अथ प्रथमः सर्गः
वन्दे गोविन्दमानन्दज्ञानदेहं पतिं श्रियः ।
श्रीमदानन्दतीर्थार्यवल्लभं परमक्षरम् ॥१॥
ससर्ज भगवानादौ त्रीन्गुणान् प्रकृतेः परः ।
महत्तत्वं ततो विष्णुः सृष्टवान् ब्रह्मणस्तनुम् ॥ २॥
महत्तत्वादहङ्कारं ससर्ज शिवविग्रहम् ।
दैवान्देहान्मनः खानि खं च स त्रिविधात्ततः ॥३॥
आकाशादसृजद्वायुं वायोस्तेजो व्यजीजनत् ।
तेजसः सलिलं तस्मात् पृथिवीमसृजद्विभुः ॥ ४ ॥
ततः कूटस्थमसृजद्विधिं ब्रह्माण्डविग्रहम् ।
तस्मिंस्तु भगवान् भूयो भुवनानि चतुर्दश ॥५॥
तात्विकानथ दैवान् को वैराजः पुरुषोऽसृजत् ।
तथैव परमान् हंसान् सनकादींश्च योगिनः ॥ ६ ॥
असुरान् दोषरूपानप्यविद्यां पाञ्चपर्वणीम् ।
वर्णाश्रमविशेषांश्च धर्मकृप्तिं च सोऽसृजत् ॥ ७॥
मरीच्यत्र्यादयः पुत्रा अभूवन् परमेष्ठिनः ।
मरीचेः कश्यपो जज्ञे वामनस्य पिता वटोः ॥ ८ ॥
प्रजाः सिसृक्षुर्विविधा अवहत् कश्यपो दितिम् ।
अदितिं च दनुं करुं कीकसां विनतामपि ॥ ९ ॥
दित्यां ततोऽभवन् दैत्या अदित्यां च सुराः पुनः ।
दनौ तु दानवाः कद्रौ नागा नाना विषोल्चणाः ॥ १० ॥
कीकसायां यातुधाना विनतायां तु पक्षिणः ।
महावीर्याः सुता आसन् कश्यपस्य महात्मनः ॥ ११ ॥
मानवानां पिता जज्ञे आदित्यात् कश्यपात्मजात् ।
मनुर्नाम महाप्राज्ञ एतन्मन्वन्तरेश्वरः ॥ १२ ॥
तस्य प्राणादभूच्छ्ररीमानिक्ष्वाकुः क्षुवतो मनोः ।
तपस्तत्वा विरिश्चात्स लेभे रङ्गेश्वरं हरिम् ॥ १३ ॥
विकुक्षिः समभूत्तस्य पुरञ्जयपुरोगमाः ।
तदन्वये व्यजायन्त शूरा राजर्षयः परे ॥ १४ ॥
तस्मिन् वंशे दशरथो बभूवात्यन्तभाग्यवान् ।
सोऽर्चन् वैमानिकं विष्णुं ररक्ष महतीं महीम् ॥ १५ ॥
तस्मिन् काले सुराः सर्वे महाराक्षसपीडिताः ।
दुग्धाब्धिशायिनं विष्णुं शरण्यं शरणं ययुः ॥ १६ ॥
त आदिष्टाः श्रियः पत्या जज्ञिरे क्षितिमण्डले ।
शाखामृगादिभावेन हनुमान् मरुतोऽभवत् ॥ १७ ॥
अभयाय सतां हत्यै राक्षसानां ततो हरिः ।
रामनामा दशरथात् कौसल्यायामजायत ॥ १८ ॥
ततो लक्ष्मणशत्रुघ्नौ सुमित्रायां बभूवतुः ।
कैकेय्यां भरतो जज्ञे सदा शुभरतो नृपात् ॥ १९ ॥
अभ्यवर्ध्यन्त सम्यञ्चः कुमाराः सुकुमारकाः ।
चतुर्भिश्चतुरैः पुत्रैः पितार्थेरिव निर्बभौ ॥२०॥
विश्वामित्रस्ततो यज्ञनिघ्नतो राक्षसेश्वरान् । ध्वस्तकर्णी विघोणां
निहन्तुमनयन्नाथं रामदेवं सलक्ष्मणम् ॥ २१ ॥
अटव्यां ताटकां हत्वा स सिद्धाश्रममेयिवान् ।
विधूय यज्ञविघ्नांश्च विदेहविषयं ययौ ॥ २२ ॥
राजाद्यैः पूजितः सोऽथ विभज्य धनुरैश्वरम् ।
जानकीमलभिष्टोच्चैःः स्तूयमानः सुरेश्वरैः ॥ २३ ॥
गच्छन् देव्या सहायोध्यां सवशिष्टः सहानुजः ।
कविकाव्ययुतज्योत्स्नाकान्तवत् स व्यरोचत ॥ २४ ॥
प्रविश्य नगरी तत्र प्रवन्ध पितरं तथा ।
मातृश्व पूजितः सर्वैः स रेमे सुखचित्तनुः ॥ २५ ॥
रामराज्याभिषेकाय दध्रे दशरथो मनः ।
निजघ्ने स तु कैकेय्या मत्सुतो गामवेदिति ॥ २६ ॥
रामदेवः ततः सीतालक्ष्मणाभ्यां समन्वितः ।
वनं प्रति ययौ हन्तुमशेषानपि राक्षसान् ॥२७॥
ध्वस्तकण विघोणां च कारयामास राक्षसीम् ।
लङ्केशभगिनीं रामो लक्ष्मणेनानुजन्मना ॥ २८ ॥
रामविप्रकृतः क्रव्यात् प्रतिकर्मचिकीर्षया ।
आजगाम सहानीकः खरो दूषणसंयुतः ॥ २९ ॥
तान् जघान रमानाथो रामो राजीवलोचनः ।
लीलयैव परानन्दः सुरकार्यार्थसिद्धये ॥ ३० ॥
रामः पुरस्तात् परतोऽपि रामो रामः परं दिक्षु विदिक्षु रामः
रामैरनन्तैरिति विश्वरूपो निघ्नन्नरातीन् विरराज रामः ॥ ३१ ॥
॥ इति श्रीमन्मणिमञ्जय प्रथमः सर्गः ॥