अथ तृतीयः सर्गः
हिमांशोरत्रिपुत्रस्य बुधोनामसुतोऽभवत् ।
पुरूरवामहाराजस्तस्य पुत्रो व्यजायत ॥ १ ॥
तस्यायुरभवत्पुत्रो नहुषस्तस्य नन्दनः ।
ययातिरभवत्तस्य नन्दनो बलवीर्यवान् ॥२॥
देवयानीं च शर्मिष्ठां स उवाह प्रिये उभे ।
मोशनसः पुत्री द्वितीया वृषपर्वणः ॥ ३ ॥
यदुं च तुर्वसुं राजा देवयान्यामजीजनत् ।
द्रुत्द्यं चानुं च पूरुं च शर्मिष्ठायामजीजनत् ॥ ४ ॥
यदोर्वंशे तु राजानः कार्तवीर्यपुरोगमाः ।
बभूवुर्भगवद्भक्तास्तपोज्ञानपरायणाः ॥५॥
पुरोवंशे तु राजान आसन् दौष्यन्तिपूर्वकाः ।
तेषां कीर्त्या च विक्रान्त्या समस्ताः पूरिता दिशः ॥ ६ ॥
भूभारहरणापेक्षास्तस्मिन् काले दिवौकसः ।
दुग्धाब्धिशायिनं विष्णुं शरण्यं शरणं ययुः ॥७॥
विप्रक्षत्रादिभावेन त आदिष्टाः सुरादयः ।
बभूवुर्भगवत्सेवां विधित्सन्तः समस्तशः ॥ ८॥
वरुणः शन्तनुर्नाम पुरोर्वंशे व्यजायत ।
विचित्रवीर्यस्तस्यासीत् पुत्रश्चित्राङ्गदानुजः ॥९॥
धृतराष्ट्रश्च पाण्डुश्च इति पुत्रौ बभूवतुः ।
पाण्डोः कुन्ती च माद्री च द्वे भार्ये धर्मकोविदे ॥ १० ॥
स पाण्डुर्मुनिशापेन स्त्रीसङ्गमसुखं जहौ ।
भर्त्राज्ञया सुतं कुन्ती धर्माल्लेभे युधिष्ठिरम् ॥ ११ ॥
धृतराष्ट्रस्य गान्धार्यां आसन् दुर्योधनादयः ।
वधाय मारुतस्तेषां भीमं कुन्त्यामजीजनत् ॥ १२ ॥
सा लेभे वासवाज्जिष्णुं यमौ माद्री च दस्त्रयोः ।
वने वर्धन्त वत्सास्ते पाण्डुना परिरक्षिताः ॥ १३ ॥
एवं पाञ्चालबालीका अवर्धन्त महाबलाः ।
आहुकाद्यादवादुग्रसेनोऽभूद्देवकस्तथा ॥ १४ ॥
देवकस्य सुता जज्ञे देवकी देवसम्मता ।
वसुदेव उवाहेनां यादवः शूरनन्दनः ॥ १५ ॥
तत्र प्रादुरभूद्देवः परमात्मा सनातनः ।
दम्पत्योरनयोराशाः पूरयन् सुरकार्यवान् ॥ १६ ॥
वसुदेवस्य रोहिण्यां ततः पूर्वमजायत ।
अनन्तो बलवत्वेन बलभद्र इति श्रुतः ॥ १७॥
ज्ञानानन्दतनुं श्यामं शङ्खचक्रगदाधरं
व्यक्तमात्रं हरिं दृष्ट्वा तुष्टावानकदुन्दुभिः ॥ १८ ॥
स्वाज्ञया स व्रजं नीतः कंसाद्भीतेन शौरिणा ।
शिशुरूप यशोदायाः शायितः शयने शनैः ॥१९॥
चण्डिकां तत्क्षणोद्भूतां नीत्वा यादवनन्दनः ॥
देवक्याः शयने न्यस्य पूर्ववद्बन्धमाययौ ॥ २० ॥
तां कन्यां कंस आनीय निहन्तुमुपचक्रमे ।
मृत्युस्ते जात इत्युक्त्वा सोत्पपात नभस्थलम् ॥ २१ ॥
जातमात्रान् कुमारान् स निहन्तुं जनमादिशत् ।
हिंसाविहारा दुष्टास्ते निजघ्नुर्बालकान् भुवि ॥ २२ ॥
जगाम गोकुलं दुष्टा धात्री कंसस्य पूतना ।
कृष्णमादत्त सा हन्तुं तां जघान रमापतिः ॥ २३ ॥
शायितः शकटस्याधः शकटाक्षं जघान सः ।
अमीमरत्तृणावर्तं तेनोन्नीतः सलीलया ॥ २४ ॥
गर्गोऽथ शौरिणादिष्टः चकार क्षत्रियोचितान् ।
संस्कारान्नाम चामुष्य सबलस्य व्रजं गतः ॥ २५ ॥
प्राङ्गणे रिङ्गणं कुर्वन् अर्भकैः सह माधवः । लीलाभिर्भावगर्भाभिर्जनमानन्दयन्बभौ ॥ २६ ॥
जघास मृत्तिकां देवः कदाचिल्लीलया हरिः ।
मात्रोपालब्ध आस्ये स्वे व्याप्ते विश्वमदर्शयत् ॥ २७॥
दध्यमत्रं विभज्येशः कदाचिच्चन्द्रसन्निभम् ।
नवनीतं समादाय रहो गत्वा जघास च ॥ २८ ॥
जनन्योलूखले बद्धः सोऽर्जुनावुदमूलयत् ।
नलकूबरमणिग्रिवी मोचयामास* शापतः ॥२९॥
वृन्दावनमियासुः सन्नन्दसूनुर्बृहद्वने ।
ससर्ज रोमकूपेभ्यो वृकान् व्याघ्रसमान् बले ।
तत्रोत्पातभिया गोपा आपुर्वृन्दावनं वनम् ॥ ३० ॥
*मोच्यित्वा च
स पालयन् गोपकबालवृन्दैः बलेनसाकं पशुवत्सयूथान् । निहत्य वत्सासुरमादिदेवो बकं च गोपालकतामवाप ॥ ३१ ॥
॥ इति श्रीमन्मणिमञ्जयां तृतीयः सर्गः ॥
—-_—————–