अथ षष्ठः सर्गः
उदजृम्भन्त वेदान्ता धर्मा वर्णाश्रमोचिताः ।
ब्राह्मणास्तुतुषुर्यज्ञाः प्रावर्तन्त महीतले ॥ १ ॥
विमृश्य भारविर्भावं समुदासे निरीश्वरम् ।
शुश्राव तन्निराकर्तुं मात्सर्येण प्रभाकरः ॥ २ ॥
माघो वररुचिर्बाणो मयूरः कालिदासकः ।
प्रचण्डकोविदा दण्डिमुख्याश्चैतदुदासत ॥ ३॥
डम्बकस्तर्कवित्तन्त्री प्रभाकृत्तर्कतन्त्रवित् ।
मण्डनो रेफणश्चैते भट्टाद्भाट्टमशृण्वत ॥ ४ ॥
ततः प्राभाकरं चक्रे व्यर्थयुक्तिः प्रभाकरः ।
भट्टसम्रब्धमात्सर्यो बहुतन्त्रप्रपञ्चनम् ॥ ५॥
तमेव समयं दैत्यो मणिमानप्यजायत ।
मनोरथेन महता ब्राह्मण्यां जारतः खलात् ॥ ६ ॥
उत्पन्नः सङ्करात्मा॒यं सर्वकर्मबहिष्कृतः ।
इत्युक्तः स्वजनैर्माता सङ्करेत्याजुहाव तम् ॥ ७॥
विश्वस्ता स्वसुतं दृष्ट्वा तुष्टा सा पोषयत्क्रमात् । मण्डोदुम्बरनिष्पार्वैः शिग्रुशाकैरलाम्बुभिः ॥ ८ ॥
पञ्चषाण्यानय क्षिप्रं वृन्ताकानीति चोदितः ।
मात्रा सञ्जग्मिवान् बालो वृन्ताकस्तम्बसञ्चयम् ॥९॥
गणयामास वृन्ताकमेकमेकमिति स्फुटम् ।
एकत्वसङ्ख्यया चात्र न द्वितीयमवैक्षत ॥ १० ॥
तदाह मातरं पुत्रो नेक्षे वृन्ताकयोर्द्वयम् ।
पञ्चषाणि कथं तानि त्वानयेयं तरामिति ॥ ११ ॥
पथिकास्तदुपश्रुत्य प्रहस्य मिथ ऊचिरे ।
एकस्मिन् द्वित्वसङ्ख्यां तु कः पश्यति तरामिति ॥ १२॥
उपनीय द्विजः कश्चिद् वाचाटं निपुणं वटुम् ।
सुभिक्षान्नघृतक्षीरं सौराष्ट्रमनयत्ततः ॥१३॥
प्राग्भवे सुचिरं चीर्णतपस्तुष्टस्य शूलिनः ।
वरप्रसादतः शीघ्रमध्यगीष्टागमान् वटुः ॥ १४ ॥
ततः सौमीं दिशं यातो नदीं तर्तुमवातरत् ।
तस्या ओघैर्हृते ब्रह्मसूत्रे तामुत्ततार सः ॥ १५ ॥
मं त्वं त्यजसि चेत्सूत्रं त्वां प्रागेवाहमत्यजम् ।
अकर्मणस्त्वया किं म इत्युक्तः स ययौ द्रुतम् ॥ १६ ॥
दुर्वाससः परं शिष्यं परतीर्थाभिधं यतिम् । चातुर्मास्यव्रतधरमपश्यत् कापटो वटुः ॥ १७ ॥
निःसूत्रं तं बटुं दृष्ट्वा महादानवलक्षणम् ।
विद्वानवाङ्मुखो भूत्वा स आचम्य मठं ययौ ॥ १८ ॥
दोषज्ञ तं मुनिं ज्ञात्वा तीर्त्वा गोदावरीं ययौ ।
बदर्यां परतीर्थार्यशिष्यं प्राप्येदमब्रवीत् ॥ १९ ॥
त्वद्गुरोरस्मि शिष्योऽहं तदादेशादिहागतः ।
इत्युक्तवति तस्मिन् स विप्रंभं नैव जग्मिवान् ॥ २० ॥
सत्यप्रज्ञो वटुं भक्तिवैराग्यादिगुणोज्झितम् ।
दुष्टं विज्ञाय तत्याज जुगुप्सां परमां गतः ॥ २१॥
अतीतजन्मसंस्कारवशादैकात्म्यभावनाम् ।
चकार शून्यभावेन निर्गुणत्वेन वा क्वचित् ॥ २२ ॥
सहायं मार्गयामास दुष्टपक्षैकदीक्षितः ।
एकाकी मलिनो मुण्डस्तत्र तत्र परिभ्रमन् ॥ २३ ॥
कदाचिन्निशि सङ्गत्य दैत्यास्तं समभावयन् ।
ऊचुश्च सङ्कराचार्य त्वमस्माकं परा गतिः ॥ २४ ॥
तुभ्यं मनस्विने भूयः स्वस्ति पादतलोटज ।
साधकं प्रत्ययामस्त्वामासुर्याः कार्यसम्पदः ॥ २५ ॥
पुरा भट्टभयाच्छाक्या नष्टा द्वीपान्तरं गताः ।
नारायणोऽन्वगात्तेषां ततोऽप्युत्सादनेच्छ्या ॥ २६ ॥
तत उत्साद्य तान् भट्ट आयातमनुजं निजम् ।
दुष्टदेशे चिरावासान्नग्रहीद्दोषशङ्कया ॥ २७ ॥
ततः स सौगतमतं पुनः किञ्चिदुदग्रहीत् ।
बक्कस्वामी ततो द्वीपादाजगामातिशङ्कितः ॥ २८ ॥
कुमारः स्वमृतिं लोके ख्यापयामास शिष्यकैः ।
नारायणस्तु तच्छ्रुत्वा शोकात् पावकमाविशत् ॥ २९ ॥
आपणेषु ततो बक्कः प्रावर्तयत सौगतम् ।
मतं लिङ्गान्तरधरैर्जनैः केरलजन्मभिः ॥ ३०॥
गौडपादस्ततो न्यासमियेष प्रवयास्तदा ।
तच्छ्रुत्वा यतिरूपेण बक्को गत्वा तमब्रवीत् ॥३१ ॥
सनत्कुमारो भगवान् प्रेषयामास मां तव ।
मोक्षप्रवर्तनायैव द्वैतभावेन किं फलम् ॥ ३२॥
इत्युक्तो गौडपादस्तु सम्भ्रमेण ननाम तम् ।
विप्रस्तुर्याश्रमं प्राप्य तत्त्वं शुश्राव बक्कतः ॥ ३३ ॥
तद्विवर्तप्रपञ्चोऽयं बाध्यते ज्ञानसम्पदि ।
ज्ञानं तु तप्तलोहाप्तजलन्यायेन शाम्यति ॥ ३४ ॥
यथा प्रत्याययत्येते सर्वं बाधोपलक्षणम् ।
ततस्त्वमन्यथा तत्त्वं सोऽहमित्यूहमर्हसि ॥ ३५ ॥
इति बोदितं तत्त्वं विचार्य सुचिरं द्विजः ।
सर्वभावं निर्विशेषं विना नान्यदवैक्षत ॥ ३६॥
गोविन्दस्तं समासाद्य ततः संन्यासमाचरत् ।
सम्प्रदायगतं तत्त्वं श्रुत्वोपास्त यथार्थतः ॥ ३७ ॥
गोविन्दस्वामिनं साधुं तं गुरुं समुपैहि भो ।
ततो दण्डादिकं प्राप्यं शृणु त्वं तत्त्वमुत्तमम् ॥३८॥
मनः प्रविश्य सर्वेषां त्वं वयं रोचयामहे ।
विष्णोर्विषय गुणानित्युक्त्वा ययुरासुराः ॥ ३९॥
वटुः शठः स गोविन्दस्वामिनं प्रेक्षत क्वचित् ।
भूयासं भवतः शिष्यो न मेऽन्यस्त्वादृशो गुरुः ॥ ४०॥
इत्यूचिवांसं गोविन्दः स तं पर्यग्रहीद्भुतम् ।
प्रच्छाद्य शून्यवादित्वं वेदान्तिव्यपदेशतः ॥ ४१ ॥
वर्तयामो मतं स्वीयमन्यथा गर्हयन्ति नः ।
तदर्थं सूत्रहृदयं ब्रह्मदत्ताच्छृणोम्यहम् ॥ ४२ ॥
इति गोविन्दमाभाष्य मायी सिद्धान्तिनं ययौ ।
प्रभाकरकुमाराभ्यां साकं भास्करसंयुतः ॥ ४३॥
शुश्राव सूत्रभावं स ब्रह्मदत्तात्त्रिदण्डिनः ।
शिष्यास्ते प्रययुः सर्वे विभिन्नमतयो मिथः ॥ ४४ ॥
भाट्टं शिष्येषु विन्यस्य भट्टो दैवमसेवत ।
गुरुः प्राभाकरं तेने भारवेरनुजः शठः ॥ ४५ ॥
सूत्रैः प्रपञ्चयाञ्चक्रे मायावी सौगतं मतम् ।
शून्यं ब्रह्मपदेनोक्त्वा तथाविद्येति संवृतिम् ॥ ४६ ॥
सत्त्वादिधर्मराहित्यं शून्यतायै जगाद सः ।
सूत्रमुद्धृत्य सिद्धान्तमुत्सूत्रैः स्वीयमुच्चकैः ॥ ४७ ॥
आभाष्य बहुभिः शब्दैः कथं वेदान्तितामियात् ।
अतत्वावेदकाः प्रायो वेदाः केचिन्निरर्थकाः ॥ ४८ ॥
इति वेदान्तवादः स्यात्कथं वादस्तदन्तकः ।
कर्णौ प्यधत्त सिद्धान्ती भाष्यं तच्छुश्रुवान् मनाक् ॥ ४९ ॥
भास्करः कर्कशैस्तर्कैर्दुर्भाष्यं तदखण्डयत् ।
दुःशास्त्रमपठन् दैत्यास्तत एव हरिद्विषः ।
असुरावेशिनः सर्वे सङ्करस्य वशं गताः ॥ ५०॥
वशीचिकीर्शुर्निखिलांश्च जन्तून् सवर्त्मबाह्यानपि हन्तुमिच्छन् । शाक्तेयमन्त्रानभजत्स मायी सा भैरवी तस्य चकार दौत्यम् ॥ ५१ ॥
॥ इति श्रीमन्मणिमञ्जय षष्ठः सर्गः ॥