१५ पञ्चदशः सर्गः

पञ्चदशः सर्गः

पञ्चदशः सर्गः

विश्वास-प्रस्तुतिः - १

भूयोबोधस्ततो भूयो व्याचख्यौ भाष्यमद्भुतम् ।
ग्रामे ग्रामीणसामान्ये वसंस्तत्रामरालये ॥ १ ॥

मूलम् - १

भूयोबोधस्ततो भूयो व्याचख्यौ भाष्यमद्भुतम् ।
ग्रामे ग्रामीणसामान्ये वसंस्तत्रामरालये ॥ १ ॥

भावप्रकाशिका

अमरालयस्य ‘कुडेल्’इत्यपभ्रष्टभाषा । ग्रामस्यापि ॥ १ ॥

पदार्थदीपिकोद्बोधिका

भूयोबोध इति ॥ ततस् तदनन्तरं भूयान् बोधो यस्य स तथोक्तः श्रीपूर्णप्रज्ञः । तत्र ग्रामे ‘पाडिकुडेल्’ इत्यपभ्रष्टनामके ग्रामे भवा ग्रामीणा ग्रामजनास् तेषां सामान्यः साधारणस् तस्मिन् अमरालये ‘कूडेल्’ नामक देवालये वसन् सन् भूयः पुनरपि अद्भुतं भाष्यं श्रीमद्भाष्यं व्याचख्यौ । अस्मिन् सर्गे प्रायः पथ्यावक्रं वृत्तम् । ‘युजश्चतुर्थतोजेन पथ्यावक्रं प्रकीर्तितमि’त्युक्तेः ॥ १ ॥

मन्दोपाकारिणी

भूयोबोध इति ॥ ततः विष्णुमङ्गलदेवालये कतिपयदिवसवा-सानन्तरम् । भूयोबोधः भूयान् पूर्णः बोधो यस्य स मध्वाचार्यः । तत्र ग्रामे ग्रामीणसामान्ये ग्रामस्थानां सर्वेषामपि साधारणे अमरालये विष्णुमङ्गलादन्यस्मिन् देवालये वसन् भूयो ऽद्भुतं भाष्यम् आत्मप्रणीतं श्रीब्रह्मसूत्रभाष्यं व्याचख्यौ व्याख्यातवान् । ‘ख्या प्रकथने’ लिट् परस्मैपदं चख्यौ चख्यतुश् चख्युः । अस्मिन् सर्गे पथ्यावक्रं वृत्तं ‘वक्त्रं नाद्यान्नसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम् । युजोर्जेन सरिद्भर्तुः पथ्यावक्रं प्रकीर्तितम्’ ॥ १ ॥

विश्वास-प्रस्तुतिः - २

परपक्षरथारूढं खरतर्कमहायुधम् ।
त्रिविक्रमार्यं सोऽपश्यत् प्रतिवीरमिवाग्रतः ॥ २ ॥

मूलम् - २

परपक्षरथारूढं खरतर्कमहायुधम् ।
त्रिविक्रमार्यं सोऽपश्यत् प्रतिवीरमिवाग्रतः ॥ २ ॥

पदार्थदीपिकोद्बोधिका

परेति ॥ स श्रीमध्वाचार्यः परपक्ष एव स्वसिद्धान्तस्य प्रतिपक्षभूतसिद्धान्त एव रथस्तमारूढ आरुह्य वर्तमानस् तम् । खरास् तीक्ष्णा ये तर्का अनुमानानि त एव महायुधानि यस्य स तथोक्तस् तं त्रिविक्रमार्यं प्रतिवीरमिव प्रतिभटमिव अग्रतो ऽपश्यत् । स्वसिद्धान्तं समर्थ्य परपक्षप्रतिपक्षभूतं पक्षम् अवलम्ब्य वर्तमानम् अति तर्ककर्कशं त्रिविक्रमार्यम् अपश्यत् । यथा कश्चिद् योद्धा रथारूढं निशितनानायुधधरं प्रतिवीरम् अग्रतः पश्येत् तद्वदिति भावः ॥ २ ॥

मन्दोपाकारिणी

परपक्षेति ॥ सः श्रीमध्वाचार्यः । परपक्षरथारूढं परः स्वसिद्धान्ताद् अन्यः पक्षः सिद्धान्तः स एव रथस् तम् आरूढ आश्रितस् तं परसिद्धान्त-रथमवलम्ब्य वर्तमानम् इत्यर्थः । खरतर्कमहायुधं खरास् तीक्ष्णास् तर्का युक्तय एव महन्ति आयुधानि यस्य सस् तं ‘तिग्मं तीक्ष्णं खरं तद्वत्’ इत्यमरः । त्रिविक्रमार्यं त्रिविक्रम-पण्डिताचार्यम् अग्रतः पुरतो ऽपश्यद् दृष्टवान् । कमिव प्रतिवीरमिव प्रतियोद्धारमिव । ‘दृशिर् प्रेक्षणे’ इति धातोर् लङ् परस्मैपदम्’ । स्वसिद्धान्तं समर्थ्य परसिद्धान्तं निराकुर्वन् श्रीमध्वाचार्यः स्वपक्षविरुद्धपरपक्षमवलम्ब्य आगतम् अतितर्ककर्कशं त्रिविक्रमार्यम् अभिमुखतः स्थितम् अपश्यत् । यथा कश्चिद् योद्धा रथारूढं नानानिशितायुधधरं प्रतिवीरम् अग्रतः पश्येत् तद्वद् इति भावः ॥ २ ॥

विश्वास-प्रस्तुतिः - ३

तदा तदाननाम्भोजाद् वृत्तोपन्यासभारती ।
सेना सेनाग्रहा दिव्या शिबिरादिव निर्ययौ ॥ ३ ॥

मूलम् - ३

तदा तदाननाम्भोजाद् वृत्तोपन्यासभारती ।
सेना सेनाग्रहा दिव्या शिबिरादिव निर्ययौ ॥ ३ ॥

पदार्थदीपिकोद्बोधिका

तदेति ॥ तदा त्रिविक्रमार्ये ृण्वति सति वृत्ता प्रवृत्ता आदिकर्मणि ‘कर्तरि चे’ति कर्तरि क्तः । दिव्या अलौकिका इने सर्वस्वामिनि आग्रह इनाग्रहस् तेन सहिता सेनाग्रहा सर्वजगत्सृष्ट्यादिकारणस्य हरेस् तत्स्वामित्वसमर्थनपरा इत्यर्थः । सेनापि सेनाग्रहा इनस्य स्वनायकस्य जयादावाग्रहेन सहिता सेनाग्रहा । उपन्या-सात्मिका च सा भारती वाक् च उपन्यासभारती तदाननाम्भोजात् तस्य श्रीमध्वस्य आननम् इव अम्भोजं पद्मं तस्माद् दिव्या सेना शिबिराद् इव सेनानिवासस्थानाद् इव निर्ययौ ॥३॥

मन्दोपाकारिणी

तदेति ॥ तदा त्रिविक्रमाचार्ये श्रुण्वति सति वृत्ता वर्तमाना ‘कर्तरि क्तः’ दिव्या अद्भुतरूपा उपन्यासभारती उपन्यासः वाङ्मुखं ‘उपन्यासस्तु वाङ्मुखं’ इत्यमरः, उपन्यासरूपा भारती वाक् ‘ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती’ इत्यमरः । तदाननाम्भोजात् तस्य श्रीमध्वाचार्यस्य आननम् आस्यमेव अम्भोजं तस्मान् निर्ययौ निर्गता । सेना गजाश्वरथपत्तिसमुदायरूपा ‘हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयं’ इत्यमरः । शिबिरादिव निवेशादिव ‘निवेशः शिबिरं पण्डे’ इत्यमरः । कीदृशी भारती सेनाग्रहा इने सर्वस्वामिनि हरौ आग्रहेण सहिता सर्वजगत्सृष्ट्यादिकारणस्य हरेस् तत्स्वामित्वसमर्थनपरा इत्यर्थः । सेनापि सेनाग्रहा इने स्वामिनि राज्ञि तज्जयादौ आग्रहसहिता इत्यर्थः । ‘इनः स्वामिनि सूर्ये च’ इत्यभिधानम् । आदिकुलकमेतत् ॥ ३ ॥

विश्वास-प्रस्तुतिः - ४

नात्यत्वरा नातिरया नस्खलन्ती निरन्तरा ।
अनानावयवेत्येव दवीयोभिः प्रतर्किता ॥ ४ ॥

मूलम् - ४

नात्यत्वरा नातिरया नस्खलन्ती निरन्तरा ।
अनानावयवेत्येव दवीयोभिः प्रतर्किता ॥ ४ ॥

पदार्थदीपिकोद्बोधिका

नातीति ॥ नात्यत्वरा त्वरया रहिता अत्वरा अत्यन्तम् अत्वरा अत्यत्वरा अतिशनैर् इत्यर्थः । अत्यत्वरा न भवतीति नात्यत्वरा नातिरया अत्यन्तं रयो वेगो यस्याः सा अतिरया, अतिरया न भवतीति नातिरया अतिवेगवती न भवति इत्यर्थः । अतिशनैर् वा अतिद्रुतं वा वाच्यमाना न भवति इत्यर्थः । स्खलन्ती न भवतीति नस्खलन्ती शब्दतोऽर्थतश्च स्खलनरहितेत्यर्थः । निर्गतम् अन्तरं विच्छेदो यस्याः सा निरन्तरा, दवीयोभिर् दूरवर्तीभिर् दूरशब्दादीयसुनि ‘स्थूलदूर’ इत्यादिना यणो लोपः पूर्वस्य गुणश्च । नानाविधाश्च ते अवयवाश्च नानावयवा न विद्यन्ते नानावयवा यस्याः सा अनानावयवा, इत्येव स्वरवर्णपदादिरूपनानावयवरहितैव इत्यर्थः । प्रतर्किता ऊहिता सा उपन्यासभारती निर्ययाविति पूर्वेणान्वयः । सेना च नात्यत्वरा, नातिरया नस्खलन्ती निरन्तरा च दवीयोभिर् दूरस्थपुरुषैर् दृश्यमानापि अनानावयवेत्येव रथतुरगादि- नानास्वपरिकरवत्यपि तद्रहितेत्येव प्रतर्किता दूरस्थपुरुषैः सेनाप्रवाहमात्रं दृश्यते न तु तद्विशेषोऽपीति भावः ॥ ४ ॥

मन्दोपाकारिणी

नेति ॥ पुनः कथंभूता नात्यत्वरा त्वरया वेगेन रहिता अत्वरा अत्यन्तम् अत्वरा सा न भवतीति नात्यत्वरा, अतिशनैर् नेत्यर्थः । नातिरया अत्यन्तं रयो वेगो यस्याः सा अतिरया सा न भवतीति अतिरया, अतिद्रुतोच्चारणतया च नेत्यर्थः । ‘रंहस्तरसी तु रयः स्यदः’ इत्यमरः । नस्खलन्ती शब्दतोऽर्थतश्च स्खलनरहिता । निरन्तरा निर्गतम् अन्तरं विच्छेदो यस्याः सा । दवीयोभिर् दूरवर्तिभिः ‘स्थूलदूरयुवह्रस्व-क्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुण’ इति सूत्रेण दूरशब्दादीयसुन् प्रत्ययः । अना-नावयवा नानाविधाश्च ते अवयवाश्च न विद्यन्ते नानावयवा यस्याः सा, स्वरवर्ण-पदादिरूपनानावयवरहिता इत्यर्थः । इत्येव प्रतर्किता ऊहिता । शिबिरान् निर्गता सेनापि उक्तगुणविशिष्टा । सापि दवीयोभिर् अनानावयवेत्येव गजतुरगादिनानास्वपरिकरवत्यपि तद्रहितेत्येव प्रतर्किता दूरस्थपुरुषैः सेनाप्रवाहमात्रं दृश्यते न तु तद्विशेषोऽपीति भावः ॥४॥

विश्वास-प्रस्तुतिः - ५

सूत्रस्यन्दनवृन्दाढ्या दुर्वारश्रुतिवारणा ।
सूपपत्तिमहापत्तिर्विचित्रस्मृतिसप्तिका ॥ ५ ॥

मूलम् - ५

सूत्रस्यन्दनवृन्दाढ्या दुर्वारश्रुतिवारणा ।
सूपपत्तिमहापत्तिर्विचित्रस्मृतिसप्तिका ॥ ५ ॥

पदार्थदीपिकोद्बोधिका

पुनः कथंभूता उपन्यासभारती इत्यत आह — सूत्रेति ॥ सूत्राणि ब्रह्मसूत्राणि एव स्यन्दना रथास् तेषां वृन्दानि समूहास् तैर् आढ्या सम्पन्ना । दुर्वारा निरवकाशत्वेन प्रबलत्वान् निवारयितुम् अशक्या या श्रुतयस् ता एव वारणा गजा यस्याः सा । सूपपत्तय एव शोभनयुक्तय एव महापत्तयो महापदातयो यस्याः सा तथोक्ता । विचित्रा विविक्षितनानार्थपरत्वेन नानाविधा याः स्मृतयः पौरुषेयग्रन्थास् ता एव सप्तयो हया यस्याः सा तथोक्ता । उपन्यासभारती तदाननाम्भोजाद् दिव्या सेना शिबिरादिव निर्ययौ इति पूर्वेणान्वयः ॥ ५ ॥

मन्दोपाकारिणी

सूत्रेति ॥ पुनः कथंभूता सूत्रस्यन्दनवृन्दाढ्या ब्रह्मसूत्राण्येव स्यन्दनानि रथास् तेषां वृन्देन समूहेन आढ्या सम्पन्ना ‘शताङ्गः स्यन्दनो रथः’ इत्यमरः । दुर्वारश्रुतिवारणा दुर्वारा अपौरुषेयत्वेन प्रबलत्वान् निवारयितुम् अशक्याः श्रुतय एव वारणा गजा यस्यां सा तथोक्ता । सूपपत्तिमहापत्तिः सुष्ठु उपपत्तयः युक्तय एव महत्यः बह्व्यः पत्तयः पदातयः यस्यां सा तथोक्ता ‘पदातिपत्तिपतगः’ इत्यमरः । विचित्र-स्मृतिसप्तिका विचित्रा विवक्षितार्थसमर्थनपरत्वेन नानाविधाः स्मृतयः पौरुषेयग्रन्था एव सप्तयो हया यस्यां सा तथोक्ता ‘हयसैन्धवसप्तयः’ इत्यमरः । सेना तु हस्त्यश्वरथ-पदातिरूपचतुरङ्गिणी प्रसिद्धैव ॥ ५ ॥

विश्वास-प्रस्तुतिः - ६

वर्धितोर्मिहरिप्रेष्ठा सुपयोधरसुस्वना ।
सवितानप्रकाशार्था सागरी श्रीरिवापरा ॥ ६ ॥

मूलम् - ६

वर्धितोर्मिहरिप्रेष्ठा सुपयोधरसुस्वना ।
सवितानप्रकाशार्था सागरी श्रीरिवापरा ॥ ६ ॥

भावप्रकाशिका

स्वभक्तिविषये खण्डितषडूर्मिकस्य हरेः प्रेष्ठा उपन्यासभारती सागरजा लक्ष्मीश्च । सादिभिर्वर्धितोर्म्याख्यगतिविशेषवदश्वप्रेष्ठा सेना । सागरापत्यश्रीश्च स्वोदयेन वर्धितकल्लोलचन्द्रप्रेष्ठा । सागरसम्बन्धिनी कान्तिश्च । सुकुचा सुस्वरा रमा । सुजलधरवद्गम्भीरसुस्वरा अन्या । सविस्तरं प्रकाशाभिप्राया गीः । सविस्तारस्व-रूपतेजोद्रव्यात्मिका रमा । सविस्तारप्रादुर्भावेन प्रयोजनं शत्रुभीषणं सेनायाः । सयज्ञप्रकाशनप्रयोजना सागरापत्यश्रीः । सविस्तारतेजोयुक्तरत्नाख्यार्थवती अन्या ॥ ६ ॥

पदार्थदीपिकोद्बोधिका

पुनः कथंभूता उपन्यासभारती इत्यत आह– वर्धितेति ॥ वर्धिताः खण्डिता ऊर्मयः षडूर्मयो येन स तथोक्तः । स चासौ हरिश्च तस्य अतिप्रेष्ठा अतिप्रिया ‘कल्यनं कर्तनं प्रोक्तं वर्धनं छेदनं तथे’ति हलः । सुपयोधरस्य शोभनमेघस्य सुस्वन इव सुस्वनो यस्याः सा तथोक्ता । वितानेन विस्तारेण सहितं यथा भवति तथा सवितानं सवितानं प्रकाशार्थः प्रकाशाभिप्रायो यस्याः सा तथोक्ता । उपन्यासभारती तदाननाम्भोजाद् अपरा अन्या सागरस्य अपत्यं स्त्री सागरी क्षीरसागरतनया इत्यर्थः । श्रीरिव रमा इव निर्ययौ इत्यन्वयः । सापि वर्धितोर्मिहरिप्रेष्ठा खण्डितषडूर्मिकस्य हरेर् अतिप्रिया सुपयोधरा च सा सुस्वना च, सुकुचा सुस्वना चेत्यर्थः । सवितानप्रकाशार्था विस्तारयुक्ततेजोमयद्रव्यात्मिका । अत्र अर्थशब्देन स्वरूपाख्यं व्योम उच्यते । यद्वा— वर्धितोर्मिहरिप्रेष्ठा सुपयोधरसुस्वना सवितानप्रकाशार्थोपन्यासभारती अपरा अन्या सगरस्य तदाख्यराज्ञः सम्बन्धिनी सागरी श्रीरिव सेनाख्यश्रीरिव सगरस्य दण्डयात्रायां तत्सैन्याख्यश्रीः शिबिराद्यथा निर्गच्छेत् तथा तदाननाम्भोजान्निर्ययौ इत्यन्वयः । सेनाख्यश्रीश्च वर्धितोर्मिहरिप्रेष्ठा अश्वारोहैर् वर्धितोर्म्याख्यगतिविशेषवदश्वस्य प्रेष्ठा सुपयोध-रसुस्वना जलधरवत्सुस्वना सवितानप्रकाशार्था सवितानं सविस्तरं यथा भवति तथा प्रकाशेन प्रादुर्भावेन अर्थः प्रयोजनं शत्रुभीषणाख्यं यस्याः सा तथोक्ता । अथवा उपन्यासभारती अपरा सागराणां षष्ठिसहस्रसङ्ख्याकसगरापत्यानां सम्बन्धिनी सागरी श्रीरिव कान्तिरिव निर्ययाविति । सा कान्तिश्च वर्धितोर्म्याख्यगतिसम्बन्धिनी सागरी श्रीरिव विशेष-वन्मेध्याश्वस्य प्रेष्ठा वितानं यज्ञस्तत्प्रकाशनाख्यप्रयोजनसहिता । ‘वितानं संस्तरो बर्हिः सवः सत्रञ्च कथ्यते’ इति हलः । अथवा उपन्यासभारती सागरी श्रीरिव कान्तिरिव निर्ययावित्यन्वयः सापि । वर्धितोर्मिहरिप्रेष्ठा स्वोदयेन वर्धिततरङ्गस्य हरेश्चन्द्रस्य प्रेष्ठा ‘अर्कमर्कटमण्डूकविष्णुवासववायवः । तुरङ्गसिंहशीतांशुयमाश्च हरयो दश’ इति हलः । सवितानप्रकाशार्था सविस्तारतेजोयुक्तरत्नाख्यपदार्थवती ॥ ६ ॥

मन्दोपाकारिणी

वर्धितेति ॥ पुनः कथंभूता वर्धितोर्मिहरिप्रेष्ठा वर्धिताश् छेदिता ऊर्मयः वृद्धिह्रासादिषड्विकारा यस्य, स चासौ हरिश्च तस्य प्रेष्ठा अतिप्रिया ‘वर्धनं छेदने द्वयोः’ इति हलायुधः । सुपयोधरसुस्वना सुपयोधरस्य सुमेघस्य गम्भीरतया शोभनस्वन इव सुस्वनो यस्याः सा तथोक्ता ‘ध्वनिध्वानरवस्वनाः’ इत्यमरः । सवितानप्रकाशार्था वितानेन विस्तारेण सहितं यथा भवति तथा प्रकाशे प्रकाशने अर्थो ऽभिप्रायः यस्याः सा तथोक्ता, विस्तारेण प्रमेयोपपादने तात्पर्यवती इत्यर्थः । का इव अपरा अन्या सागरी सागरस्य क्षीरसमुद्रस्य इयं सागरी क्षीरसमुद्राज्जाता श्रीरिव रमेव ‘क्षीरोदतनया रमा’ इत्यमरः । सापि वर्धितोर्मिहरिप्रेष्ठा उक्त एवार्थः । सुपयोधरसुस्वना सुपयोधरा सुस्तना । च सा सुस्वना च सवितानप्रकाशार्था सवितानः विस्तारसहितः प्रकाशो ऽर्थो यस्याः सा । अत्र अर्थशब्देन धनादिकम् उच्यते यद्वा । अपरा सागरी सगराख्यराज्ञः सम्बन्धिनी श्रीरिव सेनाख्यश्रीरिव सा च वर्धितोर्मिहरिप्रेष्ठा अश्वारूढैः पुरुषैर् वर्धिता अभिवर्धिता ऊर्मिर् गतिविशेषो येषां ते च ते हरयो ऽश्वाश्च तेषां प्रेष्ठा । सुपयोधरसुस्वना उक्त एवार्थः । सवितानप्रकाशार्था सवितानं सविस्तारं यथा भवति तथा प्रकाशेन प्रादुर्भावेन अर्थः शत्रुभीषणाख्यं प्रयोजनं यस्याः । यद्वा अपरा सागरी सगरापत्यसम्बन्धिनी श्रीरिव सेनाख्यश्रीरिव । सापि वर्धितोर्म्याख्यगतिविशेषवन् मेध्याश्वस्य प्रेष्ठा । सुपयोधरसुस्वना उक्तोऽर्थः । वितानस्य यज्ञस्य प्रकाशः प्रकाशनं स एवार्थः प्रयोजनं तेन सहिता ‘क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके’ इत्यमरः पुनः का इव अपरा सागरी सागरस्य समुद्रस्य सम्बन्धिनी श्रीरिव कान्तिरिव । सापि वर्धितोर्मिहरिप्रेष्ठा वर्धिता अभिवर्धिता ऊर्मयस् तरङ्गा येन स चासौ हरिश् चन्द्रश्च तस्य प्रेष्ठा चन्द्रोदयेन समुद्रतरङ्गा अभिवर्धन्ते हि ‘भङ्गस्तरङ्ग ऊर्मिर्वा’ इत्यमरः । सुपयोधरसुस्वना पूर्व एवार्थः । सवितानप्रकाशार्था सविस्तरः प्रकाशः कान्तिर् येषां ते च ते अर्था रत्नाख्यवस्तूनि यस्याः सा तथोक्ता ‘अर्थोऽभिधेयरैवस्तु प्रयोजननिवृत्तिषु’ इत्यमरः ॥ ६ ॥

विश्वास-प्रस्तुतिः - ७

पद्मेशपदपद्मश्रित्कृत्याङ्गं पद्मजन्मनः ।
लालिता शिरसेशेन गङ्गेवाशेषपावनी ॥ ७ ॥

मूलम् - ७

पद्मेशपदपद्मश्रित्कृत्याङ्गं पद्मजन्मनः ।
लालिता शिरसेशेन गङ्गेवाशेषपावनी ॥ ७ ॥

पदार्थदीपिकोद्बोधिका

पुनः कथंभूता उपन्यासभारती इत्यत आह– पद्मेशेति ॥ पद्माया रमाया ईशः पद्येशस् तस्य पदं पादस् तदेव पद्मं तत् श्रयत इति पद्मेशपदपद्मश्रित् । गङ्गा च विष्णुपदाश्रिता । पद्मात् श्रीहरिनाभिपद्माज् जन्म यस्य स तथा तस्य विरिञ्चस्य कृत्यस्य व्यापारस्याङ्गं साधनं कृत्याङ्गं ब्रह्मपदप्राप्त्यनन्तरं तद्य्वापारं कर्तुमङ्गभूतेत्यर्थः । एतेन एतत् शास्त्रव्याख्यानं ब्रह्मपदप्राप्तेरपि हेतुर्भवति तद्योग्यस्येत्युक्तं भवति । गङ्गा च हरिचरणक्षालनात्मकव्यापाराङ्गभूता । ईशेन रुद्रेण शिरसा लालिता । भक्तिवशात् शिरसि बद्धा अपि नाश्रुतेति भावः । गङ्गापि साक्षात् शिवेन शिरसा धृता । एवं भूतोपन्यासभारती गङ्गेव अशेषपावनी अशेषं सुरनरनागादिसकलं जगत्पावयितुं शीलमस्या इति तथोक्ता । यद्वा एतादृशी उपन्यासभारती अशेषपावनी गङ्गेव तदाननाम्भोजान् निर्ययौ इत्यन्वयः॥७॥

मन्दोपाकारिणी

पद्मेशेति ॥ पुनः कथंभूता व्याख्यानभारती पद्मेशपदपद्मश्रित् पद्माया लक्ष्म्या ईशः पतिः ‘लक्ष्मीः पद्मालया पद्मा’ इत्यमरः, तस्य हरेः पदपद्मं पादारविन्दं श्रिद् आश्रिता विष्णूत्कर्षप्रतिपादिका इति भावः । पद्मजन्मनः पद्मात् कमलाज् जन्म उत्पत्तिर् यस्य तस्य चतुर्मुखस्य कृत्याङ्गं कृत्यस्य व्यापारस्य अङ्गम् उपायभूता ब्रह्मपदप्राप्त्यनन्तरं ब्रह्मव्यापारं कर्तुं साधनभूतेत्यर्थः । अनेन एतत् शास्त्रव्याख्यानं ब्रह्मपदयोग्यस्य तत्पदप्राप्तेरपि हेतुर् भवतीति उक्तं भवति । ईशेन रुद्रेण ‘शंभुरीशः पशुपतिः’ इत्यमरः, शिरसा लालिता भक्तिवशात् शिरसि बद्धाञ्जलिना रुद्रेण आदृता इति भावः । अशेषपावनी अशेषान् श्रीभाष्यश्रोतृजनान् पावयति पवित्रीकरोतीति । अशेषपावनी का इव गङ्गेव मन्दाकिनीव । गङ्गा च पद्मेशपदपद्मश्रिद् विष्णुपादमाश्रिता पद्मजन्मनःकृत्याङ्गं श्रीहरिचरणप्रक्षालनात्मकव्यापाराङ्गभूता, ईशेन शिरसा लालिता शिवेन शिरसा धृता अशेषपावनी अशेषान् दर्शनादिना पावयतीति तथोक्ता ॥ ७ ॥

विश्वास-प्रस्तुतिः - ८

नारायणोऽनन्तगुणो ब्रह्माख्यो वेदवेदितः ।
विश्वकर्तेति विश्वज्ञः श्रुत्या युक्त्याऽप्यसीषधत् ॥ ८ ॥

मूलम् - ८

नारायणोऽनन्तगुणो ब्रह्माख्यो वेदवेदितः ।
विश्वकर्तेति विश्वज्ञः श्रुत्या युक्त्याऽप्यसीषधत् ॥ ८ ॥

पदार्थदीपिकोद्बोधिका

किं तदुपन्यासप्रतिपाद्यमित्यत आह– नारायण इत्यादिना ॥ विश्वं सकलं जानातीति विश्वज्ञः श्रीपूर्णप्रज्ञाचार्यः नारायणः न विद्यन्ते अन्तः देशतः कालतः गुणतः सङ्ख्यातश्च परिच्छेद इति अनन्तास् तादृशा गुणा ज्ञानभक्तिबलैश्वर्य-वीर्यतेजःप्रभृतयः शुभधर्मा यस्य सो ऽनन्तगुणः ब्रह्मेत्याख्या नाम यस्य स तथोक्तः । परिपूर्णत्वान् मुख्यतो ब्रह्माख्येति वेदैः सर्ववेदैर् वेदित मुख्यतः प्रतिपादितः वेदवेदितः वेदैर् एव वेदितो न तु अनुमानादिना इति वा । विश्वस्य कर्ता विश्वकर्ता इति श्रुत्या वेदेन युक्तया अनुमानेन च असीषधद् असाधयत् । ‘राधसाध संसिद्धौ’ लुङ् । अनन्तगुणत्वं च– ‘यः पार्थिवानि विममे रजांसि । सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादिभिः । ब्रह्माख्यत्वं च– ‘सर्वेषु भूतेषु एवमेव ब्रह्मेत्याचक्षते’ एष पन्था एतत् कर्म एतद् ब्रह्म ‘एष उ एव ब्रह्म एष उ एव इत्यादिभिर् वेदवेदितत्वञ्च ‘तावा एता ऋचः सर्वे वेदाः सर्वे घोषा एक एव व्याहृतिः प्राणऋच इत्येव विद्यात् स एव सर्ववेदेड्य’ इत्यादिभिः । विश्वकर्तृत्वञ्च— ‘यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा, ‘न तं विदाथ य इमा जजान, आत्मा वा इदमेक अग्र आसीन्नान्यत्किञ्चन मिषत्, स ऐक्षत, लोकानसृजत इति स इमाल्लोका-नसृजत्’ इत्यादिभिः, असीषधत् ॥ ८ ॥

मन्दोपाकारिणी

किं तदुपन्यासवाक्यप्रतिपाद्यमित्यपेक्षायामाह ॥ नारायण इति ॥ विश्वज्ञः विश्वं सर्वं जानातीति विश्वज्ञः पूर्णप्रज्ञः । नारायणो ऽनन्तगुणः न विद्यते अन्तः कालतः गुणतः देशतः सङ्ख्यातश्च परिच्छेदः येषां तादृशा गुणा ज्ञानशक्ति-बलैश्वर्यवीर्यतेजःप्रभृतयः शुभधर्मा यस्य सो ऽनन्तगुणः । ब्रह्माख्यः ब्रह्मेति आख्या नाम यस्य स तथोक्तः परिपूर्णत्वान् मुख्यतः ब्रह्माख्य इति । वेदवेदितः वेदैर् वेदितः मुख्यतः प्रतिपादितः न तु अनुमानादिना इति वा । विश्वकर्ता विश्वस्य जगतः कर्ता सृष्ट्यादिकर्ता । इति एवं प्रकारेण श्रुत्या वेदेन युक्त्यापि अनुमानेन च असीषधत् साधयामास ‘साध संसिद्धौ इत्यतो णिजन्ताल्लुङ् परस्मैपदम्’ । अनन्तगुणत्वं च ‘परोमात्रया तन्वा वृधानः विष्णोर्नुकं वीर्याणि प्रवोचं’ ‘सत्यं ज्ञानम् अनन्तं ब्रह्म’ इत्यादिभिः । ब्रह्माख्यत्वञ्च ‘सर्वेषु भूतेषु एतमेव ब्रह्मेत्याचक्षते’ ‘एष पंथा एतत् कर्म एतद् ब्रह्मा’ इति ‘एष उ एव’ ‘ब्रह्म एष’ इत्यादिभिः । वेदवेदित्वञ्च ‘तावा एताः सर्वा ऋचः स एव सर्ववेद्यः’ इत्यादिभिः । विश्वकर्तृत्वञ्च ‘यो नः पिता जनिता यो विधाता’ ‘न तं विदाथ य इमा जजान’ ‘आत्मा वा इदमेक एव अग्र आसीत्’ इत्यादिभिर् असीषधत् ॥ ८ ॥

विश्वास-प्रस्तुतिः - ९

प्रधानमपराधीनं कारणं परिणामि यत् ।
पयोवदिति चेत् साध्यवैकल्यं स्यान्निदर्शने ॥ ९ ॥

मूलम् - ९

प्रधानमपराधीनं कारणं परिणामि यत् ।
पयोवदिति चेत् साध्यवैकल्यं स्यान्निदर्शने ॥ ९ ॥

भावप्रकाशिका

नारायण इत्यादिपद्योक्तस्यार्थस्य साधकः प्रधानमित्यादिप्रबन्धः । युक्तयेति पदस्य कृत्यरूपेण प्रधानमित्यादिना सांख्यानां मतमनूद्य दूष्यते । साध्यवैकल्यं पयसोऽपि विष्ण्वधीनत्वात् ‘न ऋतेत्वत्’ इत्यादिः ॥ ९ ॥

पदार्थदीपिकोद्बोधिका

अथ ‘प्रधानमपराधीनमि’त्यारभ्य विष्णुर् मोक्षस्य दाता इत्येतदन्तःप्रबन्धः नारायणो ऽनन्तगुण इत्याद्यर्थस्य प्रतिपादकः । यदुक्तं नारायणस्य अनन्तगुणत्वादिकं श्रुत्या युक्तया असीषधद् इति । तत्र नारायणस्य अखिलकर्तृत्वयुक्तयादेः प्रत्यर्थिभूतं साङ्ख्यमतम् अनूद्य दूषयति— प्रधानमित्यादिना ॥ प्रधानं प्रधानाख्यतत्त्वं परस्य अधीनं तन्त्रं पराधीनं तन् न भवति इति अपराधीनं स्वतन्त्रमित्यर्थः । कारणं यद्यस्मात् परिणामो विकारो ऽस्यास्तीति परिणामि तस्माद् विकारित्वादित्यर्थः । प्रधानं स्वतन्त्रकारणं परिणामित्वाद् यत्परिणामि तत्स्वतन्त्रकारणं पयोवत् क्षीरवत् । अत्र कारणत्वमात्रसाधने कुलालादौ सिद्धसाधनं तन्निवृत्यर्थं स्वतन्त्रमिति । यथा क्षीरम् अपराधीनमेव विकृत्या दधिभावं भजते एवं स्वतन्त्रमेव प्रधानं जगदाकारेण परिणमत इत्यभिप्रायः । चेद्यदि इति ब्रूयात् तर्हि निदर्शने दृष्टान्ते साध्यवैकल्यं साध्यराहित्यं स्याद् इति वक्तव्यमिति शेषः । स्वतन्त्रकारणत्वं हि साध्यं तत्तु दृष्टान्ते न विद्यते । ‘एतेन ह वाव पयोमण्डं भवति । ‘न ऋते त्वत्क्रियते किञ्चनारे, द्रव्यं कर्म च कालश्च स्वभावो जीव एव च’ इत्यादिना क्षीरदधिभावस्य विष्ण्वधीनत्वाङ्गीकारात् ॥ ९ ॥

**मन्दोपाकारिणी**

अथ प्रधानमपराधीनम् इत्यारभ्य विष्णुर् मोक्षादिदाता इति एतदन्तःप्रबन्धः नारायणोऽनन्तगुण इति अस्यार्थस्य प्रतिपादकः । तथा हि यदुक्तं नारायणस्य अनन्तगुणत्वादिकं श्रुत्या युक्त्यापि असीषधदिति तत्र नारायणस्य अखिलकर्तृत्वादेः प्रत्यर्थिभूतं निरीश्वरसाङ्ख्यमतम् अनूद्य दूषयति- प्रधानमित्यादिना ॥ यद् यस्मात् कारणात् प्रधानं प्रधानाख्यं तत्त्वं परिणामि परिणामः विकारो ऽस्यास्तीति परिणामि विकारि तस्माद् अपराधीनकारणं स्वतन्त्रकारणं किमिव पयोवत् क्षीरमिव ‘पयः पानीयदुग्धयोः’ इति भास्करः । ‘परिणामो विकारः स्यात् समे विकृतिविक्रिये’ इत्यमरः । अयमत्रानुमानप्रयोगप्रकारः - ‘प्रधानं स्वतन्त्रकारणं भवितुमर्हति कुतः परिणामित्वाद् यत्परिणामि तत् स्वतन्त्रकारणं पयोवत्’ इति । अत्र कारणत्वमात्रसाधने कुलालादौ सिद्धसाधनता स्यात् , अतः स्वतन्त्रमिति विशेषणम् । यथा क्षीरम् अनन्याधीनमेव विकृत्या दधिभावं लभते तथा स्वतन्त्रमेव प्रधानं जगदाकारेण परिणमते इति भावः ‘इति चेत् तर्हि निदर्शने दृष्टान्ते साध्यवैकल्यं साध्यस्य वैकल्यं राहित्यं स्यात् । अत्र प्रधानं पक्षः स्वतन्त्रकारणत्वं साध्यं परिणामित्वं हेतुः । दृष्टान्ते स्वतन्त्रकारणत्वरूपं साध्यं नास्ति । ‘एतेन ह वाव पयोमण्डं भवति’ ‘न ऋते त्वत्क्रियते किञ्चनारे’ ‘द्रव्यं कर्म च कालश्च’ इत्यादिना क्षीरदधिभावस्य विष्ण्वधीनत्वाङ्गीकारात् । एवं दृष्टान्तस्य साध्यवैकल्या-ख्यदोषापत्तिर् इति भावः ॥ ९ ॥

विश्वास-प्रस्तुतिः - १०

विवादाध्यासिता सृष्टिश्चेतनेच्छानुसारिणी ।
सृष्टित्वात् पटसृष्टिर्वेत्यनुमा पक्षसाधिका ॥ १० ॥

मूलम् - १०

विवादाध्यासिता सृष्टिश्चेतनेच्छानुसारिणी ।
सृष्टित्वात् पटसृष्टिर्वेत्यनुमा पक्षसाधिका ॥ १० ॥

पदार्थदीपिकोद्बोधिका

एवं परिणामित्वानुमानस्य दृष्टान्ते साध्यवैकल्योक्तया प्रतिपक्षे दूषितेऽपि स्वपक्षे साधकोपन्यासेन विना स्वसिद्धान्तप्रतिष्ठाया असिद्धत्वादुपन्यासः कर्तव्यस् तत्र सत्यप्यागमे अनुमानेन प्रत्यवतिष्ठमानं परं प्रति तदुपन्यास एव न्याय्य इत्यनुमानोप-न्यासमेव करोति- विवादेत्यादिना ॥ विवादं विप्रतिपत्तिविषयत्वम् अध्यासिता आरोपिता विवादाध्यासिता स्वतन्त्रजडाधीनेति चेतनाधीनेति च वादिप्रतिवादिविप्रतिपत्तिविषयीभूत इत्यर्थः । सृष्टिर् जगत्सृष्टिश् चेतनेच्छानुसारिणी चेतनेच्छाधीना सृष्टित्वात् पटसृष्टिवत् ।

‘वा विकल्पोपमानयोः’ इत्यमरः । इति एवम् अनुमा व्याप्त्यादिवदनुमा पक्षसाधिका अस्माकमिति शेषः ॥ १० ॥

**मन्दोपाकारिणी**

एवं परिणामित्वानुमानस्य दृष्टान्ते साध्यवैकल्योक्त्या परपक्षे दूषितेऽपि साधकप्रमाणोपन्यासेन विना स्वसिद्धान्तप्रतिष्ठाया दुर्लभत्वात् तदुपन्यासः कर्तव्यः, सत्यप्यागमेऽनुमानेन प्रत्यवतिष्ठमानं परं प्रति तदुपन्यास एवोचित इति अनुमानमेव उपन्यस्यति- विवादेत्यादिना ॥ विवादाध्यासिता चेतनाधीना वा जडाधीना वा इति विप्रतिपत्तिम् अध्यासिता आरूढा विमतिविषयेति यावत् , सृष्टिर् जगत्सृष्टिश् चेतनेच्छानुसारिणी चेतनस्य इच्छाया अनुसारिणी सृष्टित्वात् पटसृष्टिर्वा पटस्य सृष्टिवत् ‘इव यद्वा यथा शब्दा उपमानार्थवाचकाः’ इति दण्डी । इति एवं व्याप्त्यादिमती अनुमा अनुमानं पक्षसाधिका पक्षस्य अस्मत्सिद्धान्तस्य साधिका ॥ १० ॥

विश्वास-प्रस्तुतिः - ११

यच्चेतनाचेतनयोरङ्गाङ्गित्वादि मन्वते ।
सृष्टावीशानपेक्षायां तन्न शोभनतां व्रजेत् ॥ ११ ॥

मूलम् - ११

यच्चेतनाचेतनयोरङ्गाङ्गित्वादि मन्वते ।
सृष्टावीशानपेक्षायां तन्न शोभनतां व्रजेत् ॥ ११ ॥

भावप्रकाशिका

आदिशब्देनेश्वराङ्गीकारेऽपि तत्तदीश्यत्वेनाङ्गीकारश्चार्वाकस्य अचेतनव्यतिरिक्तचेतनाङ्गीकारश्च वेदितव्यः । ईशानपेक्षायामित्यादिनाऽर्थतोऽनीश्वरवादिनो भाट्टादयश्च निरस्यन्ते ॥ ११ ॥

पदार्थदीपिकोद्बोधिका

निरीश्वराः सेश्वरा इति द्विविधाः साङ्ख्याः । तत्र निरीश्वराः केचित् केवलादेव जडात् सृष्टिम् आचक्षते, केचिच् चेतनाचेतनयोर् अङ्गाङ्गिभावत्वम् आचक्षते । तत्र केवलाचेतनस्य स्रष्टृत्वं निराकृत्य चेतनाचेतनयोर् अङ्गाङ्गिभावेन स्रष्टृत्वं निराकरोति– यदित्यादिना ॥ सृष्टौ जगत्सृष्टिविषये चेतनो जीवः स च अचेतनः प्रधानं तयोर् यदङ्गमुपसर्जनम् अङ्गि मुख्यं तयोर्भावौ अङ्गाङ्गित्वे त आदिर् यस्य तदङ्गाङ्गित्वादि मन्वते अङ्गीकुर्वन्ति । चेतनाचेतनयोर् अङ्गाङ्गित्वं नाम चेतनस्य उपसर्जनत्वम् अचेतनस्य प्रधानत्वं यथा आम्लसंयोगात्परिणम्य दध्याख्यं कार्यम् उत्पादयदपि क्षीरम् आम्लसंयोगे यथा पुरुषव्यापारम् अपेक्षते । एवं कार्यम् उत्पादयदपि जडं प्रधानतत्त्वं चेतनानुग्रहम् अपेक्षत इति मन्वत इत्यर्थः । तदेवं तैरङ्गीकृतं प्रमेयम् ईशानपेक्षायां सत्यां शोभनतां विवेकिभिर् अङ्गीकारार्हतां न व्रजेत् । तथा हि, चेतनाचेतनयोर् अन्योन्यं संसृष्टयोरेव ह्यङ्गाङ्गिभावेन कर्तृत्वं वक्तव्यं तत्रान्योन्यसंसर्गाख्यम् आदिकार्यं चेतनापेक्षं, जडमेव न उत्पादयेत् केवलाचेतनस्य कार्यानुत्पादकत्वाङ्गीकाराद् अन्यथा कार्यान्तरेऽपि तत्प्रसङ्गात् । एवं चेतनस्याप्यचेतनानुग्रहापेक्षायाम् अन्योन्याश्रयप्रसङ्गात् । तस्माच् चेतनाचेतननियामक-स्वतन्त्रेश्वराङ्गीकारे तयोर् अन्योन्यप्रत्यासत्तेरेव असम्भवान् निरीश्वरसाङ्ख्यमतम् अशोभनम् । अङ्गाङ्गित्वादि इत्यत्र आदिशब्देन अचेतनव्यतिरिक्तचेतनम् अनङ्गीकुर्वतो भूतचतुष्टयारब्धं सर्वं कार्यम् अभ्युपगच्छतश् चार्वाकस्य मतमपि अशोभनम् इत्युक्तं भवति । तेनैव आदिशब्देन ईश्वरमभ्युपगच्छतामपि सेश्वरसांख्यादीनामप्यशोभनम् इति च वेदितव्यम् ॥ ११ ॥

मन्दोपाकारिणी

साङ्ख्या द्विविधा निरीश्वराः सेश्वरा इति । तत्र निरीश्वराः केचित् केवलादेव जडात् सृष्टिमाचक्षते । केचिच् चेतनाचेतनयोर् अङ्गाङ्गिभावेन स्रष्ट्टत्वम् आचक्षते । तत्र केवलाचेतनस्य स्रष्ट्टत्वं निराकृत्य चेतनाचेतनयोर् अङ्गाङ्गिभावेन स्रष्ट्टत्वं निराकरोति यदित्यादिना ॥ चेतनाचेतनयोर् अङ्गाङ्गित्वादिनाम चेतनस्य अङ्गत्वम् उपसर्जनत्वम् अप्रधानत्त्वम् अचेतनस्य अङ्गित्वं प्रधानत्वम् । यथा आम्लसंयोगात् परिणामि दध्याख्यं कार्यम् उत्पादयदपि अचेतनं क्षीरम् आम्लसंयोगे चेतनपुरुषव्यापारमपेक्षते । एवं सर्वकार्ये उत्पादयदपि जडं चेतनानुग्रहम् अपेक्षते । एवं सति सृष्टौ जगत्सृष्टिविषये चेतनाचेतनयोश् चेतनं जीवाश्च अचेतनं प्रधानं च तयोर् यद् अङ्गाङ्गित्वादि अङ्गम् उपसर्जनम् अङ्गित्वं मुख्यत्वं तयोर्भावो ऽङ्गाङ्गित्वं तदेव आदि यस्य तद् अङ्गाङ्गित्वादि मन्वते अङ्गीकुर्वन्ति । ‘मनु अवबोधने इत्यतो लट् आत्मनेपदं मनुते मन्वाते मन्वते’ । तद् ईशानपेक्षायाम् ईशस्य ईश्वरस्य अनपेक्षायां सत्याम् अपेक्षाभावे सति स्वतन्त्रेश्वरस्य अनङ्गीकारे इत्यर्थः । शोभनतां विवेकिभिर् अङ्गीकारार्हतं न व्रजेन् न प्राप्नुयात् । तथा हि, चेतनाचेतनयोर् अन्योन्यं संसृष्टयोर् एव हि अङ्गाङ्गिभावेन कर्तृत्वं वक्तव्यम् । तयोर् अन्योन्यसंसर्गाख्यम् आदिकार्यं चेतनानपेक्षं, केवलं जडमेव नोत्पादयेत् केवलाचेतनस्य कार्यानुत्पादकत्वाङ्गीकारात् , अन्यथा कार्यान्तरेऽपि तत्प्रसङ्गः । एवं चेतनेऽपि अचेतनानुग्रहापेक्षायाम् अन्योन्याश्रयप्रसङ्गः । तस्माच् चेतनाचेतननियामकस्वतन्त्रेश्वरानङ्गी-कारे तयोर् अन्योन्यप्रत्यासत्तेरेव असम्भवात् साङ्ख्यमतम् अशोभनम् । अङ्गाङ्गित्वादीत्यत्र आदिशब्देन चेतनव्यतिरिक्ताचेतनम् अङ्गीकुर्वतः सर्वं कार्यं पृथिव्यादिभूतचतुष्टयारब्धम् इति प्रतिपादयतश् चार्वाकस्य मतमपि अशोभनमेव इत्युक्तं भवति । तेनैव आदिशब्देनेश्वर-मुपगच्छतामपि सेश्वरसाङ्ख्यानां मतम् अशोभनम् इति वेदितव्यम् । तदङ्गीकृतेश्वरस्य सर्वकर्तृत्वसर्वज्ञत्वाद्यभावाद् इति भावः । तच्च न विश्वकृत् पशुपतिरित्यादिना वक्ष्यते । ईशानपेक्षायाम् इत्यनेन निरीश्वरभाट्टप्राभाकरादिमतमपि अशोभनमित्युक्तं भवति ॥ ११ ॥

विश्वास-प्रस्तुतिः - १२

सर्वविन्निर्मितं सर्वं कादाचित्कत्वहेतुतः ।
न यदेवं नो तदेवं यथात्मेतीश्वरानुमा ॥ १२ ॥

मूलम् - १२

सर्वविन्निर्मितं सर्वं कादाचित्कत्वहेतुतः ।
न यदेवं नो तदेवं यथात्मेतीश्वरानुमा ॥ १२ ॥

पदार्थदीपिकोद्बोधिका

ननु ईश्वरसिद्धौ प्रमाणाभावात् कथं तदङ्गीकारो युक्तः । वेदः प्रमाणं तत्सद्भाव इति चेन्न । तदप्रामाण्यवादिनं प्रति तेन तत्साधनायोगात् । नापि प्रत्यक्षमत्र प्रमाणम् । तस्य अतीन्द्रियत्वाङ्गीकारात् । न च अनुमानं मानं सर्वज्ञेश्वरान्त-राभावेन निदर्शनाभावात् । अत एव अप्रसिद्धविशेषणत्वम् । तस्माद् ईश्वरस्य अप्रामाणिकत्वाच्च कथम् अनीश्वरमतम् अशोभनं स्याद् इत्याशङ्क्य नायं दोषः केवलव्यतिरेक्यनुमानेन ईश्वरसिद्धेरित्याह– ॥ सर्वविदित्यादिना ॥ सर्वं समस्तकार्यजातं सर्वविन्निर्मितं सर्वज्ञेन निर्मितं कदाचिद् विद्यमानं कादाचित्कं तस्य भावः कादाचित्कत्वं तदेव हेतुस् तस्मादिति ततः कादाचित्कत्वाद् अभूत्वाभावित्वादित्यर्थः । यद्वस्तु सर्वविन्निर्मितं न भवति तत् कादाचित्कमपि न भवति यथा आत्मा इत्येवम् ईश्वरानुमा अस्मत्पक्ष ईश्वरसाधकानुमानम् अस्तीति शेषः ॥ १२ ॥

**मन्दोपाकारिणी**

नन्वीश्वरसद्भावे प्रमाणाभावात् कथम् ईश्वराङ्गीकारो युक्तः । वेदाः प्रमाणम् ईश्वरसद्भावे इति चेन्न । वेदाप्रामाण्यवादिनं प्रति वेदेन ईश्वरसाधनायोगात् । नापि प्रत्यक्षम् अत्र प्रमाणं, ईश्वरस्य अतीन्द्रियत्वाङ्गीकारात् । नाप्यनुमानं सर्वेश्वरान्तराभावेन दृष्टान्ताभावात् । अत एव अप्रसिद्धविशेषणत्वात् तस्माद् ईश्वरस्य अप्रामाणिकत्वाच्च कथम् अनीश्वरमतम् अशोभनमित्याशङ्क्य, नायं दोषः केवलव्यतिरेक्यनुमानेनैव ईश्वरसिद्धेर् इत्याह- सर्वविदिति ॥ सर्वं समस्तकार्यजातं सर्वविन्निर्मितं सर्वं वेत्तीति सर्ववित् तेन सर्वज्ञेन ईश्वरेण निर्मितम् उत्पादितं, कादाचित्कत्वहेतुतः कदाचिद् विद्यमानं कादाचित्कं तस्य भावः कादाचित्कत्वं तदेव हेतुस् तस्मादिति ततः कादाचित्कत्वरूपहेतोर् अभूत्वा-भावित्वादित्यर्थः । यद् यद्वस्तु एवं सर्वविन्निर्मितं न न भवति तद् एवं कादाचित्कमपि नो न भवति, यथा आत्मा जीवः । इति एवम् ईश्वरानुमा अस्मत्पक्षे ईश्वरस्य साधिका अनुमा अनुमानम् अस्तीति अध्याहारः ॥ १२ ॥

विश्वास-प्रस्तुतिः - १३

बलाय सर्वानुमानां वेदाः स्युर्यैरपालिताः ।
कामादेताः प्रवर्तन्ते कामिन्य इव भर्तृभिः ॥ १३ ॥

मूलम् - १३

बलाय सर्वानुमानां वेदाः स्युर्यैरपालिताः ।
कामादेताः प्रवर्तन्ते कामिन्य इव भर्तृभिः ॥ १३ ॥

पदार्थदीपिकोद्बोधिका

यदुक्तं वेदप्रामाण्याभावान् न तेन ईश्वरसिद्धिरिति तदभ्युपगम्य केवलव्यतिरेक्यनुमानम् ईश्वरसिद्धौ प्रमाणमित्यभिधाय इदानीं प्रामाण्य-मनङ्गीकृत्य केवलानुमानेन अभिलषितप्रमेयसिद्ध्यङ्गीकारे अतिप्रसङ्गः स्यादित्याह— बलायेत्यादिना ॥ वेदाः सर्वानुमानां समस्तानुमानानां बलाय प्राबल्याय स्युर् भवेयुर् वेदानुकूल्ये सत्येव अनुमानेन अतीन्द्रियधर्मादितत्तदभिलषितप्रमेयसिद्धिर्भवति नान्यथेत्यर्थः । कुत इत्यत आह— यैरिति ॥ यैर्वेदैर् अपालिता अननुगृहीता एता अनुमा कामात् तत्तद्वादिनाम् इच्छानुसारात् कामिन्यः स्वैरिण्यः स्वाभिलषितभर्तृभिरिव प्रवर्तन्ते । अयं भावः । स्वस्वभर्तृभिर् अनियताः स्वैरिण्यो यथा स्वाभिलषितकामिभिः सह वर्तन्त एवं वेदैरनियता अनुमा अपि तत्तद्वादिनाम् इच्छानुसारेण प्रवर्तन्ते । तस्माद् वेदसाहाय्य-व्यरहितानां तासां न प्रामाण्यमिति । तथा च उक्तं ‘श्रुतिसाहाय्यरहितम् अनुमानं न कुत्रचित् । निश्चयात् साधयेदर्थं प्रमाणान्तरमेव च’ इति । तस्माद् वेदप्रामाण्यम् अवश्यमङ्गीकार्यमेव इति वेद एव ईश्वरसिद्धौ प्रमाणमिति ॥ १३ ॥

**मन्दोपाकारिणी**

यदुक्तं वेदप्रामाण्याभावान् न तेन ईश्वरसिद्धिरिति तदभ्युपगमेन ईश्वरसिद्धौ केवलव्यतिरेक्यनुमानं प्रमाणमित्यभिधाय इदानीं वेदप्रामाण्यम् अङ्गीकृत्य केवलानुमानमात्रेण अभिलषितप्रमेयसिद्ध्यङ्गीकारेऽतिप्रसङ्गः स्याद् इत्याह- बलायेति ॥ वेदाः सर्वानुमानां बलाय प्राबल्याय स्युर् वेदानुकूल्ये सत्येव अनुमानेन अतीन्द्रिय-धर्मादितत्तदभिलषितप्रमेयसिद्धिर्भवति नान्यथा इत्यर्थः । कुतः वेदैर् अपालिता अननुगृहीता एता अनुमाः कामात् तत्तद्वादिप्रतिवादिनाम् इच्छानुसारेण प्रवर्तन्ते । का इव भर्तृभिः स्वस्वपतिभिर् अपालिता अनियमिताः कामिन्यः स्त्रिय इव । अयं भावः स्वस्वभर्तृभिर् अनियमिताः स्वैरिण्यो यथा स्वस्वाभीष्टकामिभिः प्रवर्तन्ते एवं वेदैर् अननुगृहीता अनुमा अपि तत्तद्वादिनाम् इच्छानुसारेण प्रवर्तन्ते । तस्माद् वेदसहाय्यरहितानाम् अनुमानाम् अप्रामाण्यमिति । तच्चोक्तं ‘श्रुतिसाहाय्यरहितम् अनुमानं न कुत्रचि’दिति । तस्माद् वेदप्रामाण्यम् अङ्गीकर्तव्यमेव इति वैदिकेश्वरसद्भावे प्रमाणमिति भावः ॥ १३ ॥

विश्वास-प्रस्तुतिः - १४

कारणं परिणामि स्याद् ब्रह्म नो चेतनत्वतः ।
न यदित्थं नो तदित्थं यथा क्षीरपुरस्सरम् ॥ १४ ॥

मूलम् - १४

कारणं परिणामि स्याद् ब्रह्म नो चेतनत्वतः ।
न यदित्थं नो तदित्थं यथा क्षीरपुरस्सरम् ॥ १४ ॥

भावप्रकाशिका

कारणमित्यादिना भास्करादयः ॥ १४ ॥

पदार्थदीपिकोद्बोधिका

भास्करादयः केचिद्वादिनो ब्रह्मैव जगदाकारेण परिणमत इति वर्णयन्ति तन्मतम् अपाकरोति— कारणमिति ॥ ब्रह्म परिणामो विकारोऽस्यास्तीति परिणामि कारणं न स्यात् परिणामित्वेन कारणं न भवितुम् अर्हतीत्यर्थः । कुत इत्यत आह— चेतनत्वत इति । चेतनत्वतश् चेतनत्वात् । यद्वस्तु इत्थं परिणामिकारणं न भवतीति न तद्वस्तु इत्थं चेतनमिति नो न भवति । क्षीरं पुरस्सरम् आदिर् यस्य तत्क्षीर-पुरस्सरं वस्तु यथा । इत्थमत्र प्रयोगः । ब्रह्म परिणामिकारणं न भवति चेतनत्वाद् यत् परिणामिकारणं तद् अचेतनं यथा क्षीरादिकं, न तथा च इदम् अचेतनं तस्मान् न परिणामिकारणमिति । अत्र ब्रह्म कारणं न भवति इत्युक्ते ब्रह्मणः सर्वकारणत्वा-भ्युपगमविरोधः स्यात्, तस्मात् परिणामिकारणं न भवतीति साध्यनिर्देशः कृतः ॥ १४ ॥

**मन्दोपाकारिणी**

भास्करादयः केचन वादिनो ब्रह्मैव जगदाकारेण परिणमते इति वर्णयन्ति । तन्मतमपाकरोति- कारणमित्यादिना ॥ ब्रह्म परिणामि विकारि कारणं नो स्यात् परिणामित्वेन कारणं भवितुं नार्हति । कुतश् चेतनत्वतश् चेतनत्वात् । यद् वस्तु इत्थं परिणामिकारणं न भवतीति न तद् वस्तु इत्थं चेतनमिति नो न भवति क्षीरपुरस्सरं दुग्धादि यथा । इत्थमत्र प्रयोगः ‘ब्रह्म परिणामिकारणं न भवति चेतनत्वाद् यत्परिणामिकारणं तदचेतनं यथा क्षीरादिकं, न तथा च इदम् अचेतनं तस्मात् परिणामिकारणं न भवति’ । इति तत्र ब्रह्म कारणं न भवतीत्युक्ते ब्रह्मणः सर्वकारण-त्वाभ्युपगमविरोधस् तस्मात् परिणामीति साध्यविशेषणप्रक्षेपः ॥ १४ ॥

विश्वास-प्रस्तुतिः - १५

न विश्वकृत् पशुपतिः श्रूयमाणागुणत्वतः ।
चैत्रवत्किं पुनर्विघ्नब्रध्नाद्या बालशङ्किताः ॥ १५ ॥

मूलम् - १५

न विश्वकृत् पशुपतिः श्रूयमाणागुणत्वतः ।
चैत्रवत्किं पुनर्विघ्नब्रध्नाद्या बालशङ्किताः ॥ १५ ॥

पदार्थदीपिकोद्बोधिका

यदुक्तं ब्रह्माख्यो नारायणो विश्वकर्तेति तदयुक्तम् । पशुपतिगणपतिस्कन्दसूर्यादीनाम् एव विश्वकर्तृत्वप्रतिपादकतत्तदागमनिरुद्धत्वादित्याशङ्क्य परिहरति— न विश्वकृदित्यादिना ॥ पशूनां प्रजानां पतिः पशुपती रुद्रः विश्वकृत् सर्वकर्ता न भवति । कुत इत्यत आह- श्रूयमाणागुणत्वतः श्रूयमाणाः ‘सोऽरोदीद्यद-रोदीत्तद्रुद्रस्य रुद्रत्वं, ‘यं कामये तं तमुग्रं कृणोमि’ इत्यादि वेदवाक्येषु प्रतिपाद्यमाना अगुणा दुःखित्वपारतन्त्र्यादिदोषास् तद्वत्त्वेन । क इव चैत्रवद् विश्वकर्तृत्वं दुर्घटम् । किं वक्तव्यम् । विघ्नेशादीनामिति भावेनाह- किं पुनरिति । बालैरविवेकिभिः शङ्किता जगत्कर्तृत्वेन शङ्किता विवेकं विना बाहुल्येन आपाततः प्रतीत्यनुसारेण श्रुत्यर्थं निश्चयं कुर्वद्भिस् तत्तद्वादिभिः सर्वकर्तृत्वादिगुणवत्वेन अनिश्चिता इत्यर्थः । विघ्नो विनायकः ब्रध्नः सूर्यस्तावाद्यौ येषां स्कन्दादीनां ते तथोक्ता देवाः किं पुनर्विश्वकर्तृत्वादिगुणवन्तो न भवन्तीति वक्तव्यम् । अनेन यदुक्तं नारायणस्य सर्वकर्तृत्वं पाशुपताद्यागमविरुद्धमिति तदयुक्तं, श्रुतिप्रसिद्धदुःखित्वपारतन्त्र्यादिदोषयुक्तपशुपत्यादीनामेव स्वातन्त्र्येण विश्वकर्तृत्व-प्रतिपादक पाशुपताद्यागमानां दोषशङ्काकलङ्करहितश्रुतिविरोधेन अप्रामाण्यमित्युक्तं

भवति ॥ १५ ॥

**मन्दोपाकारिणी**

यदुक्तं ब्रह्माख्यो नारायणो विश्वकर्ता इति तदयुक्तं पशुपतिगणपतिस्कन्दसूर्यादीनाम् एव विश्वकर्तृत्वप्रतिपादकतत्तदागमविरुद्धत्वादित्याशङ्क्य परिहरति ॥ न विश्वकृदिति ॥ पशुपतिः रुद्रः ‘शंभुरीशः पशुपतिः’ इत्यमरः, विश्वकृद् विश्वस्य समस्तकार्यजातस्य कृत् कर्ता न । कुतः श्रूयमाणागुणत्वतः ‘सोऽरोदीद्य-दरोदीद्रुद्रस्य रुद्रत्वं’ ‘यं कामये तं तमुग्रं कृणोमि’ इत्यादिवेदवाक्येषु श्रूयमाणा अगुणा गुणविरुद्धा दोषा दुःखित्वपारतन्त्र्यादयः यस्य सस् तस्य भावस् तत्वं तस्माद् इति ततः श्रूयमाणदोषत्वाद् इत्यर्थः । क इव चैत्रवत् । यदा एवं पशुपतेरपि दुःखपारतन्त्र्यादि-दोषवत्वेन विश्वकर्तृत्वं दुर्घटं तदा किमुत वक्तव्यं विघ्नेशादीनाम् इति भावेनाह ॥ किं पुन इति ॥ बालशङ्किता बालैर् अविवेकिभिर् विवेकं विना बाहुल्येन आपाततः स्वप्रीत्यनुसारेण श्रुत्याद्यर्थनिश्चयं कुर्वद्भिर् इत्यर्थः । ‘मूर्खेऽर्भकेऽपि बालः स्यात्’ इत्यमरः । शङ्कितास् तत्तद्वादिभिः सर्वकर्तृत्वादिगुणवत्वेन समर्थितास् तथात्वम् अनिश्चिताश्च इत्यर्थः । विघ्नब्रध्नाद्या विघ्नः विनायकः ब्रध्नः सूर्यः विघ्नब्रध्नौ आद्यौ येषां ते विघ्नब्रध्नाद्याः स्कंदादयः । किं पुनः विश्वकर्तृत्वादिगुणवन्तो न भवन्तीति किं वक्तव्यं ‘भास्कराहस्कर-ब्रध्नाः’ इत्यमरः । नारायणस्य सर्वकर्तृत्वं पाशुपताद्यागमविरुद्धमिति यदुक्तं तदयुक्तम् । श्रुतिप्रसिद्धपारतन्त्र्यादिदोषवतः पशुपत्यादेः स्वातन्त्र्येण विश्वकर्तृत्वप्रतिपादकपाशुपता-द्यागमानां दोषशङ्काकलङ्करहितश्रुतिविरोधेन अप्रामाण्यादिति उक्तं भवति ॥ १५ ॥

विश्वास-प्रस्तुतिः - १६

ननु सौख्यादिमान् नेशो दुःखादिरहितत्वतः ।
यो नैवं स्यात् स नैवं स्याद्यथा संसृतिमानिति ॥ १६ ॥

मूलम् - १६

ननु सौख्यादिमान् नेशो दुःखादिरहितत्वतः ।
यो नैवं स्यात् स नैवं स्याद्यथा संसृतिमानिति ॥ १६ ॥

भावप्रकाशिका

नन्वित्यादिता वैशेषिकादयः । ‘सौख्यादिमान्’ इत्यादिशब्देन क्रिया ग्राह्या ‘दुःखादि’ इत्यानेनारतिः ॥ १६ ॥

पदार्थदीपिकोद्बोधिका

यदुक्तं नारायणोऽनन्तगुण इति नारायणस्य सुखाद्य-नन्तगुणत्वं तदसहमाना वैशेषिकाः प्रत्यवतिष्ठन्त इति भावेन तावत् तन्मतम् अनुवदति— नन्वित्यादिना ॥ नन्वित्याक्षेपे ईशः भवद्भिः सौख्याद्यनन्तगुणत्वेन अङ्गीकृतो नारायणाख्य ईशः सुखमेव सौख्यं तदादिर् येषां ते सौख्यादयस्त अस्य सन्तीति सौख्यादिमान् सुखादिविशिष्ट इत्यर्थः । न, न भवति दुःखादिरहितत्वतः दुःखम् आदिर् येषां ते दुःखादयस् तैः रहितस् तस्य भावस् तत्वं तस्मादिति ततः, दुःखादिरहितत्वाद् इत्यर्थः । य एवं न स्यात् सौख्यादिरहितो न स्यात् स एवं न स्याद् दुःखादिरहितो न स्यात् संसृतिमान् संसारवान् यथा तथा इत्यर्थः । विमत ईश्वरः सुखादिरहितः दुःखादिरहितत्वात् , यः सुखादिरहितो न भवति स दुःखादिरहितो न भवति यथा संसारी, न च अयं दुःखादिमान् तस्मान् न सुखादिमान् इत्यापादनं वा । सौख्यादीत्य-त्रादिशब्देन क्रियादयो गृह्यन्ते । दुःखादीत्यत्र च आदिशब्देन अज्ञानादयो गृह्यन्ते इत्यनुमानविरुद्धत्वान् नारायणस्य सौख्याद्यनन्तगुणवत्वं न युज्यत इति भावः ॥ १६ ॥

**मन्दोपाकारिणी**

यदुक्तं नारायणोऽनन्तगुण इति सुखाद्यनन्तगुणवत्वमसहमाना वैशेषिकादयः प्रत्यवतिष्ठन्तीति भावेन तावत् तन्मतम् अनुवदति- ननु इत्यादिना ॥ ननु इत्याक्षेपः । ईशः सौख्याद्यनन्तगुणवत्वेन अङ्गीकृतो नारायणाख्यः सौख्यादिमान् सौख्यं सुखमेव आदि येषां ते सौख्यादयो गुणास् ते अस्य सन्तीति सौख्यादिमान् सुखाद्यनन्त-गुणविशिष्ट इत्यर्थः । न न भवति दुःखादिरहितत्वतः दुःखाज्ञानादिरहितत्वाद् यः पुरुष एवं सौख्यादिरहितः न स्यात् स एवं दुःखादिरहितः न स्याद् यथा संसृतिमान् संसारी यथेत्यर्थः । अयमत्र प्रयोगः ‘विमत ईश्वरः सुखादिरहितः दुःखदिरहितत्वाद् यः सुखादिरहितो न भवति स दुःखादिरहितो न भवति यथा संसारी चेतनः, न च अयं सुखादिरहितस् तस्माद् दुःखादिरहितो न भवति’ इति । अथवा ‘यदि ईशः सौख्यादिमान् स्यात् तर्हि दुःखादिमानपि स्याद् यथा संसारी, न च अयं दुःखादिमान् तस्मान् न सुखादिमान्’ इत्यापादनं वा इति हेतोर् अनुमानविरुद्धत्वान् नारायणस्य सौख्याद्यनन्त-गुणवत्वं न युक्तम् इति आक्षेपः ॥ १६ ॥

विश्वास-प्रस्तुतिः - १७

एवं चेद्विमतो ज्ञानी न भ्रान्तिरहितत्वतः ।
य एवं नो स एवं नो भवीवेत्यनुमीयते ॥ १७ ॥

मूलम् - १७

एवं चेद्विमतो ज्ञानी न भ्रान्तिरहितत्वतः ।
य एवं नो स एवं नो भवीवेत्यनुमीयते ॥ १७ ॥

पदार्थदीपिकोद्बोधिका

इति परोक्तानुमानं प्रत्यनुमानेन दूषयति— एवञ्चेदि-त्यादिना ॥ एवं चेद् दुःखादिरहितत्वानुमानस्य पक्षधर्मताबलाद् अनेन अनुमानेन ईश्वरस्य श्रुत्यादिसिद्धमपि सुखादिमत्त्वं निवार्यते चेद् वयमपि पक्षधर्मादिमता केवलानुमानेन तत्तद्वादिभिः सर्वज्ञतया अङ्गीकृतस्येश्वरस्य ज्ञानित्वमात्रमपि दुर्घटमिति साधयाम इति भावः । विमतः वादिप्रतिवादिनोः सर्वज्ञत्वासर्वज्ञत्वाभ्यां विप्रतिपत्तिविषय ईश्वरः ज्ञानम् अस्यास्तीति ज्ञानी न भवति भ्रान्तिरहितत्वतः भ्रान्त्या भ्रमज्ञानेन रहितस्तस्य भावस् तत्त्वं तस्माद् भ्रान्तिज्ञानशून्यत्वादिति भावः । य एवं न स्याज् ज्ञानरहितो न स्यात् स एवं न स्याद् भ्रान्तिज्ञानशून्योऽपि न स्यात् । भवः संसारोऽस्यास्तीति भवी स इव संसारी यथेत्यर्थः । इत्यनुमीयते अस्माभिरिति शेषः । श्रुतिसिद्धमपि ईश्वरस्य सुखादिमत्वं केवलानुमानेन निवार्यते चेत् तादृशानुमानेन ईश्वरस्य ज्ञानमात्रशून्यत्वमपि साधयितुं शक्यत इत्यभिप्रायः ॥ १७ ॥

**मन्दोपाकारिणी**

एवं परोक्षानुमानं प्रत्यक्षानुमानेन दूषयति- ॥ एवं चेदिति ॥ एवं चेद् दुःखादिरहितत्वानुमानेन ईश्वरस्य सुखादिमत्वं निवार्यते चेत् तर्हि विमतः सर्वज्ञत्वासर्वज्ञत्वाभ्यां विप्रतिपत्तिविषयः ज्ञानी ज्ञानवान् न न भवति कुतः भ्रान्ति-रहितत्वतः भ्रान्त्या विपरीतज्ञानेन शून्यत्वात् । य एवं ज्ञानरहितः नो न भवति स एवं भ्रान्तिशून्योऽपि नो न भवति भवीव भवः संसारो ऽस्यास्तीति भवी संसारीव इति ईश्वरस्य अज्ञत्वम् अस्माभिर् अनुमीयते । यदि ईश्वरस्य सुखाभावः साध्यते तर्हि ज्ञानाभावोऽपि मया साध्यते अविशेषाद् इत्याशयः ॥ १७ ॥

विश्वास-प्रस्तुतिः - १८

सर्वज्ञस्याज्ञतां वेदः श्रद्धेयो निरुणद्धि चेत् ।
तस्यैवामन्दमानन्दं वदन्नाश्राव्यसौ कथम् ॥ १८ ॥

मूलम् - १८

सर्वज्ञस्याज्ञतां वेदः श्रद्धेयो निरुणद्धि चेत् ।
तस्यैवामन्दमानन्दं वदन्नाश्राव्यसौ कथम् ॥ १८ ॥

भावप्रकाशिका

‘यः सर्वज्ञः सर्ववित्’ ‘आनन्दं ब्रह्मण’ इत्यादिर्वेदः ॥ १८ ॥

पदार्थदीपिकोद्बोधिका

नन्वेवं केवलानुमानेन ईश्वराज्ञत्वसाधनमयुक्तम् । ‘यः सर्वज्ञः सर्ववित्’ इतीश्वरस्य सर्वज्ञत्वप्रतिपादकवेदविरुद्धत्वात् । वेदस्य प्रमाणतमत्वञ्च भवद्भिरपि अङ्गीकृतमेव । तथा च भ्रान्तिरहितत्वहेतुः कालात्ययापदिष्ट इत्याशङ्क्य एवं चेद् दुःखादिरहितत्वहेतुरपि कालात्ययापदिष्टः स्यादिति भावेन परानुमानमपि प्रतिबन्द्या प्रतिक्षिपति— सर्वज्ञस्येत्यादिना ॥ श्रद्धेयः प्रमाणत्वेन आदरणीयो वेद ईश्वरस्य सार्वज्ञ्य-प्रतिपादकः । ‘यः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः’ इत्यादिवेदः सर्वज्ञस्य वेदेन सर्वज्ञ-त्वेनावधारितेश्वरस्य अज्ञतां चेद्यदि रुणद्धि निवारयति तर्हि तस्यैव ‘यः सर्वज्ञ’ इति श्रुति-विषयस्यैव ईश्वरस्य अमन्दं परिपूर्णम् आनन्दं वदन् असौ ‘आनन्दं ब्रह्मणो विद्वान्, न बिभेति कुतश्चन, ‘आनन्दो ब्रह्मेति व्यजानात्, को ह्येवान्यात्कः प्राण्याद् यदेष आकाश आनन्दो न स्यात्’ इति वेदः कथं केन प्रकारेण नाश्रावि त्वया न श्रुतः । यदि यः

सर्वज्ञ इत्यादिश्रुतिबलेन त्वयेश्वरस्याज्ञत्वं निवार्यते तर्हि आनन्दं ब्रह्मणो विद्वान्

इत्यादेरपि श्रुतित्वाविशेषात् तयैव श्रुत्या प्रमितम् ईश्वरस्य सुखित्वमपि न निराकर्तुम् उचितमिति भावः ॥ १८ ॥

**मन्दोपाकारिणी**

ननु केवलानुमानेन ईश्वरस्य अज्ञत्वसाधनं न युज्यते ‘यः सर्वज्ञः स सर्ववित्’ इत्यादि ईश्वरसर्वज्ञत्वप्रतिपादकवेदवाक्यविरुद्धत्वात् । वेदवाक्यप्रामाण्यन्तु भवद्भिर् अङ्गीकृतमेव । तथा च भ्रान्तिरहितत्वहेतुर् बाधित इत्याशङ्क्य तर्हि दुःखादिरहित-त्वहेतुरपि बाधित एवेति भावेन परानुमानमपि प्रतिक्षिपति ॥ सर्वज्ञस्येति ॥ श्रद्धेयः प्रमाणत्वेन आदरणीयः वेद ईश्वरस्य सर्वज्ञत्वप्रतिपादकः ‘यः सर्वज्ञः स सर्ववित्’ इत्यादिरूपो वेदः सर्वज्ञस्य सर्वज्ञत्वेन अवधारितस्य ईश्वरस्य अज्ञताम् अज्ञानित्वं निरुणाद्धि निवारयति चेत् तर्हि तस्यैव यः सर्वज्ञ इत्यादिश्रुतिविषयस्यैव ईश्वरस्य अमन्दं परिपूर्णम् आनन्दं सुखं वदन् प्रतिपादको ऽसौ ‘आनन्दं ब्रह्मणो विद्वान्’ इत्यादिवेदः कथं त्वया नाश्रावि न श्रुतः । यदि ‘यः सर्वज्ञ’ इत्यादिश्रुतिबलेन त्वया ईश्वराज्ञत्वं निवार्यते तर्हि आनन्दं ब्रह्मणो विद्वान् इत्यादेरपि श्रुतित्वाविशेषात् तयैव श्रुत्या प्रतीतम् ईश्वरस्य सुखित्वमपि न निराकर्तुमुचितमिति भावः । ‘रुधिर् आवरणे इत्यस्माद् लट् परस्मैपदं रुणद्धि रुन्धः रुन्धन्ति’ ‘श्रु श्रवणे इत्यस्मात् कर्मणि लुङ् आत्मनेपदम् अश्रावि अश्राविषाताम् अश्राविषत’ ॥ १८ ॥

विश्वास-प्रस्तुतिः - १९

दुःखं परिजिहीर्षन् यः सुखं नाङ्गीचिकीर्षति ।
स हन्तापतितं दुःखमीशस्य व्यस्मरज्जडः ॥ १९ ॥

मूलम् - १९

दुःखं परिजिहीर्षन् यः सुखं नाङ्गीचिकीर्षति ।
स हन्तापतितं दुःखमीशस्य व्यस्मरज्जडः ॥ १९ ॥

पदार्थदीपिकोद्बोधिका

ननु कथम् ईश्वरस्य सुखम् अङ्गीकारार्हम् । सुखित्वे दुःखित्वापातात् । तथा हि विमतश् चैत्रः दुःखी सुखित्वाद् यथा मैत्र इति व्याप्तेः प्रमितत्वात् ‘आनन्दं ब्रह्मण’ इत्यादिश्रुतेश्च दुःखाभाव एवार्थः । एवं च ब्रह्मणो दुःखाभावातिरिक्तभावरूपसुखसद्भावे प्रमाणाभावान् कथम् ईश्वरः सुखादिरहितः दुःखादि-रहितत्वाद् इत्यनुमानस्य कथं कालात्ययापदिष्टतेत्याशङ्क्य परिहरति— दुःखमित्यादिना ॥ दुःखं परिजिहीर्षन् परिहर्तुमिच्छद् यो वादी तार्किकः सुखं दुःखाभावातिरिक्तं भावरूपं सुखं नाङ्गीचिकीर्षति नाङ्गीकर्तुमिच्छति । जडोऽविवेकी स अङ्गीकर्तुमनिच्छताप्यङ्गीकार्यतया प्राप्तमीशस्य दुःखं व्यस्मरद् विस्मृतवान् । हन्त आश्चर्यम् । अस्य मौढ्यम् इति यावत् । अयमत्राभिप्रायः – ईश्वरस्य चेतनत्वेन काचिद्विप्रतिपत्तिश् चेतनस्य च सुखदुःखयोरन्योन्य-तराविनाभावे नियमो दृष्टो देवदत्तादौ, विमतो देवदत्तः सुखदुःखयोरन्यतराविना-भूतश्चेतनत्वाद् यः सुखदुःखयोरन्यतराविनाभूतो न भवति ‘नासौ चेतनो भवति यथा घट इत्यनुमानात् ‘सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखमि’त्यागमात्, सर्वेषामनु-भवाच्चेश्वरस्य चेतनत्वात्सुखदुःखयोरन्यतराविनाभूतत्वम् अभ्युपगन्तव्यम् । तत्र च सुखित्वानभ्युपगमे दुःखित्वं बलादापतति । तदभ्युपगमाद्वरमीश्वरस्य निर्दुःखानन्दाभ्युपगम इति । तथा च यदुक्तं सुखित्वे दुःखित्वापातान् न ईश्वरः सुखी तस्य परमानन्दत्वश्रुतिस्तु दुःखाभावविषयेति दुःखादिरहितानुमानस्य कथं कालात्ययापदिष्टतेति तदसत् ॥ १९ ॥

**मन्दोपाकारिणी**

ननु सुखम् ईश्वरस्य कथम् अङ्गीकारार्हं, सुखित्वे दुःखित्वापातात् । तथा हि विमत ईश्वरः दुःखी सुखित्वाद् यः सुखी स दुःखी यथा संसारी इति व्याप्तेः प्रमितत्वात् । आनन्दं ब्रह्मण इत्यादिश्रुतेश्च दुःखाभाव एवार्थः स्यात् । एवं च ब्रह्मणो दुःखाभावातिरिक्तभावरूपसुखसद्भावे प्रमाणाभावात् कथं दुःखादिरहितत्वानुमानस्य कालात्ययापदिष्टतेत्याशङ्कय परिहरति ॥ दुःखमिति ॥ ईशस्य ईश्वरस्य दुःखं परिजिहीर्षन् परिहर्तुमिच्छन् यः सुखं दुःखाभावातिरिक्तं सुखं नाङ्गीचिकीर्षति अङ्गीकर्तुं नेच्छति जडो ऽविवेकी ‘जडोऽज्ञे एडमूकस्तु’ इत्यमरः । स आपतितम् अङ्गीकर्तुमनिच्छतापि अङ्गीकार्यतया प्राप्तम् ईश्वरस्य दुःखं व्यस्मरद् विस्मृतवान् । हन्त आश्चर्यं, अत्यमौढ््यमिति यावत् । अयमत्र अभिप्रायः । ईश्वरस्य चेतनत्वे न काचिद् विप्रतिपत्तिश् चेतनस्य च सुखदुःखयोर् अन्यतराविनाभावो दृष्टः देवदत्तादौ । विमतो देवदत्तः सुखदुःखयोर् अन्यतराविनाभूतश् चेतनत्वाद् यः सुखदुःखयोरन्यतराविनाभूतो न भवति नासौ चेतनो भवति यथा घट इत्यनुमानात् । सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखमित्यागमात् , सर्वेषाम् अनुभवाच्च । तस्माद् ईश्वरस्य चेतनत्वात् सुखदुःखयोरन्यतराविनाभूतत्वम् अवश्यम् अभ्युपगन्तव्यम् । तत्र ईश्वरस्य सुखाभावाभ्युपगमे दुःखित्वं च बलाद् आपततीति तदभ्युपगमाद् ईश्वरस्य निर्दुःखानन्दाभ्युपगम एव युक्त इति । तथा च यदुक्तं सुखित्वे दुःखित्वापातान् न ईश्वरः सुखी । तस्य आनन्दश्रुतिस्तु दुःखाभावपरा । अतः दुःखादिरहितत्वानुमानस्य कथं कालात्ययापदिष्टतेति तदसदित्युक्तं भवति ॥ १९ ॥

विश्वास-प्रस्तुतिः - २०

यो दुःखसमवायोऽयं चैत्रे तेन ह्यभेदवान् ।
समवायः कश्चिदीशे तदनेकत्वमन्यथा ॥ २० ॥

मूलम् - २०

यो दुःखसमवायोऽयं चैत्रे तेन ह्यभेदवान् ।
समवायः कश्चिदीशे तदनेकत्वमन्यथा ॥ २० ॥

भावप्रकाशिका

तदनेकत्वं समवायस्यानेकत्वम् ॥ २० ॥

पदार्थदीपिकोद्बोधिका

एवम् ईश्वरः सुखादिरहितः दुःखरहितत्वाद् इत्यनुमानस्य कालात्ययापदिष्टतां व्युत्पाद्य पररीत्या असिद्धिमपि व्युत्पादयति— यो दुःखसमवाय इत्यादिना ॥ चैत्रे वर्तमानो योऽयं दुःखसमवायस् तेन चैत्रवर्तिना दुःखसमवायेन, अभेदोऽस्यास्तीति अभेदवान्, कश्चित् समवायः ज्ञानादिसमवाय ईशेऽपि वर्तते । हि यस्मात् तस्मादीशोऽपि दुःखसमवायवान् स्यादिति शेषः । ततश्च दुःखी स्यात् । न हि दुःखसमवायसत्वातिरिक्तं चैत्रेऽपि विद्यते । अयं भावः । चैत्र इति संसार्युपलक्षणं, संसारिणि तावद्विप्रतिपन्नो दुःखसमवायो वर्तते । ईश्वरे च ज्ञानेच्छादिसमवायः, तयोश्च समवाययोरभेद इति वैशेषिकादिसिद्धान्तः । तथा चोक्तं– ‘समवायस्तु सम्बन्धो नित्यः स्यादेक एव स’ इति । ततश्च दुःखसमवायवान् संसारी यथा न दुःखरहितः, तथा दुःखसमवायाद् अभिन्नसमवायवत्वादीशोऽपि न दुःखरहितस् तस्माद् दुःखादिरहि-तत्वानुमानस्य असिद्धत्वान् न तेन ईश्वरसौख्यादिराहित्यं साधयितुं शक्यत इति । ननु भवेद् एतदेवं, यदि संसारिणि वर्तमानदुःखादिसमवायस्य ईश्वरे वर्तमानज्ञानेच्छादिसमवायस्य च अभेदः स्यात् स एव नाङ्गीक्रियत इत्यत आह— तदित्यादि । अन्यथा, तयोः समवाययोर् भेदाङ्गीकारे तदनेकत्वं तस्य समवायस्यानेकत्वं स्यादिति शेषः । ततश्च सर्वगतस्य नानाप्रतियोगिकस्यापि समवायस्यैकत्वम् अभ्युपगच्छतां तेषां तदनेकत्वाङ्गीकारे अपसिद्धान्तः स्यादिति भावः ॥ २० ॥

**मन्दोपाकारिणी**

एवं दुःखादिरहितत्वानुमानस्य कालात्ययापदिष्टतां व्युत्पाद्य असिद्धतामपि व्युत्पादयति- य इति ॥ चैत्रे संसारिणि चेतने वर्तमानः यो ऽयं प्रसिद्धः दुःखसमवायः दुःखस्य समवायसंबन्धस् तेन चैत्रवर्तिना दुःखसमवायेन अभेदवान् ऐक्यवान् कश्चित्समवायः ज्ञानेच्छादिसमवाय ईशेऽपि वर्तते । हि यस्मात् तस्माद् ईशोऽपि दुःखसमवायवान् । ततश्च दुःखी स्यात् । न हि स्वसमवायातिरिक्तं दुःखित्वं चैत्रे वर्तते । अयं भावः । संसारिणि तावदविप्रतिपन्नो दुःखसमवायो वर्तते ईश्वरेऽपि ज्ञानादि-समवायोऽस्ति । तयोश्च समवाययोर् अभेद इति वैशेषिकसिद्धान्तः । तथा चोक्तं ‘समवायस्तु सम्बन्धो नित्यः स्याद् एक एव सः’ इति । ततश्च दुःखसमवायवान् संसारी यथा न दुःखरहितस् तथा दुःखसमवायानतिरिक्तसमवायवान् ईशोऽपि न दुःखरहितस् तस्माद् दुःखादिरहितत्वानुमानस्य असिद्धत्वान् न तेन ईश्वरस्य सौख्यादिराहित्यं साधयितुं शक्यमिति । ननु भवेद् एतद् यदि संसारिणि वर्तमानस्य दुःखसमवायस्य ईश्वरे वर्तमानस्य ज्ञानेच्छादिसमवायस्य च अभेदः स्यात् , स एव नाङ्गीक्रियते इत्यत आह- तदिति ॥ अन्यथा तयोः समवाययोर् भेदाङ्गीकारे तदनेकत्वं तस्य समवायस्य अनेकत्वं स्यात् तदङ्गीकारे तु अपसिद्धान्तः स्याद् इति भावः ॥ २० ॥

विश्वास-प्रस्तुतिः - २१

औपाधिकोऽस्य भेदश्चेत् सत्योऽसत्यः स्विदुच्यताम् ।
तद्द्वयं चोक्तदोषं हि मायिवन्मा वदेत्परम् ॥ २१ ॥

मूलम् - २१

औपाधिकोऽस्य भेदश्चेत् सत्योऽसत्यः स्विदुच्यताम् ।
तद्द्वयं चोक्तदोषं हि मायिवन्मा वदेत्परम् ॥ २१ ॥

भावप्रकाशिका

सत्यश्चेत्तदनेकत्वमसत्यश्चेत्समवायैक्यादि स दुःखमित्युक्तदोष-द्वयम् । परं सदसद्विलक्षणं स्वव्याहतम् ॥ २१ ॥

पदार्थदीपिकोद्बोधिका

नन्वनेकवृत्तिसमवायस्य एकत्वेऽपि चैत्रमैत्रादीनामुपाधि-सम्बन्धाद् औपाधिकभेदोऽङ्गीक्रियत एव । तस्माद् यद्यपि एक एव समवायस् तथापि यश्चैत्रदुःखसमवायो नासौ ईश्वरेऽस्ति यथा खलु सर्वगतस्याकाशस्य एकत्वेऽपि तस्य घटाद्यनेकोपाध्यवच्छेदेन घटाकाशो मठाकाश इति भेदव्यवहारः । तत्राकाशभेदाभावेऽपि यथा पूर्वोक्तव्यवहार एवं समवायस्य एकत्वेऽपि चैत्रमैत्राद्युपाधीनां भिन्नत्वाच्चैत्रगतो दुःखसमवायो न ईश्वरेऽस्ति, ईश्वरगतो नित्यज्ञानादिसमवायो न चैत्र इति समवायस्य औपाधिकभेदाङ्गीकारात् कथमीश्वरस्य दुःखसमवायः स्यात्कथञ्च दुःखरहितत्वानुमानस्य असिद्धिरित्याशङ्क्य परिहरति—॥ औपाधिक इत्यादिना ॥ अस्य समवायस्य उपाधिना प्राप्त औपाधिकः भेदश्चेद् यद्यङ्गीक्रियते तर्हि इदं पृच्छामीति शेषः । किमित्यत आह— सत्य इति । स औपाधिकभेदः सत्यः स्वित् ? परमार्थतः किं? असत्यः स्विद् अपारमार्थिको वा ? मिथ्या वा इत्यर्थ उच्यतां, एवम् अस्माभिः पृष्टेन त्वया त्वदभिलषितार्थोऽभिधीयताम् । कस्मिन् सति किं स्यादित्यत आह– तदिति । तद्द्वयं तत्पक्षद्वयम् उक्तौ दोषौ यस्य पक्षद्वयस्य तदुक्तदोषम् । तथा हि औपाधिकस्यापि समवायभेदस्य पारमार्थिकत्वे समवायानेकत्वं वास्तवं स्यात् । तथा च अपसिद्धान्तः स्यादिति भावः । असत्यश्चेन् नास्ति भेद इत्युक्तं भवति । तथा च यश्चैत्रगतो दुःखसमवायः स एव ईश्वरेऽपीति कथमसौ दुःखादिरहितः स्यात् । दुःखसमवायवतोऽपि दुःखराहित्ये चैत्रस्यापि किं न स्याद् अविशेषादित्युक्तदोषं तत्पक्षद्वयमिति भावः । ननु सत्यासत्यपक्षातिरिक्ततृतीयपक्षाङ्गीकारात्कथं पक्षद्वयोक्तदोषसञ्चारस् तत्रेत्याशङ्क्य तन्न भवतीत्याह— मायिवदिति । मायिवत् सदसद्विलक्षणं नाम पक्षान्तरं मा वद, सदसद्विलक्षणमिति स्वव्याहतभाषणं मायिनामेव भूषणम् । न तु तार्किकंमन्यस्य वैशेषिकस्येति भावः । एवं तृतीयपक्षासम्भवात् पक्षद्वये चोक्तदोषानिस्तारात् समवायभेदा-सम्भवेन ईश्वरस्यापि दुःखसमवायित्वान् न दुःखादिरहितत्वमिति न तेन ईश्वरस्य सौख्यादिराहित्यसाधनं सङ्गच्छत इति सर्वेश्वरस्य भगवतः सौख्याद्यनन्तगुणाकरत्वं युक्तम् इति स्थितमेतत् ॥ २१ ॥

मन्दोपाकारिणी

नन्वेकवृत्तिसमवायस्य एकत्वेऽपि चैत्रमैत्रादिनानोपाधिसम्बन्धाद् औपाधिको भेदो अङ्गीक्रियत एव तस्माद् यद्यपि चैत्रे दुःखसमवायोऽस्ति तथापि नासौ ईश्वरेऽस्ति । यथा खलु सर्वगताकाशस्य एकत्वेऽपि तस्य घटमठाद्यनेकोपाध्यवच्छेदेन घटाकाशो मठाकाश इति भेदव्यवहारः । एवं समवायस्य एकत्वेऽपि चैत्राद्युपाधीनां भिन्नत्वाच् चैत्रगतो दुःखसमवायो नेश्वरेऽस्ति । ईश्वरगतो नित्यज्ञानादिसमवायव्यवहारो न चैत्रे इति समवायस्य औपाधिकभेदाङ्गीकारात् । तेन कथम् ईश्वरे दुःखसमवायः स्यात् , कथं वा दुःखरहितत्वानुमानस्यासिद्धिर् इत्याशङ्क्य परिहरति ॥ औपाधिक इति ॥ अस्य समवायस्य औपाधिको भेदः सत्यः स्वित् पारमार्थिकसत्यो वा ? असत्यः स्विद् अपारमार्थिको वा मिथ्या वा इत्यर्थः, ‘स्वित् प्रश्ने च वितर्के च’ इत्यमरः । उच्यताम् एवम् अस्माभिः पृष्टेन समवायस्य औपाधिकभेदम् अङ्गीकुर्वता त्वया त्वदभिलषितार्थो ऽभिधीयताम् । ‘वचेः कर्मणि लोट्’ । कस्मिन् सति किं स्याद् इत्यत आह तदिति ॥ तद्दयं तयोः पक्षयोर् द्वयं च उक्तदोषं हि उक्तौ दोषौ यस्य तदुक्तदोषम् । तथा हि औपाधिकस्यापि समवायभेदस्य पारमार्थिकत्वे समवायानेकत्वं वास्तवं स्यात् । तथा च अपसिद्धान्तः स्यादिति भावः । असत्यश्चेन् नास्ति भेद इत्युक्तं भवति । तथा च यश्चैत्रगतो दुःखसमवायः स एव ईश्वरेऽपि इति तत्कथम् असौ ईश्वरः दुःखादिरहितः स्यात् । दुःसमवायेऽपि दुःखराहित्यं चैत्रस्यापि किं न स्याद् अविशेषादित्युक्तदोषं तत्पक्षद्वयमिति भावः । ननु सत्यासत्याख्यपक्षद्वयातिरिक्तस्य तृतीयपक्षस्याङ्गीकारात् कथं पक्षद्वयोक्त-दोषसञ्चारस् तत्रेत्याशङ्क्य तन् न भवतीत्याह मायीति ॥ मायिवन् मायावादिवत् परं सदसद्विलक्षणं नाम पक्षान्तरं मा वदेन् न ब्रूयात् । सदसद्विलक्षणमिति स्वव्याहतभाषणं मायिनामेव भूषणं न तु तार्किकंमन्यमानस्य वैशेषिकस्येत्यभिप्रायः । एवं तृतीयपक्षासम्भवात् पक्षद्वयोक्तदोषानिस्तारात् समवायभेदासम्भवेन ईश्वरस्यापि दुःखसमवायित्वान् न दुःखरहितत्वादिकमिति तेन ईश्वरस्य सौख्यादिराहित्वसाधनं न सङ्गच्छते इति सर्वेश्वरस्य भगवतः सौख्यादिगुणवत्वं युक्तम् इति स्थितम् एतत् ॥ २१ ॥

विश्वास-प्रस्तुतिः - २२

ब्रूयुरौपाधिकं भेदं ज्ञानादीनां यदात्मनः ।
नीत्याऽनया तन्निरासात् स्यात् तस्यानन्तधर्मिता ॥ २२ ॥

मूलम् - २२

ब्रूयुरौपाधिकं भेदं ज्ञानादीनां यदात्मनः ।
नीत्याऽनया तन्निरासात् स्यात् तस्यानन्तधर्मिता ॥ २२ ॥

पदार्थदीपिकोद्बोधिका

एवं समवायस्य औपाधिकभेदनिरासेन अन्यच्च तन्मनीषितं प्रमेयं निरस्तम् इत्याह— ब्रूयुरित्यादिना ॥ आत्मनः ज्ञानम् आदिर् येषां ते ज्ञानादयस् तेषां ज्ञानेच्छाप्रयत्नादिगुणानामित्यर्थः । उपाधिना प्राप्तम् औपाधिकम् उपाधिनिमित्तकं भेदं ब्रूयुरिति यद् अनया नीत्या समवायस्य औपाधिकभेदनिरासयुक्तया तन्निरासात् तस्य औपाधिकभेदस्य निरासाद् अन्ततः परिशेषाद् भेदस्यैव वास्तवत्वे सति तस्य परमात्मनो ऽनन्ता धर्मा यस्य सोऽनन्तधर्मा तस्य भावोऽनन्तधर्मता अनन्तगुणता स्यात् । अयं भावो ऽस्ति तावदात्मगुणानां भेदस् तस्य चोक्तप्रकारेण औपाधिकत्वासम्भवात् स्वाभाविकत्वम् अनिच्छताप्यङ्गीकार्यम् । तस्माद् आत्मनोऽनन्तगुणता स्यादिति ॥ २२ ॥

मन्दोपाकारिणी

एवं समवायस्य उपाधिभेदनिरासेन अन्यच्च तन्मनीषितं प्रमेयं निरस्तमित्याह ॥ ब्रूयुरिति ॥ आत्मनः परमात्मनः ज्ञानादीनां ज्ञानेच्छाप्रयत्नादीनां गुणानाम् औपाधिकम् उपाधिनिमित्तकं भेदं ब्रूयुर् इति यद् अनया नीत्या समवायस्य औपाधिकभेदनिरासयुक्त्या तन्निरासात् तस्य औपाधिकभेदस्य निरासान् निराकरणात् ततः परिशेषाद् भेदस्यैव वास्तवत्वे इति तस्य आत्मनो ऽनन्तधर्मिता अनन्तगुणवत्वं स्यात् । अयं भावः । अस्ति तावदात्मगुणानां भेद इत्यङ्गीकारः । तस्य च भेदस्य उक्तप्रकारेण औपाधिकत्वासम्भवात् स्वाभाविकत्वम् अनिच्छतापि अङ्कीकार्यं प्राप्तं तस्माद् आत्मनो ऽनन्तगुणता स्यादिति ॥ २२ ॥

विश्वास-प्रस्तुतिः - २३

गुणादिभेदे सम्बन्धमपेक्ष्याप्यनवस्थितेः ।
विशेषमात्रेणानन्त्यं गुणानां शोभते विभोः ॥ २३ ॥

मूलम् - २३

गुणादिभेदे सम्बन्धमपेक्ष्याप्यनवस्थितेः ।
विशेषमात्रेणानन्त्यं गुणानां शोभते विभोः ॥ २३ ॥

पदार्थदीपिकोद्बोधिका

यच्चान्यदुच्यते वैशेषिकेण अवयवावयविनोः क्रियाक्रियावतोर् जातिव्यक्तयोर् विशेषनित्यद्रव्ययोश्च सम्बन्धः समवाय इति, तच्च न घटत इत्याह— गुणादीत्यादिना ॥ गुणादिभेदे गुणादीनां गुण्यादिभ्यो भेदे अङ्गीक्रियमाणे सम्बन्धम् अपेक्ष्य भेदिनोर्गुणगुणिनोर्भेदस्य च मिथः सम्बन्धम् अपेक्ष्य चाप्यनवस्थितेः । गुणगुणिनोर्भेदो न युज्यत इति भावः । तथा हि गुणगुणिनौ भिन्नौ इत्यत्र विशेष्यभूतयोर् गुणगुणिनोर् विशेषणभूतस्य भेदस्य च मिथो भेदोऽङ्गीकार्यः । अन्यथा विशेष्यविशेषणभावासम्भवात् । अस्य भेदस्य गुणादीनां भेदिनां च मिथो भेदो ऽस्त्येव अन्यथा ईश्वरस्य गुणित्वा-सम्भवात् । गुणानामेव मिथो भेदाभावे तेषाम् आनन्त्यासम्भवाच्च । तस्माद् गुणादिभेदाङ्गीकारे अनवस्थाप्रसङ्गो भवतामपि सम इत्याशङ्क्य परिहरति— विशेषमात्रेणेति । भवेदेवमनवस्था, यदि वयम् ईश्वरस्य तद्गुणानाञ्च भेदमङ्गीकुर्मः न च एवं, किं तर्हि ईश्वरस्य तद्गुणानां च अभेदवादिनोऽपि वयं विशेषमङ्गीकुर्मः । विशेषो नाम भेदहीने वस्तुनि भेदनिमित्तानेकव्यवहारहेतुभूतः । तथा च उक्तं— ‘भेदहीने त्वपर्याय-शब्दान्तरनियामकः । विशेषो नाम कथितः साऽस्ति वस्तुष्वशेषत’ इति । तस्माद्भेदानङ्गीकारेऽपि विशेषमात्राङ्गीकाराद् विशेषमात्रेण विभोर् व्याप्तस्य नारायणस्य गुणानाम् आनन्त्यं शोभते । मात्रशब्दो भेदानङ्गीकारद्योतकः विशेषबलादेव आनन्दादीनां गुणत्वमीश्वरस्य च गुणित्वं तयोर् भोज्यभोक्तृभावश्च गुणानामानन्दादीनां विशेषबलादेव आनन्त्यमपि घटत इति भावः ॥ २३ ॥

मन्दोपाकारिणी

यच्चान्यदुच्यते वैशेषिकैर् अवयवावयविनोर् गुणगुणिनोः क्रिया-क्रियावतोर् जातिव्यक्त्योर् विशेषनित्यद्रव्ययोश्च सम्बन्धः समवाय इति तच्च निरस्तमित्याह ॥ गुणादीति ॥ गुणादिभेदे गुणानां गुण्यादिभ्यो भेदे अङ्गीक्रियमाणे सतीति शेषः । सम्बन्धम् अपेक्ष्यापि भेदिनः गुणगुणिनोर्भेदस्य च मिथः सम्बन्धम् अपेक्ष्यापि अनवस्थितेर् गुणगुणिनोर् भेदो न युज्यते इति भावः । तथा हि गुणगुणिनौ भिन्नौ इत्यत्र विशेष्यभूतयोर् गुणगुणिनोर् विशेषणभूतस्य भेदस्य च मिथो भेदोऽङ्गीकार्यः, अन्यथा विशेषण-विशेष्यभावासम्भवात् । तस्य भेदस्य गुणादीनां च मिथो भेद इति भेदपरंपरया अनवस्थितिरेव इति । ननु भवतां पक्षे गुणगुणिनोर् गुणानां च मिथो भेदो ऽस्त्येव अन्यथा ईश्वरस्य गुणित्वासम्भवात् । गुणानामेव मिधो भेदाभावे तेषाम् आनन्त्यासम्भवाच्च गुणगुणिभेदाङ्गीकारेऽनवस्थाप्रसङ्गः भवतामपि समान इत्याशङ्क्य परिहरति-विशेषमात्रेणेति ॥ भवेदेवम् अनवस्था अस्मन्मते यदि वयम् ईश्वरस्य तद्गुणानां च भेदम् अङ्गीकुर्मः किं तर्हि ईश्वरस्य तद्गुणानां च अभेदवादिनो वयं विशेषम् अङ्गीकुर्मः । विशेषो नाम भेदहीने वस्तुनि भेदनिमित्तानेकव्यवहारहेतुभूतः । तथा चोक्तं ‘भेदहीने त्वपर्यायशब्दान्तरनियामकः । विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः’ इति तस्माद् भेदानाङ्गीकारेऽपि विशेषमात्रा-ङ्गीकारात् तेन विशेषमात्रेण विभोर् व्याप्तस्य नारायणस्य गुणानाम् आनन्त्यं शोभते । मात्रशब्दो भेदानङ्गीकारद्योतकः । विशेषबलादेव आनन्दादीनां गुणत्वम् ईश्वरस्य गुणित्वम् आनन्दादीनां भोग्यत्वं भगवतश्च भोक्तृत्वं तेषाम् आनन्दादिगुणानां मिथो भेदाभावेऽपि विशेषबलादेव आनन्त्यमपि घटते इति भावः ॥ २३ ॥

विश्वास-प्रस्तुतिः - २४

मन्यन्ते शून्यमेवान्ये तत्त्वमागमवैरिणः ।
मता माध्यमिकास्तेऽपि व्यक्ताश्छन्ना इति द्वये ॥ २४ ॥

मूलम् - २४

मन्यन्ते शून्यमेवान्ये तत्त्वमागमवैरिणः ।
मता माध्यमिकास्तेऽपि व्यक्ताश्छन्ना इति द्वये ॥ २४ ॥

पदार्थदीपिकोद्बोधिका

इदानीम् अप्राकृतभगवद्गुणानाम् आनन्त्यम् असहमानानां शून्यवादिनां मायावादिनाञ्च परापरप्रमेययोर् विशेषाभावेन मायिनामेव शून्यवादित्वम् उपपादयितुं तावत् शून्यवादिविभागमाह— मन्यंत इत्यादिना ॥ अन्ये वैशेषिकादिभ्योऽन्ये आगमवैरिणः वेदादिसदागमद्वेषिणः माध्यमिका बौद्धैकदेशिनो ऽन्यमेव तत्त्वम् अबाधितवस्तु मन्यते ते तु शून्यमेव परतत्वमिति मन्यमाना बौद्धैकदेशिनश्च व्यक्ताः स्पष्टाश् छन्नाः प्रच्छन्ना इति द्वये द्विविधा मताः । विज्ञानवादिनः शून्यवादिनः क्षणिकवादिनश्चेति त्रिविधा बौद्धाः । तत्र शून्यवादिनोऽपि द्विविधाः स्पष्टशून्यवादिनः प्रच्छन्नशून्यवादिनश्चेति । तत्र प्रच्छन्नशून्यवादिनो मायावादिन इति भावः ॥ २४ ॥

मन्दोपाकारिणी

इदानीं प्रकृतभगवद्गुणानन्त्यमसहमानानां शून्यवादिनां मायवादिनां च परस्परं प्रमेययोर् विशेषाभावेन मायिनामेव शून्यवादित्वमुपपादयितुं तावत् शून्यवादिविभागमाह ॥ मन्यन्ते इत्यादिना ॥ अन्ये वैशेषिकादिभ्योऽन्ये आगमवैरिण आगमस्य वेदादिसच्छास्त्रस्य वैरिणः ‘आगमस्त्वागतौ शास्त्रे’ इति भास्करः । माध्यमिका बौद्धाः शून्यमेव तत्त्वं मन्यन्ते अङ्गीकुर्वन्ति । ‘मनु अवबोधने लट्’ । तेऽपि शून्यवादिनोऽपि बौद्धा व्यक्ताः स्पष्टाश् छन्नाः प्रच्छन्ना इति द्वये द्विविधा मताः कीर्तिताः । प्रच्छन्नशून्यवादिनो मायावादिनः ॥ २४ ॥

विश्वास-प्रस्तुतिः - २५

शून्यं ब्रह्माह्वयेनाहुः स्वांश्च वेदान्तिनोऽभ्यधुः ।
अतत्त्वावेदकं वेदं वदन्तश्चरमे खलाः ॥ २५ ॥

मूलम् - २५

शून्यं ब्रह्माह्वयेनाहुः स्वांश्च वेदान्तिनोऽभ्यधुः ।
अतत्त्वावेदकं वेदं वदन्तश्चरमे खलाः ॥ २५ ॥

पदार्थदीपिकोद्बोधिका

ननु ब्रह्मवादिनां मायावादिनां कथं शून्यवादित्वं, वेदान्तिनां तेषाम् आगमवैरित्वञ्च कथमित्यत आह— शून्यमित्यादिना ॥ मन्त्र, ब्राह्मण, उपनिषद्भेदेन, त्रिविधो हि वेदः । तत्र च मन्त्र-ब्राह्मणात्मको वेदो ब्रह्मव्यतिरिक्त-कर्माप्रतिपादकत्वाद् अतत्वावेदकप्रमाणमिति मायिनो वदन्ति । उपनिषद्भागश्च तत्वावेदक-प्रमाणमिति । एवञ्च वेदं मन्त्रब्राह्मणात्मकं वेदभागम् अतत्वावेदकं तत्त्वस्य सत्यस्य आवेदको न भवतीति तं, वदन्तः मन्त्रब्राह्मणात्मको वेदः प्रमाणमपि तत्त्वं पारमार्थिकं ब्रह्मस्वरूपं न आवेदयतीति अतत्वावेदकप्रमाणमिति वदन्त इति भावः । अत एव खलाः । मुख्यतः सकलवेदवेद्यस्य ब्रह्मणो वेदैकदेशेन अवेद्यत्वाङ्गीकारादेव खला इत्यर्थः । चरमे अन्तिमा ‘व्यक्ता छन्ना इति द्वय’ इत्यत्र पश्चादुद्दिष्टाः प्रच्छन्नशून्यवादिनो मायावादिन इत्यर्थः । शून्यं ब्रह्मेत्याह्वयो ब्रह्माह्वयस्तेन ब्रह्मेति नाम्नेत्यर्थ आहुर्वदन्ति । शून्यवादिनो निराकारं निर्विशेषं यच्छून्यं यत्परतत्वमाहुस् तस्मात् शून्याद् विशेषरहितं परतत्त्वं ब्रह्मेत्याहुर् इत्यर्थः । अनेन नामभेदमात्रेणैव भेदो न वस्तुभेद इत्युक्तं भवति । स्वान् आत्मनश्च वेदान्तिनस् तन्नामकानभ्यधुः प्रोचुः । शून्यवादिनां शून्यस्य मायिनां ब्रह्मणश्च न कश्चन विशेष इत्युभयेऽपि शून्यवादिन इत्यर्थः ॥ २५ ॥

मन्दोपाकारिणी

ननु ब्रह्मवादिनां कथं शून्यवादित्वं वेदान्तिनां तेषाम् आगमवैरित्वं च कथम् इत्यत आह ॥ शून्यमिति ॥ वेदं मन्त्रब्राह्मणात्मकं वेदम् अतत्त्वावेदकं तत्त्वं ब्रह्मस्वरूपम् आवेदयति प्रतिपादयति इति तत्त्वावेदकं तन्न भवतीति अतत्त्वावेदकं वदन्तः वेदः ब्रह्मप्रतिपादको नेति वदन्त इत्यर्थः । वेदवेद्यस्य भगवतः वेदवेद्यत्वानङ्गीकारादेव खला दुष्टाश् चरमे व्यक्ताश् छन्ना इति द्वये इत्यत्र पश्चादुद्दिष्टाः प्रच्छन्नबौद्धा मायावादिनः शून्यं ब्रह्माह्वयेन ब्रह्मेति आह्वयेन नाम्ना आहुर् वदन्ति । शून्यवादिनः निर्विशेषवच्छून्यं तत्त्वमित्याहुर् मायावादिनस् तस्मात् शून्याद् विशेषरहितं परतत्त्वं ब्रह्म इत्याहुर् इत्यर्थः । अनेन शब्दमात्रेणैव भेदः वस्तुतो न भेद इत्युक्तं भवति । स्वांश्च आत्मनश्च वेदान्तिनः वेदान्तिनामकानभ्यधुर् उक्तवन्तः । ‘डु धाञ् इति धातोर् लुङ् परस्मैपदम् अधाद् अधाताम् अधुः’ । वेदस्य अतत्त्वावेदकत्वोक्त्या वेदस्य मिथ्याभूतार्थप्रतिपादकत्वाङ्गीकारान् मायावादिनाम् आगमवैरित्वं निर्विशेषशून्यसदृशब्रह्माख्यतत्त्वाङ्गीकाराच्छून्यवादित्वं च उक्तं भवति ॥ २५ ॥

विश्वास-प्रस्तुतिः - २६

परतत्त्वविवर्तत्वादपरस्याखिलस्य च ।
अविशेषत्वतश्चास्य नान्तरन्तरमेतयोः ॥ २६ ॥

मूलम् - २६

परतत्त्वविवर्तत्वादपरस्याखिलस्य च ।
अविशेषत्वतश्चास्य नान्तरन्तरमेतयोः ॥ २६ ॥

पदार्थदीपिकोद्बोधिका

एवं शून्यवादिनां मायावादिनां च परतत्त्वविषये विवादाभावम् उपपाद्य अपरतत्वेऽपि विवादाभावमाह— ॥ परतत्वेति ॥ अखिलस्य समस्तस्य अपरस्य भूभूधरादिनानाप्रपञ्चाख्यस्य अपरतत्त्वस्य च परतत्त्वविवर्तत्त्वात् परतत्त्वस्य विवर्तो ऽतात्विकोऽन्यथाभावस् तस्य भावस् तत्त्वं तस्मात् परतत्वोपादानकत्वादित्यर्थः । शून्यवादिनो यथा शून्योपादानकं जगदिति ब्रूयुस् तथा मायावादिभिर् ब्रह्मोपादानकं जगदित्यङ्गीकृतं, तस्माद् अपरतत्त्वे न विवाद इति भावः । ननु शून्यब्रह्मणोर्विशेषसद्भावात् कथमपरतत्त्वे न विवाद इत्याशङ्क्य भवेदयं यदि ब्रह्मणः शून्यात् कश्चन विशेषः स्यात् । न च असौ अस्ति । तथात्वे ब्रह्मणो निर्विशेषत्वभङ्गादित्याह- अविशेषत्वतश्चेति । अस्य ब्रह्मणः न विद्यते विशेषो यस्य तदविशेषं तस्य भावस् तत्त्वं तस्मात् शून्याद्विशेषरहितत्वादित्यर्थः । एतयोर् मतयोर् अन्तरा विचार्यमाणे सति अन्तरं भेदो नास्ति, एतयोर् ब्रह्मशून्ययोरिति वा ॥ २६ ॥

मन्दोपाकारिणी

एवं शून्यवादिनां मायिनां च परतत्त्वविषये विवादाभावमुपपाद्य अपरतत्त्वविषयेऽपि विवादाभावमाह ॥ परतत्त्वेति ॥ अखिलस्य समस्तस्य अपरस्य वियदादिप्रपञ्चरूपस्य अपरतत्त्वस्य च परतत्त्वविवर्तत्वात्परतत्त्वं ब्रह्म तद् विवर्तम् उपादानं यस्य तत् तस्य भावस् तत्त्वं तस्मात् परतत्त्वोपादानत्वादित्यर्थः । शून्यवादिनोऽपि यथा शून्योपादानकं जगदिति ब्रूयुस् तथा मायावादिनोऽपि ब्रह्मोपादानकं जगदित्यङ्गीकुर्वन्ति, तस्माद्धेतोर् इति भावः । किं च अस्य ब्रह्मणो ऽविशेषत्वतः शून्याद्विशेषरहितत्वाच्चेत्यर्थः। एतयोर् मतयोर् ब्रह्मशून्ययोर्वा अन्तः मध्ये ‘अन्तर्मध्ये तथा प्रान्ते’ इति धनञ्जयः । अन्तरं भेदः नास्ति ‘अन्तरं तु परीधानभेदे रन्ध्रावकाशयोः’ इति विश्वः ॥ २६ ॥

विश्वास-प्रस्तुतिः - २७

अखण्डखण्डनन्यायानखण्डमपि खण्डयन् ।
अखण्डयदखण्डज्ञो द्वयांश्चाखण्डलद्विषः ॥ २७ ॥

मूलम् - २७

अखण्डखण्डनन्यायानखण्डमपि खण्डयन् ।
अखण्डयदखण्डज्ञो द्वयांश्चाखण्डलद्विषः ॥ २७ ॥

पदार्थदीपिकोद्बोधिका

एवं मतद्वयस्य साम्यात् तन्निराकरणमपि सममेवा-कारीत्याह— अखण्डेत्यादिना ॥ अखण्डाः समस्ता ये खण्डनन्यायाः सत्सिद्धान्त-निराकरणन्यायास् तान् मायिशून्यवादिनोः सत्सिद्धान्तनिराकरणाङ्गकुतर्करूपन्याया-भासानिति यावत् । खण्डयन् दूषयन् अखण्डमपि निर्विशेषमपि निर्विशेषत्वेन अङ्गीकृतपरतत्वमपि इत्यर्थः । खण्डयन् प्रमाणाभावोपपादनेन निराकुर्वन् अखण्डं सर्वं जानातीति अखण्डज्ञः सर्वज्ञ इत्यर्थः । श्रीमध्वः द्वयान् द्विविधांश्च आखण्डलद्विष इन्द्रारीन् अखण्डयन् निराचक्रे ॥ २७ ॥

मन्दोपाकारिणी

एवं मतद्वयस्य साम्यमुपपाद्य इदानीं तन्निराकृतवानित्याह ॥ अखण्डेति ॥ अखण्डज्ञो ऽखण्डं समस्तं जानातीति अखण्डज्ञः सर्वज्ञः पूर्णप्रज्ञाचार्यो ऽखण्डखण्डनन्यायान् अखण्डाः समस्ताः खण्डनाः स्वसिद्धान्तनिराकरणरूपाश्च ते न्यायाः कुतर्करूपन्यायाभासाश्च तान् स्वसिद्धान्तनिराकरणरूपान् मायिशून्यवादिनोः समस्तन्यायान् अखण्डमपि निर्विशेषत्वेन अङ्गीकृतं परतत्त्वमपि खण्डयन् प्रमाणेन निराकुर्वन् सन् द्वयान् द्विविधान् मायावादिशून्यवाद्याख्यान् आखण्डलद्विष आखण्डलस्य इन्द्रस्य द्विषः शत्रून् दानवान् अखण्डयन् निराकरोत् ‘खडि भेदने इत्यस्माद् लङ् परस्मैपदम्’ । ‘आखण्डलः सहस्राक्षः’ इत्यमरः, ‘दनुजेन्द्रारिदानवाः’ इति च ॥ २७ ॥

विश्वास-प्रस्तुतिः - २८

विमतं कारणं न स्यादसत्वान्न यदीदृशम् ।
नेदृशं तद्यथा कुम्भकर्तेत्यत्रानुमीयते ॥ २८ ॥

मूलम् - २८

विमतं कारणं न स्यादसत्वान्न यदीदृशम् ।
नेदृशं तद्यथा कुम्भकर्तेत्यत्रानुमीयते ॥ २८ ॥

पदार्थदीपिकोद्बोधिका

यदुच्यते शून्यवादिना शून्यं जगत्कारणमिति तन्निरा-करोति— विमतमित्यादिना ॥ अङ्घो तापसेत्युत्तरश्लोकस्थम् अत्र सम्बध्यते । अङ्घो तापस हे तापस हे बौद्ध विमतं शून्यं कारणं जगत्कारणं न स्यात् । कुत इत्यत आह— असत्वादिति । अत्र व्यतिरेकव्याप्तिं दर्शयति— न यदित्यादिना । यदीदृशं न-अकारणं न, तदीदृशं न-असन् न यथा कुम्भकर्ता कुलाल इत्यत्रानुमीयते । अस्माभिरिति शेषः । विमतं शून्यं कारणं न भवति असत्वाद् यत्कारणं तत्सद् यथा कुलाल इति प्रयोगः ॥ २८ ॥

मन्दोपाकारिणी

शून्यवादिमतं निराकरोति ॥ विमतमिति ॥ विमतं शून्यं कारणं जगत्कारणं न स्यात् , कुतो ऽसत्वात् । यद् ईदृशं कारणं नेति न, कारणम् इति यावत् । तद् ईदृशम् असन् न, सदिति यावत् । यथा कुम्भकर्ता कुलाल इति अस्माभिर् अत्र अनुमीयते । विमतं शून्यं कारणं न भवति असत्वाद् यत्कारणं तत् सद् यथा कुम्भकार इति व्यतिरेक्यनुमानप्रयोगः । ‘अनु पूर्वकान् माङ् माने इत्यतो भावे लट् परस्मैपदम्’ ॥ २८ ॥

विश्वास-प्रस्तुतिः - २९

अहो तापस नो शून्यं कारणं कुम्भकर्तृवत् ।
यत् संवृत्युत्थितं विश्वं तत् कारणमितीर्यते ॥ २९ ॥

मूलम् - २९

अहो तापस नो शून्यं कारणं कुम्भकर्तृवत् ।
यत् संवृत्युत्थितं विश्वं तत् कारणमितीर्यते ॥ २९ ॥

पदार्थदीपिकोद्बोधिका

शून्यवादी प्रत्यवतिष्ठते ॥ नो शून्यमित्यादिना ॥ शून्यं कुम्भकर्तृवत् कुम्भस्य कर्ता तद्वत् कुलालवदित्यर्थः । कारणं जगत्कारणं नो न भवति । शून्यं जगत्कारणं वदन्तोऽपि वयं कुलालादिवद् बाह्योपादानसापेक्षं तज् जगत्कारणं नाङ्गीकुर्म इत्यर्थः । किं तर्हि इत्यत आह— यदित्यादिना । विश्वं जगद् यत्संवृत्युत्थितं यस्य शून्यस्य संवृतिरज्ञानं तया उत्थितम् उत्पन्नं दृश्यत इति यावत् । तत् शून्यं कारणमिति ईर्यत उच्यते । अयमभिप्रायः— शुक्तिकायाः शुक्तिकात्वम् आपरोक्षेणापश्यतो भ्रान्तस्य यथा तत्र रजतज्ञानं जायते रजतमिदं पुरोवर्तीति । एवमेव शून्यतत्त्वं सम्यगापरोक्षेणो-पश्यताम् अज्ञानिनां भूभूधरादिनानाप्रपञ्चप्रतीतिर्जायते । एवं च सति शुक्तिकाऽयाथात्म्य-ज्ञानात्प्रतीयमानस्य रजतस्य शुक्तिका यथा कारणमित्युच्यते, एवं शून्यतत्वापरिज्ञानात् प्रतीयमानस्य प्रपञ्चस्य शून्यं कारणमित्युच्यते न तु शून्यं कुलालादिवज् जगत्कारणमिति

॥ २९ ॥

मन्दोपाकारिणी

एवम् अनुमानेन शून्यस्य जगत्कारणत्वे दूषिते सति यच्छून्यवादिनोक्तं तदनूद्य दूषयति द्वाभ्यां श्लोकाभ्याम् ॥ अहो इति ॥ अहो तापस हे शाक्यमुने ‘मुनीन्द्रः श्रीघनः शास्ता मुनिः’ इत्यमरकोशे तापसपर्यायमुनिशब्दप्रयोगात् । शून्यं कुम्भकर्तृवत् कुलालवत् कारणं जगत्कारणं नो न भवति । कुलालवद् बाह्योपादानसापेक्षाकारणं न भवतीत्यर्थः, किन्तु विश्वं जगद् यत्संवृत्युत्थितं यस्य शून्यस्य संवृत्याऽज्ञानेन उत्थितं प्रतीतं तत् कारणम् इति मया ईर्यते उच्यते । ‘ईर गतौ कम्पने च इति धातोः कर्मणि लट् आत्मनेपदम्’ ॥ २९ ॥

विश्वास-प्रस्तुतिः - ३०

एवं चेत् कारणं मा स्म ब्रवीः शून्यं कथञ्चन ।
आयुष्मंस्तदधिष्ठानं व्युत्पित्सस्व गुरोर्गृहे ॥ ३० ॥

मूलम् - ३०

एवं चेत् कारणं मा स्म ब्रवीः शून्यं कथञ्चन ।
आयुष्मंस्तदधिष्ठानं व्युत्पित्सस्व गुरोर्गृहे ॥ ३० ॥

पदार्थदीपिकोद्बोधिका

तदेतत्सामान्यतोऽनूद्य दूषयति— ॥ एवञ्चेत्यादिना ॥ चेद् यदि एवं सम्यक् शून्यतत्त्वापरिज्ञानेन निमित्तेन प्रतीयमानस्य प्रपञ्चस्य शून्यं कारण-मित्यभ्युपगमस् तर्हि शून्यं कथञ्चन सर्वात्मना कारणं जगत्कारणं मा स्म ब्रवीः । स्वाज्ञानेन प्रतीयमानस्य प्रपञ्चस्य शून्यं स्वयं कारणमिति मा वद तर्हि किं ब्रूयामित्यपेक्षायामाह— आयुष्मान्निति । शून्यं जगत्कारणमिति वदता त्वया कारणत्वं नाम इत्थमिति तदभिप्रायः सम्यगुक्तमिति हास्यादायुष्मान्नित्युक्तं हे आयुष्मन् तद् एवं त्वया अङ्गीकृतं शून्यं गुरोर्गृहे अधिष्ठानं व्युप्तित्सस्व व्युत्पत्तुमिच्छ । ‘पद गतौ’ सन्नन्ताद् लोट् । त्वदभ्युपगमप्रकारेण विचार्यमाणे सति अधिष्ठानं सच्छून्यं कारणमिति वदन्, अत एव कारणाधिष्ठानयोः स्वरूपं सम्यक् अजानन् त्वम् अथापि कञ्चित्कालं गुरोर्गृहे तिष्ठन् कारणाधिष्ठानयोः स्वरूपं विविच्य ज्ञात्वा पश्चात्कारणलक्षणयुक्तं ‘कारण’मिति व्यवहर, अधिष्ठानलक्षणयुक्तमधिष्ठानमिति व्यवहर । एवम् अधिष्ठानव्युत्पत्यनन्तरमेव अस्माभिर् व्यवहर इति भावः ॥ ३० ॥

मन्दोपाकारिणी

एवं चेद् इत्थं वदसि चेत् तर्हि शून्यं स्वयं कारणं जगत्कारणमिति कथञ्चन सर्वथा मा स्म ब्रवीर् न वद तर्हि किं ब्रूयाद् इत्यत आह- आयुष्मन् इति ॥ हे आयुष्मन् चिरञ्जीविन् तत् त्वया अङ्गीकृतं शून्यम् अधिष्ठानं वासस्थानं भवति इति अध्याहारः । गुरोर् गृहे मन्दिरे व्युत्पित्सस्व व्युत्पत्तुम् इच्छस्व ज्ञातुं यतस्व इत्यर्थः । त्वदभ्युपगमप्रकारेण विचार्यमाणे सति तच्छून्यम् अधिष्ठानं भवति । अधिष्ठानभूतं शून्यं कारणम् इति वदन् त्वं कारणाधिष्ठानयोः स्वरूपं सम्यक् न जानासि । अतः कञ्चित्कालं गुरुगृहे तिष्ठन् कारणाधिष्ठानयोः स्वरूपं जानीहि व्युत्पत्त्यनन्तरमेव आत्मानं व्यवहर इत्यभिप्रायः । अज्ञात्वा व्यवहर्तुर् बहुकालजीवनं निरर्थकम् इत्यभिप्रायेण आयुष्मन् इति सम्बोधनम् । ‘ब्रूञ् व्यक्तायां वाचि इत्यतो लुङ् परस्मैपदम् । न माङ् योगे इत्यडभावः, मा स्म ब्रवीर् मा स्म ब्रूतं मा स्म ब्रूत’ । ‘वि उत् पूर्वात् पत्लृ पतने इत्यतः सन्नन्ताद् लोट् आत्मनेपदं व्युत्पित्सस्व व्युत्पित्साथां व्युत्पित्सध्वम्’ ॥ ३० ॥

विश्वास-प्रस्तुतिः - ३१

विवादस्य पदं न स्यादधिष्ठानमसत्त्वतः ।
वैधर्म्येणैष दृष्टान्तः शुक्त्यादिवदितीर्यते ॥ ३१ ॥

मूलम् - ३१

विवादस्य पदं न स्यादधिष्ठानमसत्त्वतः ।
वैधर्म्येणैष दृष्टान्तः शुक्त्यादिवदितीर्यते ॥ ३१ ॥

पदार्थदीपिकोद्बोधिका

ननु तर्हि मा भूत् शून्यं कारणमिति, अधिष्ठानमेवास्तु तथापि यथा भ्रान्तिदशायां प्रतीयमानं शुक्तिकाव्यतिरिक्तं रजतं न तात्विकमेवं शून्य-व्यतिरिक्तं जगन्न तात्विकमिति वदतो मम न किञ्चिद् अवशिष्टमित्याशङ्क्य शून्यस्याधिष्ठानत्वमपि न घटत अनुमानविरोधादिति भावेनाह—

विवादस्येत्यादिना ॥ विवादस्य विप्रतिपत्तेः पदं विषयभूतं शून्यम् अधिष्ठानं न स्यात् कुतो ऽसतो भावोऽसत्वं तस्मादिति ततः । अत्र सपक्षाभावात्कथं व्याप्तिरिति चेत् तत्राह वैधर्म्येणेति । वैधर्म्येण तत्साध्याभावेन साधनाभावेन च सम्प्रतिपन्न एष दृष्टान्त ईर्यते, कथं शुक्तयादिवदिति । अत्रेत्थमनुमानप्रयोगः विमतं शून्यं जगदारोपाधिष्ठानं न भवति असत्वाद् यदारोपाधिष्ठानं तत्सत्, यथा रजताद्यारोपाधिष्ठानशुक्तयादि इति ॥ ३१ ॥

मन्दोपाकारिणी

ननु शून्यं जगदारोपस्य अधिष्ठानमेवास्तु इत्याशङ्क्य शून्यस्य अधिष्ठानत्वमपि न घटते अनुमानविरोधादिति भावेन आह ॥ विवादस्येति ॥ विवादस्य विप्रतिपत्तेः पदं विषयभूतं शून्यम् अधिष्ठानं न स्यात् कुतो ऽसत्त्वतो ऽसत्त्वाद् अत्र सत्पक्षाभावात्कथं व्याप्तिरिति चेद् आह वैधर्म्येणेति ॥ वैधर्म्येण साध्याभावेन साधनाभावेन च सम्प्रतिपन्न एष दृष्टान्त ईर्यते कथं शुक्त्यादिवद् इति । ‘विमतं शून्यं जगदारोपस्य अधिष्ठानं न भवति असत्त्वाद् यद् अधिष्ठानं तत्सद् यथा रजताद्यारोपाधिष्ठानं शुक्त्यादीति’ ॥ ३१ ॥

विश्वास-प्रस्तुतिः - ३२

अतत्त्वावेदकं मानमिति स्वव्याहतं यतः ।
तद्वादी तेन वेदस्य सोऽभिप्रैत्यप्रमाणताम् ॥ ३२ ॥

मूलम् - ३२

अतत्त्वावेदकं मानमिति स्वव्याहतं यतः ।
तद्वादी तेन वेदस्य सोऽभिप्रैत्यप्रमाणताम् ॥ ३२ ॥

पदार्थदीपिकोद्बोधिका

ननु ‘परतत्त्वविवर्तत्वादपरस्याखिलस्य च । अविशेषत्व-तश्चास्य नान्तरान्तरमेतयो’रिति मायावादिशून्यवादिमतयोर्विशेषो नास्तीति यदुक्तम् । तदसत् । शून्यवादिनां वेदाप्रामाण्यवादित्वान्मायावादिनां तत्प्रामाण्याभ्युपगमात् । इत्थं हि मायावादिनो वदन्ति— मन्त्रब्राह्मणात्मक एको वेदभाग उपनिषदात्मकोऽपरः । तत्राद्यो मिथ्याभूतभेदादिप्रपञ्चविषयत्वादतत्वावेदकप्रमाणम् । द्वितीयस्तु परमार्थभूतब्रह्मविषयत्वा-त्तत्वावेदकप्रमाणमिति । एवमुभयथा वेदप्रामाण्यवादिनां तेषां मतस्य कथमवैदिकशून्य-वादिमताद्विशेषाभाव इत्याशङ्क्य भवेदयं विशेषो मायिमते यद्युक्तप्रकारेण प्रामाण्यं सम्भवेत् । न चैतदस्ति । अतत्वावेदकञ्च प्रमाणञ्चेत्युक्तेर्व्याहतत्वादित्याह— ॥ अतत्वा-वेदकमित्यादि ॥ तत्वस्यावेदकं ज्ञापकं तत्वावेदकं तन्न भवतीति अतत्वावेदकं मानं प्रमाणमिति वचो माता वन्ध्येतिवत् स्वव्याहतम् । यतस्तत्तस्मात्, तद्वादी वेदस्या-तत्वावेदकत्ववादी स मायावादी तेन वेदस्यातत्वावेदकत्ववचनेन वेदस्याप्रामाण्यतामभिप्रैति । तथा हि— वेदस्यातत्वावेदकत्वं नाम अतत्वस्यायथार्थाकारस्य आवेदकत्वमभिप्रेतम् । एतदेव ह्यप्रामाण्यं नाम । तस्मादतत्वावेदकत्वमित्युक्तवा पुनस्तस्य प्रमाणत्ववचनं स्वव्याहतम् । तस्मादेवं स्वव्याहतभाषिणस् तस्य वेदप्रामाण्यवचनं वैदिकप्रकारकमात्रमेव एवं मायिशून्यवादिनोर् वेदाप्रामाण्याभ्युपगमस्तु समान एव मायिनः स्वव्याहतभाषणमधिकम् । तस्माच्छून्यवादिमतान्न मायिमतस्य वैलक्षण्यमिति भावः ॥ ३२ ॥

मन्दोपाकारिणी

ननु ‘अविशेषत्वतश्चास्य’ इत्यत्र उभयोर्मतयोर् विशेषो नास्तीति यदुक्तम् । तन्न । शून्यवादिनां वेदाप्रामाण्यवादित्वान् मायावादिनां वेदप्रामाण्याङ्गीकार-सद्भावाद् इत्याशङ्क्य तद्रीत्या वेदप्रामाण्यं न सम्भवतीत्याह ॥ अतत्त्वावेदकमिति ॥ यतः कारणाद् वेदो ऽतत्त्वावेदकं मानम् इति स्वव्याहतं तेन कारणेन तद्वादी वेदस्य अतत्त्वावेदकत्ववादी सः मायावादी वेदस्य अप्रमाणताम् अप्रामाण्यम् अभिप्रैति अङ्गीकरोति । अयं भावः वेदस्य अतत्त्वावेदकत्वं नाम अतत्त्वस्य अयथार्थाकारस्य आवेदकत्वं ज्ञापकत्वम् । एतदेवाप्रामाण्यं नाम । तस्माद् वेदस्य अतत्त्वावेदकत्वम् उक्त्वा पुनस् तस्य प्रमाणत्ववचनं स्वव्याहतम् । तस्मादेव व्याहतभाषिणस् तस्य वेदप्रामाण्यवचनं जनप्रतारण-मात्रमेव । एवं च उभयोरपि वेदाप्रामाण्यवादित्वं सममेव । मायावादिनस्तु व्याहतभाषित्वम् अधिकम् । तस्मादुभयोर् मतयोर् न वैशेष्यम् इति ॥ ३२ ॥

विश्वास-प्रस्तुतिः - ३३

यं तत्त्वावेदकं वेद वेदान्तं वेददूषकः ।
तत्त्वस्यावर्णनीयत्वात् स तत्त्वावेदकः कथम् ॥ ३३ ॥

मूलम् - ३३

यं तत्त्वावेदकं वेद वेदान्तं वेददूषकः ।
तत्त्वस्यावर्णनीयत्वात् स तत्त्वावेदकः कथम् ॥ ३३ ॥

भावप्रकाशिका

अवर्णनीयं वागविषत्वेन । न हि प्रमेयसम्बन्धरहितं प्रमाणं भवति

॥ ३३ ॥

पदार्थदीपिकोद्बोधिका

यदप्युक्तमुपनिषदात्मको वेदभागः परमार्थभूतब्रह्मविषयत्वात् तत्वावेदकं प्रमाणमिति तदपि अशोभनमित्याह— यमित्यादिना ॥ वेददूषक उक्तप्रकारेण वेदप्रामाण्याभ्युपगमाद् वेदनिन्दको मायावादी यं वेदांशं तत्त्वावेदकं वेद अभ्युपगच्छति स वेदांशः कथं तत्वावेदकः ? न कथमपि । कुतः ? तत्वस्य परमार्थभूतस्य ब्रह्मणो ऽवर्णनीयत्वाद् अवाच्यत्वात् । तथा च ब्रह्म अवाच्यमित्यभ्युपगमात् । ब्रह्मविषय-तयाभ्युपगतस्य वेदभागस्य ब्रह्मवाचकतया न ब्रह्मसम्बन्धः सम्भवति । प्रमेयसम्बन्धरहितस्य प्रामाण्यञ्च दुर्घटमिति भावः । एवम् अतत्त्वावेदकस्य मिथ्याविषयत्वाद् अप्रामाण्यमङ्गीकृतं स्यात् । तत्वावेदकस्य पुनः निर्विषयत्वेन अप्रामाण्यम् अभ्युपगतमिति उभयथापि वेदा-प्रामाण्यवादित्वाद् वेदस्य दूषकोऽयमित्यभिप्रायः ॥ ३३ ॥

मन्दोपाकारिणी

ननु मन्त्रब्राह्मणात्मको वेदभाग एक उपनिषदात्मकोऽपरः । तत्र आद्यः मिथ्याभूतभेदादिप्रपञ्चविषयत्वाद् अतत्त्वावेदकं प्रमाणम् । अपरस्तु परमार्थ-भूतब्रह्मविषयत्वात् तत्त्वावेदकं प्रमाणम् । तत्र मन्त्रब्राह्मणात्मकभागस्य अतत्त्वावेदक-त्वोक्त्या अप्रामाण्येऽपि उपनिषद्भागस्य तत्त्वावेदकप्रमाणत्वाभ्युपगमात् । शून्यवादिभिस्तु तदनङ्गीकाराद् उभयोर् विशेषः स्यादित्याशङ्क्य तदपि अशोभनम् इत्याह यमिति ॥ वेददूषक उक्तप्रकारेण वेदस्य अप्रामाण्याभ्युपगमाद् वेदस्य निन्दकः मायावादी यं वेदान्तम् उपनिषदाख्यं वेदं तत्त्वावेदकं वेद जानाति सः वेदान्तः कथं तत्त्वावेदकस् तत्त्वस्य परमार्थभूतस्य ब्रह्मण आवेदकः प्रतिपादकः स्यात् । कुतः, तत्त्वस्य परमार्थभूतब्रह्मणो ऽवर्णनीयत्वाद् अवाच्यत्वात् । वेदान्तस्य ब्रह्मवाचकतया न ब्रह्मसम्बन्धः सम्भवति ब्रह्मणोऽवाच्यत्वाभ्युपगमात् । प्रमेयसम्बन्धरहितस्य प्रामाण्यं दुर्घटम् । एवं च अतत्त्वा-वेदकस्य मिथ्याविषयत्वाद् अप्रमाण्यम् अङ्गीकृतं तत्त्वावेदकस्यापि निर्विषयत्वेन अप्रामाण्यम् अभ्युपगतम् इति उभयथापि वेदाप्रामाण्यम् इति भावः ॥ ३३ ॥

विश्वास-प्रस्तुतिः - ३४

लक्षणाभिः प्रवर्तन्ते वाक्यानि तिसृभिर्यदि ।
विषयत्वं लक्षणानां तस्यैवानिष्टमागतम् ॥ ३४ ॥

मूलम् - ३४

लक्षणाभिः प्रवर्तन्ते वाक्यानि तिसृभिर्यदि ।
विषयत्वं लक्षणानां तस्यैवानिष्टमागतम् ॥ ३४ ॥

भावप्रकाशिका

‘यतो वा इमानि भूतानि जायन्त’ इत्यादीनि जहल्लक्षणया । ‘सत्यं ज्ञानमनन्तं ब्रह्मे’त्यादीन्यजहल्लक्षणया । ‘तत्वमसी’त्यादीनि जहदजहल्लक्षणया ॥

पदार्थदीपिकोद्बोधिका

ननु यदुक्तं तत्वावेदकप्रमाणस्य ब्रह्मणि वचनवृत्या प्रवृत्यभावान्निर्विषयत्वेनाप्रामाण्यमिति, तदसत् । यद्यपि, ‘यतो वाचो निवर्तन्त’ इत्यादि वाक्यैर् ब्रह्मणो वाच्यत्वाभावाद्वचनवृत्या ब्रह्मणि न प्रवर्तते वेदः । तथापि लक्षणावृत्या प्रवर्तते । लक्षणा त्रिविधा जहल्लक्षणा, अजहल्लक्षणा जहदजहल्लक्षणा चेति । तत्र ‘यतो वा इमानि भूतानि जायन्त’ इत्यादीनि जहल्लक्षणया, ‘सत्यं ज्ञानमनन्तं ब्रह्मे’त्यादीन्य-जहल्लक्षणया, ‘तत्त्वमसीत्यादीनि जहदजहल्लक्षणया ब्रह्मपराणि । तदेवं लक्षणया ब्रह्मविषयत्वात्कथं निर्विषयत्वं तत्त्वावेदकप्रमाणस्येत्याशङ्क्यानिष्टापादनमुखेन परिहरति— लक्षणाभिरिति ॥ वाक्यानि तत्त्वावेदकप्रमाणत्त्वेन अङ्गीकृतानि यदि तिसृभिर् लक्षणाभि र्ब्रह्मणि प्रवर्तन्ते तर्हि तस्यैव अवाच्यत्व प्रमेयत्वादिसकलविशेषनिर्मुक्ततयाङ्गीकृतस्य ब्रह्मणः लक्षणानां लक्षणावृतीनां विषयत्वं नाम विशेषणमागतम् । अनिच्छतापि अङ्गीकार्यतया प्राप्तम् । तच्च अनिष्टम् अपसिद्धान्तप्रसङ्गाद् अङ्गीकर्तुम् अनुचितम् । तस्माद् ब्रह्मणो लक्षणा-विषयत्वासम्भवात् तत्वावेदकप्रमाणस्य निर्विषयत्वेन अप्रामाण्यं तादवस्थमेवेति भावः

॥ ३४ ॥

मन्दोपाकारिणी

ननु वेदस्य ब्रह्मणि वचनतया प्रवृत्त्यभावेऽपि लाक्षणिकया वृत्त्या प्रवृत्तिर्भविष्यति । अतः लक्षणया ब्रह्मणो विषयत्वात्कथम् अविषयत्वं तत्त्वावेदकप्रमाणस्य इत्याशङ्क्य अनिष्टापादनमुखेन परिहरति ॥ लक्षणाभिरिति ॥ वाक्यानि वेदवाक्यानि यदि तिसृभिर् लक्षणाभिर् जहल्लक्षणाऽजहल्लक्षणाजहदजहल्लक्षणाख्याभिर् ब्रह्मणि प्रवर्तन्ते तर्हि तस्यैव अवाच्यत्वाप्रमेयत्वादिसकलविशेषनिर्मुक्ततयाङ्गीकृतस्यैव ब्रह्मणः लक्षणानां तिसृणां विषयत्वं नाम विशेषणत्वमागतम् । अनिच्छतापि अङ्गीकार्यतया प्राप्तम् । कथंभूतम् अनिष्टम् अपसिद्धान्तप्रसङ्गाद् अङ्गीकर्तुम् अनुचितम् । तस्माद् ब्रह्मणो लक्षणाविषयत्वस्याप्यसम्भवाद् अविषयत्वेन अप्रामाण्यमेव वेदस्य इति भावः ॥ ३४ ॥

विश्वास-प्रस्तुतिः - ३५

किञ्चाखण्डेऽत्र वाक्यानि किञ्चिद्विदधते न हि ।
तान्यभ्यधुरभावं चेज्जाड्यादेस्तन्न शोभते ॥ ३५ ॥

मूलम् - ३५

किञ्चाखण्डेऽत्र वाक्यानि किञ्चिद्विदधते न हि ।
तान्यभ्यधुरभावं चेज्जाड्यादेस्तन्न शोभते ॥ ३५ ॥

पदार्थदीपिकोद्बोधिका

नैतावदेव दूषणं ब्रह्मणो निर्विशेषत्वाङ्गीकारे, किन्त्वधिकञ्च अस्तीति प्रतिजानीते— किञ्चेति ॥ अखण्डे न विद्यते खण्डो भेदो यस्य तदखण्डं तस्मिन् । ‘खडि भेद’ इति धातुः । निर्विशेषे अत्र ब्रह्मणि वाक्यानि ‘सत्यं ज्ञानमनन्तं ब्रह्मे’त्यादीनि किञ्चित् सत्यत्वादिरूपं किमपि विशेषणं न विदधते हि यस्मात् । ननु सत्यज्ञानादिपदानाम् असत्यत्वादिव्यावृत्तिरेवार्थः । तस्मान् निर्विशेषस्य ब्रह्मणः सत्यत्वादि-भावरूपविशेषाभावेऽपि असत्यव्यावृत्तत्वात्सत्यं ब्रह्म, अज्ञानव्यावृत्तत्वाज्ज्ञानं ब्रह्म, अन्तव्यावृत्तत्वादनन्तं ब्रह्म, इति सत्यादिपदानामतद्य्वावृत्या ब्रह्मविषय-तयाङ्गीकारात्कथं निर्विषयता इत्यत आह— तानीति । तानि सत्यज्ञानादिवाक्यानि जाड्यादेर् अभावं जडत्वाद्यभावम् अभ्यधुः, इत्यङ्गीकृतञ्चेदपि तन्न शोभते ॥ ३५ ॥

मन्दोपाकारिणी

दूषणान्तरं प्रतिजानीते ॥ किं चेति ॥ किं च अन्यच्च दूषणमुच्यते इत्यर्थः । अखण्डे निर्विशेषे अत्र ब्रह्मणि वाक्यानि ‘सत्यं ज्ञानं’ इत्यादिवाक्यानि किञ्चित् सत्यत्वज्ञानत्वादिरूपं किमपि विशेषणं न विदधते न समर्थयन्ति । हि यस्माद् वाक्यानां ब्रह्मणि विशेषसमर्पकत्वाभावाद् व्यर्थश्च लाक्षणिकत्वाभ्युपगम इति भावः । ननु सत्य-ज्ञानादिवाक्यानां ब्रह्मणि सत्वादिभावरूपधर्मसमर्पकत्वाभावेऽपि अतद्व्यावृत्या असत्यत्वाद्य भावरूपधर्मसमर्पकत्वेन ब्रह्मविषयत्वाङ्गीकारान् न निर्विषयता इत्यत आह ॥ तानीति ॥ तानि सत्यज्ञानादिवाक्यानि जाड्यादेर् अभावम् अभ्यधुश्चेत् प्रतिपादयन्ति चेद् असत्याज् जडाद् व्यावृत्तत्वात् सत्यमित्यादिना प्रकारेण जाड्यादेर् अभावम् अभ्यधुर् इति अङ्गीकृतं चेदपि न शोभते ॥ ३५ ॥

विश्वास-प्रस्तुतिः - ३६

अभावभावस्याभावाद्भावरूपस्य तस्य तु ।
भावाभावविशेषाणामभावादविशेषिणः ॥ ३६ ॥

मूलम् - ३६

अभावभावस्याभावाद्भावरूपस्य तस्य तु ।
भावाभावविशेषाणामभावादविशेषिणः ॥ ३६ ॥

पदार्थदीपिकोद्बोधिका

कुत इति चेद् विकल्पासहत्वात् । तथा हि ‘सत्यज्ञानादि’ पदाभिधेयानाम् असत्यत्वाद्यभावानां किं ब्रह्मात्मकत्वमङ्गीक्रियते, आहोस्विद्ब्रह्मविशेषत्वम् । आद्येऽसत्यत्वाभावानां ब्रह्मात्मकत्वाङ्गीकारे ब्रह्मणोऽप्यभावात्मकं स्यात् । तच्च नाङ्गी-कारार्हं कुत इत्यपेक्षायामाह— अभावेति ॥ भावो रूपं यस्य तद्भावरूपं तस्य ब्रह्मणो ऽभावभावोऽभावत्त्वं तस्य अभावादसम्भवाद् इत्यर्थः । द्वितीयोऽपि पक्षो न घटते, कुत इत्यत आह — भावाभावेति । विशेषोऽस्यास्तीति विशेषि तन्न भवतीत्यविशेषि तस्य अविशेषिणः । सर्वविशेषरहितत्वेनाङ्गीकृतस्य ब्रह्मणः भावश्चाभावश्च भावाभावास् ते च ते विशेषाश्च तेषां भावाभावात्मकसर्वधर्माणाम् इत्यर्थः । अभावादसम्भवात् । निर्विशेषत्वे-नाङ्गीकृतस्य ब्रह्मणो भावाभावरूपविशेषाङ्गीकारे अपसिद्धान्तप्रसङ्गादिति भावः । तस्माद् असत्यत्वाद्यभावानां ब्रह्मात्मकतया ब्रह्मविशेषतया वा ब्रह्मसम्बन्धाभावात् तत्प्रतिपादन-पराणां सत्यज्ञानादिवाक्यानां ब्रह्मविषयत्वाभावान् न तत्वावेदकत्वं सम्भवतीत्यर्थः ॥३६॥

मन्दोपाकारिणी

कुत इति चेद् असत्यत्वाद्यभावः किं ब्रह्मरूपो वा तद्विशेषो वा । नाद्य इत्याह, भावरूपस्य भावात्मकत्वेन अङ्गीकृतस्य तस्य ब्रह्मणो ऽभावभावस्य अभावस्य अभावाद् असम्भवाद् इत्यर्थः । न द्वितीय इत्याह ॥ भावेति ॥ अविशेषिणः विशेषरहितत्वेन अङ्गीकृतस्य ब्रह्मणः भावाभावविशेषाणाम् अभावाद् भावरूपस्य वा अभावरूपस्य वा कस्यापि विशेषस्य अभावाद् इत्यर्थः । विशेषाङ्गीकारेऽपसिद्धान्तप्रसङ्गाद् इति भावः । तस्मात् सत्यज्ञानादिवाक्यानां पूर्वोक्तप्रकारेण ब्रह्मविषयत्वाभावान् न तत्त्वावेदकत्वम् इति भावः ॥ ३६ ॥

विश्वास-प्रस्तुतिः - ३७

यो वेदवेदितार्थानां नित्यं सन्त्यागसंश्रवी ।
वेदबाह्यो विपश्चिद्भिराष निश्चीयतां ततः ॥ ३७ ॥

मूलम् - ३७

यो वेदवेदितार्थानां नित्यं सन्त्यागसंश्रवी ।
वेदबाह्यो विपश्चिद्भिराष निश्चीयतां ततः ॥ ३७ ॥

पदार्थदीपिकोद्बोधिका

‘मन्यन्ते शून्यमेवान्ये’ इत्यत्र प्रच्छन्नबौद्धत्वं मायिन उक्तम् । तच्च ‘परतत्त्वविवर्तत्वा’दित्यादिनोपपादितम् । इदानीं युक्तयन्तरेणापि बौद्धमत-मुपपाद्योपसंहरति— य इति ॥ यो मायी वेदवेदितार्थानां वेदैर् वेदिता ज्ञापिता ये अर्थास् तेषां प्रपञ्चसत्यत्वादीनां हरेर् अनन्तगुणपूर्णत्वनिर्दोषत्वादीनाम् अर्थानां वा इत्यर्थः । नित्यं संत्यागः परित्यागः नित्यसंत्यागः नित्यसंत्यागरूपः संश्रवः सोऽस्यास्तीति तथोक्तः । सर्वदा परित्यागरूपप्रतिज्ञावानित्यर्थः । अत्र वेदार्थसंत्यागो नाम तेषां मिथ्यात्वाङ्गीकारस् ततः वेदोक्तार्थमिथ्यात्वाङ्गीकारात् । एष मायी विपश्चिद्भिर् ज्ञानिभिर् वेदबाह्य इति निश्चीयताम् । न हि वेदोक्तार्थमिथ्यात्वाङ्गीकारातिरिक्तं वेदबाह्यत्वं बौद्धानामपीति भावः ॥ ३७ ॥

मन्दोपाकारिणी

मन्यन्ते शून्यमेवान्ये इत्यादिना मायिनां प्रच्छनबौद्धत्वं प्रतिज्ञायो-पपादितम् । तत्रैव युक्त्यन्तरं वदन् बौद्धत्वमुपसंहरति ॥ य इति ॥ यः मायावादी वेदवेदितार्थानां वेदैर् वेदितानां प्रतिपादितानां प्रपञ्चसत्यत्वादीनां हरेरनन्तगुणपरिपूर्णत्व-निर्दोषत्वादीनाम् अर्थानां नित्यं संत्यागसंश्रवी नित्यं सर्वदा संत्यागः परित्यागः मिथ्यात्वाङ्गीकाररूपः संश्रवः प्रतिज्ञा अस्यास्तीति स तथोक्तः । ततो वेदार्थस्य मिथ्यात्वाङ्गीकारात् । एषः मायी विपश्चिद्भिर् ज्ञानिभिर् वेदबाह्य इति निश्चीयताम् । ततश्च मायिशून्यवादिनोः सर्वप्रकारेण साम्यं सिद्धमिति भावः ॥ ३७ ॥

विश्वास-प्रस्तुतिः - ३८

ज्यायसो दूषणेनैव धूर्तंमन्योऽपि दूषितः ।
पक्षयोरविशेषत्वादेतयोः सद्विपक्षयोः ॥ ३८ ॥

मूलम् - ३८

ज्यायसो दूषणेनैव धूर्तंमन्योऽपि दूषितः ।
पक्षयोरविशेषत्वादेतयोः सद्विपक्षयोः ॥ ३८ ॥

पदार्थदीपिकोद्बोधिका

तस्मान्मायिशून्यवादिनोर् वेदबाह्यत्वसाम्यात्परापरतत्वे च विशेषाभावात् शून्यवादिमते यद्दूषणं तेनैव दूषणेन मायिमतमपि दूषितं वेदितव्यमित्याह— ज्यायस इति ॥ ‘मता माध्यमिकास् तेऽपि व्यक्ताश्छन्ना इति द्वये’ इत्यत्र शून्यवादिनः प्रथममुद्दिष्टत्वात् शून्यवादी मायावादिनो ज्यायान् । तस्य ज्यायसः श्रेष्ठस्य शून्यवादिनो दूषणेनैव धूर्तंमन्य आत्मानं धूर्तं मन्यमानो मायावाद्यपि दूषितो वेदितव्य इत्यर्थः । धूर्तंमन्य इत्यत्र ‘आत्ममाने खश्’ इति खश्, ‘खित्यनव्ययस्ये’ति मुमागमः । ननु शून्यवादि-निराकरणयुक्तिभिर् मायिनिराकरणं कथं स्यात् , तयोर् मतयोः परस्परविरुद्धत्वादित्यत आह— पक्षयोरिति । सद्विपक्षयोः सिद्धान्तयोर् अविशेषत्वान् न विद्यते विशेषो वैलक्षण्यं ययोस् तौ तथोक्तौ, तयोर् भावस् तत्वं तस्मान् मिथो विशेषरहितत्वादित्यर्थः ॥ ३८ ॥

मन्दोपाकारिणी

ततश्च किम् इत्याह ॥ ज्यायस इति ॥ ‘मता माध्यमिकास् तेऽपि व्यक्ताश्छन्ना इति द्वये’ इत्यत्र प्रथमम् उद्दिष्टत्वेन ज्यायसः श्रेष्ठस्य शून्यवादिनः दूषणेनैव दूषणकरणेनैव धूर्तंमन्य आत्मानं धूर्तं वञ्चकं मन्यमानः मायावाद्यपि दूषितः वेदितव्य इत्यर्थः । कुत इत्यत आह ॥ पक्षयोरिति ॥ सद्विपक्षयोः सतां विपक्षभूतयोर् एतयोः पक्षयोः सिद्धान्तयोर् अविशेषत्वान् मिथो विशेषरहितत्वात् । ‘पापो धूर्तस्तु वञ्चकः’ इत्यमरः ॥ ३८ ॥

विश्वास-प्रस्तुतिः - ३९

असत्त्वादित्यसौ हेतुरसिद्धो ब्रह्मवादिनः ।
मेति भाण्यविशेषत्वात् तत्त्वायोर्ब्रह्मशून्ययोः ॥ ३९ ॥

मूलम् - ३९

असत्त्वादित्यसौ हेतुरसिद्धो ब्रह्मवादिनः ।
मेति भाण्यविशेषत्वात् तत्त्वायोर्ब्रह्मशून्ययोः ॥ ३९ ॥

पदार्थदीपिकोद्बोधिका

ननु ‘विमतं कारणं न स्यात्’ इत्यत्र ‘विवादस्य पदं न स्यात्’ इत्यत्र च शून्यस्य कारणत्वम् अधिष्ठानत्वं च निराकर्तुं योऽयम् असत्वहेतुः प्रयुक्तः स तु ब्रह्मवादिनो मम असिद्धः । मया ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादिना जगज्जन्मादि-कारणस्य ब्रह्मणः सत्यत्वाङ्गीकारादित्यत आह— ॥ असत्वादिति ॥ ब्रह्मवादिनो मम असत्वादिति हेतुरसिद्ध इति मा भाणि, मायिना त्वया नोच्येत । कुतः? ब्रह्मशून्ययोर् मायिशून्यवादिभ्यां परतत्वमित्यङ्गीकृतयोर् ब्रह्मशून्ययोर् अविशेषत्वात् सर्वविशेषरहित-त्वात् । तस्माद् असदात्मकाश्छून्याद्ब्रह्मणो विशेषाभावाद् असत्वं ब्रह्मणो दुर्वारमिति न असत्वहेतुरसिद्धो मायावादिन इति भावः ॥ ३९ ॥

मन्दोपाकारिणी

यदुक्तं शून्यवादिनिराकरणहेतुनैव मायावाद्यपि निराकृतो भवेद् इति तद् अयुक्तम् । विमतं कारणं न स्याद् इत्यादिना शून्यवादिनं प्रति शून्यस्य कारणत्वम् अधिष्ठानत्वं च निराकर्तुं यो ऽसत्वादिहेतुः प्रयुक्तः सः मायावादिनोऽसिद्धः, ब्रह्मणः सत्यत्वाङ्गीराद् इत्याशङ्क्य निषेधति ॥ असत्वादिति ॥ ब्रह्मवादिनः मम असत्वादित्यसौ हेतुः कारणम् असिद्ध इति मा भाणि न वक्तव्यं, मा भाषीति पाठेऽपि अयमर्थः । ‘भण शब्दे, भाष् व्यक्तायां वाचि लुङ्, न माङ् योग इत्यडभावः, मा भाणि मा भाणिषातां मा भाणिषत’ । एवं मा भाषीत्यत्रापि । कुतस् तत्त्वयोर् मायिशून्यवादिभ्यां तत्वत्वेनाङ्गीकृतयोर् ब्रह्मशून्ययोर् अविशेषत्वात् सर्वविशेषरहितत्वात् । तस्माद् असदात्मकस्य शून्यस्य ब्रह्मणश्च विशेषाभावादसत्वं ब्रह्मणः दुर्वारमिति न असत्वहेतुर् मायिनो ऽसिद्ध इति भावः ॥३९॥

विश्वास-प्रस्तुतिः - ४०

सोऽङ्गीकरोति चेत् सत्त्वं ब्रह्मणः स्याद्विशेषिता ।
न चेत् प्राप्तं पारिशेष्यादसत्त्वं न निरस्यतु ॥ ४० ॥

मूलम् - ४०

सोऽङ्गीकरोति चेत् सत्त्वं ब्रह्मणः स्याद्विशेषिता ।
न चेत् प्राप्तं पारिशेष्यादसत्त्वं न निरस्यतु ॥ ४० ॥

पदार्थदीपिकोद्बोधिका

ननु भवेदयं दोषो यद्यस्माभिर् असत्वं ब्रह्मणोऽङ्गीक्रियेत, न च एवं ब्रह्मणः सत्वाङ्गीकारादित्यत आह— स इति ॥ स मायी ब्रह्मणः सत्वम् अङ्गीकरोति चेद् ब्रह्मणो विशेषिता विशेषोऽस्यास्तीति विशेषि, तस्य भावस् तत्ता, सविशेषत्वमित्यर्थः स्यात् । न चेद् ब्रह्मणः सत्वं नाङ्गीकरोति चेत् परिशेषस्य भावः पारिशेष्यं तस्मात्, परिशेषप्रमाणत इत्यर्थः । प्राप्तमसत्वं न निरस्यतु न निराकरोतु, परस्परविरुद्धयोर् न एकतरनिषेधस्य अन्यतरविधिनान्तरीयकत्वनियमात् सत्वासत्वयोश्च परस्परविरुद्धत्वात् । अयम् अभिप्रायः ब्रह्मणः शून्याद्वैलक्षण्यसिध्यर्थं सत्वाख्यविशेषाङ्गीकारे निर्विशेषत्वभङ्गः स्यात् । तद्भयाद् असत्वानभ्युपगमे परिशेषतः प्राप्तम् असत्वं न निराकर्तुंमुचितम् । असत्वाङ्गीकारे च असत्वहेतुरसिद्ध इत्युक्तमयुक्तमित्युभयतः पाशारज्जुरिति ॥ ४० ॥

मन्दोपाकारिणी

ननु ब्रह्मणोऽसत्त्वं मया नाङ्गीक्रियते किन्तु सत्त्वमेव अङ्गीक्रियते अतो ऽसिद्धो ऽसत्वादिहेतुर् इत्यत आह ॥ स इति ॥ सः मायी ब्रह्मणः सत्त्वम् अङ्गीकरोति चेद् विशेषिता विशेषोऽस्यास्तीति विशेषी तस्य भावः विशेषिता सविशेषितं स्यात् । न चेद् ब्रह्मणः सत्त्वं नाङ्गीकरोति चेत् पारिशेष्यात् परिशेषतः प्राप्तम् असत्त्वं न निरस्यतु न निराकरोतु । परस्परविरुद्धयोर् अन्यतरनिषेधेन अपरस्य अपरिहार्यत्वनियमात् सत्त्वासत्त्वयोश्च परस्परविरुद्धत्वात् । ‘निर् पूर्वकाद् असु क्षेपणे इत्यतो लोट् परस्मैपदम् अस्यतु अस्यताम् अस्यन्तु’ । अयं भावः ब्रह्मणः शून्याद् वैलक्षण्यसिद्ध्यर्थं सत्त्वाख्यविशेषाङ्गीकारे निर्विशेषत्वभङ्गः स्यात् । तद्भयात् सत्त्वानभ्युपगमे परिशेषप्राप्तं तद्विरुद्धम् असत्वं न निराकर्तुम् उचितम् । असत्त्वाङ्गीकारे च न असत्त्वहेतुर् असिद्ध इति उभयतः पाशारज्जुर् इति ॥ ४० ॥

विश्वास-प्रस्तुतिः - ४१

विगीतं न विचार्यं स्यान् न भाव्यं न फलप्रदम् ।
शून्यं ब्रह्माद्यमद्वैतं विधिधीगोचरो न यत् ॥ ४१ ॥

मूलम् - ४१

विगीतं न विचार्यं स्यान् न भाव्यं न फलप्रदम् ।
शून्यं ब्रह्माद्यमद्वैतं विधिधीगोचरो न यत् ॥ ४१ ॥

भावप्रकाशिका

आद्यशब्देन विज्ञानस्फोटकालाद्वैतानि ॥ ४१ ॥

पदार्थदीपिकोद्बोधिका

अस्तु तर्हि शून्याद्वैलक्षण्याभावादसत्व ब्रह्मणः किम् अनिष्ट-मित्यतः फलितार्थमाह— विगीतमित्यादिना ॥ विविधतया गीतं विगीतं विप्रतिपन्नम् इत्यर्थः न विद्यते भेदप्रपञ्चो यस्य तदद्वैतम् । विगलिताखिलभेदादिप्रपञ्चत्वेन अङ्गीकृतम् इति यावत् । शून्यं शून्यात्मकं सत् सत्यं ब्रह्म आद्यं यस्य तद्ब्रह्माद्यम् । मायावादिप्रभृतिभिर् वादिभिः परतत्वमित्यङ्गीक्रियमाणं वस्तु विचार्यं न स्यात् । मुमुक्षूणां श्रवणमननादि-रूपविचारास्पदं न स्यात् । भावयितुं ध्यातुं योग्यं भाव्यं ध्येयं च न स्यात् । फलप्रदं धर्मादिमोक्षान्ततत्तदभीष्टफलप्रदञ्च न स्यात् । ब्रह्माद्यम् इत्यत्र आद्यशब्देन शून्यवादिनां शून्यं, विज्ञानवादिनां विज्ञानं, स्फोटवादिनां वैय्याकरणानां स्फोटः (कालश्च) गृह्यते । विचार्यत्वादिकं कुतो न स्याद् इत्यत आह— विधीति । यदेतत् परतत्वम् अङ्गीकृतं ब्रह्माद्यं विधिधीगोचरः, विधिरूपा धीस्तस्या गोचरो विषयः । गोचरः प्रथमप्रतिपत्तौ विधिप्रत्ययविषयो न भवति यतस् तस्माद् इत्यर्थः ॥ ४१ ॥

मन्दोपाकारिणी

अस्तु तर्हि ब्रह्मणो ऽसत्त्वं किम् अनिष्टमित्यतः फलितार्थमाह ॥ विगीतमिति ॥ विगीतं विप्रतिपन्नम् औतं द्वैतरहितम् । विगलिताखिलमेदादिप्रपञ्चत्वेन अङ्गीकृतम् इति यावत् । शून्यं शून्यात्मकं ब्रह्माद्यं ब्रह्मप्रभृति मायावादिप्रभृतिभिर् वादिभिर् अङ्गीक्रियमाणपरतत्त्वं विचार्यं मुमुक्षूणां श्रवणमननादिरूपविचारास्पदं न स्यात् । भाव्यं ध्येयं च न स्यात् । फलप्रदं धर्मादिमोक्षान्ततत्तदभीष्टफलप्रदं च न स्यात् । ब्रह्माद्यम् इति आद्यशब्देन शून्यवादिनां विज्ञानं, स्फोटवादिनां वैयाकरणानां स्फोटश्च गृह्यते । विचार्यादिकं कुतो न स्याद् इत्यत आह ॥ विधिधीति ॥ परतत्त्वत्वेनाङ्गीकृतं ब्रह्माद्यं विधिधीगोचरः प्रथमप्रतिपत्तौ विधिधियः विधिप्रत्ययस्य गोचरः विषयः न भवति यस्माद् इत्यर्थः ॥ ४१ ॥

विश्वास-प्रस्तुतिः - ४२

खपुष्पवदखण्डत्वाद्य्वतिरिक्तं निदर्शनम् ।
प्रमाणादिवदित्येवमूहनीयं यथेप्सितम् ॥ ४२ ॥

मूलम् - ४२

खपुष्पवदखण्डत्वाद्य्वतिरिक्तं निदर्शनम् ।
प्रमाणादिवदित्येवमूहनीयं यथेप्सितम् ॥ ४२ ॥

भावप्रकाशिका

विमतानि भगवद्वाचकानि न भवन्ति असद्विषयत्वात् शशविषाण-वदित्याद्यूहनीयम् ॥ ४२ ॥

पदार्थदीपिकोद्बोधिका

किमिवेत्यत आह— खपुष्पवदिति ॥ खपुष्पवद् गगन-कुसुमवत्, खपुष्पशब्दात् खपुष्पप्रतीतावपि तद्यथा विधिप्रत्ययविषयो न भवति, तथा तत्पक्षे ब्रह्माद्यमपीति भावः । विधिप्रत्ययविषयत्वाभावः कुत इत्यत आह ॥ अखण्डत्वादिति ॥ अखण्डत्वान् निर्विशेषत्वात् । सत्वादिधर्मरहितत्त्वेन विधिप्रत्ययगोचरत्वासम्भवादित्यर्थः । अयमत्र प्रयोगः— विमतं ब्रह्माद्यं विवेकिना श्रुतिमीमांसादिभिर् विचार्यं न भवति श्रुत्याद्यविषयत्वात् खपुष्पवत् । विमतं ध्येयं न भवति निराकारत्वात् खपुष्पवत् । विमता ब्रह्मादिविषयभावना मोचिका न भवति असद्विषयत्वात् शशविषाणादिभावनावत् । विमतं ब्रह्माद्यं पुरुषार्थप्रदं न भवति असत्वाद् अश्वृङ्गवत् । यद्यद्विचार्यं भाव्यं फलप्रदं वा तत् सदेव दृष्टं प्रमाणादिवत् । प्रमाणं प्रमेयं वा साधुत्वासाधुत्वादिविचारविषयो भवति । इतिशब्दः दूषणोक्तसमाप्तौ । ‘इति हेतुप्रकरणप्रकारादिसमाप्तिषु’ इत्यमरः । एवं व्यतिरिक्तं साध्यसाधनाभ्यां रहितं निदर्शनं दृष्टान्तः यथेप्सितं यथेष्ठं प्रमाणप्रमेयादिकम् ऊहनीयम् । व्यतिरेकदृष्टान्त अपि ऊहनीय इत्यर्थः ॥ ४२ ॥

मन्दोपाकारिणी

किमिवेत्यत आह ॥ खपुष्पवदिति ॥ खपुष्पशब्दात् खपुष्प-प्रतीतावपि तद्यथा विधिप्रत्ययविषयो न भवति तथा त्वत्पक्षे ब्रह्माद्यपीति भावः । कुत इत्यत आह ॥ अखण्डत्वादिति ॥ निर्विशेषत्वाद् इत्यर्थः । सत्त्वादिधर्मरहितत्वेन विधिप्रत्ययगोचरत्वासम्भवाद् इति भावः । अयमत्र प्रयोगः ‘विमतं ब्रह्मादि श्रुत्याद्यविषयः सत्त्वादिसर्वविशेषमुक्तत्वात् खपुष्पवत् । ‘विमतं ब्रह्मादि विवेकिनां श्रुतितन्मीमांसाभिर् विचार्यं न भवति श्रुत्याद्यविषयत्वात् खपुष्पवत्’ । ‘विमतं ब्रह्माद्यं ध्येयं न भवति निराकारत्वात् खपुष्पवत्’ । ‘विमता ब्रह्मादिविषयभावना संसारमोचिका न भवति असद्विषयत्वात् शशविषाणादिभावनावत् । ‘विमतं ब्रह्माद्यं पुरुषार्थप्रदं न भवति असद्विषयत्वाद् अश्वृङ्गवत्’ । तथा विचार्यं भाव्यं फलप्रदं वा सत्त्वात् प्रमाणादिवत् । यथा प्रमाणं प्रमेयं वा साधुत्वासाधुत्वादिविचारविषयो सच्च भवति तद्वत् । इत्येवं व्यतिरिक्तं निदर्शनं यथोप्सितं स्वेच्छानुसारेण ऊहनीयम् । सत्तयैव विचारादिविषयत्वम् इत्यत्र प्रमाणादिवद् इत्यादि-व्यतिरेकदृष्टान्त ऊहनीय इत्यर्थः ॥ ४२ ॥

विश्वास-प्रस्तुतिः - ४३

आम्नायानाममानत्वे धर्मादेरप्रमाणता ।
धर्माद्यभावे नो मानं प्रत्यक्षैकप्रमाणिनः ॥ ४३ ॥

मूलम् - ४३

आम्नायानाममानत्वे धर्मादेरप्रमाणता ।
धर्माद्यभावे नो मानं प्रत्यक्षैकप्रमाणिनः ॥ ४३ ॥

पदार्थदीपिकोद्बोधिका

‘नारायणोऽनन्तगुण’ इत्यत्र वेदवेदित इत्यनेन नारायणस्य अनन्तगुणादित्वे वेद एव प्रमाणम् इत्युक्तं, तत्र वेदप्रामाण्यविषये ये विप्रतिपद्यन्ते तान् प्रत्याह—

आम्नायानामिति ॥ शाखाभेदाद् बहुवचनम् । आम्नायानां वेदानाम् अमानत्वे । अङ्गीकृते सतीति शेषः । धर्म आदिर्यस्य स धर्मादिस् तस्य । धर्माधर्माद्यतीन्द्रियप्रपञ्चस्य इत्यर्थः । अप्रमाणता प्रमाणशून्यता । न विद्यते प्रमाणं यस्मिन् तदप्रमाणं तस्य भावः । अप्रमाणता । अयं भावः सर्वसमयिभिर् अपि स्वस्वसमयप्रयोजनतया धर्मादिकं तावदवश्यम् अभ्युपगन्तव्यम् । तच्च प्रमाणेन विना न सिध्यति । न च प्रत्यक्षं तत्र, धर्मादेर् अतीन्द्रियत्वात् । नापि केवलानुमानं तदभावेऽपि प्रमाणयितुं शक्यत्वात् । तस्मादन्तत आगम एवेष्टव्यः । तत्रापि न पौरुषेयागमः, धर्मादिविषय आगमस्य प्रणेतॄणां पुरुषाणाम् आप्तत्वे विप्रतिपत्तेः । तस्मादपौरुषेयागम एव तत्र प्रमाणम् । तस्य च प्रामाण्यानंगीकारे प्रमाणाभावाद्धर्माद्यसिद्धिः स्यात् । प्रमेयसिद्धेः प्रमाणाधीनत्वाद् इति । ननु भवेदिदं धर्मादिकम् अभ्युपगच्छतां पक्षे वेदप्रामाण्याभावे धर्माद्यसिद्धिः स्यादिति तेषाम् अनिष्टापादनम् । मन्मते धर्माद्यभावः प्रमाणञ्च प्रत्यक्षमेव तस्य चार्वाकस्य धर्माद्यसिद्धिर् नानिष्टेत्यत आह— धर्मादीति । प्रत्यक्षैकप्रमाणिन एकञ्च तत्प्रमाणञ्चैकप्रमाणं प्रत्यक्षम् एव एकप्रमाणं, तदस्यास्तीति तथोक्तस् तस्य । प्रत्यक्षम् एकमेव प्रमाणमित्यङ्गीकुर्वतश् चार्वाकस्य धर्माद्यसिद्धौ मानं प्रमाणं नो नास्ति । धर्माद्यभावस्य, रूपाद्यभाववत् प्रत्यक्षेण गोचरयितुम् अशक्यत्वादिति भावः ॥ ४३ ॥

मन्दोपाकारिणी

ब्रह्माख्यो वेदवेदित इति ब्रह्मणो वेदवेद्यत्वमुक्तम् । तत्र वेदप्रामाण्यविषये विप्रतिपत्तिं कुर्वाणान् प्रति आह ॥ आम्नायानाम् इति ॥ आम्नायानां वेदानाम् अमानत्वे अप्रमाणत्वे । अङ्गीकृते इति शेषः । धर्मादेर् धर्माद्यतीन्द्रियवस्तुनो ऽप्रमाणता प्रमाणशून्यता स्यात् । धर्माद्यतीन्द्रियादिकं तावत्सर्वं संमतम् । तच्च प्रमाणेन विना न सिध्यति । न च प्रत्यक्षं तत्र प्रमाणम् । धर्मादेर् अतीन्द्रियत्वात् । नापि अनुमानम् । कामचारित्वेन अनिर्णायकत्वात् । तस्माद् अपौरुषेयो वेद एव प्रमाणं तत्रेति वाच्यम् । तस्य प्रामाण्यानङ्गीकारे प्रमाणान्तराभावाद् धर्माद्यसिद्धिः स्याद् इति भावः । स्यादिदं धर्माधिकम् अभ्युपगच्छतां वादिनाम् अनिष्टापादनं न चार्वाकस्य । तेन धर्माद्यभावस्यैव अङ्गीकारादित्यत आह ॥ धर्मादीति ॥ प्रत्यक्षैकप्रमाणिनः प्रत्यक्षमेकमेव प्रमाणम् इत्यङ्गीकारिणः वादिनः धर्माद्यभावे मानं प्रमाणं नो नास्ति । धर्माद्यभावस्य रूपाद्यभाववत् प्रत्यक्षेण गोचरयितुम् अशक्यत्वाद् इति भावः ॥ ४३ ॥

विश्वास-प्रस्तुतिः - ४४

न पौरुषेयं वचनं प्रामाण्येन विनिश्चितम् ।
पौरुषेयत्वतो यद्वद्वाक्यमुन्मत्तभाषितम् ॥ ४४ ॥

मूलम् - ४४

न पौरुषेयं वचनं प्रामाण्येन विनिश्चितम् ।
पौरुषेयत्वतो यद्वद्वाक्यमुन्मत्तभाषितम् ॥ ४४ ॥

पदार्थदीपिकोद्बोधिका

ननु यदुक्तं वेदप्रामाण्याभावे धर्माद्यसिद्धिः स्याद् इति तदसत् । वेदेन विनापि सर्वज्ञपुरुषप्रणीतागमेनैव तत्सिद्धेः । तदागमप्रामाण्यञ्च आप्तोक्तत्व-गुणयोगादेव सिध्यति । तथा च वेदप्रामाण्यानभ्युपगमेऽपि धर्मादिसिद्धिर् इत्यत आह—

न पौरुषेयमिति ॥ पुरुषेण प्रणीतं पौरुषेयं वचनं वाक्यं प्रामाण्येन विनिश्चितं न भवति । कुतः पौरुषेयत्वतः पुरुषप्रणीतत्वात् । किमिव उन्मत्तभाषितं वाक्यं यद्वत् । विमतं बुद्धादिप्रणीतवाक्यं धर्मादौ मानं न भवति पौरुषेयत्वात् । यद्यत्पौरुषेयं वाक्यं तत् तन् न धर्मादौ मानं यथा उन्मत्तवचनमिति प्रयोगः ॥ ४४ ॥

मन्दोपाकारिणी

ननु वेदस्य प्रामाण्यानङ्गीकारेऽपि न धर्माद्यसिद्धिः । पौरुषेयवाक्येनैव तत् सिद्धेर् इत्यत आह ॥ नेति ॥ पौरुषेयं बुद्धादिपुरुषप्रणीतं वचनं प्रामाण्येन धर्मादौ प्रमाणत्वेन विनिश्चितं न भवति । कुतः पौरुषेयत्वतः पुरुषप्रणीतत्त्वात् । किमिव उन्मत्तभाषितम् उन्मत्तेन भाषितम् उक्तं वाक्यं यद्वद् यथेति । ‘विमतं बुद्धादिप्रणीतं वाक्यं धर्मादौ न प्रमाणं पौरुषेयत्वाद् यत् पौरुषेयं वाक्यं तद्धर्मादौ न प्रमाणं यथा उन्मत्तवचनं’ इति प्रयोगः ॥ ४४ ॥

विश्वास-प्रस्तुतिः - ४५

विमतः पुरुषोऽज्ञः स्यात् स्याच्चासौ विप्रलम्भकः ।
पुंस्त्वाच्चैत्रवदित्यस्ताः सार्वज्ञे केवलानुमाः ॥ ४५ ॥

मूलम् - ४५

विमतः पुरुषोऽज्ञः स्यात् स्याच्चासौ विप्रलम्भकः ।
पुंस्त्वाच्चैत्रवदित्यस्ताः सार्वज्ञे केवलानुमाः ॥ ४५ ॥

पदार्थदीपिकोद्बोधिका

ननु बुद्धादीनां सर्वज्ञत्वात् कथं तद्वचनं न मानमित्यत आह— ॥ विमत इति ॥ विमतः सर्वज्ञत्वासर्वज्ञत्वाभ्यां वादिप्रतिवादिविषयः, वेदा-प्रामाण्यवादिभिर्बौद्धादिभिः सर्वज्ञत्वेनाङ्गीकृतः पुरुषो बुद्धादिरज्ञः स्यात् । विवक्षितार्थ- तत्वज्ञानरहितो भवितुम् अर्हति पुरुषत्वाद् उन्मत्तचैत्रवत् । असौ विमतः पुरुषो विप्रलम्भकः स्यात् पुरुषत्वादेव विप्रलम्भकत्वेन सम्मतपुरुषान्तरवत् । इति एवं सर्वज्ञे सर्वज्ञविषये सर्वज्ञत्वसाधकत्वेन परैः प्रयुज्यमाना केवला च सा अनुमा च केवलानुमा श्रुत्यादि- साहाय्यरहितानुमेत्यर्थः । धर्मादयः कस्यचित्प्रत्यक्षा वस्तुत्वाद्घटवदित्यादिरूपानुमेत्यर्थो ऽस्ता निरस्ता वेदितव्या ॥ ४५ ॥

मन्दोपाकारिणी

ननु बुद्धादीनां सर्वज्ञत्वात् कथं तद्वचनं धर्मादौ प्रमाणं न स्याद् इत्यत आह ॥ विमत इति ॥ विमतः बुद्धादिर् अज्ञः विवक्षिततत्त्वज्ञानरहितः स्यात् । पुंस्त्वाच् चैत्रवद् उन्मत्तपुरुषवत् । असौ विमतः पुरुषः विप्रलम्भकश्च स्यात् पुंस्त्वाच् चैत्रवद् विप्रलम्भकपुरुषवत् । इति एवं सार्वज्ञे सर्वज्ञत्वविषये परैः प्रयुज्यमानाः केवलानुमाः श्रुत्यादिसहायरहिता अनुमा अनुमानानि ‘धर्माधर्मौ कस्यचित्प्रत्यक्षौ घटवत्’ ‘परमाणवः कस्यचित् प्रत्यक्षा घटवत्’ इत्यादिरूपा अस्ता निरस्ता वेदितव्याः ॥४५॥

विश्वास-प्रस्तुतिः - ४६

दुःखीकरोति यद्दैवं दुःशास्त्रेषूग्र आग्रहः ।
दुःखाकरोऽतिघोरः स्याल्लोकोऽतस्तद्वतां ध्रुवः ॥ ४६ ॥

मूलम् - ४६

दुःखीकरोति यद्दैवं दुःशास्त्रेषूग्र आग्रहः ।
दुःखाकरोऽतिघोरः स्याल्लोकोऽतस्तद्वतां ध्रुवः ॥ ४६ ॥

भावप्रकाशिका

दुःखाकरोति विपरीतीकरोति ‘दुःखात्प्रातिलोम्ये’ इति डाच् ॥४६॥

पदार्थदीपिकोद्बोधिका

एवम् अवैदिकशास्त्राणां दुःशास्त्रत्वम् अर्थादुक्तवा तेषु दुःशास्त्रेषु आग्रहवतां फलमाह— दुःखाकरोतीति ॥ दुष्टानि च तानि शास्त्राणि च दुःशास्त्राणि तेषु उग्रो ऽनिवर्त्य आग्रहः दुःशास्त्रेषु प्रामाण्यविस्रम्भरूपाग्रहः दैवं वेदादिसदागमप्रतिपाद्यं परमदैवं भगवन्तं दुःखाकरोति । यद् यस्माद् वेदादिसदागमोक्तप्रकारादन्यथा भवति अतः वैपरीत्यकरणाद् विपरीतोपासनाद् इत्यर्थः । तद्वतां दैवविपरीतोपासनकारणदुःशास्त्राग्रहवतां पुरुषाणां दुःखाकरः दुःखानाम् आकरो ऽत एव अतिघोरः दुःसहः ध्रुवो ऽविनाशी लोकः स्यात् । दुःशास्त्रेप्याग्रहेण दैवमन्यथोपास्य निरतिशयदुःखम् अतिदुःसहं लोकम् आप्नुवन्तीति भावः । दुःखाकरोतीत्यत्र ‘दुःखात्प्रातिलोम्ये डाच्’ इति डाच् प्रत्ययः प्रतिलोम्ये वैपरीत्येऽर्थे गम्यमाने डाच्प्रत्ययान्तो दुःखशब्दो वैपरीत्यवाचकः ॥ ४६ ॥

मन्दोपाकारिणी

इदानीमेतादृशेषु शास्त्रेषु आग्रहवतां फलमाह ॥ दुःखीकरोतीति ॥ यद् यस्माद् दुःशास्त्रेषु वेदविरुद्धशास्त्रेषु उग्रो ऽतिदृढ आग्रहः प्रामाण्यविश्रम्भरूप आग्रहः दैवं वेदादिप्रतिपाद्यं भगवन्तं दुःखीकरोति वेदाद्युक्तप्रकारादन्यथा भावयति । अतः विपरीतोपासनकरणात् तद्वतां सः दुःशास्त्राग्रहः येषाम् अस्तीति तद्वन्तस् तेषां दुःशास्त्रा-ग्रहवतां पुरुषाणां दुःखाकरः दुःखानाम् आकर उत्पत्तिस्थानभूतो ऽत एव अतिघोरः दुःसहः लोको ऽन्धतमोरूपः स्यात् । कथंभूतः, ध्रुवः शाश्वतः पुनरावृत्तिरहित इत्यर्थः ॥ ४६ ॥

विश्वास-प्रस्तुतिः - ४७

आस्माकेऽपेक्षिते पक्षे मोक्षं दद्यादधोक्षजः ।
यत्र स्वानन्दिनः सन्तः सेवन्ते विषयान् बहून् ॥ ४७ ॥

मूलम् - ४७

आस्माकेऽपेक्षिते पक्षे मोक्षं दद्यादधोक्षजः ।
यत्र स्वानन्दिनः सन्तः सेवन्ते विषयान् बहून् ॥ ४७ ॥

पदार्थदीपिकोद्बोधिका

एवं दुःशास्त्रेष्वाग्रहवतां फलमभिधायेदानीं सच्छास्त्रनिरतानां फलमाह—

आस्माक इति ॥ अस्माकं सम्बन्धी आस्माकस्तस्मिन् पक्षे सिद्धान्ते अपेक्षिते सति प्रमाणत्वेन अङ्गीकृते सति तदुक्तप्रकारेण भगवदुपासने कृते सतीति शेषः । अधोक्षजो ऽधःकृतम् अक्षजम् इन्द्रियजन्यज्ञानं येन स तथोक्तः । प्रत्यक्षागोचरः केवलम् आगम-समधिगम्यः श्रीनारायणः यत्र यस्मिन्मोक्षे सन्तो मुक्तिगा सज्जना स्वः स्वरूपभूतः स चासावानन्दश्च स्वानन्दः स एषाम् अस्तीति स्वानन्दिनः सन्तः । बहून् विषयान् शब्दादीन् सेवन्ते अनुभवन्ति तादृशं मोक्षं दद्यात् ॥ ४७ ॥

मन्दोपाकारिणी

इदानीं सच्छास्त्रेषु निरतानां फलमाह ॥ आस्माक इति ॥ आस्माके अस्माभिर् अङ्गीकृतत्वेन अस्मत्सम्बन्धिनि पक्षे सिद्धान्ते अपेक्षिते सति प्रमाणत्वेन अङ्गीकृते सति तदुक्तप्रकारेण भगवदुपासने कृते च सतीति शेषः । अधोक्षजो ऽधःकृतम् अक्षजम् इन्द्रियजन्यज्ञानं येन स तथोक्तः । प्रत्यक्षागोचरः केवलम् आगमैक-समधिगम्यः श्रीमन्नारायणः मोक्षं दद्यात् । यत्र यस्मिन् मोक्षे सन्तः विद्यमाना मुक्तिं गताः सज्जना बहून् विषयान् शब्दादीन् सेवन्ते अनुभवन्ति । कथंभूताः स्वानन्दिनः स्वः स्वरूपभूत आनन्दो येषाम् अस्तीति स्वानन्दिनः स्वरूपसुखम् अनुभवन्तः ॥ ४७ ॥

विश्वास-प्रस्तुतिः - ४८

स्वव्याहत्यादिनोपेक्ष्य मुक्तिर्या निर्विशेषता ।
कदेत्याद्यनुयोगेऽस्या विशेषः स्यान्ननूत्तरे ॥ ४८ ॥

मूलम् - ४८

स्वव्याहत्यादिनोपेक्ष्य मुक्तिर्या निर्विशेषता ।
कदेत्याद्यनुयोगेऽस्या विशेषः स्यान्ननूत्तरे ॥ ४८ ॥

भावप्रकाशिका

स्वव्याहत्यादिना प्रमाणविषयत्वेन च । निर्विशेषब्रह्मता कदा कथमित्यनुयोगे ज्ञानोत्तरं ब्रह्मभावेनेत्याद्युत्तरे ज्ञानोत्तरकालसम्बन्धः ब्रह्मभाव इत्यादयो विशेषा मुक्तेः ॥ तूष्णीं भावे निग्रहस्थानम् ॥ ४८ ॥

पदार्थदीपिकोद्बोधिका

ननु निर्विशेषब्रह्मभाव एव हि मोक्षो नाम, तस्मात्तत्र कथम् आनन्दानुभवः सम्भवति । तथात्वे निर्विशेषभङ्गादित्यत आह— स्वव्याहत्यादिनेति ॥ विशेषो ऽस्यास्तीति विशेषि । तस्य भावो विशेषिता निर्गता च सा विशेषिता च । निर्विशेषिता निर्विशेषिब्रह्मतादात्म्यम् आप्तस्य मुक्तस्य सर्वविशेषरहितता नाम या मुक्तिः सा स्वव्याहत्यादिनोपेक्ष्या स्वव्याहतिदोषेण दूषितत्वाद् विवेकिभिस् तादृशम् उक्तयर्थं साधनानुष्ठानं न कर्तव्यमिति भावः । अत्रादिशब्देन अनुक्तिर्गृह्यते । निर्विशेषिब्रह्मभावो मुक्तिरिति पक्षे कथं स्वव्याहत्यादि? कथञ्च नापेक्ष्यत इत्यत आह— कदेत्यादीति । मुक्तिः कदा कथं वा इत्याद्यनुयोगे प्रश्नेऽस्माभिः कृते सतीति शेषः । उत्तरे प्रत्युत्तरे दत्ते सति तस्या मुक्तेर् विशेषः स्यान्ननु । अयं भावः । कदा मुक्तिर् इति प्रश्नस्य ऐक्यज्ञानपरिपाकसमनन्तरं निर्विशेषब्रह्मभावो मुक्तिर् इत्यादिप्रत्युत्तरं मायिना दत्तञ्चेद् ऐक्यज्ञानोत्तरकालसम्बन्धादि विशेषवत्वं स्यान्मुक्तेः । ततश्च निर्विशेषिता मुक्तिर् इत्युक्तेः स्वव्याहतिः स्यात् । कदेत्यादि प्रश्नस्य प्रत्युत्तरं न दत्तञ्चेत् तूष्णीं भावेन अनुक्तयाख्य निग्रहस्थानं स्यादिति ॥ ४८ ॥

मन्दोपाकारिणी

ननु निर्विशेषब्रह्मभाव एव हि मोक्षो नाम । तत्कथम् आनन्दानुभवः सम्भवति । तथात्वे निर्विशेषत्वभङ्गः स्याद् इत्यत आह ॥ स्वव्याहत्यादिनेति ॥ निर्विशेषता निर्गतः विशेषो यस्मात् तस्य भावस् तत्ता सर्वविशेषरहितब्रह्मस्वरूपा या मुक्तिः सा स्वव्याहत्यादिना स्वव्याहतिरेव आदिर् यस्य तत् तेन दूषणेन युक्तत्वादिति शेषः । आदिपदेन अनुक्तिर् गृह्यते । उपेक्ष्या अनादरणीया विवेकिभिस् तादृशमुक्त्यर्थं साधनानुष्ठानं न कर्तव्यमिति भावः । कथं स्वव्याहत्यादीत्यत आह ॥ कदेति ॥ कदा इत्याद्यनुयोगे मुक्तिः कदा वा भवति कथं वा भवति इत्यादिप्रश्ने अस्माभिः कृते सतीति शेषः । उत्तरे दत्ते सति अस्या मुक्त्या विशेषः स्यान्ननु । अयं भावः । कदा मुक्तिर् इति प्रश्नस्य ऐक्यज्ञानपरिपाकसमाप्त्यनन्तरं निर्विशेषब्रह्मभावो मुक्तिर् इत्यादिप्रत्युत्तरं मायिना दत्तं चेद् ऐक्यज्ञानोत्तरकालसम्बन्धादिविशेषवत्वं स्यान् मुक्तेः । ततश्च निर्विशेषा मुक्तिर् इत्युक्तेः स्वव्याहतिः स्यात् । कदा इत्यादि प्रश्नस्य प्रत्युत्तरं न दत्तं चेत् तूष्णीं भावेन अनुक्त्याख्यं निग्रहस्थानं स्यादिति ॥ ४८ ॥

विश्वास-प्रस्तुतिः - ४९

अपि बुद्ध््या्दिरहितः पुरुषार्थी न सर्वथा ।
निखिलानुभवाभावात् पुत्तलीकापुरोगवत् ॥ ४९ ॥

मूलम् - ४९

अपि बुद्ध््या्दिरहितः पुरुषार्थी न सर्वथा ।
निखिलानुभवाभावात् पुत्तलीकापुरोगवत् ॥ ४९ ॥

भावप्रकाशिका

अपीत्यादिना निर्विशेषमोक्षो वैशेषिकादिविवक्षितो बुद्ध्यादिविरही च ॥ ४९ ॥

पदार्थदीपिकोद्बोधिका

निर्विशेषिता मोक्ष इति पक्षे दोषान्तरं वदन्नेव वैशेषिकादिभिर् अङ्गीकृतं मुक्तस्य बुद्ध्यादिराहित्यं निराकरोति— ॥ अपीत्यादिना ॥ निर्विशेषभावो मोक्ष इति पक्षे दोषान्तरसमुच्चयार्थो ऽपिशब्दः बुद्ध्यादिरहितो ऽन्तःकरणचक्षुरादीन्द्रिय-रहित अत एव तत्तद्विषयभोगरहितश्च मुक्तः सर्वथा पुरुषार्थो ऽस्यास्तीति पुरुषार्थी न भवति । कुत इत्यत आह— ॥ निखिलेति ॥ निखिलाः समस्ता ये अनुभवस् तेषामभावस् तस्मात्, बाह्यान्तरज्ञानमात्रशून्यत्वाद् इत्यर्थः किमिवेत्यत आह— पुत्तलीकेति, पुत्तलीकाः प्रतिमाः पुरोगा आदयो यस्य तद्वत् । एवमेव वैशेषिकपक्षेऽपि मुक्तस्य बुद्ध्यादिराहित्यात् सः मुक्तोऽपि पुरुषार्थी न भवति ॥ ४९ ॥

मन्दोपाकारिणी

दूषणान्तरमाह ॥ अपीति ॥ बुद्ध्यादिरहितः बुद्धिर् अन्तःकरणम् आदिर् येषां चक्षुरादिबाह्यकरणानां तैः रहितोऽपि वर्जितश्च मुक्तः सर्वथा पुरुषार्थी पुरुषार्थवान् न भवति । कुतः ? निखिलानुभवाभावात् , निखिलानाम् अनुभवानां ज्ञानानाम् अभावाद् बाह्याभ्यन्तरसर्वज्ञानमात्रशून्यत्वात् । तत्र दृष्टान्तः पुत्तलीकापुरोगवद् दार्वादिकृतप्रतिमादिवदित्यर्थः । एतेन वैशेषिकोक्तयुक्तिरपि दूषिता भवति । तैरपि मुक्तानां बुद्ध्यादिराहित्याङ्गीकारादिति ॥ ४९ ॥

विश्वास-प्रस्तुतिः - ५०

ज्ञानप्रयत्नवाञ्छावानीशो न ह्यशुभं व्रजेत् ।
स्वसामर्थ्येन तेनैव तं च कुर्यात् स तादृशम् ॥ ५० ॥

मूलम् - ५०

ज्ञानप्रयत्नवाञ्छावानीशो न ह्यशुभं व्रजेत् ।
स्वसामर्थ्येन तेनैव तं च कुर्यात् स तादृशम् ॥ ५० ॥

भावप्रकाशिका

(नेष्टश्चेद् यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीति वेदोक्तिः । विजानेत्यादिना चरममेव) । तं च तादृशमेव कुर्यात् । जीवं ज्ञानप्रयत्नवाञ्छावन्तमेवाशुभभोगमभुञ्जानं कुर्यादीश्वरः ॥ ५० ॥

पदार्थदीपिकोद्बोधिका

मुक्तस्य बुद्ध्यादिराहित्याङ्गीकारे मुक्तेरपुरुषार्थतारूपदोष उक्तः । इदानीम् ईश्वरसारूप्यमाप्तस्य मुक्तस्य बुद्ध्यादिराहित्यं युक्तिविरुद्धञ्चेति वक्तुं तदुपयुक्तमीश्वरस्य स्वरूपं तावदाह— ज्ञानेत्यादिना ॥ ईश्वरो हि ज्ञानप्रयत्नेच्छादि-गुणयुक्तो ऽङ्गीक्रियते । स ज्ञानप्रयत्नवाञ्च्छावान्, ज्ञानञ्च प्रयत्नश्च वाञ्छा च, ता अस्य सन्तीति तथोक्तः । ईशो ऽशुभम् अनिष्ठं न भजेत् हि । हिशब्दः प्रसिद्धिद्योतकः । ईशस् तावन्न भुंक्त इति प्रसिद्धम् । अन्यथा ईशत्वव्याघातादित्यर्थः । ईश्वरस्य दुखाभावः किं समर्थोपासनाद्युपायेन, नेत्याह ॥ स्वसामर्थ्येति ॥ ईश्वरस्य दुःखाभोक्तृत्वं स्वसामर्थ्येनैव न रूपान्तरेण इत्यर्थः । नाप्युपायान्तरेण इत्यर्थः । अस्तु नाम ईश्वर ईदृशः मुक्तस्य बुद्ध्यादिसाहित्ये किमायातम् इत्यत आह— तेनैवेति । तेनैव स्वसामर्थ्येनैव स ईश्वरस् तञ्च स्वोपासकञ्च तादृशं ज्ञानादिमन्तम् अशुभभोगवर्जितञ्च कुर्यात् । अन्यथा मुक्तस्य ईश्वर-सारूप्यायुक्तेर् इत्यर्थः । तस्मान्मुक्तस्य बुद्ध्यादिराहित्यं युक्तिविरुद्धमिति भावः ॥ ५० ॥

मन्दोपाकारिणी

ईश्वरसारूप्यं प्राप्तस्य मुक्तस्य बुद्ध्यादिराहित्यं युक्तिविरुद्धं चेत्याह ॥ ज्ञानेति ॥ ज्ञानप्रयत्नवाञ्छावान् ज्ञानं च प्रयत्नश्च वाञ्छा च ता अस्य सन्तीति तथोक्तः । ईशः नारायणः स्वसामर्थ्येनैव स्वरूपशक्त्यैव अशुभं दुःखं न व्रजेन् न भुङ्क्ते । हिशब्दः प्रसिद्धिद्योतकः । ईशस् तावद्दुःखं न भुङ्क्ते इति प्रसिद्धम् अन्यथा ईशत्वव्याघाताद् इत्यर्थः । स ईशस् तेनैव तं च स्वोपासकमपि तादृशं ज्ञानादिगुणवन्तम् अशुभभोगवर्जितं च कुर्यात् । स्वोपासकं स्वसदृशं कुर्यात् । अन्यथा मुक्तस्य ईश्वरसारूप्यायुक्तेर् इत्यर्थः । तस्मान् मुक्तस्य बुद्ध्यादिराहित्यं युक्तिविरुद्धमिति भावः ॥ ५० ॥

विश्वास-प्रस्तुतिः - ५१

दुःखव्याप्तं सुखं बद्धे दृष्ट्वा मुक्तेर्निरस्यता ।
स्वरूपं च निरस्येत शून्यवादी तदा भवेत् ॥ ५१ ॥

मूलम् - ५१

दुःखव्याप्तं सुखं बद्धे दृष्ट्वा मुक्तेर्निरस्यता ।
स्वरूपं च निरस्येत शून्यवादी तदा भवेत् ॥ ५१ ॥

भावप्रकाशिका

स्वरूपं च बद्धे दुःखव्याप्ति दृष्टम् । तथा चायं प्रयोगः विमतो मुक्तः स्वरूपशून्यो दुःखरहितत्वाद् यः स्वरूपशून्यो न भवति स दुःखरहितो न भवति यथा संसारीत्यतिप्रसङ्गः ॥ ५१ ॥

पदार्थदीपिकोद्बोधिका

ननु ‘यत्र स्वानन्दिनः सन्तः’ इत्यत्र मुक्तस्य यः सुखभोग उक्तः स न घटते । मुक्तस्य सुखित्वे दुःखित्वापातात् । सुखदुःखयोर् अविनाभूतत्वात् तथा च अत्र प्रयोगः विमतो मुक्तः सुखी न भवति दुःखरहितत्वात् । यः सुखी स दुःखरहितो न भवति यथा संसारी न चासौ मुक्तो दुःखरहितो न भवति तस्मान् न सुखी इत्यत आह— दुःखव्याप्तमिति ॥ बद्धे संसारिणि सुखं वर्तमानसुखं दुःखव्याप्तं दुःखाविनाभूतं दृष्ट्वा संसारान्मुक्तेर् निरस्यता सुखित्वे दुःखत्वापातभयात् सुखं निराकुर्वता वादिना स्वरूपञ्च निरस्येत मुक्ताविति शेषः । संसारिणि सुखदुःखयोः साहचर्यदर्शनमात्रेण मुक्तावपि तयोर् अविनाभावं पश्यता स्वरूपस्यापि ताभ्यां साहचर्यदर्शनान् मुक्तौ सुखदुःखानङ्गीकारवत् स्वस्वरूपञ्च नाङ्गीक्रियेत इति भावः । बाढमिति चेत्तत्राह—शून्येति । तदा मुक्तस्वरूपस्य निरासेऽङ्गीकृते शून्यवादी भवेत् । अयमत्र प्रयोगः— विमतो मुक्तः स्वरूपशून्यश् चेतनत्वे सति दुःखरहितत्वात् । यः स्वरूपशून्यो न भवति स चेतनत्वे सति दुःखरहितोऽपि न भवति । यथा संसारीति । तस्मान्मुक्तस्य बुद्ध्यादि-राहित्यसाधिकाया युक्तेराभासत्वान्मुक्तस्य बुद्ध्यादिमत्वं स्वानन्दित्वं च स्थितमेतत् ॥५१॥

मन्दोपाकारिणी

मुक्तस्य सुखित्वे दुःखित्वरूपबाधकम् आशङ्क्य निराकरोति ॥ दुःखव्याप्तमिति ॥ बद्धे संसारिणि वर्तमानं सुखं दुःखव्याप्तं दुःखेन अविनाभूतं दृष्ट्वा मुक्तेः संसारान् मुक्तेर् निरस्यता दुःखित्वापातभयेन सुखं निराकुर्वता वादिना स्वरूपं च निरस्येत मुक्तौ इति शेषः । अयं भावः । विमतो मुक्तः सुखी न भवति दुःखरहितत्वात् , यः सुखी सः दुःखरहितो न भवति, दुःखीति यावत् । यथा संसारी । न च असौ मुक्तः दुःखरहितो न भवति, दुःखरहित इति यावत् । तस्मान् न सुखीति । संसारिणि सुखदुःखयोः साहचर्यदर्शनमात्रेण मुक्तावपि तयोर् अविनाभावं पश्यता स्वरूपस्यापि ताभ्यां साहचर्यदर्शनान् मुक्तौ सुखदुःखानङ्गीकारवत् स्वरूपं च नाङ्गीक्रियेत । ‘मुक्तः स्वरूप-शून्यश् चेतनत्वे सति दुःखरहितत्वाद् यः स्वरूपशून्यो न भवति सः दुःखरहितो न भवति यथा संसारीति’ प्रयोगो ज्ञेयः । मुक्तस्य स्वरूपानङ्गीकारे दोषमाह - शून्येति । तदा मुक्तस्वरूपस्य निरासाङ्गीकारे शून्यवादी भवेत् ॥ ५१ ॥

विश्वास-प्रस्तुतिः - ५२

ननु विप्रतिपन्नः स्यादूर्मिमान् देहवत्त्वतः ।
चैत्रो यथेत्युपाधिः स्यादत्र चाशुद्धदेहिता ॥ ५२ ॥

मूलम् - ५२

ननु विप्रतिपन्नः स्यादूर्मिमान् देहवत्त्वतः ।
चैत्रो यथेत्युपाधिः स्यादत्र चाशुद्धदेहिता ॥ ५२ ॥

भावप्रकाशिका

एवं ज्ञानानन्दादि साधयित्वा देहादि साध्यते मुक्तौ - ‘नन्वि’त्यादिना ॥ ५२ ॥

पदार्थदीपिकोद्बोधिका

एवं मुक्तस्य बुद्ध्यादिमत्वे सिद्धे अर्थात्सिद्धं देहवत्त्वं, तत्र शङ्कते— नन्वित्यादिना ॥ विप्रतिपन्नो मुक्तजीव ऊर्मिमान् स्यात् षडूर्मिमान् भवितुम् अर्हति देहवत्वतः देहवत्वाच् चैत्रो यथा चैत्रवत् । अत्रेतिशब्दः शङ्काग्रन्थसमाप्तौ । अयमत्राभिप्रायः मुक्तस्य यदि बुद्ध्यादिकं स्यात्तर्हि तदाश्रयो देहोऽपि स्याद् देहवत्वे च ऊर्मिमत्वमपरिहार्यं, देहिनः संसारिणस् तद्दर्शनात् । तद्वत्वे च मुक्तत्वव्याघात इति मुक्तस्य ऊर्मिमत्वपरिहारायादेहोऽङ्गीकार्यः । देहाभावे च बुद्ध्यादिमत्वं दुर्घटमिति वैशेषिकादयो मन्यन्त इति, एवं परोपन्यस्तस्य देहवत्वानुमानस्य उपाधिमाह— उपाधिरिति । तत्र ऊर्मिमत्वे, अशुद्धदेहिता, अशुद्धश्चासौ देहश्च सोऽस्यास्तीत्यशुद्धदेही, तस्य भावस्तत्ता, प्राकृतदेहित्वम् इत्यर्थः । उपाधिः स्यात् । ऊर्मिमत्वस्य शुद्धदेहित्वम् उपाधिः प्रयोजकः । तस्य च पक्षाद्य्वावृत्तिः स्वव्यावृत्या च साध्यस्योर्मिमत्वस्य व्यावर्तकत्वादस्त्येवौपाधिकत्वम् । यत्र अशुद्धदेहित्वाभावस् तत्रोर्मिमत्वाभाव यथेश्वर इति व्याप्तिसम्भवात् । एवञ्चोपाध्यभावः साध्याभावसाधने हेतुर्भवति । तथा च प्रयोगः– विमतो मुक्त ऊर्मिमान् न भवति अशुद्ध-देहरहितत्वात् । ईश्वरवदिति । एवञ्च देहवत्वानुमानस्य सोपाधिकत्वान् न तेन साध्य-सिद्धिरिति ॥ ५२ ॥

मन्दोपाकारिणी

मुक्तस्य बुद्ध्यादिमत्वाङ्गीकारे बाधकं शङ्कते ॥ नन्विति ॥ नन्विति शङ्कायाम् । विप्रतिपन्नः मुक्तजीव ऊर्मिमान् ऊर्मयः षडूर्मयो ऽस्य सन्तीति ऊर्मिमान् स्यात् । कुतः देहवत्वतः शरीरित्वाच् चैत्रो यथा । इतिशब्दः शङ्कासमाप्तौ । अयं भावः । यदि मुक्तस्य बुद्ध्यादिकं स्यात् तर्हि तदाश्रयो देहोऽपि स्यात् । देहवत्वे उत्पत्याद्यूर्मिमत्वं च स्यात् । देहिनः संसारिण ऊर्मिमत्वदर्शनात् । ऊर्मिमत्वे च मुक्तत्वव्याघात इति मुक्तस्य ऊर्मिमत्वपरिहाराय देहाभावोऽङ्गीकर्तव्यः । देहाभावे च बुद्ध्यादिमत्वं दुर्घटं मुक्तस्येति वैशेषिका मन्यन्ते इति एवम् उपन्यस्तम् अनुमानं दूषयति उपाधिरिति ॥ अत्र च ऊर्मिमत्वे अशुद्धदेहिता अशुद्धः प्राकृतः देहो ऽस्यास्तीति अशुद्धदेही तस्य भावो ऽशुद्धदेहिता प्राकृतदेहवत्वम् उपाधिः प्रयोजकं स्याद् इत्यर्थः । ‘यत्र ऊर्मिमत्वं तत्र अशुद्धदेहिता यथा संसारिणीति साध्यव्यापकताया यत्र देहवत्वं तत्र अशुद्धदेहवत्त्वम् इति नास्ति । पक्षे मुक्ते अशुद्धदेहवत्त्वस्य अभावेन साधनाव्यापकतायाश्च सत्त्वात् । तथा च व्यापकीभूतो ऽशुद्धदेहित्वलक्षण उपाधिः पक्षान् मुक्ताद् व्यावृत्तः स्वव्याप्यम् ऊर्मिमत्वरूपं साध्यमपि व्यावर्तयति । व्यापकनिवृत्तौ व्याप्यनिवृत्तेर् आवश्यक-त्वात् । एवं च उपाध्यभावः साध्याभावसाधने हेतुर्भवति । कथं ‘विमतो मुक्त ऊर्मिमान् न भवति अशुद्धदेहरहितत्वाद् ईश्वरवत्’ इति । एवं च देहवत्त्वानुमानस्य सोपाधिकत्वेन दुष्टत्वान् न तेन साध्यसिद्धिर् इति ॥ ५२ ॥

विश्वास-प्रस्तुतिः - ५३

अनैकान्तिकता हेतोर्देहवत्त्वादधीशितुः ।
सोऽदेहश्चेदनिच्छादिर्भवेच्छशविषाणवत् ॥ ५३ ॥

मूलम् - ५३

अनैकान्तिकता हेतोर्देहवत्त्वादधीशितुः ।
सोऽदेहश्चेदनिच्छादिर्भवेच्छशविषाणवत् ॥ ५३ ॥

पदार्थदीपिकोद्बोधिका

एवं देहवत्त्वानुमानस्योपाधिग्रस्तत्वमुक्तवेदानीमनैकान्तिकता- माह— ॥ अनैकान्तिकतेति ॥ हेतोर् देहवत्वहेतोर् अनैकान्तिकता स्यात् । कुतो ऽधीशितुर् ईश्वरस्य देहवत्वात् । अयमभिप्रायः पक्षत्रयवृत्तिर्हेतुर् अनैकान्तीत्युच्यते । देहवत्वहेतुश्च पक्षीकृते मुक्ते वर्तते । मुक्तस्य ज्ञानानन्दात्मकदेहवत्वाङ्गीकारात् । ऊर्मिमत्वेन सम्प्रतिपन्ने सपक्षे संसारिणि च वर्तते । साध्याभावाधिकरणे विपक्षे ईश्वरे च वर्तते । तस्माद् अनैकान्तिक इति । ननु भवेद्देहवत्वहेतोर् अनैकान्तिकता । यदीश्वरस्य देहवत्वं स्यात् तदेव नाभ्युपगच्छामः । तस्माद्विपक्षवृत्तित्वाभावात् कथम् अनैकान्तिकता इत्यत आह— स इति । स ईश्वर ओहश्चेद् देहरहितश्चेद् अनिच्छादिर् इच्छादिगुणरहितो ऽपि भवेत् । किमिव ? शशविषाणवत् । विमत ईश्वर इच्छादिरहितः देहरहितत्वात् शशविषाणवत्, इति साधनानुमानं वा, यद्यदेहः स्यात् तर्हि इच्छादिरहितोऽपि स्यात् शशविषाणवदित्यापादनं वाऽत्राभिप्रेतम् ॥ ५३ ॥

मन्दोपाकारिणी

देहवत्त्वहेतोर् दूषणान्तरमाह ॥ अनैकान्तिकतेति ॥ हेतोर् देहवत्त्वस्य अनैकान्तिकता व्यभिचारः स्यात् । कुतो ऽधीशितुर् ईश्वरस्य देहवत्त्वात् । अयं भावः - यो देहवान् स ऊर्मिमान् इति व्याप्तिर् नास्ति । ईश्वरे देहवत्त्वहेतोः सद्भावेऽपि ऊर्मिमत्त्वस्य साध्यस्याभावात् । अतोऽनैकान्तिको हेतुरिति । ईश्वरे देहवत्त्वहेतोरेव अभावान् न अनैकान्तिकता इति आशङ्क्याह ॥ स इति ॥ स ईश्वर ओहश्चेद् देहरहितश्चेत् तर्हि सो ऽनिच्छादिर् न विद्यन्ते इच्छाज्ञानप्रयत्नादयो गुणा यस्य स इच्छादिगुणरहितः स्याद् इत्यर्थः । किमिव शशविषाणवत् शशृङ्गमिव । अनेन ‘ईश्वर इच्छादिरहितः देहरहितत्वात् शशविषाणवत्’ इति अनुमानम् । यदि ईश्वरो निर्देहः स्यात् तर्हि इच्छादिरहितोऽपि स्याद् इत्यापादनं वा अत्र अभिप्रेतम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः - ५४

ज्ञात्रादिरूपमस्य स्याद्वैलक्षण्याय चेत्ततः ।
तदेव देहशब्दोक्तं न ह्यसौ प्राकृताकृतिः ॥ ५४ ॥

मूलम् - ५४

ज्ञात्रादिरूपमस्य स्याद्वैलक्षण्याय चेत्ततः ।
तदेव देहशब्दोक्तं न ह्यसौ प्राकृताकृतिः ॥ ५४ ॥

भावप्रकाशिका

ज्ञात्रादिरूपमेव देहश्चेत्स्यान्नाम ॥ ५४ ॥

पदार्थदीपिकोद्बोधिका

नन्वीश्वरस्य ज्ञात्रादिरूपसद्भावात् कथं शशविषाणसाम्य-मित्यत आह— ज्ञात्रादीति ॥ ईश्वरस्य ततः शशविषाणादेर् वैलक्षण्याय विलक्षणत्व-सिद्धये ज्ञात्रदिरूपं स्याद् अङ्गीक्रियते चेत् तर्हि अस्येश्वरस्य देहवत्वं त्वयाप्यङ्गीकृतमेव कुत इति चेत्तत्राह— तदेवेति । तदेव ज्ञात्रादिरूपमेव देहशब्दोक्तम् । अस्माभिर् इति शेषः । असावीश्वरः प्राकृताकृतिः प्राकृतदेहवान् न हि । अस्माभिर् ईश्वरस्य प्राकृतदेहवत्वं न अङ्गीक्रियते । तथा च वस्तुनि विवादाभावस्य अप्रयोजकत्वात्सिद्धम् ईश्वरस्य देहवत्वमिति देहवत्वहेतोर् अनैकान्तिकता तादवस्थ्यमिति ॥ ५४ ॥

मन्दोपाकारिणी

ननु ईश्वरस्य ज्ञात्रादिरूपसद्भावात् कथं शशृङ्गसाम्यम् इत्यत आह ॥ ज्ञात्रादीति ॥ अस्य ईश्वरस्य ततः शशविषाणादेर् वैलक्षण्याय विलक्षणत्वसिद्ध्यर्थं ज्ञात्रादिरूपं ज्ञातृ आदिर् यस्य तत् तच्च तद् रूपं च ज्ञातृरूपम् इच्छितृरूपम् इत्यादिरूपम् इत्यादिस्वरूपं स्याच् चेद् अङ्गीक्रियते चेत् । तर्हि तदेव ज्ञात्रादिरूपमेव देहशब्दोक्तं देहाख्यशब्देन उक्तम् । अस्माभिरिति शेषः । तर्हि ईश्वरस्य देहवत्त्वम् अङ्गीकृतमेव इत्यर्थः । ईश्वरस्य ज्ञात्रादिरूपम् अस्तीति त्वया यदुच्यते तदेव अस्माभिर् देहशब्देनोच्यते । तथा च वस्तुनि विवादाभावान् नाममात्रे विवादस्य अप्रयोजकत्वात् सिद्धम् ईश्वरस्य देहवत्त्वम् इति । ईश्वरस्य देहवत्त्वाङ्गीकारे ऊर्मिमत्त्वशङ्कां परिहर्तुमाह ॥ न हीति ॥ असौ ईश्वरः प्राकृताकृतिः प्राकृता विकारभूता आकृतिर् देहः यस्य सस् तथोक्तः । प्राकृतदेहवान् न भवति । हि यस्मात् तस्माद् ऊर्मिमान् न भवतीत्यर्थः । तथा च ईश्वरस्य अप्राकृत-ज्ञानानन्दात्मक स्वरूपदेहवत्त्वस्य सद्भावाद् ऊर्मिमत्वस्य अभावाद् देहवत्त्वहेतोर् अनैकान्तिकता सिद्धैव इति भावः ॥ ५४ ॥

विश्वास-प्रस्तुतिः - ५५

एवं स्वरूपदेहत्वं मुक्तस्याप्युररीकृतम् ।
नानिष्टभोगस्तेन स्यात् प्राकृतक्षेत्रसम्भवः ॥ ५५ ॥

मूलम् - ५५

एवं स्वरूपदेहत्वं मुक्तस्याप्युररीकृतम् ।
नानिष्टभोगस्तेन स्यात् प्राकृतक्षेत्रसम्भवः ॥ ५५ ॥

पदार्थदीपिकोद्बोधिका

अस्तु तर्हीश्वरस्य अप्राकृतज्ञानानन्दात्मकस्वरूपभूतदेह-वत्त्वम् । तथापि प्रकृते मुक्तस्य देहवत्त्वे किम् आयातमित्यतः प्रकृते योजयति— ॥ एवमिति ॥ मुक्तस्याप्येवम् ईश्वरवत्स्वरूपदेहवत्त्वं, स्वरूपभूतज्ञानानन्दाद्यात्मकत्वम् उररीकृतम् अङ्गीकृतम् । अस्माभिरिति शेषः । तच्चेश्वरस्वरूपवदेव सिद्ध्यति । अत एवेश्वरवदूर्मिमत्वा-भावो बुद्ध्यादिमत्वं सिद्धम् । मुक्तस्य सुखभोग एवास्ति न दुःखभोग इत्येतदुपपादयति ॥ नानिष्टेति ॥ अत्राप्येवमिति सम्बध्यते । एवम् ईश्वरवन् मुक्तस्याप्यनिष्टभोगो न स्यात् । कथंभूत इत्यत आह— प्राकृतेति । प्राकृतक्षेत्रं प्राकृतशरीरं तस्मात् सम्भव उत्पत्तिर्यस्य स तथोक्तः । प्राकृतशरीरसम्बन्धज इत्यर्थः । अनेनैतदुक्तं भवति– यदुक्तं परेण मुक्तस्य सुखित्वे दुःखित्वापात इति तदसत् । दुःखस्य प्राकृतशरीरनिमित्तकत्वान् मुक्तस्य च तदभावान् न दुःखभोगः । किन्तु केवलपरमानन्दभोग एवेति ॥ ५५ ॥

मन्दोपाकारिणी

एवमनुमाने दूषिते सति लब्धमर्थमाह ॥ एवमिति ॥ एवम् ईश्वरवन् मुक्तस्यापि स्वरूपदेहत्वं ज्ञानानन्दादिस्वरूपदेहवत्त्वम् उररीकृतम् अङ्गीकृतम् । अस्माभिर् इति शेषः । तथा च मुक्तस्य ईश्वरवदेव ऊर्मिमत्वाभावाद् बुद्ध्यादिमत्त्वं स्वानन्दभोगश्चास्तीति सिद्धम् । तेन मुक्तस्य सुखभोग एव अस्ति न दुःखभोग इत्येतद् उपपादयति ॥ नेति ॥ अपि इत्येतद् अत्रापि सम्बद्ध्यते । तेन पूर्वोक्तहेतुना ईश्वरवन् मुक्तस्यापि अनिष्टभोगो ऽनिष्टस्य दुःखस्य भोगः न स्यात् । कथंभूतः प्राकृतक्षेत्रसम्भवः प्राकृतं च तत् क्षेत्रं शरीरं च तस्मात् सम्भवः जन्यः । ‘क्षेत्रं पत्नीशरीरयोः’ इत्यमरः । दुःखभोगस्य प्राकृतशरीर-निमित्तत्वात् । मुक्तस्य च प्राकृतशरीराभावान् न दुःखभोगः । किं तु केवलपरमानन्दभोग एव अप्राकृतशरीरनिमित्तक इति । मुक्तस्य सुखित्वे दुःखित्वापात इति यदुक्तं तन्नेति भावः ॥ ५५ ॥

विश्वास-प्रस्तुतिः - ५६

विमतो नावयववान् विनाशित्वप्रसङ्गतः ।
पटवच्चेदवयवा निरस्यन्तेऽत्र कीदृशाः ॥ ५६ ॥

मूलम् - ५६

विमतो नावयववान् विनाशित्वप्रसङ्गतः ।
पटवच्चेदवयवा निरस्यन्तेऽत्र कीदृशाः ॥ ५६ ॥

भावप्रकाशिका

तत्रापि नावयवितेत्याशङ्क्य निरस्यते विमत इत्यादिना ॥ ५६ ॥

पदार्थदीपिकोद्बोधिका

नन्वेवं ‘स्वरूपदेहमित्यत्र यदुक्तं मुक्तस्य देहात्मकत्वं तदयुक्तम् । देहस्य सावयवत्वात् । तदात्मकस्य च मुक्तस्य सावयवत्वापातात् । सावयवत्वे विनाशित्वं स्यादिति शङ्कते— ॥ विमत इत्यादिना ॥ विमतः सावयवत्वनिरवयवत्वाभ्यां विमतिविषयो मुक्तो ऽवयववान्न भवति । कुतः विनाशित्वप्रसङ्गतः विनाशो ऽस्यास्तीति, तस्य भावस् तत्वं, तस्य प्रसङ्गः प्रसक्तिस् तस्मादिति ततः । सावयवत्वे विनाशित्वापातान् न सावयव इत्यर्थः, अयमत्र प्रयोगः - विमतो मुक्तो निरवयवो ऽविनाशित्वात् परमाणुवत्, यद्यवयवी स्यात्तर्हि विनाशी स्याद् यथा पट इति विपक्षे बाधकतर्कश्च । तस्मान्निरवयवत्वान् न मुक्तस्य सावयवदेहात्मकत्वमिति । तदेतत्सामान्यतोऽनूद्य निराकरोति— अत्र मुक्ते अवयवा निरस्यन्ते चेत्, कीदृशाः? कीदृशा इत्यनेनावयवानाम् अनेकविधत्वं सूचितम् । तेनैव भिन्नावयवनिरासोऽभिन्नावयवनिरासो वेति विकल्पोऽपि सूचितः ॥ ५६ ॥

मन्दोपाकारिणी

ननु एवं स्वरूपदेहत्वम् इत्यनेन मुक्तस्य देहात्मकत्वं यदुक्तं तन्न । देहस्य सावयवत्वात् । तदात्मकस्य मुक्तस्यापि सावयवत्वात् । सावयवत्वे विनाशित्वं स्यादिति शङ्कते ॥ विमत इति ॥ विमतः मुक्तो ऽवयववान् न भवति । विनाशित्व-प्रसङ्गतः विनाशित्वस्य प्रसङ्गत आपातात् पटवत् । ‘विमतो निरवयवो ऽविनाशित्वाद् यो ऽविनाशी स निरवयवः यथा परमाणुः’ इति प्रयोगः । ‘यदि अवयवी स्यात् तर्हि विनाशी स्यात् पटवत्’ इति विपक्षे बाधकतर्कश्च । तस्मान् मुक्तस्य निरवयवत्वान् न सावयवदेहात्मकत्वम् इति । तदेतद् दूषयितुं विकल्पयति ॥ चेदिति ॥ एवम् अनुमानादिना मुक्तस्य अवयवा निरस्यन्ते चेत् तर्हि पृच्छामः, किमिति, अत्र मुक्ते कीदृशा अवयवा निरस्यन्ते इति भिन्ना वा अभिन्ना वा इत्याशयः ॥ ५६ ॥

विश्वास-प्रस्तुतिः - ५७

सिद्धसाधनता हेतोस्ते भिन्नाश्चेदचिन्मयाः ।
आत्मनो भेदरहिता एष्टव्या एव वादिभिः ॥ ५७ ॥

मूलम् - ५७

सिद्धसाधनता हेतोस्ते भिन्नाश्चेदचिन्मयाः ।
आत्मनो भेदरहिता एष्टव्या एव वादिभिः ॥ ५७ ॥

पदार्थदीपिकोद्बोधिका

भिन्नावयवनिरासपक्षं दूषयति— सिद्धसाधनतेति ॥ ते अवयवा भिन्ना अचिन्मया निरस्यन्ते चेत्तर्हि निरवयवसाधकविनाशित्वहेतोः सिद्धसाधनता स्यात् । मुक्तस्य भिन्नावयवराहित्यं सिद्धमस्माकम् । अभिन्नावयवनिरासपक्षं दूषयति— आत्मन इति । आत्मनो जीवस्य भेदरहिता अवयवा वादिभिर् एष्टव्या अङ्गीकर्तव्या एव । अभिन्नावयवानाम् अङ्गीकार्यत्वान् न तन्निराकरणं युक्तमिति भावः ॥ ५७ ॥

मन्दोपाकारिणी

आद्यं दूषयति ॥ सिद्धसाधनतेति ॥ ते अवयवा भिन्ना अचिन्मयाश् चिन्मया न भवन्तीति अचिन्मया अचेतनरूपा जडा इति यावत् । निरस्यन्ते चेत् तर्हि निरवयवत्वसाधकविनाशित्वहेतोः सिद्धसाधनता स्यात् । मुक्तस्य भिन्नावयव-राहित्यस्य अस्माकं सिद्धत्वाद् इति भावः । द्वितीयं निराकरोति ॥ आत्मन इति ॥ आत्मनः जीवस्य भेदरहिता अवयवा वादिभिर् एष्टव्या अङ्गीकर्तव्या एव । वादित्व-साम्याद् यत्र क्वापि अभिन्नावयवानाम् अङ्गीकार्यत्वान् न निराकरणं युक्तम् इति भावः ॥ ५७ ॥

विश्वास-प्रस्तुतिः - ५८

परमाण्वादिदेशेषु व्याप्त्यै व्यामादिकेष्वपि ।
यथाऽऽत्मनः प्रदेशाः स्युस्तेषां नोऽवयवास्तथा ॥ ५८ ॥

मूलम् - ५८

परमाण्वादिदेशेषु व्याप्त्यै व्यामादिकेष्वपि ।
यथाऽऽत्मनः प्रदेशाः स्युस्तेषां नोऽवयवास्तथा ॥ ५८ ॥

पदार्थदीपिकोद्बोधिका

ननु वैशेषिकैः कुत आत्माभिन्ना अवयवा अङ्गीकर्तव्या इत्यत आह— परमाण्विति ॥ तेषां वैशेषिकाणां पक्षे आत्मनः परमात्मनो जीवात्मनो वा । व्याप्त्यै व्याप्तिसिद्ध्यर्थम् । परमाणुरादिर्येषां ते परमाण्वादयस् तेषां देशास्तेषु । परमाणुद्य्वणुक त्र्यणुकाद्यवस्थानयोग्येषु स्थानेषु । व्यामादिकेष्वपि व्यायतं हस्तद्वयं व्याम इत्युच्यते । स आदिर्येषां तेष्वपि, आत्मनः प्रदेशा अवयवा यथा स्युर् अस्मत्पक्षेऽवयवा अभिन्नास्तथा स्युः । आत्मनो व्याप्तिम् अङ्गीकुर्वतां वैशेषिकाणां पक्षे परमाण्वाद्यल्पस्थले व्यामादिबहुस्थलेषु च आत्मनः प्रदेशा अङ्गीकर्तव्याः । अन्यथा व्याप्त्यसम्भवात् । ते चात्मप्रदेशा आत्माभिन्ना एवाङ्गीकर्तव्याः । अन्यथा एकस्यात्मनः सर्वव्याप्त्यसम्भवात् । एवं सति तेषां पक्षे यथा आत्माभिन्ना आत्मप्रदेशास् तथाऽस्मत्पक्षेऽप्यात्मनो मुक्तजीवस्य त अवयवास् तदभिन्नाः, सुखज्ञानादिगुणा एव करचरणाद्यात्मकाः सम्भवेयुर् इति भावः ॥ ५८ ॥

मन्दोपाकारिणी

ननु वैशेषिकैः कुत आत्मनो ऽभिन्नावयवा अङ्गीकर्तव्या इत्यत आह ॥ परमाण्विति ॥ तेषां वैशेषिकाणां पक्षे आत्मनः परमात्मनो जीवात्मनो वा । व्याप्तै व्याप्तिसिद्ध्यर्थम् । परमाण्वादिदेशेषु परमाणुर् आदिर् येषां ते ते च ते देशाः प्रदेशाश्च तेषु । आदिशब्देन द्व्यणुकत्र्यणुकादिस्थलानि गृह्यन्ते । परमाण्वाद्यल्पस्थलेषु इत्यर्थः । व्यामादिकेषु व्यामो नाम तिर्यक् प्रसारितं हस्तद्वयम् । ‘व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरं’ इत्यमरः । स एव आदिर् येषां ते व्यामादिकास् तेष्वपि । यथा आत्मनः प्रदेशा अवयवाः स्युस् तथा नो ऽस्मत्पक्षे अवयव्यभिन्ना अवयवाः स्युः । अयं भावः - आत्मनः व्याप्तिम् अङ्गीकुर्वतां वैशेषिकाणां परमाण्वाद्यल्पस्थलेषु व्यामादिस्थलेषु च आत्मनः प्रदेशा अङ्गीकर्तव्या एव । अन्यथा व्याप्त्यसम्भवात् । तत्प्रदेशा आत्माभिन्ना एव अङ्गीकर्तव्याः । अन्यथा एकस्य आत्मनः सर्वव्याप्त्यसम्भवात् । एवं च सति तेषां पक्षे यथा आत्माभिन्ना आत्मप्रदेशास् तथा अस्मत्पक्षेऽपि आत्मनः मुक्तजीवस्य अवयवास् तदभिन्नाः सुखज्ञानादिगुणा एव करचरणाद्यात्मकाः सम्भवेयुरिति ॥ ५८ ॥

विश्वास-प्रस्तुतिः - ५९

मुक्तो रूपादिवित् सत्वाज्जडान्यत्वे सतीशवत् ।
दृष्टान्तोऽसाध्यविकलस्तस्य सर्वज्ञताग्रहात् ॥ ५९ ॥

मूलम् - ५९

मुक्तो रूपादिवित् सत्वाज्जडान्यत्वे सतीशवत् ।
दृष्टान्तोऽसाध्यविकलस्तस्य सर्वज्ञताग्रहात् ॥ ५९ ॥

भावप्रकाशिका

मुक्त इत्यादिना इन्द्रियवत्त्वं प्रसाध्यते ॥ ५९ ॥

पदार्थदीपिकोद्बोधिका

मुक्तस्यावयवत्वं प्रसाध्येदानीमिन्द्रियवत्वं प्रसाध्यते—

॥ मुक्त इत्यादिना ॥ मुक्तो रूपादिविद् रूपादिविषयकज्ञानवान्, तादृशविषयवांश्च, जडान्यत्वे सति सत्वादीशवत् । नन्वीश्वरस्य रूपादिविषयकज्ञानाभावाद्दृष्टान्तः साध्यविकल इत्यत आह— दृष्टान्त इति । दृष्टान्त ईशवदित्ययं दृष्टान्तः साध्येन साध्यधर्मेण विकलो रहितः स न भवतीत्यसाध्यविकलः । कुत इत्यत आह— तस्येति । तस्य ईश्वरवादिभिर् अङ्गीकृतेश्वरस्य सर्वज्ञताग्रहात् सर्वज्ञताङ्गीकारात् । रूपादेरपि सर्वान्तः पातित्वा-त्तद्विज्ञानाभावे सर्वज्ञताऽसम्भवादिति भावः ॥ ५९ ॥

मन्दोपाकारिणी

एवं मुक्तस्य अभिन्नावयवत्त्वं प्रसाध्य इदानीम् इन्द्रियवत्वादि साधयति ॥ मुक्त इति ॥ मुक्तः रूपादिविद् रूपम् आदिर् येषां ते रूपादयो विषयास् तान् वेत्तीति रूपादिवित् । आदिशब्देन रसगन्धशब्दस्पर्शा ग्राह्याः । प्रकृतो मुक्तः रूपादिविषयज्ञानवान् भवितुमर्हति जडान्यत्वे सति जडाद्भिन्नत्वे सति सत्त्वाद् वस्तुत्वाच् चेतनत्वादिति यावत् । यश् चेतनः सः रूपादिज्ञानवान् ईश्वरो यथा इत्यर्थः । ननु ईश्वरस्य रूपादिज्ञानाभावाद् दृष्टान्तः साध्यविकल इत्यत आह ॥ दृष्टान्त इति ॥ दृष्टान्त ईशवद् इत्ययं दृष्टान्तो ऽसाध्यविकलः साध्येन विकलः रहितः न भवतीति असाध्यविकलः । कुतस् तस्य ईश्वरस्य वादिभिर् अङ्गीकृतस्य ईश्वरस्य सर्वज्ञताग्रहात् सर्वज्ञताया ग्रहाद् अङ्गीकारात् । ईश्वरवादिभिर् ईश्वरस्य सर्वज्ञत्वस्य स्वीकाराद् रूपादिविषयज्ञानस्य सत्त्वाद् दृष्टान्तः साध्यविकलो न भवतीति भावः ॥ ५९ ॥

विश्वास-प्रस्तुतिः - ६०

ईश्वरो न सुखी तेन रूपाद्यनुभवन्नपि ।
दुःखप्रसङ्गादिति मा वादि तद्य्वाप्तिदूषणात् ॥ ६० ॥

मूलम् - ६०

ईश्वरो न सुखी तेन रूपाद्यनुभवन्नपि ।
दुःखप्रसङ्गादिति मा वादि तद्य्वाप्तिदूषणात् ॥ ६० ॥

पदार्थदीपिकोद्बोधिका

ननु सर्वज्ञत्वाद्रूपादिज्ञानवान् अपि ईशः न रूपाद्यनुभव-जन्यसुखवान् । सुखित्वे दुःखित्वापातात् । ‘मुक्तौ रूपादिवित्सत्वात्’ इत्यत्र च मुक्तस्य रूपादिज्ञानजन्यसुखानुभवो भवद्विवक्षितः । तस्माद्दृष्टान्तो ऽसाध्यविकलो न भवतीत्या-शङ्क्य परिहरति— ईश्वर इत्यादिना ॥ ईश्वरो रूपाद्यनुभवन्नपि जानन्नपि तेन रूपादि-ज्ञानेन सुखी न स्याद् दुःखप्रसङ्गात्, सुखित्वे दुःखित्वापातात्, इति मा वादि न ब्रूयात् । कुतस् तद्य्वाप्तिदूषणात् । यः सुखी स दुःखी यथा चैत्र इति तदुक्तव्याप्तेर्दूषितत्वात् । ‘ननु सौख्यादिमान्नेशो दुःखादिरहितत्वतः’ इत्याशङ्क्य एवं ‘विमतो ज्ञानी न भ्रान्तिरहितत्वतः’ इति सत्प्रतिपक्षत्वेन च । तस्यैवामन्दमानन्दं वदन् ‘नाश्राव्यसौ कथमिति’ कालात्ययाप-दिष्टत्वेन च दुःखादिरहितत्वानुमानस्य प्रागेवास्माभिर् दूषितत्वादिति भावः । तस्माद् ईश्वरस्य सुखाद्यनुभवसद्भावान् न दृष्टान्तोऽसाध्यविकल इति फलितार्थः ॥ ६० ॥

मन्दोपाकारिणी

ननु रूपादिविद् इत्यत्र मुक्तस्य सुखानुभवजनकरूपादिज्ञानं भवतां विवक्षितम् । तथा च तादृशं रूपादिज्ञानम् ईश्वरे नास्तीति कथं दृष्टान्तः साध्यविकलो न भवतीति आशङ्क्य परिहरति ॥ ईश्वर इति ॥ ईश्वरः रूपादिविषयजातम् अनुभवन्नपि जानन्नपि तेन रूपादिज्ञानेन सुखी न भवति । कुतः दुःखप्रसङ्गात् सुखित्वे दुःखित्वापाताद् इति मा वादि त्वया न वक्तव्यम् । कुतस् तद्व्याप्तिदूषणात् तद्व्याप्तेस् तस्याः ‘यः सुखी स दुःखी यथा संसारी’ इत्युक्ताया व्याप्तेर् दूषणात् । ‘ननु सौख्यादिमान् न ईशः’ इत्यादिना पूर्वं दूषितत्वाद् इति भावः । तस्माद् ईश्वरस्य रूपाद्यनुभवजन्यसुखसद्भावान् न साध्यविकलो दृष्टान्त इत्यर्थः ‘वदेः कर्मणि लुङ्’ ॥ ६० ॥

विश्वास-प्रस्तुतिः - ६१

दृष्टान्तो यस्य नेष्टोऽयं तस्य स्याद्य्वतिरेकवान् ।
शिलावदित्यतः शुद्धचिद्देहेन्द्रियभोग्यसौ ॥ ६१ ॥

मूलम् - ६१

दृष्टान्तो यस्य नेष्टोऽयं तस्य स्याद्य्वतिरेकवान् ।
शिलावदित्यतः शुद्धचिद्देहेन्द्रियभोग्यसौ ॥ ६१ ॥

भावप्रकाशिका

भाट्टादेरनीश्वरत्वादीशवदित्ययं दृष्टान्तो नेष्टश्चेत् ॥ ६१ ॥

पदार्थदीपिकोद्बोधिका

ननु भवेदिदं मुक्तो रूपादिज्ञानवान् जडान्यत्वे सति सत्वादीशवदिति सर्वज्ञेश्वरदृष्टान्तेन मुक्तस्य रूपादिज्ञानसमर्थं, सर्वज्ञमीश्वरम् अभ्युपगच्छतः प्रति । ये तु निरीश्वरभाट्टाद्यास्तेषामयं दृष्टान्तो न सम्मत इति न तान्प्रतीदं समर्थनं युक्तमित्यत आह— दृष्टान्त इति ॥ यस्य वादिनोऽयं दृष्टान्तो नेष्टः सर्वज्ञेश्वरदृष्टान्तो न सम्मतस् तस्य व्यतिरेकः साध्यसाधनाभावः सोऽस्यास्तीति व्यतिरेकवान् स्यात् । साध्य-साधनाभावविशिष्टोऽन्यः कश्चन दृष्टान्तो भवति । यथा मुक्तो रूपादिविज्ञानवान् जडान्यत्वे सति सत्वाद् यो रूपादिज्ञानवान् न भवति, स जडान्यत्वे सति सन्न भवति यथा शिलेत्यादि व्यतिरेकदृष्टान्तो भवतीत्यर्थः । निरीश्वरोऽपि यो भाट्टादिर्वेदप्रामाण्यभ्युप-गच्छति तं प्रति ‘यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि’ ‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा’ इत्यादिवाक्यं मुक्तस्य रूपज्ञानादिसद्भावे प्रमाणत्वेनोदाहर्तव्यम् । एवं मुक्तस्य देहेन्द्रियादि-मत्वम् आनन्दभोगवत्त्वञ्च प्रसाध्येदानीमुपसंहरति— अत इति । अत मुक्तदेहेन्द्रियादिमत्त्वे साधनप्रमाणसद्भावाद्बाधकाभावाच्च असौ मुक्तः शुद्धचिद्देहेन्द्रियभोगी देहश्चेन्द्रियाणि च भोगाश्च, शुद्धा च सा चिच्च, तदात्मकाश्च ते देहेन्द्रियभोगाश्च तेऽस्य सन्तीति तादृशः ॥

मन्दोपाकारिणी

ननु ईश्वरावादिनं प्रति ईश्वरदृष्टान्तेनैवं साधनम् अयुक्तम् इत्यत आह ॥ दृष्टान्त इति ॥ यस्य निरीश्वरवादिनो ऽयम् ईश्वरवद् इत्युक्तः दृष्टान्त इष्टः संमतः न । तस्य व्यतिरेकवान् व्यतिरेकः साध्यसाधनयोर् अभावः सो ऽस्यास्तीति व्यतिरेकवान् । यः रूपादिज्ञानी न भवति स चेतनो न भवति शिलावत् पाषाणो यथा इत्येवंरूपः व्यतिरेकदृष्टान्तः स्यात् । एवं मुक्तस्य देहवत्त्वम् इन्द्रियवत्त्वम् आनन्दभोगवत्त्वं च प्रसाध्य इदानीम् उपसंहरति ॥ अत इति ॥ अतः मुक्तस्य देहेन्द्रियादिमत्वसाधकप्रमाणसद्भावाद् बाधकाभावाच्च असौ मुक्तः शुद्धचिद्देहेन्द्रियभोगी शुद्धा अप्राकृता स्वरूपभूतेति यावत् । सा च सा चिज् ज्ञानं च देहश्च इन्द्रियाणि शुद्धचिदात्मकानि च तानि देहेन्द्रियाणि च तैर् भोगः सुखम् अस्यास्तीति एतादृशः भवत्येव । ‘भोगः सुखे स्त्र्यादिभृतौ’ इत्यमरः ॥६१॥

विश्वास-प्रस्तुतिः - ६२

स्वानन्दविषये मोक्षे वेदोक्ते युक्तिसाधिते ।
द्वेषोऽयं वादिनां कस्मात् तद्विरुद्धेऽथवाऽऽग्रहः ॥ ६२ ॥

मूलम् - ६२

स्वानन्दविषये मोक्षे वेदोक्ते युक्तिसाधिते ।
द्वेषोऽयं वादिनां कस्मात् तद्विरुद्धेऽथवाऽऽग्रहः ॥ ६२ ॥

भावप्रकाशिका

‘यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राप्ताः कामास्तत्र मामृतं कृधीन्द्रायेन्दो परिस्रवे’ति वेदोक्तिः ॥ ६२ ॥

पदार्थदीपिकोद्बोधिका

एवम् अस्मदुक्तप्रकारेण मुक्तस्याप्राकृतदेहेन्द्रियज्ञानवत्वे प्रमाणसिद्धेऽपि वादिनामेवंविधमोक्षानभ्युपगमो न प्रमाणमूलोऽपि तु द्वेषमूल एव । तथापि तद्विरुद्धमोक्षाभ्युपगमश्च दुराग्रहमूल एवेत्याह— ॥ स्वेति ॥ स्वानन्दविषये स्वरूपभूत आनन्दः स्वानन्दः स एव विषयो भोग्यो यस्मिन्, तस्मिन् । वेदोक्ते ‘यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते’ ‘कामस्य यत्राप्ताः कामास्तत्र मामृतं कृधीन्द्रायेन्दो परिस्रव’ ‘अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः’ ‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः’ ‘सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते’त्यादिवेदवाक्यैरुक्ते, निर्दुःखा-नन्दरूपतया प्रतिपादिते युक्तिसाधिते, ‘ज्ञानप्रयत्नवाञ्छावानीशो न ह्यशुभं भजेत् । स्वसामर्थ्येन तेनैव तञ्च कुर्यात्स तादृशम् । सोऽदेहश्चेदनिच्छादिर्भवेच्छशविषाणवत् । मुक्तो रूपदिवित्सत्वाज्जडान्यत्वे सतीशवत्’ इत्यादियुक्तिभिश्च साधिते मोक्षे वादिनामयं द्वेषः कस्मात् । किं मूलः? अथ तद्विरुद्धे अस्मदुक्तमोक्षविरुद्धे निर्विशेषब्रह्मत्वादिरूपमोक्षे आग्रहो वा कस्मात् । तत्र च स्वसमयपक्षपातमन्तरेण न किञ्चिदपि कारणं पश्याम इत्यर्थः ॥

मन्दोपाकारिणी

ननु तर्हि भवदुक्तप्रकारमेव मोक्षम् अनभ्युपगम्य तद्विरुद्ध-मोक्षाङ्गीकारो वादिनां कुत इत्यत आह ॥ स्वानन्देति ॥ स्वानन्दविषये स्वानन्द एव स्वरूपभूतानन्द एव विषयो भोग्यो यस्मिन् स तथोक्तस् तस्मिन् । वेदोक्ते वेदैः ‘यत्र आनन्दाश्च मोदाश्च’ ‘अक्षण्वन्तः कर्णवन्तः सखायः’ ‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः’ ‘सोऽश्नुते सर्वान् कामान् सह’ इत्यादि वेदवाक्यैर् उक्ते निर्दुःखपरमानन्दतया प्रतिपादिते । युक्तिसाधिते युक्तिभिः ‘ज्ञानप्रयत्नवाञ्छावान् ईशः न हि अशुभं व्रजेत्’ इत्यादियुक्तिभिश्च साधिते मोक्षे वादिनाम् अयं दोषः कस्मात् किं मूलकः । अथवा तद्विरुद्धे तस्य अस्मदुक्तस्य मोक्षस्य विरुद्धे निर्विशेषब्रह्मभावरूपमोक्षे आग्रहः कस्मात् किं मूलक इति । तत्तत्स्वभावमन्तरेण द्वेषाग्रहयोर् मूलं न पश्याम इति भावः ॥ ६२ ॥

विश्वास-प्रस्तुतिः - ६३

ततः स्वतः प्रमाणेन देवो वेदेन वेदितः ।
विष्णुर्मोक्षादिदातेति विश्वं भवति शोभनम् ॥ ६३ ॥

मूलम् - ६३

ततः स्वतः प्रमाणेन देवो वेदेन वेदितः ।
विष्णुर्मोक्षादिदातेति विश्वं भवति शोभनम् ॥ ६३ ॥

पदार्थदीपिकोद्बोधिका

‘आस्माकेऽपेक्षिते पक्षे’ इत्युक्तमुपसंहरति—

तत इति ॥ ततोऽस्मन्मतविरुद्धानामप्रामाणिकत्वात्प्रमाणविरुद्धत्वाच्च तानि मता-न्यनादृत्य स्वतः प्रमाणेन अन्यानपेक्षप्रमाणेन स्वप्रामाण्यग्रहणे स्वव्यतिरिक्तप्रमाणान्तर- निरपेक्षेणेत्यर्थः । वेदेन वेदितः स्वातन्त्र्याद्यशेषगुणपूर्णतया निर्दोषतया च प्रतिपादितः देवः क्रीडादिगुणविशिष्टः विष्णुः श्रीनारायणो मोक्षस्य दातेति विश्वं तत्तदपेक्षितं मोक्षाद्यखिलं शोभनं मङ्गलं भवति ॥ ६३ ॥

मन्दोपाकारिणी

‘आस्माकेऽपेक्षिते पक्षे मोक्षं दद्यादधोक्षजः’ इत्युक्तम् उपसंहरति ॥ तत इति ॥ ततो ऽस्मन्मतविरुद्धानाम् अप्रामाणिकत्वात् प्रमाणविरुद्धत्वाच्च तानि मतानि अनादृत्य विष्णुर् व्याप्तः नारायणः मोक्षादिदाता । आदिशब्देन सृष्ट्यादेर् ग्रहणम् । मोक्ष आदिर् यस्य तत् तस्य दाता इति इत्थम् अङ्गीकारे सति विश्वम् अखिलं तत्तदपेक्षितं मोक्षादि शोभनं मङ्गलं भवति । कथंभूतो विष्णुः स्वतः प्रमाणेन स्वप्रामाण्यग्रहणार्थं स्वव्यतिरिक्त-प्रमाणान्तरनिरपेक्षेण वेदेन वेदितः स्वातन्त्र्याद्यशेषगुणपूर्णतया निर्दोषतया च प्रतिपादितः देवः क्रीडादिगुणविशिष्टः ॥ ६३ ॥

विश्वास-प्रस्तुतिः - ६४

इत्यादीन् दर्शयन्त्यर्थान् व्याख्योपन्याससंयुता ।
त्रिविक्रमार्येण तदा विश्वाभिज्ञस्य शुश्रुवे ॥ ६४ ॥

मूलम् - ६४

इत्यादीन् दर्शयन्त्यर्थान् व्याख्योपन्याससंयुता ।
त्रिविक्रमार्येण तदा विश्वाभिज्ञस्य शुश्रुवे ॥ ६४ ॥

पदार्थदीपिकोद्बोधिका

‘तदा तदाननाम्भोजादि’त्याद्युक्तमुपसंहरन्नेव ‘त्रिविक्रमार्यं सोऽपश्यत्’ इति प्रकृतमनुसरति— इत्यादीनिति ॥ इत्यादीन् ‘प्रधानमपराधीनं’ इत्यादी-नर्थान् स्वपक्षसाधनपरपक्षनिराकरणरूपान् प्रमेयान् दर्शयन्ती, विश्वम् अखिलमभिजानातीति विश्वाभिज्ञः पूर्णप्रज्ञस्तस्य उपन्याससंयुता व्याख्या त्रिविक्रमार्येण तदा शुश्रुवे ॥ ६४ ॥

मन्दोपाकारिणी

‘तदा तदाननाम्भोजाद्वृत्तोपन्यासभारती’ इत्यारभ्योक्तम् उपसंहरन्नेव त्रिविक्रमार्यं सोऽपश्यद् इति प्रकृतमनुसरति ॥ इत्यादीनिति ॥ इत्यादीन् पूर्वोक्तान् अर्थान् प्रमेयविशेषान् दर्शयन्ती प्रतिपादयन्ती विश्वाभिज्ञस्य विश्वम् अभितः सम्यक् जानातीति विश्वाभिज्ञस् तस्य पूर्णप्रज्ञाचार्यस्य उपन्याससंयुता उपन्यासेन वाङ्मुखेन संयुता व्याख्या प्रवचनं त्रिविक्रमार्येण त्रिविक्रमपण्डिताचार्येण तदा व्याख्यानसमये शुश्रुवे श्रुता । ‘श्रु श्रवणे इति धातोः कर्मणि लिट् आत्मनेपदं शुश्रुवे शुश्रुवाते शुश्रुविरे’ ॥ ६४ ॥

विश्वास-प्रस्तुतिः - ६५

अथ प्रायुङ्क्त विविधान् बोधचापगुणेरितान् ।
विपक्षयुक्तान् वीर्येण तीक्ष्णांस्तर्कशरानसौ ॥ ६५ ॥

मूलम् - ६५

अथ प्रायुङ्क्त विविधान् बोधचापगुणेरितान् ।
विपक्षयुक्तान् वीर्येण तीक्ष्णांस्तर्कशरानसौ ॥ ६५ ॥

पदार्थदीपिकोद्बोधिका

अथेति ॥ अथ श्रीमध्वोपन्याससमाप्त्यनन्तरम् असौ त्रिविक्रमार्यः विविधान् नानाविधान् बोध एव चापो धनुस्तस्य यो गुणस्तेन ईरितान् प्रेरितान् विपक्षयुक्तान् मध्वमतविरुद्धसिद्धान्तयुक्तान् तीक्ष्णान् प्रतिपक्षप्रतिक्षेपदक्षान् तर्का एव शरास्तान् अनुमानाख्यशरानित्यर्थः । वीर्येण सामर्थ्येन प्रायुङ्क्त प्रयुयोज । कश्चिद्योद्धा प्रतिवीरनिरासाय चापगुणेरितान् विपक्षयुक्तान् वेः पक्षिणः पक्षाः पतत्राणि तैर्युक्तान्, विः पक्षिपरमात्मनोः’ इत्याभिधानम्, तीक्ष्णान् विविधान् सायकान् वीर्येण बलादाक्रम्य यथा विसृजेत्तद्वदिति श्लेषार्थः ॥ ६५ ॥

मन्दोपाकारिणी

अथेति ॥ अथ श्रीमध्वोपन्याससमाप्त्यनन्तरम् असौ त्रिविक्रमाचार्यः विविधान् तर्कशरान् तर्का एव युक्तय एव शरा बाणास् तान् वीर्येण बुद्धिबलेन । ‘वीर्यं बले प्रभावे च’ इत्यमरः प्रायुङ्क्त प्रयोजितवान् । ‘युजिर्योगे इत्यतो लङ् आत्मनेपदम् अयुङ्क्त अयुञ्जाताम् अयुञ्जत’ । कथंभूतान् बोधचापगुणेरितान् बोधः ज्ञानमेव चापस्य गुणः धनुषः मौर्वी तेन ईरितान् । विपक्षयुक्तान् मध्वमतविरुद्धसिद्धान्तयुक्तान् । तीक्ष्णान् व्याप्त्यादि-मत्तया दृढान् । यथा कश्चिद् योद्धा प्रतिवीरनिरासाय चापगुणेरितान् धनुषः मौर्व्या उत्थितान् विपक्षयुक्तान् वेः पक्षिणः पक्षास् तैर् युक्तान् । ‘विः पक्षिपरमात्मनोः’ इत्यमरः। तीक्ष्णान् निशितान् विविधान् सायकान् वीर्येण बलादाकृष्य विसर्जयेत् तद्वद् इति श्लेषाभिप्रायः ‘मौर्व्यां द्रव्याश्रिते तत्त्वे शुक्ले सन्ध्यादिके गुण’ इत्यभिधानम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः - ६६

चिच्छेदातुच्छधिषणस्तांस्तदा तर्कसायकैः ।
प्रयुक्तमात्रान् प्रहसन् लीलयाऽतिशयालुभिः ॥ ६६ ॥

मूलम् - ६६

चिच्छेदातुच्छधिषणस्तांस्तदा तर्कसायकैः ।
प्रयुक्तमात्रान् प्रहसन् लीलयाऽतिशयालुभिः ॥ ६६ ॥

पदार्थदीपिकोद्बोधिका

चिच्छेदेति ॥ प्रहसन् अतुच्छधिषणः श्रीपूर्णप्रज्ञाचार्यः लीलया अनायासेन तान् त्रिविक्रमार्यप्रयुक्ताननुमानशरान् तदा प्रयोगसमनन्तरमेव तर्कसायकैः प्रत्यनुमानबाणैर् अतिशयालुभिर् अतितीक्ष्णैश् चिच्छेद निराकरोत् । यथा कश्चिद्योद्धा अतिशयालुभिः सायकैः प्रयुक्तमात्रान् सायकान् छिनत्ति तद्वदिति श्लेषार्थः ॥

मन्दोपाकारिणी

चिच्छेदेति ॥ तदा त्रिविक्रमार्येण उक्ते सति प्रहसन् मन्दं हसन् अतुच्छधिषणो ऽतुच्छा अनल्पा पूर्णा धिषणा प्रज्ञा यस्य स तथोक्तः मध्वाचार्यः । तान् त्रिविक्रमार्यप्रयुक्ततर्कान् अतिशयालुभिर् अतिक्रान्तवद्भिः । तदपेक्षया प्रबलैर् इति यावत् । तर्कसायकैः स्वप्रयुक्तयुक्त्याख्यबाणैः प्रयुक्तमात्रान् केवलप्रयुक्तानेव न तु अवकाशवतः प्रयोगानन्तरमेव इति यावत् । लीलया अनायासेन चिच्छेद निराकृतवान् । यथा योद्धा प्रतिवीरप्रयुक्तान् शरान् तदपेक्षया दृढैः स्वशरैर् अविलम्बेन छिनत्ति तद्वद् इति श्लेषाभिप्रायः । ‘छिदिर् द्वैधीकरणे इति धातोर् लिट् परस्मैपदं चिच्छेद चिच्छिदतुश् चिच्छिदुः’ ॥ ६६ ॥

विश्वास-प्रस्तुतिः - ६७

अधार्याणीतरजनैरनिवर्त्यानि पूरुषैः ।
विजिगीषुर्द्विजश्रेष्ठो वेदास्त्राणि प्रयुक्तवान् ॥ ६७ ॥

मूलम् - ६७

अधार्याणीतरजनैरनिवर्त्यानि पूरुषैः ।
विजिगीषुर्द्विजश्रेष्ठो वेदास्त्राणि प्रयुक्तवान् ॥ ६७ ॥

पदार्थदीपिकोद्बोधिका

अधार्याणीति ॥ विजिगीषुर् जेतुमिच्छन् द्विजश्रेष्ठ इतरे च ते जनाश्च तैरितरजनैस्त्रिवर्णेतरजनैरित्यर्थः । अधार्याणि त्रिवर्णेतरेषां वेदानधिकारित्वाद्धर्तुम- शक्यानि वेदास्त्राणि वैदिकान्यस्त्राणि ब्रह्मपाशुपतादीनि च । पूरुषैरनिवार्याणि अनिवर्त्यानि प्रयुक्तवान् । तर्केण पराजितः सन् वेदवाक्यानि स्वाभिमतार्थे प्रयुक्तवानित्यर्थः । विजिगीषुर्योद्धा शस्त्रयुद्धे पराजितोऽस्त्रयुद्धं यथा कुर्यात्तद्वदिति श्लेषार्थः ॥ ६७ ॥

मन्दोपाकारिणी

अधार्याणीति ॥ विजिगीषुर् जेतुमिच्छन् द्विजश्रेष्ठः ब्राह्मणोत्तमस् त्रिविक्रमाचार्यः वेदास्त्राणि वेदा एव वेदवाक्यान्येव अस्त्राणि प्रयुक्तवान् । तर्केण पराजितस्सन् वेदवाक्यानि प्रयुक्तवान् इत्यर्थः । विजिगीषुर् द्विजश्रेष्ठः क्षत्रियश्रेष्ठः बाणयुद्धे पराजितो भूत्वा अस्त्रप्रयोगं यथा कुर्यात् तद्वदिति श्लेषार्थः । कथंभूतानि इतरजनैर् इतरैस् त्रिवर्णेभ्यः ब्राह्मणक्षत्रियवैश्येभ्यो ऽन्यैर् जनैः शूद्रैर् अधार्याणि श्रवणायोग्यानि । शूद्राणां वेदानधिकारित्वाद् इति भावः । यद्वा इतरजनैः श्रुतधारणाशक्तिरहितैर् अल्पप्रज्ञैर् अधार्याणि बहुत्वाद् अनुवदितुमशक्यानि अस्त्राणि च वैदिकत्वात् शूद्रायोग्यानि शत्रुजनैः सोढुमशक्यानीति वा । पूरुषैर् अनिवर्त्यानि प्रतीतार्थं निवारयितुमशक्यानि अर्थान्तरं कर्तुम् अशक्यानीति यावद् अस्त्राणि च प्रत्यस्त्रानभिज्ञैर् अनिवार्याणि हि ॥ ६७ ॥

विश्वास-प्रस्तुतिः - ६८

वाक्यैरतिबलीयोभिः प्रत्यस्त्रैरिव वैदिकैः ।
अर्थान्तरं प्रकटयंस्तान्यसौ सन्न्यवर्तयत् ॥ ६८ ॥

मूलम् - ६८

वाक्यैरतिबलीयोभिः प्रत्यस्त्रैरिव वैदिकैः ।
अर्थान्तरं प्रकटयंस्तान्यसौ सन्न्यवर्तयत् ॥ ६८ ॥

भावप्रकाशिका

अर्थान्तरमग्नेश्च विपरीतं जयादिकं च ॥ ६८ ॥

पदार्थदीपिकोद्बोधिका

वाक्यैरिति ॥ असौ श्रीमध्वस् तानि परप्रयुक्तानि वेदवाक्यानि अतिबलीयोभिर् निरवकाशत्वेनोपजीव्यत्वेन चातिबलिष्ठैः, वैदिकैर्वाक्यैः स्वप्रयुक्तैरित्यर्थः । अर्थान्तरं प्रतिवादिप्रयुक्तस्य तदभिप्रेतार्थादर्थान्तरं प्रकटयन् प्रकाशयन् प्रत्यस्त्रैरिव सन्न्यवर्तयन् निवर्तितवान् । निवर्तनं नाम पराभिमतार्थप्रच्यावनमेव । यथा कश्चिद्योद्धा परप्रयुक्तास्त्रं प्रत्यस्त्रैर्निवर्तयेदिति भावः ॥ ६८ ॥

मन्दोपाकारिणी

वाक्यैरिति ॥ असौ श्रीमध्वस् तानि परप्रयुक्तानि वेदवाक्यानि संन्यवर्तयन् निवर्तितवान् । निवर्तनं नाम पराभिमतार्थप्रत्याख्यानम् । किं कुर्वन् अतिबलीयोभिर् निरवकाशत्वेन बहुत्वेन च बलिष्ठैर् वैदिकैर् वेदगतैर् वाक्यैः स्वप्रयुक्तैर् अर्थान्तरं प्रकटयन् । प्रतिवादिप्रयुक्तवाक्यस्य तदभिप्रेतार्थाद् अर्थान्तरं प्रकाशयन् । कैरिव प्रत्यस्त्रैरिव । यथा कश्चिद् योद्धा परप्रयुक्तास्त्रं प्रत्यस्त्रैर् निवारयति तद्वद् इति भावः । ‘निपूर्वाद् वृतु वर्तने इति धातोर् णिजन्ताद् लङ् परस्मैपदम्’ ॥ ६८ ॥

विश्वास-प्रस्तुतिः - ६९

सप्ताष्टानि दिनान्येवं वादं कृत्वा सहामुना ।
निरुत्तरं तं निश्चोद्यं चक्रे चक्रायुधप्रियः ॥ ६९ ॥

मूलम् - ६९

सप्ताष्टानि दिनान्येवं वादं कृत्वा सहामुना ।
निरुत्तरं तं निश्चोद्यं चक्रे चक्रायुधप्रियः ॥ ६९ ॥

पदार्थदीपिकोद्बोधिका

सप्तेति ॥ चक्रमायुधं यस्य तस्य श्रीहरेः प्रियः श्रीमध्वो ऽमुना त्रिविक्रमार्येण सह एवमुक्तप्रकारेण सप्त चाष्टौ च सप्ताष्टौ, सप्ताष्टानां पूरणानि सप्ताष्टानि ‘तस्य पूरणे डट्’ इति डट् । दिनानि वादमुपक्रम्य । पञ्चदशदिनपर्यन्तमित्यर्थः । ‘कालाध्वनोरिति’ द्वितीया । वादं कृत्वा तं त्रिविक्रमार्यं निर्गतमुत्तरं यस्मात्स निरुत्तरस्तम् । प्रत्युत्तररहितमित्यर्थः । निर्गतं चोद्यं प्रश्नो यस्मात्स निश्चोद्यस्तम् । प्रश्नरहितञ्चेत्यर्थश् चक्रे ॥ ६९ ॥

मन्दोपाकारिणी

सप्तेति ॥ चक्रायुधप्रियश् चक्रम् आयुधं यस्य स चक्रायुधः हरिस् तस्य प्रियः श्रीमध्वाचार्यः । अमुना त्रिविक्रमार्येण सह एवं पूर्वोक्तप्रकारेण सप्ताष्टानि सप्त च अष्ट च सप्ताष्टानि पञ्चदशसङ्ख्याकानि दिनानि । ‘कालाध्वनोरत्यन्तसंयोगे’ इति द्वितीया । पञ्चदशदिनेषु इत्यर्थः । प्रतिपदमारभ्य पञ्चदशदिनपरिपूर्तिपर्यन्तम् इति यावत् । वादं वादकथां कृत्वा तं त्रिविक्रमपण्डिताचार्यं निरुत्तरं प्रत्युत्तररहितं निश्चोद्यं प्रश्नरहितं चक्रे । तत्पृष्टस्य सर्वस्यापि उक्तत्वेन प्रष्टव्यांशस्य अभावाद् इति भावः ॥ ६९ ॥

विश्वास-प्रस्तुतिः - ७०

प्रणम्याचष्ट शिष्टोऽसौ क्षम्यतां नाथ चापलम् ।
पदपद्मरजोदास्यं ध्रुवं मे दीयतामिति ॥ ७० ॥

मूलम् - ७०

प्रणम्याचष्ट शिष्टोऽसौ क्षम्यतां नाथ चापलम् ।
पदपद्मरजोदास्यं ध्रुवं मे दीयतामिति ॥ ७० ॥

पदार्थदीपिकोद्बोधिका

प्रणम्येति ॥ शिष्ट उत्तमो ऽसौ त्रिविक्रमार्यः प्रणम्य हे नाथ श्रीमध्व चपलस्य भावो चापलं क्षम्यताम् । ध्रुवं शाश्वतं, पदे पद्म इव पदपद्मे तयोः रजांसि, तेषां दास्यं दासत्वं मे मह्यं दीयताम् इत्याचष्ट ॥ ७० ॥

मन्दोपाकारिणी

प्रणम्येति ॥ शिष्टः विशिष्ट उत्तमजीवो ऽसौ त्रिविक्रमाचार्यः मध्वाचार्यं प्रणम्य नमस्कृत्य आचष्ट अब्रवीत् । ‘आङ् पूर्वाच् चक्षीङ् व्यक्तायां वाचीत्यतो लडात्मनेपदम् आचष्ट आचक्षाताम् आचक्षत’ । किमिति, हे नाथ स्वामिन् चापलं मम चापल्यम् । बालत्वमिति यावत् । क्षम्यतां त्वया सह्यताम् । ‘क्षमूष् सहने इति धातोः कर्मणि लोट् आत्मनेपदम्’ । ध्रुवं शाश्वतं तव पदपद्मरजोदास्यं पदपद्मयोः पादकमलयोः रजांसि पांसवस् तेषां दास्यं किङ्करत्वं मे मह्यं दीयताम् । त्वया इति शेषः । ‘पांसुर्ना न द्वयो रजः’ इत्यमरः । ‘डु दाञ् दाने इत्यतः कर्मणि लोट् आत्मनेपदम्’ । एतादृशबुध्द्युत्पादने स्वरूपोत्तमत्त्वमेव निमित्तम् इति सूचयितुं शिष्ट इत्युक्तम् ॥ ७० ॥

विश्वास-प्रस्तुतिः - ७१

व्याख्यां भाष्यस्य भूयोधीः श्रवणं सूरिनन्दनः ।
सन्तः प्रीतिमसन्तोऽन्यां सममारेभिरे ततः ॥ ७१ ॥

मूलम् - ७१

व्याख्यां भाष्यस्य भूयोधीः श्रवणं सूरिनन्दनः ।
सन्तः प्रीतिमसन्तोऽन्यां सममारेभिरे ततः ॥ ७१ ॥

पदार्थदीपिकोद्बोधिका

व्याख्यामिति ॥ भूयसी पूर्णा धीर्यस्य स श्रीमध्वः भाष्यस्य ब्रह्मसूत्रभाष्यस्य व्याख्याम् उपन्यासमारेभे । सूरिनन्दनः सुब्रह्मण्यार्यनन्दनः श्रवणं भाष्यश्रवणम् आरेभे । सन्तः सज्जनाः प्रीतिमारेभिरे । असन्तो दुष्टा अन्यामप्रीतिमारेभिरे इति । त एते मध्वाद्या एतानि व्याख्याप्रभृतीनि समं युगपद् आरेभिर उपचक्रमिरे ॥७१॥

मन्दोपाकारिणी

व्याख्यामिति ॥ ततः दासत्वदानानन्तरं भूयोधीर् भूयसी पूर्णा धीः प्रज्ञा यस्य स भूयोधीर् मध्वाचार्यः भाष्यस्य ब्रह्मसूत्रभाष्यस्य व्याख्याम् आरेभे । सूरिनन्दनः सूरेः सुब्रह्मण्याख्यपण्डितस्य नन्दनः सूनुस् त्रिविक्रमाचार्यः श्रवणं भाष्यश्रवणम् आरेभे । सन्तः सज्जनाः प्रीतिम् आरेभिरे । असन्तो ऽसज्जना अन्याम् अप्रीतिम् आरेभिरे आरब्धवन्तः । मध्वादयस् तद्व्याख्यानादिकं समं युगपद् आरेभिरे । ‘रभ राभस्ये इत्यतः लिट् आत्मनेपदम्’ । यदा त्रिविक्रमाचार्यः वादे पराजितः मध्वाचार्यशिष्यो भूत्वा मध्वाचार्यात् तत्कृतब्रह्मसूत्रभाष्यव्याख्यानं श्रुतवान् तदा सज्जनाः सन्तोषं प्रापुर् माया-वादिनः सर्वे दुःखं प्रापुर् इति भावः ॥ ७१ ॥

विश्वास-प्रस्तुतिः - ७२

गुर्वाज्ञागौरवाट्टीकां कुर्वन् भाष्यस्य दुष्कराम् ।
षडर्धविक्रमार्योऽसौ महाचार्यमवोचत ॥ ७२ ॥

मूलम् - ७२

गुर्वाज्ञागौरवाट्टीकां कुर्वन् भाष्यस्य दुष्कराम् ।
षडर्धविक्रमार्योऽसौ महाचार्यमवोचत ॥ ७२ ॥

पदार्थदीपिकोद्बोधिका

गुर्वाज्ञेति ॥ गुर्वाज्ञागौरवात् श्रीमध्वाज्ञागौरवेण दुष्करां तदाज्ञामृते कर्तुमशक्यां भाष्यस्य श्रीमद्भाष्यस्य टीकां कुर्वन् असौ षडर्धविक्रमार्यस् त्रिविक्रमार्य इत्यर्थः । महाचार्यं श्रीमध्वाचार्यम् अभाषत ॥ ७२ ॥

मन्दोपाकारिणी

गुर्वाज्ञेति ॥ षडर्धविक्रमार्यः षडर्धशब्दस्य त्र्यर्थकत्वात् त्रिशब्द-स्थाने षडर्धशब्दप्रयोगः । ततश्च असौ त्रिविक्रमार्यः गुर्वाज्ञागौरवाद् गुरोः श्रीमध्वाचार्यस्य आज्ञायां गौरवाद् बहुमानात् । गुर्वाज्ञां स्वीकृत्येति यावत् । दुष्करां गुर्वाज्ञाम् ऋते कर्तुम् अशक्यां भाष्यस्य श्रीब्रह्मसूत्रभाष्यस्य टीकां विवृतिं तत्त्वप्रदीपिकाख्याम् । ‘विवृतिः पञ्चिका टीका’ इत्यभिधानम् । कुर्वन् महाचार्यं महांश्चासौ आचार्यश्च महाचार्यः श्रुत्यादेर् मुख्यव्याख्यातारं तं मध्वाचार्यम् । ‘मन्त्रव्याख्याकृदाचार्यः’ इत्यमरः । अवोचत अभाषत । ‘वच परिभाषणे इत्यतो लङ् आत्मनेपदम् अवोचत अवोचेताम् अवोचन्त’ ॥ ७२ ॥

विश्वास-प्रस्तुतिः - ७३

कवीन्द्रैर्न समाप्यन्ते सङ्गृह्यापि यतोऽनिशम् ।
न्यायरत्नानि भाष्याब्धेरस्य गाम्भीर्यमद्भुतम् ॥ ७३ ॥

मूलम् - ७३

कवीन्द्रैर्न समाप्यन्ते सङ्गृह्यापि यतोऽनिशम् ।
न्यायरत्नानि भाष्याब्धेरस्य गाम्भीर्यमद्भुतम् ॥ ७३ ॥

पदार्थदीपिकोद्बोधिका

कवीन्द्रैरिति ॥ कवीन्द्रैर्ज्ञानिश्रेष्ठैर् यतो यस्माद् भाष्याब्धेः श्रीमद्भाष्यसमुद्रान् न्याया एव रत्नानि शास्त्रन्यायाख्यरत्नानि अनिशं निरन्तरं सङ्गृह्यापि उद्धृत्यापि न समाप्यन्ते । समुद्राद्रत्नान्यनिशं सङ्गृह्यापि यथा न समाप्यन्ते एवमेव भाष्यादपि न्याया उद्धृत्य न समाप्यन्त इति भावः । न्यायाः श्रुत्यर्थविचाराङ्गभूता उपक्रमोपसंहाराभ्यासापूर्वफलार्थवादाः । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानि । तथा प्रमाणानां प्राबल्यदौर्बल्यविचाराङ्गभूतानि, निरवकाशत्वसावकाशत्वोपजीव्यत्वोपजीवकत्व बहुत्वाल्पत्वानि चोच्यन्ते । ते च न्याया अस्मिन् भाष्ये तत्र तत्र व्युत्पादिता इत्यर्थः । तस्मादस्य भाष्यस्य गाम्भीर्यम् अद्भुतम् ॥ ७३ ॥

मन्दोपाकारिणी

कवीन्द्रैरिति ॥ यतः यस्माद् भाष्याब्धेर् भाष्याख्यरत्नाकरान् न्यायरत्नानि न्यायाख्यरत्नानि अनिशं निरन्तरं सङ्गृह्यापि स्वीकृत्यापि कवीन्द्रैः पण्डितश्रेष्ठैर् न समाप्यन्ते । न्यायानां बहुत्वाद् इति भावः । यथा समुद्राद् रत्नानि अनिशं सङ्ग्रहेणापि न समाप्यन्ते एवमेव भाष्यादपि न्यायानुद्धृतवता विदुषा न समाप्यन्ते इति भावः । ‘सम्पूर्वादाप्लृ व्याप्तौ इत्यतः कर्मणि लट् आत्मनेपदम्’ । अत्र न्यायशब्देन श्रुति-विचाराङ्गभूताः ‘उपक्रमोपसंहाराभ्यासा अपूर्वताफलार्थवादाः श्रुतिलिङ्गसमाख्याप्रकरण-स्थानानि च तथा प्रमाणानां प्राबल्यदौर्बल्यविचाराङ्गभूता निरवकाशत्त्वसावकाशत्त्वोप-जीवकत्त्वबहुत्वाल्पत्वानि चोच्यन्ते’ । एतेन न्याया एव अस्मिन् भाष्ये बाहुल्येन व्युत्पादिता इत्यर्थः । तस्माद् अस्य भाष्यस्य गाम्भीर्यं गम्भीरत्वम् अद्भुतम् आश्चर्यम् ॥७३॥

विश्वास-प्रस्तुतिः - ७४

दशोपनिषदो देवीर्देवा इव समीप्सिताः ।
युक्ताः प्रसादयन्त्यर्था एषु भाष्यालयेष्वलम् ॥ ७४ ॥

मूलम् - ७४

दशोपनिषदो देवीर्देवा इव समीप्सिताः ।
युक्ताः प्रसादयन्त्यर्था एषु भाष्यालयेष्वलम् ॥ ७४ ॥

पदार्थदीपिकोद्बोधिका

दशेति ॥ एषु भाष्याण्येव आलया मन्दिराणि तेषु भाष्याख्यमन्दिरेषु । उपनिषद्भाष्याख्यमन्दिरेष्वित्यर्थः । युक्ता उपपन्ना अर्थास्त्वयोक्ता उपनिषदर्था देवीर् द्योतमानार्था दश च ता उपनिषदश्च दशोपनिषदः दशवेदान्तान् समीप्सिता अभीष्टा देवा भर्तृभूता देवा इत्यर्थः । आलयेषु स्वमन्दिरेषु युक्ताः सङ्गता देवीरिव अलं सम्यग् प्रसादयन्ति विवृण्वन्ति । सुखेन विज्ञातार्थन् कुर्वन्तीत्यर्थः । देवा यथा स्वभार्याः प्रसादयन्ति तद्वदिति भावः । अत्रोपमालङ्कारः ॥ ७४ ॥

मन्दोपाकारिणी

दशेति ॥ एषु भाष्यालयेषु उपनिषद्भाष्याख्यमन्दिरेषु युक्ता उपपन्नाः समीप्सिता अभिप्रेता अर्था उपनिषद्भाष्येषु प्रोक्ता उपनिषदर्था दश दशसङ्ख्याका उपनिषदः वेदान्तान् अलं सम्यक् प्रसादयन्ति सुखेन विज्ञातार्थान् कुर्वन्ति । के का इव, समीप्सिता भर्तृभूता देवा आलयेषु स्वमन्दिरेषु युक्ता देवीः स्वभार्या इव । स्त्रीणां स्वस्वमन्दिरेषु स्वस्वपतियोगेन प्रसन्नमनस्त्वस्य प्रसिद्धत्वात् । उपनिषदः सुखेन ज्ञातार्था बभूवुर् इति भावः । ‘प्रपूर्वात् षद्लृ विशरणगत्यवसादनेषु इति धातोर्णिजन्ताद् लट् परस्मैपदम्’ ॥ ७४ ॥

विश्वास-प्रस्तुतिः - ७५

गीतातात्पर्यभाष्याभ्यामाभ्यां विश्वं प्रकाश्यते ।
गोगणैरप्रतीकारैरर्केन्दुभ्यामिवाधिकम् ॥ ७५ ॥

मूलम् - ७५

गीतातात्पर्यभाष्याभ्यामाभ्यां विश्वं प्रकाश्यते ।
गोगणैरप्रतीकारैरर्केन्दुभ्यामिवाधिकम् ॥ ७५ ॥

पदार्थदीपिकोद्बोधिका

गीतेति ॥ आभ्यां, तात्पर्यञ्च भाष्यञ्च तात्पर्यभाष्ये गीतायास्तात्पर्यभाष्ये, ताभ्याम् । न विद्यते प्रतीकारः प्रतिषेधो येषां तैः । परैर्निराकतुर्-मशक्यैरिति यावत् । गोगणैर्वचनसमूहैर्विश्वं विवक्षितं सर्वं प्रमेयजातं, र्ओन्दुभ्यां गोगणैः किरणसमूहैर् विश्वं जगदिव अधिकं यथा भवति तथा प्रकाश्यते ॥ ७५ ॥

मन्दोपाकारिणी

गीतेति ॥ आभ्यां गीतातात्पर्यभाष्याभ्यां गीताया भगवद्गीतायास् तात्पर्यं च भाष्यं च तात्पर्यभाष्ये ताभ्याम् । अप्रतीकारैः प्रतीकाररहितैः । परैर् निराकर्तुम् अशक्यैर् इति यावत् । गोगणैर् वचनसमूहैर् विश्वं सर्वं प्रमेयजातम् अधिकं प्रकाश्यते प्रकटितं भवति । ‘कासृ दीप्तौ इति धातोः कर्मणि लिट् आत्मनेपदम्’ । तत्र दृष्टान्तः र्ओन्दुभ्यां गोगणैर् गवां रश्मीनां गणैः समूहैर् विश्वं जगदिव ॥ ७५ ॥

विश्वास-प्रस्तुतिः - ७६

इतिहासपुराणाब्धेर्भवच्चित्ताद्रिलोडितात् ।
जातां भारततात्पर्यसुधां कः सन्न सेवते ॥ ७६ ॥

मूलम् - ७६

इतिहासपुराणाब्धेर्भवच्चित्ताद्रिलोडितात् ।
जातां भारततात्पर्यसुधां कः सन्न सेवते ॥ ७६ ॥

पदार्थदीपिकोद्बोधिका

इतिहासेति ॥ भवतश्चित्तं तदेवाद्रिर्मन्दरगिरिस्तेनालो-डितान्मथितात् । इतिहासश्च पुराणानि च तान्येवाब्धिस्तस्मात् । जातामुत्पन्नां भारतस्य तात्पर्यं तदेव सुधा तां सन् सत्पुरुषः को न सेवते । स्पष्टः श्लेषार्थः ॥ ७६ ॥

मन्दोपाकारिणी

इतिहासेति ॥ भवच्चिताद्रिलोडिताद् भवतश् चित्तं मनस् तल्लक्षणोऽद्रिर् मन्दरपर्वतस् तेन लोडितान् मथितात् । इतिहासपुराणाब्धेर् इतिहासा भारतरामायण पञ्चरात्रागमाख्याः पुराणानि भागवतादीनि तेषां समाहार इतिहासपुराणं तन्नामकाद् अब्धेः क्षीरसमुद्राज् जाताम् उत्पन्नां भारततात्पर्यसुधां श्रीमन्महाभारततात्पर्यनिर्णयाख्यामृतं सन् सत्पुरुषः कः न सेवते सर्वेऽपि सेवन्त एव । यथा सज्जनाः सर्वेऽपि अमृतं पिबन्त्येव तथा सर्वेऽपि सत्पुरुषा भारततात्पर्यनिर्णयं श्रवणादिना सेवन्त एव इति भावः ॥ ७६ ॥

विश्वास-प्रस्तुतिः - ७७

पुराणस्थानपान्थानामभाषात्रयवेदिनाम् ।
भवता सुसखा चक्रे श्रीभागवतनिर्णयः ॥ ७७ ॥

मूलम् - ७७

पुराणस्थानपान्थानामभाषात्रयवेदिनाम् ।
भवता सुसखा चक्रे श्रीभागवतनिर्णयः ॥ ७७ ॥

भावप्रकाशिका

सुसखा ‘राजाहः सखिभ्यष्टजि’त्यस्य ‘न पूजनादि’त्यपवादः॥७७॥

पदार्थदीपिकोद्बोधिका

पुराणेति ॥ भाषाणां गुह्यदर्शनसमाधिलक्षणभाषाणां त्रयं तद्विदन्तीति भाषात्रयवेदिनः । ते न भवन्तीत्यभाषात्रयवेदिनस्तेषाम् । पुराणस्थानपान्थानाम् एकार्थावच्छिन्नं वाक्यजातं प्रकरणम् । प्रकरणजातं स्थानमित्युच्यते । पुराणानां स्थानानि प्रकरणजातानि तेषु पान्थास्तेषाम् । पुराणकथाप्रकरणजातेषु वर्तमानानामित्यर्थः । सुसखा श्रीभागवतनिर्णयः श्रीभागवतस्य निर्णयोऽर्थनिश्चयो यस्मिन् स तथोक्तः । श्रीभागवत- तात्पर्यनिर्णयाख्यो ग्रन्थ इत्यर्थः । भवता चक्रे कृतः । तत्तदशेषभाषामजानतां पथिकानां तत्तद्भाषां जानन् कश्चिद्यथा सुसखा स्यात् तद्वदेव भाषात्रयमजानतां पुराणकथासङ्कथने प्रवर्तमानानां पुरुषाणां सुसखेत्यर्थः ॥ ७७ ॥

मन्दोपाकारिणी

पुराणेति ॥ भवता त्वया श्रीभागवतनिर्णयः श्रीभागवतस्य निर्णयस् तात्पर्यनिर्णयश् चक्रे कृतः । ‘डु कुञ् करणे इति धातोः कर्मणि लिट् चक्रे चक्राते चक्रिरे’ । कथंभूतो ऽभाषात्रयवेदिनां भाषाणां गुह्यदर्शनसमाधिलक्षणभाषाणां त्रयं विन्दन्तीति भाषात्रयवेदिनः भाषात्रयवेदिनो न भवन्तीति अभाषात्रयवेदिनस् तेषाम् । भाषात्रयमजानतां पुराणस्थानपान्थानां पुराणान्येव स्थानम् आश्रयो येषां ते पुराणस्थानाः । पुराणोपजीवनेनैव तत्त्वज्ञानार्थिन इत्यर्थः । पुराणस्थाना एव पान्थाः पथिकास् तेषाम् । ‘पान्थः पथिकः’ इत्यमरः । सुसखा समीचीनः सखा मित्रम् । उपकारक इति यावत् तत्तदंशभाषाम् अजानतां पुराणकथासङ्कथने प्रवर्तमानानां पुरुषाणाम् अयं भागवततात्पर्य निर्णयस् तात्पर्यज्ञानसाधनत्वात् सुसखा भवतीति भावः ॥ ७७ ॥

विश्वास-प्रस्तुतिः - ७८

कस्तन्त्रसारं सम्प्राप्य न स्यात् पर्याप्तवाञ्छितः ।
अमरैराश्रितच्छायं कल्पद्रुममिवोत्तमम् ॥ ७८ ॥

मूलम् - ७८

कस्तन्त्रसारं सम्प्राप्य न स्यात् पर्याप्तवाञ्छितः ।
अमरैराश्रितच्छायं कल्पद्रुममिवोत्तमम् ॥ ७८ ॥

पदार्थदीपिकोद्बोधिका

क इति ॥ उत्तमं ग्रन्थोत्तमं, अमरैर्भगवन्मूर्तिभिर् वर्णाभि-मानिभिर्ब्रह्मादिदेवैर्वा आश्रिता छाया वर्णपङ्क्तिर्यस्य स तथा तम् । ‘छाया पङ्क्तौ प्रतिमायामर्के योषित्यनातपे । उक्ता वै पावने कान्तौ शोभायां च तमस्यपी’ति हेमचन्द्रः । यद्वा आश्रिता छाया सिद्धान्तो यस्य स तथा तमिति । तन्त्रेषु तन्त्रग्रन्थेषु सारं श्रेष्ठं तन्त्रसाराख्यग्रन्थमित्यर्थः । अमरैराश्रितच्छायं कल्पद्रुममिव कल्पवृक्षमिव प्राप्य कः पुमान् पर्याप्तं सम्पूर्णं वाञ्छितं यस्य स तथा, न स्यात् । कल्पद्रुमच्छाया यथाऽमरैराश्रितैवं तन्त्रसारस्य सिद्धान्तोऽमरैराश्रितः । एवंभूतं तन्त्रसारं प्राप्य कः पुमान् पर्याप्तवाञ्छितो न स्यादित्यर्थः ॥ ७८ ॥

मन्दोपाकारिणी

क इति ॥ उत्तमम् उत्तमार्थोपेतम् अमरैर् देवैर् आश्रितच्छायम् आश्रिता अङ्गीकृता छाया सिद्धान्तः यस्य स तथोक्तस् तम् । तन्त्रसारं सम्प्राप्य कः पुमान् पर्याप्तवाञ्छितः पर्याप्तः पूर्णः वाञ्छितः कामः यस्य सः पर्याप्तवाञ्छितः न स्यात् । कमिव अमरैर् आश्रितच्छायाम् आश्रिता छाया अनातपः यस्य स तथोक्तस् तम् । ‘छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः’ इत्यमरः । कल्पद्रुममिव कल्पवृक्षमिव । यथा कल्पद्रुम-च्छायाश्रितानां पूर्णो मनोरथो भवेत् तथा तन्त्रसारसिद्धान्तं जानताम् अभीष्टसिद्धिर् भवतीति भावः ॥ ७८ ॥

विश्वास-प्रस्तुतिः - ७९

लोकानामवलोकाय मार्गस्यास्य व्यधाद्भवान् ।
करुणाकर नेत्राभे वादसन्मानलक्षणे ॥ ७९ ॥

मूलम् - ७९

लोकानामवलोकाय मार्गस्यास्य व्यधाद्भवान् ।
करुणाकर नेत्राभे वादसन्मानलक्षणे ॥ ७९ ॥

पदार्थदीपिकोद्बोधिका

लोकानामिति ॥ हे करुणाकर श्रीमध्व भवान् लोकानां जनानाम् अस्य मार्गस्य वादजल्पवितण्डाख्यकथात्रयमार्गस्य तथा प्रत्याक्षानुमानागमाख्य-प्रमाणत्रयमार्गस्य च अवलोकाय दर्शनाय, नेत्रस्याभेवाभा ययोस्ते नेत्राभे मार्गावलोकने नेत्रं यथा कारणं तद्वदेव वादादिकथात्रयमार्गावलोकनाय, कथालक्षणाख्यं प्रकरणं नेत्राभं, प्रत्यक्षादिप्रमाणत्रयस्योद्देशविभागलक्षणाद्यवलोकनाय प्रमाणलक्षणाख्यं प्रकरणं नेत्राभ-मित्यर्थः, एवं वादसन्मानलक्षणे वादश्च सन्मानं सत्प्रमाणं तच्च तयोर्लक्षणे ययोस्ते कथालक्षणप्रमाणलक्षणाख्यप्रकरण इत्यर्थः व्यधाच् चक्रे ॥ ७९ ॥

मन्दोपाकारिणी

लोकानामिति ॥ हे करुणाकर दयासमुद्र गुरो भवान् त्वं वादसन्मानलक्षणे वादः कथा च सच्च तन् मानं सन्मानं प्रमाणं च वादसन्माने तयोर् लक्षणे । कथालक्षणप्रमाणलक्षणाख्यप्रकरणे इत्यर्थः । व्यधात् कृतवान् । कथंभूते, लोकानां जनानाम् अस्य मार्गस्य कथाप्रमाणप्रकारस्य अवलोकाय दर्शनाय नेत्राभे नेत्रयोश् चक्षुषोर् आभेव आभा ययोस्ते नेत्राभे । वादजल्पवितण्डाख्यकथाप्रकारदर्शनाय कथालक्षणं प्रमाणप्रकारदर्शनाय प्रमाणलक्षणाख्यं प्रकरणं नेत्राभम् इत्यर्थः ॥ ७९ ॥

विश्वास-प्रस्तुतिः - ८०

एकाकी किल यश्चक्रे पदं मौलिषु विद्विषाम् ।
तत्त्वनिर्णयपार्थोऽयं केन नाम न पूज्यते ॥ ८० ॥

मूलम् - ८०

एकाकी किल यश्चक्रे पदं मौलिषु विद्विषाम् ।
तत्त्वनिर्णयपार्थोऽयं केन नाम न पूज्यते ॥ ८० ॥

पदार्थदीपिकोद्बोधिका

एकाकीति ॥ यस्तत्वनिर्णयपार्थ एकाकी असहायवान् विद्विषां वादिनां मौलिषु मस्तकेषु पदं पादं चक्रे । तान् निराकरोतीत्यर्थः । अयं तत्वनिर्णयपार्थस्तत्वानां परापरवस्तूनां निर्णयो यस्मिन् स विष्णुतत्वनिर्णयाख्यो ग्रन्थः स पार्थ इव अर्जुन इव केन नाम न पूज्यते? सर्वैरपि पूज्यत इति भावः ॥ ८० ॥

मन्दोपाकारिणी

एकाकीति ॥ अयं तत्त्वनिर्णयपार्थस् तत्त्वनिर्णयः विष्णुतत्त्व-निर्णयाख्यः पार्थो ऽर्जुनः केन नाम केन पुरुषेण न पूज्यते सर्वैरपि पूज्यते एवेति भावः । ‘पूज पूजायाम् इति धातोः कर्मणि लट् आत्मनेपदम्’ । य एकाकी असहायः सन्नपि विद्विषां द्वेषिणां वादिनां मौलिषु मूर्धसु पदं पादं चक्रे स्थापितवान् । निराकरोद् इति यावत् । किल इति प्रसिद्धौ । पार्थपक्षे पुराणप्रसिद्धिस् तत्त्वनिर्णयपक्षे अनुभवसिद्धिर् ज्ञेया । यथा विराटनगरे उत्तरगोग्रहणे निवातकवचाद्यसुरनिग्रहे च अर्जुन एक एव शत्रून् पराभूतवान् तद्वद् अयं ग्रन्थोऽपि एक एव सर्वदुर्वादिगर्वनिराकरणे समर्थ इति ॥ ८० ॥

विश्वास-प्रस्तुतिः - ८१

वादादयः प्रकरणस्फुलिङ्गास्तनवोऽप्यलम् ।
विपक्षकक्षं क्षिण्वन्ति मारुतेन त्वयेरिताः ॥ ८१ ॥

मूलम् - ८१

वादादयः प्रकरणस्फुलिङ्गास्तनवोऽप्यलम् ।
विपक्षकक्षं क्षिण्वन्ति मारुतेन त्वयेरिताः ॥ ८१ ॥

पदार्थदीपिकोद्बोधिका

वादादय इति ॥ मारुतेन वायुना त्वया ईरिताः प्रोक्ता वादः वादाख्यं तत्वोद्योतं प्रकरणमादिर्येषां ते वादादयः प्रकरणान्येव स्फुलिङ्गा अलं तनवोऽपि अणवोऽपि विपक्षाः प्रतिवादिन एव कक्षं वनं क्षिण्वन्ति नाशयन्ति । वायुनोद्बोधिता अग्निकणा यथा वनं नाशयन्ति तद्वद्वायुना त्वया प्रोक्तानि तत्वोद्योतादि-प्रकरणानि प्रतिवादिनो निराकुर्वन्तीत्यर्थः । अत्र रूपकालङ्कारः ॥ ८१ ॥

मन्दोपाकारिणी

वादेति ॥ मारुतेन वायुना त्वया ईरिताः प्रोक्ता वादादयः वादस् तत्त्वोद्योत आदिर् येषां ते वादादयः । प्रकरणस्फुलिङ्गाः प्रकरणान्येव स्फुलिङ्गा अग्निकणाः । ‘त्रिषु स्फुलिङ्गोऽग्निकणः’ इत्यमरः । अलम् अत्यन्तं तनवोऽपि सूक्ष्मा अपि विपक्षकक्षं विपक्षः विरुद्धसिद्धान्त एव कक्षं शुष्ककाननम् । ‘सौरभे च तृणे कक्षं शुष्ककाननवीरुधोः’ इति विश्वः क्षिण्वन्ति नाशयन्ति । यथा वायुनोद्बोधिता अग्निकणा वनं नाशयन्ति तथा वायुना त्वया प्रोक्तानि श्रीमत्तत्त्वोद्योतादिप्रकरणानि प्रतीपवादं निराकुर्वन्तीति भावः । ‘क्षिणु हिंसायाम् इत्यतो लट् परस्मैपदं क्षिणोति क्षिणुतः क्षिण्वन्ति’ ॥ ८१ ॥

विश्वास-प्रस्तुतिः - ८२

अनन्तोऽर्थः प्रकटितस्त्वयाऽणौ भाष्यसंग्रहे ।
अहो आत्मपरिज्ञप्त्यै कृष्णेनेवाननान्तरे ॥ ८२ ॥

मूलम् - ८२

अनन्तोऽर्थः प्रकटितस्त्वयाऽणौ भाष्यसंग्रहे ।
अहो आत्मपरिज्ञप्त्यै कृष्णेनेवाननान्तरे ॥ ८२ ॥

पदार्थदीपिकोद्बोधिका

अनन्त इति ॥ त्वया, आत्मनः स्वस्य परिज्ञप्तिः परिज्ञानं तस्यै । स्वसमार्थ्यज्ञापनायेत्यर्थः । अणौ, भाष्यस्य सङ्ग्रहो यस्मिन् स भाष्यसङ्ग्रहस्तस्मिन् । अणुवेदान्तभाष्य इत्यर्थः । अनन्तोऽपरिमितोऽर्थः, कृष्णेन यशोदाकृष्णेन आननान्तरे विवृतवदनान्तरे आत्मपरिज्ञप्त्यै यशोदां स्वसामर्थ्यज्ञापनार्थम् अनन्तोऽपरिमितो ऽर्थः प्रपञ्चः स इव प्रकटितः । अहो एतदाश्चर्यम् ॥ ८२ ॥

मन्दोपाकारिणी

अनन्त इति ॥ त्वया आत्मपरिज्ञप्त्यै आत्मनः स्वसामर्थ्यस्य परिज्ञप्त्यै अणौ अल्पे भाष्यसङ्ग्रहे भाष्यस्य ब्रह्मसूत्रभाष्यस्य सङ्ग्रहे सङ्कोचकथनरूपे अणुवेदान्तभाष्ये अनन्तो ऽपरिमितो ऽर्थो ऽभिधेयः प्रकटितः । अहो एतदाश्चर्यम् । केनेव कृष्णेन यशोदानन्दनेन आत्मपरिज्ञप्त्यै आननान्तरे विवृतस्ववदनस्य मध्ये अनन्तो ऽर्थः प्रपञ्च इव ॥ ८२ ॥

विश्वास-प्रस्तुतिः - ८३

भगवंश्चित्रकवितां लौकिकीं दर्शयन् किल ।
गोप्यं भारतसंक्षेपमकृथा विश्वविस्मयम् ॥ ८३ ॥

मूलम् - ८३

भगवंश्चित्रकवितां लौकिकीं दर्शयन् किल ।
गोप्यं भारतसंक्षेपमकृथा विश्वविस्मयम् ॥ ८३ ॥

पदार्थदीपिकोद्बोधिका

भगवन्निति ॥ हे भगवन् श्रीमध्व लौकिकीं लोकविषयां चित्रकवितां विचित्रकवित्वं दर्शयन् त्वं गोप्यं गोपनीयं विश्वस्य विस्मयो यस्मात्तं, भारतस्य सङ्क्षेपस्तं यमकभारतम् । भारतसङ्क्षेपात्मककाव्यरूपग्रन्थमित्यर्थः । अकृथाः कृतवानसि ॥

मन्दोपाकारिणी

भगवन्निति ॥ हे भगवन् लौकिकीं लौकिकविषयां चित्रकवितां नानाविधयमकरूपां कवितां कवित्वं दर्शयन् गोप्यं रहस्यं भारतसंक्षेपं भारतस्य महाभारतार्थस्य संक्षेपं सङ्ग्रहरूपं यमकभारताख्यं काव्यम् अकृथाः कृतवानसि किल । कथंभूतं विश्वविस्मयं विश्वस्य आश्चर्यकरम् ॥ ८३ ॥

विश्वास-प्रस्तुतिः - ८४

नानासुभाषितस्तोत्रगाथादिकृतिसत्कृतीः ।
त्वयि रत्नाकरे रत्नश्रेणीर्वा गणयन्ति के ॥ ८४ ॥

मूलम् - ८४

नानासुभाषितस्तोत्रगाथादिकृतिसत्कृतीः ।
त्वयि रत्नाकरे रत्नश्रेणीर्वा गणयन्ति के ॥ ८४ ॥

पदार्थदीपिकोद्बोधिका

नानेति ॥ त्वयि विद्यमानास्त्वया कृता इत्यर्थः । स्तोत्राणि च गाथाश्च ता आदयो येषां ते, नानाविधानि सुभाषितानि येषु ते, ते च ते स्तोत्रग्रन्था-दयश्च, तेषां कृतिर्निर्माणं, तदात्मिकाश्च ताः सत्कृतयः, शोभनकरणानि ताः, नानासुभाषित स्तोत्रगाथादिकृतिसत्कृतीः, रत्नाकरे समुद्रे रत्नश्रेणीर्वा रत्नसमूहानिव के गणयन्ति? त्वदीयकृतीनां साकल्येन गणनेऽपि न कोऽपि समर्थः किमु वर्णन इति भावः ॥ ८४ ॥

मन्दोपाकारिणी

नानेति ॥ त्वयि विद्यमानाः । त्वत्कृता इत्यर्थः । नानासुभाषित स्तोत्रगाथादिकृतिसत्कृतीः सुभाषितानि च स्तोत्राणि च गाथाश्च ता एव आदयो येषां तानि तथोक्तानि नानाविधानि च तानि सुभाषितस्तोत्रगाथादीनि च तेषां कृतय आकारास् ताश्च ताः सत्कृतयः समीचीनग्रन्थाश्च ताः । सुभाषितरूपः स्तोत्ररूपः गाथारूपः सदाचारस्मृतिरूपः जयन्तीकल्परूप इत्यादिनानाविधग्रन्थान् त्वत्कृतान् के गणयन्ति बहुत्वाद् इति भावः । का इव, रत्नाकरे समुद्रे विद्यमाना रत्नश्रेणीर् वा रत्नानां श्रेणीः समूहान् । यथा समुद्रे बहुरत्नानि सन्ति तथा त्वय्यपि बहुग्रन्थाः सन्तीति भावः । ‘गण संख्याने इत्यतो लट् परस्मैपदम्’ ॥ ८४ ॥

विश्वास-प्रस्तुतिः - ८५

एषु दभ्रमतीन् दभ्रान् हसत्युच्चैः सतां सभा ।
चिन्तामणींश्चिन्तयन्ती मितानप्यमितार्थदान् ॥ ८५ ॥

मूलम् - ८५

एषु दभ्रमतीन् दभ्रान् हसत्युच्चैः सतां सभा ।
चिन्तामणींश्चिन्तयन्ती मितानप्यमितार्थदान् ॥ ८५ ॥

पदार्थदीपिकोद्बोधिका

एष्विति ॥ मितानपि शब्दतः परिमितानपि अमितार्थान् अपरिमितार्थान् ददतीति तान् । अमितार्थवाचकानित्यर्थः । एतान् ग्रन्थान् चिन्तामणीन् तत्सदृशान् चिन्तयन्ती सतां सज्जनानां सभा एषु भवत्प्रणीतेषु श्रीमद्भाष्यादिग्रन्थेषु दभ्र इति स्वल्प इति मतिर्येषां तान् । एते ग्रन्था अल्पा इति मन्यमानानित्यर्थः । दभ्रान् योग्यतया अल्पान् पुरुषान् उच्चैः सम्यक् हसति । चिन्तामणय परिमाणतो मिता अपि यथा अमिताभीष्टप्रदास्तथा एते भवत्प्रणीता ग्रन्थाः शब्दतो मिता अपि अमितार्थवाचका-स्तानेतान् दभ्रान्मन्यमानानल्पमतीन् पुरुषान् सतां सभोच्चैर्हसतीति भावः ॥ ८५ ॥

मन्दोपाकारिणी

एष्विति ॥ सतां सज्जनानां सभा एषु भवत्प्रणीतेषु भाष्यस्तोत्र-गाथादिग्रन्थेषु विषये दभ्रमतीन् दभ्रा अल्पा मतिर् येषां तान् । एते ग्रन्था अल्पा इति मन्यमानान् इत्यर्थः । दभ्रान् मन्दान् जनान् उच्चैर् हसति अपहासं करोति । मितानपि शब्दतः परिमितानपि अमितार्थदान् अमिताश्च ते अर्थाश्च तान् ददतीति तान् । बह्वर्थप्रतिपादकान् एतान् ग्रन्थान् चिन्तामणीन् चिन्तामणिसदृशान् चिन्तयन्ती मन्यमाना । यथा चिन्तामण्याद्या अणुत्वेन परिमिता अपि अनन्ताभीष्टदा एवम् एते भवत्प्रणीता ग्रन्थाः शब्दतः मिता अपि अमितार्थवाचकास् तान् एतान् अल्पान् मन्यमानान् मन्दबुद्धीन् सत्सभा उच्चैर् हसतीति भावः ॥ ८५ ॥

विश्वास-प्रस्तुतिः - ८६

अपरोऽपीष्यतेऽस्माभिर्ग्रन्थेष्वेतेषु सत्स्वपि ।
सत्स्वपीन्द्रादिषु पुरा तारकारिरिवामरैः ॥ ८६ ॥

मूलम् - ८६

अपरोऽपीष्यतेऽस्माभिर्ग्रन्थेष्वेतेषु सत्स्वपि ।
सत्स्वपीन्द्रादिषु पुरा तारकारिरिवामरैः ॥ ८६ ॥

पदार्थदीपिकोद्बोधिका

अपर इति ॥ एतेषु ग्रन्थेषु सत्स्वपि अस्माभिरपरोऽपि ग्रन्थः, पुरा इन्द्रादिषु सत्स्वपि अमरैरपरस्तारकारिरिव स्कन्द इवेष्यते ॥ ८६ ॥

मन्दोपाकारिणी

अपरोऽपीति ॥ एतेषु एतादृशेषु ग्रन्थेषु सत्स्वपि अस्माभिर् अपरोऽपि अन्योऽपि ग्रन्थ इष्यते अपेक्ष्यते । अत्र दृष्टान्तः-पुरा इन्द्रादिषु इन्द्रादिदेवेषु सत्स्वपि अमरैर् देवैर् अपरस् तारकारिरिव तारकस् तारकासुरस् तस्य अरिः शत्रुः स्कन्द इव । ‘बाहुलेयस्तारकजित्’ इत्यमरः । ‘इषु इच्छायां कर्मणि लट् आत्मनेपदम्’ ॥ ८६ ॥

विश्वास-प्रस्तुतिः - ८७

ग्रन्थेभ्य एभ्योऽगाधेभ्यो युक्तयो नो दुरुद्धराः ।
मनोमान्द्यात्ततो ग्रन्थं व्यक्ततर्कततिं कुरु ॥ ८७ ॥

मूलम् - ८७

ग्रन्थेभ्य एभ्योऽगाधेभ्यो युक्तयो नो दुरुद्धराः ।
मनोमान्द्यात्ततो ग्रन्थं व्यक्ततर्कततिं कुरु ॥ ८७ ॥

पदार्थदीपिकोद्बोधिका

अपरो ग्रन्थः कुत इष्यत इत्यत आह— ग्रन्थेभ्य इति ॥ एभ्योऽगाधेभ्यो ग्रन्थेभ्यो युक्तयो भवदभिमतयुक्तयो मनोमान्द्यादस्मद्बुद्धेरल्पविषयत्वाद्धेतोर् दुरुद्धरा उद्धर्तुमशक्याः । ततो नोऽस्माकं व्यक्ताः स्पष्टास्तर्कततयो युक्तिसमूहा यस्मिन् स तथा तमपरं ग्रन्थं कुरु ॥ ८७ ॥

मन्दोपाकारिणी

अपरो ग्रन्थः कुत इत्यत आह ॥ ग्रन्थेभ्य इति ॥ अगाधेभ्यः गम्भीरेभ्यः बहुयुक्तिगर्भितेभ्य इति यावत् । एभ्यः भवत्कृतेभ्यः ग्रन्थेभ्यः युक्तयः भवदभिप्रेता युक्तयः मनोमान्द्यान् मनसो ऽस्मद्बुद्धेर् मान्द्याद् अल्पविषयत्वान् नो ऽस्माकं दुरुद्धरा उद्धर्तुम् अशक्याः । ज्ञातुम् अशक्या इत्यर्थः । ततस् तस्मात् कारणाद् अस्माकं व्यक्ततर्कततिं व्यक्तानां तर्काणां युक्तीनां ततयः समूहा यस्मिन् स तथोक्तस् तं ग्रन्थं कुरु विरचय । ‘डु कृञ् करणे इति धातोर् लोट् परस्मैपदं कुरु-कुरुतात् कुरुतं कुरुत’ ॥८७॥

विश्वास-प्रस्तुतिः - ८८

इत्यर्थितो व्यधान्मध्वः सोऽनुव्याख्यां सतां सुधाम् ।
दुर्वादिगर्वाद्रिपविं मायिध्वान्तरविद्युतिम् ॥ ८८ ॥

मूलम् - ८८

इत्यर्थितो व्यधान्मध्वः सोऽनुव्याख्यां सतां सुधाम् ।
दुर्वादिगर्वाद्रिपविं मायिध्वान्तरविद्युतिम् ॥ ८८ ॥

पदार्थदीपिकोद्बोधिका

इतीति ॥ त्रिविक्रमार्येणेतीत्थमर्थितः स मध्वः सतां सुधाम् अमृतवत्परितोषिणीं दुर्वादिनां यो गर्वः स एवाद्रिः पर्वतस्तस्य पविरिव वज्रमिव दुर्वादिनां गर्वपर्वतस्य वज्रायितामित्यर्थः । मायिन एव ध्वान्तोऽन्धकारस्तस्य निरासे रविद्युतिरिव द्युतिर्यस्यास्ताम् अनुव्याख्यां चक्रे ॥ ८८ ॥

मन्दोपाकारिणी

इतीति ॥ त्रिविक्रमार्येण इति पूर्वोक्तप्रकारेण अर्थितः प्रार्थितः सः मध्वः सतां सुधाम् अमृतवत् सुखकरीम् अनुव्याख्यां तन्नामकग्रन्थं व्यधाच् चकार । कथंभूतां दुर्वादिगर्वाद्रिपविं दुर्वादीनां गर्वो ऽहंकार एव अद्रिः पर्वतस् तस्य पविं वज्रतुल्याम् । वज्रेण यथा अद्रयः भिद्यन्ते तथा अनयापि दुर्वाद्यहंकारखण्डनं भवतीति भावः । ‘कुलिशं भिदुरं पविः’ इत्यमरः । पुनः कथंभूतां मायिध्वान्तरविद्युतिं मायिन एव मायिमतमेव ध्वान्तम् अन्धकारस् तस्य रविद्युतिः सूर्यप्रभासदृशी ताम् । यथा अन्धकारः सूर्यप्रभया निरस्यते तथा अनया मायिमतं निरस्यत इति भावः ॥ ८८ ॥

विश्वास-प्रस्तुतिः - ८९

युगपद्रचयन्नेनां कदाचित् स निरन्तरम् ।
चतुरश्चतुरः शिष्यान् लीलयाऽलेखयत् खलु ॥ ८९ ॥

मूलम् - ८९

युगपद्रचयन्नेनां कदाचित् स निरन्तरम् ।
चतुरश्चतुरः शिष्यान् लीलयाऽलेखयत् खलु ॥ ८९ ॥

भावप्रकाशिका

निरन्तरमलेखयत् ॥

पदार्थदीपिकोद्बोधिका

युगपदिति ॥ कदाचिद् एनां श्रीमदनुव्याख्यां युगपद्रचयन् चतुरः कुशलः श्रीमध्वो निर्गतमन्तरं व्यवधानं यथा भवति तथा निरन्तरं चतुरः शिष्यान् लीलया ओखयत्खलु । स्वयं रचयन्नेवाध्यायचतुष्टयं चतुर्भिः शिष्यैर्निरन्तरमलेख-यदित्यर्थः । तच्च लीलयैव ॥ ८९ ॥

मन्दोपाकारिणी

॥ युगपदिति ॥ कदाचिद् एनाम् अनुव्याख्यां युगपद् एकदा रचयन् कुर्वन् चतुरः कुशलः सः श्रीमध्वाचार्यश् चतुरश् चतुः संख्याकान् शिष्यान् निरन्तरम् अवकाशं विनैव युगपद् इति यावद् लीलया अनायासेन ओखयत् खलु । चतुरः श्रीमध्वः कस्मिंश्चित् काले स्वयम् अध्याय चतुष्टयं युगपदेव अनायासेन लेखयामासेति भावः ॥८९॥

विश्वास-प्रस्तुतिः - ९०

युक्ताया युक्तिमालायाः प्रोक्तायास्तत्र चात्मना ।
व्यक्तं चक्रे विवरणं कवीन्द्रैरेष दुष्करम् ॥ ९० ॥

मूलम् - ९०

युक्ताया युक्तिमालायाः प्रोक्तायास्तत्र चात्मना ।
व्यक्तं चक्रे विवरणं कवीन्द्रैरेष दुष्करम् ॥ ९० ॥

पदार्थदीपिकोद्बोधिका

युक्ताया इति ॥ एष श्रीमध्वस्तत्र श्रीमदनुव्याख्याने आत्मना प्रोक्ताया युक्ताया उपपन्नाया युक्तिमालायाः कवीन्द्रैर् दुष्करं कर्तुमशक्यं विवरणं व्यक्तं यथा भवति तथा चक्रे । श्रीमदनुव्याख्यानोक्तपूर्वपक्षसिद्धान्तयुक्तिप्रकाशानुरूपं श्रीमन्न्यायविवरणाख्यमपरं ग्रन्थं चक्र इत्यर्थः ॥ ९० ॥

मन्दोपाकारिणी

॥ युक्ताया इति ॥ एषः श्रीमध्वाचार्यस् तत्र श्रीमदनुव्याख्याने आत्मना स्वेन प्रोक्तायाः कथिताया युक्ताया उपपन्नाया युक्तिमालाया युक्तीनां मालायाः पङ्क्तेः समूहस्येति यावद् विवरणं प्रपञ्चनं व्यक्तं स्पष्टं यथा भवति तथा चक्रे । कथं भूतं, कवीन्द्रैः पण्डितश्रेष्ठैः । दुष्करं कर्तुमशक्यम् अनुव्याख्यानोक्त पूर्वपक्षसिद्धान्तानुरूपं श्रीमन्न्यायविवरणाख्यम् अपरं ग्रन्थं चकारेति भावः ॥ ९० ॥

विश्वास-प्रस्तुतिः - ९१

मध्वेन्दोर्नित्यसम्बन्धान्निस्तमस्तापचेतसोः ।
वैकुण्ठं यातयोः पित्रोर्गृहेऽस्यावरजोऽवसत् ॥ ९१ ॥

मूलम् - ९१

मध्वेन्दोर्नित्यसम्बन्धान्निस्तमस्तापचेतसोः ।
वैकुण्ठं यातयोः पित्रोर्गृहेऽस्यावरजोऽवसत् ॥ ९१ ॥

पदार्थदीपिकोद्बोधिका

श्रीविष्णुतीर्थार्यवर्णनमुपक्रमते— मध्वेन्दोरित्यादिना ॥ मध्वेन्दोर् नित्यसम्बन्धाद् दर्शनश्रवणादिरूपान् निर्गतौ तमस्तपौ ययोस् ते निस्तमस्तापे तादृशे चेतसी ययोस् तौ तयोर् निस्तमस्तापचेतसोर् माता च पिता च पितरौ तयोः पित्रोर् वैकुण्ठं यातयोः सतोर् अस्य श्रीमध्वस्य अवरजः गृहे अवसत् ॥ ९१ ॥

मन्दोपाकारिणी

अथ श्रीविष्णुतीर्थाचार्यस्य महिमानं वर्णयितुम् उपक्रमति ॥ मध्वेन्दोर् इति ॥ मध्वेन्दोर् मध्वाचार्याख्यचन्द्रस्य नित्यसम्बन्धान् नित्यं दर्शनादि-सम्बन्धान् निस्तमस्तापचेतसोस् तमो ऽज्ञानं च तापश्च तमस्तापौ निर्गतौ तमस्तापौ यस्मात् । तादृशं चेतो ऽन्तःकरणं ययोस्तौ निस्तमस्तापचेतसौ तयोः । अज्ञानता-परहितान्तःकरणयोर् इत्यर्थः । पित्रोर् मध्यगेहतद्भार्ययोर् वैकुण्ठं वैकुण्ठलोकं यातयोः प्राप्तयोः सतोर् अस्य श्रीमध्वस्य अवरजो ऽनुजः गृहे स्वमन्दिरे अवसत् ॥ ९१ ॥

विश्वास-प्रस्तुतिः - ९२

विधिभ्रूविभ्रमभ्रश्यद्धनगोधान्यसम्पदा ।
निर्वेदिना वेदविदा तेनापे वेदवादिराट् ॥ ९२ ॥

मूलम् - ९२

विधिभ्रूविभ्रमभ्रश्यद्धनगोधान्यसम्पदा ।
निर्वेदिना वेदविदा तेनापे वेदवादिराट् ॥ ९२ ॥

पदार्थदीपिकोद्बोधिका

विधीति ॥ विधेर् दैवस्य या भ्रूस् तस्या यो विभ्रमो विलासः परिपाक इति यावत् । तेन भ्रश्यन्ती धनानि च गावश्च धान्यानि च सम्पदश्च धनगोधान्यसम्पदो यस्य स तथा तेन । अत एव निर्बेदोऽस्यास्तीति निर्वेदी तेन । विरक्तिमतेत्यर्थः वेदविदा तेन अवरजेन वेदवादिराट् वेदवादिश्रेष्ठः श्रीमध्व आपे प्राप्तः । विधिवशाद् धनादिनाशे सति विरक्तो मध्वानुजो मध्वमगमदित्यर्थः ॥ ९२ ॥

मन्दोपाकारिणी

विधीति ॥ विधिभ्रूविभ्रमभ्रश्यद्धनगोधान्यसम्पदा विधेर् अदृष्ट-प्रेरकस्य विधातुर् भ्रुवोर् विभ्रमेण विलासेन भ्रश्यन्ती नष्टा धनं च गावश्च धान्यानि च धनगोधान्यानि एतद्रूपा च सा सम्पच्च धनगोधान्यसम्पद् विधिभ्रूविभ्रमभ्रश्यन्ती धनगोधान्यसम्पद् यस्य स तथोक्तस् तेन । निर्वेदिना निर्वेदः वैराग्यम् अस्यास्तीति निर्वेदी तेन । विरक्तिमता । वेदविदा वेदं वेत्तीति वेदवित् तेन वेदार्थज्ञानिना । तेन मध्वानुजेन वेदवादिराट् वेदान् वदन्ति व्याख्यान्ति ते वेदवादिनस् तेषां वेदव्याख्यातॄणां राट् श्रेष्ठः श्रीमध्वाचार्य आपे प्राप्तः । ‘आप्लृ व्याप्तौ इत्यतः कर्मणि लिट् आत्मनेपदम् आपे आपाते आपिरे’ । मध्वानुजः मातापितृमरणानन्तरम् अदृष्टवशाद् धनादिनाशे सति विरक्तः सन् यत्याश्रमं ग्रहीतुं श्रीमध्वाचार्यम् अगमद् इति भावः ॥ ९२ ॥

विश्वास-प्रस्तुतिः - ९३

पारिव्राज्यं प्रार्थयन्तं पादानम्रमिमं मुहुः ।
समयापेक्षयोर्वीक्षो गमयामास धाम तम् ॥ ९३ ॥

मूलम् - ९३

पारिव्राज्यं प्रार्थयन्तं पादानम्रमिमं मुहुः ।
समयापेक्षयोर्वीक्षो गमयामास धाम तम् ॥ ९३ ॥

पदार्थदीपिकोद्बोधिका

पारिव्राज्यमिति ॥ उर्वी ईक्षा यस्य स उर्वीक्षः श्रीपूर्णप्रज्ञः। परिव्राजो भावः पारिव्राज्यं यत्याश्रममित्यर्थः । प्रार्थयन्तं मुहुः पादानम्रं तम् इमं स्वानुजं समयापेक्षया कालापेक्षया धाम मन्दिरं गमयामास । नायं कालः सन्यासस्य कालान्तरे भविष्यति इत्युक्तवा तावद् गृहं गमयामास इत्यर्थः ॥ ९३ ॥

मन्दोपाकारिणी

पारिव्राज्यमिति ॥ उर्वीक्ष उर्वी बहुला ईक्षा बुद्धिर् यस्य स उर्वीक्षः पूर्णप्रज्ञाचार्यः । पारिव्राज्यं परिव्राजः भिक्षोर् भावः पारिव्राज्यं संन्यासाश्रमम् । ‘भिक्षुः परिव्राट् कर्मन्दी’ इत्यमरः । प्रार्थयन्तं मुहुर् भृशं पादानम्रं पादयोर् आनम्रम् आनतं तमिमं स्वानुजं समयापेक्षया समयस्य संन्यासाश्रमस्वीकारयोग्यस्य कालस्य अपेक्षया इच्छया धाम स्वगृहं गमयामास । अयं चातुर्मास्यः कालः संन्यासस्वीकारयोग्यो न चातुर्मास्यसमाप्त्यनन्तरं संन्यासाश्रमं दास्यामीति तं प्रत्युक्त्वा तावद् गृहं प्रवेशयामास इति भावः ॥ ९३ ॥

विश्वास-प्रस्तुतिः - ९४

न जघास न सुष्वाप न जहास स धीरधीः ।
समयार्थी स्मरन् ज्येष्ठं रामं रामानुजो यथा ॥ ९४ ॥

मूलम् - ९४

न जघास न सुष्वाप न जहास स धीरधीः ।
समयार्थी स्मरन् ज्येष्ठं रामं रामानुजो यथा ॥ ९४ ॥

पदार्थदीपिकोद्बोधिका

नेति ॥ ज्येष्ठं स्मरन् धीरा धीर् यस्य स धीरधीः सन्न्यासे स्थिरबुद्धिरित्यर्थः । स मध्वानुजो समयार्थी सन्न्यासकालं प्रतीक्षमाणः सन् चतुर्दश-वत्सरान्ते समेष्यामीति श्रीरामोक्तसमयं प्रतीक्षमाणो ज्येष्ठं रामं स्मरन् रामानुजो भरतो यथा, तथा न जघास न आदत् । अद भक्षणे लिट् । न सुष्वाप, न जहास न हासं चकार ॥९४॥

मन्दोपाकारिणी

नेति ॥ समयार्थी समयम् अर्थयते इति समयार्थी संन्यासकालं प्रतीक्षमाणः धीरधीर् धीरा संन्यासाश्रमस्वीकारे धैर्यवती धीर् यस्य सः स्थिरबुद्धिः सः मध्वानुजः ज्येष्ठम् अग्रजं मध्वाचार्यं स्मरन् ध्यायन्, न जघास, न भुक्तवान्, न सुष्वाप निद्रां न चकार, न जहास हासं न कृतवान् । समयार्थी चतुर्दशवत्सरानन्तरम् आयास्यामीति रामकृतं कालं प्रतीक्षमाणः ज्येष्ठं रामं स्मरन् रामानुजः दाशरथिरामस्य अनुजः भरतः यथा न निद्रादिकं कृतवान् तथेत्यर्थः । न कुत्रापि विषये आसक्तिं कृतवान् इति भावः । त्रिष्वप् शये इति धातोर्लिट् परस्मैपदम् । ‘‘सुष्वाप सुषुपतुः सुषुपुः । ‘घस्तृ अदने इति धातोर् लिट् परस्मैपदम्, ‘‘जघास जक्षतुर् जक्षुः । ‘‘हसे हसेन’’ इति लिट् परस्मैपदम् । जहास जहसतुर् जहसुः ॥ ९४ ॥

विश्वास-प्रस्तुतिः - ९५

राज्ये कथञ्चिन्निक्षिप्य राजानं विरहार्दितम् ।
अवतारभुवं प्रायाद्भगवाञ्छरदत्यये ॥ ९५ ॥

मूलम् - ९५

राज्ये कथञ्चिन्निक्षिप्य राजानं विरहार्दितम् ।
अवतारभुवं प्रायाद्भगवाञ्छरदत्यये ॥ ९५ ॥

पदार्थदीपिकोद्बोधिका

राज्य इति ॥ भगवान् श्रीमध्वः शरदत्यये दृत्वसाने विरहादर्दितं भविष्यद्विरहाद्दुःखितं राजानं जयसिंहं कथञ्चिद्राज्ये संस्थाप्य अवतारभुवं स्वावतारस्य भुवं पाजकक्षेत्रं प्रायात् ॥ ९५ ॥

मन्दोपाकारिणी

॥ राज्येति ॥ (भगवान्) श्रीमध्वः (शरदत्यये) शरदः शरदृतोः ‘स्यादृतौ वत्सरे शरत्’ इत्यभिधानम् अत्यये अवसाने सति (अवतारभुवं) अवतारस्य स्वजन्मनः भूर् भूभिस् तां पाजकक्षेत्रं (प्रायात्) प्राप किं कृत्वा (विरहार्दितं) भविष्यत्स्ववियोगाद् आर्दितं दुःखितं (राजानं) जयसिंहं (कथञ्चित्) येन केन प्रकारेण (राज्ये) तद्राष्टे्र (निक्षिप्य) संस्थाप्य शरदृतुगमनानन्तरं जिगमिषुं स्वं दृष्ट्वा स्ववियोगो भविष्यतीति बुद्ध्या खिन्नमनसः जयसिंहराजस्य केनचित् प्रकारेण समाधानं कृत्वा पुनः पाजकक्षेत्रं प्रत्यगमद् इति भावः । ‘प्रपूर्वाद् या प्रापणे इति धातोर् लङ् परस्मैपदम् अयाद् अयाताम् अयुर् अयान्’ ॥ ९५ ॥

विश्वास-प्रस्तुतिः - ९६

विशुद्धद्विकुलं श्रौतं शुचिं कृतपितृक्रियम् ।
विरक्तं विषयान् भुक्त्वा व्यधान्मध्वोऽनुजं यतिम् ॥ ९६ ॥

मूलम् - ९६

विशुद्धद्विकुलं श्रौतं शुचिं कृतपितृक्रियम् ।
विरक्तं विषयान् भुक्त्वा व्यधान्मध्वोऽनुजं यतिम् ॥ ९६ ॥

भावप्रकाशिका

विशुद्धद्विकुलमित्यादि हेतुगर्भम् ॥ ९६ ॥

पदार्थदीपिकोद्बोधिका

विशुद्धेति ॥ विशुद्धे द्वे कुले यस्य स तथा तं निर्दुष्ट-मातापितृ वंशजम् इत्यर्थः । श्रुतिसम्बन्धी श्रौतस् तम् । श्रुतिपाठतदर्थावधारणयुक्तमित्यर्थः । शुचिं मनोवाक्कायशुद्धिमन्तम् । कृता अनुष्ठिता पितृक्रिया नित्यनैमित्तिकपितृकार्यं येन तम् । तत्कालानुष्ठितजीवच्छ्राद्धात्मकपितृकार्यमित्यर्थः । विषयान् भुक्तवा विरक्तम् अनुजं यतिं चकार । अत्र विशुद्धद्विकुलत्वादयो धर्मा यत्याश्रमदाने हेतव इत्यर्था एभिर् विशेषणैर् दर्शिताः ॥ ९६ ॥

मन्दोपाकारिणी

विशुद्धेति ॥ मध्वो ऽनुजं यतिं व्यधात् । कथंभूतं विशुद्धद्विकुलं द्वयोः कुलं विशुद्धं द्विकुलं यस्य स तम् । निर्दुष्टमातापितृवंशजातम् । श्रौतं श्रुतिसम्बन्धिनं श्रुतितदर्थावधारणयुक्तम् । शुचिं मनोवाक्कायैः शुचिम् । कृतपितृक्रियं कृता पितृक्रिया संन्यासकाले क्रियमाणजीवच्छाद्धं येन स तथोक्तस् तम् । विषयान् शब्दादीन् भुक्त्वा विरक्तं वैराग्योपेतम् । अत्र विशुद्धद्विकुलम् इत्यादिविशेषणानि संन्यासस्वीकारहेतुभूतानि इति ज्ञेयम् ॥

विश्वास-प्रस्तुतिः - ९७

रहस्यतिरहस्यं तद्ब्रह्म ब्रह्मसमो ददौ ।
अमुष्मै पञ्चतपसो न विदुर्यत्तपस्विनः ॥ ९७ ॥

मूलम् - ९७

रहस्यतिरहस्यं तद्ब्रह्म ब्रह्मसमो ददौ ।
अमुष्मै पञ्चतपसो न विदुर्यत्तपस्विनः ॥ ९७ ॥

पदार्थदीपिकोद्बोधिका

रहसीति ॥ ब्रह्मणा समो ब्रह्मसमश् चतुर्मुखसदृशः श्रीमध्वः पञ्चाग्निमध्ये तपो येषां ते पञ्चतपसः । पञ्चाग्निमध्ये तपश्चरन्त इत्यर्थस् तपस्विनो यद्ब्रह्म न विदुर् अतिरहस्यं तद्ब्रह्म रहसि अमुष्मा अनुजाय ददौ उपदिदेश ॥ ९७ ॥

मन्दोपाकारिणी

रहसीति ॥ ब्रह्मसमः ब्रह्मणश् चतुर्मुखस्य समः रहसि एकान्ते अतिरहस्यम् अतिगोप्यं तद् ब्रह्म प्रणवमन्त्रम् अमुष्मै यतिभूताय अनुजाय ददौ उपदिदेश । ‘डु दाञ् दाने इत्यतो लिट् परस्मैपदम्’ । कीदृशं ब्रह्म पञ्चतपसः पञ्चसु अग्निषु तपो येषां ते पञ्चतपसः पञ्चाग्निमध्ये तपश् चरन्तस् तपस्विनः यद् ब्रह्म न विदुर् न जानन्ति तादृशं ब्रह्म ददौ इत्यर्थः । ‘विद ज्ञाने इत्यतः लिट् परस्मैपदं वेद विदतुर् विदुः’ । अनेन प्रणवमन्त्रस्य सर्वेषाम् अनधिकार इति सूच्यते ॥ ९७ ॥

विश्वास-प्रस्तुतिः - ९८

प्रेमामृतप्रसन्नास्यस्मिताङ्गापाङ्गपूर्वकम् ।
श्रीविष्णुतीर्थनामास्मै प्रीतितीर्थः प्रदत्तवान् ॥ ९८ ॥

मूलम् - ९८

प्रेमामृतप्रसन्नास्यस्मिताङ्गापाङ्गपूर्वकम् ।
श्रीविष्णुतीर्थनामास्मै प्रीतितीर्थः प्रदत्तवान् ॥ ९८ ॥

पदार्थदीपिकोद्बोधिका

प्रेमेति ॥ प्रीतितीर्थ आनन्दतीर्थः प्रेम एव अमृतं प्रेमामृतं तेन प्रसन्नम् । तच् च तद् आस्यं च प्रेमामृतप्रसन्नास्यं तच् च स्मितमेवाङ्गं सहकारि यस्य स चासौ अपाङ्गश्च स च प्रेमामृतप्रसन्नास्यस्मिताङ्गापाङ्गौ तौ पूर्वकौ यथा भवति तथा । अस्मै यतये स्वावरजाय श्रीविष्णुतीर्थनाम प्रदत्तवान् ॥ ९८ ॥

मन्दोपाकारिणी

प्रेमेति ॥ प्रीतितीर्थ आनन्दतीर्थः प्रेमामृतप्रसन्नास्यस्मिताङ्गा-पाङ्गपूर्वकं प्रेमैव स्नेह एव अमृतं तेन प्रसन्नं च तद् आस्यं च तस्य स्मितमेव ईषद्धास एव अङ्गं सहकारि यस्य स स्मिताङ्गः स्मिताङ्गश्चासौ उपाङ्गः नेत्रान्तश्च सः पूर्वो यथा भवति तथा । स्नेहेन प्रसन्नमुखः सन् हासयुक्तापाङ्गेन पश्यन् सन् अस्मै यतिभूताय स्वावरजाय श्रीविष्णुतीर्थनाम श्रीविष्णुतीर्थ इति संज्ञां प्रदत्तवान् ॥ ९८ ॥

विश्वास-प्रस्तुतिः - ९९

श्रवणेनानुवादेन मननेनावृथाऽकरोत् ।
कालं वेदान्तशास्त्रस्य वेदान्तगुरुसोदरः ॥ ९९ ॥

मूलम् - ९९

श्रवणेनानुवादेन मननेनावृथाऽकरोत् ।
कालं वेदान्तशास्त्रस्य वेदान्तगुरुसोदरः ॥ ९९ ॥

पदार्थदीपिकोद्बोधिका

श्रवणेति ॥ वेदान्तगुरुसोदरः श्रीमध्वानुजः श्रीविष्णु-तीर्थाचार्यः वेदान्तशास्त्रस्य श्रवणेन अनुवादेन प्रमेयानुवादेन मननेन चिन्तनेन च कालं समयम् अवृथा अवन्ध्यम् अकरोत् ॥ ९९ ॥

मन्दोपाकारिणी

श्रवणेनेति ॥ वेदान्तगुरुसोदरः वेदान्तानाम् उपनिषदां गुरोर् उपदेशकस्य श्रीमध्वाचार्यस्य सोदरो ऽवरजः विष्णुतीर्थः वेदान्तशास्त्रस्य उपनिषद्भाष्यस्य श्रवणेनानुवादेन श्रुतस्य पुनःपुनरावर्तनेन मननेन श्रुतार्थस्य मनसा अनुचिन्तनेन कालम् अवृथा सार्थकम् अकरोत् ॥ ९९ ॥

विश्वास-प्रस्तुतिः - १००

स दान्तिभक्तिमाधुर्यपरिचर्यादिमेदुरैः ।
महाविटपिनं चक्रे गुरोः स्वस्थं कृपांकुरम् ॥ १०० ॥

मूलम् - १००

स दान्तिभक्तिमाधुर्यपरिचर्यादिमेदुरैः ।
महाविटपिनं चक्रे गुरोः स्वस्थं कृपांकुरम् ॥ १०० ॥

पदार्थदीपिकोद्बोधिका

स इति ॥ स श्रीविष्णुतीर्थाचार्यः स्वस्थं स्वस्मिन् स्थितं गुरोः श्रीमध्वाचार्यस्य कुपाङ्कुरं, दान्तिर् इन्द्रियनिग्रहः सा च भक्तिश्च माधुर्यं वाङ्ममनसोरपारुष्यं तच्च परिचर्या शुश्रूषा सा च ता आदयो येषां गुणानां त एव मेदुराणि अङ्कुराभिवृद्धिसाधनानि तैः । ‘सान्द्रस्निग्धस्तु मेदुर’ इत्यमरः । दान्तिभक्तिमा-धुर्यपरिचर्यादिमेदुरैर् महाविटपिनं महावृक्षं चक्रे स्वगुरुकृपांकुरं स्वीयदान्त्यादिभिरवर्धयदिति भावः ॥ १०० ॥

मन्दोपाकारिणी

स इति ॥ सः विष्णुतीर्थः स्वस्थं स्वस्मिन् तिष्ठतीति स्वस्थस् तं गुरोः श्रीमध्वाचार्यस्य कृपाङ्कुरं कृपाया अङ्कुरं दान्तिभक्तिमाधुर्यपरिचर्यादिमेदुरैर् दान्तिर् इन्द्रियनिग्रहः भक्तिर् हरौ गुरौ स्नेहविशेषः माधुर्यं वाङ्मनसोर् अपरुषत्वं परिचर्या गुरुशुश्रूषा दान्तिश्च भक्तिश्च माधुर्यं च परिचर्या च दान्तिभक्तिमाधुर्यपरिचर्यास् ता एवादयो येषां गुणानां ते एव मेदुराणि अङ्कुराभिवृद्धिसाधनानि तैः । महाविटपिनं महान् अत्युच्चश्चासौ विटपी वृक्षश्च महाविटपी तम् । ‘विटपी पादपस्तरुः’ इत्यमरश् चक्रे । उप्तं बीजं किञ्चिद् भूमिमुद्भिद्य निर्गतमात्रम् अङ्कुर इत्युच्यते यथा तादृशम् अङ्कुरं तदभिवृद्धिसाधनैर् वर्धयित्वा महावृक्षं कुर्युस् तद्वत् श्रीविष्णुतीर्थः स्वस्मिन् प्रादुर्भूतां मध्वाचार्यकृपां दान्तिभक्त्यादिसाधनैर् अभिवृद्धां चकार । मध्वः विष्णुतीर्थे तद्गुणान् दृष्ट्वा महाकृपां कृतवान् इति भावः ॥ १०० ॥

विश्वास-प्रस्तुतिः - १०१

अनन्तमतिकारुण्यकल्पद्रुमवतो जनैः ।
अवर्ण्यो महिमा तस्य लौल्यात् संवर्ण्यते मनाक् ॥ १०१ ॥

मूलम् - १०१

अनन्तमतिकारुण्यकल्पद्रुमवतो जनैः ।
अवर्ण्यो महिमा तस्य लौल्यात् संवर्ण्यते मनाक् ॥ १०१ ॥

पदार्थदीपिकोद्बोधिका

अनन्तेति ॥ अनन्तमतेः श्रीपूर्णप्रज्ञस्य कारुण्यं दया तदेव कल्पद्रुमः सोऽस्यास्तीति तादृशस्य तस्य श्रीविष्णुतीर्थस्य महिमा जनैर् अवर्ण्योऽपि वर्णयितुम् अशक्योऽपि लोलस्य भावो लौल्यं तस्मात् तन्महिमानमनुक्तवा स्थातुं धैर्याभावादित्यर्थः । मनाक् ईषत् संवर्ण्यते ॥ १०१ ॥

मन्दोपाकारिणी

अनन्तमतीति ॥ अनन्तमतिकारुण्यकल्पद्रुमवतो ऽनन्ता अपरिमिता मतिर् यस्य सस् तस्य पूर्णप्रज्ञाचार्यस्य कारुण्यं करुणैव कल्पद्रुमः कल्पवृक्षः सोऽस्यातीति अनन्तमतिकारुण्यकल्पद्रुमवान् तस्य श्रीविष्णुतीर्थस्य महिमा माहात्म्यं जनैर् अवर्ण्योऽपि वर्णयितुम् अशक्योऽपि लौल्यान् महिमा वर्णनीय इति सतृष्णत्वाद् औत्कण्ठ्याद् इति यावत् । ‘लोलः सतृष्णचलयोः’ इति भास्करः । मनाक् किंचित् संवर्ण्यते संस्तूयते । ‘किंचिदीषन्मनागल्पः’ इत्यमरः । ‘वर्ण वर्णक्रियाविस्तारगुणवचनेषु च इति धातोः कर्मणि लट् आत्मनेपदं वर्ण्यते वर्ण्ये ते वर्ण्यन्ते’ ॥ १०१ ॥

विश्वास-प्रस्तुतिः - १०२

चतुरोऽसौ प्रवचने मनुसंसिद्धिमान्मनः ।
संख्या मां पूरणी मागान्मध्वदासमिति व्यधात् ॥ १०२ ॥

मूलम् - १०२

चतुरोऽसौ प्रवचने मनुसंसिद्धिमान्मनः ।
संख्या मां पूरणी मागान्मध्वदासमिति व्यधात् ॥ १०२ ॥

पदार्थदीपिकोद्बोधिका

चतुर इति ॥ प्रवचने श्रीमध्वशास्त्रव्याख्याने चतुरः मनोर् मन्त्रस्य संसिद्धिर् अस्यास्तीति मनुसंसिद्धिमान् असौ श्रीविष्णुतीर्थार्यो मध्वदासं मां पूरणी अस्मादयं द्वितीय इत्यादिसङ्ख्या पूरणीसङ्ख्या सा मागान् न प्राप्नोद् इति मनो व्यधात् । मनसैवममन्यतेत्यर्थः । मध्वशिष्याग्रगण्यं वदेत् तथा यतिष्य इति अमन्यत इति भावः ॥

मन्दोपाकारिणी

चतुर इति ॥ प्रवचने मध्वशास्त्रव्याख्याने चतुरः मनुसंसिद्धिमान् मनूनां प्रणवादिमन्त्राणां संसिद्धिः सम्यक् सिद्धिर् अस्यास्तीति मनुसंसिद्धिमान् । येषां मन्त्राणां जपेन अभीष्टसिद्धिर् भवत्येव तादृशमन्त्रवान् इत्यर्थः । असौ श्रीविष्णुतीर्थार्यः मन इति एवं व्यधात् । मनसा एवम् अमन्यत इत्यर्थः । कथं मध्वदासं मध्वस्य शिष्यं मां पूरणी अस्मादयं द्वितीयो ऽस्माद् अयं तृतीय इत्यादिरूपा पूरणी संख्या मागान् न प्राप्नोतु । मध्वशिष्याणां गणनावसरे माम् अयं द्वितीयस् तृतीय इति द्वितीयत्वादिप्रकारेण कोऽपि न वदेत् किन्तु मां मध्वशिष्याग्रेसरं वदेत् तथा अहम् अतिशयिष्ये इति अमन्यत इति भावः ॥ १०२ ॥

विश्वास-प्रस्तुतिः - १०३

दिशं प्रयान्तं शशिनश्चरन्तं भुव्यशोधयत् ।
तीर्थकं विष्णुतीर्थं च विष्णुतीर्थश्च तीर्थकम् ॥ १०३ ॥

मूलम् - १०३

दिशं प्रयान्तं शशिनश्चरन्तं भुव्यशोधयत् ।
तीर्थकं विष्णुतीर्थं च विष्णुतीर्थश्च तीर्थकम् ॥ १०३ ॥

पदार्थदीपिकोद्बोधिका

दिशमिति ॥ शशिनश् चन्द्रस्य दिशम् उत्तरदिशमित्यर्थः । प्रयान्तं भुवि चरन्तं विष्णुतीर्थं तीर्थरूपं कं जलं च तीर्थकं पर्यशोधयत् शुध शौचे लङ् । विष्णुतीर्थं च तीर्थकं तीर्थजलं पर्यशोधयत् । गङ्गादितीर्थस्नानेन श्रीविष्णुतीर्थार्यः शुद्धकायोऽभूत् । भागवतश्रेष्ठस्य मज्जनेन तीर्थसलिलानि च पावनानि अभूवन् इत्यर्थः ॥

मन्दोपाकारिणी

दिशमिति ॥ शशिनश् चन्द्रस्य दिशम् उदीचीं दिशं प्रयान्तं गच्छन्तं भुवि भूम्यां चरन्तं तीर्थयात्रार्थं सञ्चरन्तं विष्णुतीर्थं तीर्थकं तीर्थस्य कं जलम् । ‘कं शिरो जलमाख्यातं’ इति वररुचिः । अशोधयद् गङ्गादितीर्थस्नानेन श्रीविष्णुतीर्थार्यः शुद्धोऽभूत् । भागवतश्रेष्ठस्य विष्णुतीर्थस्य मज्जनादेव तीर्थसलिलानि च पावनानि अभूवन् इति भावः । ‘शुध शौचे इति धातोर् लङ् परस्मैपदम्’ ॥ १०३ ॥

विश्वास-प्रस्तुतिः - १०४

अकामानामनेकेषां सिद्धिभूमिं तपस्विनाम् ।
तिरोहितात्मा प्रापासौ हरिश्चन्द्रमहीधरम् ॥ १०४ ॥

मूलम् - १०४

अकामानामनेकेषां सिद्धिभूमिं तपस्विनाम् ।
तिरोहितात्मा प्रापासौ हरिश्चन्द्रमहीधरम् ॥ १०४ ॥

पदार्थदीपिकोद्बोधिका

आकामानामिति ॥ असौ श्रीविष्णुतीर्थार्यः न विद्यते काम इच्छा येषां तेषाम् अकामानाम् अनेकेषां तप एषाम् अस्तीति तपस्विनस् तेषां सिद्धेस् तपःसिद्धेर् भूमिः स्थानं सिद्धिभूमिस् तां, हरिश्चन्द्रमहीधरं तन्नामकं पर्वतं तिरोहितोऽन्तर्हित आत्मा स्वरूपं यस्य स तथा सन् योगसामर्थ्यात् सर्वप्राणिभिर् अदृश्यः सन् इत्यर्थः प्राप ॥१०४॥

मन्दोपाकारिणी

अकामानामिति ॥ असौ विष्णुतीर्थार्यो ऽकामानां न विद्यते कामः फलेच्छा येषां ते अकामास् तेषां काम्यकर्मानुष्ठानरहितानाम् अनेकेषां बहूनां तपस्विनां तपः कुर्वतां सिद्धिभूमिं तपःसिद्धिस्थानं हरिश्चन्द्रमहीधरं हरिश्चन्द्राख्यपर्वतं तिरोहितात्मा तिरोहितो ऽन्तर्हित आत्मा स्वरूपं यस्य स तथोक्तो ऽदृश्यस्सन् प्राप प्राप्तवान् ॥ १०४ ॥

विश्वास-प्रस्तुतिः - १०५

द्वन्द्वदुःखानले वीरो मात्सर्येण विमत्सरः ।
तत्याज मत्वा तस्यासावशनादीन्धनायितम् ॥ १०५ ॥

मूलम् - १०५

द्वन्द्वदुःखानले वीरो मात्सर्येण विमत्सरः ।
तत्याज मत्वा तस्यासावशनादीन्धनायितम् ॥ १०५ ॥

पदार्थदीपिकोद्बोधिका

द्वन्द्वेति ॥ वीरो ऽध्यवसायान्तगामी असौ विगतो मत्सरो यस्मात् स विमत्सरः सन् अपि द्वन्द्वमेव शीतोष्णादिद्वन्द्वमेव दुःखानलो दुःखाग्निर् मात्सर्येण अशनमादिर्यस्य तदशनादि, तस्य द्वन्द्वदुःखाग्नेर् इन्धनवद् आचरतीती इन्धनायितं मत्वा तत्याज ॥ १०५ ॥

मन्दोपाकारिणी

द्वन्द्वेति ॥ वीर आरब्धान्तगामी असौ विष्णुतीर्थार्यः विमत्सरः सन् अपि शुभद्वेषरहितोऽपि । ‘मत्सरोऽन्यशुभद्वेषः’ इत्यभिधानम् । द्वन्द्वदुःखानले द्वन्द्वं शीतोष्णादि तज्जन्यं यद्दुःखं तदेव अनलो ऽग्निस् तस्मिन् मात्सर्येण द्वेषेण अशनादि भोजनादि तत्याज त्यक्तवान् । किम् इति मत्वा तस्य द्वन्द्वदुःखाग्नेर् अशनादि इन्धनायितं काष्ठायितम् इति मत्वा । ‘काष्ठं दारु इन्धनं त्वेधः’ इत्यमरः । इन्धनादिकं यथाग्नेर् अभिवृद्धिजनकं तद्वद् अशनादि द्वन्द्वदुःखस्य अभिवृद्धिकारणम् अतः द्वन्द्वदुःखानुत्पादनार्थम् अशनादिपरित्यागं कृतवान् इति भावः । ‘त्यज हानौ इति धातोर् लिट् परस्मैपदं तत्याज तत्यजतुस् तत्यजुः’ ॥ १०५ ॥

विश्वास-प्रस्तुतिः - १०६

भक्तैरनुगिरं नीतं प्रार्थितो यतिशेखरः ।
पञ्चगव्यं पपौ किञ्चित् पञ्चमे पञ्चमे दिने ॥ १०६ ॥

मूलम् - १०६

भक्तैरनुगिरं नीतं प्रार्थितो यतिशेखरः ।
पञ्चगव्यं पपौ किञ्चित् पञ्चमे पञ्चमे दिने ॥ १०६ ॥

भावप्रकाशिका

अनुगिरं ‘गिरेश्च सेनकस्ये’ति टच् समासान्तप्रत्ययः ॥ १०६ ॥

पदार्थदीपिकोद्बोधिका

भक्तैरिति ॥ यतिशेखरो यतिश्रेष्ठो भक्तैर् अनुगिरं गिरेः समीपं ‘गिरेश्च सेनकस्य’ इत्यव्ययीभावान्ताट्टज्वा । नीतं पञ्चगव्यं प्रार्थितःसन् पञ्चमे पञ्चमे दिने किञ्चित् पपौ ॥ १०६ ॥

मन्दोपाकारिणी

भक्तैरिति ॥ यतिशेखरः यतीनां शेखरः शिखास्थानीयः । अत्युत्तम इति यावत् । ‘शिखास्वापीडशेखरौ’ इत्यमरः भक्तैर् जनैः प्रार्थितः सन् अनुगिरं गिरेर् अनु अनुगिरं पर्वतसमीपं नीतं पञ्चगव्यं पञ्चमे पञ्चमे दिने किंचित् स्वल्पं पपौ पीतवान् । अशानादिकं परित्यज्य भक्तैः प्रार्थितः सन् तैरेव पर्वतसमीपम् आनीतं पञ्चगव्यं पञ्चमे पञ्चमे दिने अपिबद् इति भावः । ‘पा पाने इत्यतो लिट् परस्मैपदं पपौ पपतुः पपुः’ ॥ १०६ ॥

विश्वास-प्रस्तुतिः - १०७

स त्यजन् साहसी तच्च तपस्तेपेऽतितापसम् ।
बिल्वपर्णैः क्षितौ पन्नैस्तृप्तिमान् सलिलैरपि ॥ १०७ ॥

मूलम् - १०७

स त्यजन् साहसी तच्च तपस्तेपेऽतितापसम् ।
बिल्वपर्णैः क्षितौ पन्नैस्तृप्तिमान् सलिलैरपि ॥ १०७ ॥

पदार्थदीपिकोद्बोधिका

स इति ॥ साहसम् अस्यास्तीति साहसी तच्च पञ्चगव्यञ्च त्यजन् स विष्णुतीर्थस् तापसान् अतिक्रम्य वर्तमानम् अतितापसं तपः, क्षितौ पन्नैः पतितैर् बिल्वपर्णैः सलिलैर् अपि तृप्तिमान् सन् तेपे ॥ १०७ ॥

मन्दोपाकारिणी

स इति ॥ साहसी साहसम् अस्यास्तीति साहसी अतिकृच्छ्रसहनशक्तः । यद्वा साहसं दमः शरीरेन्द्रियादिनिग्रहो ऽस्यास्तीति साहसी । ‘साहसं तु दमो दण्डः’ इत्यमरः । सः विष्णुतीर्थार्यस् तच्च पञ्चगव्यमपि त्यजन् सन् अतितापसं तापसान् तीव्रतपस्विनः पुरुषान् अति अतिक्रम्य वर्तमानं द्रुततरतपस्यापेक्षया अतिशयितम् इत्यर्थः । तपस् तेपे कृतवान् । कथंभूतः क्षितौ भूमौ पन्नैः पतितैर् बिल्वपर्णैर् बिल्वाख्यवृक्षस्य पत्रैः सलिलैरपि तृप्तिमान् तृप्तिर् अलम्बुद्धिर् अस्यास्तीति तृप्तिमान् । ‘तप सन्तापे इत्यतो लिट् आत्मनेपदं तेपे तेपाते तेपिरे’ ॥ १०७ ॥

विश्वास-प्रस्तुतिः - १०८

यथेष्टमध्यास्त शिलां यमी सुनियमी स ताम् ।
नाध्यासते यामेकाहं दैवभग्नास्तपस्विनः ॥ १०८ ॥

मूलम् - १०८

यथेष्टमध्यास्त शिलां यमी सुनियमी स ताम् ।
नाध्यासते यामेकाहं दैवभग्नास्तपस्विनः ॥ १०८ ॥

भावप्रकाशिका

शिलामध्यास्त ‘अधिशीङ्स्थासां कर्मे’ति ॥ १०८ ॥

पदार्थदीपिकोद्बोधिका

यथेष्टमिति ॥ यमो मनःसंयमोऽस्यास्तीति यमी सुनियमः शोभनव्रतनियमोऽस्यास्तीति सुनियमी दैवभग्ना ईश्वरप्रतिहतास् तदनुग्रहरहिता इत्यर्थः । तपस्विनो यां शिलां, एकं च तदहश्च एकाहम् । ‘राजाहःसखिभ्य’ इति टच् । नाध्यासते ‘अधिशीङ्स्थासां कर्म’ इति कर्मत्वम् । तां शिलां यथेष्टं बहुकालपर्यन्तमित्यर्थः । अध्यास्त । दैवानुग्रहरहितास् तपस्विनो यस्यां शिलायाम् एकाहमपि स्थातुम् असमर्थास् तस्यां शिलायाम् अयं बहुकालं वसन् तपश्चकारेति भावः ॥ १०८ ॥

मन्दोपाकारिणी

यथेष्टमिति ॥ यमी मनोनिग्रहवान् सुनियमी सु शोभनः नियमः यतिविहितनित्यकर्म अस्यास्तीति सुनियमी सः विष्णुतीर्थस् तां शिलां यथेष्टं स्वेच्छानुसारेण बहुकालम् इत्यर्थः । अध्यास्त उपविवेश । तां कां दैवभग्ना दैवेन अदृष्टप्रेरकेश्वरेण भग्नाः प्रतिहता ईश्वरानुग्रहरहिता इति भावः । तपस्विनः यां शिलाम् एकं च तद् अहश्च एकाहं ‘राजाहःसखिभ्यष्टच्’ एकदिनमपि नाध्यासते नोपविशन्ति । उपवेष्टुं न समर्था इति यावत् । ताम् इत्यर्थः । ‘अधिशीङ्स्थासां कर्म’ इति सूत्रात् शिलाम् इति द्वितीया । शिलायाम् इत्यर्थः । ईश्वरानुग्रहरहितास् तपस्विनः यस्यां शिलायाम् एकाहमपि उपवेष्टुं न शक्ता अतिशीतलत्वात् तस्यां शिलायाम् अयं विष्णुतीर्थः बहुकालमुपविश्य तपश्चकार इति भावः ॥ १०८ ॥

विश्वास-प्रस्तुतिः - १०९

पवनांशानुजो जित्वा पवनं रेचकादिभिः ।
विषयेभ्यो हृषीकाश्वान् मनोयन्त्रा समाहरत् ॥ १०९ ॥

मूलम् - १०९

पवनांशानुजो जित्वा पवनं रेचकादिभिः ।
विषयेभ्यो हृषीकाश्वान् मनोयन्त्रा समाहरत् ॥ १०९ ॥

पदार्थदीपिकोद्बोधिका

पवनेति ॥ पवनांशानुजो मध्वानुजः रेचकम् आदिर् येषां तानि तथा तैः । रेचकपूरककुम्भकैरित्यर्थः । पवनं शारीरं वायुं जित्वा, हृषीकाण्येवाश्वास् तान् । इन्द्रियरूपाश्वानित्यर्थः । विषयेभ्यः शब्दादिभ्यः मनोयन्त्रा मनोनामकसारथिना समाहरत् ॥ १०९ ॥

मन्दोपाकारिणी

पवनेति ॥ पवनांशानुजः पवनस्य मुख्यवायोर् अंशस्य श्रीमध्वाचार्यस्य अनुजः श्रीविष्णुतीर्थार्यः रेचकादिभिः रेचक आदिर् येषां ते रेचकादयस् तैः । तद्गुणसंविज्ञानो बहुव्रीहिः । रेचकपूरककुम्भकाख्यैस् त्रिभिः प्राणायामैः पवनं श्वासवायुं जित्वा वशीकृत्य वायुप्रसादं सम्पाद्येति यावत् । हृषीकाश्वान् हृषीकानि इन्द्रियाण्येव अश्वान् हयान् । ‘हृषीकं विषयीन्द्रियं’ इत्यमरः । विषयेभ्यः शब्दादिविषयेभ्यः । ‘रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी’ इत्यमरः । मनोयन्त्रा मन एव बुद्धिरेव यन्ता सारथिस् तेन समाहरन् निवर्तयामास । यथा विदेशान् प्रति गच्छतोऽश्वान् सारथिना तेभ्यः परावर्तयति कश्चित् तद्वद् अयं श्रीविष्णुतीर्थार्यः रूपादिविषयान् प्रति गच्छन्तीन्द्रियाणि बुद्ध्या तेभ्यः परावर्तयत् । इन्द्रियाणि वशीचकार इति भावः । ‘सम् आङ् पूर्वात् हृञ् हरणे इति धातोर् लङ् परस्मैपदम्’ ॥ १०९ ॥

विश्वास-प्रस्तुतिः - ११०

स्मरन् मुरारेराकारं दध्यावध्यात्मकोविदः ।
समाधिमाधिशमनं योगलभ्यं स लब्धवान् ॥ ११० ॥

मूलम् - ११०

स्मरन् मुरारेराकारं दध्यावध्यात्मकोविदः ।
समाधिमाधिशमनं योगलभ्यं स लब्धवान् ॥ ११० ॥

पदार्थदीपिकोद्बोधिका

स्मरन्निति ॥ अधिकश्चासौ आत्मा च अध्यात्मा श्रीहरिस् तद्विचारे कोविदोऽध्यात्मकोविदः, मुरारेः श्रीकृष्णस्य आकारं स्मरन्, गुरूक्तमार्गेण स्मरन् सन् दध्यौ । एवं कुर्वन् सन्, योगो मनोयोग एषामस्तीति योगिनस् तैर् लभ्यं प्राप्यं, आधेर्मनःक्लेशस्य शमनं शान्तिर् यस्मात् तम् आधिशमनं समाधिं निरन्तरं भगवति मनोयोगम् । तथा च उक्तं ‘परे हि योगो मनसः समाधि’रिति । लब्धवान् ॥ ११० ॥

मन्दोपाकारिणी

स्मरन्निति ॥ अध्यात्मकोविद आत्मानं परमात्मानम् अधिकृत्य प्रवर्तमानं शास्त्रम् अध्यात्मं वेदान्तादि, तस्मिन् कोविदः विशारदः सः विष्णुतीर्थार्यः मुरारेः श्रीविष्णोर् आकारं रूपं स्मरन् गुरूक्तमार्गेण अनुसन्दधद् दध्यौ ध्यातवान् । एवं कुर्वन् सः विष्णुतीर्थार्यः । योगलभ्यं योगेन भगवति मनोयोगेन लभ्यं प्राप्तुं योग्यम् । आधिशमनम् आधेर् मानस्या व्यथायाः शमनं नाशकम् । ‘पुंस्याधिर्मानसी व्यथा’ इत्यमरः । समाधिम् अनायासेन निरन्तरं भगवति मनोयोगरूपं लब्धवान् । यथोक्तं ‘परे हि योगो मनसः समाधिः’ इति । ‘ध्यै चिन्तायाम् इति धातोर् लिट् दध्यौ दध्यतुर् दध्युः’ ॥ ११० ॥

विश्वास-प्रस्तुतिः - १११

मौकुन्दे सुन्दरे रूपे स्वानन्दादिगुणार्णवे ।
स्वाश्चर्यरत्ने मग्नात्मा नान्यत् किञ्चिद्विवेद सः ॥ १११ ॥

मूलम् - १११

मौकुन्दे सुन्दरे रूपे स्वानन्दादिगुणार्णवे ।
स्वाश्चर्यरत्ने मग्नात्मा नान्यत् किञ्चिद्विवेद सः ॥ १११ ॥

पदार्थदीपिकोद्बोधिका

मौकुन्द इति ॥ सुन्दरे स्वानन्दादिगुणार्णवे शोभना-नन्दादिगुणसिन्धौ स्वाश्चर्येषु शोभनाश्चर्येषु रत्नम् उत्तमं तस्मिन् स्वाश्चर्यरत्ने मौकुन्दे मुकुन्दसम्बन्धिनि रूपे मग्नात्मा मग्नचित्तः स अन्यद् ध्यानविषयभगवद्रूपादन्यत् किञ्चिद्वस्तु न विवेद असंप्रज्ञातसमाधिस्थोऽभूदित्यर्थः ॥ १११ ॥

मन्दोपाकारिणी

मौकुन्द इति ॥ सः विष्णुतीर्थार्यः स्वानन्दादिगुणार्णवे आनन्द आदिर् येषां ते आनन्दादयस् ते च ते गुणाश्च । सु शोभना निर्दोषाश्च ते आनन्दादि गुणाश्च तैर् अर्णवः समुद्रस् तस्मिन् । स्वाश्चर्यरत्ने शोभनेषु आश्चर्येषु रत्ने श्रेष्ठे । ‘रत्नं श्रेष्ठे मणौ’ इति विश्वः । सुन्दरे मौकुन्दे मुकुन्दस्य इदं मौकुन्दं तस्मिन् मुकुन्दसम्बन्धिनि रूपे मग्नात्मा मग्नः निमग्न आत्मा मनो यस्य स तथोक्तः । अन्यद् ध्यानविषयाद् भगवद्रूपाद् अन्यत् किञ्चिद् वस्तु न विवेद न ज्ञातवान् । असम्प्रज्ञातसमाधिमान् अभूद् इति भावः । ‘विद ज्ञाने इत्यतो लिट् परस्मैपदं विवेद विविदतुर् विविदुः’ ॥ १११ ॥

विश्वास-प्रस्तुतिः - ११२

कामत्रासविहीनस्य तस्य सुज्ञानचक्षुषः ।
विना कैवल्यसाम्राज्यं नार्घो योगमणेरभूत् ॥ ११२ ॥

मूलम् - ११२

कामत्रासविहीनस्य तस्य सुज्ञानचक्षुषः ।
विना कैवल्यसाम्राज्यं नार्घो योगमणेरभूत् ॥ ११२ ॥

पदार्थदीपिकोद्बोधिका

कामेति ॥ तस्य श्रीविष्णुतीर्थस्य कामः फलकामना स एव त्रासो मणिदोषस् तेन विहीनस् तस्य । मणिर् यथा दोषहीनः स्यादेवमस्य फलाख्यदोषरहित इत्यर्थः । सुज्ञानमेव शोभनापरोक्षज्ञानमेव चक्षुर्यस्य तस्य । मणिप्रकाशश्चक्षुरित्युच्यते । मणिर् यथा शोभनप्रकाशवान् स्यात्तथा तद्योगोऽपि सम्यक् अपरोक्षवानित्यर्थः । योग एव मणिर्योगमणिस् तस्य । कैवल्यमेव मोक्ष एव साम्राज्यं तद्विना अस्य अर्घो मौल्यं न अभूत् । यथा कस्यचिद्रत्नविशेषस्य साम्राज्यं विना मौल्यं न स्यात् तथा तद्योगस्यापि कैवल्यं विना यत्फलं तन्नाभूदिति भावः ॥ ११२ ॥

मन्दोपाकारिणी

कामेति ॥ तस्य श्रीविष्णुतीर्थस्य योगमणेर् योग एव असम्प्रज्ञात-समाधिरूपध्यानमेव मणिः रत्नं तस्य । ‘योगः संनहनोपायध्यानसङ्गतियुक्तिषु’ इत्यमरः । कैवल्यसाम्राज्यं विना विहाय । ‘मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतं’ इत्यमरः । अन्यद् वस्तु अर्घो मौल्यं नाभूत् । यथा कस्यचिद् रत्नविशेषस्य साम्राज्यं विना अन्यन् मूल्यं न स्याद् एवं विष्णुतीर्थकृतध्यानयोगस्यापि मुक्तिं विना अन्यत् फलं नाभूद् इति भावः । ‘मूल्ये पूजाविधावर्घः’ इत्यमरः । कथंभूतस्य योगमणेः, कामत्रासविहीनस्य काम एव फले काम एव त्रासस् तेन विहीनस्य रहितस्य । त्रासो नाम मणिदोषः । मणिर् यथा तद्दोष-रहितः स्याद् एवम् अस्य योगोऽपि कामाख्यदोषरहित इत्यर्थः । सुज्ञानचक्षुषः शोभनज्ञानम् अपरोक्षज्ञानं तदेव चक्षुर् यस्य स सुज्ञानचक्षुस् तस्य । मणेः प्रकाशश्चक्षुरित्युच्यते । मणिर् यथा शोभनप्रकाशवान् स्याद् एवम् एतद्योगोऽपि सम्यक् अपरोक्षज्ञानवान् इत्यर्थः ॥११२॥

विश्वास-प्रस्तुतिः - ११३

मध्वानुजे मध्वनाथो यं प्रसादं व्यधात् तदा ।
स चित्ताविषयत्वाद्वा गोप्यत्वाद्वा न वर्ण्यते ॥ ११३ ॥

मूलम् - ११३

मध्वानुजे मध्वनाथो यं प्रसादं व्यधात् तदा ।
स चित्ताविषयत्वाद्वा गोप्यत्वाद्वा न वर्ण्यते ॥ ११३ ॥

पदार्थदीपिकोद्बोधिका

मध्वानुज इति ॥ मध्वनाथः श्रीहरिस् तदा मध्वानुजे यं प्रसादम् अनुग्रहं व्यधात् स अनुग्रहश् चित्ताविषयत्वाद् वा गोप्यत्वाद् वा न वर्ण्यते ॥११३॥

मन्दोपाकारिणी

मध्वानुज इति ॥ तदा मध्वनाथः मध्वस्य स्वामी श्रीहरिर् मध्वानुजे विष्णुतीर्थे यं प्रसादं व्यधाच् चक्रे । सो ऽनुग्रहश् चित्ताविषयत्वाच् चित्तस्य मनसो ऽविषयत्वाद् अगोचरत्वाद्वा गोप्यत्वाद्वा अतिगुह्यत्वाद्वा न वर्ण्यते विस्तरेण नोच्यते । साकल्येन विषयीकर्तुम् अशक्यत्वाद् इतरेषां तज्ज्ञाने अधिकाराभावाच्च इति भावः । वर्ण क्रियाविस्तारगुणवचनेषु इति धातोः कर्मणि लट् आत्मनेपदम्’ ॥ ११३ ॥

विश्वास-प्रस्तुतिः - ११४

अहो महाबोधसेवामहिमाऽस्मिन् युगे यतः ।
धन्योऽसौ सिद्धिमापेमां सोऽमरैरित्यलाल्यत ॥ ११४ ॥

मूलम् - ११४

अहो महाबोधसेवामहिमाऽस्मिन् युगे यतः ।
धन्योऽसौ सिद्धिमापेमां सोऽमरैरित्यलाल्यत ॥ ११४ ॥

पदार्थदीपिकोद्बोधिका

अहो इति ॥ यतः धन्योऽसौ विष्णुतीर्थो ऽस्मिन् युगे कलियुगे इमां सिद्धिं तपःसिद्धिम् आपे तस्मान् महाबोधसेवामहिमा श्रीमध्वाचार्यशुश्रूषामहिमा अहो आश्चर्यम् इति स महिमा अमरैर् देवैर् अलाल्यत आदृतोऽभूत् ॥ ११४ ॥

मन्दोपाकारिणी

अहो इति ॥ महाबोधसेवामहिमा महान् पूर्णः बोधः ज्ञानं यस्य सः महाबोधस् तस्य पूर्णप्रज्ञाचार्यस्य सेवायाः शुश्रूषाया महिमा माहात्म्यम् अहो आश्चर्यम् । कुतः । यतः धन्यो ऽसौ विष्णुतीर्थार्यो ऽस्मिन् युगे कलियुगे इमाम् एवंभूतां सिद्धिम् आप लब्धवान् अत इत्यर्थः । इति सः मध्वसेवामहिमा अमरैर् अलाल्यत आदृतोऽभूत् । ‘लल ईप्सायाम् इति धातोः कर्मणि लङ् आत्मनेपदम्’ ॥ ११४ ॥

विश्वास-प्रस्तुतिः - ११५

तीव्रव्रतोऽतीन्द्रियविद्विद्याब्धिस्तर्कपण्डितः ।
अनिरुद्धपदाधारः प्रेष्ठः शिष्यस्तमाययौ ॥ ११५ ॥

मूलम् - ११५

तीव्रव्रतोऽतीन्द्रियविद्विद्याब्धिस्तर्कपण्डितः ।
अनिरुद्धपदाधारः प्रेष्ठः शिष्यस्तमाययौ ॥ ११५ ॥

पदार्थदीपिकोद्बोधिका

तीव्रेति ॥ तीव्रं व्रतं यस्य स तथोक्तः । अन्यदुष्करव्रत-विशेषयुक्त इत्यर्थः । इन्द्रियमतीतम् अतीन्द्रियं तद्वेत्ति इति अतीन्द्रियवित् । तपो-महिम्नाऽतीतानागतज्ञानीत्यर्थः । विद्याभिरब्धिरिव विद्याब्धिस् तर्कपण्डितस् तर्कशास्त्रकुशलो ऽनिरुद्ध इति पदं नाम तस्याधारो ऽनिरुद्धतीर्थाचार्य इत्यर्थः । प्रेष्टोऽतिप्रियः शिष्यस् तं विष्णुतीर्थाचार्यं स्वगुरुम् आययौ, हरिश्चन्द्रगिरौ ददर्शेत्यर्थः ॥ ११५ ॥

मन्दोपाकारिणी

तीव्रेति ॥ तीव्रं दुष्करं व्रतं व्रतविशेषः यस्य स तथोक्तः । अतीन्द्रियविद् अतीन्द्रियं वेत्ति जानातीति अतीन्द्रियविद् अतीतानागतज्ञानी । विद्याब्धिर् विद्यासमुद्रस् तर्कपण्डितस् तर्के तर्कशास्त्रे पण्डितश् चतुरो ऽनिरुद्धपदाधारो ऽनिरुद्धपदस्य नाम्न आधारः वाच्यो ऽनिरुद्धतीर्थाख्यः प्रेष्ठो ऽतिप्रियः शिष्यः विष्णुतीर्थशिष्यस् तं हरिश्चन्द्रगतं स्वगुरुं श्रीविष्णुतीर्थार्यम् आययौ प्राप्तवान् ॥ ११५ ॥

विश्वास-प्रस्तुतिः - ११६

तेन सम्प्रार्थितं प्राप्तं रूप्यपीठमिमं पुनः ।
कृत्स्नज्ञं कृपया स्वेषु सम्प्राप्तं मेनिरे प्रजाः ॥ ११६ ॥

मूलम् - ११६

तेन सम्प्रार्थितं प्राप्तं रूप्यपीठमिमं पुनः ।
कृत्स्नज्ञं कृपया स्वेषु सम्प्राप्तं मेनिरे प्रजाः ॥ ११६ ॥

पदार्थदीपिकोद्बोधिका

तेनेति ॥ अनिरुद्धतीर्थाचार्येण सम्प्रार्थितम् । रूप्यपीठ-गमनायेति शेषः । अत एव रूप्यपीठं यातम् इमं विष्णुतीर्थार्यं दृष्ट्वा प्रजाः शिष्यजना स्वेषु कृपया पुनः सम्प्राप्तं कृत्स्नज्ञं श्रीपूर्णप्रज्ञाचार्यं मेनिरे । श्रीमध्वतदनुजयोः सादृश्यात्प्रजाः श्रीमध्वानुजं दृष्ट्वा स्वेषु कृपया श्रीमध्वम् एव पुनः सम्प्राप्तं मेनिर इत्यर्थः ॥ ११६ ॥

मन्दोपाकारिणी

तेनेति ॥ तेन अनिरुद्धतीर्थेन सम्प्रार्थितं रूप्यपीठं प्रत्यागन्तव्यम् इति प्रार्थितम् । अत एव रूप्यपीठम् आगतम् इमं श्रीविष्णुतीर्थार्यं दृष्ट्वा प्रजाः शिष्यजनाः स्वेषु कृपया पुनः संप्राप्तं कृत्स्नज्ञं कृत्स्नं सर्वं जानातीति कृत्स्नज्ञस् तं पूर्णप्रज्ञाचार्यं मेनिरे अमन्यन्त । श्रीमध्वाचार्यसादृश्यात् प्रजाः श्रीमध्वाचार्यानुजं श्रीविष्णुतीर्थार्यं दृष्ट्वा स्वेषु कृपया श्रीमध्वमेव पुनः संप्राप्तं मेनिरे इति भावः । ‘मनु अवबोधने इति धातोर् लिट् आत्मनेपदं मेने मेनाते मेनिरे’ ॥ ११६ ॥

विश्वास-प्रस्तुतिः - ११७

कवीन्द्रतिलको विद्वच्छेखरस्तापसाग्रणीः ।
मध्वकेलीशुकोऽस्याभूच्छिष्यो व्यासपदाश्रयः ॥ ११७ ॥

मूलम् - ११७

कवीन्द्रतिलको विद्वच्छेखरस्तापसाग्रणीः ।
मध्वकेलीशुकोऽस्याभूच्छिष्यो व्यासपदाश्रयः ॥ ११७ ॥

पदार्थदीपिकोद्बोधिका

कवीन्द्रेति ॥ अस्य श्रीविष्णुतीर्थस्य कवीन्द्रतिलकः कविश्रेष्ठानां तिलक इव तिलकः विद्वच्छेखरो विद्वच्छेष्ठस् तापसेषु अग्रणीः, मध्वकेलीशुकः श्रीमध्वस्य क्रीडायाः शुकः व्यासपदाश्रयः व्यासस्य पदं नाम बादरायणनामेत्यर्थः । तस्याश्रयो व्यासपदाश्रयः बादरायणतीर्थ इत्यर्थः । एवंभूतः शिष्योऽभूत् ॥ ११७ ॥

मन्दोपाकारिणी

कवीन्द्रेति ॥ कवीन्द्रतिलकः कवीन्द्राणां कवीश्वराणां पद्मादि-प्रबन्धकर्तॄणाम् इत्यर्थः । तिलकस् तिलकस्थानीयः श्रेष्ठ इत्यर्थः । विद्वच्छेखरः विदुषां पण्डितानां शेखरः श्रेष्ठस् तापसाग्रणीस् तापसानां तपस्विनाम् अग्रणीर् अग्रगण्यः मध्वकेलीशुकः मध्वाचार्यस्य केल्याः क्रीडायाः शुकः शुकपक्षिस्थानीयः व्यासपदाश्रयः व्यासस्य वेदव्यासस्य पदं वाचकं बादरायणपदं तस्य आश्रयः वाच्यः बादरायणतीर्थाख्यो ऽस्य विष्णुतीर्थार्यस्य शिष्यो ऽभूत् । कविताचतुरः सकलशास्त्रप्रवीणस् तपस्वी मध्वस्य क्रीडाशुकस्थानीयः बादरायणाख्यः विष्णुतीर्थस्य अन्यः शिष्यो ऽभवद् इत्यर्थः ॥११७॥

विश्वास-प्रस्तुतिः - ११८

असौ दास्यं ध्रुवं यान्तं महान्तं महतामपि ।
व्यधादनुग्रहं कुर्वन् सामर्थ्यैः कौतुकं नृणाम् ॥ ११८ ॥

मूलम् - ११८

असौ दास्यं ध्रुवं यान्तं महान्तं महतामपि ।
व्यधादनुग्रहं कुर्वन् सामर्थ्यैः कौतुकं नृणाम् ॥ ११८ ॥

पदार्थदीपिकोद्बोधिका

असाविति ॥ सामर्थ्यैर् नृणां कौतुकम् आश्चर्यं कुर्वन् असौ श्रीविष्णुतीर्थाचार्यः ध्रुवं निश्चयं यथा भवति तथा दास्यं यातं बादारायणतीर्थाख्यम् अनुग्रहं कुर्वन् सन् इत्यर्थः । महतामपि ज्ञानिनामपि महान्तं ज्ञानादिगुणैर् महान्तं व्यधाच् चकार ॥

मन्दोपाकारिणी

असाविति ॥ असौ विष्णुतीर्थः ध्रुवं निश्चयो यथा स्यात् तथा दास्यं स्वस्य शिष्यत्वं यान्तं प्राप्तवन्तं बादरायणतीर्थं महतां श्रेष्ठानामपि महान्तम् उत्तमं व्यधाच् चक्रे । किं कुर्वन् अनुग्रहं कुर्वन् । तस्मिन् महत्वसम्पादकं प्रसादं कुर्वन् इत्यर्थः । स्वयं कथंभूतः सामर्थ्यैः स्वसामर्थ्यैर् नृणां कौतुकम् आश्चर्यं कुर्वन् । ‘विपूर्वक डु धाञ् धारणपोषणयोर् लुङ् परस्मैपदम् अधाद् अधाताम् अधुः’ ॥ ११८ ॥

विश्वास-प्रस्तुतिः - ११९

आरुरोह दुरारोहं स परैः प्रीतिकृद्धरेः ।
महान्तं महिमानं च महीध्रं च गुहप्रियम् ॥ ११९ ॥

मूलम् - ११९

आरुरोह दुरारोहं स परैः प्रीतिकृद्धरेः ।
महान्तं महिमानं च महीध्रं च गुहप्रियम् ॥ ११९ ॥

पदार्थदीपिकोद्बोधिका

आरुरोहेति ॥ हरेः प्रीतिकृद् यः श्रीविष्णुतीर्थाचार्यः परैर् अन्यैर् दुरारोहम् अप्राप्यं महान्तं महिमानम् आरुरोह प्राप इत्यर्थः । गुहप्रियं षण्मुखप्रियं महीध्रं च आरुरोह । नरागम्यं कुमारपर्वताख्यसह्यशिखरम् आरुरोह इत्यर्थः ॥ ११९ ॥

मन्दोपाकारिणी

आरुरोहेति ॥ हरेः प्रीतिकृत् प्रीतिं सन्तोषं करोतीति प्रीतिकृत् । विष्णुप्रियकर इति यावत् । सः विष्णुतीर्थः परैर् अन्यैर् दुरारोहम् आरोढुं प्राप्तुम् अशक्यं महान्तं बहुलं महिमानं महत्त्वम् आरुरोह प्राप इत्यर्थः । तथा गुहप्रियं गुहस्य सुब्रह्मण्यनामकस्य प्रियं, परैर् दुरारोहम् आरोढुम् अशक्यं महीध्रं कुमारपर्वतं सह्याद्रिशिखरम् आरुरोह इत्यर्थः । विष्णुतीर्थ एवम् अन्याप्राप्यमहिमानं सम्पाद्य श्रीविष्णुप्रीतिजनकं तपः कर्तुं नरागम्यं कुमारनामकपर्वतं सह्याख्याद्रिशिखरम् आरुरोह इति भावः । ‘महीध्रे शिखरिक्ष्माभृदहार्यधरपर्वताः’ इत्यमरः ॥ ११९ ॥

विश्वास-प्रस्तुतिः - १२०

आकृष्टोऽस्य गुणैर्व्याप्तैर्यो गोदाया उपाययौ ।
स पद्मनाभतीर्थाख्यः शिष्योऽन्योऽभूत् सुचेतसः ॥ १२० ॥

मूलम् - १२०

आकृष्टोऽस्य गुणैर्व्याप्तैर्यो गोदाया उपाययौ ।
स पद्मनाभतीर्थाख्यः शिष्योऽन्योऽभूत् सुचेतसः ॥ १२० ॥

पदार्थदीपिकोद्बोधिका

आकृष्ट इति ॥ व्याप्तैर् अस्य श्रीमध्वस्य गुणैर् आकृष्टो यो गोदाया गोदावरीतीराद् उपाययौ । स सुचेतसः श्रीपूर्णप्रज्ञाचार्यस्य अन्यः शिष्यः पद्मनाभतीर्थाख्योऽभूत् ॥ १२० ॥

मन्दोपाकारिणी

इदानीं पद्मनाभतीर्थमहिमानं वक्ति ॥ आकृष्ट इत्यष्टभिः श्लोकैः ॥ व्याप्तैर् भूमौ सर्वत्र प्रसारितैर् अस्य श्रीमध्वाचार्यस्य गुणैः पाण्डित्यतत्वज्ञानहरिभक्त्यादि-गुणैर् आकृष्टः वशीकृतः यः पण्डिताग्रणीर् द्विजः गोदाया गोदावर्याः सकाशाद् उपाययौ । पूर्वम् इति शेषः । सः सुचेतसः शोभनचित्तस्य मध्वाचार्यस्य पद्मनाभतीर्थाख्यो ऽन्यः विष्णुतीर्थादपरः शिष्यो ऽभूद् अजायत इत्यर्थः । शोभनोपपदभट्टनामक इति नवमसर्गे बदरिकाश्रमाद् आगमनकाले य आगतः स एव शोभनभट्टो ऽयं पद्मनाभतीर्थ इति सम्प्रदायः ॥ १२० ॥

विश्वास-प्रस्तुतिः - १२१

श्रुत्या मत्या सदा भक्त्या विरक्त्या नित्यसेवया ।
अस्मै प्रसन्नः प्राज्येक्षः सद्यो विद्यां ददौ शुभाम् ॥ १२१ ॥

मूलम् - १२१

श्रुत्या मत्या सदा भक्त्या विरक्त्या नित्यसेवया ।
अस्मै प्रसन्नः प्राज्येक्षः सद्यो विद्यां ददौ शुभाम् ॥ १२१ ॥

पदार्थदीपिकोद्बोधिका

श्रुत्येति ॥ श्रुत्या वेदान्तशास्त्रश्रवणेन मत्या मननेन सदा- भक्तया सनातनभक्तया विरक्तया नित्यसेवया प्रसन्नः, प्राज्या भूयसी ईक्षा ज्ञानं यस्य स प्राज्येक्षः श्रीपूर्णप्रज्ञाचार्यस् तस्मै पद्मनाभतीर्थार्याय सद्यः द्राक् ‘सद्यो द्राङ्मंक्षु च द्रुतं’ इत्यमरः । शुभां विद्यां परमात्मतत्त्वविद्यां ददौ ॥ १२१ ॥

मन्दोपाकारिणी

श्रुत्येति ॥ श्रुत्या वेदान्तशास्त्रश्रवणेन मत्या श्रुतस्य मननेन चिन्तनेन सदा सदातनया भक्त्या विरक्त्या वैराग्येन नित्यसेवया नित्यं तत्सेवया च प्रसन्नः प्रीतः प्राज्येक्षः प्राज्या पूर्णा ईक्षा प्रज्ञा यस्य सः प्राज्येक्षः श्रीमध्वाचार्यः । ‘प्रभूतं प्राज्यं प्रचुरं’ इत्यमरः । अस्मै पद्मनाभतीर्थाय सद्यः द्रुतं शुभां विद्याम् अध्यात्मविद्यां ददौ उपदिदेश ॥ १२१ ॥

विश्वास-प्रस्तुतिः - १२२

वेदान्ताब्धिं न यो जातु जहौ विद्वत्तिमिङ्गिलः ।
युक्तिप्रवाहसंरम्भात् परशास्त्रनदीचरः ॥ १२२ ॥

मूलम् - १२२

वेदान्ताब्धिं न यो जातु जहौ विद्वत्तिमिङ्गिलः ।
युक्तिप्रवाहसंरम्भात् परशास्त्रनदीचरः ॥ १२२ ॥

पदार्थदीपिकोद्बोधिका

वेदान्तेति ॥ युक्तिप्रवाहा वैशेषिकादीनां युक्तिसमूहास् तेषु संरम्भात् कोपात् , परशास्त्राण्येव वैशेषिकादिपरशास्त्राण्येव नद्यस् तासु चरतीति तथोक्तः । तन्न्यायेन तद्युक्तिनिराकरणार्थं वैशेषिकादिपरशास्त्राख्यनदीषु प्रवर्तमान इत्यर्थः । यो विद्वत्तिमिङ्गिलो जातु कदाचिदपि वेदान्ताब्धिं वेदान्तशास्त्राख्यसमुद्रं न जहौ । तिमिङ्गिलो नाम मत्स्यविशेषः । ‘तिमिर्नाममहामत्स्यस्तद्गिलस्तु तिमिङ्गिलः । तिमिङ्गिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति राघव’ इत्युक्तेः । स यथा जात्वपि समुद्रं न जहाति एवम् असौ वेदान्तशास्त्रं न जात्वपि जहौ इत्यर्थः ॥ १२२ ॥

मन्दोपाकारिणी

वेदान्तेति ॥ यो विद्वत्तिमिङ्गिलः विद्वान् पण्डितः पद्मनाभतीर्थ एव तिमिङ्गिलः, तिमिङ्गिलो नाम महामत्स्यविशेषः । ‘तिमिङ्गिलादयश्चाथ यादांसि जलजन्तवः’ इत्यमरः । जातु कदाचिदपि वेदान्ताब्धिं वेदान्तशास्त्राख्यसमुद्रं न जहौ न त्यक्तवान् ‘ओहाक् त्यागे इति धातोर् लिट् परस्मैपदं जहौ जहतुर् जहुः’ । यथा तिमिङ्गिलो नाम मत्स्यविशेषः कदाचिदपि समुद्रं न जहाति एवम् असौ पद्मनाभतीर्थः वेदान्तशास्त्रं न जहौ इत्यर्थः । कथंभूतः युक्तिप्रवाहसंरम्भात् तद्युक्तिनिराकरणार्थम् इति यावत् । परशास्त्रनदीचरः परेषां वैशेषिकादीनां शास्त्राण्येव नद्यस् तासु चरः प्रवर्तमानः । अन्यशास्त्रोक्तयुक्तिनिराकरणार्थम् अन्यशास्त्रविचारकः स्वशास्त्रे तु सर्वदा श्रद्धया निरत इति भावः ॥ १२२ ॥

विश्वास-प्रस्तुतिः - १२३

व्याख्याप्रणादमात्रेण वीरम्मन्यान् स्वमण्डले ।
मायाविग्रामसिंहान्यो वादिसिंहो निराकरोत् ॥ १२३ ॥

मूलम् - १२३

व्याख्याप्रणादमात्रेण वीरम्मन्यान् स्वमण्डले ।
मायाविग्रामसिंहान्यो वादिसिंहो निराकरोत् ॥ १२३ ॥

पदार्थदीपिकोद्बोधिका

व्याख्येति ॥ यो वादिसिंहः स्वमण्डले स्वयूथे वीरं मन्यमाना वीरंमन्यास् तान् । वयमेव वीरा इति मन्यमानानित्यर्थः । माया एषाम् अस्तीति मायाविनस् त एव ग्रामसिंहास् तान् । मायावादिसारमेयानित्यर्थः । व्याख्याप्रणादमात्रेण व्याख्यारूपध्वनिमात्रेण निराकरोत् । व्याख्याप्रणादश्रवणमात्रेण मायिनो बिभ्यति स्मेति भावः ॥ १२३ ॥

मन्दोपाकारिणी

व्याख्येति ॥ यः वादिसिंहः वादी पद्मनाभतीर्थाख्यः सिंहः मृगेन्द्रः स्वमण्डले स्वेषां स्वजातीनां मण्डले यूथे वीरम्मन्यान् वयमेव वीरा इति मन्यमानान् मायाविग्रामसिंहान् मायाविनः मायावादिन एव ग्रामसिंहाः सारमेयास् तान् व्याख्याप्रणादमात्रेण व्याख्यानरूपध्वनिमात्रेण निराकरोत् । व्याख्यानध्वनिश्रवणमात्रेणैव मायिनो भयं प्रापुर् इति भावः ॥ १२३ ॥

विश्वास-प्रस्तुतिः - १२४

मत्तदुर्वादिमातङ्गतर्कमस्तकदारणे ।
पञ्चास्यो योऽभवद्य्वक्तं चतुरास्योऽपि केवलम् ॥ १२४ ॥

मूलम् - १२४

मत्तदुर्वादिमातङ्गतर्कमस्तकदारणे ।
पञ्चास्यो योऽभवद्य्वक्तं चतुरास्योऽपि केवलम् ॥ १२४ ॥

भावप्रकाशिका

चतुरास्योऽपि चतुरवदनोऽपि ॥ १२४ ॥

पदार्थदीपिकोद्बोधिका

मत्तेति ॥ यः, चतुरम् आस्यं मुखं यस्य स चतुरास्यस् तथापि मत्ता विद्यागर्विता ये दुर्वादिनस् त एव मातङ्गास् तेषां यानि तर्कमस्तकानि कुयुक्तयाख्यकुम्भस्थलानि तेषां दारणे विदलने व्यक्तं स्पष्टं यथा भवति तथा पञ्चास्यः सिंहोऽभवत् । अत्र चतुरास्योऽपि पञ्चास्योऽभवदिति विरोधः । तस्य अभासाद् विरोधा-भासालङ्कारः ॥ १२४ ॥

मन्दोपाकारिणी

मत्तेति ॥ यः केवलं चतुरास्यश् चतुरम् आस्यं वदनं यस्य स चतुरास्योऽपि मत्तदुर्वादिमातङ्गतर्कमस्तकदारणे मत्ता विद्यया गर्ववन्तः दुर्वादिन एव मातङ्गा गजा मत्ताश्च ते दुर्वादिमातङ्गाश्च तेषां तर्का एव मस्तका मूर्धानः गण्डस्थलानीति यावत् । ‘मूर्धा ना मस्तकोऽस्त्रियां’ इत्यमरः । तेषां दारणे विदारणे व्यक्तं स्पष्टं पञ्चास्यः सिंहोऽभूत् । ‘सिंहो मृगेन्द्रः पञ्चास्यः’ इत्यमरः । चतुरास्योऽपि पञ्चास्य इति विरोधाभासालङ्कारः ॥ १२४ ॥

विश्वास-प्रस्तुतिः - १२५

सन्न्यायरत्नावलिरप्युदपादि यतः शुभा ।
टीका परानुव्याख्याया अनर्घा बोधसागरात् ॥ १२५ ॥

मूलम् - १२५

सन्न्यायरत्नावलिरप्युदपादि यतः शुभा ।
टीका परानुव्याख्याया अनर्घा बोधसागरात् ॥ १२५ ॥

पदार्थदीपिकोद्बोधिका

सन्न्यायेति ॥ बोधेन सागर इव बोधसागरस् तस्मात् । यतः श्रीपद्मनाभतीर्थार्यात् परा उत्तमा च साऽनुव्याख्या च तस्याष् टीका, न विद्यतेऽर्घं मौल्यं यस्याः सा अनर्घा सन्न्यायरत्नावलिरपि तन्नामकः ग्रन्थोऽपि उदपादि जज्ञे । समुद्रादनर्घरत्नावलिरिवेति श्लेषार्थः ॥ १२५ ॥

मन्दोपाकारिणी

सन्न्यायेति ॥ बोधसागराज् ज्ञानसमुद्राद् यतः यस्मात् श्रीपद्मनाभतीर्थात् परानुव्याख्यायाः पराया उत्तमाया अनुव्याख्याया मध्वकृतानु-व्याख्यानग्रन्थस्य टीका विवृतिः सन्न्यायरत्नावलिरपि सन्न्यायरत्नावल्याख्यग्रन्थोऽपि उदपादि जज्ञे । कथंभूता शुभा अनर्घा असदृशी समुद्राद् अनर्घरत्नावलिरिति श्लेषार्थः । ‘पद गतावित्यतो धातोः कर्तरि लुङ् आत्मनेपदम् अपादि अपादिषाताम् अपादिषत’ ॥ १२५ ॥

विश्वास-प्रस्तुतिः - १२६

वेदप्रवचनाचार्यशिष्योऽसाविति पूजितः ।
सभ्यः सभायां यो वेदं व्याचख्यौ वेदसारवित् ॥ १२६ ॥

मूलम् - १२६

वेदप्रवचनाचार्यशिष्योऽसाविति पूजितः ।
सभ्यः सभायां यो वेदं व्याचख्यौ वेदसारवित् ॥ १२६ ॥

पदार्थदीपिकोद्बोधिका

वेदेति ॥ सभ्यः सभाया उचित यः श्रीपद्मनाभतीर्थाख्यः वेदसारविद् वेदार्थतात्पर्यवित् सन् सभायां वेदं व्याचख्यौ । असौ वेदप्रवचने वेदव्याख्याने आचार्यः श्रीमध्वस् तस्य शिष्य इति पूजितः ॥ १२६ ॥

मन्दोपाकारिणी

वेदेति ॥ असौ वेदप्रवचनाचार्यशिष्यः वेदप्रवचनानां वेदव्याख्यातॄणाम् आचार्यः गुरुस् तस्य श्रीमध्वाचार्यस्य शिष्य इति जनैः पूजितः सभ्यः सभायोग्यः वेदसारविद् वेदानां सारं तात्पर्यार्थं वेत्ति जानातीति वेदसारविद् यः पद्मनाभतीर्थार्यः सभायां वेदं व्याचख्यौ व्याख्यातवान् । ‘ख्या प्रकथने इति धातोर् लिट् परस्मैपदं चख्यौ चख्यतुश् चख्युः’ ॥ १२६ ॥

विश्वास-प्रस्तुतिः - १२७

अनयोः प्रथमे शिष्याश्चरमे चाभवन्निह ।
अनन्तबोधस्यानेके यतीन्द्रा बहुदेशजाः ॥ १२७ ॥

मूलम् - १२७

अनयोः प्रथमे शिष्याश्चरमे चाभवन्निह ।
अनन्तबोधस्यानेके यतीन्द्रा बहुदेशजाः ॥ १२७ ॥

पदार्थदीपिकोद्बोधिका

अनयोरिति ॥ अनन्तबोधस्य श्रीपूर्णप्रज्ञस्य अनयोः सकाशात् श्रीविष्णुतीर्थपद्मनाभतीर्थयोः सकाशात् प्रथमे चरमे च पश्चात्तनाश्च अनेके बहवः बहुदेशजा नानादेशजा नानादेशसम्भवा यतीन्द्राः शिष्या अभवन् ॥ १२७ ॥

मन्दोपाकारिणी

अनयोरिति ॥ इह भुवि अनन्तबोधस्य श्रीपूर्णप्रज्ञाचार्यस्य अनयोः श्रीविष्णुतीर्थपद्मनाभतीर्थयोः सकाशात् प्रथमे पूर्वजाताश् चरमे च पश्चादपि जाता अनेके बहवः यतीन्द्राः शिष्या अभवन् आसन् । कथंभूता बहुदेशजा बहुषु नानाविधेषु देशेषु जाताः ॥ १२७ ॥

विश्वास-प्रस्तुतिः - १२८

वशीकृतहृषीकाश्च जननाद्युपमर्दिनः ।
नरसिंहपदाधारा अभ्यस्तोपेन्द्रनामकाः ॥ १२८ ॥

मूलम् - १२८

वशीकृतहृषीकाश्च जननाद्युपमर्दिनः ।
नरसिंहपदाधारा अभ्यस्तोपेन्द्रनामकाः ॥ १२८ ॥

भावप्रकाशिका

हृषीकेशतीर्थाः । जनार्दनतीर्थाः । नरहरितीर्था लोकैरभ्यस्तं ‘उपेन्द्रतीर्था’ इति नामैषाम् ॥ १२८ ॥

पदार्थदीपिकोद्बोधिका

तत्रापि महत्तमानां केषाञ्चिन्नामधेयान्याह— ॥ वशीकृतेत्यादिना ॥ वशीकृतानि हृषीकाणि इन्द्रियाणि यैस् ते वशीकृतहृषीकाः । ‘हृषीकं विषयेन्द्रियम्’ इत्यमरः । अत एव हृषीकाणाम् ईशा हृषीकेशतीर्थार्या इत्यर्थः । जननम् आदिर् येषां तानि, जननादीनि उपमर्दयितुं शीलम् एषाम् अस्तीति जननाद्युपमर्दिनः जन्ममरणादिदोषनिराकरणशीला इत्यर्थः । अत एव जनार्दनतीर्थार्या इति भावः । नरसिंहस्य पदः पादस्तदेव आधारो येषां ते तथोक्ता नरसिंहतीर्थाख्या इति भावः । अभ्यस्तं लोकैः परिचितम् उपेन्द्रनाम येषां ते तथोक्ता उपेन्द्रतीर्था इत्यर्थः । असकृदुच्चरितभगवन्नामा इति ध्वनितोऽर्थः ॥ १२८ ॥

मन्दोपाकारिणी

तत्र केषाञ्चित् श्रेष्ठानां नामानि आह ॥ वशीकृतेति ॥ केचिद् यतयः वशीकृतहृषीका वशीकृतानि हृषीकाणि इन्द्रियाणि यैस् ते वशीकृतहृषीकाः ‘हृषीकं विषयीन्द्रियं’ इत्यमरः । अनेन हृषीकेशतीर्थाख्या इत्युक्तं भवति । हृषीकाणाम् इन्द्रियाणाम् ईशनाद् वशीकरणात् हृषीकेश इति निर्वचनात् । केचिद् यतीन्द्रास्तु जननाद्युपमर्दिनः जननम् उत्पत्तिर् आदिशब्देन मरणं ग्राह्यम् । जननादेर् जननमरणादिरूपसंसारस्य उपमर्दिनः निराकरणशीलाः । अनेन जनार्दनतीर्थाख्या इत्युक्तं भवति । उपलक्षणतया जननादिरूपं संसारम् अर्दयन्तीति जनार्दना इति निर्वचनात् । अन्ये तु नरसिंहपदाधारा नरसिंहाख्य-पदस्य नाम्न आधारा वाच्याः । अनेन नरसिंहतीर्थाख्या इत्युक्तं भवति । अभ्यस्तो-पेन्द्रनामका अभ्यस्तं लोकपरिचितम् उपेन्द्र इति नाम येषां ते अभ्यस्तोपेन्द्रनामकाः । उपेन्द्रतीर्था इति लोके प्रसिद्धा इति ॥ १२८ ॥

विश्वास-प्रस्तुतिः - १२९

अदीर्घान्याभिधाना ये श्रीमद्रामपदाश्रयाः ।
अप्रत्यक्षगुणोद्रिक्ता भक्तिवैराग्यसागराः ॥ १२९ ॥

मूलम् - १२९

अदीर्घान्याभिधाना ये श्रीमद्रामपदाश्रयाः ।
अप्रत्यक्षगुणोद्रिक्ता भक्तिवैराग्यसागराः ॥ १२९ ॥

भावप्रकाशिका

अदीर्घ इति । अर्थतोऽन्यत् ‘वामनतीर्था’ इत्यभिधानमेषाम् । अल्पीकृतलौकिकव्यवहाराश्च । रामतीर्थाः । अक्षजं प्रत्यक्षमधो यद्गुणेभ्यस्तेऽधोक्षजतीर्था इति । हृषीकेश इत्यादि सूचितम् । भक्तिज्ञानवैराग्यसागरा इति । सर्वत्रापि तीर्थशब्दोऽभिप्रेतः । सागरस्यापि शुद्धतीर्थत्वात् । एतेषाम् एतानि नामानि गुणयोगैर्वर्तन्त इति प्रकटयितुं तत्तद्गुणवत्वकथनेन सूचितानि । यथायोग्यं सर्वेषां सर्वगुणवत्त्वज्ञापनाय च ॥

पदार्थदीपिकोद्बोधिका

अदीर्घेति ॥ अन्यद् उक्तेभ्योऽन्यत् तच्च तदभिधानञ्च । दीर्घो न भवतीत्यदीर्घः वामन इति यावत् । अदीर्घ इत्यन्याभिधानं येषां तेऽदीर्घान्याभिधाना वामनतीर्थार्या इति यावत् । अल्पीकृतलौकिकव्यहाराश्चेति ध्वनितोऽर्थः । श्रीमद्राम इति पदं तस्याश्रयाः श्रीमद्रामतीर्थार्या इत्यर्थः । प्रत्यक्षागोचरा अप्रत्यक्षास्तादृशा ये गुणास् तैर् उद्रिक्ता अभिवृद्धाः । अधःकृतम् अक्षजं प्रत्यक्षं येन स अधोक्षज इति व्युत्पत्तिः । अक्षजाधःकरणञ्च तदगोचरगुणवत्वं तस्माद् अधोक्षजतीर्था इत्यर्थः । ‘वशीकृतहृषीकाश्चे’त्यादिनोक्ताः सर्वेऽपि यतीनां मध्ये भक्तिवैराग्यसागराः, भक्तिवैराग्याभ्यां सागरा इव सागराः परिपूर्णा इत्यर्थः । भक्तिवैराग्यादिगुणसागरत्वमेव वशीकृतहृषीकत्वादिगुणैः सूचितम् । भक्तयादिसागरत्वोक्त्यैव हृषीकेशादिनाम्नां तीर्थशिरस्कत्वं सूचितम् । सागरस्यापि विशिष्टतीर्थत्वादेतेषामेतानि नामानि तत्तद्गुणयोगैरेव वर्तन्त इति सूचयितुं तत्तद्गुणकथनपूर्वकमेव सूचितानि । यथायोग्यं सर्वेषां च सर्वगुणत्वज्ञापनाय सर्वत्र बहुवचनम् ॥ १२९ ॥

मन्दोपाकारिणी

अदीर्घेति ॥ केचिद् अदीर्घान्याभिधाना दीर्घो न भवतीति अदीर्घः । ह्रस्वः । वामन इति यावत् । अदीर्घ इति वामन इति अन्यं पूर्वोक्तनामभ्यो ऽन्यद् अभिधानं येषां ते अदीर्घान्याभिधानाः । वामनतीर्थाख्या इत्यर्थः । ये केचन श्रीमद्रामपदाश्रया राम इति पदं नाम श्रीमच्च तद् रामपदं श्रीमद्रामपदं तस्य आश्रया वाच्या रामतीर्थाख्या इत्यर्थः । अप्रत्यक्षगुणोद्रिक्ताः प्रत्यक्षा न भवन्तीति अप्रत्यक्षा अप्रत्यक्षाश्च ते गुणाश्च तैर् उद्रिक्ता उत्कृष्टा अधोक्षजतीर्थाख्या इत्यर्थः । अधःकृतम् अक्षजं प्रत्यक्षं येन स अधोक्षज इति व्युत्पत्तेः । अक्षजस्य अधः करणं नाम चक्षुराद्यगोचरगुणवत्वं ज्ञेयम् । हृषीकेशादयः सर्वेऽपि यतीन्द्रा भक्तिवैराग्यसागरा उपलक्षणतया भक्तिवैराग्यतत्त्वज्ञानादिगुणसमुद्राः । बहुवचनं तु एतेषां रजतपीठस्थ श्रीकृष्णपूजकत्वरूपाधिक्यवत्वेन उत्तमत्वं द्योतयितुम् उक्तम् इति ज्ञेयम् । यद्वा तत्तच्छब्द-वाच्यानां बहुत्वाद् बहुवचनम् इति ज्ञेयम् । अथवा अनयोः प्रथमे शिष्या इत्यनेन बहवः शिष्या अभवन् इत्युक्तम् । ते कीदृशा इत्यतस् तान् विशिनष्टि वशीकृतेत्यादिना । तथा हि सर्वेऽपि यतीन्द्रा वशीकृतहृषीकाः पूर्व एवार्थः । इन्द्रियनिग्रहवन्त इत्यर्थः । जननाद्युपमर्दिनः जननादेर् उत्पत्तिमरणादिरूपसंसारस्य उपमर्दिनः निराकरणशीलाः । यथा संसारनाशः स्यात् तादृशकर्मानुष्ठानवन्त इति भावः । नरसिंहपदाधारा नरसिंहस्य भगवतः पदे चरणे आधार आश्रयः येषां ते नरसिंहपदाधाराः । केचन नरसिंहोपासका इत्यर्थः । अभ्यस्तोपेन्द्रनामका अभ्यस्तानि असकृदुच्चारितानि उपेन्द्रस्य भगवतः नामानि यैस् ते तथोक्ताः । सर्वदा हरिनामकीर्तनपरा इत्यर्थः । अदीर्घान्याभिधाना अदीर्घानि अल्पीकृतानि अन्यानि लौकिकानि अभिधानानि व्यवहारा यैस् ते तथोक्ताः । यावदुपयुक्तलौकिकव्यापारवन्त इत्यर्थः । श्रीमद्रामपदाश्रया रामभक्ता इत्यर्थः । अप्रत्यक्षगुणोद्रिक्ता अप्रत्यक्षगुणेन अपरोक्षज्ञानाख्यगुणेन उद्रिक्ता उत्कृष्टा अपरोक्ष-ज्ञाननिश्चयवन्त इत्यर्थः । यद्वा अप्रत्यक्षगुणेन अतीतानागतविषयकज्ञानाख्यगुणेनापि उद्रिक्तास् त्रिकालदर्शिन इत्यर्थः । भक्तिवैराग्यसागराः पूर्व एवार्थः ॥ १२९ ॥

विश्वास-प्रस्तुतिः - १३०

पादैः पुनन्तः पृथिवीं दर्शयन्तो हरेः पदम् ।
धूतदुस्समयध्वान्ता आदित्या इव गां गताः ॥ १३० ॥

मूलम् - १३०

पादैः पुनन्तः पृथिवीं दर्शयन्तो हरेः पदम् ।
धूतदुस्समयध्वान्ता आदित्या इव गां गताः ॥ १३० ॥

पदार्थदीपिकोद्बोधिका

पुनः कथंभूता इत्यत आह— ॥ पादैरिति ॥ पादैः स्वचरणैः पृथिवीं पुनन्तः । सूर्यकिरणसम्बन्धाद् भुवो यथा शुद्धिः स्याद् एवमेतच्चरण सम्बन्धाद् अपि इति भावः । हरेः पदं पद्यत इति पदं स्वरूपं तद्दर्शयन्तः । सच्छास्त्र-व्याख्यानेन प्रकाशयन्तः । भास्कराश्च हरेः पदम् आकाशम् । धूतः दुस्समयध्वान्तः दुःशास्त्रान्धकारो यैस् ते तथोक्ताः शास्त्रव्याख्यानेनैव निरस्तदुःशास्त्रतिमिरा इत्यर्थः । सूर्याश्च निरस्तान्धकारा गां भुवं गता आदित्य इव पृथ्वीम् अलञ्चक्रुर् इत्युत्तरत्र सम्बन्धः ॥

मन्दोपाकारिणी

पुनः कीदृशा इत्यत आह ॥ पादैरिति ॥ गां भूमिं गताः प्राप्ता आदित्या इव सूर्या इव राजमानाः । सूर्यसाम्यमेव उपपादयति - पादैर् अङ्घ्रिभिः पृथिवीं पुनन्तः पवित्रयन्तः । सूर्या अपि पादैः रश्मिभिः पृथिवीं पुनन्तः । ‘पादा रश्म्यङ्घ्रितुर्यांशाः’ इत्यमरः । सूर्यकिरणसम्बन्धाद् भुवो यथा शुद्धिः स्याद् एवम् एतेषाम् अङ्घ्रिसम्बन्धादपि इति भावः । हरेः पदं पद्यते गम्यते इति पदं स्वरूपं दर्शयन्तः । सच्छास्त्रव्याख्यानेन प्रदर्शयन्तः । भास्कराश्च हरेः पदं विष्णुपदम् आकाशं प्रकाशयन्तः । धूतदुस्समयध्वान्ताः सच्छास्त्रव्याख्यानेन धूतानि दुस्समया दुःशास्त्राण्येव ध्वान्तानि अन्धकारा यैस्ते तथोक्ताः । सूर्या अपि निरस्ततिमिरा हि ॥ १३० ॥

विश्वास-प्रस्तुतिः - १३१

मोक्षशास्त्रामृताम्भोधिसेवया नित्यनिर्वृताः ।
चक्रिचारुतरार्चासु चक्रिणश्चरणार्चकाः ॥ १३१ ॥

मूलम् - १३१

मोक्षशास्त्रामृताम्भोधिसेवया नित्यनिर्वृताः ।
चक्रिचारुतरार्चासु चक्रिणश्चरणार्चकाः ॥ १३१ ॥

पदार्थदीपिकोद्बोधिका

मोक्षेति ॥ मोक्षसाधनं शास्त्रं मोक्षशास्त्रं श्रीमध्वप्रणीत-वेदान्तशास्त्रं तदेवामृताम्भोधिर् इव अमृतसमुद्र इव तस्य सेवा श्रवणमननादिसेवा तया नित्यं सदा निर्वृताः सुखं प्राप्ताश् चक्रिणः श्रीहरेश्चारुतरार्चासु सुन्दरतमप्रतिमासु चक्रम् अस्यास्तीति चक्री श्रीहरिस् तस्य चरणयोर् अर्चकाः पूजकाः पृथ्वीम् अलञ्चक्रुर् इत्युत्तरत्र सम्बन्धः ॥

मन्दोपाकारिणी

मोक्षेति ॥ पुनः कथंभूता मोक्षशास्त्रामृताम्भोधिसेवया मोक्षशास्त्रं मोक्षसाधनं मध्वप्रणीतवेदान्तशास्त्रं तदेव अमृताम्भोधिर् अमृतसमुद्रस् तस्य सेवया श्रवणमननादिरूपस्नानपानादिसेवया नित्यनिर्वृता नित्यं सुखपूर्णाश् चक्रिचारुतरार्चासु चक्रिणः हरेश् चारुतरासु अतिसुन्दरासु अर्चासु प्रतिमासु । ‘अर्चा पूजाप्रतिमयोः’ इति चक्रिणश् चक्रायुधस्य हरेश् चरणार्चकाश् चरणयोः पादयोर् अर्चकाः पूजकाः ॥ १३१ ॥

विश्वास-प्रस्तुतिः - १३२

मध्वप्रशिष्या बहवः शिष्या येषां मुहुस्तथा ।
अलञ्चक्रुरलं पृथ्वीं सर्वे सद्गुणभूषणाः ॥ १३२ ॥

मूलम् - १३२

मध्वप्रशिष्या बहवः शिष्या येषां मुहुस्तथा ।
अलञ्चक्रुरलं पृथ्वीं सर्वे सद्गुणभूषणाः ॥ १३२ ॥

भावप्रकाशिका

एषां प्रशिष्याणां शिष्यास्तथा बहवः ॥ १३२ ॥

पदार्थदीपिकोद्बोधिका

मध्वेति ॥ सद्गुणास् तपोज्ञानभक्तिवैराग्यादिसद्गुणा एव भूषणानि एषां ते तथोक्ता बहवो मध्वप्रशिष्या मध्वशिष्यशिष्यास् तथा येषां प्रशिष्याणां शिष्याश्च ते सर्वे पृथ्वीं भूमिम् अलं सम्यक् अलञ्चक्रुर् अलंकृतवन्तः ॥ १३२ ॥

मन्दोपाकारिणी

मध्वेति ॥ बहवः मध्वप्रशिष्याः श्रीमध्वाचार्यस्य प्रशिष्याः साक्षात् शिष्याणां शिष्याः । तथा येषां प्रशिष्याणां शिष्या मुहुः पुनः सर्वे शिष्याः शिष्यशिष्या एवं सर्वेऽपि शिष्याः प्रशिष्याः प्रप्रशिष्यास् तच्छिष्याश्च पृथ्वीम् । ‘गोत्रा कुः पृथिवी पृथ्वी’ इत्यमरो ऽलं सम्यक् अलञ्चक्रुर् भूषयामासुः । कथंभूताः सद्गुणभूषणाः सन्तः निर्दुष्टा गुणास् तपोज्ञानभक्तिवैराग्यादय एव भूषणम् अलङ्कारो येषां ते तथा ॥ १३२ ॥

विश्वास-प्रस्तुतिः - १३३

सदा सकलसच्छास्त्रव्याख्यासौख्यामृताब्धिगाः ।
सर्वे दुर्वादिदुर्वादकाण्डखण्डनमण्डनाः ॥ १३३ ॥

मूलम् - १३३

सदा सकलसच्छास्त्रव्याख्यासौख्यामृताब्धिगाः ।
सर्वे दुर्वादिदुर्वादकाण्डखण्डनमण्डनाः ॥ १३३ ॥

पदार्थदीपिकोद्बोधिका

सदेति ॥ सर्वेऽपि सदा सकलानि यानि सच्छास्त्राणि तेषां या व्याख्या तया यत्सौख्यं तदेवामृताब्धिः सुधासमुद्रस् तं गच्छन्तीति तथोक्ताः । दुर्वादिनां ये दुर्वादा दुष्टवचनानि त एव काण्डमिव तस्य यत्खण्डनं तदेव मण्डनमलङ्कारो येषां ते तथोक्ताः । काण्डं नाम वृक्षवेण्वादीनां पर्वनामकं कठिनस्थलम् ॥ १३३ ॥

मन्दोपाकारिणी

सदेति ॥ सर्वेऽपि सदा सकलसच्छास्त्रव्याख्यासौख्यामृताब्धिगाः सकलं च तत् सच्छास्त्रं मोक्षशास्त्रं च तस्य व्याख्यया लब्धं च तत् सौख्यं च तदेव अमृताब्धिर् अमृतसमुद्रस् तत्र गच्छन्ति विद्यन्ते क्रीडन्तीति तथोक्ताः । सर्वदा मध्वशास्त्र-व्याख्यानजन्यस्वरूपसुखम् अनुभवन्त इत्यर्थः । दुर्वादिदुर्वादकाण्डखण्डनमण्डना दुर्वादिनां कुवादिनां दुर्वादा दुर्वचनानि तेषां काण्डः समूहस् तस्य खण्डनं निराकरणमेव मण्डनं विभूषणं येषां ते तथोक्ताः ॥ १३३ ॥

विश्वास-प्रस्तुतिः - १३४

भूरिभक्तिभराः केचिदप्यल्पश्रुतिसम्पदः ।
अप्यल्पबोधा अपरे बहुश्रुतमहागुणाः ॥ १३४ ॥

मूलम् - १३४

भूरिभक्तिभराः केचिदप्यल्पश्रुतिसम्पदः ।
अप्यल्पबोधा अपरे बहुश्रुतमहागुणाः ॥ १३४ ॥

पदार्थदीपिकोद्बोधिका

भूरीति ॥ एषु श्रीमध्वप्रशिष्यादिषु अल्पा श्रुतिसम्पद् येषां ते तथोक्ता अपि भूरि भूयसी भक्तिस् तां बिभ्रतीति तथोक्ताः । अपरे अल्पो बोधो येषां ते तथोक्ता अपि बहु यत् श्रुतं श्रवणं तेन महागुणा येषां ते तथोक्ताः ॥ १३४ ॥

मन्दोपाकारिणी

भूरीति ॥ एषु मध्वशिष्यप्रशिष्यादिषु मध्ये केचिद् अल्पश्रुति-सम्पदो ऽल्पा श्रुतिसम्पत् शास्त्रश्रवणसम्पद् येषां ते तथोक्ताः । अल्पशास्त्रश्रवणवन्तोऽपि भूरिभक्तिभरा भूरिर् भूयसी भक्तिर् भूरिभक्तेर् भरो ऽतिशयः येषां ते तथोक्ताः । ‘भूरि स्वर्णे बहौ त्रिषु’ इत्यमरः । अपरे शिष्या अल्पबोधा अपि अल्पः बोधः बुद्धिर् येषां ते तथोक्ता मन्दबुद्धयोऽपि बहुश्रुतमहागुणा बहुश्रवणलक्षणः महान् गुणो येषां ते तथोक्ताः । केचिद् अल्पश्रवणा बहुभक्तिमन्तः केचिन् मन्दमतयः बहुश्रवणा इत्यर्थः ॥

विश्वास-प्रस्तुतिः - १३५

बहवो गृहिणोऽप्यस्मात् समग्रानुग्रहं ययुः ।
दीप्ता यत्राग्नय इव त्रयो लिकुचशेखराः ॥ १३५ ॥

मूलम् - १३५

बहवो गृहिणोऽप्यस्मात् समग्रानुग्रहं ययुः ।
दीप्ता यत्राग्नय इव त्रयो लिकुचशेखराः ॥ १३५ ॥

भावप्रकाशिका

त्रयस् त्रिविक्रमाचार्यः शङ्करार्यौ द्वौ च ॥ १३५ ॥

पदार्थदीपिकोद्बोधिका

बहव इति ॥ अस्मात् श्रीमध्वाद् बहवो गृहिणोऽपि समग्रानुग्रहं सम्पूर्णानुग्रहं ययुः । यत्र शिष्यभूतगृहिणां मध्ये त्रयो लिकुचशेखरास् त्रिविक्रमार्य एकः शङ्करार्यनामानौ द्वाविति त्रयो लिकुचवंशजश्रेष्ठा अग्नय इव दीप्ताः प्रकाशनशीलाः ॥ १३५ ॥

मन्दोपाकारिणी

बहव इति ॥ अस्मात् श्रीमध्वाचार्याद् बहवः गृहिणोऽपि गृहस्थाश्रमवन्तोऽपि विप्राः समग्रानुग्रहं ययुः प्रापुः । यत्र शिष्यप्रशिष्यभूतगृहस्थेषु मध्ये त्रयः लिकुचशेखरा लिकुचकुलशेखराः शिखास्थानीया गृहस्थाः । त्रिविक्रमाचार्य एकस् तदनुजः शङ्कराचार्यो द्वितीयस् तद्वंशस्थ एव अन्यः शङ्कराचार्य इति त्रयो लिकुचशेखरास् त्रयो ऽग्नय इव आवहनीयगार्हपत्यदक्षिणाग्न्याख्या अग्नय इव दीप्ता बभूवुर् इत्यर्थः ॥

विश्वास-प्रस्तुतिः - १३६

माध्वं नियोगं ये प्रायो नात्यजन् विदुषां वराः ।
शिष्यक्षेत्रेषु सद्विद्याबीजावापैकदीक्षिताः ॥ १३६ ॥

मूलम् - १३६

माध्वं नियोगं ये प्रायो नात्यजन् विदुषां वराः ।
शिष्यक्षेत्रेषु सद्विद्याबीजावापैकदीक्षिताः ॥ १३६ ॥

पदार्थदीपिकोद्बोधिका

माध्वमिति ॥ शिष्या एव क्षेत्राणि तेषु । सद्विद्या एव बीजानि तेषाम् अवापस् तस्मिन् एकदीक्षिता मुख्यनिरताः, विदुषां वरा ये लिकुचश्रेष्ठाः प्रायः मध्वस्य सम्बन्धी माध्वस् तं नियोगम् आज्ञां न अत्यजन् ॥ १३६ ॥

मन्दोपाकारिणी

माध्वमिति ॥ विदुषां पण्डितानां वराः श्रेष्ठा ये त्रयः लिकुच-शेखराः प्रायः बाहुल्येन । ‘प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोः’ इति विश्वः । माध्वं मध्वाचार्यसम्बन्धिनं नियोगम् आज्ञां नात्यजन् नातिक्रान्ताः । कथंभूताः शिष्यक्षेत्रेषु शिष्या एव क्षेत्राणि केदारास् तेषु सस्याद्युत्पत्तिस्थलानि इत्यर्थः । ‘क्षेत्रं शरीरे केदारे’ इति विश्वः। सद्विद्याबीजावापैकदीक्षिताः सती निर्दुष्टा विद्या मध्वशास्त्रं तदेव बीजं व्रीह्यादि तस्यावापे आवपने एव एकदीक्षिता मुख्यनिरताः ॥ १३६ ॥

विश्वास-प्रस्तुतिः - १३७

ग्रामण्यो ब्राह्मणाग्रण्यः प्रापुः पूर्णेक्षशिष्यताम् ।
येषां सद्गुप्तिमात्रेण भवेत् किल परं पदम् ॥ १३७ ॥

मूलम् - १३७

ग्रामण्यो ब्राह्मणाग्रण्यः प्रापुः पूर्णेक्षशिष्यताम् ।
येषां सद्गुप्तिमात्रेण भवेत् किल परं पदम् ॥ १३७ ॥

पदार्थदीपिकोद्बोधिका

ग्रामण्य इति ॥ येषां ब्राह्मणादिवर्णानां सतां गुप्तिमात्रेण रक्षामात्रेण परम् उत्तमं पदं स्थानं मोक्ष इत्यर्थः । भवेत्किल । उपलक्षणमेतद् असतां निग्रहाच्चेति ज्ञातव्यम् । पूर्वं भगवता भार्गवेण रामेण तौलवमण्लस्थानां सतां रक्षायै दुष्टानां निग्रहार्थं च नियुक्तत्वात्तदुभयं च तेषां विहितं कर्म, विहितकर्मणा च परं पदं भवत्येवेति भावः । तेषां ग्रामण्यः ब्राह्मणानां श्रेष्ठा ब्राह्मणाग्रण्यः पूर्णा ईक्षा ज्ञानं यस्य स पूर्णेक्षः श्रीमध्वस् तस्य शिष्यतां प्रापुः ॥ १३७ ॥

मन्दोपाकारिणी

ग्रामण्य इति ॥ ग्रामण्यः ग्रामाधिपतयः ब्राह्मणरक्षणसमर्थभूताः । ‘ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु’ इत्यमरः । ब्राह्मणाग्रण्यः ब्राह्मणा अग्रण्यः श्रेष्ठा येषां ते ब्राह्मणाग्रण्यः । क्षत्रवैश्यशूद्राश्च इत्यर्थः । पूर्णेक्षशिष्यतां पूर्णेक्षस्य पूर्णप्रज्ञा चार्यस्य शिष्यतां प्रापुः । ते के येषां ग्रामाधिपतीनां सद्गुप्तिमात्रेण सतां सज्जनानां रक्षण-मात्रेण पालनेनैव । उपलक्षणम् एतद् असतां निग्रहेणापि परं पदं मोक्षः भवेत् किल ॥ १३७ ॥

विश्वास-प्रस्तुतिः - १३८

शुश्रुषापक्षपाताद्यैः केभ्यश्चित् केवलं ददौ ।
रामप्रियो राम इव स्वां गतिं योगिदुर्लभाम् ॥ १३८ ॥

मूलम् - १३८

शुश्रुषापक्षपाताद्यैः केभ्यश्चित् केवलं ददौ ।
रामप्रियो राम इव स्वां गतिं योगिदुर्लभाम् ॥ १३८ ॥

पदार्थदीपिकोद्बोधिका

शुश्रूषेति ॥ रामप्रियः श्रीमध्वः केभ्यश्चिदधिकारिभ्यः केवलं शुश्रूषा च पक्षपातश् च तावाद्यौ येषां तानि तथोक्तानि तैः । योगिदुर्लभां गतिं राम इव ददौ । रामो यथा स्वां गतिं ददौ एवं श्रीमध्वोऽपि केषाञ्चिच्छुश्रूषादिना प्रसन्नः सन् स्वेन गम्यं ब्रह्म गमयामासेत्यर्थः । वायुर्हि ब्रह्म गमयितुं समर्थो नान्यः ‘स एनान् ब्रह्म गमयति’ । ‘विद्युत्पतिर्वायुरेव नयेद् ब्रह्म न च अपरः’ इत्यादिश्रुतिस्मृतिभ्यः ॥ १३८ ॥

मन्दोपाकारिणी

शुश्रूषेति ॥ रामप्रियः रामचन्द्रस्य प्रियः प्रीतिविषयः श्रीमध्वाचार्यः केभ्यश्चित् कतिपयजनेभ्यः केवलं शुश्रूषापक्षपाताद्यैः शुश्रूषा हरिगुरुपरिचर्या पक्षपातः वैष्णवसिद्धान्ते आग्रह एतौ आद्यौ येषां तानि तैः साधनैः । आदिशब्देन भक्त्यादिकं ग्राह्यं केवलशुश्रूषादिप्रधानकैः साधनैर् इत्यर्थः । योगिदुर्लभां भगवदनुग्रह-रहितयोगिभिर् दुर्लभाम् अप्राप्यां स्वां स्वकीयां गतिं ददौ । क इव रामः राघवराम इव । ‘रामः पशुविशेषे स्याज् जामदग्न्ये हलायुधे । राघवे चासितश्वेतमनोज्ञेषु तु वाच्यवत्’ इति विश्वः । यथा केषाञ्चिद् अधिकारिणां खगादीनां सदैव रामभावनादिरूपशुश्रूषादिना प्रसन्नः सन् रामः स्वां गतिं ददौ । ‘खगा मृगास्तृणादयः’ इत्युक्तेः । एवं श्रीमध्वोऽपि केषाञ्चिच्छिष्याणां स्वस्वयोग्यशुश्रूषणादिना प्रसन्नस्सन् स्वां गतिं स्वस्य या गतिस् तां गतिं ददौ । स्वेन गम्यं ब्रह्म गमयामास इत्यर्थः । ‘विद्युत्पतिर् वायुरेव गमयेद् ब्रह्म नापरः’ इति श्रुतेर् वायुरेव हि ब्रह्म गमयितुं समर्थः नापरः ॥ १३८ ॥

विश्वास-प्रस्तुतिः - १३९

शिष्यप्रशिष्यातिशया ईदृशा यद्दयोदयात् ।
को नेच्छेत् सुलभं भक्त्या तत्पादसुरपादपम् ॥ १३९ ॥

मूलम् - १३९

शिष्यप्रशिष्यातिशया ईदृशा यद्दयोदयात् ।
को नेच्छेत् सुलभं भक्त्या तत्पादसुरपादपम् ॥ १३९ ॥

पदार्थदीपिकोद्बोधिका

शिष्येति ॥ यस्य श्रीमध्वस्य दया यद्दया तस्या उदयस् तस्मात् । शिष्याश्च प्रशिष्याश्च तेषाम् अतिशयाः सामर्थ्यविशेषा ईदृशा उक्तप्रकारेण प्रसिद्धा यद् यस्माद् भक्तया सुलभं तस्य श्रीमध्वस्य यः पादः स एव सुरपादपः कल्पवृक्षस् तं तत्पादसुरपादपं कः पुरुषो नेच्छेत्? सर्वोऽपि इच्छेदेव इत्यर्थः ॥ १३९ ॥

मन्दोपाकारिणी

शिष्यप्रशिष्येति ॥ यद्दयोदयाद् यस्य श्रीमध्वाचार्यस्य दयाया उदयाद् अभिव्यक्तेः शिष्यप्रशिष्यातिशयाः शिष्याश्च प्रशिष्याश्च शिष्यप्रशिष्यास् तेषाम् अतिशयाः सामर्थ्यविशेषा ईदृशा उक्तप्रकारेण प्रसिद्धा भक्त्या सुलभं तत्पादसुरपादपं तस्य श्रीमध्वाचार्यस्य पादौ चरणौ तावेव सुराणां देवानां पादपस् तरुस् तं को नेच्छेत् ? सर्वेऽपि वाञ्छन्त्येव ॥ १३९ ॥

विश्वास-प्रस्तुतिः - १४०

इत्थं सद्भिः सद्भिरर्च्यो धरायां चक्रे वासं शेषशय्ये शयाने ।
ग्रामे वातैः पाविते काण्वतीर्थैर्भक्तप्रीत्या सन्मठेऽनूनबोधः ॥ १४० ॥

मूलम् - १४०

इत्थं सद्भिः सद्भिरर्च्यो धरायां चक्रे वासं शेषशय्ये शयाने ।
ग्रामे वातैः पाविते काण्वतीर्थैर्भक्तप्रीत्या सन्मठेऽनूनबोधः ॥ १४० ॥

भावप्रकाशिका

किं बहुना तदा धरायां जातैः सद्भिः पूज्यः । शयनैकादश्यामतीतायाम् । सन्मठे ‘तान्त्र्य’ इत्यपभ्रष्टनामि्न अधिवासे ॥ १४० ॥

इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य

भावप्रकाशिकाख्यटीकायां पञ्चदशः सर्गः ॥ १५ ॥

पदार्थदीपिकोद्बोधिका

इत्थमिति ॥ धरायां भूमौ इत्थमेवं सद्भिः सज्जनैर् अर्च्यः पूज्यो ऽनूनबोधः श्रीपूर्णप्रज्ञाचार्यः, शेषः शय्या पर्यङ्को यस्य स शेषशय्यः श्रीहरिस् तस्मिन् शयाने सति शयनैकादश्यामिति शेषः । कण्वतीर्थादागताः काण्वतीर्थास् तैर् वातैर् वायुभिः पाविते पवित्रीकृते ग्रामे एकवाटकनामके ग्रामे ‘तान्त्र्य’ इत्यपभ्रष्टनामके सन्मठः शोभनमठस्तस्मिन्, भक्तप्रीत्या तद्ग्रामगतभक्तजनानुग्रहेण वासं चक्रे चातुर्मास्यमुवासेति भावः । शालिनीवृत्तम् । मस्तौ गौ चेच्छालिनी वेदलोकैः’ इत्युक्तेः ॥ १४० ॥

मन्दोपाकारिणी

इत्थमिति ॥ धरायां भूमौ इत्थं सद्भिर् एवं भूतैः सद्भिः सज्जनैर् अर्च्यः पूज्यो ऽनूनबोध ऊनो अल्पो न भवतीति अनूनः पूर्णः बोधो यस्यासौ तथोक्तः । श्रीमध्वाचार्यः शेषशय्ये शेषः शेषदेवः शय्या तल्पं यस्य सः शेषशय्यस् तस्मिन् भगवति शयाने सति आषाढशुद्धैकादश्यां शेषशायिनि शेषाख्यशयने शयाने सतीत्यर्थः । काण्वतीर्थैः कण्वस्य कण्वमुनेस् तीर्थं जलाशयं कण्वतीर्थं कण्वतीर्थसम्बन्धिनः काण्वतीर्थास् तैः काण्वतीर्थजलस्पृष्टैर् वातैर् वायुभिः । ‘नभस्वद्वातपवनपवमानप्रभञ्जनाः’ इत्यमरः । पाविते पवित्रीकृते ग्रामे कण्वतीर्थतीरगते कस्मिंश्चिद् ग्रामे सन्मठे प्रशस्ते मठे । ‘मठश्छात्रादिनिलयः’ इत्यमरः । भक्तप्रीत्या तद्ग्रामस्थभक्तानां प्रीत्या वासं चक्रे चातुर्मास्यम् उवास इति भावः । शालिनीवृत्तं ‘मस्तौ गौ चेच्छालिनी वेदलोकैः’ इति वचनात् ॥ १४० ॥

विश्वास-प्रस्तुतिः - १४१

आनन्दतीर्थभगवद्वदनेन्दुबिम्बं विद्यासुधाविततकान्ति सुकान्तिकान्तम् ।
यैः प्रैक्ष्यतात्र भवतापशमाय भक्तैस् तद्दासदास्यमपि किं न ददाति पुंसः ॥ १४१ ॥

मूलम् - १४१

आनन्दतीर्थभगवद्वदनेन्दुबिम्बं विद्यासुधाविततकान्ति सुकान्तिकान्तम् ।
यैः प्रैक्ष्यतात्र भवतापशमाय भक्तैस् तद्दासदास्यमपि किं न ददाति पुंसः ॥ १४१ ॥

॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते सुमध्वविजये महाकाव्ये आनन्दाङ्के पञ्चदशः सर्गः ॥

पदार्थदीपिकोद्बोधिका

स्वानन्देति ॥ यैर् भक्तैर् भवस्य संसारस्य ये तापास् तेषां शमो विनाशस् तस्मै समर्थमिति यावत् । विद्यासुधाविततकान्ति विद्या च सा सुधामयी चेति विद्यासुधावितता व्याप्ता च सा कान्तिश् च विततकान्तिर् विद्यासुधाविततकान्तिर् यस्य तत् सर्वलोकव्याप्तविद्यारूपसुधामयकान्तियुक्तमित्यर्थः । सुधाकान्त्या शोभनकान्त्या कान्तं भद्रं स्वानन्दतीर्थस्य भगवत् पूज्यं यद्वदनेन्दुबिम्बं प्रैक्ष्यत दृष्टम् । तद्दासदास्यमपि तेषाम् आनन्दतीर्थमुखेन्दुबिम्बं दृष्टवतां भक्तानां ये दासास् तेषां दास्यं कैङ्कर्यमपि पुंसः किं न ददाति ? सर्वम् अपि अभीष्टं ददाति इति भावः । वसन्ततिलकावृत्तम् । लक्षणं तूक्तम् ॥

इति श्रीमद्वेदाङ्गमुनिविरचितश्रीसुमध्वविजयटीकाविवृतौ श्रीविश्वपतितीर्थकृतौ पदार्थदीपिकोद्बोधिकायां पञ्चदशः सर्गः ॥

मन्दोपाकारिणी

आनन्दतीर्थेति ॥ अत्र भुवि भक्तैर् यैस् तत्कालभवैर् मध्वभक्तैर् भवतापशमाय भवः संसार एव तापः संतापस् तस्य शमाय परिहाराय । समर्थमिति शेषः । विद्यासुधाविततकान्ति सुधया वितता व्याप्ता सुधामयीत्यर्थः सा च सा कान्तिः कला च सुधाविततकान्तिर् अमृतकला इत्यर्थः विद्यैव सुधाविततकान्तिर् यस्य तत् तथोक्तम् । विद्यालक्षणामृतकलापूर्णम् इत्यर्थः । सुकान्तिकान्तं शोभनकान्त्या कान्तं मनोहरम् । आनन्दतीर्थभगवद्वनेन्दुबिम्बम् आनन्दतीर्थश्चासौ भगवांश्च आनन्दतीर्थभगवान् तस्य वदनं मुखमेव इन्दोश् चन्द्रस्य बिम्बं मण्डलं प्रैक्ष्यत दृष्टम् । तद्दासदास्यमपि तेषां श्रीमदानन्दतीर्थभगवत्पादवदनचन्द्रमण्डलं साक्षाद् दृष्टवतां पुंसां ये दासास् तेषां दास्यमपि दासत्वमपि पुंसो ऽधिकारिणः किम् अभीष्टं न ददाति सर्वं ददात्येव इत्यतः श्रीमदानन्दतीर्थभगवत्पादशिष्यप्रशिष्यादिपरंपराप्रविष्टानां मध्वमतानुवर्तिनां पुंसां दासत्वमपि जन्मान्तरेऽपि भूयाद् इति प्रार्थनीयम् इति भावः । वसन्ततिलकावृत्तं ‘उक्ता वसन्ततिलका तभजा जगौ गः’ इत्युक्तेः ॥ १४१ ॥

इति श्रीमध्वविजयटीकायां श्रीमच्छलारिनरसिंहाचार्याणां शिष्येण शेषेण विरचितायां मन्दोपकारिण्यां पञ्चदशः सर्गः ॥ १५ ॥