अथ अष्टमः सर्गः
मायाविना समादिष्टा मूर्खाः पत्तलजन्मना ।
नन्दिग्रामं समासाद्य हंसानामदहन्मठम् ॥ १ ॥
निजघ्नुर्गोव्रजं ग्रामे भैरव्या बालकानपि ।
विप्रानज्वरयन् दैत्या अबला उदसादयन् ॥ २॥
प्राज्ञतीर्थः सशिष्योऽसौ छिन्नदण्डकमण्डलुः ।
उद्दिश्य प्रस्थितः प्रातः सत्क्षेत्रं पौरुषोत्तमम् ॥३॥
मायिनस्ताननुदृत्य हंसाग्यान् विजने स्थले ।
अभिहत्य निपात्योचुः सम्प्राप्तप्राणसङ्कटान् ॥ ४ ॥
अस्माननुव्रजध्वं वा म्रियध्वं वा विचिन्त्यताम् ।
इत्युक्ता मायिभिर्मूर्खेरन्वयामेति तेऽब्रुवन् ॥ ५ ॥
अथ ज्ञानोत्तमस्तेभ्यो दत्वा दण्डादिकं खलः ।
व्यत्यस्य लाञ्छनं चोपदिदेशाकूतमासुरम् ॥ ६॥
तेभ्यस्ते निपुणा हंसाः परमा गूढचेतसः ।
श्रुत्वा शारीरकं भाष्यं व्याचख्युस्तर्ककर्कशाः ॥७॥
मायिनो वञ्चयित्वैवं सन्तोषविवशाशयान् ।
आनन्दबालमठगान् न्यवसन् सह ते अमी ॥ ८ ॥
विश्वस्य प्राज्ञतीर्थार्यमैकात्म्योपास्तिनिष्ठितम् ।
मायावादरतं दृष्ट्वा मायिनो जहृषुर्मुदा ॥ ९॥
तं सशिष्यं सदाचारमवलोक्याथ मायिनः ।
पानभोगाबलाकाङ्क्षा विहाय प्रययुः शनैः ॥ १० ॥
अयं हि प्राज्ञतीर्थार्यः सदाचारातिकर्कशः ।
गुरूनस्मान्दुराचारान् गर्हयेदिति भीरवः ॥ ११॥
प्राज्ञतीर्थस्तदा शिष्यान् हंसानाहूय सम्मतान् ॥
रहस्याह महानेष हरिणानुग्रहः कृतः ॥ १२ ॥
बर्बरा मायिनः सर्वे ययुर्विश्वस्य नः सुखम् ।
पारयित्वा चतुर्मासव्रतं यामो वयं त्विति ॥ १३॥
गत्वा गङ्गां ततः स्नात्वा मुक्त्वाऽंहो मायिसम्भवम् ।
मायिव्याजेन यास्यामो नन्दिग्रमं शनैः शनैः ॥ १४ ॥
इत्युक्त्वा प्राज्ञतीर्थार्यश्चातुर्मास्यादनन्तरम् ।
गत्वा सशिष्यो गङ्गायां स्नात्वायादुत्तरां दिशम् ॥ १५ ॥
नन्दिग्रामं समासाद्य हरिं संस्मार्य सज्जनान् ।
निरोगानकरोदार्या रहो नाथमसेवयत् ॥ १६ ॥
प्राज्ञतीर्थश्च तच्छिष्या भक्त्या सम्भाजिता जनैः ।
बदर्यां मुनयः स्नात्वा तीर्थे तीव्रं तपोऽचरन् ॥ १७॥
नारायण नमस्तुभ्यं नमो वस्तात्विकाः सुराः ।
हा हा नः सुगतिं देहि गुरो नाथेति चक्रुशुः ॥ १८ ॥
तेषामाविरभूत्सत्यप्रज्ञः साकं महर्षिभिः ।
तस्मै हंसा द्रुतं नेमुः सर्वे ते दैत्यपीडिताः ॥ १९ ॥
ऋदन्तः पतितान् भूमौ सत्यप्रज्ञो महत्तपाः ।
आज्ञायोत्थापयामास जनांस्तेषां महद्भयम् ॥ २० ॥
उपविश्यासने तस्मिन्नुपवेश्य च तान् मुनीन् ।
उवाचाहं भयं वेद्मि भवतां तपसाखिलम् ॥ २१ ॥
अयं कालः कलेः साक्षात् तेन चोपद्रुता जनाः ॥
वत्सा विमुञ्चतात्युग्रं तत्वविप्रवसङ्कटम् ॥२२॥
तवामी प्राज्ञतीर्थान्तेवासिनः पौरुषोत्तमे ।
क्षेत्रे यान्तु परां सिद्धिमुपास्य पुरुषोत्तमम् ॥ २३ ॥
शिष्येष्वेकः श्रुतीनां ते सम्प्रदायाभिगुप्तये ।
चरतां मायिभिः सार्धं तेषां छन्दानुवर्तनैः ॥२४॥
संन्यासयेत्स निपुणमेकं वंशधरं द्विजम् ।
सोऽप्यन्यमन्यं सोऽपीति वंशो न स्यादखण्डितः ॥ २५ ॥
नारायणः परः स्वामी सत्यज्ञानादिसद्गुणः ।
तस्य दासोऽस्म्यहं सत्यमित्युपासा प्रवर्तताम् ॥ २६ ॥
मायिनां लाञ्छनं धार्यं कार्यं तन्नमनादिकम् ।
स्मृत्वा हरिं तदन्तस्थं मायावादश्च पद्यताम् ॥२७॥
महासुरमये लोके नैवाविष्कर्तुमर्हसि ।
भैरव्या वा कृपाण्या वा मायिनो घ्नन्ति वैदिकान् ॥ २८ ॥
तेभ्यो गोपायतात्मानं सम्प्रदायं न मुञ्चत ।
इत्युक्त्वा सत्यसंवित्तं त्याज्यं दण्डपटादिकम् ॥ २९ ॥
मायिदत्तं पुनस्तेभ्यो दण्डाद्यं पूर्ववदौ ।
ताननुज्ञाप्य सत्यात्मा पूर्ववत् स तिरोदधे ॥ ३० ॥
प्राज्ञशिष्या ययुः क्षेत्रं विरक्ताः पौरुषोत्तमम् ।
प्राज्ञो गुरूपदिष्टेन मार्गेणोवास मायिभिः ॥ ३१ ॥
एकं वंशधरं शिष्यं कृत्वोपास्तिमशिक्षयत् ।
अन्य संन्यस्य सोऽपि स्वं सम्प्रदायमशिक्षयत् ॥ ३२॥
सोऽप्यन्यमित्ययं वंशो नोदछिद्यत भाग्यतः ।
ततः केवलवंशेऽस्मिन् मायिभिः स्वजनभ्रमात् । गृह्यमाणोऽच्युतप्रेक्षः पारिव्राज्यमुपागमत् ॥३३॥
अथासुराणां श्रुतिदूषकाणां उत्सादनायार्थयतः सुरेन्द्रान् । आनन्दयन् श्रीदयिताज्ञयेशः सञ्जीवनात्मावततार भूमौ ॥ ३४ ॥
स भगवानुपनीतिमितः पितुः सकलदेवसुलक्षणशिक्षणः ।
अधृत पारमहंस्यमथाश्रमं यतिवरात्परमच्युतचेतसः ॥ ३५ ॥
प्रवर्तिता या सनकादिभिः पुरा ततः परस्तात्परतीर्थशिष्यकैः । हरेरुपास्तिं स्वगुरुप्रसादितां मध्वाय भक्त्योपदिदेश हंसराट् ॥ ३६ ॥
गुणाननन्तानुपसंहरन् हरेरनन्तरूपेषु दुरन्तसन्ततेः ।
अनन्तरूपो भगवाननन्तधीरुपास्त शर्वादिसुपर्वणां गुरुः ॥ ३७ ॥
दस्योर्मणिमत उदितं दुर्भाष्यं व्यस्य मध्व आराध्यः । वेदान्तसूत्रभाष्यं सकलश्रुतितर्कवृहितं चक्रे ॥ ३८ ॥
ततान तन्त्रश्रुतिगीतिकानां भाष्याणि वेदेश्वरचक्रवर्ती । पुराणरामायणभारतानां चकार तात्पर्यविनिर्णयं च ॥ ३९ ॥
तार्किकद्विरदपुञ्जभञ्जने मध्वकेसरिणि हन्त जृम्भिते ।
सङ्कटेन च भयेन मायिगोमायवो दशदिशः पराद्रवन् ॥ ४० ॥
व्यदोतिष्ठ विचित्रवृत्त्रचितः सम्पूर्णविद्याकरः कृष्णस्याद्भुतवीर्यवर्णेनपरो नानार्थसङ्घोज्वलः ।
शर्वेन्द्रादिसुवन्द्यलालितपदो मायाविनां भीषणः
श्रीमध्वो विजयी च मध्वविजयो नारायणप्रोद्भवः ॥ ४१ ॥
॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतश्रीमन्- नारायणपण्डिताचार्यविरचितायां श्रीमन्मणिमञ्जय अष्टमः सर्गः
। भारतीरमणमुख्यप्राणान्तर्गतश्रीकृष्णार्पणमस्तु ।