिङ्, पर. प्र. ए. । सोऽपि अन्यं तादृशं, सन्न्यासयेत् ।। सोऽपि, अन्यं, सन्न्यासयेत् ।। इत्येवं प्रकारेण, नोऽस्माकं, वंशः परम्परा, अखण्डितः विच्छेदरहितः, स्यात् भवेत् । ‘अस भुवि’ – धा, अक, कर्तरि लिङ्, पर, प्र.ए. ।। ‘वंशोऽयं स्यादि’त्यपि पाठः ।। छ.गू.प्र.– सन्न्यासयेदिति ।। हे प्राज्ञतीर्थ स मायिभिः सह वर्तमानः निपुणं कुशलं वंशधरं वंशं धरतीति वंशधरः तं तथा । एकं द्विजं सन्न्यासयेत् एवं प्रकारेण नोऽस्माकं वंशः अखण्डः खण्डो व्यवधानो न भवेदिति यावत् । ‘अस भुवि’ लिट् । ‘प्रवीणो निपुणाभिज्ञविज्ञानिष्ठातशिक्षिताः । वैज्ञानिकः कृतमुख कृतीकुशल इत्यपि’ इत्यमरः । ‘चान्वाचये समाहारेतरेतरसमुच्चये । गर्हः समुच्चये प्रश्नशङ्कासम्भावनास्वपि’ इत्यमरः ।।२५।। संस्कृतव्याख्यानम् – सत्सम्प्रदायप्रवर्तनाय सन्न्यासितैः प्रवर्तनीयं हर्युपासनाप्रकारमाह – नारायण इति ।। नारायणो हरिः, परस्सर्वोत्तमः स्वामी सर्वनियामकः, ‘भीषस्माद्वातः पवतः’ इत्यादि श्रुतेः ।। सत्याः पारमार्थिकाः ज्ञानादयः सन्तो दोषासमानाधिकरणा गुणाः यस्य स तथोक्तः । तस्य सर्वोत्तमत्वसर्वनियामकत्वगुणपूर्णत्व- युक्तस्य हरेः, अहं, दासः किङ्करः, अस्मि । सत्यं मम हरिदास्यत्वं हरेर्मदादिसर्वनियामकत्वं च वास्तवं – न तु ब्रह्मज्ञानबाध्यमित्यर्थः । इत्येवं, उपासा उपासना, प्रवर्ततां प्रवृत्ता भवतु भवच्छिष्यपरम्परायामिति शेषः ।। ‘वृतु वर्तने’ – धा, अक, कर्तरि लोट्, आत्म, प्र. ए. ।। २६ ।। छ.गू.प्र. – नारायण इति ।। हे प्राज्ञतीर्थ पारम्पर्येण वंशधरैः परःस्वामी ईश्वरः सत्यज्ञानानि सद्गुणानि सत्यं च ज्ञानं च सत्यज्ञाने त एव आदी येषां ते ज्ञानादयः ते सद्गुणा यस्मिन् स तथा । ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति श्रुत्यर्थः सूचितो भवति । नारायणः अहं तस्य नारायणस्य दासः भृत्यः सत्यं यथार्थः एवम्प्रकारेण उपासना प्रवर्तताम् । ‘वृतु वर्तने’ । अयं स्वामी ईश्वरः पतिरीशिता । ‘अधिर्भूनायको नेता प्रभुः परिवृढोऽधिपः’ इत्यमरः ।।२६।। संस्कृतव्याख्यानम् – एवमुपासनाप्रवर्तनेपि मायिभ्यो बाधो यथा न भवेत् तथोपायमुपदिशति – मायिनामिति ।। हे वत्सा इति सम्बोधनं प्राकर्णिकत्वादन्वेति । हे प्राज्ञतीर्थादयः मायिनां लाञ्छनं भस्मत्रिपुण्ड्रादिकं, धार्यं स्वशरीरे युष्माभिः ।। तेषां मायावादिनामन्तस्थं अन्तर्यामिणं हरिं स्मृत्वा नमनोद्देश्यत्वेन चिन्तयित्वा, तेषां मायिनां, नमनादिकं वन्दनाद्यं, कार्यं क्रीयतां युष्माभिः ।। अनर्हाणां नमनाद्यवश्यकरणीयताप्रसक्ते, तदन्त-र्यामि हरिध्यानपूर्वकं तत्करणं विहितं भागवते च ‘‘गुहाशयायैव न देहमानिने’’ इति ।। मायाया वाद- स्सकलजगत्कल्पकत्वादिसिद्धान्तश्च, पठ्यतां भवद्भिः ।। ‘पठ व्यक्तायां वाचि’ – धा, कर्मणि लोट्, आत्म, प्र. ए. ।। २७ ।। छ.गू.प्र. – मायिन इति ।। हे प्राज्ञतीर्थादयः युष्मदादिभिः मायिनां लाञ्छनं चिह्नं गोपीचन्दनादिधार्यं तदन्तस्थं तेषां मायिनामन्तस्थं हरिं विष्णुं स्मृत्वा तन्नमनादिकं मायावादिनां नमनादिकं सेवाकर्म कार्यम् । मायावादं मिथ्याभूतशास्त्रं पठ्यताम् । ‘पठ पाठे’ कर्मणि लोट् ।।२७।। संस्कृतव्याख्यानम् – मायिनामनुसरणस्याकरणे बाधकमाह – महासुरेति ।। हे प्राज्ञतीर्थ, त्वं, लोके भुवने, महासुरमये श्रेष्ठदैत्यप्रचुरे सति, आविष्कर्तुं विष्णुभक्तत्वं प्रकटीकर्तुं, नैवार्हसि । ‘काले नैवाविष्कारमर्हसि’ इति च पाठः । अर्ह पूजायां योग्यत्वे च – धा. कर्तरि लट्, मायिनो ज्ञानोत्तमाद्याः भैरव्या तन्नाम््नया विद्यया वा, कृपाण्या तन्नाम््नया विद्यया वा – यद्वा – खड्गेन, वैदिकान् वेदप्रामाण्याभ्युपगन्तॄन्, घ्नन्ति हिंसन्ति । ‘हन हिंसागत्योः’ – धा, सक, कर्तरि, लट्, पर, प्र. ब. । वर्तमानसामीप्याद्वर्तमानवद्व्यपदेशः ।। २८ ।। छ.गू.प्र. – महासुरेति ।। हे प्राज्ञतीर्थ लोके भुवने महासुरमये सति । महतामसुराणां मयः प्राचुर्यः यस्मिन् स तथा । आविष्कर्तुं वेदोक्तं मतं प्रकटीकर्तुं नार्हसि । कुतः मायिनो मिथ्यावादिनः भैरव्या कृपाण्याख्यशक्त्या वा वैदिकान् वेदोक्तकर्माणि वेदाश्च येषां सन्ति ते वैदिकाः तान् तथा इतरान् स्वार्थे णिच् घ्नन्ति भविष्यत्समीपे लिट् । ‘हन हिंसागत्या’ लिट् । त्रिष्वथो जगती लोको विष्टपं भुवनं जगत् ।।२८।। संस्कृतव्याख्यानम् – तेभ्य इति ।। हे वत्साः यूयं तेभ्यः वैदिकजनहिंसकेभ्यः मायिभ्यः ।। सू ।। भीतार्थानां भयहेतुरिति रक्षणार्थकगुपूधातुयोगात्तेभ्यः इति पञ्चमी ।। आत्मानं देहं, गोपायत रक्षत । ‘गुपू रक्षणे’ – धा, सक, कर्तरि लोट्, पर. म. ब. । मायिभिः ज्ञानोत्तमादिभिर्दत्तं, दण्डपटादिकं, त्याज्यं, मायिचिह्नयुक्तत्वात् त्यक्तव्यम् । भवद्भिरिति शेषः । इत्येवं, सत्यसंवित् सत्यप्रज्ञः । नि । प्रेक्षोपलब्धिश्चित् संविदित्यमरः । तं प्राज्ञतीर्थं प्रति, उक्त्वा अभिधाय । ‘इत्युक्त्वा सत्यतीर्थस्सन्त्याज्य दण्डपटादिकम्’ इति पाठे – सत्यतीर्थः सत्यप्रज्ञः इत्येवं उक्त्वा, मायिदत्तं दण्डपटादिकं, सन्त्याज्य त्याजयित्वा वर्जयित्वेत्यर्थः ।। २९ ।। संस्कृतव्याख्यानम् – तेभ्यो प्राज्ञतीर्थादिभ्यो, पूर्ववत् सन्न्यासदानकाल इव, दण्डाद्यं, पुनः, ददौ दत्तवान् । ‘डुदाञ् दाने’ –धा, सक, कर्तरि लिट्, पर.प्र.ए ।। सः, सत्यात्मा सत्यप्रज्ञः ।। नि ।। आत्मा यत्नोधृतिर्बुद्धिरित्यमरोक्तेः । तान् प्राज्ञतीर्थादीन्, अनुज्ञाप्य, परावृत्य गन्तुमिति शेषः, पूर्ववत्, तिरोदधे अस्तङ्गतो बभूव ।। ‘डु धाञ् धारणपोषणयोः’ – धा, सक, कर्तरि लिट्, आत्म, प्र. ए. ।। ३० ।। छ.गू.प्र. – सार्धश्लोकेनैकान्वयः । तेभ्य इति ।। हे प्राज्ञतीर्थ मायिभ्यः यूयं आत्मानं देहं गोपायत रक्षत । सम्प्रदाय- परं परोपदेशं न मुञ्चत । भवद्भिर्मायिदत्तं ज्ञानोत्तमादिभिर्दत्तं दण्डादिकं त्याज्यमिति सत्यसंवित् सत्यप्रज्ञः तं प्राज्ञतीर्थं उक्त्वा पुनस्तेभ्यः दण्डादिकं पूर्ववद्ददौ । ‘दा दाने’ लिट् । ‘गुपू रक्षणे’ ‘मुच्लृ मोक्षणे’ लोट् परस्मैपदम् । मध्यमपुरुष-बहुवचनम् ।।२९।। तानिति ।। स सत्यात्मा सत्यप्रज्ञः तान् प्राज्ञतीर्थादीन् अनुज्ञाप्य आज्ञां दत्वा पूर्ववत् तिरोदधे । ‘डु धाञ् धारणपोषणयोः’ लिट् । ‘तिरोन्तर्दर्धौतिर्यगि’त्यमरः ।।३०।।
संस्कृतव्याख्यानम् – प्राज्ञेति ।। प्राज्ञस्य प्राज्ञतीर्थस्य, शिष्याः, विरक्ताः विषयासक्तिरहितास्सन्तः विप्रिय इत्यादाविव नञर्थकस्य विशब्दस्य रक्तशब्देन समासः – यद्वा, वौ परमात्मनि रक्ता आसक्तास्सन्तः, पौरुषोत्तमं पुरुषो-त्तमस्य हरेस्सम्बन्धि, क्षेत्रं जगन्नाथाख्यं, ययुः प्रापुः । ‘या प्रापणे’ – धा, सक, कर्तरि लिट्, पर. प्र. ब. ।। प्राज्ञः प्राज्ञतीर्थः, गुरुणा सत्यप्रज्ञेनोपदिष्टेन मार्गेण प्रकारेण, मायिभिः, सह, उवास । ‘वस निवासे’ – धा, अक, कर्तरिलिट्, पर.प्र.ए. ।। ३१ ।। छ.गू.प्र. – प्राज्ञेति ।। प्राज्ञशिष्याः विरक्ताः सन्तः पौरुषोत्तमं क्षेत्रं ययुः । प्राज्ञः प्राज्ञतीर्थः गुरूपदिष्टमार्गेण मायिभिः सह आस । ‘अस भुवि’ लिट् ।।३१।। संस्कृतव्याख्यानम् – एकमिति ।। प्राज्ञतीर्थः एकं, वंशस्य धरं धारकं शिष्यं, प्राप्य लब्ध्वा, उपास्तिं गुरूपदिष्टामु- पासनां, अशिक्षयत् शिक्षितवान् । सोऽपि प्राज्ञतीर्थेन सन्न्यासितोऽपि अन्यं शिष्यं सन्न्यस्य सन्न्यासिनं कृत्वा स्वं स्वीयं सम्प्रदायं पारम्पर्योपदेशं अशिक्षयत् शिक्षितवान् । ‘शिक्ष विद्योपदाने’ – धा, णिजन्तः, कर्तरी लङ्, पर. प्र. ए. ।। ३२ ।। छ.गू.प्र. – एकमिति ।। स प्राज्ञतीर्थः वंशधरं एकं शिष्यं कृत्वा उपास्तिं उपासनां अशिक्षयन् । ‘शिक्ष शिक्षायां’ लङ् । स्वसिद्धिं जगाम इति शेषः । स शिष्यः अन्यं सन्न्यस्य सन्न्यासिनं कृत्वा स्वसम्प्रदायमशिक्षयत् । स्वयं देवम- सेवतेति शेषः ।।३२।। संस्कृतव्याख्यानम् – सोऽपीति ।। सोऽपि प्राज्ञतीर्थशिष्येण सन्न्यासितोऽपि, अन्यं, सन्न्यस्य, सम्प्रदायमशिक्षयत् । इत्येवं प्रकारेण अयमुत्सादाभिमुखतया स्थितः, वंशस्सत्यप्रज्ञान्वयः, भाग्यतः अदृष्टविशेषात्, नोदच्छिद्यत विच्छिन्नो नाभूत् । ‘छिदिर् द्वेधीकरणे’ – धा. कर्मणि लङ्, आत्म, प्र. ए. । ततः कतिपयसमयानन्तरं, अस्मिन्, केरल इति देशो भागविशेषस्तस्मिन्, मायिभिर्मायावादिभिः स्वजन आत्मीयजन इति भ्रमात् निमित्तात्, गृह्यमाण आद्रियमाणः, अच्युते हरौ प्रेक्षा ज्ञानं यस्य सः इति तदाख्यः, पारिव्राज्यं परिव्राजः सन्न्यासिनो भावं तुर्याश्रममित्यर्थः, उपागमत् प्राप्तवान् । ‘गम्लृ गतौ’ धा,सक,कर्तरि लङ्, पर.प्र. ए. । ‘ततः सनकवंशेऽस्मिन्’ इत्यपि पाठः स स्वरसः । केचित्तु ‘केवलवंशे गौप्यवंश’ इति व्याकुर्वते ।। ३३ ।। छ.गू.प्र. – स इति ।। सत्यप्रज्ञशिष्यः अन्यमशिक्षयदिति शेषः । इत्येवम्प्रकारेण भाग्यतः पुण्यादयं वंशो नोदच्छिद्यत । तत इति ।। ततस्तस्मिन् केवलवंशे गोप्यवंशे मायिभिः मायावादिभिः स्वजनभ्रमात् मद्वंश इति मिथ्याज्ञानात् अच्युतप्रेक्षः च्युतिरहितनारायणे प्रेक्षा चित् यस्य स तथा गृह्यमाणः सन् पारिव्राज्यं परिव्रजो भावः पारिव्राज्यं तत् तथा सन्न्यासमिति यावत् । उपागमत् । ‘दल विदारणे’ लङात्मनेपदं ‘गम्लृ गतौ’ । ‘प्रेक्षोपलब्धिश्चित्संवित्’ इत्यमरः । ‘भिक्षुः परिव्राड्’ इत्यमरः ।।३३।। संस्कृतव्याख्यानम् – एवमुपयुक्तमभिधायेदानीमानन्दतीर्थभगवत्पादानामाविर्भावादिकं निरूपयति – अथेत्यादिना ।। अथ अच्युतप्रेक्षसन्न्यासानन्तरं, ईशः तत्वज्ञानदानसमर्थः, सञ्जीवनो जगतां जीवनप्रदआत्मास्वरूपं यस्य स वायुः ।। नि ।। ‘जगत्प्राणः समीरणः’ इत्यमरपठितजगत्प्राणशब्दाभिधेयत्वात् । श्रुतेर्वेदस्य दूषकाणामपार्थ- कथनेनोत्सादकानां, असुराणां विप्रवंशजातानां दैत्यानां उत्सादनाय नाशाय, अर्थयतः प्रार्थनां कुर्वतः, सुरेन्द्रान् देवश्रेष्ठान्, आनन्दयन् सन्तोषयन् सन्, श्रियो लक्ष्म्या दयितस्य पत्युहरेराज्ञया, भूमौ अवततार प्रादुर्बभूव । ‘तृ प्लवनतरणयोः’ – धा, कर्तरि लिट्, पर. प्र.ए. । अवोपसृष्टत्वादाविर्भावार्थकत्वमकर्मकता च । अत्रादावथशब्दप्रयोगो मध्वार्यकथाप्रारम्भे कर्तव्यमङ्गार्थ इति बोध्यम् ।। ३४ ।। छ.गू.प्र. – अथेति ।। अथ मङ्गलं अच्युतप्रेक्षसन्न्यासानन्तरं वा । श्रुतिदूषकाणां ब्राह्मणजातिषु जातदैत्यानां उत्सादनाय नाशनाय अर्थयतः प्रार्थनां कुर्वतः सुरेन्द्रान् देवश्रेष्ठान् आनन्दयन् सञ्जीवनात्मा सच्छास्त्राख्यसञ्जीवन- स्वरूप ईशः मुख्यप्राणः श्रीदयिताज्ञया श्रीरेव दयिता भार्या यस्य सः श्रीदयितः श्रीनारायणः तस्याज्ञया भूमौ अवततार अवतारं चकार । ‘मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथोअथे’त्यमरः ।।३४।। संस्कृतव्याख्यानम् – स इति ।। अथ प्रादुर्भावानन्तरं, भगवान् , षड्गुणसम्पन्नः, स भूमौ वासुदेवाख्ययाऽवतीर्णो वायुः, पितुस्तातान्मध्यगेहात्, उपनीतिमुपनयं, इतः प्राप्तस्सन्, सकलानां समस्तानां वेदानां सुलक्षणानां समीचीनानां लक्षणानां शिक्षादिलक्षणशास्त्राणां च शिक्षणमभ्यासो यस्य स तथोक्तस्सन्, यतिवरात् द्रौपदी-हस्तदत्तान्नभोजनादिना परिशुद्धान्तःकरणतया सन्नासिश्रेष्ठान् परमे सर्वोत्तमे अच्युते हरौ चेतो मनो यस्य तस्मात् अच्युतपे्रक्षार्यात्, पारमहंस्यं परमहंसानां सम्बन्धिनं, आश्रमं यत्याश्रममित्यर्थः, अधृत गृहीतवान् ।। ‘धृञ् धारणे’ – धा,सक, कर्तरि, लुङ्,आत्म, प्र.ए. । अभृतेत्यपि पाठः । तर्हि भृञ् भरण इति धातुपाठः । ‘परमाच्युतचेतस’ इति पाठे अच्युतचेतस अच्युतप्रेक्षात् परमुत्तमं पारमहंस्याश्रममित्यन्वयः ।। ३५ ।। छ.गू.प्र. – स इति ।। भगवान् षड्गुणैश्वर्यसम्पन्न सः वाय्ववतारः वासुदेवाख्यबालकः पितुर्मध्यगेहाख्यात् उपनीति-मुपनयनमितः प्राप्तः सन् सकलदेवसुलक्षणः सन् शोभनलक्षणयुक्तः सकलदेवसुशिक्षणं यस्य स तथा सकलदेवानां च शोभन लक्षणशास्त्राणां च शिक्षणं यस्य वा तथा । अथ सकलसज्जनमङ्गलार्थं यतिवरादच्युतचेतसः अच्युतप्रेक्षात् पारमहंस्यं परमहंससम्बन्धिनं परमुत्तमाश्रमं अधृत दधार । ‘डुधाञ् धारणपोषणयोः’ लङ् आत्मने पदम् ।।३५।। संस्कृतव्याख्यानम् – प्रवर्तितेति ।। या उपासना, पुरा पूर्वं, सनकादिभिः प्रवर्तिता । ततः परस्तात् तदनन्तरं, परतीर्थस्य तन्नाम्नो यतीश्वरस्य शिष्यकैः शिष्यैः प्रवर्तिता । तां तादृशीं, स्वस्य गुरुणा सत्सम्प्रदायप्रवर्तनाय सत्यप्रज्ञवंशे सन्न्यसितेन प्रसादितां अनुगृहीतां प्रीतिपूर्वकमुपदिष्टामित्यर्थः, हरेः विष्णोः, उपास्तिमुपासनां, मध्वाय सन्न्यासानन्तरं तन्नामकतया संवृत्ताय वायवे, हंसानां राट् राजा स्वामी अच्युतप्रेक्षः, भक्त्या ‘‘भविष्यत- श्शिष्यवराद्धि विद्धि मामिति’’ इत्यादि श्रीमध्वविजयोक्तानन्तेश्वरानुग्रहासादितशिष्यत्वहेतुकेन माहात्म्य- ज्ञानपूर्वकस्नेहेन, उपदिदेश उपदिष्टवान् । ‘दिश अतिसर्जने’ धा, सक, कर्तरि, लिट्, पर. प्र.ए. ।।३६ ।। छ.गू.प्र. – प्रवर्तितेति ।। हंसराट् परमहंसः श्रेष्ठः अच्युतप्रेक्षः सनकादिभिः या उपासना पुरा प्रवर्तिता ततः परस्ता-दुपरिपरतीर्थशिष्यकैः प्रवर्तितेति यावत् । स्वगुरुप्रसादितां स्वगुरोः प्रसादात् अनुग्रहाज्जाता गुरुप्रसादादितः तथा इतोजातेर्थे हरेः श्रीविष्णोः तामुपास्तिं उपासनामवाप । मध्वाय श्रीमदानन्दतीर्थाय भक्त्या प्राचीनजन्म सुस्नेहेनोपदिदेश उपदेशं चकार । ‘दिश अतिसर्जने’ लिट् परस्मैपदम् ।।३६।। संस्कृतव्याख्यानम् – गुणानिति ।। शर्वो रुद्र आदिर्येषां तथोक्तानां सुपर्वणां देवानां, गुरुस्तत्वोपदेष्टा, अनन्तानि बहूनि रूपाणि यस्य सः, ‘त्रिकोटिरूपः पवनश्च मे सुतः’ इत्युक्तेः । भगवान् यथायोग्यं षड्गुणसम्पन्नः, अनन्ता अपरिमिता धीर्बुद्धिर्यस्य स मध्वार्यः, दुः अविद्यमानः अन्तोवधिर्यस्यास्सा निरवधिका, यद्वा – दुःकष्टसाध्यः अन्तो निर्णयो यस्याः सादुर्ज्ञेया तादृशी सन्ततिर्व्याप्तिर्यस्य तथोक्तस्य, हरेर्विष्णोः, अनन्तान् देशतः कालतः गुणतश्चापरिच्छिन्नान्, ‘‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे’ इत्यादेः । गुणान् ज्ञानादीन्, अनन्तरूपेषु अनेकरूपेषु, उपसंहरन् सन् सर्वेषु रूपेषु हरिस्सकलगुणपूर्ण इति जानन्नित्यर्थः, उपास्त उपासनां कृतवान् । ‘आस उपवेशने’ – धा, कर्तरि लङ्, आत्म, प्र.ए. । उपोपस्पृष्टत्वाद् ध्यानार्थकत्वं सकर्मकता च ।। ३७ ।। छ.गू.प्र. – गुणानिति ।। शर्वादिसुपर्वणां महादेवादिसर्वसुराणां गुरुर्भगवान् षड्गुणैश्वर्यसम्पन्नः अनन्तरूपः अनन्तान्यपरिमितानि रूपाणि यस्य स तथा । अनन्तं ध्यायतीति अनन्तधीः । ‘ध्यै चिन्तायाम्’ । अथवा अनन्ताः धियः प्रज्ञा यस्य स तथा । पूर्णप्रज्ञ इत्यर्थः । दुरन्तसन्ततेः न विद्यते अन्तो येषां ते तथा तान् गुणानुपसंहरन् उपासयन् सन् उपास्त अनन्तगुणोपासनां चकार । उपेत्युपसर्गः ।।३७।। संस्कृतव्याख्यानम् – दस्योरिति ।। आराध्यः शर्वादिभिः पूज्यः मध्वः, दस्योः वेदानामपार्थकथनादिना भगवद्गुण- मण्यादीनामपहारतया चोरभूतात्, मणिमतस्तन्नामकदैत्यांशात् सङ्करात्, उदितमुद्भूतं दुर्भाष्यं, व्यस्य निरा- कृत्य, सकलाभिः श्रुतिभिस्तर्कैर्दूषणानुमानैश्च बृहितं पूर्णं, वेदानामन्तो निर्णयो येभ्यस्तानि च ब्रह्मसूत्राणि तेषां भाष्यं ‘‘सूत्रार्थो वर्ण्यते यत्र’’ इत्यादिनोक्तलक्षणकं ग्रन्थं, चक्रे कृतवान् । ‘डुकृञ् करणे’ – धा, सक, कर्तरि लिट्, आत्म, प्र. ए. ।। ३८ ।। छ.गू.प्र. – दस्योरिति ।। शर्वेन्द्रादिभिराराधियितुं योग्यः श्रीमध्वः श्रीमदानन्दतीर्थः दस्योः महाचोरात् मणिमतः सकाशादुदितं उक्तं ब्रह्मसूत्राणां दुर्भाष्यं व्यस्य निराकृत्य वेदान्तसूत्रभाष्यं वेदानां अन्तानि निर्णयानि च तानि सूत्राणि च येषां ये भाष्यं तथा सकलश्रुतितर्कबृंहितं सकलश्रुतिभिः तर्कैः अनुमानैर्बृंहितं पूर्णं तत्तथा चक्रे चकार लिडात्मने-पदम् ।।३८।। संस्कृतव्याख्यानम् – ततानेति ।। वेदेश्वराणां रमाव्यतिरिक्तवेदाभिमानिदेवानां चक्रवर्तीसार्वभौमः श्रेष्ठ इत्यर्थः । यद्वा, वेदेश्वरस्य श्रीबदरीनारायणस्य चक्रं प्रवर्तयतीति तथोक्तः श्रीमध्वार्यः, तन्त्रस्य ब्रह्ममीमांसाशास्त्रस्य श्रुतीना-मृचामुपनिषदां च गीतिकायाः श्रीकृष्णेनार्जुनं प्रत्युपदिष्टाया भगवद्गीतायाश्चेत्येतानां, भाष्याणि व्याख्यान- ग्रन्थान्, ततान चकार । ‘तनु विस्तारे’ –धा,सक, कर्तरि लिट्, पर. प्र. ए. । पुराणस्य श्रीमद्भागवतस्य रामायणस्य मूलरामायणादिरामकथापरग्रन्थसङ्घस्य भारतस्य चेत्येषां, तात्पर्याणामाशयाणां विनिर्णयं सम्यङ्निर्णायकग्रन्थं च, चकार । ‘डुकृञ् करणे’ – धा, सक, कर्तरि लिट्, पर. प्र.ए. ।। रामायणतात्पर्य- निर्णयग्रन्थस्य पृथगकरणेपि भारततात्पर्यनिर्णयस्यैव सकलपुराणरामायणभारततात्पर्यनिर्णयत्वं युज्यते, ‘समस्तशास्त्रार्थनिर्णयोऽयं’ इति तदुक्तिरिति मन्तव्यम् ।। ३९ ।। छ.गू.प्र. – ततानेति ।। वेदेश्वरचक्रवर्ती वेदेश्वराणां लक्ष्मीव्यतिरिक्तवेदाभिमानिदेवानां चक्रवर्ती सार्वभौमः श्रेष्ठः इत्यर्थः । श्रीमध्वः तन्त्राणां सिद्धान्तानां सर्वमीमांसानां श्रुतीनां वेदोपनिषदां गीतिकायाः श्रीमद्भगवद्गीतायाश्च भाष्याणि व्याख्यानानि ततान चकार । ‘तनु विस्तारे’ लिट् परस्मैपदम् । पुराणरामायणभारतानां तात्पर्यविनिर्णयं च तात्पर्याणां विशेषनिर्णयः तात्पर्यविनिर्णयः तं तथा चकार । ‘तन्त्रं प्रधाने सिद्धान्ते तन्तुवाये परिच्छदे’ इत्यमरः ।।३९।। संस्कृतव्याख्यानम् – अधुना मध्वावतारफलमाह – तार्किकेति ।। मायिनो मायावादिन एव गोमायवो जम्बुकाः मध्व एव केसरी सिंहस्तस्मिन्, तार्किकाश्शुष्कतर्कनिपुणजना एव द्विरदा गजास्तेषां पुञ्जस्य भञ्जने मर्दनविषये, जृम्भिते मुखविवृतिं कुर्वति सति, यथा सिंहः कुम्भिकुम्भभेदनाय मुखं विवृणोति, यथा मध्वो दुर्मतखण्डनाय मुखविवृतिं यदा करोति तदेति भावः । सङ्कटेन ‘कृते वादेऽस्माकमवश्यं भावौ पराजयः, अकृते च महाप्रसिद्धिर्मध्वस्य स्यात्’ इति खेदेन, भयेन मध्वशिष्यतामाप्ताद्राज्ञोऽस्माकं दण्डो भविष्यतीति भीत्या च, दश दिशः प्रति, पराद्रवन् पलायिता अभवन् । ‘द्रु गतौ’ – धा, सक, कर्तरि, लङ्, पर,प्र.ब. ।। ४० ।। छ.गू.प्र. – तार्किकेति ।। तार्किकद्विरदपुञ्जभञ्जने तार्किका एव द्विरदाः हस्तिनः तार्किकद्विरदा तेषां पुञ्जानि समूहानि तानि भञ्जतीति तार्किकद्विरदपुञ्जभञ्जनः तस्मिन् तथा मध्वकेसरिणि मध्वाख्यकेसरी तस्मिन् तथा । जृम्भिते उत्कृष्टेसति मायिगोमायवः मायिन एव गोमायवः मृगधूर्तकाः सङ्कटेन भयेन च दशदिशः पराद्रवन् ‘द्रु द्रवणे’ लङ् । ‘दन्ती दन्तावली हस्ती द्विरदोनेकपो द्विप’ इत्यमरः । ‘गोमायुर्मृगधूर्तकः’ इत्यमरः ।।४०।। संस्कृतव्याख्यानम् – ग्रन्थान्ताचरणीयमङ्गलरूपतया श्रीमध्वाचार्यस्तवनं श्रीमध्व- मध्वविजयसाधारणविशेषणैः करोति – व्यद्योतिष्ठेति ।। विचित्रैर्नानाविधैर्वृत्तैश्चरित्रैः भागीरथीतरणबहुकदलीफलभक्षणादिभिः - काव्यपक्षे शार्दूलविक्रीडितादिभिः रुचिरः मनोहरः, केचिद्विचित्रवृत्तरचित इति पठन्ति । मध्वपक्षे – अग्न्याहितादिवत् परनिपातं विशेषणस्याभिप्रयन्ति च । सम्पूर्णानां समग्रानां विद्यानां ज्ञानानामाकर उत्पत्तिस्थानभूतः, – काव्यपक्षे सम्पूर्णस्य देशकालादिभिरपरिच्छिन्नस्य हरेर्विद्यां ज्ञानं करोतीति तादृशः कृष्णस्य हरेः, अद्भुतानां अनन्यसाध्यानां वीर्याणां वर्णने परस्तत्परः, सापेक्षत्वेऽपि गमकत्वात् समासः । नाना अनेके त्रय इत्यर्थः अर्था अभिधेया येषां ते नानार्थाः वेदास्तेषां सार्थं सङ्घमुज्वलयतीति विष्णुपरतया प्रकाशयतीति तथोक्तः, कपिञ्जला-धिकरणन्यायेन नानात्वस्य त्रित्वपर्यवसानं बोध्यम् ।। ‘त्रयोऽर्थाः सर्ववेदेषु’ इति वचनात् त्र्यर्थवचनानि वेदा एव ।। यद्वा, नानाशब्दोऽत्र नानात्वपरः ‘द्व्येकयोर्द्विवचनैकवचने’ इत्यादिवत् । नानात्वेन चेतनाचेतनात्मक- सकलजगद्विलक्षणतया अर्थ्यते ज्ञायत इति नानार्थो हरिः तेनैव निमित्तेन सार्थः सप्रयोजनः उज्वलस्सर्वजीवो-त्तमतया प्रकाशमानश्चेत्यर्थः, ‘एकान्तानां न कस्यचित् । अर्थे नारायणो देवः सर्वमन्यत्तदर्थकं’ इति वचनाद् भगवदितराभिलाषरहितो मध्व इति बोध्यम् । अथवा – नाना अनेके ये अर्थाः पञ्चभेदादिरूपास्तेषां सार्थ-मुज्वलयति दुर्मतनिराकरणेन प्रकाशयतीति तथोक्तः, काव्यपक्षे नाना बहवः अर्था येषां तेषां तादृशश्लोकानां सार्थेः समूहैरुज्वलः, शर्वो रुद्र इन्द्रश्चेत्यादिभिस्सुरैः, देवश्रेष्ठैर्लालितं वन्दनादिना सम्भावितं पदं चरणं यस्य सः, काव्यपक्षे – शर्वेन्द्रादिसुरेन्द्रैर्लालितानि बहुसुरुचिरार्थतया सम्भावितानि पदानि सुप्तिङ्न्तरूपाणि यस्य सः, मायाविनां मायावादिनां, भीषणोऽन्धतमःप्रापणेन भयङ्करः, काव्यं तु – अर्थदूषणेन भयङ्करः, नारायणात् सङ्कर्षणाख्याद्धरेः प्रोद्भव आदिसृष्टौ प्रकृष्टोत्पत्तिर्यस्य सः ‘‘सङ्कर्षणाच्चापि जयातनूजो बभूव साक्षाद्बल- संविदात्मा इत्युक्तेः, काव्यपक्षे – नारायणान्नारायणपण्डिताचार्यात् प्रोद्भवः अर्थोपलम्भपूर्वकनिर्माणं यस्य सः, विजय उत्कर्षोऽस्यास्तीति विजयी, श्रीमध्वः श्रीमदानन्दतीर्थार्यः, मध्वविजयस्तदाख्यग्रन्थश्च, व्यद्योतिष्ट अराजत ।। ‘द्युत दीप्तौ’ – धा, अक, कर्तरि, लुङ् आत्म, प्र. ए. ।। अत्र विशेषणानामनेकार्थसंश्रयणात् केवलप्रकृतविषयक श्लेषालङ्कार इत्यलं विस्तरेणेत्यशेषमतिमङ्गलम् ।। ४१ ।। श्रीमन्नृसिंहवर्यानुग्रहजप्रज्ञराघवेन्द्रेण । मणिमञ्जरीप्रकाशे जनिते पूर्णोऽष्टमःसर्गः ।। पुङ्गनूरालयः कट्टेनृसिंहाचार्यसेवकः । राघवेन्द्रो व्याचकार सन्मुदे मणिमञ्जरीम् ।। ।। इति मैसूरु महासंस्थानधर्माधिकारिभिः पुङ्गनूरु (रायप•ि) राघवेन्द्राचार्यैः विरचितं मणिमञ्जर्याः संस्कृतकन्नडव्याख्यानम् सम्पूर्णम् ।।
छ.गू.प्र. – व्यद्योतिष्ठेति ।। श्रीमध्वः मध्वविजयाख्यकाव्यं च व्यद्योतिष्ठ बभौ । कथम्भूतः श्रीमध्वः विचित्रवृत्तरचितः विचित्राणि आश्चर्यकराणि वृत्तानि चरित्राणि रचितानि येन स तथा । उत्तरनिपातः । सम्पूर्णविद्याकरः समस्तविद्यानामाकरः खनिः । कृष्णस्य वासिष्ठकृष्णस्य अद्भुतवीर्यवर्णनपरः अद्भुतानि आश्चर्यकराणि वीर्याणि सामर्थ्यानि तेषां वर्णनम् । तस्मिन् परो मुख्यः । नानार्थसङ्घोज्वलः नानार्थानां अनेकप्रकारार्थानां सङ्घेन समूहेन उज्वलः शर्वेन्द्रादिसुवन्द्यलालितपदः सुष्टु वन्दितुं योग्ये सुवन्द्ये शर्वेन्द्रादिभिः सुवन्द्ये लालिते पदे यस्य स तथा । मायाविनां मिथ्याज्ञानिनां भीषणः भयङ्करः विशेषेण जयोऽस्तीति तथा । नारायणप्रोद्भवः नारायणाज्ञया प्रकर्षेणोद्भवो अवतारो यस्य स तथा । श्रीमध्वः श्रीमदानन्दतीर्थार्यः व्यद्योतिष्ठ बभौ । कथम्भूतो मध्वविजयः विचित्रवृत्तरचितः विचित्राणि वृत्तानि शरवन्द्योपेन्द्रवृत्तानि तैः रचितो निर्मितः सम्पूर्णविद्याकरः कृष्णस्याद्भुतवीर्यवर्णनपरश्च पूर्ववत् । नानार्थसङ्घोज्वलः अनेकप्रकारार्थसमूहेन प्रकाशत इति तथा । शर्वेन्द्रादिसुवन्द्यलालितपदः रुद्रमहेन्द्रादिभिः सुष्टु वन्द्यानि लालितानि सङ्कीर्तितानि पदानि वा । पदसमूहाः यस्मिन् स तथा । मायाविनां मायावादिनां भीषणः भयङ्करः विजयी च नारायणप्रोद्भवः । श्रीमत् त्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्येण प्रोद्भवो निर्माणं यस्य स तथा । मध्वविजयश्च मध्वविजयाख्यकाव्यं च व्यद्योतिष्ठ बभौ । वीत्युपसर्गः । ‘द्युति दीप्तौ’ कर्तरि लङात्मनेपदं वृत्तं पद्ये वरिष्ठे च वृत्तादौ दृढनिष्ठिते । ‘खनिस्त्रियामाकरः स्यात्’ इत्यमरः । ‘अर्थोभिधेयोरैवस्तु प्रयोजननिवृत्तिषु’ इत्यमरः । ‘रागभेदे च सरले लालितं विप्रसुन्दर’ इति शब्दनिर्णये ।।४१।। ।। इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचितमणिमञ्जरीटीकायां गूढभावप्रकाशिकायां सप्तमः सर्गः समाप्तः ।।