अथ द्वितीयः सर्गः
ततो दूरं गते रामे रावणः सहलक्ष्मणे ।
सीतेयं नीयत इति मत्वा निन्ये तदाकृतिम् ॥१॥
रामान्तिके स्थिता देवी न मन्दः समदृश्यत ।
रूपान्तरेण कैलासं गता नित्यावियोगिनी ॥ २ ॥
नित्यं पश्यन्निजां देवीं पूर्णसन्तोषसम्भृतः ।
रामो न दृश्यते देवीत्यभूत् सङ्कटवानिव ॥३॥
प्रभञ्जनसुतः श्रीमानाञ्जनेयो निरञ्जनः ।
ननाम भक्तिसम्पूर्णो रामं राजीवलोचनम् ॥ ४॥
रामस्वामिन्नमस्तुभ्यं दु॒ष्टान् जहि निजानव ।
निर्दुःखानन्दलीलात्मन्नित्यस्तौत् स निजं गुरुम् ॥५॥
स वनान्तरमासाद्य रामः सुग्रीवमैक्षत ।
तेन सख्यं समासाद्य निजघान तदग्रजम् ॥ ६॥
ततः सुग्रीवसन्दिष्टा वानरा दिक्षु सर्वशः ।
प्रसस्रुर्निपुणा वीराः सीतामार्गणतत्पराः ॥७॥
दक्षिणां ककुभं गत्वा हनुमानम्भूसां निधिम् ।
अतिलङ्घय ततो लङ्कां सीताकृतिमवैक्षत ॥८॥
रामाङ्गुलीयकं देव्यै दत्वा चूडामणिं ततः ।
सङ्गृह्यं जानकीं भक्त्या नत्वासावारुहत्तरुम् ॥९॥
वनं विशकलय्योच्चैः राक्षसानक्षपूर्वकान् ।
निहत्य मारुतिर्लङ्कामदहत् पुच्छवह्निना ॥ १० ॥
ततो रत्नाकरं तीर्त्वा वानरेन्द्रः सभाजितः ।
दत्वा चूडामणिं धन्यः प्राप्य रामाय सोऽनमत् ॥ ११॥
रामो हनुमता सार्धं लक्ष्मणेन च धीमता ।
सुग्रीवेण ससैन्येन कीनाशह्नितं ययौ ॥ १२ ॥
स सेतुं दक्षिणाम्भोधौ बन्धयामास मर्कटैः ।
ससैन्यो वर्त्मना तेन नक्कञ्चरपुरं ययौ ॥ १३ ॥
निजघ्न राक्षसानीकं वानराः सहलक्ष्मणाः ।
हनुमान् भगवत्प्रीत्यै जघानातिबलान् रिपून् ॥ १४ ॥
सो जीवयन्महारक्षो मोहितान् सर्ववानरान् ।
गन्धमादनमानीय तद्गतौषधिवायुना ॥१५॥
असङ्ख्यान् राक्षसान् हत्वा कुम्भकर्णं च रावणम् ।
रामो विभीषणं रक्षः साम्राज्ये सोऽभ्यषेचयत् ॥ १६ ॥
अशोकमूलमासाद्य दर्शयामास जानकीम् ।
नित्यावियोगिनीं देवीं रामो मन्ददृशामपि ॥ १७ ॥
हनुमत्प्रमुखैः सार्धं देव्या च पुरुषोत्तमः ।
आरुह्य पुष्पकं रामो जगाम नगरीं निजाम् ॥ १८ ॥
भरतो भक्तिभरितो राममभ्येत्य निर्वृतः ।
पपात पादयोस्तस्य कृष्णस्येव श्वफल्कजः ॥ १९ ॥
तमुत्थाप्य परिष्वज्य राघवोऽन्तःपुरं गतः ।
सम्पूजितो जनैः सर्वैर्जननीमभ्यवन्दत ॥ २० ॥
रामो राज्याभिषिक्तः सन् शशास जगतीं प्रभुः ।
धर्मानशिक्षयत्पूर्णो बुभुजे सम्पदः सुखी ॥ २१ ॥
सनकादींश्च तद्वंश्यान् मुनीनन्यांश्च मारुतिः ।
रामान्तिके श्रुतिव्याख्याविशेषान् समशिक्षयत् ॥ २२ ॥
सुराणकांस्तमो नेतुं तत्याजेव स जानकीम् ।
व्याप्तत्वान्निरवद्यत्वात् तस्यास्त्यागः कथं भवेत् ॥ २३ ॥
स्वात्मानं यज्ञपुरुषं यज्ञेनायजताथ सः ।
तत्रागता सती सीता वेद्यामन्तर्दधे किन ॥ २४ ॥
धर्मं साङ्ख्यं च योगं च वर्तयामास राघवः ।
प्रावोचन्मेरुतः सूनुः सम्पदो ननृतुस्तदा ॥ २५ ॥
प्रकृत्या परमा हंसा ब्रह्मणो मानसाः सुताः ।
सनकाद्यास्ततः श्रुत्वा व्याचख्युस्तत्त्वमञ्जसा ॥२६॥
नमो रामाय रामाय राम राम नमोऽस्तु ते ।
रामः स्वामी गती राम इति लोका विचुक्रुशुः ॥ २७ ॥
देवो जिगमिषुर्धाम स्वीयमभ्यर्थितः सुरैः ।
दुग्धाब्धिं प्रययौ शेषो लक्ष्मणो रामचोदितः ॥२८॥
समायात समायात ये ये मोक्षपदेच्छवः ।
एवमाघोषयद्रामो दूतैर्दिक्षु समस्तशः ॥ २९ ॥
अथोत्तरां दिशं देवः प्रतस्थे सह सीतया ।
वानराद्यैर्नराद्यैरप्यसङ्ख्यैर्जन्तुभिर्वृतः ॥३०॥
तेषां मोक्षपदं दत्वाऽभ्यनुज्ञाप्य मरुत्सुतम् ।
राघवः सीतया सार्धं विवेश स्वं परं पदम् ॥ ३१ ॥
सत्येन भक्त्या च विरक्तिमत्या मत्या च धृत्या च तपस्यया च ।
हा राम रामेति सदोपगायन् प्राभञ्जनिः किम्पुरुषेषु रेमे ॥ ३२ ॥
॥ इति श्रीमन्मणिमञ्जयां द्वितीयः सर्गः ॥