१६ षोडशः सर्गः

षोडशः सर्गः

षोडशः सर्गः

विश्वास-प्रस्तुतिः - १

साधुभ्यो मधुमथनांघ्रिभक्तिभाग्भ्यः श्रौतेभ्यो विततमतेर्महानुभावम् ।
वेदान्तं स्वयमिव बन्धमोक्षमूलं व्याचष्ट स्फुटमथ कोऽपि कोविदोऽत्र॥ १ ॥

मूलम् - १

साधुभ्यो मधुमथनांघ्रिभक्तिभाग्भ्यः श्रौतेभ्यो विततमतेर्महानुभावम् ।
वेदान्तं स्वयमिव बन्धमोक्षमूलं व्याचष्ट स्फुटमथ कोऽपि कोविदोऽत्र॥ १ ॥

पदार्थदीपिकोद्बोधिका

साधुभ्य इति ॥ अथ अत्र श्रीमध्वशिष्येषु कोऽपि कोविदो विद्वान् स्वयं स्वयमेव श्रीमध्वभक्तानुकम्पयेत्यर्थः । मधोर् मथनः मधुमथनो मधुसूदनस् तस्य अंघ्री तयोर् भक्तिस् तां भजन्तीति तथोक्तास् तेभ्यः । श्रुतीनां सम्बन्धिनः श्रौतास् तेभ्यो वैदिकेभ्य इत्यर्थः । साधुभ्यः सज्जनेभ्यः । विततमतेः श्रीपूर्णप्रज्ञस्य, बन्धात् संसारबन्धान् मोक्षो मोचनं तस्य मूलं कारणभूतं महान् योऽनुभवः सामर्थ्यस् तं तदनुभवप्रकटनरूपकथाम् इत्यर्थः । स्फुटं सम्यक् वेदानाम् अन्तो निर्णयो यस्मात् स वेदान्तस् तमिव व्याचष्ट जगाद । प्रहर्षिणीवृत्तम् । ‘म्नौज्रौगस्त्रिदशयति प्रहर्षणीयम्’ इत्युक्तेः ॥ १ ॥

मन्दोपाकारिणी

अथ कथान्तरमारभ्यते साधुभ्य इति ॥ अत्र मध्वशिष्येषु कोऽपि कश्चित् कोविदः विद्वान् शिष्यः ‘सन् सुधीः कोविदो बुधः’ इत्यमरः । स्वयं स्वयमेव मध्वभक्तानुकम्पया इत्यर्थः । मधुमथनाङ्घ्रिभक्तिभाग्भ्यः मधुमथनस्य मधुनामकदैत्यसंहारिणः विष्णोर् अङ्घ्र्योः पादयोर् भक्तिं भजन्तीति भक्तिभाजस् तेभ्यः । श्रौतेभ्यः श्रुतिसम्बधिभ्यः वेदपाठकेभ्य इत्यर्थः । साधुभ्यः सज्जनेभ्यः विततमतेर् वितता विशाला पूर्णा मतिर् यस्य सः विततमतिस् तस्य श्रीमध्वाचार्यस्य । महानुभावं महान् पुरुषार्थप्रदत्वेन अत्युत्तमो ऽनुभावः महिमा तं मध्वमाहात्म्यप्रकटरूपकथाम् इति यावत् । स्फुटं सम्यक् व्याचष्ट जगाद । ‘चक्षिङ् व्यक्तायां’ वाचीत्यतो लङ् आत्मनेपदम् आचष्ट आचक्षाताम् आचक्षत । कथंभूतं बन्धमोक्षमूलं बन्धात् संसारान् मोक्षस्य मूलं कारणभूतं किमिव वेदान्तमिव बन्धमोक्षकारणभूतं वेदान्तशास्त्रमिव । यथा कश्चित् शिष्येभ्यो वेदान्तशास्त्रं व्याख्यायाद् एवं मध्वशिष्यः मध्वविजयप्रकटनरूपां कथां विष्णुभक्तेभ्यः वेदपाठकेभ्यः सज्जनेभ्यो ऽब्रवीद् इति भावः । प्रहर्षिणीवृत्तं प्रायः सर्गपर्यन्तं ‘त्र्याशाभिर्मनजरगाः प्रहर्षिणीयं’ इति तल्लक्षणात् ॥ १ ॥

विश्वास-प्रस्तुतिः - २

गोमत्यास्तटनिकटेऽच्छकीर्तिचन्द्रं विश्वज्ञं क्षितिपतिरन्त्यवर्णजन्मा ।
विद्वेष्टा श्रुतिगुणसाधकं श्रुतीनां वाचालो वचनमुवाच वाग्मिवर्यम्॥ २ ॥

मूलम् - २

गोमत्यास्तटनिकटेऽच्छकीर्तिचन्द्रं विश्वज्ञं क्षितिपतिरन्त्यवर्णजन्मा ।
विद्वेष्टा श्रुतिगुणसाधकं श्रुतीनां वाचालो वचनमुवाच वाग्मिवर्यम्॥ २ ॥

पदार्थदीपिकोद्बोधिका

गोमत्या इति ॥ गोमत्यास् तन्नामकनद्यास् तटस्य तीरस्य निकटं समीपस् तस्मिन् वर्तमानः श्रुतीनां विद्वेष्टा दूषकः वाचालो बहुभाषणो ऽन्त्यो यो वर्णः शूद्रवर्णस् तस्मिन् जन्म यस्य स तथा कश्चित् क्षितिपती राजा अच्छा या कीर्तिस् तया चन्द्र इव अच्छकीर्तिचन्द्रस् तं चन्द्रवत् प्रकाशमानम् इत्यर्थः । श्रुतीनां ये गुणाः प्रामाण्यादयस् तेषां साधकस् तम् । वाग्मिषु वर्यं विश्वज्ञं श्रीमध्वम् इति वचनमुवाच ॥ २ ॥

मन्दोपाकारिणी

क्रमेण एकैकं महिमानं कथयति शिष्य इत्याह ॥ गोमत्या इति ॥ श्रुतीनां विद्वेष्टा दूषकः वाचालः बहुभाषणः ‘स्याज्जल्पकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्’ इत्यमरः । अन्त्यवर्णजन्मा अन्त्यवर्णाज् जन्म उत्पत्तिर् यस्य स तथोक्तः ‘शूद्राश्चावरवर्णाश्च’ इत्यमरः शूद्रजातिर् इत्यर्थः । कश्चित् क्षितिपतिः राजा गोमत्या गोमत्याख्यनद्यास् तटनिकटे तटस्य तीरस्य निकटे समीपदेशे वर्तमानं ‘समीपे निकटासन्ने संनिकृष्टसनीडवत्’ इत्यमरः । अच्छकीर्तिचन्द्रम् अच्छया कीर्त्या चन्द्रवत् प्रकाशमानम् । श्रुतिगुणसाधकं श्रुतीनां गुणाः प्रामाण्यादिगुणास् तेषां साधकम् । वाग्मिवर्यं वाग्मिषु वचनप्रकारचतुरेषु वर्यं श्रेष्ठं ‘वाचो युक्तिपटुर्वाग्मी’ इत्यमरः । विश्वज्ञं सर्वज्ञं श्रीमध्वाचार्यं वक्ष्यमाणप्रकारवचनम् उवाच । ‘वच परिभाषणे’ इत्यतो लिट् परस्मैपदम् ॥ २ ॥

विश्वास-प्रस्तुतिः - ३

उन्मत्तप्रलपितवन्न तद्धि मानं यद्वाक्यं व्यभिचरति क्वचित्फलेऽत्र ।
दृष्टान्तो भवति तदप्रमाणतायां सर्वेषां श्रुतिवचसां च सर्वथेति ॥ ३ ॥

मूलम् - ३

उन्मत्तप्रलपितवन्न तद्धि मानं यद्वाक्यं व्यभिचरति क्वचित्फलेऽत्र ।
दृष्टान्तो भवति तदप्रमाणतायां सर्वेषां श्रुतिवचसां च सर्वथेति ॥ ३ ॥

भावप्रकाशिका

इदमाकूतम् । या ओषधीरित्यादिसूक्तैर्जप्तैरोषधीबीजेभ्यः सद्यः पुष्पफलादिनिष्पत्तिरुच्यते वैदिकैः । न चोपलभ्यते । ततस्तेषां व्यभिचारित्वम् । स इह च प्रयोगः– ‘विमतं वाक्यं न मानं व्यभिचारित्वाद् उन्मत्तवाक्यवदिति’ । अथ च सर्वो वेदोऽप्रमाणं वेदत्वाद् व्यभिचारिवेदवाक्यवदिति ॥ ३ ॥

पदार्थदीपिकोद्बोधिका

उन्मत्तेति ॥ स क्षितिपतिर् अत्र वेदे यद्वाक्यं क्वचित् कुत्रचित् फले व्यभिचरति तद्वाक्यम् उन्मत्तप्रलपितवत् स्वोक्तफले व्यभिचारिवाक्यवादित्यर्थः मानं प्रमाणं न हि । तत् फलव्यभिचारिवाक्यं सर्वेषां श्रुतिवचसाम् अप्रमाणतायां दृष्टान्तः सर्वथा भवति इत्युवाच इति पूर्वेण सम्बन्धः । अयमत्राभिप्रायः श्रुतौ ओषधिबीजे हस्ते गृहीत्वा ‘या ओषधीः पूर्वा जाता देवेभ्य’ इत्यादिसूक्तजपात् सद्य एवां कुरदलपुष्प-फलाद्युत्पत्तिर् भवति इत्युच्यते । इदानीं तथा कृतेऽपि फलं न दृश्यते । तस्माद् या ओषधीर् इत्यादि फलानुपलंभात्तद्वाक्यं फले व्यभिचरतीति सम्मतं तथा च— या ओषधीरित्यादिवाक्यं न प्रमाणं फलव्यभिचारित्वाद् उन्मत्तवाक्यवदिति । ततश्च तद्वाक्यदृष्टान्तेन वेदमात्रस्य अप्रामाण्यं साधयितुं शक्यते । तथा हि विप्रतिपन्नं सर्वं वेदवाक्यम् अप्रमाणं वेदत्वाद् या ओषधीर् इत्यादिवेदवाक्यवद् इति ॥ ३ ॥

मन्दोपाकारिणी

किमिति उवाच इत्यत आह ॥ उन्मत्तेति ॥ अत्र वेदे यद्वाक्यं क्वचित् कुत्रचित् फले स्वोक्तफले व्यभिचरति अनृतं भवति तत् तद्वाक्यम् उन्मत्तप्रलपितवद् उन्मत्तस्य मद्यपायिनः प्रलपितवद् वचनवत् ‘व्याहार उक्तिर्लपितं भाषितं वचनं वचः’ इत्यमरः मानं प्रमाणं न भवति हि सर्वानुभवसिद्धम् । तत् फलव्यभिचारित्वेन संप्रतिपन्नं वाक्यं सर्वेषां च सर्वेषामपि श्रुतिवचसां वेदवाक्यानाम् अप्रमाणतायाम् अप्रामाण्यसाधने दृष्टान्तः निदर्शनं सर्वथा नियमेन भवति इति उवाच इति पूर्वेणान्वयः । अयं भावः श्रुतौ ओषधिबीजं हस्ते गृहीत्वा ‘या ओषधीः पूर्वा जाता देवेभ्यः’ इत्यादिसूक्तजपेन सद्य एवाङ्कुरपुष्पफलाद्युत्पत्तिर् भवति इत्युच्यते । तदुक्तप्रकारेण सूक्तफलं तु नोपलभ्यते तस्मात् तद्वाक्यं न मानम् उन्मत्तवाक्यवत् । अत्र ‘या ओषधीरित्यादिवाक्यं प्रमाणं न भवति अनृतवचनत्वाद् उन्मत्तवचनवत्’ इति प्रयोगो ज्ञेयः । तथा ‘सर्ववेदो ऽप्रमाणं वेदत्वाद् अप्रमाणत्वेन सम्प्रतिपन्न ‘या ओषधीः’ इत्येतद् वेदवाक्यवत्’ इति सर्ववेदाप्रमाण्ये प्रयोगो ज्ञेयः ॥ ३ ॥

विश्वास-प्रस्तुतिः - ४

वेदोक्तं फलमलमाप्यतेऽधिकारादित्युक्तोऽतनुमनसाभ्यधत्त धूर्तः ।
योग्यत्वे सति न हि दृश्यतेऽधिकारी नातः स्यात् स खरविषाणवत्सदेति ॥ ४ ॥

मूलम् - ४

वेदोक्तं फलमलमाप्यतेऽधिकारादित्युक्तोऽतनुमनसाभ्यधत्त धूर्तः ।
योग्यत्वे सति न हि दृश्यतेऽधिकारी नातः स्यात् स खरविषाणवत्सदेति ॥ ४ ॥

भावप्रकाशिका

विशुद्धमातापितृजन्यत्वादिमूलाधिकाराद्धि फलमुच्यत इति व्यभिचारित्त्वहेतोरसिद्धिद्योतकोक्तो नास्ति कोऽप्यधिकारी योग्यत्वे सत्यनुपलभ्यमानत्वात् खरविषाणवदिति ॥ ४ ॥

पदार्थदीपिकोद्बोधिका

वेदोक्तमिति ॥ अधिकाराद् वेदोक्तानुष्ठाने तदुक्तफलप्राप्तौ चाधिकारे सति एव वेदोक्तं फलम् अलं सम्यग् आप्यते न अनुष्ठानमात्रेण । अयं भावः वेदोक्तकर्मानुष्ठानेऽपि फलादर्शनमात्रेण न वेदाप्रामाण्यम् अनुमातुं शक्यते । फलादर्शनस्य अधिकाराभावनिबन्धनत्वात् । तद्वेदोक्तकर्माधिकारिणां च कृते च कर्मणि फलं दृश्यत एव अनधिकारिणा कृतेऽपि तत्फलं न दृश्यते । अनधिकारिकृतम् अकृतमेवेति न्यायाद् इति । तनु न भवति इति अतनु अतनु मनो यस्य स तथा तेन पूर्णप्रज्ञेन इत्युक्तो धूर्तः शूद्रभूपतिर् अधिकारी वेदोक्तफलाधिकारी हि यस्माद् योग्यत्वे सति न दृश्यते अतस् तस्मात् स भवद्विवक्षितोऽधिकारी खरविषाणवत् सदा न स्यान् नास्त्येवेति भावः । इति इत्थम् अभ्यधत्त उक्तवान् । तथा च अत्र प्रयोगः— भवद्विवक्षितोऽधिकारी नास्त्येव योग्यत्वे सति अनुपलभ्यमानत्वात् खरविषाणवद् इति ॥ ४ ॥

मन्दोपाकारिणी

वेदोक्तमिति ॥ अधिकाराद् योग्यताया वेदोक्तं वेदचोदितं फलम् अलं निश्चयेन आप्यते प्राप्यत एव । अयं भावः वेदोक्तधर्मानुष्ठानेऽपि फलादर्शनमात्रेण न वेदाप्रामाण्यम् अनुमातुं शक्यते । फलादर्शनस्य अधिकाराभावनिबन्धनत्वात् । तत्तद्वेदोक्तकर्माधिकारिणां च फलं च दृश्यत एव अनधिकारिणा कृतेऽपि फलं न दृश्यते अनधिकारिकृतम् अकृतमेवेति न्यायात् । इति एवं प्रकारेण अतनुमनसा अतनु अनल्पं मनो यस्य स अतनुमनास् तेन श्रीमध्वाचार्येण उक्त उदितः धूर्तः शठः राजा ‘धूर्तः स्यात्खण्डलवणे धत्तूरे ना शठे त्रिषु’ इति विश्वो ऽभ्यधत्त अब्रवीत् । किमिति अधिकारी वेदोक्तफलं प्राप्तुं योग्यः पुरुषः हि यस्माद् योग्यत्वे सति दृष्टियोग्यत्वे सति न दृश्यते नोपलभ्यते । अतस् तस्मात् सः युष्मद्विवक्षितो ऽधिकारी पुरुषः सदा न स्यान् नास्त्येव इत्यर्थः । किंवत् खरविषाणवत् खरस्य गर्दभस्य विषाणं ृङ्गमिव ‘खरः स्याद्गर्दभे देवतालितीक्ष्णाग्रकेऽपि च’ इति विश्वः ‘ृङ्गं विषाणम् आख्यातं’ इति च । अयं भावः यदुक्तमधिकारिणो वेदोक्तं फलं भवतीति तदनुपपन्नम् । कुत्रापि तादृशाधिकारिणो ऽनुपलम्भात् । तथा च प्रयोगः - ‘भवद्विवक्षितोऽधिकारी नास्त्येव योग्यत्वे सति अनुपलभ्यमानत्वात् खरविषाणवत्’ इति ॥ ४ ॥

विश्वास-प्रस्तुतिः - ५

आक्षेपं तमसहमान उच्चमानः सद्योऽसौ निजकरपल्लवद्वयेन ।
आदाय व्यतनुत बीजमोषधीनां सूक्तेनांकुरदलपुष्पबीजसृष्टिम् ॥ ५ ॥

मूलम् - ५

आक्षेपं तमसहमान उच्चमानः सद्योऽसौ निजकरपल्लवद्वयेन ।
आदाय व्यतनुत बीजमोषधीनां सूक्तेनांकुरदलपुष्पबीजसृष्टिम् ॥ ५ ॥

भावप्रकाशिका

ओषधीनां मुद्गाह्वयानाम् ॥ ५ ॥

पदार्थदीपिकोद्बोधिका

आक्षेपमिति ॥ तं तत्कृतम् आक्षेपम् असहमान उच्चः महान् मानो यस्य स तथोक्तः महाज्ञान इति वा असौ श्रीमध्वाचार्य ओषधीनाम् अगदाख्यानां धान्यानां बीजं, निजौ यौ करौ तावेव पल्लवौ तयोर् द्वयं तेन आदाय सूक्तेन ‘या ओषधी’रित्यादिसूक्तेन जप्त्वा अङ्कुरश्च दलानि च पुष्पाणि च बीजानि च तेषां सृष्टिं व्यतनुत चक्रे ॥ ५ ॥

मन्दोपाकारिणी

आक्षेपमिति ॥ तं राजकृतम् आक्षेपं निराकरणम् असहमानो ऽमर्षमाण उच्चमान उच्चः महान् मानो ऽभिमानः यस्यासौ उच्चमानः । असौ श्रीमध्वाचार्य ओषधीनां मुद्गाख्यानां धान्यानां बीजं समुदायैकवचनं बीजानि निजकरपल्लवद्वयेन करावेव पल्लवौ किसलयौ । निजौ च तौ करपल्लवौ च तयोर् द्वयेन अञ्जलिना इत्यर्थः । आदाय गृहीत्वा सूक्तेन ‘या ओषधीः पूर्वा जाता देवेभ्यः’ इत्यादिना सूक्तजपेन सद्यस् तत्क्षण एव ‘सद्यः सपदि तत्क्षणे’ इत्यमरो ऽङ्कुरदलपुष्पबीजसृष्टिम् अङ्कुराश्च दलानि पर्णानि च बीजानि फलानि च एतेषां सृष्टिम् उत्पत्तिं क्रमेण व्यतनुत कृतवान् । ‘तनु विस्तारे’ इत्यतो लङ् आत्मनेपदम् अतनुत अतन्वाताम् अतन्वत ॥ ५ ॥

विश्वास-प्रस्तुतिः - ६

व्याख्याता निशि स कदाचन प्रदीपे संशान्ते पुनरपि वाचयाम्बभूव ।
शिष्यान् स्वान् पुरुकरुणाम्बुधिर्निजांघ्रेरङ्गुष्ठस्फुटनखरान्तरोचिषैव॥ ६ ॥

मूलम् - ६

व्याख्याता निशि स कदाचन प्रदीपे संशान्ते पुनरपि वाचयाम्बभूव ।
शिष्यान् स्वान् पुरुकरुणाम्बुधिर्निजांघ्रेरङ्गुष्ठस्फुटनखरान्तरोचिषैव॥ ६ ॥

पदार्थदीपिकोद्बोधिका

व्याख्यातेति ॥ कदाचन निशि व्याख्याता व्याख्यां कुर्वन् स श्रीमध्वः प्रदीपे संशांते नष्टेऽपि निजांघ्रेः स्वचरणस्य अङ्गुष्ठस्य स्फुटो व्यक्तो नखरान्तः नखाग्रं तस्य रोचिस् तेनैव पुनो ऽपि स्वान् शिष्यान् पुरुर् भूयसी या करुणा शिष्यदया तदम्बुधिर् इव अम्बुधिः पूर्ण इत्यर्थः । तथा सन् वाचयाम्बभूव ॥ ६ ॥

मन्दोपाकारिणी

व्याख्यातेति ॥ कदाचन कस्मिंश्चिद् दिवसे निशि रात्रौ ‘निशा निशीथिनी रात्रिः’ इत्यमरः व्याख्याता व्याख्यानं कुर्वन्, सः श्रीमध्वाचार्यः प्रदीपे संशान्ते केनचिन् निमित्तेन नष्टे सत्यपि निजांघ्रेः स्वचरणस्य अङ्गुष्ठस्फुटनखरांतरोचिषैव नखरस्य नखस्य ‘नखोऽस्त्री नखरोऽस्त्रियाम्’ इत्यमरो ऽन्तस्य प्रान्तस्य ‘अन्तर्मध्ये तथा प्रान्ते’ इति विश्वः नखरान्तस्य नखप्रान्तभागस्य रोचिः प्रकाशः नखरान्तरोचिः ‘रोचिः शोचिरुभे क्लीबे प्रकाशो द्योत आतपः’ इत्यमरः स्फुटं च तन् नखरान्तरोचिश्च इति तथोक्तो ऽङ्गुष्ठस्य स्फुटनखरान्तरोचिस् तेनैव पुनः स्वान् शिष्यान् श्रावकान् वाचयाम्बभूव । कथंभूतः पुरुकरुणाम्बुधिः पुरुश्चासौ करुणा च तस्या अम्बुधिः । शिष्येषु बहुदयावान् कदाचिन् निशि व्याख्यां कुर्वन् मध्वः दीपे नष्टेऽपि स्वचरणाङ्गुष्ठनखप्रकाशेनैव पुस्तकं शिष्यैर् वाचयामास इति भावः ॥ ६ ॥

विश्वास-प्रस्तुतिः - ७

तीर्थार्थं पृथुतरवप्रपातिवारां धाराणां रयसहनक्षमां महेक्षः ।
आनीतां दशशतपुम्भिरत्यशक्त्या प्रेक्ष्योचे विपुलशिलां क्वचित् स मुक्ताम् ॥ ७ ॥

मूलम् - ७

तीर्थार्थं पृथुतरवप्रपातिवारां धाराणां रयसहनक्षमां महेक्षः ।
आनीतां दशशतपुम्भिरत्यशक्त्या प्रेक्ष्योचे विपुलशिलां क्वचित् स मुक्ताम् ॥ ७ ॥

पदार्थदीपिकोद्बोधिका

तीर्थेति ॥ महती ईक्षा ज्ञानं यस्य स महेक्षः पूर्णप्रज्ञः क्वचित् कुत्रचिद् देशे तीर्थार्थं नदीतीरस्थापनार्थं दश च तानि शतानि च दशशतानि पुमांसश्च तैः सहस्रसङ्ख्याकैर् इत्यर्थ आनीताम् अत्यशक्त्या मध्ये मुक्तां पृथुतरं यद्वप्रम् उन्नतस्थलं तस्मात् पातीनि पतनशीलानि यानि वारि जलानि तेषां धाराणां रयस्य वेगस्य सहनं वहनं तस्मिन् क्षमां समर्थां विपुलशिलां प्रेक्ष्य इत्यूचे ॥ ७ ॥

मन्दोपाकारिणी

तीर्थार्थमिति ॥ सः महेक्षः महती पूर्णा ईक्षा बुद्धिर् यस्य सः महेक्षः मध्वाचार्यः । क्वचित् कुत्रचिद् देशे विपुलशिलां विपुला महती च सा शिला च तां प्रेक्ष्य दृष्ट्वा ऊचे अब्रवीत् । कथंभूतां शिलां तीर्थार्थं तीर्थनिमित्तेन नदीतीरे स्थापनार्थमिति यावत् । दशशतपुंभिर् दश च तानि शतानि च सहस्रम् इत्यर्थः दशशतसङ्ख्याकाश्च ते पुमांसश्च दशशतपुमांसस् तैः सहस्रसङ्ख्याकैः पुरुषैर् आनीतां किंचिद् दूरे कथंचिद् आनीताम् अत्यशक्त्या अत्यन्तम् असामर्थ्येन क्वचिन् मध्ये मुक्तां भूमौ निक्षिप्तां पुनः कथंभूतां पृथुतरवप्रपातिवाराम् अतिशयेन पृथुर् उच्चः पृथुतरः पृथुतरश्चासौ वप्रः रोधश्च ‘वप्रः प्राकाररोधसोः’ इति विश्वः रोधो नाम तीरं ‘कुलं रोधश्च तीरं च’ इत्यमरात् पृथुतरवप्रः पृथुतरवप्रात् पाति निपतन्ति च तानि वारि जलानि च पृथुतरवप्रपातिवारि तेषां ‘आपः स्त्री भूमि्न वार्वारि सलिलं कमलं जलं’ इत्यमरः धाराणां सन्ततीनां ‘धारा सैन्याग्रिमस्कन्धसन्तत्योः पतनान्तरे’ इति विश्वः । यद्वा धाराणां सम्पातानां ‘धारासम्पात आसारः’ इत्यमरः प्रवाहानाम् इति यावत् । रयसहनक्षमां रयस्य जवस्य सहने क्षमां शक्तां ‘रंहस्तरसी तु रयः स्यदः जवोऽथ’ इत्यमरः ‘क्षमं शक्ते हिते त्रिषु’ इति च । अत्युन्नतकूलात् पतज्जलप्रवाहवेगं सोढुं समर्थाम् इत्यर्थः ॥ ७ ॥

विश्वास-प्रस्तुतिः - ८

लोकानामुपकृतये कुतः शिलेयं निन्ये नो इति जनता जगाद तत्र ।
नेतारो यतिवर मानवा न हीमां भीमश्चेदिह यतते नयेन्न वेति ॥ ८ ॥

मूलम् - ८

लोकानामुपकृतये कुतः शिलेयं निन्ये नो इति जनता जगाद तत्र ।
नेतारो यतिवर मानवा न हीमां भीमश्चेदिह यतते नयेन्न वेति ॥ ८ ॥

पदार्थदीपिकोद्बोधिका

लोकानामिति ॥ लोकानां जनानाम् उपकृतये क्षेमाय शिला कुतो नो निन्ये न नीता इत्यूचे इति सम्बन्धः । तदा तत्र प्रदेशे स्थिता जनता जनसमूहः— ‘हे यतिवर श्रीमध्व इमां शिलां नेतारो नेतुं समर्था मानवा मनुष्या न हि न विद्यन्ते । भीमो भीमसेन इह शिलानयने यतते चेत् तर्हि नयेद्वा न वा’ इति जगाद ॥ ८ ॥

मन्दोपाकारिणी

लोकानामिति ॥ लोकानां जनानाम् उपकृतये उपकाराय इयं शिला कुतः कस्मात् कारणाद् भवद्भिर् नोनिन्ये एतत्स्थलान् न नीता इत्यूचे इति पूर्वेण सम्बन्धः ‘णीञ् प्रापणे’ इति धातोः कर्मणि लिट् । तत्र तदा जनता जनसमूहः श्रीमध्वाचार्यं प्रति जगाद अब्रवीत् । कथं, हे यतिवर संन्यासिश्रेष्ठ इमां शिलां नेतार उन्नेतुं समर्था मानवा मनुष्या न हि न विद्यन्ते हि ‘मनुष्या मानुषा मर्त्या मनुजा मानवा नराः’ इत्यमरः । भीमश्चेद् भीमसेनश्चेद् इह एतच्छिलानयने यतते चेन् नयेद्वा न वा भीमसेनोऽपि इमां शिलां नेतुं प्रयत्नं तावत् कुर्यात् । नेतुं समर्थो भवेन् न वा इति भावः । ‘गद व्यक्तायां वाचीति धातोर् लिट् परस्मैपदं’ ‘णीञ् प्रापणे’ इति धातोर् विधिलिङ् परस्मैपदम् । इति जनता जगाद इति सम्बन्धः ॥ ८ ॥

विश्वास-प्रस्तुतिः - ९

निन्ये तां गिरिमिव वानरीकृतात्मा लीलावत्करकमलेन सोऽमलेन ।
तत्रापि न्यधित तयाऽस्य सूच्यतेऽलं तत्तुङ्गां ननु निकषाधुनाऽपि कर्म ॥ ९ ॥

मूलम् - ९

निन्ये तां गिरिमिव वानरीकृतात्मा लीलावत्करकमलेन सोऽमलेन ।
तत्रापि न्यधित तयाऽस्य सूच्यतेऽलं तत्तुङ्गां ननु निकषाधुनाऽपि कर्म ॥ ९ ॥

पदार्थदीपिकोद्बोधिका

निन्य इति ॥ स श्रीमध्वो ऽमलेन, लीला अस्यास्तीति लीलावत् तच्च तत्करकमलं च तेन तां शिलां वानरीकृतः वानरत्वेन कृत आत्मा स्वरूपं यस्य स तथोक्तः हनूमद्रूपः स इत्यर्थः । स्वयं गिरिमिव गन्धमादनपर्वतमिव निन्ये नीतवान् । अत्र लीलावद् इत्युक्तया अनायासः सूचितः । यत्र सा शिला स्थापयितुमिष्टा तत्र तुङ्गां तुङ्गभद्राया निकषा समीपे ‘अभितः परितः समया निकषा’ इत्यादिना द्वितीया न्यधित निक्षिप्तवान् । अस्य श्रीमध्वाचार्यस्य तत्कर्म अधुनापि तया शिलया अलं सम्यग् सूच्यते ननु । खण्डकलशाख्यतुङ्गभद्रातीर इयं शिला कैश्चन यतिभिर् आनीतेति वार्ता श्रूयत इति भावः ॥ ९ ॥

मन्दोपाकारिणी

निन्येति ॥ सः श्रीमध्वो ऽमलेन काठिण्यदोषरहितेन कोमलेन इति यावत् । लीलावत्करकमलेन लीलावान् आयासरहितश्चासौ करश्च स एव कमलं पद्मं तेन । यदा लीलावद् इति भिन्नं पदम् । लीला अस्यास्तीति लीलावत् । लीलया सहितं यथा भवति तथेति भावः । तां सहस्रपुरुषैर् उद्धर्तुम् अशक्यां शिलां निन्ये निनाय अनायासेन नीतवान् इत्यर्थः । कः कमिव वानरीकृतात्मा अवानरः वानरवत् सम्पद्यमानः वानरीकृत आत्मा देहो येन स तथोक्तः हनुमान् गिरिमिव गन्धमादनपर्वतमिव । तत्र शिलास्थापनाय अभिप्रेतस्थले तां शिलां न्यधितापि स्थापयामास च । तया शिलया अस्य श्रीमध्वाचार्यस्य तत् शिलास्थापनरूपं कर्म व्यापारस् तुङ्गां तुङ्गभद्राया निकषा समीपे ‘समीपे निकषांतिके’ इत्यमरः ‘अभितः परितः समया निकषा हा प्रातियोगेऽपि षष्ठ्यर्थे द्वितीया’ । अधुनापि इदानीम् अपि अलं सम्यक् सूच्यते ज्ञायते इति श्रूयते ननु निश्चय इत्युक्तं भवति ॥ ९ ॥

विश्वास-प्रस्तुतिः - १०

सङ्घातैरधिकथनैरलङ्कृताध्वा शिष्याणां यतमनसामुतेतरेषाम् ।
यत्रामा वसति तिथाविनेन चन्द्रस्तत्रासौ सकलमतिः ससार सिन्धुम् ॥ १० ॥

मूलम् - १०

सङ्घातैरधिकथनैरलङ्कृताध्वा शिष्याणां यतमनसामुतेतरेषाम् ।
यत्रामा वसति तिथाविनेन चन्द्रस्तत्रासौ सकलमतिः ससार सिन्धुम् ॥ १० ॥

भावप्रकाशिका

यतमनसां यतीनामितरेषां गृहिणाम् ॥ १० ॥

पदार्थदीपिकोद्बोधिका

सङ्घातैरिति ॥ असौ सकलमतिः पूर्णप्रज्ञः यत्र यस्यां तिथौ चन्द्र इनेन सूर्येण अमा सह वसति, तत्र तस्यां तिथौ, अमावास्यायामित्यर्थः । तस्याम् उपरागे च सति स्नातुं सिन्धुं, यतमनसां यतीनाम् इतरेषां गृहीणां, उत अपि अत एव उभयेषां शिष्याणाम् अधिकघनैर् मार्गे अतीवसम्मर्दभाग्भिः सङ्घाताः समूहास् तैर् अलङ्कृतोऽध्वा यस्य स तथा सन् ससार जगाम ॥ १० ॥

मन्दोपाकारिणी

सङ्घातैरिति ॥ असौ सकलमतिः सकला पूर्णा मतिः प्रज्ञा यस्य स सकलमतिर् मध्वाचार्यः । यत्र यस्यां तिथौ चन्द्र इनेन सूर्येण ‘इनः सूर्ये नृपे पतौ’ इति विश्वो ऽमा सह ‘अमा सह समीपे च’ इति अभिधानं वसति तत्र तिथौ अमावास्यायाम् इत्यर्थः । तस्यां सूर्योपरागे सति तत्पर्वकाले स्नातुं सिन्धुं ससार जगाम । ‘सृ गतौ’ इति धातोर् लिट् परस्मैपदम् । यतमनसां यतं निगृहीतं मनो येषां यतीनाम् इत्यर्थः । इतरेषां यतीतरेषाम् उत गृहस्थादीनाम् अपि एवम् उभयविधशिष्याणाम् अधिकथनैर् अधि अधीतानि कथनानि वचांसि येषां ते अधिकथनास् तैः सङ्गातैः समूहैः ‘स्तोमौघनिकरव्रातवारसङ्घात संचयाः’ इत्यमरो ऽलङ्कृताध्वा अलङ्कृतो ऽध्वा मार्गो यस्य स तथोक्तः ‘अयनं वर्त्म मार्गाध्वपन्थानः’ इत्यमरः । मार्गे शास्त्रविषयकातिशयितवाग्व्यापारं कुर्वद्भिर् यतिभिर् गृहिभिः शिष्यैः सह सूर्यग्रहणे सति स्नातुं समुद्रं प्रति जगाम इति भावः ॥ १० ॥

विश्वास-प्रस्तुतिः - ११

आर्द्राङ्गाः सपदि निमज्जनात् सरस्यां कण्वस्य द्विजऋषभस्य वल्लभायाम् ।
तत्रायन् खरकिरणोपरागहेतोर्ग्रामीणा अपि सकलाः सबालवृद्धाः॥ ११ ॥

मूलम् - ११

आर्द्राङ्गाः सपदि निमज्जनात् सरस्यां कण्वस्य द्विजऋषभस्य वल्लभायाम् ।
तत्रायन् खरकिरणोपरागहेतोर्ग्रामीणा अपि सकलाः सबालवृद्धाः॥ ११ ॥

पदार्थदीपिकोद्बोधिका

आर्द्राङ्गा इति ॥ तत्र तस्मिन् काले सबालवृद्धाः सकला ग्रामीणा अपि एकवाटग्रामजना अपि खरास् तीक्ष्णाः किरणा यस्य स तथा तस्य सूर्यस्य य उपरागो ग्रहणं स एव हेतुस् तस्मात् समुद्रस्नानार्थं द्विजर्षभस्य द्विजश्रेष्ठस्य कण्वस्य कण्वाख्यमुनेर् वल्लभायां प्रियायां सरस्यां सरोवरे सपदि सद्यः निमज्जनम् अवगाहनं तस्माद् आर्द्राण्यङ्गानि येषां ते तथोक्ताः सन्तस् तत्र समुद्रतीरे आयन् आगताः ॥ ११ ॥

मन्दोपाकारिणी

आर्द्राङ्गा इति ॥ तत्र मध्वाचार्यगमनकाले सबालवृद्धा बालाः पूर्ववयस्कास् तैः सहिताः सबालवृद्धाः सकला ग्रामीणा अपि ग्रामस्थसर्वजना अपि खरकिरणोपरागहेतोः खरास् तीक्ष्णाः किरणा रश्मयः यस्य सः खरकिरणः सूर्यस् तस्य उपरागः ग्रहः ग्रहणं स एव हेतुः कारणं तस्मात् ‘उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च’ इत्यमरः । तत्र समुद्रस्नानार्थम् आयन् आगताः । ‘इण् गतौ’ इत्यतो लङ् परस्मैपदम् ऐद् ऐताम् आयन् । कथंभूता द्विजऋषभस्य द्विजश्रेष्ठस्य कण्वस्य कण्वनामकमुनेर् वल्लभायां प्रीतिविषयायां सरस्यां सरसि कण्वतीर्थे इत्यर्थः ‘कासारः सरसी सरः’ इत्यमरः । सपदि सद्यः निमज्जनात् स्नानाद् आर्द्राङ्गा आर्द्रं क्लिन्नम् अङ्गं शरीरं येषां ते तथोक्ता एकवाटादिग्रामजनाः सबालवृद्धाः सर्वेऽपि कण्वतीर्थे स्नात्वा आर्द्राङ्गा एव सूर्योपरागनिमित्तं मध्वाचार्यागमनकाले स्नातुं समुद्रं प्रत्याययुर् इति भावः ॥ ११ ॥

विश्वास-प्रस्तुतिः - १२

सर्वज्ञं सपरिजनं समीक्षमाणाः फुल्लाक्षाः स्मितवदनाः शुभा ननन्दुः ।
दौर्मुख्यं दधत उतापरे निनिन्दुर्नाश्चर्यं द्वयमपि तत् स्वभावतन्त्रम्॥ १२ ॥

मूलम् - १२

सर्वज्ञं सपरिजनं समीक्षमाणाः फुल्लाक्षाः स्मितवदनाः शुभा ननन्दुः ।
दौर्मुख्यं दधत उतापरे निनिन्दुर्नाश्चर्यं द्वयमपि तत् स्वभावतन्त्रम्॥ १२ ॥

पदार्थदीपिकोद्बोधिका

सर्वज्ञमिति ॥ सपरिजनं सपरिवारं सर्वज्ञं श्रीपूर्णप्रज्ञाचार्यं समीक्षमाणा अत एव स्मितं मन्दहासोपेतं वदनं येषां ते तथोक्ताः । फुल्लानि विकसितानि अक्षीणि येषां ते तथोक्ताः । शुभाः सज्जना ननन्दुः । दौर्मुख्यं तद्दर्शनेन दुर्मुखत्वं दधतो ऽपरे दुर्जना निनिन्दुः । स्वभावतन्त्रं स्वभावाधीनं तद्द्वयमपि सदसतोः सन्तोषनिन्दाद्वयमपि आश्चर्यं न । स्वभावतन्त्रमिति हेतुगर्भं विशेषणम् ॥ १२ ॥

मन्दोपाकारिणी

सर्वज्ञमिति ॥ सपरिजनं परिजनैः परिवारजनैः सहितं सर्वज्ञं श्रीपूर्णप्रज्ञाचार्यं समीक्षमाणाः पश्यन्तः । अत एव स्मितवदनाः स्मितं मन्दहासयुक्तं वदनं मुखं येषां ते तथोक्ताः । फुल्लाक्षाः फुल्ले विकसिते अक्षिणी नेत्रे येषां ते तथोक्ताः शुभाः सज्जना ननन्दुस् तुतुषुः ‘टु नदि समृद्धौ’ इति धातोर् लिट् । उत किं तु अपरे असज्जना दौर्मुख्यं श्रीमध्वाचार्यदर्शनेन दुर्मुखत्वं दधतः कुर्वन्तः सन्तः निनिन्दुर् गर्हयामासुः । ‘णिदि कुत्सायां’ इति धातोर् लिट् । तद्द्वयमपि नन्दननिन्दनोभयमपि नाश्चर्यं कुतः स्वभावतन्त्रं स्वस्वरूपाधीनम् । हेतुगर्भविशेषणम् एतत् ॥ १२ ॥

विश्वास-प्रस्तुतिः - १३

मा मैनं भुवनगुरुं विनिन्दतेत्थं निर्भर्त्स्याभ्यपतदिवोत्तरङ्गहस्तः ।
सङ्क्षोभी घनघनघोषघोरवेषः संरम्भी खलदमनाय सिन्धुराजः॥ १३ ॥

मूलम् - १३

मा मैनं भुवनगुरुं विनिन्दतेत्थं निर्भर्त्स्याभ्यपतदिवोत्तरङ्गहस्तः ।
सङ्क्षोभी घनघनघोषघोरवेषः संरम्भी खलदमनाय सिन्धुराजः॥ १३ ॥

पदार्थदीपिकोद्बोधिका

मा मेति ॥ उन्नता ये तरङ्गा उत्तरङ्गा त एव हस्ता यस्य स तथोक्तः । संक्षोभी अत्यन्तक्षोभयुक्तः घनघनोऽतिगम्भीरो यो घोषस् तेन घोरो भयङ्करो वेषो रूपं यस्य स तथोक्तः । संरम्भी कोपवान् सिन्धुराजः समुद्रः भुवनगुरुं जगद्गुरुम् एनं श्रीमध्वं, मा मा विनिन्दत इत्थं निर्भर्त्स्य खलदमनाय खलशिक्षणाय अभ्यपतद् इव श्रीमध्वं द्विषतां खलानां निग्रहाय समुद्रोऽभ्यपतद् इव आसीत् ॥ १३ ॥

मन्दोपाकारिणी

मा मेति ॥ इह आगमनवेलायाम् उत्तरङ्गहस्त उद् उन्नतस् तरङ्ग एव हस्तो यस्य स तथोक्तः । सङ्क्षोभी सम् अत्यन्तं क्षोभश् चलनम् अस्यास्तीति सङ्क्षोभी घनघनघोषघोरवेषः घनघनेन अतिसान्द्रेण अत्युच्चेनेति यावद् घोषेण ध्वनिना घोरः भयङ्करः वेष आकारो यस्य स तथोक्तः । संरम्भी संरम्भः वेगः कोपो वा अस्यास्तीति संरम्भी । सिन्धुराजः सिन्धूनां राजा समुद्रः ‘सिन्धुः समुद्रे नद्यां च’ इति विश्वः । भुवनगुरुं भुवनानां लोकानां गुरुम् एनं श्रीमध्वाचार्यं मा मा विनिन्दत न विनिन्दत इत्थं निर्भर्त्स्य धिक्कृत्य खलदमनाय खलानां क्षुद्रजनानां दमनाय शिक्षणाय वधाय इति यावत् । अभ्यपतदिव अभ्यगाद् इव इति लुप्तोपमा ‘पत्लृ पतन’ इत्यतो लङ् परस्मैपदम् । यथा राजा सर्वेषां गुरोर् निन्दकान् दृष्ट्वा महाकोपेन शब्दं कुर्वन् घोररूपः सन् हस्तपादादिकं कम्पयन् अयं गुरुर् न निन्दनीय इति धिक्कृत्य तद्धननाय हस्तम् उद्यम्य अभिमुखे आयाति तद्वद् अयं समुद्रोऽपि तादृशव्यापारवान् अभ्यपतद् इवेति कविर् उत्प्रेक्षते इति भावः ॥ १३ ॥

विश्वास-प्रस्तुतिः - १४

सम्मोदात् तरलतरो द्रुताभिगामी गम्भीरस्वननुतिमान् सुफेनहासः ।
वीच्यङ्गैरधिकतरैरिहाधिवेलं मध्वाय प्रणतिमिव व्यधात् समुद्रः ॥ १४ ॥

मूलम् - १४

सम्मोदात् तरलतरो द्रुताभिगामी गम्भीरस्वननुतिमान् सुफेनहासः ।
वीच्यङ्गैरधिकतरैरिहाधिवेलं मध्वाय प्रणतिमिव व्यधात् समुद्रः ॥ १४ ॥

पदार्थदीपिकोद्बोधिका

सम्मोदादिति ॥ सम्मोदात् सन्तोषाद् इव तरलतरो अतिचञ्चलः । द्रुतम् अभिगन्तुं शीलमस्येति तथोक्तः, तरङ्गरूपेण द्रुतम् अभ्यागच्छन् इत्यर्थः। गम्भीरस्वन एव नुतिः स्तोत्रं साऽस्यास्तीति तथोक्तः । सुफेन एव धवलतया शोभनफेन एव हासो यस्य तथोक्तः समुद्रो ऽधिकं ततैर् विस्तीर्णैर् वीच्यङ्गैर् वीचिरूपावयवैर् वेलायाम् अधि अधिवेलं विभक्तयर्थेऽव्ययीभावः वेलायामित्यर्थः मध्वाय प्रणतिं नमस्कारं व्यधाद् इव आसीत् ॥ १४ ॥

मन्दोपाकारिणी

कविः सिन्धुं प्रकारान्तरेण उत्प्रेक्षते ॥ सम्मोदादिति ॥ इह आगमनवेलायां समुद्रो ऽधिकतरैर् अत्युच्चैर् वीच्यङ्गैर् वीचयस् तरङ्गा एव अङ्गानि हस्तपादाद्यवयवास् तैः ‘भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु’ इत्यमरः । अधिवेलं वेलाम् अधि समुद्रतीरे इत्यर्थः ‘वेलाऽब्धितीराभिवृद्धयोः कालमर्यादयोरपि’ इति भास्करः । मध्वाय प्रणतिं नमस्कारं व्यधादिव अकरोदिव । कथंभूतः सम्मोदात् सन्तोषात् तरलतरो ऽतिचञ्चलः ‘चञ्चलं तरलं चैव’ इत्यमरः । द्रुताभिगामी तरङ्गरूपेण द्रुतं शीघ्रेण अभिगामी आभिमुख्येन आगच्छन् गम्भीरस्वननुतिमान् गम्भीरश्चासौ स्वनः ध्वनिश्च स एव नुतिः स्तुतिर् अस्यास्तीति तथोक्तः गम्भीरशब्दाख्यस्तोत्रयुक्त इत्यर्थः सुफेनहासः सु धवलतया शोभमानः फेन एव हासः मन्दहासो यस्य स तथोक्तः । फेनो नाम जलोपरि दृश्यमानः धवलवर्णः जलविकारः । यथा कश्चित् पुरुषश् चिरादागतं स्वगुरं दृष्ट्वा सन्तोषात् हस्तपादादिकंपनवान् शीघ्रेणाभिगम्य उच्चध्वनिना स्तुतिं कुर्वन् स्मितवदनः सन् अष्टाङ्गैर् यथा प्रणमेत् तद्वद् इति भावः ॥ १४ ॥

विश्वास-प्रस्तुतिः - १५

गोलीलास्वतिशयिनावगाधभावान्नोल्लङ्घ्यौ विविधगुणप्रकाशरत्नौ ।
मध्वाब्धी परममतेः प्रियं जनानां लावण्यं न तु जलधेरयं विशेषः॥ १५ ॥

मूलम् - १५

गोलीलास्वतिशयिनावगाधभावान्नोल्लङ्घ्यौ विविधगुणप्रकाशरत्नौ ।
मध्वाब्धी परममतेः प्रियं जनानां लावण्यं न तु जलधेरयं विशेषः॥ १५ ॥

भावप्रकाशिका

विविधगुणज्ञानाख्यरत्नः विविधवर्णतेजस्करत्नश्च लावण्यं सौन्दर्यं लवणभावश्च ॥ १५ ॥

पदार्थदीपिकोद्बोधिका

गोलीलास्विति ॥ मध्वाब्धी, गवां लीला विलासा गोलीलास् तासु अतिशयोऽनयोर् अस्ति इति अतिशयिनौ विविधवाग्विलासेष्वतिशयवान् मध्वः, जलविलासेषु अतिशयवान् समुद्रः, अगाधस्य भावो अगाधभावस् तस्माद् गम्भीरत्वादित्यर्थः नोल्लङ्घ्यौ । विविधगुणप्रकाशरत्नौ, मध्वस्तु विविधा गुणा भक्तिवैराग्यादयो यस्य तादृशः प्रकाशो ज्ञानं स एव रत्नं यस्य स तथोक्तः । समुद्रोऽपि विविधा गुणा रक्तनैल्यादयो नानावर्णा प्रकाशश्च येषां तादृशानि रत्नानि यस्मिन् स तथोक्तः । एवं साम्येऽपि परममतेः श्रीपूर्णप्रज्ञस्य लावण्यं सौन्दर्यं जनानां पश्यतां जनानां प्रियम् । जलधेर् लावण्यं लवणत्वं जनानां प्रियं न भवब्ध्यो एव मध्वातिरयं विशेषः । अत्र व्यतिरेकालङ्कारः ॥ १५ ॥

मन्दोपाकारिणी

गोलीलेति ॥ मध्वाब्धी मध्वश्च अब्धिश्च इत्युभौ । अगाधभावाद् अगाधः गम्भीरश्चासौ भावः स्वभावश्च तस्मात् । गोलीलासु गवां वाचां जलानां च लीलासु ‘भूवाग्वारिषु गौर्मता’ इति विश्वः । अतिशयिनौ इतरवैलक्षण्येन वर्तमानौ । गाम्भीर्यादेव नोल्लङ्घ्यौ इतरैर् अत्येतुम् अशक्यौ विविधगुणप्रकाशरत्नौ विविधा गुणा भक्तिवैराग्यादयः यस्य स तथोक्तः स चासौ प्रकाशः ज्ञानं च स एव रत्नं यस्य स तथोक्त इति मध्वपक्षे । समुद्रपक्षे तु विविधाश्च ते गुणाश्च रक्तनीलादयस् तैः प्रकाशमानानि रत्नानि यस्मिन् स इति रक्तनीलादिनानावर्णयुक्तरत्नवान् इत्यर्थः । विविधगुणप्रकाशरत्नश्च इति एकशेषः । यद्यपि उभौ एवं समानौ तथापि परममतेः परमा अत्युत्तमा मतिर् बुद्धिर् यस्य तस्य श्रीमध्वाचार्यस्य लावण्यं सौन्दर्यं जनानां प्रियम् इष्टम् । जलधेः समुद्रस्य लावण्यं लवणत्वं तु जनानां प्रियं न तु नैव भवति । एवं मध्वसमुद्रयोर् अयं विशेषः वैलक्षण्यम् अस्तीति शेषः ॥ १५ ॥

विश्वास-प्रस्तुतिः - १६

अम्भोधेस्त्वरिततरोर्मिपाणिमृष्टे स्वच्छेऽसौ विकटतटासने निषण्णः ।
व्याचख्यावतिचिरमैतरेयशाखासूक्तानि प्रभुरतिसुन्दरप्रकारम्॥ १६ ॥

मूलम् - १६

अम्भोधेस्त्वरिततरोर्मिपाणिमृष्टे स्वच्छेऽसौ विकटतटासने निषण्णः ।
व्याचख्यावतिचिरमैतरेयशाखासूक्तानि प्रभुरतिसुन्दरप्रकारम्॥ १६ ॥

पदार्थदीपिकोद्बोधिका

अम्भोधेरिति ॥ प्रभुर् असौ श्रीमध्वो ऽम्भोधेर् अत्यन्तं त्वरिता त्वरिततरा ऊर्मयस् तरङ्गास् ता एव पाणयस् तैर् मृष्टं तस्मिन् । स्वच्छे निर्मले । विकटं श्रेष्ठं विशालं वा यत्तटं तीरं तदेव आसनं पीठं तस्मिन् ‘विशङ्कटं विशालं स्यात्करालं विकटं तथा’ इति हलः । निषण्णः सन् ऐतरेयशाखायाः सूक्तानि अतिसुन्दरो ऽतिरमणीयः प्रकारो यथा भवति तथा अत्यन्तं चिरं यथा भवति तथा अतिचिरं व्याचख्यौ ॥ १६ ॥

मन्दोपाकारिणी

अम्भोधेरिति ॥ प्रभुः समर्थो ऽसौ श्रीमध्वाचार्यो ऽम्भोधेः समुद्रस्य त्वरिततरोर्मिपाणिमृष्टे अत्यन्तं त्वरितास् त्वरिततरा अतिवेगा इत्यर्थः । तादृशाश्च ता ऊर्मयस् तरङ्गाश्च ता एव पाणयः हस्तास् तैर् मृष्टे मार्जिते स्वच्छे निर्मले विकटतटासने विकटं सुन्दरं च तत् तटं तीरं च तदेव आसनं तस्मिन् निषण्ण उपविष्टस्सन् ऐतरेयशाखासूक्तानि ऐतरेयशाखाया ऋक्शाखायाः सूक्तानि अतिसुन्दर-प्रकारं यथा भवति तथा अतिचिरं बहुकालं व्याचख्यौ व्याख्यातवान् । ‘ख्या प्रकथने’ इति धातोर् लिट् परस्मैपदं व्याचख्यौ व्याचख्यतुर् व्याचख्युः ॥ १६ ॥

विश्वास-प्रस्तुतिः - १७

गाम्भीर्यात् स्वनमधरीकरोति सिन्धोः श्राव्यत्वं वहति तथाऽप्यहो स्वनोऽस्य ।
पूर्णेन्दुप्रभवदनः क एष धन्यो मत्वेत्थं जनजलधिस्तमाशु पर्यैत् ॥ १७ ॥

मूलम् - १७

गाम्भीर्यात् स्वनमधरीकरोति सिन्धोः श्राव्यत्वं वहति तथाऽप्यहो स्वनोऽस्य ।
पूर्णेन्दुप्रभवदनः क एष धन्यो मत्वेत्थं जनजलधिस्तमाशु पर्यैत् ॥ १७ ॥

पदार्थदीपिकोद्बोधिका

गाम्भीर्यादिति ॥ अस्य श्रीमध्वस्य स्वनः, गाम्भीर्यात् सिन्धोः समुद्रस्य स्वनं ध्वनिम् अधरीकरोति तिरस्करोति तथापि समुद्रस्वनाद् अतिगम्भीरोऽपि श्राव्यं श्रोतव्यत्वं वहति अहो आश्चर्यम् । पूर्णेन्दोः प्रभेव प्रभा यस्य तत्पूर्णेन्दुप्रभं तादृशं वदनं यस्य स तथोक्तः । एष धन्यः कः ? इत्थं मत्वा जनजलधिर् जनसमुद्रस् तं श्रीमध्वम् आशु पर्यैद् आवृणोत् ॥ १७ ॥

मन्दोपाकारिणी

गाम्भीर्यादिति ॥ अस्य श्रीमध्वाचार्यस्य स्वनः व्याख्यानध्वनिर् गाम्भीर्यात् सिन्धोः समुद्रस्य स्वनं ध्वनिम् अधरीकरोति अधःकरोति । समुद्रध्वन्यपेक्षया व्याख्यानध्वनेर् अत्युच्चत्वाद् इति भावः । तथापि समुद्रस्वनाद् अतिगम्भीरत्वेऽपि अस्य मध्वस्य स्वनः नादः श्राव्यत्वं श्रोतव्यत्वं वहति धत्ते अहो आश्चर्यम् । अत्युच्चोऽपि व्याख्यानस्वनः श्राव्यो भवति । पूर्णेन्दुप्रभवदनः पूर्णः षोडशकलापरिपूर्णश्चासौ इन्दुश् चन्द्रश्च तस्य प्रभं सदृशं वदनं यस्य स तथोक्तः । धन्य एष पुरुषः कः कोऽनु इत्थं मत्वा जनजलधिर् जनाख्यसमुद्रस् तं श्रीमध्वाचार्यम् आशु शीघ्रं पर्यैद् आवृणोत् ॥ १७ ॥

विश्वास-प्रस्तुतिः - १८

वेदानां समुचितभाववाददक्षं ये वेदद्विषमिममूचिरे महेर्ष्याः ।
धिग्धिक् तानिति जनता जगाद गाढं स्वाश्चर्यात्किल कलिताञ्जलिर्नमन्ती ॥ १८ ॥

मूलम् - १८

वेदानां समुचितभाववाददक्षं ये वेदद्विषमिममूचिरे महेर्ष्याः ।
धिग्धिक् तानिति जनता जगाद गाढं स्वाश्चर्यात्किल कलिताञ्जलिर्नमन्ती ॥ १८ ॥

पदार्थदीपिकोद्बोधिका

वेदानामिति ॥ महती ईर्ष्या असूया येषां ते महेर्ष्या ये दुर्जना वेदानाम् ऐतरेयशाखागतवेदवाक्यानां समुचितो अत्युपपन्नो यो भावो अभिप्रायस् तस्य वादे वर्णने दक्षं समर्थम् इमं श्रीमध्वं वेदद्विषं वेददूषकम् ऊचिरे तान् दुष्टान् धिक् धिक् । अत्र तात्पर्ये द्विरुक्तिः । जनता मिलितजनसमूहस् तत्र स्वाश्चर्याद् अत्याश्चर्यात् कलितो रचितोऽञ्जलिर् यया तादृशी सती बद्धाञ्जलिर् इत्यर्थः । नमन्ती नमस्कारं कुर्वन्ती सती जगाद किल ॥ १८ ॥

मन्दोपाकारिणी

वेदानामिति ॥ महेर्ष्या महती भूयसी इर्ष्या असूया येषां ते महेर्ष्या ये जना वेदानां समुचितभाववाददक्षं समुचितो ऽत्युपपन्नः भावो ऽभिप्रायस् तस्य वादे कथने दक्षं समर्थं मध्वाचार्यं, वेदद्विषं वेदान् द्वेष्टीति वेदद्विट् तं वेददूषकम् ऊचिरे जगदुस् तान् दुष्टजनान् धिक् धिक् इति जनता तत्र मिलितजनसमूहः गाढं दृढं जगाद किल । कथंभूता जनता, स्वाश्चर्याद् अत्याश्चर्यात् कलिताञ्जलिः कलितः बद्धो ऽञ्जलिः करसम्पुटः यया सा तथोक्ता नमन्ती ॥ १८ ॥

विश्वास-प्रस्तुतिः - १९

सन्मानं विपुलहृदे विधाय भक्त्या बिभ्राणाश्चरणरजोऽस्य देवसेव्यम् ।
तत्स्नानादधिकशुचौ नदाधिराजे सस्नुस्ते द्विजनिकराः प्रशस्तकाले ॥ १९ ॥

मूलम् - १९

सन्मानं विपुलहृदे विधाय भक्त्या बिभ्राणाश्चरणरजोऽस्य देवसेव्यम् ।
तत्स्नानादधिकशुचौ नदाधिराजे सस्नुस्ते द्विजनिकराः प्रशस्तकाले ॥ १९ ॥

पदार्थदीपिकोद्बोधिका

सन्मानमिति ॥ ते द्विजनिकरा विपुलहृदे श्रीपूर्णप्रज्ञाय भक्तया सन्नाम सम्यग् नमस्कारं विधाय अस्य श्रीमध्वस्य देवसेव्यं देवनिषेव्यं चरणरजो बिभ्राणाः सन्तस् तत्स्नानात् श्रीमध्वस्नानाद् अधिकशुचौ अतिपवित्रे नदाधिराजे समुद्रे प्रशस्तकाले सस्नुः स्नानं चक्रुः ॥ १९ ॥

मन्दोपाकारिणी

सन्मानमिति ॥ ते द्विजनिकरा विप्राणां समूहा विपुलहृदे पूर्णप्रज्ञाचार्यस्य भक्त्या सन्मानं बहुमानं विधाय कृत्वा, देवसेव्यम् अस्य मध्वाचार्यस्य चरणरजः पादयोर् धूलिं बिभ्राणा धृतवन्तः सन्तस् तत्स्नानात् तस्य मध्वाचार्यस्य स्नानाद् अधिकशुचौ अतिशयपवित्रे नदाधिराजे नदानां पुरुषजलाशयानाम् अधिराजे स्वामिनि समुद्रे प्रशस्तकाले विहिते काले उपरागकाले इत्यर्थः । सस्नुः स्नातवन्तः । ‘ष्णा शौचे’ इत्यतो लिट् परस्मैपदम् ॥ १९ ॥

विश्वास-प्रस्तुतिः - २०

कल्लोलैः करिनिकरैरिवानिवार्यैरुल्लोलैर्जननिकरान्निपातयद्भिः ।
आक्रान्ताः प्रबलतरैश्च लोठ्यमाना हास्यत्वं प्रययुरुदन्वतीह नैके ॥ २० ॥

मूलम् - २०

कल्लोलैः करिनिकरैरिवानिवार्यैरुल्लोलैर्जननिकरान्निपातयद्भिः ।
आक्रान्ताः प्रबलतरैश्च लोठ्यमाना हास्यत्वं प्रययुरुदन्वतीह नैके ॥ २० ॥

पदार्थदीपिकोद्बोधिका

कल्लोलैरिति ॥ इह उदन्वति अत्र समुद्रे स्नानं कुर्वन्तः, एके न भवन्ति इति नैके बहवः न समासोऽयं ‘नैकधे’त्यादिवत्, जना उल्लोलैर् अतिचञ्चलैर् अनिवार्यैर् जननिकरान् निपातयद्भिः प्रबलतरैस् तरङ्गैः करिनिकरैर् इव गजसमूहैर् इव आक्रान्ता अत एव पतिताः सन्तः लोठ्यमानाः सन्तः क्लिश्यमानाः सन्तः हास्यत्वं प्रययुः । उल्लोलशब्दो महातरङ्गवाचको वा ‘भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु । महत्सूल्लोलकल्लोला’वित्यमरः । उल्लोलैर् अङ्गभूतैः कल्लोलैर् महातरङ्गैर् अपि आक्रान्ता इति योजना ॥ २० ॥

मन्दोपाकारिणी

कल्लोलैरिति ॥ इह अस्मिन् उदन्वति सिन्धौ ‘उदन्वानुदधिः सिंधुः’ इत्यमरः । नैके अनेके बहवः हास्यत्वं हासविषयत्वं प्रययुः प्रापुः । कथंभूता उल्लोलैर् अत्यन्तचञ्चलैर् अनिवार्यैर् अपरिहार्यैर् जननिकरान् मनुष्यसमूहान् निपातयद्भिः प्रबलतरैर् अतिप्रबलैः कल्लोलैः स्थूलतरङ्गैः ‘महत्सूल्लोलकल्लोलौ’ इत्यमरः । आक्रान्ता मज्जिता लोठ्यमानाः । कैरिव करिनिकरैर् गजश्रेष्ठैरिव । यथा लोके मत्तगजेन आक्रान्तः पुरुषः भूमौ लोठ्यमानो भवति तथा महत्तरङ्गैर् आक्रान्ता पुरुषा भूमौ पतिताः सन्तः लोठ्यमाना बभूवुर् इति भावः ॥ २० ॥

विश्वास-प्रस्तुतिः - २१

मज्जन्तं पृथुलहरीनिगूढमूर्तिं सम्पूर्णप्रमतिमसज्जनो जहास ।
यो लोकत्रयविजयी गुरुः प्रसिद्धः सोऽयं हा पतति लघूर्मिलीलयेति॥ २१ ॥

मूलम् - २१

मज्जन्तं पृथुलहरीनिगूढमूर्तिं सम्पूर्णप्रमतिमसज्जनो जहास ।
यो लोकत्रयविजयी गुरुः प्रसिद्धः सोऽयं हा पतति लघूर्मिलीलयेति॥ २१ ॥

पदार्थदीपिकोद्बोधिका

मज्जन्तमिति ॥ असज्जनो मज्जन्तं स्नानं कुर्वन्तं पृथवो महान्त्यो या लहर्यस् तरङ्गास् ताभिर् निगूढा मूर्तिः शरीरं यस्य स तथा तं ‘ऊर्मिरुत्कलिकोल्लासः कल्लोलो लहरी तथा’ इति हलः । सम्पूर्णप्रमतिं श्रीमध्वं, यो मध्वो लोकत्रयविजयी गुरुः प्रसिद्धः सोऽयं श्रीमध्वो लघूर्मिलीलया पतति हा इति जहास ॥२१॥

मन्दोपाकारिणी

मज्जन्तमिति ॥ असज्जनः दुर्जनः मज्जन्तं स्नातुं निमज्जन्तं पृथुलहरीनिगूढमूर्तिं पृथ्व्यः स्थूलाश्च ता लहर्यस् तरङ्गाश्च ताभिर् निगूढा मूर्तिः शरीरं यस्य स तथोक्तस् तम् । सम्पूर्णप्रमतिं श्रीमध्वाचार्यं जहास उपहसितवान् । कथं, यः गुरुर् मध्वः लोकत्रयविजयी लोकत्रयं विजयते इति लोकत्रयविजयी इति प्रसिद्धः सोऽयं गुरुर् लघूर्मिलीलया लघ्व्यश्च ता ऊर्मयस् तरङ्गाश्च तासां लीलया क्रियया ‘लीला विलासक्रिययोः’ इति विश्वः । पतति हा कष्टम् इति जहास इति सम्बन्धः । ‘हस् हसने’ इत्यतो लिट् परस्मैपदं जहास जहसतुर् जहसुः । ‘पतलृ गतौ’ इत्यतो लट् परस्मैपदं पतति पततः पतन्ति ॥ २१ ॥

विश्वास-प्रस्तुतिः - २२

नीचानामवचवचांस्यजीगणन्नो दभ्राणां क्षुभितकराण्यदभ्रसङ्ख्यः ।
क्रोष्टूनां श्वकलकलप्रदं विरावं पञ्चास्यो न हि गणयेदुदारवीर्यः ॥ २२ ॥

मूलम् - २२

नीचानामवचवचांस्यजीगणन्नो दभ्राणां क्षुभितकराण्यदभ्रसङ्ख्यः ।
क्रोष्टूनां श्वकलकलप्रदं विरावं पञ्चास्यो न हि गणयेदुदारवीर्यः ॥ २२ ॥

पदार्थदीपिकोद्बोधिका

नीचानामिति ॥ अदभ्रसङ्ख्यः श्रीपूर्णप्रज्ञाचार्यः, दभ्राणाम् अल्पनां क्षुभितकराणि क्षोभकराणि नीचानां दुर्जनानां वक्तुम् अनुचितानि अवचानि यानि वचांसि नो अजीगणन् न गणयामास । तथा हि शुनां कलकलः कोलाहलः श्वकलकलस्तं प्रददाति इति तथोक्तस् तम् । क्रोष्टूनां सृगालानां विरावो ध्वनिस् तम् । उदारम् उत्तमं वीर्यं यस्य स तथोक्तः पञ्चास्यः सिंहो न गणयेत् हि ॥ २२ ॥

मन्दोपाकारिणी

नीचानामिति ॥ अदभ्रसङ्ख्यो ऽदभ्रा बहुला सङ्ख्या ज्ञानं यस्य स तथोक्तः पूर्णप्रज्ञाचार्यः । दभ्राणाम् अल्पानां नीचानां नीचजनानां क्षुभितकराणि क्षुभितं मनोविषादं कुर्वन्तीति तथोक्तानि तानि । अवचवचांसि दुर्वचनानि नो अजीगणन् न गणयामास । तथा हि श्वकलकलप्रदं शुनां सारमेयानां कलकलं कोलाहलशब्दं प्रददातीति तथोक्तस् तम् । क्रोष्टूनां ृगालानां विरावं शब्दम् उदारवीर्य उदारं महद् वीर्यं प्रभावः यस्य स तथोक्तः । पञ्चास्यः सिंहः न गणयेद्धि । यथा ृगालशब्दं ृत्वा शुनका भीता भवन्ति न सिंहा तद्वद् अयं मध्वोऽपि अल्पपण्डितक्षोभकदुर्जनवचनेन न चुक्षोभ इति भावः । ‘गण संख्याने इत्यतो णिजन्ताद् लुङ् परस्मैपदम्’ ॥ २२ ॥

विश्वास-प्रस्तुतिः - २३

जन्मस्थित्यवसितिदायिनं कटाक्षं लोकानामघटयदम्बुधौ बृहद्धीः ।
आक्रान्तोऽधिकगुरुणा स तेन तावन्मुञ्चन् सञ्चलनमभूत्तटाकदेश्यः ॥ २३ ॥

मूलम् - २३

जन्मस्थित्यवसितिदायिनं कटाक्षं लोकानामघटयदम्बुधौ बृहद्धीः ।
आक्रान्तोऽधिकगुरुणा स तेन तावन्मुञ्चन् सञ्चलनमभूत्तटाकदेश्यः ॥ २३ ॥

पदार्थदीपिकोद्बोधिका

जन्मेति ॥ बृहद्धीः श्रीपूर्णप्रज्ञाचार्यः लोकानां जन्म- स्थित्यवसितिदायिनम् उत्पत्तिस्थितिलयप्रदानशीलं कटाक्षम् अम्बुधौ अघटयत् कटाक्षेणाम्बुधिं ददर्शेति भावः । तावत् तदा अधिकगुरूणां महानुभावेन तेन कटाक्षेण आक्रान्तः सोऽम्बुधिः सञ्चलनं मुञ्चन् सन् तटाकेन सदृशस् तटाकदेश्योऽभूत् ॥ २३ ॥

मन्दोपाकारिणी

जन्मेति ॥ बृहद्भीर् बृहती पूर्णा धीः प्रज्ञा यस्य स तथोक्तः श्रीपूर्णप्रज्ञाचार्यः । लोकानां सर्वजनानां जन्मस्थित्यवसितिदायिनं जन्म उत्पत्तिश्च स्थितिः पालनं च अवसितिर् नाशश्च इति तथोक्तस् ता दातुं शीलम् अस्यास्तीति तथोक्तस् तं कटाक्षम् अपाङ्गदृष्टिं ‘अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने’ इत्यमरः । अम्बुधौ समुद्रे अघटयत् संयोजितवान् । अपाङ्गेन समुद्रं ददर्श इति भावः । तावत् तदा अधिकगुरुणा महासमर्थेन तेन कटाक्षेण आक्रान्तः वशीकृतः सः समुद्रः सञ्चलनं कंपं मुञ्चन् त्यजन् सन् तटाकदेश्यस् तटाकस्य जलाशयस्य क्षुद्रसरोवरस्य देश्यः सदृशो ऽभूत् ॥ २३ ॥

विश्वास-प्रस्तुतिः - २४

इत्याद्यैरपि चरितैरनन्यसाध्यैर् न स्थेष्ठां बहुमतिमाप दुर्जनोऽस्मिन् ।
विद्वेषं व्यधित पुनर्निरस्तभाग्ये तस्मिन् दुर्मनसि तदेव शोभनं स्यात् ॥ २४ ॥

मूलम् - २४

इत्याद्यैरपि चरितैरनन्यसाध्यैर् न स्थेष्ठां बहुमतिमाप दुर्जनोऽस्मिन् ।
विद्वेषं व्यधित पुनर्निरस्तभाग्ये तस्मिन् दुर्मनसि तदेव शोभनं स्यात् ॥ २४ ॥

पदार्थदीपिकोद्बोधिका

इतीति ॥ दुर्जन इति आद्यानि येषां तानि तैः । अनन्यसाध्यैश् चरितैः कर्मभिर् उपलक्षितेऽपि अस्मिन् श्रीमध्वे स्थेष्ठाम् अतिस्थिरां बहुमतिं बहुमानं न आप । इत्याद्यनन्यसाध्यचरितेऽपि अस्मिन् श्रीमध्वे दुर्जनो न अतिबहुमानं चकारेति भावः । न केवलम् एतावत् पुनः विद्वेषं व्यधित चकार । निरस्तं भाग्यं यस्य स तथा तस्मिन् । दुष्टं मनो यस्य दुर्मनास् तस्मिन् दुष्टचित्त इत्यर्थः । तस्मिन् दुर्जने तदेव शोभनं स्यात् तमोयोग्यानां श्रीमध्वे विद्वेष एव युक्त इत्यर्थः ॥ २४ ॥

मन्दोपाकारिणी

इत्याद्यैरिति ॥ इत्याद्यैर् इति पूर्वोक्तचरितम् आद्यं येषां तानि तैर् अनन्यसाध्यैर् अन्यैर् मध्वाचार्यातिरिक्तैः साध्यानि कर्तुं शक्यानि न भवन्तीति अनन्यसाध्यानि तैः । चरितैः कर्मभिर् उपलक्षितेऽपि अस्मिन् श्रीमध्वे दुर्जनः स्थेष्ठां स्थिरां बहुमतिं बहुमानं नाप नाकरोत् । पूर्वोक्तप्रकारेण अनन्यसाध्यचरितानि दृष्ट्वापि दुष्टानां मध्ये महत्वबुद्धिर् नाभूद् इति भावः । पुनः प्रत्युत विद्वेषं व्यधित अकरोत् । तद्युक्तम् इत्याह निरस्तभाग्ये दैवहीने दुर्मनसि दुष्टचित्ते तस्मिन् पूर्वोक्तदुर्जने तदेव मध्वद्वेषकारणमेव शोभनं युक्तं स्यात् । वैष्णवद्वेषस्य तमोयोग्यस्वभावत्वाद् इति भावः ॥ २४ ॥

विश्वास-प्रस्तुतिः - २५

सम्प्राप्तं सह सहजेन गण्डवाटं स्वोजस्सम्प्रकटन आदिशद्विशङ्कम् ।
शुश्रूषामयमुचितो विधातुमीषल्लोकानामिति वचसा परीक्षकाणाम् ॥ २५ ॥

मूलम् - २५

सम्प्राप्तं सह सहजेन गण्डवाटं स्वोजस्सम्प्रकटन आदिशद्विशङ्कम् ।
शुश्रूषामयमुचितो विधातुमीषल्लोकानामिति वचसा परीक्षकाणाम् ॥ २५ ॥

भावप्रकाशिका

गण्डवाटस्य ‘कोडिञ्जाडी’त्यपभ्रष्टभाषा ॥ २५ ॥

पदार्थदीपिकोद्बोधिका

सम्प्राप्तमिति ॥ कर्तृपदमध्याहार्यम् । स श्रीमध्वः सहजेन भ्रात्रा सह सम्प्राप्तं गण्डवाटं तन्नामकं द्विजं ‘गण्डवाटं’ इत्यस्य कोडिपाडि इत्यपभ्रष्टनाम । तौलवभाषया गण्डस्य कोडीति वाटस्य पाडीति प्रसिद्धेः । अयं गण्डवाट ईषत् शुश्रूषां सेवां विधातुं कर्तुम् उचित इति परीक्षकाणां श्रीमध्वसामर्थ्यपरीक्षकाणां लोकानां जनानां वचसा स्वस्य गण्डवाटस्य ओजः सामर्थ्यं तस्य सम्प्रकटनं सम्यग्प्रकाशनं तस्मिन् विगता शङ्का यथा भवति तथा विशङ्कम् आदिशत् । मयि त्वद्बलं प्रकाशयेत्यवददिति भावः ॥ २५ ॥

मन्दोपाकारिणी

सम्प्राप्तमिति ॥ कतृपदमध्याहार्यम् । सः मध्वः सहजेन भ्रात्रा सह सम्प्राप्तं गण्डवाटं तन्नामकं कञ्चन पुरुषं विशंकं निस्संशयं यथा भवति तथा । स्वोजः सम्प्रकटने स्वस्य ओजसः बलस्य ‘ओजो बले च दीप्तौ च’ इति विश्वः । सम्प्रकटने प्रदर्शनार्थम् आदिशद् आज्ञापयामास केन हेतुना, ‘‘अयं गण्डवाट ईषत् किञ्चित् शुश्रूषां त्वत्सेवां विधातुं कर्तुम् उचितः योग्यः’’ इति इत्थं परीक्षकाणां श्रीमध्वाचार्यसामर्थ्य-परीक्षकाणां लोकानां जनानां वचसा वाक्येन ‘‘स्वभ्रात्रा सहितोऽयं गण्डवाटाख्यब्राह्मणस् त्वत्सेवां कर्तुं योग्य’’ इति श्रीमध्वाचार्यबलपरीक्षकजनगूढाभिसन्धिवचनेन स्वसमीपम् आगतं गण्डवाटं निर्भयेन यावत् स्वशक्तिप्रदर्शनाय आज्ञापयामास इति भावः ॥ २५ ॥

विश्वास-प्रस्तुतिः - २६

श्रीकान्तेश्वरसदनेऽनयत्किलैको यस्त्रिंशन्नरवरनीतकेतुयष्टिम् ।
आहत्यागुरुगदयैव नारिकेलाद्यो लेभे तरलतरात्फलानि कामम् ॥ २६ ॥

मूलम् - २६

श्रीकान्तेश्वरसदनेऽनयत्किलैको यस्त्रिंशन्नरवरनीतकेतुयष्टिम् ।
आहत्यागुरुगदयैव नारिकेलाद्यो लेभे तरलतरात्फलानि कामम् ॥ २६ ॥

पदार्थदीपिकोद्बोधिका

श्रीकान्तेश्वरेति ॥ यो गण्डवाटः, श्रीमच्च तत् कान्तेश्वर-सदनं च तस्मिन् । कान्तेश्वरो नाम कश्चन देवः । त्रिंशच्च ते नरवरा नरश्रेष्ठाश् च तैर् नीता या केतुरूपयष्टिर् ध्वजस्तम्भस् ताम् एकोऽनयत् किल । यो गण्डवाटो, अगुरुश्च सा गदा च तयैव आहत्या ताडनेन तरलतराद् अतिचञ्चलान् नालिकेरान् नालिकेरवृक्षात् फलानि कामं यथेच्छं लेभे ॥ २६ ॥

मन्दोपाकारिणी

श्रीकान्तेति ॥ यः गण्डवाटः श्रीकान्तेश्वरसदने तन्नामकदेवालये त्रिंशन्नरवरनीतकेतुयष्टिं त्रिंशत्सङ्ख्याकाश्च ते नरवरा मनुष्यश्रेष्ठाश्च तैर् नीता च सा केतुचष्टिर् ध्वजस्तम्भश्च तां ‘ग्रहभेदे ध्वजे केतुः’ इत्यमरः । एक एव अनयत् किल आनीतवान् । यः गण्डवाटो ऽगुरुगदया अगुर्वी च सा गदा च तया अस्थूलगदयैव आहत्य ताडयित्वा अल्पगदाप्रहारेणैव इति यावत् । तरलतराद् अत्यन्तं कंपितान् नारिकेलान् नारिकेलवृक्षाद् गलितानि इत्यध्याहारः फलानि कामं यथेष्टं लेभे प्राप । ‘कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितं’ इत्यमरः ॥ २६ ॥

विश्वास-प्रस्तुतिः - २७

एतादृग्बलविभवः स तस्य कण्ठं तज्ज्येष्ठोऽप्यभित उभौ समं गृहीत्वा ।
निष्पेष्टुं परममवापतुः प्रयत्नं सङ्घर्षात्क्रमपरिवर्धमानतैक्ष्ण्यम् ॥ २७ ॥

मूलम् - २७

एतादृग्बलविभवः स तस्य कण्ठं तज्ज्येष्ठोऽप्यभित उभौ समं गृहीत्वा ।
निष्पेष्टुं परममवापतुः प्रयत्नं सङ्घर्षात्क्रमपरिवर्धमानतैक्ष्ण्यम् ॥ २७ ॥

पदार्थदीपिकोद्बोधिका

एतादृगिति ॥ एतादृक् बलविभवो बलैश्वर्यं यस्य स तथा स गण्डवाटः । तस्य ज्येष्ठस् तज्ज्येष्ठः सोऽपि उभौ सङ्घर्षात् तयोः करैर् मथनात् क्रमपरिवर्धमानं तैक्ष्ण्यं काठिन्यं यस्य स तथा तं तस्य मध्वस्य कण्ठम् अभितः समं युगपद् गृहीत्वा निष्पेष्टुं परमं प्रयत्नम् अवापतुर् जग्मतुः ॥ २७ ॥

मन्दोपाकारिणी

एतादृगिति ॥ एतादृग्बलविभव एतादृक् पूर्वोक्तप्रकारः बलस्य शरीरबलस्य विभवो ऽतिशयो यस्य स तथोक्तः महाबलिष्ठ इत्यर्थः । सः गण्डवाटस् तज्ज्येष्ठोऽपि तस्य गण्डवाटस्य अग्रजोऽपि इति उभौ अपि तस्य श्रीमध्वाचार्यस्य कंठं गलम् अभितः समंतात् समं युगपद् गृहीत्वा स्वपाणिभ्यां निगृह्य निष्पेष्टुं मिथो निष्पीडयितुं परमम् अतिशयितं प्रयत्नम् उद्योगम् अवापतुः प्रापतुः । कथंभूतं कण्ठं सङ्घर्षात् तयोः करैर् मथनात् क्रमपरिवर्धमानतैक्ष्ण्यं क्रमेण परिवर्धमानं तैक्ष्ण्यं तीक्ष्णत्वं यस्य स तथोक्तस् तं तत्करघर्षणेन वर्धमानकण्ठोऽभूद् इति भावः ॥ २७ ॥

विश्वास-प्रस्तुतिः - २८

आस्विन्नावलसतरौ गुरोर्नियोगाच्छत्राग्रयानिलमहितौ च तावुभाभ्याम् ।
मुक्त्वाऽयःकठिनतरत्वचं शिरोधिं पर्यायात् स्फुटवचनां निपेततुः कौ ॥ २८ ॥

मूलम् - २८

आस्विन्नावलसतरौ गुरोर्नियोगाच्छत्राग्रयानिलमहितौ च तावुभाभ्याम् ।
मुक्त्वाऽयःकठिनतरत्वचं शिरोधिं पर्यायात् स्फुटवचनां निपेततुः कौ ॥ २८ ॥

पदार्थदीपिकोद्बोधिका

आस्विन्नाविति ॥ आ सम्यक् स्विन्नौ कण्ठमर्दनायासेन स्वेदं प्राप्तौ, गुरोः श्रीमध्वाचार्यस्य नियोगाद् आज्ञाया उभाभ्यां छत्राग्रययोश् छत्रश्रेष्ठयोर् अनिलेन वायुना महितौ आश्वासितौ अलसतरौ अतिश्रान्तौ तावुभौ अयोवद् अतिकठिना त्वक् यस्यास् तां पर्यायात् क्रमेण स्फुटानि स्पष्टानि वचनानि यस्यास् तां शिरोधिं कण्ठं मुक्तवा त्यक्तवा कौ भूमौ निपेततुः ॥ २८ ॥

मन्दोपाकारिणी

आस्विन्नाविति ॥ आस्विन्नौ अत्यन्तं स्वेदं प्राप्तौ अलसतरौ अत्यन्तम् अलसौ मन्दव्यापारौ इत्यर्थः । गुरोर् मध्वाचार्यस्य नियोगाद् आज्ञाया उभाभ्यां शिष्याभ्यां छत्राग्रयानिलमहितौ छत्राग्रययोर् व्यजनश्रेष्ठयोर् अनिलेन वायुना महितौ सेवितावपि तौ गण्डवाटतदग्रजौ अयःकठिनतरत्वचम् अयोवद् लोहवत् कठिणतरा अतिकठिना त्वक् चर्म यस्याः सा तां, पर्यायाद् अनुक्रमात् स्फुटवचनां स्फुटानि स्पष्टानि वचनानि यस्याः सा तां शिरोधिं कन्धरां मुक्त्वा त्यक्त्वा कौ भूमौ ‘गोत्राः कुः पृथिवी पृथ्वी’ इत्यमरः निपेततुः पतितौ इत्यर्थः । ‘पपात पेततुः पेतुः’ ॥ २८ ॥

विश्वास-प्रस्तुतिः - २९

आश्वस्तौ शुचिहृदिमावनूनमानावुद्धर्तुं समगददङ्गुलीं धरास्थाम् ।
सङ्गृह्य प्रसभरसादतिप्रयत्नौ सामर्थ्यं ययतुरिमौ न कम्पनेऽस्याः ॥ २९ ॥

मूलम् - २९

आश्वस्तौ शुचिहृदिमावनूनमानावुद्धर्तुं समगददङ्गुलीं धरास्थाम् ।
सङ्गृह्य प्रसभरसादतिप्रयत्नौ सामर्थ्यं ययतुरिमौ न कम्पनेऽस्याः ॥ २९ ॥

पदार्थदीपिकोद्बोधिका

आश्वस्ताविति ॥ शुचिहृत् पूर्णप्रज्ञ आश्वस्तौ गतश्रमौ अनूनः सम्पूर्णो मानो अभिमानो ययोस् तौ पुनरपि समर्थाविति पूर्णाहङ्कारावित्यर्थ इमौ गण्डवाटौ धरास्थां भूमिष्ठाम् अङ्गुलीम् उद्धर्तुं समगदज् जगाद । प्रसभरसाद् अतिबलात्कारेण गृहीत्वा प्रयतावपि अङ्गुलिम् उद्धर्तुं प्रयत्नवन्तौ अपि इमौ अस्या अङ्गुल्याः कम्पने चालने सामर्थ्यं न ययतुः ॥ २९ ॥

मन्दोपाकारिणी

आश्वस्ताविति ॥ शुचिहृत् शुचि शुद्धं हृत् हृदयं मनः यस्य स तथोक्तः श्रीपूर्णप्रज्ञाचार्यः । आश्वस्तौ गतश्रमौ अनूनमानौ ऊनः न्यूनो न भवतीति अनूनः पूर्ण इत्यर्थः मानो ऽहंकारो ययोस् तौ । इमौ गण्डवाटतदग्रजौ प्रति धरास्थां धरायां भूमौ तिष्ठतीति धरास्था ताम् अङ्गुलीम् उद्धर्तुं समगदद् उक्तवान् । ‘गद व्यक्तायां वाचि’ इति धातोर् लङ् परस्मैपदम् अगदद् अगदताम् अगदन् । इमौ भ्रातरौ प्रसभरसाद् अतिबलात्काराद् अङ्गुलीं संगृह्य गृहीत्वा अतिप्रयत्नौ अपि अङ्गल्युद्धरणे अतियत्नवन्तौ अपि अस्या अङ्गुल्याः कम्पने चालने सामर्थ्यं शक्तिं न ययतुर् न प्रापतुः । पूर्णाहंकारौ तावुभावपि भूमौ स्थापिताङ्गुलिम् उद्धर्तुं मध्वेन उक्तौ सन्तौ अतिबलात्कारेणापि अङ्गुलिचालने समर्थौ न बभूवतुः किम् उद्धर्तुम् इति भावः । ‘या प्रापणे’ इत्यतो लिट् परस्मैपदं ययौ ययतुर् ययुः ॥ २९ ॥

विश्वास-प्रस्तुतिः - ३०

निर्यत्नं वटुमधिरुह्य मन्दहासी स प्रायादिह परितो नृसिंहगेहम् ।
एश्वर्यैरिति लघिमादिकैरुपेतो मध्वोऽभूत् त्रिभुवनचित्ररत्नराजः ॥ ३० ॥

मूलम् - ३०

निर्यत्नं वटुमधिरुह्य मन्दहासी स प्रायादिह परितो नृसिंहगेहम् ।
एश्वर्यैरिति लघिमादिकैरुपेतो मध्वोऽभूत् त्रिभुवनचित्ररत्नराजः ॥ ३० ॥

पदार्थदीपिकोद्बोधिका

निर्यत्नमिति ॥ स श्रीमध्व इह तौलवमण्डले निर्गतो यत्नः प्रयत्नो यस्मात् सः निर्यत्नस् तं स्वत एव प्रयत्नशून्यमित्यर्थः वटुं ब्रह्मचारिणम् अधिरुह्य मन्दहासोऽस्यास्तीति मन्दहासी सन् नृसिंहगेहं नृसिंहदेवालयं परितः प्रायात् । इति उक्तप्रकारेण लघिमा आदिर्येषां तानि तैः । अणिमा, महिमा, गरिमा, लघिमा ईशित्वं वशित्वं प्राकाम्यं परकायप्रवेशः, इति अष्टभिर् ऐश्वर्यैर् उपेतो श्रीमध्वस् त्रयाणां भुवनानां समाहारस् त्रिभुवनं तस्मिन् चित्ररत्नानि आश्चर्यश्रेष्ठानि तेषां राजा श्रेष्ठस् त्रिभुवन-चित्ररत्नराजोऽभूत् ॥ ३० ॥

मन्दोपाकारिणी

निर्यत्नमिति ॥ सः मध्वाचार्यः । इह जनतायां वटुं कंचन ब्रह्मचारिणं निर्यत्नम् आयासरहितं यथा भवति तथा ब्रह्मचारिणः यथा श्रमो न स्यात् तथेति भावः । अधिरुह्य आरुह्य मन्दहासी ईषत् हासोऽस्यास्तीति तथोक्तः सन् नृसिंहगेहं नृसिंहस्य भगवतः गेहम् आलयं परितः समंतात् प्रायात् प्रदक्षिणं कृतवान् इत्यर्थः । अनेन लघिमा सूचितः । इति पूर्वोक्तप्रकारेण लघिमादिकैर् लघिमा लघुत्वम् आदिर्यषां तानि तैर् ऐश्वर्यैः ‘अणिमा महिमा गरिमा लघिमा वशित्वम् ईशित्वं प्राकाम्यं परकायप्रवेशः’ इति अष्टभिर् ऐश्वर्यैर् उपेतः युक्तः मध्वः । त्रिभुवनचित्ररत्नराजस् त्रयाणां भुवनानां समाहारस् त्रिभुवनं तस्मिन् त्रिलोक्यां चित्राणि च तानि रत्नानि आश्चर्यकरवस्तूनि च तेषु राजा श्रेष्ठो ऽभूत् । एवम् अतिमानुषो मध्वस् त्रिभुवनगताश्चर्यवस्तुषु परमाश्चर्योत्तमो ऽभूद् इति भावः ॥ ३० ॥

विश्वास-प्रस्तुतिः - ३१

पञ्चाशन्नरपनरोपनीतमात्रां यो वार्क्षीं गृहमधिरोहिणीं निनाय ।
स व्याख्यास्वरदमनाय पूर्ववाटो निर्देशाद्य्वधित गुरोर्गलप्रपेषम् ॥ ३१ ॥

मूलम् - ३१

पञ्चाशन्नरपनरोपनीतमात्रां यो वार्क्षीं गृहमधिरोहिणीं निनाय ।
स व्याख्यास्वरदमनाय पूर्ववाटो निर्देशाद्य्वधित गुरोर्गलप्रपेषम् ॥ ३१ ॥

भावप्रकाशिका

पूर्ववाटस्य ‘मूडेम्बाडी’त्यपभ्रष्टभाषा ॥ ३१ ॥

पदार्थदीपिकोद्बोधिका

पञ्चाशदिति ॥ यः पूर्ववाटः पञ्चाशच् च ते नरपनरा राजपुरुषास् तैर् उपनीतमात्रां कथञ्चिद् उपनीतां वृक्षस्य विकारो वार्क्षी तां वृक्षमयीम् इत्यर्थो ऽधिरोहिणीं निःश्रेणीं गृहं स्वगृहं निनाय स पूर्ववाटः ‘मूडम्पाडित्ताय’ इत्यपभ्रष्टसंज्ञा तौलवभाषायां, गुरोः श्रीमध्वस्य निर्देशात् ‘त्वं शक्तश्चेन् मम कण्ठनिरोधं कुरु’ इति निर्देशात्, व्याख्याया यो स्वरः ध्वनिस् तस्य दमनाय निग्रहाय व्याख्यासमये स्वरनिग्रहं कर्तुमित्यर्थः । गलप्रपेषं कण्ठनिष्पेषं व्यधित चकार ॥ ३१ ॥

मन्दोपाकारिणी

पञ्चाशदिति ॥ यः पूर्ववाटस् तन्नामकद्विजः पञ्चाशन्नरपनरोपनीत-मात्रां नरपनरा राजभृत्याः पञ्चाशत्संख्याकाश्च ते नरपनराश्च तैर् उपनीतमात्रां कथंचिद् आनीतां वार्क्षीं वृक्षकृताम् अधिरोहिणीं निःश्रेणीं ‘निश्रेणिस्त्वधिरोहिणी’ इत्यमरः । गृहं मन्दिरं प्रति निनाय एक एव ऊढवान् प्रापयामास सः पूर्ववाटः गुरोः श्रीमध्वाचार्यस्य निर्देशाद् आज्ञायाः, व्याख्यास्वरदमनाय व्याख्यायाः प्रवचनस्य स्वरस्य ध्वनेर् दमनाय निरोधाय व्याख्यानसमये स्वरनिग्रहं कर्तुम् इत्यर्थः । गलप्रपेषं कण्ठनिष्पेषं व्यधित कृतवान् ॥३१॥

विश्वास-प्रस्तुतिः - ३२

स्विन्नेऽस्मिन्नपि यतमान आग्रहोग्रे प्राच्यात्तत्प्रवचननिस्वनोऽतिरेजे ।
उद्धर्तुं विपुलहृदङ्गुलिं च नालं सोऽभूदित्यजनि कुतूहलं जनानाम् ॥ ३२ ॥

मूलम् - ३२

स्विन्नेऽस्मिन्नपि यतमान आग्रहोग्रे प्राच्यात्तत्प्रवचननिस्वनोऽतिरेजे ।
उद्धर्तुं विपुलहृदङ्गुलिं च नालं सोऽभूदित्यजनि कुतूहलं जनानाम् ॥ ३२ ॥

पदार्थदीपिकोद्बोधिका

स्विन्न इति ॥ आग्रहेण उग्रस् तीव्र आग्रहोग्रस् तस्मिन् । व्याख्यास्वरदमनायातीवाग्रहयुक्त इत्यर्थः । अत एव स्विन्ने अस्मिन् पूर्ववाटे यतमाने पुनो ऽपि प्रयत्नं कुर्वति सति तस्य श्रीमध्वस्य प्रवचनस्य व्याख्यानस्य निस्वनो निनादः प्राच्यात् पूर्वं विद्यमानादपि अतिरेजे अतितरां रेजे । स पूर्ववाटः विपुलहृदङ्गलिं श्रीपूर्णप्रज्ञा-चार्याङ्गुलिम् उद्धर्तुम् अलं समर्थो न अभूद् इति जनानां कुतूहलम् अजनि ॥ ३२ ॥

मन्दोपाकारिणी

स्विन्न इति ॥ आग्रहोग्रे आग्रहेण व्याख्यानस्वरनिरोधाग्रहेण उग्रे क्रूरे स्विन्ने स्वेदयुक्ते अस्मिन् पूर्ववाटे यतमाने सति पुनरपि व्याख्यानस्वरदमनाय प्रयत्नं कुर्वति सति तत्प्रवचननिस्वनस् तस्य श्रीमध्वाचार्यस्य प्रवचनस्य व्याख्यनस्य निस्वनः निनादः प्राच्याद् अपि पूर्वकालीनस्वरादपि अतिरेजे अधिकं शुशुभे । पूर्वापेक्षया अत्युच्च एव ध्वनिर् अभूद् इति भावः । सः पूर्ववाटः विपुलहृदङ्गुलिं च विपुलहृदः श्रीमध्वाचार्यस्य अङ्गुलिमपि उद्धर्तुम् अलं समर्थः नाभूद् इति एवं जनानां कुतूहलम् आश्चर्यम् अजनि अजायत । ‘जनी प्रादुर्भावे’ इत्यतः कर्तरि लुङ् अजनि-अजनिष्ट अजनिषाताम् अजनिषत । परमसमर्थः पूर्ववाटः श्रीमध्वाचार्याङ्गुलिचालने यदा समर्थो न बभूव तदा जनानाम् अत्याश्चर्यम् अभूद् इति भावः ॥ ३२ ॥

विश्वास-प्रस्तुतिः - ३३

पर्यैक्षि प्रभुरितरैः शिवाग्निपूर्वैर् नोपैक्षि प्रबलतरैस्तथाप्रयत्नैः ।
नावैक्षि क्वचिदपि शक्त्यपूर्तिरस्मिन्नुत्प्रैक्षि स्वयमपि भीम इत्यवश्यम् ॥ ३३ ॥

मूलम् - ३३

पर्यैक्षि प्रभुरितरैः शिवाग्निपूर्वैर् नोपैक्षि प्रबलतरैस्तथाप्रयत्नैः ।
नावैक्षि क्वचिदपि शक्त्यपूर्तिरस्मिन्नुत्प्रैक्षि स्वयमपि भीम इत्यवश्यम् ॥ ३३ ॥

भावप्रकाशिका

पूर्वशब्देन वासुदेवोग्रामोदादयः ॥ ३३ ॥

पदार्थदीपिकोद्बोधिका

पर्यैक्षीति ॥ प्रभुः श्रीमध्व इतरैर् अन्यैः शिवाग्निपूर्वैः शिवाग्निस् तन्नामको द्विजः पूर्वो येषां तैर् बलवद्भिः पुनो ऽपि बलविषये पर्यैक्षि परीक्षितो अभूत् । तथाप्रयत्नैस् तादृशप्रयत्नवद्भिः प्रबलतरैः पुरुषैर् नोपैक्षि नोपेक्षितः । अस्मिन् श्रीमध्वाचार्ये क्वचिदपि कस्मिंश्चिद्विषये शक्तयपूर्तिः शक्तेरपूर्णता नावैक्षि न दृष्टा । स्वयमपि अवश्यं भीम इति उत्प्रैक्षि ‘अयं सर्वथा भीमो भवितुम् अर्हतीति’ जनैर् उत्प्रेक्षितः ॥३३॥

मन्दोपाकारिणी

पर्यैक्षीति ॥ प्रभुः श्रीमध्वाचार्यः । इतरैः पूर्वोक्तेभ्यो ऽन्यैः प्रबलतरैर् अतिबलिष्ठैः शिवाग्निपूर्वैस् तन्नामकब्राह्मणपूर्वकैर् जनैः पर्यैक्षि परीक्षितोऽभूत् । तथा प्रबलतरैः प्रयत्नैरपि नोपैक्षि उपेक्षितो नाभूत् । अस्मिन् श्रीमध्वाचार्ये क्वचिदपि कस्मिंश्चिदपि विषये शक्त्यपूर्तिः सामर्थ्याभावो ऽपूर्णत्वम् इति यावन् नावैक्षि जनैर् न दृष्टा । स्वयमपि स्वयमेव अवश्यं मुख्यतः भीम इति उत्प्रैक्षि जनैर् उत्प्रेक्षितः । जना अयं निश्चयेन भीमसेन एव इति तर्कयामासुर् इति भावः ॥ ३३ ॥

विश्वास-प्रस्तुतिः - ३४

लेखिन्या मुहुरपिनह्य कृष्यमाणं नाप्येकं तनुरुहमस्य तूदपाटि ।
नासाग्रे मृदुनि कृतैश्च मुष्टिघातैर् नास्येन्दोरतिबलिभिः प्रसन्नतासि॥ ३४ ॥

मूलम् - ३४

लेखिन्या मुहुरपिनह्य कृष्यमाणं नाप्येकं तनुरुहमस्य तूदपाटि ।
नासाग्रे मृदुनि कृतैश्च मुष्टिघातैर् नास्येन्दोरतिबलिभिः प्रसन्नतासि॥ ३४ ॥

पदार्थदीपिकोद्बोधिका

लेखिन्यामिति ॥ अत्यन्तं बलम् अतिबलं तदेषाम् अस्ति इति अतिबलिनस् तैः पुरुषैर् लेखिन्यां मुहुर्बहुवारम् अपिनह्य संवेष्ट्य कृष्यमाणमपि अस्य श्रीमध्वस्य एकं, तनौ रोहतीति तद् रोमापीत्यर्थः न उदपाटि नोत्पाटितम् । मृदुनि नासाग्रे कृतैर्मुष्टिघातैर् मुष्टिताडनैर् आस्येन्दोः श्रीमध्वमुखचन्द्रस्य प्रसन्नता नासि न निराकृता । असु क्षेपण इति धातोः कर्मणि लुङ् ॥ ३४ ॥

मन्दोपाकारिणी

लेखिन्येति ॥ अतिबलिभिर् अतिसमर्थैः पुरुषैः । लेखिन्या लोमोत्पाटनसाधनायोमयायुधेन मुहुर् बहुवारम् अपिनह्य सन्नह्य गृहीत्वेति यावत् । कृष्यमाणम् आकृष्यमाणम् उत्पाठ्यमानम् इत्यर्थः । अस्य श्रीमध्वाचार्यस्य एकमपि तनुरुहं रोम न तु उदपाटि नोत्पाटितं हि । ‘उत् पूर्वात्’ पट गतौ इत्यतः कर्मणि लुङ् अपाटि अपाटिषाताम् अपाटिषत । मृदुनि कोमले नासाग्रे नासाया नासिकाया अग्रे प्रान्तभागे कृतैस् ताडितैर् मुष्टिघातैर् मुष्टिप्रहारैश्च आस्येन्दोः श्रीमध्वाचार्यमुखचन्द्रस्य प्रसन्नता प्रसादः नासि न निरस्ता । ‘असु क्षेपणे’ इति धातोः कर्मणि लुङ् आसि आसिषाताम् आसिषत अतिबलिभिर् मुष्टिभिर् नासाग्रे ताडितोऽपि मुखविकासो न गत इत्युक्त्या ताडनप्रयुक्तवेदना नास्तीति उक्तं भवति ॥ ३४ ॥

विश्वास-प्रस्तुतिः - ३५

पञ्चास्यः श्वभिरिव वै विहीनसारैरम्भोधिर्नगसरितां जलैरिवाल्पैः ।
खद्योतैरिव तरणिर्विडम्बयन् नॄन् प्रत्यर्थिस्वसमनरैर्व्यवाहरत्सः ॥ ३५ ॥

मूलम् - ३५

पञ्चास्यः श्वभिरिव वै विहीनसारैरम्भोधिर्नगसरितां जलैरिवाल्पैः ।
खद्योतैरिव तरणिर्विडम्बयन् नॄन् प्रत्यर्थिस्वसमनरैर्व्यवाहरत्सः ॥ ३५ ॥

भावप्रकाशिका

श्वादयः क्रमेण प्रत्यर्थ्यादिदृष्टान्ताः ॥ ३५ ॥

पदार्थदीपिकोद्बोधिका

पञ्चास्य इति ॥ नॄन् नरान् विडम्बयन् स श्रीमध्वः प्रत्यर्थिनो विरोधिनस् ते च स्वाः स्वभक्तास् ते च समा उदासीनास् ते च ते नराश्च तैः पञ्चं विस्तृतमास्यं यस्य स पञ्चास्यः सिंहः, प्रत्यर्थिभिः, विहीनो रहितः सारो बलं येषां ते विहीनसारस् तैः श्वभिर् इव । हि इति व्यवहरायोग्यतोच्यते । अम्भोधिः समुद्रः स्वकीयैर् अल्पैः, नगात् पर्वताद् उत्पन्नाः सरितो नद्यस् तासां जलैरिव । तरणिः सूर्यः समैः खद्योतैर् इव व्यवाहरद् व्यवहृतवान् ॥ ३५ ॥

मन्दोपाकारिणी

पञ्चास्य इति ॥ नॄन् नरान् विडम्बयन् अनुकुर्वन् तत्सदृशव्यापारं कुर्वन् इत्यर्थः । सः श्रीमध्वाचार्यः प्रत्यार्थिस्वसमनरैः प्रत्यर्थिनः शत्रवः स्वे स्वकीयाः समा उदासीनास् ते च ते नराश्च इति तथोक्तास् तैः । व्यवाहरत् । वै प्रसिद्धम् । तत्तदनुसारेण त्रिविधैरपि जनैर् व्यवहारं चकार इत्यर्थः । तत्र कः कैरिव पञ्चास्यः सिंहः विहीनसारैर् निस्सारैर् दुर्बलैर् इत्यर्थः प्रत्यर्थिभूतैः श्वभिः शुनकैर् इव मध्वः प्रत्यर्थिभूतैर् वादिभिः समं व्यवाहरद् इत्यर्थः । तथा अम्भोधिः समुद्रो ऽल्पैः स्वल्पैर् नदसरितां नदाश्च सरितः नद्यश्च तासां जलैर् इव मध्वः स्वभक्तैर् जनैर् व्यवाहरत् । तरणिः सूर्यः खद्योतैर् इव रात्रौ प्रकाशककीटविशेषैरिव मध्व उदासीननरैर् व्यवाहरद् इत्यर्थः ‘खद्योतो ज्योतिरिङ्गणः’ इत्यमरः । ‘वि अव, पूर्वकात् हृञ् हरणे’ इति धातोर् लङ् ॥ ३५ ॥

विश्वास-प्रस्तुतिः - ३६

पारन्तीसुरसदनं विशालसंवित् सम्प्राप्तः खलु सुचिरान्निवेद्यहीनम् ।
ग्राम्याग्रयक्षितिपतिभिर्दिनार्धमात्रात्तद्भूतीर्व्यधित सभूतबल्यनल्पाः ॥ ३६ ॥

मूलम् - ३६

पारन्तीसुरसदनं विशालसंवित् सम्प्राप्तः खलु सुचिरान्निवेद्यहीनम् ।
ग्राम्याग्रयक्षितिपतिभिर्दिनार्धमात्रात्तद्भूतीर्व्यधित सभूतबल्यनल्पाः ॥ ३६ ॥

भावप्रकाशिका

पारन्तीसुरसदनस्य केवुडदेवालय इत्यपभ्रष्टभाषा ॥ ३६ ॥

पदार्थदीपिकोद्बोधिका

पारन्तीति ॥ विशालसंवित् श्रीपूर्णप्रज्ञाचार्यः सुचिराद् बहुकालं निविद्येन नैवेद्यादिना हीनं रहितं पारन्त्याख्यं सुरसदनं देवतालयं सम्प्राप्तः, ग्रामे भवा ग्राम्यास् तेषाम् अग्रयाः श्रेष्ठा ग्रामण्य इत्यर्थस् ते च क्षितिपतिस् तद्देशाधिपतिर् भूपः स च तैर् दिनस्यार्धमात्रं दिनार्धमात्रं तस्माद् उदयमारभ्य अस्तमयपर्यन्तमित्यर्थः भूतबलिना सहितं यथा भवति तथा सभूतबलि तथा अनल्पा अतिबहुलास्तस्य देवस्य भूतयो विभवास् ता व्यधित कारयामास ॥ ३६ ॥

मन्दोपाकारिणी

पारंतीति ॥ विशालसंविद् विशाला पूर्णा संविज् ज्ञप्तिर् यस्य सः पूर्णप्रज्ञाचार्यः । सुचिराद् बहुकालं निवेद्यहीनं निवेद्येन उपहारेण हीनं नैवेद्यादिपूजाहीनम् इत्यर्थः, पारन्तीसुरसदनं तन्नामकदेवालयं सम्प्राप्तस्सन् ग्राम्याग्रयक्षितिपतिभिर् ग्रामे भवा ग्राम्यास् तेषु अग्रयाः श्रेष्ठाश्च पारन्तीदेवालययोगक्षेमविचाराधिकृता ग्रामाधिपतय इत्यर्थः क्षितिपतिस् तद्देशराजा च एतैः सह दिनार्धमात्राद् अर्धदिवसेनैव सभूतबलि भूतबलिना सहितं यथा भवति तथा । अनल्पा बहुलास् तद्भूतीस् तस्य पारन्तीदेवालयस्य भूतीर् विभवान् महोत्सवान् इति यावत् । व्यधित कारयामास खलु निश्चयः । बहुकालं पूजादिमहोत्सवरहितं पारन्तीदेवालयं दृष्ट्वा तत्रत्यग्रामाधिपतीन् तद्देशनृपं च प्रेरयित्वा तैस् तद्देवालयस्थहरेर् देवालये क्रियमाणपूजादिबहुमहोत्सवान् कारयामासेति भावः ॥ ३६ ॥

विश्वास-प्रस्तुतिः - ३७

भीमत्वे सह सहजैः प्रतिष्ठितः प्राक् पञ्चात्मा मुररिपुरञ्चितो यदत्र ।
पाञ्चाल्या बलिसलिलं समं ददत्या सोऽस्मार्षीत्तदिममथ प्रपूज्यपूज्यः ॥ ३७ ॥

मूलम् - ३७

भीमत्वे सह सहजैः प्रतिष्ठितः प्राक् पञ्चात्मा मुररिपुरञ्चितो यदत्र ।
पाञ्चाल्या बलिसलिलं समं ददत्या सोऽस्मार्षीत्तदिममथ प्रपूज्यपूज्यः ॥ ३७ ॥

पदार्थदीपिकोद्बोधिका

भीमत्व इति ॥ प्राक् स्वस्य पूर्वं भीमत्वे सति सह जाताः सहजा भ्रातर इत्यर्थः । तैर् युधिष्ठिरादिभिः सह अत्र पारन्तीदेवालये प्रतिष्ठितः पञ्च आत्मानः स्वरूपाणि यस्य स पञ्चात्मा मुररिपुर् बलेः पूजायाः सलिलं बलिसलिलं श्रीबलिपूजाङ्गभूतमुदकमित्यर्थः ददत्या समानीय प्रदिशन्त्या पाञ्चाल्या द्रौपद्या समं सह यद्यस्मात्पूजितस् तस्मात् प्रपूज्यैः प्रकर्षेण पूज्यैः रुद्रादिभिः पूज्यः श्रीमध्वो ऽथ एतद्देवालयदर्शनानन्तरं तम् इमं तत्र आत्मना प्रतिष्ठितं मुररिपुम् अस्मार्षीत् ॥ ३७ ॥

मन्दोपाकारिणी

भीमत्व इति ॥ प्राक् पूर्वजन्मनि भीमत्वे स्वस्य भीमभावे सति सहजैः सोदर्यैर् धर्मादिभिः सह अत्र पारन्तीदेवालये पञ्चात्मा पञ्चरूपः मुररिपुर् हरिः प्रतिष्ठितः । धर्मादिभिः पञ्चभिर् एकैकेन एकैकम् इति पञ्चप्रतिमाः प्रतिष्ठिता इति भावः । बलिसलिलं बलेर् भूतबलिदानस्य सलिलम् अङ्गभूतम् उदकं ददत्या प्रदिशंत्या पाञ्चाल्या द्रौपद्या समं सार्धम् अञ्चितः पूजितश्च यद् यस्मात् तत् तस्मात् प्रपूज्यपूज्यः प्रपूज्यैः प्रकर्षेण पूज्यैः रुद्रादिभिः पूज्यः सः श्रीमध्वाचार्यो ऽथ पारन्तीदर्शनानन्तरम् इमम् आत्मना प्रतिष्ठितम् अर्चितं च देवम् अस्मार्षीत् स्मृतवान् ‘स्मृ स्मरणे’ इति धातोर् लुङ् परस्मैपदम् अस्मार्षीद् अस्मार्ष्टाम् अस्मार्षुः ॥ ३७ ॥

विश्वास-प्रस्तुतिः - ३८

आयास्यन् किल सरिदन्तराख्यदेशं ग्रीष्मे निर्जलमिह शुश्रुवांस्तटाकम् ।
तत्काले परमभिवर्षयन् घनौघं तत्पूर्त्यै व्यधित कुतूहलं नराणाम् ॥ ३८ ॥

मूलम् - ३८

आयास्यन् किल सरिदन्तराख्यदेशं ग्रीष्मे निर्जलमिह शुश्रुवांस्तटाकम् ।
तत्काले परमभिवर्षयन् घनौघं तत्पूर्त्यै व्यधित कुतूहलं नराणाम् ॥ ३८ ॥

भावप्रकाशिका

सरिदन्तरस्य ‘इडेतुदे’ इत्यपभ्रष्टभाषा ॥ ३८ ॥

पदार्थदीपिकोद्बोधिका

आयास्यन्निति ॥ ग्रीष्मे सरिदन्तरमित्याख्या यस्य स च असौ देशश्च तं ‘इडेतुदे’ इत्यपभ्रष्टसंज्ञा, आयास्यन् आगमिष्यन् इह अस्मिन् ग्रामे तटाकं, निर्गतं जलं यस्मात् स निर्जलस् तं शुश्रुवान् श्रुतवान् । स चासौ कालश्च तत्कालस् तस्मिन् ग्रीष्मकाल इत्यर्थः परं केवलं तत्पूर्त्यै तद्ग्रामतटाकपूर्त्यर्थमेव घनौघं मेघसमूहम् अभिवर्षयन् श्रीमध्वो जनानां कुतूहलं कौतुकं व्यधित चकार किल ॥ ३८ ॥

मन्दोपाकारिणी

आयास्यन्निति ॥ ग्रीष्मे ग्रीष्मर्तौ सरिदन्तराख्यदेशम् आयास्यन् आगमिष्यन् इह अस्मिन् पारन्तीदेवालयग्रामे तटाकं पद्माकरं निर्जलं जलरहितं शुश्रुवान् सन् तत्काले तस्मिन् एव काले ग्रीष्मकाले एव इत्यर्थः परं केवलं तत्पूर्त्यै तद्ग्रामस्थतटाकस्य पूर्त्यर्थमेव घनौधं घनानां मेघानाम् ओघं समूहम् अभिवर्षयन् वृष्टियुक्तं कुर्वन् श्रीमध्वाचार्यः नराणां कुतूहलम् आश्चर्यं व्यधित कृतवान् । किल इत्याश्चर्ये । तद्ग्राममात्रे अकालवृष्ट्या सर्वेषां परमाश्चर्यम् अभूद् इति भावः ॥ ३८ ॥

विश्वास-प्रस्तुतिः - ३९

दुर्मन्त्रैः खलपटलैः प्रचोद्यमानो ग्रामेशो वृषलपतिः प्रहर्तुमेनम् ।
सम्प्राप्तस्तत उत यान्तमीक्षमाणः प्रोद्यन्तं रविमिव विस्मितो ननाम ॥ ३९ ॥

मूलम् - ३९

दुर्मन्त्रैः खलपटलैः प्रचोद्यमानो ग्रामेशो वृषलपतिः प्रहर्तुमेनम् ।
सम्प्राप्तस्तत उत यान्तमीक्षमाणः प्रोद्यन्तं रविमिव विस्मितो ननाम ॥ ३९ ॥

पदार्थदीपिकोद्बोधिका

दुर्मन्त्रैरिति ॥ खलपटलानि दुष्टसमूहास्तैः ‘पटलं पेटलं चक्रं’ इति हलः कर्तृभिः, दुर्मन्त्रैः कुत्सितालोचनैः करणैः, एनं श्रीमध्वाचार्यं प्रहर्तुं हन्तुं प्रचोद्यमानः प्रेर्यमाणो ग्रामेशः सरिदन्तरग्रामाधिपो वृषलपतिः सम्प्राप्तः सन् तत उत तस्माद् ग्रामाद् यान्तं गच्छन्तं तं प्रोद्यन्तं रविमिव ईक्षमाणः पश्यन् विस्मितः सन् ननाम ॥ ३९ ॥

मन्दोपाकारिणी

दुर्मन्त्रैरिति ॥ खलपटलैर् दुर्जनसमूहैः ‘पटलं तु छदिर्व्रज’ इति विश्वः । दुर्मन्त्रैर् दुष्टविचारैः करणैः । एनं श्रीमध्वाचार्यं प्रहर्तुं संहर्तुं प्रचोद्यमानः प्रेर्यमाणः ग्रामेशः सरिदन्तरग्रामाधिपतिर् वृषलपतिर् वृषलानां शूद्राणां पतिः स्वामी ‘शूद्राश्चावरवर्णाश्च वृषलाश्च जघन्यजाः’ इत्यमरः । सम्प्राप्तः सन् तत उत तस्माद् ग्रामादपि यान्तं गच्छन्तं मध्वाचार्यं प्रोद्यन्तम् उदयं प्राप्नुवन्तं रविमिव सूर्यमिव ईक्षमाणः पश्यन् विस्मित आश्चर्ययुक्तः सन् ननाम नमस्कृतवान् । ‘णमु प्रह्वत्वे शब्दे’ च इति धातोर् लिट् परस्मैपदं ननाम नेमतुर् नेमुः ॥ ३९ ॥

विश्वास-प्रस्तुतिः - ४०

क्षेत्राग्रयं त्रिभुवनवैद्यनाथनाथं प्रस्थाय प्रचुरतरान्तरः प्रभावी ।
श्रीकृष्णामृतपरमार्णवाभिधानां चक्रे सद्वचनततिं स्वभक्तभूत्यै ॥ ४० ॥

मूलम् - ४०

क्षेत्राग्रयं त्रिभुवनवैद्यनाथनाथं प्रस्थाय प्रचुरतरान्तरः प्रभावी ।
श्रीकृष्णामृतपरमार्णवाभिधानां चक्रे सद्वचनततिं स्वभक्तभूत्यै ॥ ४० ॥

पदार्थदीपिकोद्बोधिका

क्षेत्राग्रयमिति ॥ प्रभावो ऽस्यास्तीति प्रभावी सामर्थ्यवान् इत्यर्थः । प्रचुरतरम् आन्तरं ज्ञानं यस्य स श्रीमध्वः, त्रयाणां भुवनानां समाहारस् त्रिभुवनं तस्मिन् ये वैद्यास् तेषां नाथो धन्वन्तरिः स नाथः स्वामी यस्य तत्तथोक्तं क्षेत्राग््य्रं ग्रामश्रेष्ठं ‘कोक्कड’ इत्यपभ्रष्टसंज्ञकं प्रस्थाय प्राप्य स्वभक्तभूत्यै स्वभक्तस्य अपभ्रष्टभाषया ‘इडेप्पा-डित्ताय’ इति तद्ग्रामस्थस्य भूत्यै श्रेयसे तस्य ज्ञानोपदेशाय इत्यर्थः ‘श्रीकृष्णामृत’मिति परमार्णवाभिधानं महार्णवाभिधानं यस्य ग्रन्थस्य स तथा तम् । सद्वचनानां निर्दुष्टश्लोकरूपवचनानां वाक्यानां ततिः समूहो यस्मिन् स तथा तम् अप्रामाण्यदोषरहितानां प्रमाणीकृतपुराणादिगतानां वचनसमूहात्मकं ग्रन्थसमूहम् इत्यर्थश् चक्रे ॥ ४० ॥

मन्दोपाकारिणी

क्षेत्राग्रयमिति ॥ प्रभावी प्रभावः सामर्थ्यम् अस्यास्तीति प्रभावी ‘बलं प्रभावश्च’ इत्यमरः । प्रचुरतरान्तरः प्रचुरतरम् अत्यन्तपूर्णम् अन्तरं मनः यस्य सस् तथोक्तः श्रीमध्वाचार्यस् त्रिभुवनवैद्यनाथनाथ त्रिभुवने त्रिलोक्यां वैद्यानां भिषजां नाथः स्वामी भगवान् धन्वन्तरिः स एव नाथः स्वामी यस्य तत् तथोक्तम् । भिषग्वैद्यौ चिकित्सकौ इत्यमरः । क्षेत्राग्रयं क्षेत्रेषु सिद्धस्थानेषु अग्रयं श्रेष्ठं ग्रामं प्रस्थाय गत्वा स्वभक्तभूत्यै तद्ग्रामस्थस्य स्वभक्तस्य कस्यचिद् ब्राह्मणस्य भूत्यै ऐश्वर्याय तस्य ज्ञानोप-देशाय इत्यर्थः ‘विभूतिर्भूतिरैश्वर्यं’ इत्यमरः । श्रीकृष्णामृतपरमार्णवाभिधानां कृष्णामृत-महार्णव इति अभिधानम् आख्या यस्याः सा तथोक्ता ताम् । सद्वचनततिं सतां निर्दोषत्वेन प्रमाणभूतपुराणादिगतानां वचनानां ततिं समूहं पुराणादिगतवचनसङ्ग्रहरूपं कृष्णामृत-महार्णवाख्यं ग्रन्थं चक्रे इत्यर्थः ॥ ४० ॥

विश्वास-प्रस्तुतिः - ४१

स ग्रामं परमपि यात उच्चभूतिं विद्वांसः क्व कुहरकूपदर्दुराभाः ।
इत्यूचे मदमतिमानिनोऽखिलज्ञम्मन्यस्य क्षपयितुमेव तज्जनस्य ॥ ४१ ॥

मूलम् - ४१

स ग्रामं परमपि यात उच्चभूतिं विद्वांसः क्व कुहरकूपदर्दुराभाः ।
इत्यूचे मदमतिमानिनोऽखिलज्ञम्मन्यस्य क्षपयितुमेव तज्जनस्य ॥ ४१ ॥

भावप्रकाशिका

उच्चस्य ‘उजेर्य’ इत्यपभ्रष्टभाषा ॥ ४१ ॥

पदार्थदीपिकोद्बोधिका

स इति ॥ उच्चा उत्कृष्टा भूतिर् ऐश्वर्यं यस्मिन् स उच्चभूतिस् तं तौलवभाषया ‘उजेर्य’ इति नामकं, परम् अन्यं ग्रामम् अभियातो गतः स मध्वो ऽत्यन्तं मानः पाण्डित्याभिमानोऽतिमानः सोऽस्यास्तीति तथोक्तस् तस्य अत एव आत्मानम् अखिलज्ञं सर्वज्ञं मन्यस्तस्य तस्य ग्रामस्य जनस् तज्जनस् तस्य मदं विद्यामदं क्षपयितुं नाशयितुं कुहरोऽतिगम्भीरो यः कूपस् तस्य दर्दुरा मण्डूकास् तेषाम् आभा इव आभा येषां ते तथोक्ता विद्वांसः क्व कुत्र वर्तन्ते? किमिति मन्निकटं न आयान्ति इति ॥ ४१ ॥

मन्दोपाकारिणी

स इति ॥ सः मध्वाचार्य उच्चभूतिं तन्नामकं परम् अन्यं ग्राममपि यातः गतः सन् । अतिमानिनो ऽत्यन्ताभिमानिनो ऽत एव अखिलज्ञम्मन्यस्य आत्मानं सर्वज्ञं मन्यमानस्य तज्जनस्य तद्ग्रामस्थजनस्य मदं गर्वं क्षपयितुमेव खण्डयितुमेव इत्यूचे । कथं कुहरकूपदर्दुराभाः कुहरो ऽतिगह्वरः कूप उदपानं ‘पुंस्येवांधुः प्रहिः कूप उदपानं’ इत्यमरः । तत्र गतानां दर्दुराणां मण्डूकानाम् आभाः सदृशा अप्रसिद्धकूपगतमण्डूकवज् जल्पन्त इत्यर्थः । विद्वांसः विपश्चितः क्व कुत्र वर्तन्ते किमिति मन्निकटं न आयास्यन्तीति भावः, इत्यूचे इति सम्बन्धः ॥ ४१ ॥

विश्वास-प्रस्तुतिः - ४२

सर्वज्ञोऽप्ययमधिकं न यज्ञभङ्गीं संवित्ते यतिरिति बद्धनिश्चयोऽसौ ।
आभान्तं परिषदि मत्सरादपृच्छत्कर्मार्थश्रुतिगहनार्थखण्डभावम् ॥ ४२ ॥

मूलम् - ४२

सर्वज्ञोऽप्ययमधिकं न यज्ञभङ्गीं संवित्ते यतिरिति बद्धनिश्चयोऽसौ ।
आभान्तं परिषदि मत्सरादपृच्छत्कर्मार्थश्रुतिगहनार्थखण्डभावम् ॥ ४२ ॥

भावप्रकाशिका

छन्दसां वै षष्ठेनाह्नाप्तानां रसोत्यनेदत् । स प्रजापतिरबिभेत् परङ् यं छन्दसां रसो लोकानभ्येष्यतीति तं पुरस्ताच्छन्दोभिः पर्यगृह्णात् । नाराशंस्या गायत्र्या रैभ्या तृष्टुभेत्यादीति ॥ ४२ ॥

पदार्थदीपिकोद्बोधिका

सर्वज्ञ इति ॥ अयं श्रीमध्वः सर्वज्ञोऽपि यतिः सन्यासी हेतुगर्भविशेषणं यतित्वादित्यर्थो ऽत एव यज्ञ अनधिकारित्वाद् यज्ञभङ्गीं यज्ञप्रकारं न संवित्ते न जानाति इति बद्धो निश्चयो येन स तथोक्तो ऽसौ जनः, परिषदि सभायाम् आभान्तं शोभमानं श्रीमध्वाचार्यं, कर्म अर्थः प्रतिपाद्यं यस्याः सा कर्मार्था सा च सा श्रुतिश्च तस्या यो गहनो दुर्विज्ञेयोऽर्थो यस्य स च असौ खण्डश्च तस्य भावो ऽभिप्रायस् तं कर्मार्थश्रुतिगहनार्थखण्डभावम् । श्रुतिश्च ‘छन्दसां वै षष्ठेनाह्नाप्तानां रसोत्यनेदत् स प्रजापतिरबिभेत् परङ्यं छन्दसां रसो लोकानभ्येष्यतीति तं पुरस्ताच्छन्दोभिः पर्यगृह्णात् । नाराशंस्या गायत्र्या रयिभ्या तृष्टुभे’त्यादीति मत्सराद् अपृच्छत् ‘दुह्याच्’ इत्यादिना द्विकर्मकत्वम् ॥ ४२ ॥

मन्दोपाकारिणी

सर्वज्ञ इति ॥ अयं श्रीमध्वाचार्यः सर्वज्ञोऽपि यतिरिति हेतुगर्भविशेषणं सन्यासित्वाद् इत्यर्थः । अधिकं यथा भवति तथा यज्ञभङ्गीं यज्ञानुष्ठानप्रकारं न संवित्ते सम्यक् न जानाति । ‘विद ज्ञाने’ इत्यतः लट् आत्मनेपदं संवित्ते संविदाते संविदते । इति एवं प्रकारेण बद्धनिश्चयो ऽसौ पूर्वोक्तग्रामीणजनः, परिषदि सभायाम् आभान्तं शोभमानं श्रीमध्वाचार्यं कर्मार्थश्रुतिगहनार्थखण्डभावं कर्म अर्थः प्रतिपाद्यः यस्यां सा च सा श्रुतिश्च ब्राह्मणम् इत्यर्थस् तस्यां गहनः दुर्ज्ञेयो ऽर्थः विविक्षितार्थो यस्य सः स चासौ खण्डश्च तस्य भावम् अभिप्रायं ‘छन्दसां वै षष्ठेनाह्ना’ इत्यादिब्राह्मणखण्डार्थम् इत्यर्थः । मत्सराद् द्वेषाद् अपृच्छत् । ‘प्रच्छ ज्ञीप्सायां’ इत्यतो लङ् परस्मैपदम् अपृच्छद् अपृच्छताम् अपृच्छन् । द्विकर्मकोऽयं धातुः । मध्वाचार्यस्य सर्वविषयकज्ञानसत्वेऽपि अस्य सन्यासित्वेन यज्ञकर्मण्यधिकाराभावाद् यज्ञाद्यनुष्ठानप्रकारं ज्ञानं नास्त्येव इति निश्चित्य अत्र एतस्य पराभवं करिष्याम इति मात्सर्येण यज्ञकर्मानुष्ठानप्रकारप्रतिपादकदुर्ज्ञेयार्थब्राह्मणखण्डस्य अर्थम् अपृच्छन् इति ॥ ४२ ॥

विश्वास-प्रस्तुतिः - ४३

छन्दोभ्यश्च्युतरससंग्रहप्रवीणान् षष्ठेऽह्नि प्रतिविहितान् प्रजाधिपेन ।
नाराशंस्यचरमचारुमन्त्रभेदानूचेऽसौ तमभिदधद्विसंशयांशः ॥ ४३ ॥

मूलम् - ४३

छन्दोभ्यश्च्युतरससंग्रहप्रवीणान् षष्ठेऽह्नि प्रतिविहितान् प्रजाधिपेन ।
नाराशंस्यचरमचारुमन्त्रभेदानूचेऽसौ तमभिदधद्विसंशयांशः ॥ ४३ ॥

भावप्रकाशिका

तत्र नीवीव नर्देत्स हि तासान्यूङ्ख इत्यस्य यथा नीवी वस्त्रं सुधौतं विकासितं नर्देत् तथा नर्देत् । स एव हि तासां न्यूङ्ख इति ॥ ४३ ॥

पदार्थदीपिकोद्बोधिका

छन्दोभ्य इति ॥ विगतः संशयांशः संशयलेशो यस्य स तथोक्तो ऽसौ श्रीमध्वस्तं तत्पृष्टस्य खण्डस्यार्थम् अभिदधद् वदन् सन् ‘तत्र नीवीव निर्देत्स हि तासान्यूङ्ख’ इत्यस्य च वाक्यस्य यथा नीवी वस्त्रं सुधौतं विकासितं नर्देन् नादं करोति तथा नर्देत् स एव हि तासां न्यूङ्ख इति अर्थं वदन्नित्यर्थः । छन्दोभ्यश् छन्दसां सकाशाच् च्युतस्य निर्गतस्य रसस्य सङ्ग्रहे प्रवीणान् समर्थान् । प्रजाधिपेन ब्रह्मणा षष्ठे अह्नि प्रतिविहितान् विनियुक्तान् नाराशंस्यचरमचारुमन्त्रभेदान् चरमाश्च ते चारुमन्त्रभेदाश्च तान् नाराशंस्यादिनामकमन्त्रभेदानित्यर्थ ऊचे ॥ ४३ ॥

मन्दोपाकारिणी

छन्दोभ्य इति ॥ विसंशयांशः संशयलेशरहितो ऽसौ श्रीमध्वाचार्यस् तं ‘छन्दसां वै षष्ठेनाह्ना इत्यादिब्राह्मणखण्डार्थम् अभिदधत् कथयन्नेव छन्दोभ्यश् छन्दसां सकाशाच् च्युतरससंग्रहप्रवीणान् च्युतस्य उद्भूतस्य रसस्य सारस्य संग्रहे मेलने प्रवीणान् समर्थान् प्रजाधिपेन ब्रह्मणा षष्ठेऽह्नि षष्ठे दिवसे प्रतिविहितान् विनियुक्तान् नाराशंस्यचरम- चारुमन्त्रभेदान् चरमो न भवतीति अचरमः प्रथम इत्यर्थः नाराशंसीमन्त्र एव अचरमः येषां ते तथोक्ता चारवश्च ते मन्त्राश्च चारुमन्त्रा नाराशंस्यचरमाश्च ते चारुमन्त्राश्च तेषां भेदान् विशेषान् ऊचे अवदत् ‘वच परिभाषणे’ इत्यतो लिट् आत्मनेपदम् ऊचे ऊचाते ऊचिरे ॥ ४३ ॥

विश्वास-प्रस्तुतिः - ४४

पाण्डित्यं परममवेक्ष्य तस्य तादृक् सङ्घर्षक्षुभितमना विपक्षसङ्घः ।
नार्थः स्यादयमिति वर्णयन्नथ त्वं तं ब्रूहीत्युरुमतिनेरितोऽद्रवद्द्राक् ॥ ४४ ॥

मूलम् - ४४

पाण्डित्यं परममवेक्ष्य तस्य तादृक् सङ्घर्षक्षुभितमना विपक्षसङ्घः ।
नार्थः स्यादयमिति वर्णयन्नथ त्वं तं ब्रूहीत्युरुमतिनेरितोऽद्रवद्द्राक् ॥ ४४ ॥

भावप्रकाशिका

भगवदुक्तं श्रुत्वा निर्हेतुकं नेत्युक्तवान् । तेन पृष्टः स्वयमविद्वान-पागमत् ॥ ४४ ॥

पदार्थदीपिकोद्बोधिका

पाण्डित्यमिति ॥ तादृक् परमं पाण्डित्यम् उक्तश्रुत्यर्थकथनरूपम् उत्तमपाण्डित्यम् अवेत्यापि सङ्घर्षाद् विवादवादरूपमथनात् क्षुभितं मनो यस्य स तथोक्तः विपक्षसङ्घः प्रतिवादिसमूहो ऽयं भवदभिहितोऽर्थः न स्याद् इति वर्णयन् निर्हेतुकं वदन् अथ एवं तर्हि त्वं तं तत्खण्डनार्थं ब्रूहीति उर्वी मर्यस्य स तथोक्तस् तेन श्रीपूर्णप्रज्ञार्येण ईरितः सन् द्राक् शीघ्रम् अद्रवत् ॥ ४४ ॥

मन्दोपाकारिणी

पाण्डित्यमिति ॥ तस्य श्रीमध्वाचार्यस्य तादृक् तादृशं दुर्विज्ञेय-विवक्षितार्थखण्डव्याख्यानसामर्थ्यलक्षणं परमम् अत्युत्तमं पाण्डित्यम् अवेक्ष्य सङ्घर्षक्षुभितमनाः सङ्घर्षेण विवादरूपमथनेन क्षुभितं व्यथितं मनः यस्य स तथोक्तः । विपक्षसङ्घः प्रतिवादिसमुदायो ऽयं भवदभिहितो ऽर्थः खण्डार्थः न स्याद् भवति इति वर्णयन् वदन् । अथ अनन्तरं हे विपक्षसङ्घ त्वं तम् एतत्खण्डार्थं ब्रूहि वद इति उरुमतिना मध्वाचार्येण ईरित उदितः सन् द्राक् शीघ्रम् अद्रवद् दुद्राव । ‘द्रु गतौ’ इति धातोर् लङ् परस्मैपदम् अद्रवद् अद्रवताम् अद्रवन् ॥ ४४ ॥

विश्वास-प्रस्तुतिः - ४५

सोऽपृच्छत्तमथ महाह्वयोपसर्गा यत्रोक्ता मनुचरणोपसृज्यरूपाः ।
तस्यार्थं वचनचयस्य तं ब्रुवाणः स्थैर्यार्थं सपदि स लेखयाम्बभूव ॥ ४५ ॥

मूलम् - ४५

सोऽपृच्छत्तमथ महाह्वयोपसर्गा यत्रोक्ता मनुचरणोपसृज्यरूपाः ।
तस्यार्थं वचनचयस्य तं ब्रुवाणः स्थैर्यार्थं सपदि स लेखयाम्बभूव ॥ ४५ ॥

भावप्रकाशिका

‘महानाम्नीनामुपसर्गानुपसृजती’त्यादिखण्डस्य ॥ ४५ ॥

पदार्थदीपिकोद्बोधिका

स इति ॥ स विपक्षसङ्घः शत्रुसमूहः, अथ पुन आगत्य तं श्रीमध्वं तस्य खण्डस्य अर्थम् अपृच्छत् । यत्र यस्मिन् खण्डे महतः सर्वोत्तमस्य विष्णोर् आह्वय इन्द्रादिनाम यासां ता महाह्वया महानाम्नय इत्यर्थस् तासाम् उपसर्गा अवयवा ‘विदा मघवन्विदा गातुमनुकेशिषो दिशः शिक्षा शचीनां पते पूर्विणा पुरूवसोः’ इत्यादीनामुपसर्गा अवयवा इत्यर्थः ‘प्रचेतन, प्रचेतय, आयाहि पिबमत्स्व क्रतुछन्दऋत बृहत् सुम्न आधेहि नो वसो’ इति पञ्चावयवाः । मनुचरणोपसृज्यरूपा मनुचरणैर् ऋङ्मन्त्रपादैः सह ‘आधत्तान्यं जठरे प्रेमरिच्यत प्रचेतन दाताराधस्तुवते काम्यं वसु प्रचेतय अस्माकं बोधिचोदित आयाहि पिबमत्स्व तं त्वा परिष्वजामहे, या ते रातिर्ददिर्वसु’ एतैः पञ्चभिर्मनुचरणैः सह उपसृज्यरूपाः संयोज्यरूपा उक्ताः, संयोजनीया उक्ता इत्यर्थः । तत्संयोजनप्रकारश्च श्रीमदाचार्यैः खण्डार्थाख्यप्रकरणे स्वयमेवोक्तः, तथा हि— ‘आधत्तान्यं जठरे प्रेमरिच्यते, प्रचेतना, दाताराधस्तुवते काम्य वसु प्रचेतय, अस्माकं बोधिचोदितायाहि पिबमत्स्वतन्त्वा-परिष्वजामहे क्रतुच्छन्दऋतं बृहद् यतिरातिर्दतिर्वसु सुन्मे आधेहि नो वसो’ इति यथाक्रमं पञ्चाह्वयोपसर्गाणां पञ्चभिर्मनुचरणैः सह संयोजनप्रकारः प्रदर्शितः । एवं च तैः पृष्टस्य ‘महानाम्नीनामुपसर्गानुपसृजति’ इत्यादेर्वचनचयस्य तमर्थं ब्रुवाणस् तत्स्थैर्यार्थम् अव्युच्छेदेन लोके प्रचयार्थं सपदि लेखयाम्बनूव ॥ ४५ ॥

मन्दोपाकारिणी

स इति ॥ सः विपक्षसङ्घो ऽथ पुन आगत्य तं श्रीमध्वाचार्यं तस्य खण्डस्य अर्थम् अभिधेयम् अपृच्छत् । तस्य कस्य, यत्र यस्मिन् खण्डे महाह्वयोपसर्गा महद् आह्वयं नाम यासु ऋक्षु वर्तते ता महाह्वया माहानाम्नीसंज्ञिका इत्यर्थस् तासां विदा मघवन्विदेत्यादिऋचाम् उपसर्गाः प्रचेतन प्रचेतय आयाहि पिबमत्स्व क्रतुच्छन्दऋतं बृहत् सुम्न आधेहि नोवसो इति पञ्चावयवाः । मनुचरणोपसृज्यरूपा मनूनाम् ऋङ्मन्त्राणाम् अधत्तान्यं जठरे प्रेमरिच्यत दाताराधस्तुवते काम्यं वसु अस्माकं बोधिचोदिता तंत्वा परिष्वजामहे यातेरातिर्ददिर्वसु इति चरणैः पञ्चभिः पादैः सह उपसृज्यरूपाः संयोज्यरूपाः । अनेन यस्मिन् खण्डे महानाम्नीसंज्ञके ऋगेकदेशाः प्रचेतनेत्यादयः पञ्च अधत्तान्यं जठरेत्यादि ऋक्पादैः पञ्चभिः क्रमेण संयोजनीया इत्युक्तं भवति । तत्संयोगप्रकारश्च श्रीमदाचार्यैः कर्मनिर्णये प्रदर्शितः । स चेत्थम् अधत्तान्यं जठरे प्रेमरिच्यत प्रचेतन दाताराधस्तुवते काम्यं वसु प्रचेतय अस्माकं बोधिचोदिता आयाहि पिबमत्स्व तं त्वा परिष्वजामहे क्रतुच्छन्दऋतं बृहद् यातेरातिर्ददिर्वसु सुम्न आधेहि नो वसो इति । एवं पृष्टः सः श्रीमध्वस् तस्य वचनचयस्य वादिपृष्टमहानाम्नीऋक्समुदायस्य तम् एतादृशसंयोजनरूपम् अर्थं ब्रुवाणः वदन् सन् स्थैर्यार्थं स्वोक्तार्थस्य लोके प्रचयादिरूपदार्ढ्यार्थं सपदि सद्य एव लेखायाम्बभूव ग्रन्थरूपेण ओखयत् । महानाम्नीखण्डव्याख्यानरूपं कर्मनिर्णयाख्यं प्रकरणं चक्रे इति भावः ॥४५॥

विश्वास-प्रस्तुतिः - ४६

सम्पूर्णं शशिनमिवोदितं कृशः श्वा चुक्षोभाशुभनिकरो निरीक्ष्य मध्वम् ।
प्रत्यर्थी स्वयमिति दूरतोऽभिधावन् किं तेन क्षतममृताकरस्य तस्य ॥ ४६ ॥

मूलम् - ४६

सम्पूर्णं शशिनमिवोदितं कृशः श्वा चुक्षोभाशुभनिकरो निरीक्ष्य मध्वम् ।
प्रत्यर्थी स्वयमिति दूरतोऽभिधावन् किं तेन क्षतममृताकरस्य तस्य ॥ ४६ ॥

भावप्रकाशिका

अमृतं मोक्षश्च ॥ ४६ ॥

पदार्थदीपिकोद्बोधिका

सम्पूर्णमिति ॥ अशुभनिकरो दुष्टसमूहः मध्वं, सम्पूर्णम् उदितं शशिनम् इव निरीक्ष्य स्वयं प्रत्यर्थी इति श्रीमध्वप्रतिभट इति दुष्टो रवो यस्य स दूरवः दुष्टध्वनिः सन्नित्यर्थः ‘रोरी’ति लोपे ‘ढ्रलोप’ इत्यादिना दीर्घो ऽभिधावन् सन् अभिमुखतया गच्छन् सन् कृशश्चासौ श्वा च कृशश्वा दुर्बलशुनक इव चुक्षोभ । क्षुभ सञ्चलन इति धातुः । पराभूतः सन् नष्टधैर्योऽभूदिति भावः । अमृताकरस्य मोक्षाकरस्य सकल-सज्जनमोक्षप्रदस्येत्यर्थस् तस्य श्रीमध्वाचार्यस्य तेन अशुभजनक्षोभेण दुष्टकलकलध्वनिनेत्यर्थो ऽभिगमनेन चामृताकरस्य अमृतमयकिरणानामाकरस्य शशिनः शुनां वाशितेनेव किं क्षतम्? किं क्लिष्टम्? ॥ ४६ ॥

मन्दोपाकारिणी

सम्पूर्णमिति ॥ अशुभनिकरः दुर्जनसमुदायः मध्वं निरीक्ष्य दृष्ट्वा चुक्षोभ क्षोभं प्राप्तवान् पराभूतम्सन् धैर्यरहितो ऽभूद् इत्यर्थः । ‘क्षुभ संचलने’ इति धातोर् लिट् परस्मैपदं चुक्षोभ चुक्षुभतुश् चुक्षुभुः । कः कथमिव कृशः दुर्बलः श्वा सारमेयः सम्पूर्णं षोडशकलासम्पूर्णम् उदितम् उदयं प्राप्तं शशिनं चन्द्रं दृष्ट्वेव । कीदृशः, स्वयं प्रत्यर्थी श्रीमध्वाचार्यस्य प्रतिपक्षी तत्सम इति यावद् इति ज्ञात्वा कलकलशब्दं कुर्वन् इति शेषः दूरतः दूरदेशाद् अभिधावन् मध्वस्य अभिमुखम् आद्रवन् । शुनकोऽपि विरावं कुर्वन् दूराच् चन्द्राभिमुखम् ऊर्ध्वमुखो भूत्वा आद्रवति । अनेन चन्द्रमध्वयोर् उभयोरपि हानिर्नास्तीति सोपपत्तिकां नीतिम् आह ॥ किम् इति । अमृताकरस्य अमृतस्य मोक्षस्य सुधायाश्च आकरस्य खनिभूतस्य उत्पत्तिस्थानभूतस्य इत्यर्थः । ‘आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते’ इति विश्वः । तस्य श्रीमध्वाचार्यस्य चन्द्रस्य तेन दुर्जनेन श्वानेन च किं क्षतं का हानिर् न कापि हानिः प्रत्युत बलवद्विरोधेन स्वस्यैव हानिर् इति भावः ॥ ४६ ॥

विश्वास-प्रस्तुतिः - ४७

निःस्वानां कतिपयभुक्तियुक्तभक्तं भक्तानां व्यधित चतुर्गुणं दयालुः ।
भुङ्क्ते स्म त्रिदशनरोपभोज्यमन्नं सम्प्रीत्यै स धनवतां बृहत्प्रबोधः ॥ ४७ ॥

मूलम् - ४७

निःस्वानां कतिपयभुक्तियुक्तभक्तं भक्तानां व्यधित चतुर्गुणं दयालुः ।
भुङ्क्ते स्म त्रिदशनरोपभोज्यमन्नं सम्प्रीत्यै स धनवतां बृहत्प्रबोधः ॥ ४७ ॥

पदार्थदीपिकोद्बोधिका

निःस्वानामिति ॥ दयालुः स बृहत्प्रबोधः पूर्णप्रज्ञः निर्गतं स्वं धनं येभ्यस्ते निःस्वास्तेषां भक्तानां, कतिपयानां भुक्तिर् भोजनं तस्यां युक्तम् उपयुक्तं यद्भक्तम् अन्नं चत्वारो गुणा गणना यस्य तच् चतुर्गुणं व्यधित चकार । धनवतां भक्तानां सम्प्रीत्यै त्रयश्च ते दश च त्रिदश ते च ते नराश्च तैर् उपभोग्यं भोक्तुमर्हम् अन्नं भुंक्ते स्म बुभुजे किल ‘लट् स्मे’ इति स्म योगे भूते लट् ॥ ४७ ॥

मन्दोपाकारिणी

निस्स्वानाम् इति ॥ दयालुः कृपाशीलः बृहत्प्रबोधः बृहन् महान् प्रबोधः ज्ञानं यस्य सः श्रीमध्वाचार्यः । निस्स्वानां निर्गतः स्वः धनं येभ्यस् ते तथोक्तास् तेषां दरिद्राणाम् इत्यर्थः ‘स्वोऽर्थोराद्रविणं वसु’ इत्यभिधानम् । भक्तानां स्वभक्तानां कतिपयभुक्तियुक्तभक्तं कतिपयानां स्वल्पजनानां भुक्त्यै भोजनाय युक्तं पर्याप्तं भक्तम् अन्नं ‘भिस्सा स्त्री भक्तमन्धोऽन्नं’ इत्यमरश् चतुर्गुणं व्यधित कृतवान् । पञ्चजनपर्याप्तमन्नं विंशतिजनपर्याप्तं, विंशतिजनपर्याप्तमन्नम् अशीतिजनपर्याप्तम् इत्येवं क्रमेण चतुर्गुणाधिकम् अकरोद् इति भावः । सः मध्वः धनवतां सभाग्यानां भक्तानां सम्प्रीत्यै सन्तोषार्थं त्रिदशनरोपभोज्यं त्रयश्च ते दश च त्रिदश । त्रिदश च ते नरा मनुष्याश्च तेषां त्रिंशज् जनानाम् उपभोज्यं भोजनार्हम् अन्नं स्वयम् एक एव भुङ्क्ते स्म भुक्तवान् । ‘भुज परिपालनाभ्यवहारयोः’ इति धातोर् लट् परस्मैपदं भुङ्क्ते भुञ्जाते भुञ्जते । स्मशब्दयोगेन अतीतार्थकः ॥ ४७ ॥

विश्वास-प्रस्तुतिः - ४८

वृष्ट्यादेः स नियमनादि चक्र एतच्चित्रं किं भुवननियामके समीरे ।
अप्येवं भुवनगुरोः कृतानुवादः कृत्येषु प्रवर इतीह वर्णयामः ॥ ४८ ॥

मूलम् - ४८

वृष्ट्यादेः स नियमनादि चक्र एतच्चित्रं किं भुवननियामके समीरे ।
अप्येवं भुवनगुरोः कृतानुवादः कृत्येषु प्रवर इतीह वर्णयामः ॥ ४८ ॥

पदार्थदीपिकोद्बोधिका

वृष्ट्यादेरिति ॥ स श्रीमध्वः वृष्ट्यादेर् नियमनमादिर्यस्य तन्नियमनादि चक्रे । यदा वृष्टिरपेक्षिता तदा वर्षयामास । यदा नापेक्षिता तदा वृष्टिकालेऽपि निवारयामास इत्यर्थः । एतद् वृष्ट्यादिनियमनं त्रिभुवननियामके समीरे वायौ किं चित्रम्? किमाश्चर्यम्? एवम् अपि भुवनगुरोः श्रीमध्वस्य कृतानुवादश् चरितानुवादः कृत्येषु तदितर-व्यापारेषु प्रवर इति हेतोर् इह वर्णयामः ॥ ४८ ॥

मन्दोपाकारिणी

वृष्ट्यादेरिति ॥ सः मध्वाचार्यः वृष्ट्यादेस् तटाकमात्रपूरकवृष्टिर् आदिर् यस्य सः वृष्ट्यादिस् तस्य । आदिपदेन वृषलराजबुद्धिनियमनादिकं गृह्यते एवमादिकार्यस्य नियमनादि, अत्र आदिशब्देन अन्नस्य बहुत्वाल्पत्वकरणं ग्राह्यं चक्रे कृतवान् इत्येतद् भुवननियामके भुवनानां सर्वलोकानां नियामके अन्तःप्रेरके समीरे वायुस्वरूपे मध्वाचार्ये किं चित्रं किमाश्चर्यं न किमपि आश्चर्यम् इत्यर्थः । एवमपि पूर्वोक्तसर्वमाहात्म्यस्य आश्चर्यकरत्वाभावेऽपि भुवनगुरोः सर्वलोकगुरोः श्रीमध्वाचार्यस्य कृतानुवादः कृतानां चरित्राणाम् अनुवादः प्रकथनं कृत्येषु तदितरासाध्यव्यापारेषु प्रवर इति श्रेष्ठ इति इह अस्मिन् ग्रन्थे वर्णयामः, वयम् इति शेषः । ‘वर्ण क्रियाविस्तारगुणवचनेषु’ इति धातोर् लट् परस्मैपदं वर्णयामि वर्णयावः वर्णयामः ॥ ४८ ॥

विश्वास-प्रस्तुतिः - ४९

इत्यूचे धरणिसुरेण केवलं नो माध्वीयं विविधकथा कथासु मान्या ।
साक्षादप्यमरवरैरुदीर्यमाणा गन्धर्वैर्द्युसदसि तन्मुदे जगेऽसौ ॥ ४९ ॥

मूलम् - ४९

इत्यूचे धरणिसुरेण केवलं नो माध्वीयं विविधकथा कथासु मान्या ।
साक्षादप्यमरवरैरुदीर्यमाणा गन्धर्वैर्द्युसदसि तन्मुदे जगेऽसौ ॥ ४९ ॥

पदार्थदीपिकोद्बोधिका

इतीति ॥ कथासु विविधकथासु मान्या । मध्वस्य सम्बन्धिनी माध्वी इयं विविधकथा केवलं धरणिसुरेण ब्राह्मणेन इत्यूच इति नो किन्तु अमरैरपि साक्षाद् उदीर्यमाणाऽसौ कथा द्युसदसि स्वर्गसभायां तेषाम् अमराणां मुदे सन्तोषाय जगे अगायत ॥ ४९ ॥

मन्दोपाकारिणी

इतीति ॥ कथासु पुण्यश्लोकानां कथासु मान्या अत्यादरणीया माध्वी श्रीमध्वाचार्यसम्बन्धिनी । इयं पूर्वोक्ता विविधकथा अनेकविधचरित्रं केवलं धरणिसुरेण मध्वाचार्यशिष्यभूतब्राह्मणेनैव ऊचे वर्णिता इति नो इत्येव न भवति किंतु अमरवरैरपि देवश्रेष्ठैरपि साक्षात् स्वमुखेनैव उदीर्यमाणा वर्ण्यमाना असौ माध्वीकथा द्युसदसि स्वर्गसभायां तन्मुदे तेषां देवानां मुदे सन्तोषाय गन्धर्वैर् जगे अगायत । ‘गै शब्दे कर्मणि लिट् जगे जगाते जगिरे’ । ‘वच परिभाषणे’ इति धातोः कर्मणि लिट् ऊचे ऊचाते ऊचिरे ॥ ४९ ॥

विश्वास-प्रस्तुतिः - ५०

तां पद्यप्रणिगदितां तु मूर्छयित्वा तानानामुचिततयात्तपञ्चमाद्याः ।
गान्धारं द्युविषयमुज्ज्वलं सृजन्तो ग्रामं ते प्रजगुरकाकिकम्रकण्ठाः ॥ ५० ॥

मूलम् - ५०

तां पद्यप्रणिगदितां तु मूर्छयित्वा तानानामुचिततयात्तपञ्चमाद्याः ।
गान्धारं द्युविषयमुज्ज्वलं सृजन्तो ग्रामं ते प्रजगुरकाकिकम्रकण्ठाः ॥ ५० ॥

भावप्रकाशिका

मूर्छयित्वा स्वरविकासानामादिं कृत्वा । आदिस्वरावस्था मूर्छनेत्यभिहिता । तानानामुचिततया असङ्करत्वेन गानाद्गानान्तरप्राप्तिस्तानम् । एकैकधनुर्मण्डलमात्रं श्रुतिः । पञ्चमाद्याः स्वराः । ‘द्वे द्वे निषादगान्धारौ त्रिश्रुती धैवतर्षभौ । चतुःश्रुतय उद्दिष्टाः षड्जमध्यमपञ्चमा इति’ सरिगमपदनीति क्रमः । श्रुतिसमुदायो ग्रामः । षड्जग्रामो मध्यमग्रामो गान्धारग्राम इति त्रिविधो ग्रामः । तत्र गान्धारस्तु द्युविषय एव । ‘सप्तस्वरास्त्रयो ग्रामा एकविंशतिमूर्छनाः । तानान्येकोनपञ्चाशदेतद्गानस्य लक्षणमिति च ‘काकिश्च तुम्बुरुश्चैव कण्ठदोषौ प्रकीर्तितावि’ति च ॥ ५० ॥

पदार्थदीपिकोद्बोधिका

तामिति ॥ न विद्यते काकिः काक्याख्यकण्ठदोषो यस्य सो ऽकाकिः, अत एव कम्रकण्ठो रमणीयकण्ठो येषां ते तथोक्ताः ‘काकिश्च तुम्बुरुश्चैव कण्ठदोषौ प्रकीर्तितौ’ इत्यभिधानम् । तानानाम् उचिततया असङ्करत्वेन आत्तपञ्चमाद्याः पञ्चमः पञ्चमाख्यस्वर आद्यो येषां निषादर्षभषड्जमध्यमधैवतानां ते तथोक्ताः, आत्ता गातुमिष्टतयाऽङ्गीकृताः पञ्चमाद्याः सप्तस्वरा यैस् ते तथोक्ताः । द्युविषयं स्वर्गलोकविषयम् उज्वलं शोभमानं गान्धारं गान्धाराख्यश्रुतिसमुदायम् उत्सृजन्त उच्चैः सृजन्तः सम्यक् प्रकटयन्त इत्यर्थः । ग्रामो नाम श्रुतिसमुदायस्तम् । एकधनुर्मण्डलस्यापि स्वरः श्रुतिरित्युच्यते तत्र निषाधगान्धारयोर्द्वे द्वे श्रुती, धैवतर्षभयोस्तिस्रस्तिस्रः षड्जपञ्चम-मध्यमानां चतस्रश्चतस्रः श्रुतयः । तथा चोक्तं गानलक्षणे— ‘द्वे द्वे निषाधगान्धारौ त्रिश्रुती धैवतर्षभौ । चतुःश्रुतय उद्दिष्टाः षड्जपञ्चममध्यमाः’ इति । तत्र षड्जग्रामो मध्यमग्रामो गान्धारग्राम इति त्रिविधो ग्रामः । तत्र गान्धारस्तु द्युविषय एव ‘सप्तस्वरास्त्रयो ग्रामा एकविंशतिमूर्च्छनाः । तानान्येकोनपञ्चाशदेतद्गानस्य लक्षणम्’ इति च । ते गन्धर्वाः पद्येन पद्यरूपेण खण्डेन प्रणिगदिता प्रोक्ता पद्यप्रणिगदिता तां पद्यखण्डेन देवैर्विरचिता-मित्यर्थस् तां माध्वीं कथां मूर्च्छयित्वा तत्तत्स्वरविकासानामादिं कृत्वा ‘आदिस्वरविकासनं मूर्च्छने’ति । प्रजगुः प्रकर्षेण गानं चक्रुः ॥ ५० ॥

मन्दोपाकारिणी

तामिति ॥ अकाकिकम्रकण्ठा न विद्यते काकिस् तन्नामकः कण्ठदोषो यस्य सो ऽकाकिः ‘काकिश्च तुम्बुरुश्चैव कण्ठदोषौ प्रकीर्तितौ’ इत्यभिधानम् । अत एव कम्रः मनोहरः कमनीयध्वनियुक्तो ऽकाकिकम्रः कण्ठः गलः येषां ते तथोक्ताः । उज्ज्वलं प्रकाशमानं द्युविषयं स्वर्गस्थानां योग्यं गान्धारं गान्धारनामकं ग्रामं तन्त्रिसमुदायं सृजन्तः प्रकटयन्तः । तानानाम् उचिततया उपपन्नतया असङ्करत्वेनेति यावत् । आत्त-पञ्चमाद्याः पञ्चमः पञ्चमाख्यस्वर एव आद्यो येषां ते पञ्चमाद्या आत्ता गातुं स्वीकृताः पञ्चमाद्याः पञ्चमादिसप्तस्वरा यैस् ते तथोक्तास् ते गन्धर्वा मूर्च्छयित्वा विजातीयस्वर-विकासादिकं कृत्वा पद्यप्रणिगदितां देवैः पद्यरूपेण कथितां तां माध्वीं कथां प्रजगुः प्रकर्षेण गीतवन्तः । सप्तस्वरास्तु निषादऋषभेत्यादयः प्रसिद्धाः । तथा सप्तस्वरास्त्रयो ग्रामा एकविंशतिमूर्च्छनाः । तानान्येकोनपञ्चाशदेतद्ग्रामस्य लक्षणम् इत्यादिभरतशास्त्रोक्तं ज्ञेयम् ॥

विश्वास-प्रस्तुतिः - ५१

आनम्रैः सुमुकुटमौलिभिः कराग्रैराताम्रैः प्रतिकलितैः स्मितैर्मुखाब्जैः ।
आश्रावि स्थिरतरभक्तिभिः सुरेन्द्रैस्तद्गीता दशधिषणार्यवर्यचर्या ॥ ५१ ॥

मूलम् - ५१

आनम्रैः सुमुकुटमौलिभिः कराग्रैराताम्रैः प्रतिकलितैः स्मितैर्मुखाब्जैः ।
आश्रावि स्थिरतरभक्तिभिः सुरेन्द्रैस्तद्गीता दशधिषणार्यवर्यचर्या ॥ ५१ ॥

पदार्थदीपिकोद्बोधिका

आनम्रैरिति ॥ स्थिरतरा भक्तिर् येषां ते तथोक्तास् तैः । आनम्रैः सम्यक् प्रवणैः शोभनानि मकुटानि येषां ते सुमकुटा मौलयः शिरांसि येषां ते तथोक्तास् तैः । यद्वा सुमुकुटाश्च ते मौलयश्च तैर् उपलक्षितैर् इति । प्रतिकलितैर् अञ्जलित्वेन शिरसि प्रतिबद्धैर् आताम्रैर् अतिलोहितैः कराग्रैर् उपलक्षितैः, सुस्मितैर् मुखाब्जैर् उपलक्षितैः, सर्वत्र ‘इत्थं भूतलक्षण’ इति तृतीया । सुरेन्द्रैः, तैर् गन्धर्वैर् गीता तद्गीता दश धिषणा ज्ञानानि यस्य स दशधिषणः श्रीपूर्णप्रज्ञः स च असौ आर्यवर्य आचार्यवर्यस् तस्य चर्या चरित्रम् आश्रावि श्रुता ॥ ५१ ॥

मन्दोपाकारिणी

आनम्रैरिति ॥ स्थिरतरभक्तिभिर् अत्यन्तं स्थिरा स्थिरतरा तादृशी भक्तिर् येषां ते तैः । सुरेन्द्रैर् देवश्रेष्ठैर् इन्द्रादिभिः । तद्गीता तैर् गन्धर्वैर् गीता दशधिषणार्यवर्यचर्या श्रीमध्वाचार्यचरित्रम् आश्रावि श्रुता । कथंभूतैर् आनम्रैः प्रह्वीभूतैः सुमुकुटमौलिभिः शोभनं मुकुटं किरीटं येषु ते तथोक्ताः सुमुकुटा मौलयः शिरांसि येषां ते तथोक्तास् तैः । प्रतिकलितैर् अन्योन्यं सम्बद्धैर् अञ्जलित्वेन कृतैर् आताम्रैर् अतिलोहितैः कराग्रैर् हस्ताङ्गुलिभिः स्मितैर् मन्दहासयुक्तैर् मुखाब्जैर् मुखकमलैश्च उपलक्षितैर् इत्थं- भूतलक्षणे तृतीया ॥ ५१ ॥

विश्वास-प्रस्तुतिः - ५२

गीर्वाणैर्विजयमहोत्सवस्य पूजां कुर्वाणैरविरलसंविदस्तदानीम् ।
विस्मेरैर्मुनिनिकरोपदेवयुक्तैः सुस्मेरैरथ तमवेक्षितुं प्रजग्मे ॥ ५२ ॥

मूलम् - ५२

गीर्वाणैर्विजयमहोत्सवस्य पूजां कुर्वाणैरविरलसंविदस्तदानीम् ।
विस्मेरैर्मुनिनिकरोपदेवयुक्तैः सुस्मेरैरथ तमवेक्षितुं प्रजग्मे ॥ ५२ ॥

पदार्थदीपिकोद्बोधिका

गीर्वाणैरिति ॥ अथ तदानीम् अविरला पूर्णा संविद् यस्य स तथा तस्य श्रीमध्वस्य विजय एव नानादुर्वादिविजय एव महोत्सवस् तस्य पूजां कुर्वाणैः सुस्मेरैः सुष्ठु मन्दस्मितयुक्तैर् विस्मेरैर् विस्मयशीलैर् मुनिनिकरा मुनीनां समूहाश्च उपदेवा गन्धर्वास् ते च, तैर् युक्ताः, तैर् गीर्वाणैर् देवैस् तं श्रीमध्वाचार्यम् अवेक्षितुं प्रजग्मे गतम् ॥

मन्दोपाकारिणी

गीर्वाणैरिति ॥ अथ गायनश्रवणानन्तरं तदानीं तस्मिन् काले अविरलसंविदः श्रीपूर्णप्रज्ञाचार्यस्य विजयमहोत्सवस्य नानावादिपराजयादिपरमोत्सवस्य पूजां सम्भावनां कुर्वाणैः श्रीमध्वोत्कर्षं ज्ञात्वा तुष्यद्भिर् इत्यर्थः । अत एव विस्मेरैर् आश्चर्य-युक्तैः, मुनिनिकरोपदेवयुक्तैर् मुनीनां निकराः समूहाश्च उपदेवा गन्धर्वाश्च तैर् युक्तैः सुस्मेरैर् मन्दहासयुक्तैर् गीर्वाणैर् देवैस् तं श्रीमध्वाचार्यम् अवेक्षितुं द्रष्टुं प्रजग्मे गतम् । ‘गम्लृ गतौ’ इति धातोर् भावे लिट् जग्मे इति एकवचनमेव भावस्यैकत्वात् ॥ ५२ ॥

विश्वास-प्रस्तुतिः - ५३

आदर्शं गुणगणदर्शने मुरारेः सच्छास्त्रं रचितमनेन वर्णयन्तः ।
प्रद्योतैरुडुपदवीं प्रसादयन्तः प्रैक्षन्त प्रचुरमनोविलासमेते ॥ ५३ ॥

मूलम् - ५३

आदर्शं गुणगणदर्शने मुरारेः सच्छास्त्रं रचितमनेन वर्णयन्तः ।
प्रद्योतैरुडुपदवीं प्रसादयन्तः प्रैक्षन्त प्रचुरमनोविलासमेते ॥ ५३ ॥

पदार्थदीपिकोद्बोधिका

आदर्शमिति ॥ मुरारेः श्रीकृष्णस्य गुणगणदर्शने गुणसमूहज्ञाने आदर्शं दर्पणायितं, अनेन श्रीमध्वाचार्येण रचितं सच्छास्त्रं वर्णयन्तः प्रद्योतैः स्वप्रकाशैर् उडुपदवीं नक्षत्रमार्गम् आकाशम् इत्यर्थः । प्रकाशयन्त एते गीर्वाणा देवा प्रचुरो मनोविलासो यस्य स तथा तं श्रीपूर्णप्रज्ञाचार्यं प्रैक्षन्त ददृशुः ॥ ५३ ॥

मन्दोपाकारिणी

आदर्शमिति ॥ मुरारेः श्रीनारायणस्य गुणगणदर्शने गुणानां स्वातन्त्र्याद्यनन्तगुणानां गणस्य समूहस्य दर्शने ज्ञाने आदर्शं दर्पणायितं ‘दर्पणे मुकुरादर्शे’ इत्यमरः । अनेन श्रीमध्वाचार्येण रचितं कृतं सच्छास्त्रं वर्णयन्तः प्रद्योतैः स्वप्रकाशैः ‘प्रकाशो द्योत आतपः’ इत्यमर उडुपदवीम् उडूनां नक्षत्राणां पदवीं मार्गम् आकाशं प्रसादयन्तः प्रकाशयन्त एते देवाः प्रचुरमनोविलासं प्रचुरं पूर्णं मनो यस्य तस्य श्रीपूर्णप्रज्ञाचार्यस्य विलासं चरितं प्रैक्षन्त अपश्यन् । ‘ईक्ष दर्शने’ इत्यतो लङ् आत्मनेपदम् ऐक्षत ऐक्षेताम् ऐक्षन्त ॥ ५३ ॥

विश्वास-प्रस्तुतिः - ५४

नाकीन्द्रास्तमवनिभागमावसन्तं सुश्लोकैरपि भुवनानि भूषयन्तम् ।
नेमुः खादुपनिषदं तदैतरेयं व्याख्यान्तं विविधविशिष्टशिष्यमध्ये ॥ ५४ ॥

मूलम् - ५४

नाकीन्द्रास्तमवनिभागमावसन्तं सुश्लोकैरपि भुवनानि भूषयन्तम् ।
नेमुः खादुपनिषदं तदैतरेयं व्याख्यान्तं विविधविशिष्टशिष्यमध्ये ॥ ५४ ॥

भावप्रकाशिका

आवसन्तम् ‘उपान्वध्याङ्वस’ इति कर्मत्वम् ॥ ५४ ॥

पदार्थदीपिकोद्बोधिका

नाकीन्द्रा इति ॥ नाकीन्द्रा देवश्रेष्ठा अवनिभागं भूभागम् आवसन्तं भूलोकप्रदेशे वसन्तम् इत्यर्थः । ‘उपान्वध्याङ्वसः’ इति कर्मत्वम् । सुश्लोकैः शोभनयशोभिः ‘पद्मे यशसि च श्लोक इत्यमरः, भुवनानि लोकान् भूषयन्तं, विविधा ब्रह्मचार्यादिनानाविधा ये विशिष्टशिष्या ज्ञानभक्तयादिगुणैर् उत्तमशिष्यास् तेषां मध्ये ऐतरेयीमुपनिषदं व्याख्यान्तं व्याकुर्वन्तं तं पूर्वोक्तगुणवत्वेन प्रसिद्धं श्रीमदाचार्यं खादाकाशान्नेमुर्नमश्चक्रुः ॥ ५४ ॥

मन्दोपाकारिणी

नाकीन्द्रा इति ॥ तदा स्वागमनकाले नाकीन्द्रा देवश्रेष्ठास् तं श्रीमध्वाचार्यं खाद् आकाशाद् ल्यब्लोपनिमित्ता पञ्चमी आकाशे स्थित्वा नेमुर् नमस्कृतवन्तः । कथंभूतम् अवनिभागं भूप्रदेशम् आवसन्तं वासं कुर्वन्तं ‘उपान्वध्याङ्वसः’ इति कर्मत्वम् । सुश्लोकैः शोभनाश्च ते श्लोकास् तैः स्वकीर्तिभिर् इत्यर्थः ‘पद्ये यशसि च श्लोकः’ इत्यमरः । भुवनानि चतुर्दशलोकान् भूषयन्तम् अलङ्कुर्वन्तं विविधविशिष्टशिष्यमध्ये विविधा गृहस्थयत्यादिरूपेण बहुविधा विशिष्टाः सदाचारभक्त्यादिमत्वेन उत्तमा विविधाश्च ते विशिष्टाश्च ते शिष्याश्च तेषां मध्ये तत् प्रसिद्धम् ऐतरेयं तन्नामकम् उपनिषदं व्याख्यान्तं व्याख्यानं कुर्वन्तम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः - ५५

श्रीमन्तं शशिवदनं कुशेशयाक्षं गम्भीरस्वरमतिदिव्यलक्षणाढ्यम् ।
पश्यन्तः स्वगुरुमथार्चयन् कृतार्था वाण्या तं हरिरतिपूर्णकाममेते ॥ ५५ ॥

मूलम् - ५५

श्रीमन्तं शशिवदनं कुशेशयाक्षं गम्भीरस्वरमतिदिव्यलक्षणाढ्यम् ।
पश्यन्तः स्वगुरुमथार्चयन् कृतार्था वाण्या तं हरिरतिपूर्णकाममेते ॥ ५५ ॥

पदार्थदीपिकोद्बोधिका

श्रीमन्तमिति ॥ श्रीमन्तं भाग्यवन्तं कान्तिमन्तं वा शशिवदनं चन्द्रमुखं कुशेशयाक्षं पद्माक्षं गम्भीरः स्वरो ध्वनिर्यस्य स तथा तम् । अतिदिव्यानि अलौकिकानि यानि लक्षणानि अङ्गसम्पदस् तैर् आढ्यं सम्पूर्णं स्वगुरुं पश्यन्तो ऽत एव कृतार्था एते देववरा हरौ रतिर्दर्शनजन्यसुखं तया पूर्णः कामोऽभीष्टं यस्य स तथा तम् । सन्दर्शनादिजन्यं सुखं रतिर् इत्युच्यते तं श्रीमध्वाचार्यं वाण्या वचनेन आर्चिचन् विशेषतोऽर्चयामासुर् अस्तुवन् इत्यर्थः ॥ ५५ ॥

मन्दोपाकारिणी

श्रीमन्तमिति ॥ श्रीमन्तं कान्तिमन्तं शशिवदनं चन्द्रसदृशमुखं कुशेशयाक्षं कुशेशयवत् कमलवद् अक्षिणी यस्य सस् तम् । गम्भीरस्वरं गम्भीरः महान् स्वरः ध्वनिर् यस्य तम् । अतिदिव्यलक्षणाढ्यम् अतिदिव्यानि देवान् अतिक्रम्य विद्यमानानि लक्षणानि षण्णवत्यङ्गुलत्वादिद्वात्रिंशल्लक्षणानि तैर् आढ्यं सम्पन्नं परिपूर्णमिति यावत् । हरिरतिपूर्णकामं हरौ श्रीमन्नारायणे रत्या आसक्त्या ज्ञानभक्तिवैराग्यादिना इति यावत् पूर्णः परिपूर्णः कामोऽभिलाषो यस्य तं स्वगुरुं स्वेषां ज्ञानोपदेशकं तं श्रीमध्वाचार्यं पश्यन्तः प्रेक्षमाणा अत एव कृतार्थाः कृतकृत्या एते पूर्वोक्तदेवश्रेष्ठा वाण्या वचनेन उपलक्षणम् एतत् त्रिकरणशुद्ध्या इत्यर्थ आर्चयन् पूजयामासुर् अस्तुवन् इत्यर्थः । ‘अर्च पूजायां’ इत्यतो लङ् परस्मैपदम् आर्चयद् आर्चयताम् आर्चयन् ॥ ५५ ॥

विश्वास-प्रस्तुतिः - ५६

अहरो दुरागमतमः स्वगोगणैरकरोर्मुकुन्दगुणवृन्ददर्शनम् ।
अजयश्चतुर्दश जगन्ति सद्गुणैः शरणं गुरो करुणयाऽपि नो भवेः ॥ ५६ ॥

मूलम् - ५६

अहरो दुरागमतमः स्वगोगणैरकरोर्मुकुन्दगुणवृन्ददर्शनम् ।
अजयश्चतुर्दश जगन्ति सद्गुणैः शरणं गुरो करुणयाऽपि नो भवेः ॥ ५६ ॥

पदार्थदीपिकोद्बोधिका

अहर इति ॥ स्वगोगणैः स्ववचनसमूहैर् दुरागम एव दुःशास्त्रमेव तमोऽन्धकारस् तद् अहरः निराकृतवानसि । मुकुन्दगुणानां वृन्दं समूहस्तस्य दर्शनं ज्ञानम् अकरोः कृतवानसि । सद्गुणैर् निर्दुष्टगुणैश् चतुरधिका दश चतुर्दश तानि च तानि जगन्ति च चतुर्दशलोकस्थपुरुषानित्यर्थो ऽजयः । हे गुरो त्वं नोऽस्माकं करुणया दयया शरणं रक्षको भवेर् भव । श्लोकेऽस्मिन् मञ्जुभाषिणीवृत्तम् । ‘सजसा जगौ च यदि मञ्जुभाषिणी’ इति तल्लक्षणात् ॥ ५६ ॥

मन्दोपाकारिणी

किमिति अस्तुवन् इत्यत आह ॥ अहर इति ॥ हे गुरो श्रीपूर्णप्रज्ञाचार्य त्वं स्वगोगणैः स्वस्य गवां शास्त्ररूपवचनानां गणैः समूहैर् दुरागमतमः दुष्टाश्च ते आगमाश्च ते एव तमो ऽन्धकारम् अहरः निराकृतवानसि । ‘हृञ् हरणे’ इति धातोर् लङ् परस्मैपदम् अहरो ऽहरतम् अहरत । तथा स्वगोगणैर् मुकुन्दगुणवृन्ददर्शनं मुकुन्दस्य मोक्षप्रदस्य श्रीहरेर् गुणानां स्वातन्त्र्याद्यनेकगुणानां वृन्दस्य समूहस्य दर्शनं प्रतिपादनम् अकरोः कृतवान् असि । ‘डु कृञ् करणे’ इति धातोर् लङ् परस्मैपदम् अकरोर् अकुरुतम् अकुरुत । सद्गुणैर् निर्दुष्टस्वकीयगुणैश् चतुर्दश जगन्ति अजयः जितवानसि । सर्वापेक्षया अत्युत्कृष्टगुणोऽसि इति भावः । ‘जि जये’ इति धातोर् लङ् परस्मैपदम् अजयो ऽजयतम् अजयत । नो ऽस्माकं करुणयापि कृपयैव शरणं रक्षिता भवेः ‘शरणं गृहरक्षित्रोः’ इत्यमरः । ‘भू सत्तायां’ इति धातोः प्रार्थनायां विधिलिङ् भवेर् भवेतं भवेत । मञ्जुभाषिणी वृत्तं ‘सजसा जगौ च’ इति तल्लक्षणात् ॥ ५६ ॥

नमस्ते प्राणेश प्रणतविभवायावनिमगा
नमः स्वामिन् रामप्रियतम हनूमन् गुरुगुण ।
विश्वास-प्रस्तुतिः - ५७

नमस्तुभ्यं भीम प्रबलतम कृष्णेष्ट भगवन्
नमः श्रीमन्मध्व प्रदिश सुदृशं नो जय जय ॥ ५७ ॥

मूलम् - ५७

नमस्तुभ्यं भीम प्रबलतम कृष्णेष्ट भगवन्
नमः श्रीमन्मध्व प्रदिश सुदृशं नो जय जय ॥ ५७ ॥

पदार्थदीपिकोद्बोधिका

नम इति ॥ हे प्राणेश समस्तजीवानामीश स्वामिन् ‘प्राणस्तु प्रणवे जीवे जीविते परमात्मनि’ इति वैजयन्ती । श्रीमुख्यवायो प्रणतविभवः प्रणतजनभूतिस् तस्मै अवनिं भूमिम् अगा भुव्यवतीर्णोऽसि तस्मै ते नमः । रामप्रियतम श्रीरामस्यातिप्रिय गुरुगुण महागुण हे हनूमन् ते नमः । प्रबलतम कृष्णेष्ट कृष्णप्रिय भगवन् स्वामिन् भीम तुभ्यं नमः । हे श्रीमध्व तुभ्यं नमः । त्वं शोभना च सा दृक् च सुदृक् तां शोभनज्ञानं नोऽस्माकं प्रदिश देहि । त्वं जय जय दुष्टान् विजय विजय । तात्पर्ये द्विरुक्तिः । शिखरिणीवृत्तम् । ‘रसैरुद्रैच्छिन्ना यमनसभलागः शिखरिणी’ इत्युक्तेः ॥ ५७ ॥

मन्दोपाकारिणी

नम इति ॥ हे प्राणेश प्राणानाम् इन्द्रियाणाम् ईश नियामक मुख्यप्राण त्वं प्रणतविभवाय हरौ त्वयि च नम्रीभूतानां सज्जनानां विभवाय तत्त्वज्ञानादि-सकलैश्वर्याय अवनिं भूमिं प्रति अगाः प्राप्तवानसि भूमौ अवतीर्णोऽसि इत्यर्थः । ‘इण् गतौ’ इत्यतो लुङ् परस्मैपदम् अगा अगातम् अगात । ते तुभ्यं नमो ऽस्तु । हे स्वामिन् रामप्रियतम गुरुगुण बहुगुण हनूमन् ते नमो ऽस्तु । प्रबलतम अतिप्रबल कृष्णेष्ट कृष्णस्य श्रीयादवकृष्णस्य प्रिय हे भीम श्रीभीमसेन तुभ्यं नमो ऽस्तु हे भगवन् निरवधिक-ज्ञानाद्यैश्वर्यपूर्ण श्रीमन्मध्व श्रीमदानन्दतीर्थगुरो ते नमो ऽस्तु । नो ऽस्माकं सुदृशं सम्यक् ज्ञानं प्रदिश उत्कृष्टत्वेन देहि । त्वं च जय जय सर्वोत्कृष्टत्वेन वर्तस्व । अनेन वायोर् अवतारत्रयाणां च अत्यन्ताभेदो ज्ञापितः । शिखरिणी वृत्तम् ॥ ५७ ॥

विश्वास-प्रस्तुतिः - ५८

इति निगदितवन्तस्तत्र वृन्दारकेन्द्रा गुरुविजयमहं तं लालयन्तो महान्तम् ।
ववृषुरखिलदृश्यं पुष्पवारं सुगन्धं हरिदयितवरिष्ठे श्रीमदानन्दतीर्थे ॥ ५८ ॥

मूलम् - ५८

इति निगदितवन्तस्तत्र वृन्दारकेन्द्रा गुरुविजयमहं तं लालयन्तो महान्तम् ।
ववृषुरखिलदृश्यं पुष्पवारं सुगन्धं हरिदयितवरिष्ठे श्रीमदानन्दतीर्थे ॥ ५८ ॥

॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते सुमध्वविजये महाकाव्ये आनन्दाङ्के षोडशः सर्गः ॥

पदार्थदीपिकोद्बोधिका

इतीति ॥ इति ‘अहर’ इत्याद्युक्तप्रकारेण निगदितवन्तः नितरां वाचम् उक्तवन्तः महान्तं तं गुरुविजयमहं गुरोः श्रीमदाचार्यस्य यो विजयः दुर्वादिविजयः स एव मह उत्सवस् तं लालयन्तः वृन्दारकेन्द्रा देवश्रेष्ठा हरिदयितवरिष्ठे श्रीहरिप्रियेषु उत्तमे तत्र श्रीमदानन्दतीर्थे श्रीमध्वाचार्ये सु शोभनो गन्धः परिमलो यस्य स तथोक्तस् तं पुष्पवारं पुष्पसमूहम् अखिलैर् मनुष्यादिभिर् द्रष्टुं योग्यं यथा भवति तथा अखिलदृश्यं ववृषुः पुष्पवृष्टिं चक्रुरित्यर्थः । मालिनीवृत्तम् । ‘ननमयययुतेऽयं मालिनी भोगिलौकैः’ इत्युक्तेः ॥ ५८ ॥

श्रीमन्मध्वमुनिप्रबर्हविलसच्चित्तारविन्दालयः ।

सान्द्रानन्दचिदादिसद्गुणतनुर्दोषातिदूरः सदा ॥

ब्रह्माहीन्द्रवरेन्द्रपूर्वविबुधैराराधितांघ्रिद्वयः ।

सुप्रीतो भवतात्सदा मम हरिर्भक्तेष्टचिन्तामणिः ॥ १ ॥

वेदाङ्गाभिधदेशिकैर्निजजनज्ञानादिसंसिद्धये ।

या व्याख्याभिधदीपिका विरचिता श्रीकृष्णपूजाविधौ ॥

तस्या बोधनमात्रमत्र हि कृतं बालावबोधाय यत् ।

तन्मात्रेण च तोषमेतु भगवान् श्रीविट्ठलो मध्वगः ॥ २ ॥

स्तनंधयानां कृतिवद्य्वस्तेयं सुकृतेः कृतिः ।

तथा भूयात्पितृवद्बुधानां तोषकारिणी ॥ ३ ॥

इति श्रीमद्वेदाङ्गमुनिविरचितश्रीसुमध्वविजयटीकाविवृतौ श्रीविश्वपतितीर्थकृतौ पदार्थदीपिकोद्बोधिकायां षोडशः सर्गः ॥

मन्दोपाकारिणी

इतीति ॥ तत्र अन्तरिक्षे वृन्दारकेन्द्रा देवश्रेष्ठा इन्द्रादय इति पूर्वोक्तप्रकारेण निगदितवन्तः भाषमाणाः सन्तः महान्तं सर्वोत्तमं तं गुरुविजयमहं गुरोः श्रीमध्वाचार्यस्य विजयरूपं महम् उत्सवं लालयन्तः सम्मानयन्तः सन्तः हरिदयितवरिष्ठे हरेः श्रीनारायणस्य दयितेषु प्रियवस्तुषु भक्तेषु इत्यर्थः वरिष्ठे सर्वोत्कृष्टे श्रीमदानन्दतीर्थे सुगन्धम् अतिसुगन्धोपेतं पुष्पवारं पुष्पाणां निचयम् अखिलदृश्यं तत्र विद्यमानानां सर्वेषां जनानां दृष्टिगोचरं यथा भवति तथा ववृषुर् अवाकिरन् । इत्यशेषमतिमङ्गलं ‘वृषु सेचने इति धातोर् लिट् परस्मैपदं ववर्ष ववृषतुः’ मालिनी वृत्तं ‘ननमयययुतेयं मालिनी भोगिलोकैः’ ॥५८॥

इत्थं सत्यनिधिच्छलारिनरसिंहाचार्यशिष्येण वै

शेषाख्येन विपश्चिता विरचिता मन्दोपकारिण्यलम् ।

टीका सर्वगुरूच्चमध्वविजयाख्यानस्य काव्योत्तम-

ग्रन्थस्येष्टदमद्गुरूत्तमहृदिस्था स्यात्तु कृष्णेऽर्पिता ॥

इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचर्यविरचित श्रीमत्सुमध्वविजयस्य टीकायां श्रीमच्छलारिनरसिंहाचार्याणां शिष्येण विरचितायां मन्दोपकारिण्यां षोडशः सर्गः । समाप्त इत्यशेषमतिमङ्गलम् ॥