०५

अथ पञ्चमः सर्गः

ततः परमहंसा ये कृष्णभीमानुशिक्षिताः ।
व्यासाश्रयादत्रिजाद्या वेदशास्त्राण्यवर्तयन् ॥ १ ॥

कृष्णे भीमे च विद्वेषमधिकं दधतोऽसुराः ।
भग्नबाहुबला ईषुर्वाग्युद्धस्तत्वविप्लवम् ॥ २॥

रहः सम्भूय ते सर्वे बुद्धिमन्तो न्यमन्त्रयन् ।
स्वकार्यसिद्धयेऽन्योन्यं यथा प्रज्ञाविजृम्भणम् ॥३॥

शकुनिर्द्वापरः स्माह वचस्तत्त्वार्थबृंहितः ।
लोकायततनूजेन चाणक्येन प्रचोदितः ॥ ४ ॥

दुर्धर्षो भीमसेनो नः कृष्णोऽप्यत्यन्तदुःसहः ।
ताभ्यां निरीक्षिता दैत्या मृत्युं यान्ति न संशयः ॥ ५ ॥

कृष्णो दैवं गुरुर्भीमो वेदविद्या च पार्वती ।
तस्या उत्सादनेनैव यातस्तावतिसङ्कटम् ॥६॥

7 क्रोधवशादिकान् 8 बाणाख्येन

तस्माज्जनेषु विद्वत्सु वेदव्याख्यानशालिषु ।
प्रविश्योत्साद्यतां विद्या कैश्चिदुत्पद्य भूतले ॥ ७ ॥

विपरीतानि शास्त्राणि कर्तव्यानि बहून्यपि ।
असत्तकैः कुतर्कैर्वा वेदविद्यानिरस्यताम् ॥ ८॥

वेदशास्त्रान्ननो भीतिरस्ति कार्यान्तरस्पृहाम् ।
लोकायतमतं मानहीनं नाद्रियते जनैः ॥ ९ ॥

अक्षपादः कणादश्च कपिलश्वापरो जनः ।
शास्त्रान्तराणि कृत्वापि वेदद्वेषं न कुर्वते ॥ १० ॥

हरेण निहताः पूर्वं त्रैपुरा असुराः पुनः ।
जाताः संसर्गदोषेण पामराः श्रद्धधुस्त्रियाम् ॥ ११ ॥

वेदोऽप्रमाणमित्युक्त्वा बुद्धस्तानप्यमोहयत् ।
बौद्धशास्त्रं ततस्तेनुरज्ञात्वा तन्मतं परम् ॥ १२ ॥

निराश्रमान् दुराचारान् प्रत्यक्षं द्विषतः श्रुतीः ।
ब्राह्मणा गर्हयन्त्येतान् वेदबाह्यानकौशलान् ॥ १३ ॥

जैनपाशुपताद्याश्च लोकविद्वषगोचराः ।
वेदविद्वेषिणोऽप्येते तत्रोपायं न जानते ॥ १४ ॥

सर्वान् वेदान् द्विजो भूत्वा श्रितः परममाश्रमम् ।
वेदान्तिव्यपदेशेन निरस्यन्नः परः सुहृत् ॥ १५ ॥

अस्मिन् कार्ये विदग्धोऽयं मणिमानेव दृश्यते ।
आदेष्टव्योऽमुना राज्ञा कलिना कार्यसिद्धये ॥ १६ ॥

एवमुक्ता द्वापरेण कलिपूर्वाः सुरद्विषः ।
हृष्टा आहूय सम्भाव्य मणिमन्तं बभाषिरे ॥ १७॥

याहि भ्रातर्नमस्तुभ्यमुत्पद्यस्व महीतले ।
विद्यावेदपुराणाद्याः भृशं विल्लावय द्रुतम् ॥ १८ ॥

9 असत्तर्वैश्च सत्तर्कैः

10 जडः

11 हि व्यमोत्

विदूषय गुणान् विष्णोर्जीविक्यं प्रतिपादय ।
भूमौ वृकोदराभावान्नाशङ्कां कर्तुमर्हसि ॥ १९ ॥

अस्मासु बद्धवैरः सन् स्वस्थोऽप्यस्वस्थतां गतः ।
अनुज्ञाभावतो विष्णोर्नाधुनावतरत्ययम् ॥ २० ॥

वंश्यास्तु सनकादीनामधुना यतयो भुवि ।
एकदण्डास्त्रिदण्डाश्च वर्तन्ते तदनुव्रताः ॥ २१ ॥

परतीर्थाभिधस्तत्र यतिरेको महातपाः ।
तमाश्रित्य प्रवर्तस्व ततः सम्भाव्यसे जनैः ॥ २२ ॥

वेदान्तसूत्रैरस्माकं मतमैकात्म्यगोचरम् ।
वितत्य सकलान् वेदानतत्वावेदकान् वद ॥ २३॥

जीवेभ्योऽन्यो हरिर्ब्रह्म स्रष्टृत्वादिगुणान्वितः ।
इति वेदान्तसूत्राणां हृदयं च तिरस्कुरु ॥ २४ ॥

अस्मदावेशबलतः कलेः शक्त्या च पीडिताः ।
भवन्ति मलिनात्मानः सज्जनाः साङ्ख्ययोगिनः ॥ २५ ॥

मिथ्यावादं ततस्तेऽपि केचिच्छ्रद्दधतेऽपरे ।
उदासते निराकर्तुं केचिदेव समीहते ॥ २६ ॥

अभिप्रायात् कर्मतो वा केचिदस्मज्जना भुवि ।
जाता अन्ये जनिष्यन्ते निःसहायो न जायसे ॥ २७ ॥

इति दैत्यैः समादिष्टो मणिमान् भीमभीमताम् ।
मनसा शङ्कमानोऽपि भुव्युत्पत्तुं मनो दधे ॥ २८ ॥

तत्काले शाक्यशास्त्रेण विस्तृता सकला मही ।
वैदिकाश्रमधर्मादेः पराभूतिरभूत्ततः ॥ २९ ॥

इन्द्रजालैर्वशीकृत्य राजानं सौगतं प्रति ।
शून्यं तत्त्वं च संश्राव्य सतस्तेनोदसादयन् ॥३०॥

ततो गोविन्दनामाभूद्विजो विद्याविशारदः ।
स चतुर्वर्णजाः कन्या ऊवा पुत्रानजीजनत् ॥ ३१ ॥

शबरो विक्रमादित्यो हरिश्चन्द्रोऽथ भर्तृहृत् ।
इत्येते कोविदा आसन् धृतवर्णाश्रमव्रताः ॥ ३२ ॥

गोविन्दो दारपुत्राद्यं विहायाथाचरन्महीम् ।
व्यधत्त शबरो भाष्यं सूत्राणां जैमिने रहः ॥ ३३॥

क्ष्मामपाद्विक्रमादित्यो हरिश्चन्द्रः सुरोत्तमान् ।
इष्ट्वायुर्वेदवशितामलभिष्ट परं वरम् ॥ ३४ ॥

गत्वा यज्ञभुवं भर्तृहरिर्विप्रानुमोदितः ।
विचार्य यज्ञहृदयं स चचार महीमिमाम् ॥३५॥

आर्यस्य वेदविदुषः प्राभूतां तनयावुभौ ।
भट्टः कुमारः प्रथमः भट्टनारायणः परः ॥ ३६ ॥

कुमारस्तु तदा भेजे बौद्धं तन्मतवित्तये ।
नारायणेन सम्मन्त्र्य सम्प्राप्ते धर्मसङ्कटे ॥ ३७ ॥

प्रासादाग्रे च शाक्यस्य भट्टोऽभ्यञ्जयिता पदे ।
वेदविल्लवनव्याख्यां श्रुत्वाश्रूणि न्यपातयत् ॥ ३८ ॥

तदुष्णिमानुमानेन विप्रस्याधिं विबुद्ध्य सः ।
हन्यतां हन्यतामेषः छद्मात्मेति जगाद च ॥ ३९ ॥

तदानीं हन्तुकामेऽस्मिन् न्यपतद्धरणीतले ।
भट्टो वेदाः प्रमाणं चेज्जीवामीति वचोऽब्रुवन् ॥ ४० ॥

शङ्कवेधेन तस्यैकं चक्षुर्नष्टं ततोऽभवत् ।
वेदप्रामाण्यसन्देहात् काणोऽसीत्यशरीरवाक् ॥ ४१ ॥

कदाचित्तं रहो राजा समाहूयेदमब्रवीत् ।
देवताजनसम्भाव्यं मतं किंस्विद् द्विजेन्द्र ते ॥ ४२ ॥

इत्युक्तः स महीभर्त्रा भट्टः स्माहाविशङ्कितः ।
वर्णाश्रमोचिता धर्मा न हातव्या मुमुक्षुभिः ॥ ४३ ॥

वेदाः प्रमाणमित्यस्मन्मतं देवानुशिक्षितम् ।
हातव्यं गतिमिच्छद्भिः पुरुषैः सौगतं मतम् ॥ ४४ ॥

यदि प्रसीदसि क्ष्मेश सौगतान् विजयामहे ।
प्रवेशय न चेदस्मान् वह्नावह्नाय निश्चयात् ॥ ४५ ॥

इति भट्टवचः श्रुत्वा विस्रम्भेणाब्रवीन्नृपः ।
यदि जेष्यसि तान् वह्नौ वेशये सौगतानिति ॥ ४६ ॥

तस्य राज्ञो वचः श्रुत्वा विस्रब्धः स महासुरः ।
सनारायणभट्टः सशबरो मुमुदे भृशम् ॥ ४७ ॥

अपक्षपातिनि क्षत्रे स टीकां तर्ककर्कशाम् ।
चक्रे शबरभाष्यस्य बौद्धशास्त्रनिकृन्तनीम् ॥ ४८ ॥

नारायणेन भट्टेन स कदाचित् समेयिवान् ।
तोरणा-पुरद्वारि पत्रिकामप्यपातयत् ॥ ४९ ॥

वह्निप्रवेशग्लया कुमारो वितण्डया माध्यमिकान्निगृह्य ।
नष्टायुषोऽपह्नवतः श्रुतीनामह्नाय वह्नौ गमयाञ्चकार ॥ ५० ॥

सायंत्रिकैः सह ययुः कतिचिन्निलीनाः सम्प्राप्तभुक्तिभुवि केचन बक्कमुख्याः ।
वेषान्तरेण कृतसौगतलिङ्गभङ्गा राज्यान्तवर्त्मसु गताः सुगता विचेरुः ॥ ५१ ॥

॥ इति श्रीमन्मणिमञ्जय पञ्चमः सर्गः ॥