१४ चतुर्दशः सर्गः

चतुर्दशः सर्गः

चतुर्दशः सर्गः

विश्वास-प्रस्तुतिः - १

परिवृढघनसङ्घे राजसिंहोर्जशक्त्या त्यजति मलिनभावं नीरसत्वान्निकामम् ।
स्फुटमुदयति तेजस्व्युज्ज्वले मध्वभानौ सुजनजलजकान्त्यै विश्वमासीन्मनोज्ञम् ॥१॥

मूलम् - १

परिवृढघनसङ्घे राजसिंहोर्जशक्त्या त्यजति मलिनभावं नीरसत्वान्निकामम् ।
स्फुटमुदयति तेजस्व्युज्ज्वले मध्वभानौ सुजनजलजकान्त्यै विश्वमासीन्मनोज्ञम् ॥१॥

भावप्रकाशिका

ऊर्जः शरद उत्तरभागः । मलिनभावं मानसभावं नीलत्वं च । विश्वं कार्यमशेषं जगच्च ॥ १ ॥

पदार्थदीपिकोद्बोधिका

परिवृढेति ॥ परिवृढाः स्तम्भविषयोद्भवा ग्रामण्यस् त एव घनास् तेषां सङ्घः समूहस् तस्मिन् । राजसिंहो राजश्रेष्ठो जयसिंहाख्यः स एव ऊर्जो वृश्चिकमासस् तस्य शक्तिः सामर्थ्यं तया । निर्गतो रसो बलं यस्मात्स नीरसस् तस्य भावस् तत्वं तस्माद्दुर्बलत्वादित्यर्थः । मलिनभावं मलिनत्वं, पद्मादिषु पक्षपातं श्रीमध्वद्वेषञ्चेत्यर्थः निकामं नितरां त्यजति सति, तेजस्वी च असौ उज्वलश्च तेजस्व्युज्वलस् तस्मिन् । तेजस्विनां मध्य उज्वलो अधिकं शोभमान इति वा । मध्व एव भानुः सूर्यस् तस्मिन् । सुजना एव जलजानि पद्मानि तेषां कान्तिस् तस्यै । स्फुटं सम्यक् उदयति सति नृपादिसर्वजनपूज्यत्वादिसम्पदं गच्छति सति इत्यर्थः । विश्वं सकलं कार्यजातं मनोज्ञं मनोहरमासीत् । राजानं श्रीमध्ववशवर्तिनं दृष्ट्वा तद्भयेन ग्रामीणजने श्रीमध्वप्रातिकूल्यं परित्यज्य आनुकूल्यं भजति सति, प्राक् शङ्करार्यकरात् पद्मतीर्थकृतपुस्तकापहारस्य शङ्करार्यसंमाननात्मकप्रतिक्रियापूर्वकं राज्ञि श्रीमध्वक्षमापनोन्मुखे सति सर्वं कार्यं मनोहरमासीदित्यभिप्रायः । श्लेषार्थे तु– घनसङ्घे ऊर्जशक्तया शरत्कालोत्तरस्य वृश्चिकमासस्य सामर्थ्येन निर्जलत्वान्मालिन्यं त्यजति सति शुभ्रत्वञ्च भजति सति सूर्ये च शरदि मेघावरणरहितत्वेन स्फुटम् उदयति सति विश्वं जगत् सर्वतो दिशं यथा मनोहरं भवेत् तद्विदिति भावः । अत्र श्लेषरूपकयोः सङ्करः । सर्गेऽस्मिन् प्रायो मालिनीवृत्तम् । ‘ननमयययुतेयं मालिनी भोगिलोकैरि’ति ॥

मन्दोपाकारिणी

परिवृढेति ॥ परिवृढघनसङ्घे परिवृढाः स्तम्भविषयगतोभयग्रामप्रभवः ‘नाथः परिवृढः प्रभुः’ इत्यमरः घना मेघाः ‘घनजीमूतमुदिरजलमुग्धूमयोनयः’ इत्यमरः परिवृढा एव घनास् तेषां सङ्घे समूहे । राजसिंहोर्जशक्त्या राजसिंहः राजश्रेष्ठः जयसिंहः स एव ऊर्जः कार्तिकमासः ‘कार्तिके बाहुलोर्जौ कार्तिकिकः’ इत्यमरस् तस्य शक्त्या सामर्थ्येन । नीरसत्वान् निर्गतः रसः वीर्यं येभ्यः नीरसास् तेषां भावः नीरसत्वं तस्माद् दुर्बलत्वात् ‘ृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः’ इत्यमरः । मलिनभावं मलिनत्वं पद्मतीर्थादिषु पक्षपातं श्रीमध्वद्वेषं च इत्यर्थः । निकामं नितरां त्यजति सति विसृजति सति तेजस्व्युज्ज्वले तेजस्विनां कान्तिमतां मध्ये उज्ज्वले अधिकं प्रकाशमाने मध्वभानौ मध्वाख्यसूर्ये । सुजनजलजकान्त्यै सुजनाः सज्जना एव जलजानि कमलानि तेषां कान्त्यै विकासाय स्फुटं स्पष्टम् उदयति सति जयसिंहप्रभृतिसर्वजनपूज्यत्वादिरूपाभ्युदयं प्राप्तवति सति विश्वं समस्तं कार्यजातं मनोज्ञं मनोहरम् आसीत् । जयसिंहराजं श्रीमध्वाचार्यवशवर्तिनं दृष्ट्वा तद्भयेन उभयग्रामाधिपजने श्रीमध्वप्रातिकूल्यं परित्यज्य आनुकूल्यं च भजति सति तदनन्तरं श्रीमध्वे सज्जनहर्षाय प्रसन्नमुखे सति सर्वं कार्यं मनोहरमासीद् इत्यर्थः । मेघसङ्घ ऊर्जशक्त्या कार्तिकमासाख्यकालशक्त्या शरत्कालसामर्थ्येनेति यावत् । नीरसत्वान् निर्जलत्वान् मलिनभावं नीलत्वं त्यजति सति सूर्ये च कमलविकासाय शरत्काले मेघावरणरहितत्वेन स्फुटम् उदयति सति प्रकाशमाने सति विश्वं जगत् सर्वतो दिशं यद्वन् मनोहरं भवेत् तद्वद् इति भावः । प्रायेण अस्मिन् सर्गे मालिनीवृत्तं ‘ननमयययुतेयं मालिनी भोगिलोकैः’ इति तल्लक्षणात् ॥ १ ॥

विश्वास-प्रस्तुतिः - २

कृतमपकृतमार्यैः क्षम्यतां क्षान्तिभूषैरिति मृदु वदतां सम्प्रार्थनाभिः प्रभूणाम् ।
अपहृतमपरेषां मन्त्रतोग्रन्थजातं दशहृदयनियोगादग्रहीच्छङ्करार्यः ॥ २ ॥

मूलम् - २

कृतमपकृतमार्यैः क्षम्यतां क्षान्तिभूषैरिति मृदु वदतां सम्प्रार्थनाभिः प्रभूणाम् ।
अपहृतमपरेषां मन्त्रतोग्रन्थजातं दशहृदयनियोगादग्रहीच्छङ्करार्यः ॥ २ ॥

पदार्थदीपिकोद्बोधिका

कृतमिति ॥ शङ्करार्यः पूर्वं चोलजेन यस्य करात् पुस्तकम् अपहृतं स इत्यर्थः । अपरेषां मायिनां मन्त्रतः कुमन्त्रादपहृतं ग्रन्थजातं, क्षान्तिः क्षमा भूषा भूषणं येषां तैर् आर्यैः पूज्यैर् भवद्भिः, कृतम् अविवेकिभिर् बालिशैः कृतं, अपकृतं ग्रन्थापहाराख्यापराधः । अत्र भावे क्तः । क्षम्यतामिति एवं मृदु सामपूर्वकं यथा भवति तथा वदतां प्रभूणाम् उभयग्रामस्वामिनां स्तम्भविषयाधीशस्य जयसिंहस्य च सम्प्रार्थनादिभिः, अपि च दशहृदयनियोगात् श्रीपूर्णप्रज्ञाचार्याज्ञात अग्रहीत् । अयमभिप्रायः – चोलजं पद्मतीर्थं पौर्णमास्यामुत्थाय निशीथ एव विद्रुतमेव श्रुत्वा तद्ग्रामजनैस् तेनापहृतं ग्रन्थजातं श्रीमध्वाय समर्पितम् । स तु तन्मध्यस्थकरे स्थापयित्वा निजशिष्यमुदे सह्यगिरिमाप्तः । तच्छत्वा राजमुखेन प्रार्थिते तस्मिन् श्रीमध्वे विष्णुमङ्गलं गते सति तत्सन्निधौ राज्ञोभयग्रामपरिवृढजनैश्च क्षमापितः शङ्करार्यः क्षितिपतिना तत्रानाययितं ग्रन्थजातं श्रीमध्वाज्ञयाऽग्रहीदिति ॥ २ ॥

मन्दोपाकारिणी

कृतमिति ॥ शङ्करार्यः पूर्वं चोलजेन यस्य शङ्करार्यस्य हस्तात् पुस्तकजातम् अपहृतं सः शङ्करार्यः । अपरेषां मायिनां मन्त्रतः कुमन्त्राद् अपहृतं ग्रन्थजातं ग्रन्थस्य समूहम् अग्रहीत् स्वीचकार । ‘ग्रह उपादाने इत्यतो लुङ् परस्मैपदम् अग्रहीद् अग्रहीष्टाम् अग्रहीषुः’ । कथम् । हे शङ्करार्याः क्षान्तिभूषैः क्षान्तिः क्षमा भूषा अलङ्कारो येषां ते तथोक्तास् तैः ‘भूषा तु स्यादलङ्क्रियां’ इत्यमर आर्यैः पूज्यैः सर्वसम्भावितैर् इत्यर्थः । एवंभूतैर् भवद्भिर् विवेकिभिर् बालिशैः कृतम् अपकृतं ग्रन्थापहाराख्यापराधः क्षम्यतां सह्यताम् । ‘क्षमूष् सहने इत्यतः कर्मणि लोट् आत्मनेपदं क्षम्यतां क्षम्येतां क्षम्यन्ताम्’ । इत्थं मृदु सान्त्वपूर्वकं यथा स्यात् तथा वदतां प्रभूणाम् उभयग्रामाधिपतीनां स्तम्भदेशाधीशस्य जयसिंहराजस्य च सम्प्रार्थनाभिर् याचनाभिः प्रार्थनानिमित्तेनेति यावत् । दशहृदयनियोगाच्च ‘दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते’ इति वचनाद् दश पूर्णं हृदयं यस्य स तथोक्तः मध्वाचार्यस् तस्य नियोगाद् आज्ञायाश्च । अयं भावः- मध्वाचार्यं प्रसन्नमुखं दृष्ट्वा उभयग्रामपरिवृढा देशाधिपतिर् जयसिंहराजश्च, हे शङ्करार्याः । सर्वत्र सम्भाविता भवन्तो ऽविवेकिभिर् बालिशैः पद्मतीर्थादिभिः कृतं ग्रन्थापहारलक्षणापराधं क्षम्यतां, मध्वाचार्यपुस्तकजातं गृह्णन्तु इत्येवं शङ्करार्यं सम्प्रार्थ्य पद्मतीर्थापहृतं मध्यस्थपुरुषहस्ते स्थापितं पुस्तकजातं समर्पितवन्तः । एवं प्रार्थितः शङ्करार्यः श्रीमध्वाचार्याणाम् आज्ञया तत्पुस्तकजातं स्वीकृतवान् ॥ २ ॥

विश्वास-प्रस्तुतिः - ३

परिवृतमवनम्रैर्ग्रामणीग्राम्यपूर्वैर् अवनतमुरुचेतःपादपार्श्वे नृसिंहम् ।
सहजविजयतोऽयुग्विक्रमार्यः प्रसन्नः कविकुलतिलकोऽसावाशिषाऽतोषयत्तम् ॥३॥

मूलम् - ३

परिवृतमवनम्रैर्ग्रामणीग्राम्यपूर्वैर् अवनतमुरुचेतःपादपार्श्वे नृसिंहम् ।
सहजविजयतोऽयुग्विक्रमार्यः प्रसन्नः कविकुलतिलकोऽसावाशिषाऽतोषयत्तम् ॥३॥

भावप्रकाशिका

‘स्वस्सुन्दरीभुजलतापरिरम्भणी धूः पौरन्दरी भवति यं भजतां भुजिष्या ।

आनन्दतीर्थभगवत्पदपद्मरेणुः स्वानन्ददो भवतु ते जयसिंह भूप’इत्याशिषा ॥ ३ ॥

पदार्थदीपिकोद्बोधिका

परीति ॥ कवीनां कुलं समूहस् तस्य तिलकभूतः कविकुलतिलकः । सहजः सोदरः शङ्करार्यस् तस्य विजयस् तस्मादिति ततः । सन्मानपूर्वकमपहृतपुस्तकलाभाख्यविजयलाभादित्यर्थः । प्रसन्नः सन्तुष्टो ऽसौ अयुग्विक्र-मार्यस् त्रिविक्रमपण्डितः । अवनम्रैर् विनीतैर् ग्रामण्यः ग्रामाधिपतयस् ते च ग्राम्या ग्रामोद्भवा विप्राः, ते च ते पूर्वे येषां ते तथा तैर् नानाजनैः परिवृतम् । उरुचेतसः श्रीपूर्णप्रज्ञस्य पादपार्श्वे पादसन्निधौ अवनतं नम्रं नृसिंहं जयसिंहराजमाशिषा पद्यरूपेण वाक्येन । ‘आशीरुरगदंष्ट्रायां शुभवाक्याभिलाषयोरि’ति वैजयन्ती अतोषयत् । तच्च पद्यमिदं ‘स्वः सुन्दरीभुजलतापरिरम्भणी धूः पौरन्दरी भवति यं भजतां भुजिष्या । आनन्दतीर्थभगवत्पदपद्मरेणुः स्वानन्ददो भवतु ते जयसिंहभूप ’ एतदर्थानुवादरूपः ‘उपचरति नितान्तमि’त्युपरितनश्लोकः ॥ ३ ॥

मन्दोपाकारिणी

परिवृतमिति ॥ कविकुलतिलकः कवीनां पण्डितानां कुलस्य तिलकः ललामभूतः । सहजविजयतः सहजस्य सोदर्यस्य शङ्कराचार्यस्य विजयतः सन्मानपूर्वकम् अपहृतपुस्तकलाभाख्यविजयलाभात् प्रसन्नः सन्तुष्टः ‘समानोदर्यसोदर्य-सगर्भ्यसहजाः समाः’ इत्यमरः । असौ अयुग्विक्रमार्यस् त्रिविक्रमपण्डिताचार्यो ऽवनम्रैर् विनीतैर् ग्रामणीग्राम्यपूर्वैर् ग्रामण्यः ग्रामाधिपतयश्च ग्राम्या ग्रामे भवा विप्राश्च एते पूर्वे आदयो येषां ते तथोक्तास् तैर् नानाजनैः परिवृतं जनमध्ये विद्यमानम् इति यावत् ‘ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु’ इत्यमरः । उरुचेतःपादपार्श्वे उरुचेतसः पूर्णप्रज्ञाचार्यस्य पादयोश् चरणयोः पार्श्वे सन्निधौ अवनतं नम्रीभूतं नृसिंहं नृणां पुरुषाणां सिंहं श्रेष्ठं जयसिंहराजम् आशिषा आशीर्वचनेन अतोषयत् सन्तोषयामास । ‘तुष् तुष्टौ’ इति धातोर्लङ् परस्मैपदम् । पुस्तकस्वीकरणसमये तस्यां सभायाम् उपविष्टस् त्रिविक्रमाचार्यः स्वानुजस्य शङ्कराचार्यस्य जयसिंहराजादिकृतबहुमानेन सन्तुष्टस्सन् जनसंसदि श्रीमध्वसमीपे नम्रीभूय उपविष्टं जयसिंहराजम् आशीर्वचनेन अतोषयद् इति भावः ॥ ३ ॥

विश्वास-प्रस्तुतिः - ४

उपचरति नितान्तं हन्त पौरन्दरी धूर्द्युसदसि भजतो यं दुर्लभा दभ्रभाग्यैः ।
दिशतु स परमानन्दाग्रयतीर्थाङ्घ्रिरेणुर्धरणिधर सुखं ते सन्ततं स्वान्तरेति ॥ ४ ॥

मूलम् - ४

उपचरति नितान्तं हन्त पौरन्दरी धूर्द्युसदसि भजतो यं दुर्लभा दभ्रभाग्यैः ।
दिशतु स परमानन्दाग्रयतीर्थाङ्घ्रिरेणुर्धरणिधर सुखं ते सन्ततं स्वान्तरेति ॥ ४ ॥

पदार्थदीपिकोद्बोधिका

उपचरतीति ॥ शोभनम् आन्तरं मनो यस्य स स्वान्तरस् तत्सम्बुद्धिः । धरणीधर राजन् यम् अङ्घ्रिरेणुं भजतः सेवमानान् सत्पुरुषान्, दभ्रम् अल्पं भाग्यं येषां ते तथा तैर् दुर्लभा, पुरन्दरपदप्राप्तियोग्यत्वलक्षणभाग्यरहितैर्दुर्लभेत्यर्थः । न हि पुरन्दरत्वप्राप्तियोग्यसत्वरहितैः पुरन्दरव्यापारो लभ्यः । तस्माद् दभ्रभाग्यैर् दुर्लभा हि । पुरन्दरस्य सम्बन्धिनी पौरन्दरी धूर् व्यापारो द्युसदसि स्वर्गसभायां नितान्तम् अत्यन्तम् उपचरति सम्भावयति । श्रीमध्वचरणरजः सेवकसम्भावनारूपं व्यापारम् इन्द्रः स्वसदसि दर्शयतीत्यर्थः । स तथाविधः परमानन्दतीर्थाग्रयांघ्रिरेणुः परमो य आनन्दतीर्थस् तस्य यावग्रयांघ्री तयो रेणू रजस् ते तव सन्ततं सुखं सौख्यं दिशतु ददातु इति अतोषयद् इति सम्बन्धः ॥ ४ ॥

मन्दोपाकारिणी

आशीर्वचनप्रकारमाह ॥ उपचरतीति ॥ हे स्वान्तर सु निर्दुष्टम् आन्तरं मनः यस्य स तथोक्तस् तस्य सम्बुद्धिर् हे स्वान्तर । धरणिधर धरतीति धरः धरण्या धरस् तस्य सम्बुद्धिः, हे धरणिधर भूप । स एतादृशः परमानन्दाग्रयतीर्थाङ्घ्रिरेणुर् आनन्दप्रदम् अग्रयं श्रेष्ठं तीर्थं शास्त्रं यस्य आनन्दाग्रयतीर्थः परम उत्तमश्चासौ आनन्दाग्रय-तीर्थश्च परमानन्दाग्रयतीर्थस् तस्य अङ्ग्र्योश् चरणयोः रेणुर् धूलिः, ते तव सन्ततं सर्वदा सुखं दिशतु ददातु । ‘दिश अतिसर्जने’ इति धातोर् लोट् परस्मैपदम् । कीदृशो ऽङ्घ्रिरेणुः ? यम् अङ्घ्रिरेणुं भजतः सेवमानान् सत्पुरुषान् दभ्रभाग्यैर् दभ्रं स्वल्पं भाग्यं पुण्यं येषां ते तथोक्तास् तैः ‘स्तोकाल्पक्षुल्लकाः श्लक्ष्णं सूक्ष्मं दभ्रं कृशं तनु’ इत्यमरः । दुर्लभा लब्धुमशक्या पुरन्दरपदप्राप्तियोग्यतालक्षणभाग्यरहितैर् दुर्लभा इत्यर्थः । न हि पुरन्दरपदप्राप्ति-योग्यत्वरहितैः पुरन्दरव्यापारो लभ्यस् तस्माद् दभ्रभाग्यैर् दुर्लभा, पौरन्दरी पुरन्दरस्य शचीपतेर् इन्द्रस्य सम्बन्धिनी पौरन्दरी धूर् व्यापारः स्थानं वा द्युसदसि द्योः स्वर्गस्य सदसि सभायां ‘सुरलोको द्योदिवौ द्वे’ इत्यमरः नितान्तम् अतिशयेन उपचरति सम्भावयति हन्त हर्षः । यं पादरेणुं सेवमानान् इन्द्रपदयोग्यान् पुरुषान् अमरावती सेवते इत्यर्थः । अनेन इन्द्रपदयोग्या जीवा मध्वाचार्यपादरेणुसेवयैव स्वर्गाधिपत्यं प्राप्नुवन्तीति उक्तं भवति । एवंभूताङ्घ्रिरेणुस् ते सुखं दिशतु इति अतोषयद् इति पूर्वश्लोकस्थेनान्वयः । ‘चर गतिभक्षणयोः’ इति धातोर् लट् परस्मैपदम् ॥ ४ ॥

विश्वास-प्रस्तुतिः - ५

अनतिपरिचितस्याप्यस्य सोऽयं कवीन्द्रो गुणरसमतिगूढं ज्ञातवानित्यचित्रम् ।
मधु मधुकरराजो निष्पतन् पौष्पमाप्तुं ननु परिचयहीनः काननेऽपि प्रभुः स्यात् ॥५॥

मूलम् - ५

अनतिपरिचितस्याप्यस्य सोऽयं कवीन्द्रो गुणरसमतिगूढं ज्ञातवानित्यचित्रम् ।
मधु मधुकरराजो निष्पतन् पौष्पमाप्तुं ननु परिचयहीनः काननेऽपि प्रभुः स्यात् ॥५॥

पदार्थदीपिकोद्बोधिका

अनतीति ॥ सोऽयं कवीन्द्रस्त्रिविक्रमार्यः । अत्यन्तं परिचितो न भवति इति अनतिपरिचितस्य अपि श्रीमध्वस्य अतिगूढम् अतिगूहितं पामरैर् अज्ञेयमित्यर्थः । गुणरसं गुणसारं ज्ञातवान् इत्येतद् अचित्रम् आश्चर्यं न भवति । तथा हि कानने वने निष्पतन् सञ्चरन् , मधु कुर्वन्तीति मधुकरास् तेषां राजा श्रेष्ठो मधुकरराजः परिचयहीनोऽपि, पुष्पस्य सम्बन्धि पौष्पं मधुपुष्परसमाप्तुं प्राप्तुं प्रभुः शक्तः स्यान् ननु । यथा पुष्परसम् अन्विष्यन् भ्रमरः काननेऽपि निष्पतन् प्रागदृष्टस्यापि पुष्पस्य मधु प्राप्नोत्येव । पुष्पसन्दर्शनमात्रेण तन्मधुवैेशेष्यं ज्ञात्वा स्वीकरोति तद्वद् अयम् अपि इति भावः । अत्रार्थान्तरन्यासालङ्कारः ॥ ५ ॥

मन्दोपाकारिणी

अनतीति ॥ सोऽयं कवीन्द्रः पण्डितश्रेष्ठस् त्रिविक्रमाचार्यः । अनतिपरिचितस्यापि अपरिचितस्य प्रागतिशयेन अविदितस्यापि अस्य श्रीमध्वाचार्यस्य अतिगूढम् अत्यन्तम् आच्छादितं गुणरसं गुणसारं ज्ञातवान् इति इत्येतद् अचित्रम् आश्चर्यं न भवति । कुतः ? कानने वने ‘गहनं काननं वनं’ इत्यमरः निष्पतन् सञ्चरन् मधुकरराजः मधुकराणां भ्रमराणां राजा श्रेष्ठः ‘मधुव्रतो मधुकरो मधुलिण्मधुपालिनः’ इत्यमरः । परिचयहीनोऽपि परिचयेन प्राक् ज्ञानेन रहितोऽपि पूर्वमविदितवानपि पौष्पं पुष्पाणां सम्बन्धि मधु मकरन्दम् आप्तुं लब्धुं प्रभुः शक्तः स्यान्ननु । ‘मधु क्षौद्रे जले क्षीरे मद्ये पुष्परसे मधुः । दैत्ये चैत्रे वसन्ते च जीवशाके मधुर्द्रुमे’ इति विश्वः । यथा पुष्परसान्वेषण-तत्परो भ्रमरः कानने सञ्चरन् प्राक् अदृष्टस्यापि पुष्पस्य रसं प्राप्नोत्येव पुष्पदर्शनमात्रेण तद्गतमकरन्दविशेषं स्वीकरोत्येव तद्वद् अयं त्रिविक्रमाचार्योऽपि प्रागतिपरिचयहीनस्यापि मध्वाचार्यस्य गुणविशेषं ज्ञातवान् । तादृशसूक्ष्मवेदनशक्तिमत्वाद् अतः नेदमाश्चर्यम्

इति भावः ॥ ५ ॥

विश्वास-प्रस्तुतिः - ६

अखिलखलकुलानां वर्धयन् द्वेषदोषं विदधदपि नराणां कौतुकं मध्यमानाम् ।
स्वगतिसमुचितानां भूतिदायी शुभानां बहुलहृदिह निन्ये शर्वरीः काश्चिदेवम् ॥ ६ ॥

मूलम् - ६

अखिलखलकुलानां वर्धयन् द्वेषदोषं विदधदपि नराणां कौतुकं मध्यमानाम् ।
स्वगतिसमुचितानां भूतिदायी शुभानां बहुलहृदिह निन्ये शर्वरीः काश्चिदेवम् ॥ ६ ॥

पदार्थदीपिकोद्बोधिका

अखिलेति ॥ बहुलहृत् श्रीपूर्णप्रज्ञार्यः । अखिलाः सर्वे ये खला दुर्जनास् तमोयोग्या इत्यर्थः । तेषां कुलानि समूहास्तेषां द्वेष एव दोषस् तं, आत्मविषयकद्वेषाख्यदोषमित्यर्थः । वर्धयन् सन् । मध्यमानां मध्यमाधिकारिणां नराणां कौतुकमाश्चर्यं विदधत् कुर्वन् सन् । अमानुषैः स्वचरित्रैरिति भावः । स्वस्य स्वतन्त्रस्य श्रीहरेर् गतिः स्वगतिस् तस्याः समुचितानां योग्यानां मुक्तियोग्यानामित्यर्थः । शुभानां सज्जनानां भूतिं ज्ञानभक्तयादिसम्पदं दातुं शीलम् अस्येति भूतिदायी सन् इह विष्णुमङ्गल एवं वक्ष्यमाणप्रकारेण काश्चित् शर्वरीः रात्रीर् निन्ये गमयामास ॥ ६ ॥

मन्दोपाकारिणी

अखिलेति ॥ बहुलहृत् पूर्णप्रज्ञाचार्यः । इह विष्णुमङ्गले एवं वक्ष्यमाणप्रकारेण काश्चित् शर्वरीः रात्रीर् निन्ये गमयामास । ‘णीञ् प्रापणे’ इत्यतो लिट् आत्मनेपदं निन्ये निन्याते निन्यिरे । कतिचिद् दिनानि विष्णुमङ्गुले उवास इति भावः । किं कुर्वन्? अखिलखलकुलानाम् अखिलानां खलानाम् अधमजनानां कुलानां समूहानां ‘क्रूरे नीचेऽधमे खलः’ इति विश्वः । द्वेषदोषम् आत्मविषये द्वेषाख्यदोषं वर्धयन् अभिवर्धयन् मध्यमानां नराणां कौतुकम् आश्चर्यं विदधत् कुर्वन् अमानुषैः स्वचरित्रैर् इति भावः । स्वगतिसमुचितानां स्वगतेः स्वकीयगतेः समुचितानां मुक्तिप्राप्तियोग्यानां शुभानां सज्जनानां भूतिदायी भूतेर् भक्त्युद्रेकाद्यैश्वर्यस्य दायी दानशूरः ‘भूतिर्भस्मनि सम्पदि’ इत्यभिधानम् । अमानुषमध्वाचार्यस्य दर्शनेन तदसहमानानाम् अधमानां मध्वे द्वेषो भवति मध्यमानाम् आश्चर्यं भवति उत्तमानां मध्वाचार्ये भक्त्युद्रेको भवतीति भावः ॥ ६ ॥

विश्वास-प्रस्तुतिः - ७

उदयति विनताया नन्दने श्लाघ्यकाले स कृतसकलकृत्यः कृत्यवेदिप्रवेकः ।
अरुणयवनिकान्तर्ब्रह्म नारायणाख्यं गुरुगुणमभिदध्यौ योग्ययोगासनस्थः ॥ ७ ॥

मूलम् - ७

उदयति विनताया नन्दने श्लाघ्यकाले स कृतसकलकृत्यः कृत्यवेदिप्रवेकः ।
अरुणयवनिकान्तर्ब्रह्म नारायणाख्यं गुरुगुणमभिदध्यौ योग्ययोगासनस्थः ॥ ७ ॥

पदार्थदीपिकोद्बोधिका

उदयतीति ॥ कृत्यं कर्तव्यं विदन्ति तच्छीला इति कृत्यवेदिनस् तेषु प्रवेक उत्तमः । ‘अग््य्रं प्राग्रहणं प्रवेकमपरं वर्यं वरेण्यं वरमि’ति हलः । स श्रीमध्वः विनताया विनतादेव्या नन्दने पुत्रेऽरुण उदयति सति । श्लाघ्यः प्रातः सन्ध्याकर्मणः प्रशस्तो यः कालस् तस्मिन् कृतं सकलकृत्यं कृत्स्नस्नानादिव्यापारो येन स तथोक्तः सन् । अरुणा रक्ता च सा यवनिका च तस्या अन्तर्भागे योग्यं यद्योगासनं तस्मिंस्तिष्ठतीति तथोक्तः । ‘नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरमि’त्युक्तलक्षणवत्तया ध्यानयोग्यासन उपविष्टः सन्नित्यर्थः । गुरवो बहवो गुणा यस्य स तथा तं नारायणाख्यं ब्रह्म अभिदध्यौ ध्यायति स्म ॥ ७ ॥

मन्दोपाकारिणी

इदानीं मध्वाचार्यस्य आह्निकं कर्म वर्णयति उदयतीत्यादिनोत्तरग्रन्थेन ॥ कृत्यवेदिप्रवेकः कृत्यानि विहितकर्तव्यानि विदन्तीति कृत्यवेदिनस् तेषां प्रवेक उत्तमः ‘क्लीबे प्रधानं प्रमुखं प्रवेकानुत्तमोत्तमाः’ इत्यमरः । विहितकर्मज्ञश्रेष्ठः सः मध्वाचार्यः विनताया नन्दने विनतायाः कश्यपपत्न््नया नन्दने सुते अरुणे ‘सूर्यसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः’ इत्यमरः । उदयति सति श्लाघ्यकाले प्रातःस्नानसन्ध्यादिकर्मणः श्लाघ्ये प्रशस्ते काले । कृतसकलकृत्यः कृतानि सकलानि कृत्यानि स्नानाद्यखिलकर्माणि येन स तथोक्तस्सन् । अरुणयवनिकान्तो ऽरुणा रक्तवर्णा च सा यवनिका तिरस्करणी च ‘प्रतिसीरा यवनिका स्यात्तिरस्करिणी च सा’ इत्यमरः समाधिशुद्धयै दुर्जननिवारणाय स्वस्य जनस्य च मध्यभागे भित्तिका आवरणत्वेन बद्धमानपटविशेषः यवनिका इत्युच्यते तस्या अन्तः मध्ये ‘अन्तर्मध्ये तथा प्रान्ते’ इति विश्वः । योग्ययोगासनस्थः योग्यं ‘नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्’ इत्युक्त-लक्षणवत्तया ध्यानयोग्यं योगस्य ध्यानस्य आसनं तत्र तिष्ठतीति योग्ययोगासनस्थः ध्यानासनसंनिषण्ण इत्यर्थः ‘योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु’ इत्यमरः । एतादृशः सन् गुरुगुणं गुरवो ऽनन्ता गुणा ज्ञानानन्दादयः यस्य तद् गुरुगुणं गुणपरिपूर्णं नारायणाख्यं नारायण इति आख्या नाम यस्य तत् तथोक्तं ब्रह्म परब्रह्म अभिदध्यौ ध्यातवान् ‘ध्यै चिन्तायामि’ त्यतो लिट् परस्मैपदं दध्यौ दध्यतुर् दध्युः ॥ ७ ॥

विश्वास-प्रस्तुतिः - ८

अतिधवलितदन्ता दन्तकाष्ठैः प्रशस्तैरपि युगपदनेके सस्नुरत्र व्रतीन्द्राः ।
गुरुभिरभिहितेष्वाचारभेदेषु निष्ठां स्फुटमवगमयन्तः सौष्ठवात् कर्मणां च ॥ ८ ॥

मूलम् - ८

अतिधवलितदन्ता दन्तकाष्ठैः प्रशस्तैरपि युगपदनेके सस्नुरत्र व्रतीन्द्राः ।
गुरुभिरभिहितेष्वाचारभेदेषु निष्ठां स्फुटमवगमयन्तः सौष्ठवात् कर्मणां च ॥ ८ ॥

पदार्थदीपिकोद्बोधिका

अतीति ॥ प्रशस्तैः ‘कनिष्ठिकासमं स्थौल्ये द्वादशाङ्गुल-मायतम् । सत्वचं दन्तकाष्ठं स्यात्तस्याग्रेण तु धावयेदित्युक्तलक्षणवत्तया प्रशस्तैर् दन्तानां शोधकानि काष्ठानि दन्तकाष्ठानि तैर् अतिधवलिता दन्ता यैस् ते तथोक्ताः । कर्मणां स्वविहितप्राणायामादिकर्मणां सौष्ठत्वं तस्मात् । न केवलं यथा कथञ्चिदाचरणमात्रात् किन्तु न्यूनाधिक्यराहित्यलक्षणसौष्ठवाच्च । गुरुभिर् अभिहितेष्वाचारभेदा आचारविशेषास् तेषु निष्ठाम् आस्थां स्फुटं सम्यक् अवगमयन्तो ज्ञापयन्तो अनेके बहवो व्रतीन्द्रा यतिश्रेष्ठा अत्र तटाके युगपत् सस्नुः । ष्णा शौचे लिट् ॥ ८ ॥

मन्दोपाकारिणी

अतीति ॥ अनेके बहवः व्रतीन्द्रा व्रतीनां यतीनाम् इन्द्राः श्रेष्ठा अत्र तटाके युगपद् एकदा ‘तदा तदानीं युगपदेकदा सर्वदा सदा’ इत्यभिधानम् । सस्नुः स्नातवन्तः ‘ष्णा शौचे’ इत्यतो लिट् परस्मैपदं सस्नौ सस्नतुः सस्नुः । कथंभूताः प्रशस्तैः ‘कनिष्ठिकासमं स्थौल्ये द्वादशाङ्गुलमायतम् । सत्वचं दन्तकाष्ठं स्यात् तस्याग्रेण तु धावयेत्’। इत्युक्तलक्षणवत्तया विहितैर् दन्तकाष्ठैर् दन्तानां शोधनकाष्ठैर् अतिधवलितदन्ता अपि अति अत्यन्तं धवलिता निर्णिक्ता दन्ता दशना यैस् ते तथोक्ताश्च । कर्मणां स्वविहितशौचाचमनप्राणायामादिकर्मणां सौष्ठवाच्च न्यूनाधिक्यराहित्यलक्षणात् सौष्ठवात् सम्यक् आचरणाच्च न तु यथा कथञ्चिद् आचरणमात्राद् इति भावः । गुरुभिः स्वस्वगुरुभिर् अभिहितेषु आचारभेदेषु आचारविशेषेषु निष्ठाम् आस्थाम् आदरमिति यावत् । स्फुटं सम्यक् अवगमयन्तः ज्ञापयन्तः लोकानाम् इति शेषः । अयं भावः विहितकाष्ठेन दन्तान् शोधयित्वा शौचाचमनादिकर्मणां न्यूनाधिक्यं यथा न स्यात् तथा कर्मानुष्ठानेन स्वगुरूपदिष्टाचारेषु यतीनाम् अत्यादरो वर्तते इति ज्ञायते लोकानाम् इति ॥ ८ ॥

विश्वास-प्रस्तुतिः - ९

चरमसमयसुप्ताः पूर्वमुत्थाय शिष्या गुरुजनपरिचर्यां चक्रिरे दुष्करां च ।
सबहुमति तदाद्यप्यार्धरात्रात्प्रसन्नाः सुगतिरपरथैषां स्यात्कथङ्कारमिष्टा ॥ ९ ॥

मूलम् - ९

चरमसमयसुप्ताः पूर्वमुत्थाय शिष्या गुरुजनपरिचर्यां चक्रिरे दुष्करां च ।
सबहुमति तदाद्यप्यार्धरात्रात्प्रसन्नाः सुगतिरपरथैषां स्यात्कथङ्कारमिष्टा ॥ ९ ॥

पदार्थदीपिकोद्बोधिका

चरमेति ॥ चरमो गुरुजनसुप्त्यनन्तरं यः समयः कालस्तस्मिन् सुप्ता निद्रिता शिष्याः पूर्वं गुरुजनोत्थानात्पूर्वमुत्थाय । तदादि तदुत्थानम् आदिर्यथा भवति तथाऽऽर्धरात्रान्निशीथादपि, एष्यद् अर्धरात्रपर्यन्तमपीत्यर्थः । ‘अर्धरात्र निशीथौ द्वावि’त्यमरः । प्रसन्ना अरतिविरहिताः सन्तो दुष्कराम् अल्पभाग्यैः कर्तुमशक्यां गुरुजनपरिचर्यां बहुमत्या बहुमानेन सहितं यथा भवति तथा सबहुमति सादरमित्यर्थः । चक्रिरे । अपरथा एवं गुरुजनपरिचर्याकरण एषां शिष्याणामिष्टा अभीष्टा सुगतिः सद्गतिः कथङ्कारं केन प्रकारेण स्याद्भवेत् ? ॥ ९ ॥

मन्दोपाकारिणी

चरमेति ॥ चरमसमयसुप्ताश् चरमे अन्त्ये समये काले गुरुजनसुप्त्यनन्तरम् इति भावः ‘चरमोऽन्त्ये च पश्चिमे’ इति विश्वः सुप्ता निद्रिताः शिष्याश् छात्राः पूर्वं गुरुजनोत्थानात् प्राक् उत्थाय शयनादुत्थाय प्रबुद्ध्य इति यावत् । तदादि सः प्रबोधकाल आदिर् यथा भवति तथा तदादि प्रबोधकालमारभ्येति यावत् । आर्धरात्राद् इति पदच्छेदो ऽर्धरात्रम् आमर्यादीकृत्य भविष्यदर्धरात्रमपि, प्रसन्नाः सन्तः दुष्करां च अल्प-भाग्यैः कर्तुम् अशक्यामपि गुरुजनपरिचर्यां गुरुजनानां परिचर्यां शुश्रूषां ‘वरिवस्या तु शुश्रूषा परिचर्याप्युपासनम्’ इत्यमरः । सबहुमति बहुमत्या बहुमानेन सहितं यथा भवति तथा सबहुमति गुरुषु आदरपूर्वकम् इत्यर्थः । चक्रिरे कृतवन्तः । एवं गुरुसेवाकरणम् आवश्यकम् इत्याह सुगतिरिति ॥ अपरथा गुरुशुश्रूषाकरणाभावे एषां शिष्याणाम् इष्टा अभीष्टा सुगतिः सद्गतिः कथङ्कारं केन प्रकारेण स्याद् भवेत् ॥ ९ ॥

श्रवणमननहेतोः प्राक् चिरायास्तनिद्रः सपदि विवशयन्त्या निद्रया ग्रस्तचेताः ।
स्वयमपि नयति द्रागङ्गवस्त्रादि पूज्ये खटिति विगतनिद्रः कोऽपि शिष्योऽन्वशेत
॥१०॥
पदार्थदीपिकोद्बोधिका

श्रवणेति ॥ श्रवणस्य श्रुतग्रन्थस्य मननहेतुर् मनननिमित्तं तस्मात् । श्रवणं भागवतादिश्रवणं तच्च मननं श्रुतग्रन्थविमर्शनं तच्च तद्धेतोरिति वा । प्राक् पूर्वरात्रे चिराय बहुकालम् अस्ता निरस्ता निद्रा येन स तथोक्तः । अत एव सपदि तदानीम् अरुणोदयकाल इत्यर्थः । विवशयन्त्या परवशयन्त्या निद्रया ग्रस्थमावृतं चेतो बुद्धिर् यस्य स तथा सन् खटिति सहसा विगता निद्रा यस्य स तथा कोऽपि कश्चन शिष्यः पूज्ये स्वगुरौ । अङ्गवस्त्रमादिर् यस्य तदङ्गवस्त्रादि, गुरोः पूर्वम् उत्थाय आत्मना नेतव्यं स्वगरुस्नानाङ्गम् अङ्गसंमार्जनवस्त्रपेट्यादिकम् । गुरौ स्वयमपि स्वयमेव द्राक् शीघ्रं नयति सतिस्र अन्वशेत पश्चात्तप्तोऽभूत् । शीङ् स्वप्ने लङ् ॥ १० ॥

मन्दोपाकारिणी

श्रवणेति ॥ श्रवणमननहेतोः श्रवणं ग्रन्थश्रवणं मननं श्रुतग्रन्थविचिन्तनं श्रवणमनने ते एव हेतुस् तस्मात् श्रवणमननाख्यनिमित्ताद् इत्यर्थः । प्राक् पूर्वरात्र्यां चिराय बहुकालम् अस्तनिद्रो ऽस्ता निरस्ता निद्रा स्वापः येन स तथोक्तः ‘स्यान्निद्रा शयनं स्वापः’ इत्यमरः । तत एव हेतोः सपदि तत्क्षणे अरुणोदयकाले इति यावत् ‘सद्यः सपदि तत्क्षणे’ इत्यमरः । विवशयन्त्या स्ववशं कुर्वन्त्या अत्यजन्त्या इति यावत् । निद्रया ग्रस्तचेता निद्रया ग्रस्तम् आवृतं चेतो मनो यस्य स तथोक्तः सन् खटिति सहसा विगतनिद्रः विगता निरस्ता निद्रा यस्मात् स तथोक्तः । कोऽपि यः कश्चन शिष्यः पूज्ये स्वगुरौ स्वयमपि स्वयमेव अङ्गवस्त्रादि अङ्गस्य शरीरस्य वस्त्रं स्नानानन्तरं संमार्जनवस्त्रम् आदि यस्य तद् अङ्गवस्त्रादि स्नानसाधनं यद्वा अङ्गं स्नानाङ्गं च तद् वस्त्रादि च अङ्गवस्त्रादि आदिपदेन दण्डादि ‘अङ्गं गात्रान्तिकोपायप्रतीकेष्वप्रधानकः’ इति विश्वः । द्राक् शीघ्रं नयति सति गुरौ स्वयमेव स्नानसाधनमादाय गच्छति सति इति यावत् । अन्वशेत पश्चात्तप्तोऽभूत् ‘अनुपूर्वकात् शीङ् स्वप्ने’ इति धातोर् लङ् आत्मनेपदम् अशेत अशेयाताम् अशेरत । कश्चित् शिष्यः पूर्वरात्रौ श्रुतग्रन्थचिन्तनेन निमित्तेन बहुकालजागरूकस्सन् अरुणोदयकाले निद्रावशगतः । तदा गुरोः पूर्वम् उत्थाय आत्मना नेतव्यस्वगुरुस्ना-नाङ्गवस्त्रादिकं स्वगुरौ स्वयमेव गृहीत्वा स्नानाय गच्छति सति सहसा प्रबुद्धस्सन् ‘‘महान् अपराधः मम प्राप्त’’ इति पश्चात्तापं प्राप्तवान् इति भावः ॥ १० ॥

विश्वास-प्रस्तुतिः - ११

विहितमविहितं प्रागेव कस्माद्विनिद्रैरिति गुरुपरिवादाशङ्कया नम्रगात्राः ।
चिरमनवतरन्तः श्रावका मुक्तमार्गा गुरुषु जलसकाशस्थेषु तूष्णीमतिष्ठन् ॥ ११ ॥

मूलम् - ११

विहितमविहितं प्रागेव कस्माद्विनिद्रैरिति गुरुपरिवादाशङ्कया नम्रगात्राः ।
चिरमनवतरन्तः श्रावका मुक्तमार्गा गुरुषु जलसकाशस्थेषु तूष्णीमतिष्ठन् ॥ ११ ॥

पदार्थदीपिकोद्बोधिका

विहितमिति ॥ ृण्वन्तीति श्रावकाः श्रवणकर्तारः शिष्याः प्रागेव अस्मत्प्रबोधात् पूर्वमेव विनिद्रैः प्रबुद्धैर् भवद्भिर् विहितम् अस्माभिर् नियुक्तं श्रुतिस्मृतिविहितं वा कर्म कस्माद् अविहितं न कृतम् इति गुरूणां गुरुजनानां परिवादो भर्त्सनं तस्य आशङ्का तया गुरवो भर्त्सयन्तीति शङ्कया इत्यर्थः नम्राणि गात्राणि येषां ते तथा सन्तः गुरुषु जलसकाशस्थेषु सत्सु चिरम् अनवतरन्तःसन्तः, मुक्तो मार्गो यैस् ते तथा सन्तः, स्नानानन्तरं गुरूणाम् आगमनमार्गं मुक्तवा स्थिताः सन्त इत्यर्थः । तूष्णीं निर्वचनमतिष्ठन् ॥ ११ ॥

मन्दोपाकारिणी

विहितमिति ॥ प्रागेव अस्मत् प्रबोधात् पूर्वमेव, विनिद्रैर् विगता निद्रा येभ्यस् तैः प्रतिबुद्धैर् भवद्भिः । विहितम् अस्माभिर् नियुक्तं कार्यं कस्मात् कुतो ऽविहितं न कृतम् इति इत्थं गुरुपरिवादाशङ्कया गुरूणां परिवाद आक्षेपस् तस्य आशङ्कया गुरुर्मां भर्त्सयिष्यतीति शङ्कया इत्यर्थः ‘अवर्णाक्षेपनिर्वादपरिवादापवादवत्’ इत्यमरः । नम्रगात्रा नम्रं प्रह्वीभूतं गात्रं वपुर् येषां ते तथोक्तास्सन्तः गुरुषु जलसकाशस्थेषु जलस्य समीपे तिष्ठत्सु सत्सु स्वयं चिरं विलम्बं कृत्वा अनवतरन्तस् तीरान् जलं प्रति अगच्छन्तस्सन्तः । मुक्तमार्गा मुक्तस् त्यक्तः मार्गः स्नानं कृत्वा आगच्छतां गुरूणां वर्त्म यैस् ते तथोक्तास्सन्तः । श्रावका व्याख्यानश्रवणकर्तारः शिष्यास् तूष्णीं निर्व्यापारा अतिष्ठन् स्थिताः । ‘ष्ठा गतिनिवृत्तौ इति धातोर् लङ् परस्मैपदम्’ ॥ ११ ॥

विश्वास-प्रस्तुतिः - १२

विपुलहृदयपार्श्वे दीपदीप्तिप्रदीप्ते दरवरपरिपूर्णैर्वार्भिरर्घ्यादि दत्वा ।
यतिरतियतचेताश्चक्रिणोऽर्चानिकायात् कुसुमसमितिमग्रयामादरादुज्जहार ॥ १२ ॥

मूलम् - १२

विपुलहृदयपार्श्वे दीपदीप्तिप्रदीप्ते दरवरपरिपूर्णैर्वार्भिरर्घ्यादि दत्वा ।
यतिरतियतचेताश्चक्रिणोऽर्चानिकायात् कुसुमसमितिमग्रयामादरादुज्जहार ॥ १२ ॥

पदार्थदीपिकोद्बोधिका

विपुलेति ॥ अत्यन्तं यतं नियतम् अतियतं तादृशं चेतश् चित्तं यस्य स तथा यतिः कश्चिद्यतिः । दीपस्य दीप्तिः प्रकाशस् तेन प्रदीप्तः प्रकाशनशीलस् तस्मिन् । विपुलहृदयस्य श्रीपूर्णप्रज्ञस्य पार्श्वे सन्निधौ । दरवरः शङ्खश्रेष्ठस् तस्मिन् परिपूर्णानि तैर् वार्भिर् उदकैर् अर्ध्यम् आदिर् यस्य तद् अर्ध्यादि, अर्घ्यपाद्यादिकमित्यर्थः दत्वा, चक्रमस्यास्तीति चक्री श्रीकृष्णस् तस्य अर्चानां सालग्रामप्रतिमादीनां निकायः समूहस् तस्मात् । ‘अर्चा पूजाप्रतिमयोरि’ति यादवः । अग््य्रां कुसुमसमितिं पुष्पसमूहम् आदरो भक्तिस् तस्माद् उज्जहार उद्धृतवान् । निर्माल्यपुष्पविसर्जनमकरोदित्यर्थः ॥ १२ ॥

मन्दोपाकारिणी

विपुलेति ॥ अतियतचेता अतियतं निगृहीतं चेतो यस्य स तथोक्तः विरक्त इति भावः । यतिः कश्चित् संन्यासी दीपदीप्तिप्रदीप्ते दीपस्य दीप्त्या प्रकाशेन प्रदीप्ते प्रकाशिते अनेन अरुणोदयकाले इति ज्ञायते । विपुलहृदयपार्श्वे विपुलं पृथुलं पूर्णमिति यावत् हृदयं चित्तं यस्य सः विपुलहृदयः ‘विपुलः पृथुलेऽगाधे’ इति विश्वः । तस्य श्रीपूर्णप्रज्ञाचार्यस्य पार्श्वे सन्निधौ । दरवरपरिपूर्णैर् दरवरे पाञ्चजन्यश्रेष्ठे परिपूर्णैर् वार्भिर् अद्भिः ‘आपः स्त्री भूमि्न वार्वारि’ इत्यमरः । अर्ध्यादि अर्ध्यम् आदि यस्य तद् अर्ध्यादि अर्ध्यपाद्याचमनादि दत्वा देवाय प्रदाय चक्रिणश् चक्रं सुदर्शनसंज्ञं रथाङ्गम् अस्यास्तीति चक्री तस्य चक्रिणश् चक्रायुधधारिणो विष्णोः ‘चक्रं सैन्यरथाङ्गयोः’ इति विश्वः । अर्चानिकायाद् अर्चानां शालग्रामादिशिलाप्रतिमानां ‘अर्चा पूजाप्रतिमयोः’ इति विश्वः निकायात् समूहाद् अग्रयां श्रेष्ठां कुसुमसमितिं पुष्पाणां समूहं ‘सङ्घे सभायां समितिः’ इत्यमरः । आदराद् भक्त्या ‘अङ्गुष्ठतर्जन्यग्राभ्यां निर्माल्यमपनोदयेत्’ इत्युक्तप्रकारेण इति भावः । उज्जहार उद्धृतवान् निर्माल्यपुष्पविसर्जनम् अकरोद् इति भावः । ‘उत् पूर्वकात् हृञ् हरणे’ इति धातोर् लिट् परस्मैपदं जहार जह्रतुर् जह्रुः ॥ १२ ॥

विश्वास-प्रस्तुतिः - १३

अमृतमपि निरीक्ष्य स्रावि निर्माल्यसूने घृतमिदमिति सद्यो भ्रान्तिमन्तोऽपि शिष्याः ।
श्रदधुरधिकवाक्यैर्विभ्रमास्तच्च पश्चादनुदिनममृतान्नैस्तस्य सेव्यस्य शक्त्या ॥ १३ ॥

मूलम् - १३

अमृतमपि निरीक्ष्य स्रावि निर्माल्यसूने घृतमिदमिति सद्यो भ्रान्तिमन्तोऽपि शिष्याः ।
श्रदधुरधिकवाक्यैर्विभ्रमास्तच्च पश्चादनुदिनममृतान्नैस्तस्य सेव्यस्य शक्त्या ॥ १३ ॥

पदार्थदीपिकोद्बोधिका

अमृतमिति ॥ दिने दिनेऽनुदिनं नित्यश इत्यर्थः । अमृतमेवान्नं येषां ते तथा तैर् देवैः सेव्यस्य तस्य श्रीमध्वाचार्यस्य शक्त्या निर्माल्यसूने निर्माल्यपुष्पे स्रावि स्रुतममृतं निरीक्ष्यापि सद्यस् तदानीम् इदं घृतमिति भ्रान्तिमन्तोऽपि शिष्याः पश्चादुत्तरकालेऽधिकानाम् उत्तमानां वाक्यानि तैः श्रीमध्वमाहात्म्यविदां नेदम् आज्यं किन्तु अमृतम् इत्यादिवाक्यैरित्यर्थः । विगतो भ्रमो येभ्यस् ते विभ्रमाः सन्तस् तच् च अमृतम् एवेति च श्रद्धधुर् विश्वासम् अगच्छन् । ‘श्रदन्तरोरुपसर्गवद्वृत्तिर्वाच्ये’त्युक्तेः । श्रत् पूर्वाद् धाञ् धातोर् लुङ् । नैतद्धृतं किन्त्वमृतमेवेत्युत्तमानां वाक्यैर्विभ्रमाः सन्तो निर्माल्यपुष्पे घृतवत्स्निग्धतया अस्माभिर् दृष्टम् अमृतम् एवेति श्रद्दधुरिति भावः ॥ १३ ॥

मन्दोपाकारिणी

अमृतमिति ॥ अनुदिनं दिने दिने इति अनुदिनं प्रतिदिनम् अमृतान्नैर् अमृतम् अन्नं येषां ते अमृतान्ना देवास् तैः ‘अमर्त्या अमृतान्धसः’ इत्यमरः सेव्यस्य तस्य मध्वाचार्यस्य शक्त्या महिम्ना निर्माल्यसूने निर्माल्यं शालग्रामोपरि समर्पितं च तत् सूनं पुष्पं च निर्माल्यसूनं तस्मिन् ‘सूनं प्रसवपुष्पयोः’ इति विश्वः स्रावि स्नुतम् अमृतं सुधां निरीक्ष्यापि सद्यस् तदानीम् इदं घृतम् आज्यं ‘घृतमाज्यं हविः सर्पिः’ इत्यमर इति भ्रान्तिमन्तोऽपि शिष्याः पश्चात् तदुत्तरकाले अधिकवाक्यैर् अधिकानां स्वोत्तमानां श्रीमध्वमाहात्म्यविदाम् इति यावद् वाक्यैर् वचनैर् विभ्रमा विगतः भ्रमः भ्रान्तिर् येभ्यस् ते ‘भ्रान्तिर्मिथ्यामतिर्भ्रमः’ इत्यमरस् तच्च घृतत्वेन दृष्टम् अमृतमिति श्रद्दधुर् विश्वासं चक्रुः ‘श्रत्पूर्वकाड् डु धाञ् धारणपोषणयोर् इत्यतो लुङ् परस्मैपदं निर्माल्यविसर्जनसमये देवोपरि समर्पितपुष्पेषु मध्वाचार्यमहिम्ना परिस्रुतम् अमृतं घृतमिदम् इति भ्रान्त्या मन्यमाना जनाः पश्चान् मध्वाचार्यमाहात्म्यविदुषां जनानां ‘नेदं घृतं किन्तु अमृतमेव’ इति वाक्यं श्रुत्वा भ्रान्तिरहितास्सन्तः निर्माल्यपुष्पे घृतवत् स्निग्धतया अस्माभिर् यदेतद् दृष्टं तद् अमृतमेवेति विश्वासमगमन् इति भावः ॥ १३ ॥

विश्वास-प्रस्तुतिः - १४

अगमदुचितमंत्रैस्तूदयानां त्रयाणां कृतिभिरनुमतात्मा तत्र पञ्चाङ्गविद्भिः ।
उदयमहिमरोचिश्चक्रवर्ती त्रिशक्तिर्दधदतिबृहदन्तः षड्गुणं स्वात्मतेजः ॥ १४ ॥

मूलम् - १४

अगमदुचितमंत्रैस्तूदयानां त्रयाणां कृतिभिरनुमतात्मा तत्र पञ्चाङ्गविद्भिः ।
उदयमहिमरोचिश्चक्रवर्ती त्रिशक्तिर्दधदतिबृहदन्तः षड्गुणं स्वात्मतेजः ॥ १४ ॥

भावप्रकाशिका

अरुणोषस्सवितॄणामुदयास्त्रयः मित्रभूकोशानामुदयाश्च । मन्त्रा गायत्र्याद्या गोप्या व्यवहरणविशेषाश्च । हृदयशिरश्शिखाकवचास्त्राणि पञ्चाङ्गानि कर्मणामारम्भोपायः पुरुषद्रव्यसम्पद् विनिपातप्रतीकारो देशकालावेक्षणं कार्यसिद्धिरिति च । प्रकाशनतपनाह्लादनशक्तयस्तिस्र आह्लादनं वृष्ट्या उत्साहमन्त्रप्रभुत्वशक्तयश्च । स्वात्मतेजः स्वस्वामिनो विष्णोर्ज्योतिः सुष्ट्वात्मनः पराक्रमश्च । ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानविज्ञानयोश्चैव षण्णां भग इतीरणेति’ षड्गुणाः ‘सन्धिं च विग्रहं चैव यानमासनमेव च । द्वैधीभावं संश्रयं च षड्गुणान् कवयो विदुः’इति च ॥ १४ ॥

पदार्थदीपिकोद्बोधिका

अगमदिति ॥ उचितो मन्त्रो येषां ते तथा तैः पुरुषार्थहेतुतया जपोचितगायत्र्यादिमन्त्रयुक्तैरित्यर्थः । पञ्च च तानि अङ्गानि च पञ्चाङ्गानि तानि विदन्तीति पञ्चाङ्गविदस् तैः । हृदयशिरःशिखाकवचास्त्राख्यपञ्चाङ्गाभिज्ञैरित्यर्थः । त्रयाणाम् उदयानाम् अरुणोदयोषोदयसूर्योदय इति प्रसिद्धानां त्रयाणाम् उदयानाम् इत्यर्थः । अनुमत आत्मा स्वरूपं यस्य स तथोक्तः । उदयत्रयस्य सूर्यसञ्चारकालावधिनियतत्वाद् उदयस्य त्रयस्य सूर्योऽनुमतात्मा इत्यर्थः । चक्रवर्तिपक्षे तु उचितमन्त्रैर् मित्राद्युदयोचित-गोप्यव्यवहारयुक्तैः, पञ्चाङ्गविद्भिः ‘कर्मारम्भोचितोपायः पुरुषद्रव्यसम्पदः । विनिपात-प्रतीकारो देशकालावलोकनम् । कार्यसिद्धिरि’ति प्रोक्तानाम् अङ्गानां पञ्चकैरित्युक्त पञ्चाङ्गविद्भिरित्यर्थः । मन्त्रिभिस्त्रयाणामुदयानां मित्रोदय, भूम्युदय, कोशोदयाख्या-नामुदयानामनुमतात्मा संमतात्मेत्यर्थः । तिस्रः शक्तयो यस्य स तथोक्तः, प्रकाशनतापनाह्लादनाख्यशक्तित्रयोपेत इत्यर्थः । सूर्यस्याह्लादनं नाम वर्षणं ‘अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्टते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजा’ इति स्मृतिसिद्धञ्चैतत् । अर्थान्तरे तु– त्रिशक्तिरुत्साहशक्तिः प्रभुशक्तिर्मन्त्रशक्तिरिति शक्तित्रययुक्त इत्यर्थः । अन्तः स्वमण्डलान्तरत्यन्तं बृहत् पूर्णमतिबृहत् षड्गुणा यस्य तत् षड्गुणम् । ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणे’ति प्रसिद्धैश्वर्यादिषड्गुणयुतमित्यर्थः । स्वात्मा स्वामी श्रीविष्णुस्तस्य तेजः स्वात्मतेजो दधानः । अर्थान्तरे– सन्धिविग्रहयानासनद्वैधीभावसंश्रयलक्षणषड्गुणयुतं, स्वात्मतेजः स्वरूपसामर्थ्यं दधान इत्यर्थः । हिमानि शीतानि न भवन्तीत्यहिमान्युष्णानि तादृशानि रोचींषि दीप्तयो यस्य सोऽहिमरोचिः सूर्यः स एव चक्रवर्ती

महानृपः, तत्र तस्मिन् काल उदयमगमत् । महाराजो यथोदयं सम्पदं गच्छेत्तथा सूर्योऽप्युदयमगमदित्यर्थः ॥ १४ ॥

मन्दोपाकारिणी

अगमदिति ॥ तत्र तस्मिन् काले, अहिमरोचिश्चक्रवर्ती हिमं शीतलं न भवतीति अहिमम् उष्णम् इत्यर्थः ‘तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः’ इत्यमरो ऽहिमं रोचिः प्रकाशः यस्य सो ऽहिमरोचिः सूर्यः ‘रोचिः शोचिरुभे क्लीबे प्रकाशोद्योत आतपः’ इत्यमरो ऽहिमरोचिरेव चक्रवर्ती सार्वभौमो राजा ‘चक्रवर्ती सार्वभौमः’ इत्यमरः सूर्याख्यमहाराज उदयम् अगमत् प्राप्तवान् । यथा राजा अभ्युदयं गच्छेत् तथा सूर्योऽपि उदयम् अगमत् सूर्योदयो जात इति भावः । ‘गम्लृ गतौ’ इत्यतो लुङ् परस्मैपदम् अगमद् अगमताम् अगमन् । कथंभूतः ? सूर्य उचितमन्त्रैर् उचितः मन्त्रो येषां ते उचितमन्त्रास् तैः पुरुषार्थहेतुतया जपोचितगायत्र्यादिमन्त्रयुतैर् इत्यर्थः । पञ्चाङ्गविद्भिः पञ्च अङ्गानि हृदयादिपञ्चाङ्गानि विदन्तीति पञ्चाङ्गविदस् तैर् हृदयशिरःशिखाकवचास्त्राख्यानि गायत्रीमन्त्रन्यासे पञ्चाङ्गानि ज्ञेयानि । कृतिभिः कुशलैः ‘कृती कुशलः’ इत्यमरः विप्रादिभिर् ज्ञानिभिर् इत्यर्थः । त्रयाणाम् उदयानाम् अरुणोषःसूर्याख्यानाम् अनुमतात्मा अनुमतः संमत आत्मा स्वरूपं यस्य स तथोक्तो ऽरुणोदयानन्तरम् उषस उदयस् तदनन्तरं सूर्योदयस् तदनन्तरं सूर्यसञ्चार इत्येवम् उदयत्रयस्य सूर्यसञ्चारकालावधिनियतत्वात् सूर्योऽनुमतात्मा इत्यर्थः । पुनः कथंभूतः ? त्रिशक्तिस् तिस्रः शक्तयः यस्य पदार्थप्रकाशनतापनाह्लादनरूपास् तिस्रः सूर्यस्य शक्तयः प्रसिद्धाः । अन्तः स्वमण्डलमध्ये अतिबृहद् अतिपूर्णं षड्गुण• षड्गुणा एैश्वर्यादयः यस्य तत् तथोक्तम् । स्वात्मतेजः स्वस्य आत्मा अन्तर्यामी विष्णुस् तस्य तेजस् तेजोमयं रूपं दधद् दधानः । यथा चक्रवर्ती उचितमन्त्रैर् अभ्युदयोचितः मन्त्रः गोप्यव्यवहारो येषां ते तथोक्ताः ‘वेदभेदे गुप्तवादे मन्त्रः’ इत्यभिधानम् । पञ्चाङ्गविद्भिः पञ्चाङ्गज्ञानवद्भिः ‘कर्मारम्भोचितोपायः पुरुष-द्रव्यसम्पदः । विनिपातप्रतीकारो देशकालावलोकनं कार्यसिद्धिरिति प्रोक्तमङ्गानां पञ्चकं बुधैः’ । कृतिभिर् मन्त्रिभिस् त्रयाणां मन्त्रभूकोशाख्यानाम् उदयानाम् अनुमतात्मा संमतस्वरूपस् त्रिशक्तिः प्रभावमन्त्रोत्साहाख्यशक्तित्रयोपेतो ऽन्तः स्वदेशमध्ये अतिबृहद् अतिमहत् षड्गुणं सन्ध्यादिषड्गुणयुक्तं ‘संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड् गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः’ इत्यमरः । स्वात्मतेजः स्वरूपभूतं तेजः सामर्थ्यं दधद् अभ्युदयं प्राप्नुयात् तद्वद् अयं सूर्योऽपि उदयम् अगमद् इति भावः ॥ १४ ॥

विश्वास-प्रस्तुतिः - १५

तिमिरनिकरकुम्भिव्रातमत्यंततीव्रं स्थिरतरमखिलानां प्राणिनां रुद्धमार्गम् ।
भुवनभवनपूर्णं भानुमानञ्जनाभं हरिरिव नखरैः प्राग्रश्मिजालैर्निरास ॥ १५ ॥

मूलम् - १५

तिमिरनिकरकुम्भिव्रातमत्यंततीव्रं स्थिरतरमखिलानां प्राणिनां रुद्धमार्गम् ।
भुवनभवनपूर्णं भानुमानञ्जनाभं हरिरिव नखरैः प्राग्रश्मिजालैर्निरास ॥ १५ ॥

पदार्थदीपिकोद्बोधिका

तिमिरेति ॥ भानवः किरणा अस्य सन्तीति भानुमान् सूर्यः । अत्यन्तं तीव्रो दुस्सहोऽत्यन्ततीव्रस्तम् । अत्यन्तं स्थिरः स्थिरतरस् तं भानुतेजोविनान्येनानपोह्यमिति यावत् । अखिलानां प्राणिनां रुद्धो मार्गो येन स तथोक्तस् तं सर्वेषां प्राणिनां मार्गमावृत्य वर्तमानमिति यावत् । भुवनमेव भवनं गृहं तस्मिन् पूर्णं व्याप्तम् । अञ्जनवद् आभा शोभा यस्य सोऽञ्जनाभस् तं नीलवर्णमिति यावत् । तिमिरनिकरोऽन्धकारसमूहः स एव कुम्भिव्रातो गजसमूहस् तम् । प्राक् स्वमण्डलाविर्भावात् पूर्वमेव रश्मिजालानि रश्मिसमूहास् तैर् हरिः सिंहो नखरैर् नखैर् अत्यन्ततीव्रं स्थिरतरम् अखिलानां प्राणिनां रुद्धमार्गं भुवनपूर्णम् अञ्जनाभं कुम्भिव्रातम् इव निरास निराकरोत् ॥१५॥

मन्दोपाकारिणी

तिमिरेति ॥ भानुमान् भानवः किरणा अस्य सन्तीति भानुमान् सूर्यः ‘भानुः किरणसूर्ययोः’ इति विश्वः । अत्यन्ततीव्रम् अतिदुःसहं स्थिरतरं सूर्यप्रकाशं विना अन्येन अनिवारणीयम् अखिलानां प्राणिनां चेतनानां ‘प्राणी तु चेतनो जन्मी’ इत्यमरः । रुद्धमार्गं निरुद्धः मार्गः पन्था येन स तथोक्तस् तं गमनादिप्रवृत्तिप्रतिबन्धकम् इत्यर्थः । भुवनभवनपूर्णं भुवनं जगदेव भवनं मन्दिरं तस्मिन् पूर्णं व्याप्तम् अञ्जनाभम् अञ्जनवद् अञ्जनपर्वतवद् आभा नीलकान्तिर् यस्य स तथोक्तस् तम् । तिमिरनिकरकुम्भिव्रातं तिमिराणाम् अन्धकाराणां निकरः समूहः ‘अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः’ इत्यमरः कुम्भः गण्डस्थलम् एषाम् अस्तीति कुम्भिनः गजाः ‘कुम्भौ घटेऽथ मूर्धांशौ’ इत्यमरः कुम्भिनां व्रातः स्तोमः ‘स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः’ इत्यमरस् तिमिरनिकर एव कुम्भिव्रातस् तम् । प्राक् स्वमण्डलाविर्भावात् पूर्वमेव रश्मिजालैः रश्मीनां किरणानां ‘किरणप्रग्रहौ रश्मी’ इत्यमरः जालैः समूहैः ‘जालं समूह आनायः’ इत्यभिधानम् । हरिः सिंह इव नखरैर् नखैर् निरास निराकृतवान् । उक्तविशेषणं कुम्भिव्रातं गजसमूहं सिंहः यथा निराकरोति तद्वदिति भावः । ‘इव वद्वा यथा

शब्दा उपमानार्थवाचकाः’ इति दण्डी । ‘निर् आङ् पूर्वात्’ अस भुवि

इत्यतो लिट् परस्मैपदम् ॥ १५ ॥

विश्वास-प्रस्तुतिः - १६

मधुरपतगरावाः शान्तनैशाम्बुबाष्पाः सपदि विपुलरागाः स्वाभिसारात्प्रसन्नाः ।
अरुणतरणिरत्यच्छाम्बरा दिक्पुरन्ध्रीः स्मितसरसिजवक्त्राः स्वैः करैरालिलिङ्गे ॥१६॥

मूलम् - १६

मधुरपतगरावाः शान्तनैशाम्बुबाष्पाः सपदि विपुलरागाः स्वाभिसारात्प्रसन्नाः ।
अरुणतरणिरत्यच्छाम्बरा दिक्पुरन्ध्रीः स्मितसरसिजवक्त्राः स्वैः करैरालिलिङ्गे ॥१६॥

पदार्थदीपिकोद्बोधिका

मधुरेति ॥ अरुणतरणिर् उद्यदादित्यः स्वैः स्वकीयैः ‘स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धन’ इत्यमरः करैः रश्मिभिः । मधुराः श्रोत्रप्रिया पतगरावा विहङ्गकूजितानि, यासां दिशां तास् तथोक्ताः । मध्वोऽपि मधुरपतगराव इव मनोहरशुकपिकादिध्वनिर् इव रावो ध्वनिर् यासां तास् तथोक्ताः । निशा सम्बन्धीनि नैशानि तादृशानि यान्यम्बूनि जलानि हिमाम्बूनीत्यर्थः । तान्येव बाष्पाः शान्ता नैशाम्बुबाष्पा यासां तास् तथोक्ताः । स्त्रियोऽपि प्रियदर्शनानन्तरं शान्तप्रियविरह-रवेदोत्पन्नबाष्पाः सपदि उद्यद्रविसम्पर्कसमय एव विपुलो बहुलो रागः सान्ध्यरक्तिमा यासां तास् तथोक्ताः । स्त्रियश्च प्रियतमाभिसरणादेवाभिव्यक्तविपुलस्नेहाः । स्वाभिसारः स्वेषां सूर्यकिरणानाम् अभिसारो व्याप्तिस् तस्मात् प्रसन्ना शान्ततुषारतया प्रसन्ना इत्यर्थः । स्त्रियः स्वकीयप्रियतमाभिगमनात्प्रसन्ना शान्तकोपाः । अत्यच्छम् अतिनिर्मलम् अम्बरम् आकाशो यासां तास् तथोक्ताः । स्त्रियश्च अतिनिर्मलवसनाः । स्मितसरसिजान्येव विकसितपद्मान्येव वक्त्राणि यासां तास् तथोक्ताः । स्त्रियश्च स्मितसरसिजाभवदनाः । दिक्पुरन्ध्रीर् दिश एव पुरन्ध््य्रः स्त्रियस् ता आलिलिङ्गे । लिगि गतौ लिट् । कश्चित् तरुणः स्ववधूर् इव इति श्लेषाभिप्रायः ॥ १६ ॥

मन्दोपाकारिणी

मधुरेति ॥ अरुणतरणिर् अरुणः लोहितश्चासौ तरणिः सूर्यश्च ‘द्युमणिस्तरणिर्मित्रः’ इत्यमर उद्यदादित्य इत्यर्थः । दिक्पुरन्ध्रीर् दिश एव पुरन्ध््य्रः भार्यास् ताः ‘पुरन्ध्री सुचरित्रा च’ इत्यमरः । स्वैः स्वकीयैः ‘स्वो ज्ञातावात्मनि स्वं त्रिषु’ इत्यमरः । करैः किरणाख्यहस्तैः ‘वलिहस्तांशवः कराः’ इत्यमरः । आलिलिङ्गे परिरेभे ‘लिगि गतौ’ इत्यतो लिडात्मनेपदं लिलिङ्गे लिलिङ्गाते लिलिङ्गिरे । कथंभूता दिक्पुरन्ध्रीः, मधुरपतगरवा मधुराः श्रोत्रेन्द्रियप्रियाः पतगानां पक्षिणां ‘पतत्रिपत्त्रिपत-गपतत्पत्त्ररथाण्डजाः’ इत्यमरः रावाः कूजितानि यासां तास् तथोक्ताः पुरन्ध््य्रोऽपि मधुरपतगरावा मधुरः श्राव्यः पतगवत् कोकिलपक्षिवद् रावः वचनं यासां तास् तथोक्ताः । शान्तनैशाम्बुबाष्पा निशायां भवं नैशं नैशं च तद् अम्बु तुषारोदकं च नैशाम्बु नैशाम्ब्वेव बाष्पं नैशाम्बुबाष्पं शान्तं नष्टं नैशाम्बुबाष्पं यासां तास् तथा । रात्रौ सर्वदिशि पतितं हिमं सूर्योदये सति नश्यतीति प्रसिद्धम् । स्त्रियोऽपि पतिदर्शनानन्तरं शान्तं नैशाम्बुसदृशं बाष्पं प्रियविरहजखेदोत्पन्नं नेत्राम्बु यासां तास् तथा सपदि सद्य उद्यदादित्यसम्पर्कसमय एव विपुलरागा विपुलः बहुलः रागः रक्तिमकान्तिर् यासां ताः । स्त्रियोऽपि सपदि प्रियतमदर्शनादेव अभिव्यक्तः विपुलः रागो ऽनुरागः स्नेहः यासां तास् तथोक्ताः । ‘रागोऽनुरागे मात्सर्ये लाक्षादौ रक्तिमत्विषोः’ इति रत्नमाला । स्वाभिसारात् स्वेषां स्वकीयानां किरणानाम् अभिसारात् प्रसाराद् व्यापनात् प्रसन्नाः शान्ततुषारतया निर्मलाः । स्त्रियश्च स्वकीयकान्तस्य अभिसाराद् अभिमर्शनात् प्रसन्नाः शान्तकोपा अत्यच्छाम्बरा अति अत्यन्तम् अच्छं निर्मलम् अम्बरम् आकाशं यासां तास् तथोक्ताः । स्त्रियोऽपि अतिनिर्मलम् अम्बरं वसनं यासां तास् तथोक्ताः । स्मितसरसिजवक्त्राः स्मितानि विकसितानि सरसिजानि कमलान्येव वक्त्राणि मुखानि यासां तास् तथोक्ताः । स्त्रियश्च कमलसदृशमुखा उदितसूर्यस्य किरणाः सर्वदिक्षु प्रसारिता इति भावः ॥ १६ ॥

विश्वास-प्रस्तुतिः - १७

प्रणतिरभसधूलीबद्धशोभाविशेषा दधुरुपकृतिमत्तां साधुजालान्तराप्ताः ।
समयमुपनतं संवेदयन्तो वयस्या इव दशशतकेतोः केतवः श्रावकाणाम् ॥ १७ ॥

मूलम् - १७

प्रणतिरभसधूलीबद्धशोभाविशेषा दधुरुपकृतिमत्तां साधुजालान्तराप्ताः ।
समयमुपनतं संवेदयन्तो वयस्या इव दशशतकेतोः केतवः श्रावकाणाम् ॥ १७ ॥

भावप्रकाशिका

भद्रजालरन्ध्रगताः सज्जनसमूहमध्यादागताश्च ॥ १७ ॥

पदार्थदीपिकोद्बोधिका

प्रणतीति ॥ प्रणतेः सान्ध्यसूर्यनमस्कारस्य रभसो वेगस् तस्माद् उत्पन्ना या धूल्यस् ताभिर् बद्ध उत्पादितः शोभाविशेषः कान्तिविशेषो यैस् ते प्रणतिरभसधूलीबद्धशोभाविशेषाः । वयस्याश्च नमस्कारसम्भ्रमेणाङ्गलग्नधूलीकान्तिविशेषाः । साधु भद्रं यज् जालं गवाक्षस् तस्यान्तरं रन्ध्रमध्यं तेन आप्ता अन्तरागता इत्यर्थः । वयस्याश्च साधुजालान्तराप्ताः सज्जनसमूहमध्याद् आगताः । समयं शास्त्रश्रवणसमयमुपनतं प्राप्तं संवेदयन्तो ज्ञापयन्तः । गवाक्षमध्यादागतं सूर्यकिरणं दृष्ट्वा श्रावकाः श्रवणमननोद्यता आसन् इत्यर्थः । वयस्याश्च अन्योन्यं श्रवणकालं ज्ञापयन्ति । दश च तानि शतानि च दशशतानि केतवः किरणा यस्य स तथा तस्य सूर्यस्य इत्यर्थः । केतवो रश्मयः वयस्या इव सहपाठिन इव श्रावकाणां श्रोतॄणां शिष्याणाम् उपकृतिर् उपकारो येषाम् अस्तीति उपकृतिमन्तस् तेषां भावस् तत्ता तां दधुः । स्वयं श्रोतॄणाम् उपकारं कृत्वा आत्मनाम् उमुपकाराख्यधर्मवत्तां दधुर् इत्यर्थः ॥ १७ ॥

मन्दोपाकारिणी

प्रणतीति ॥ दशशतकेतोर् दशशतं सहस्रं केतवः किरणा यस्य स तथोक्तः । तस्य सूर्यस्य केतवः किरणाः सर्वदिक्षु श्रावकाणां व्याख्यानश्रोतॄणां शिष्याणाम् उपकृतिमत्ताम् उपकृतिर् उपकार एषाम् अस्तीति उपकृतिमन्त उपकृतिमतां भाव उपकृतिमत्ता ताम् । दधुर् धृतवन्तः । स्वयं श्रोतॄणाम् उपकारं कृत्वा आत्मनाम् उपकाराख्यधर्मवत्तां दधुर् इत्यर्थः । के इव वयस्या इव समानवयस्का इव ‘वयस्यः सवयाः स्निग्धः’ इत्यमरः । सहश्रोतार इवेति यावत् । कथंभूताः केतवः, प्रणतिरभसधूलीबद्ध-शोभाविशेषाः प्रणतेर् नमस्कारस्य रभसेन सम्भ्रमेण वेगेन वा ‘रभसो हर्षवेगयोः’ इति विश्व उत्पन्नाभिर् धूलीभिर् बद्धः सम्बद्ध उत्पादितः शोभाविशेषः कान्तिविशेषो येषां ते तथोक्ताः । श्रोतृभिः संभ्रमेण वेगेन च नमस्कारे कृते सति उत्पन्नभूमिरेणुसम्बन्धेन रश्मिषु कान्तिविशेष उत्पन्नोऽभूद् इत्यर्थः । वयस्याश्च प्रणतिरभसेन नमस्कारसम्भ्रमेण धूलीभिर् अङ्गलग्नधूलीभिर् बद्धः जनितः शोभाविशेषो येषां ते तथोक्ताः । शिष्याणामपि नमस्कारेण धूलिसम्बद्धदेहकान्तिविशेषोऽभूद् इत्यर्थः । पुनः कथंभूताः साधुजालान्तराप्ताः साधूनि रम्याणि च तानि जालानि गवाक्षाश्च साधुजालानि साधुजालानाम् अन्तरेण रन्ध्रमध्येन आप्ता आगताः । वयस्याश्च साधूनां सज्जनानां जालस्य समूहस्य अन्तरं मध्यम् आप्ताः प्राप्ताः । पुनः कथंभूताः समयं शास्त्रश्रवणकालम् उपनतं प्राप्तं संवेदयन्तः ज्ञापयन्तः । गवाक्षमध्याद् आगतान् सूर्यकिरणान् दृष्ट्वा श्रावकाः श्रवणायोद्यता आसन् इत्यर्थः । वयस्याश्च अन्योन्यं श्रवणकालं ज्ञापयन्ति हि । गवाक्षाद् अन्तः प्रविष्टाः सूर्यकिरणाः श्रावकनमस्कारोत्पन्नधूलिसम्बन्धेन शोभाविशेषप्राप्तिलक्षणोपकारवन्तः सन्तः स्वयमपि श्रावकाणां श्रवणसमयज्ञापनलक्षणम् उपकारं कृत्वा प्रत्युपकारिणो बभूवुर् इति भावः । अनेन अरुणोदये स्नानादिकं कृत्वा गृहान्तर्जपमनुतिष्ठन्तः शिष्या गवाक्षमध्याद् आगतसूर्यरश्मीन् दृष्ट्वा श्रवणसमयोऽयम् इति ज्ञात्वा श्रवणाय उद्यमं चक्रुर्

इति भावः ॥ १७ ॥

विश्वास-प्रस्तुतिः - १८

निहितमुचितमुच्चं योगपीठं प्रवक्तुः परिषदि परितोऽमी सत्वराः सत्वभाजः ।
द्रुतमवसितकृत्यैर्धन्यसन्यासिसङ्घैः श्रवणपरमकृत्यायोपतस्थुः समेताः ॥ १८ ॥

मूलम् - १८

निहितमुचितमुच्चं योगपीठं प्रवक्तुः परिषदि परितोऽमी सत्वराः सत्वभाजः ।
द्रुतमवसितकृत्यैर्धन्यसन्यासिसङ्घैः श्रवणपरमकृत्यायोपतस्थुः समेताः ॥ १८ ॥

पदार्थदीपिकोद्बोधिका

निहितमिति ॥ त्वरया वेगेन सहिताः सत्वराः । सत्वं सात्विकगुणं भजन्तीति सत्वभाजः सात्विका बलिन इति वा । स्वविहितकर्मक्षमाबलवन्त इत्यर्थः । अमी श्रोतारो द्रुतं शीघ्रं यथा भवति तथा अवसितं समापितं कृत्यं जपादिकृत्यं यैस् ते तथोक्तास् तैः । धन्या ये सन्यासिनस् तेषां वर्गाः समूहास् तैः समेताः सन्तः परिषदि व्याख्यामण्डपे निहितं निक्षिप्तम् उचितं श्रीमध्वाचार्योचितम् उच्चम् उत्तमम् उन्नतं वा । प्रवक्तुर् व्याख्यातुः श्रीमध्वाचार्यस्य योगपीठं योगासनं परितः योगासनस्य समन्ताद् इत्यर्थः । ‘अभितः परित’ इति द्वितीया । श्रवणम् एव परमकृत्यम् उत्तमव्यापारस् तस्मै । उपतस्थुर् उपासांचक्रिरे ॥ १८ ॥

मन्दोपाकारिणी

निहितमिति ॥ सत्वरास् त्वरया वेगेन सहिताः । सत्वभाजः सत्वं सत्वगुणं भजन्तीति सत्वभाजः सात्विका इत्यर्थः । अमी श्रावका द्रुतं शीघ्रम् अवसितकृत्यैर् अवसितानि समापितानि कृत्यानि स्नानजपादिविहितकर्माणि यैस् ते अवसितकृत्यास् तैः । धन्यसन्यासिसङ्घैर् धन्यानां श्रेष्ठानां सन्यासिनां सङ्घैः समूहैः समेताः सहिताः सन्तः परिषदि सभायां व्याख्यानमण्डपे निहितम् आस्तृतम् उचितं श्रीमध्वाचार्यस्य उचितम् उच्चम् उन्नतं प्रवक्तुर् व्याख्यातुः श्रीमध्वाचार्यस्य योगपीठं परितः योगासनस्य समन्ततः ‘विष्टरः पीठमासनं’ इत्यमरः ‘समन्ततस्तु परितः सर्वतो विष्वगित्यपि’ इत्यमरः । श्रवणपरमकृत्याय श्रवणं व्याख्यानश्रवणं तच्च तत् परमकृत्यं च उत्तमप्रयोजनं च तस्मै । उपतस्थुर् उपासिरे । व्याख्यातुः समन्ताद् उपविष्टा इति भावः । योगपीठं परित इत्यत्र ‘अभितः परितः समया निकषा हा प्रतियोगेऽपि’ इति द्वितीया । ‘उपपूर्वात् ष्ठा गतिनिवृत्तौ इति धातोर् लिट् परस्मैपदं तस्थौ तस्थतुस् तस्थुः’ ॥ १८ ॥

बभुरमलगुणानां शोभनाच्छादनानां मुररिपुनिलयानां हन्त वेदान्तकीनाम् ।
सपदि सुविवृतानामन्तरर्था धियां वा विविधकवलिकानां सञ्चयाः पत्रिकाणाम्
॥ १९

पदार्थदीपिकोद्बोधिका

बभुरिति ॥ अमला निर्मला गुणाः सूत्राणि यासां तास् तथा तासाम् । शोभनानि आच्छादनानि वासांसि यासां तासाम् । मुररिपोः श्रीकृष्णस्य निलयाः सान्निध्यायतनभूतास् तेषाम् । निलयशब्दो नित्यपुल्लिङ्गः । वेदान्तानां वेदान्तशास्त्राणां सम्बन्धिन्यो वैदान्तिकास् तासाम् । सपदि तदानीमेव सुविवृतानां वस्त्रादि आवरणशून्यानां विविधा नानाविधा याः कवलिका अन्तःपत्रिका यासां तासां पत्रिकाणां पत्राणां सञ्चयाः समूहाः, अमलगुणानां निर्दोषज्ञानभक्तयादिगुणयुक्तानां शोभनाच्छादनानाम् अयोग्येषु भगवत्स्वरूपनिगूहनयुक्तानां मुररिपुनिलयानां मुररिपोर् आवासभूतहृत्सरोजानां वैदान्तिकानां वेदान्तशास्त्रसम्बन्धयुक्तानां तद्विचारनिरतानाम् इत्यर्थः । सपदि सद्गुरूपदेशमात्रेणैव सुविवृतानां निरस्ताज्ञानाद्यावरणानां सतामन्तोऽन्तःकरणे धियां बुद्धीनाम् अर्था वा विषया इव । सताम् अन्तःकरणे तेषां बुद्धिविषया भगवत्स्वरूपादयो यथा तथा बभुः रेजिर इति भावः ॥ १९ ॥

मन्दोपाकारिणी

बभुरिति ॥ विविधकवलिकानां विविधाः कवलिका यासां तास् तथोक्तास् तासां पुस्तकस्थापनार्थं कृतकटविशेषः कवलिकेत्युच्यत इति सम्प्रदायः । पत्रिकाणां तालपत्राणां सञ्चयाः सम्पुटानि बभुः शुशुभिरे हन्त । कथंभूतानां पत्रिकाणां, अमलगुणानाम् अमलः निर्मलः गुणः बन्धनसूत्रं यासां तास् तथोक्तास् तासाम् । शोभनाच्छादनानां शोभनानि मनोहराणि आच्छादनानि पुस्तकसंवेष्टिवस्त्राणि यासां तास् तथोक्ताः ‘वस्त्रमाच्छादनं वासः’ इत्यमरः । मुररिपुनिलयानां मुररिपोः श्रीकृष्णस्य निलयानाम् आश्रयाणां तत्र भगवान् प्रतिपाद्यत्वेन सन्निहितो वर्तते इति भावः । वेदान्तकीनां वेदान्तानां सम्बन्धिन्यः वेदान्तक्यस् तासां लिखितवेदान्तशास्त्राणाम् इति यावत् । सपदि श्रवणकाले सुविवृतानाम् आच्छादनाभावेन प्रकटानाम् । का इव, अन्तो ऽन्तःकरणे धियां बुद्धीनाम् अर्था वा विषया भगवत्स्वरूपादयो यथा बभुस् तथा इत्यर्थः । कथंभूतानां धियाम् अमलगुणानाम् अमला निर्दोषा गुणा ज्ञानभक्त्यादयो यासु तास् तासाम् । शोभनाच्छादनानां शोभनस्य भगवत्स्वरूपस्य आच्छादनानाम् अयोग्येषु गूहनयुक्तानां मुररिपुनिलयानां मुररिपोर् हरेर् निलयानाम् आवासभूतहृदयवतां तादृशान्तःकरणजन्यानाम् इत्यर्थः । वेदान्तकीनां वेदान्तशास्त्रसम्बन्धिनीनां वेदान्तविचारनिरतानाम् इत्यर्थः । सपदि गुरूपदेशमात्रेणैव सुविवृतानां सु सम्यक् वि निरस्तं वृतम् आवरणम् अज्ञानाख्यं यासां तासाम् । ‘भा दीप्तौ’ इत्यतो लिट् परस्मैपदं बभौ बभतुर् बभुः ॥ १९ ॥

विश्वास-प्रस्तुतिः - २०

अनतिविरलभावा अप्यनन्योन्यसङ्गा ऋजुतरततनानापङ्क्तिसाम्याप्तशोभाः ।
द्विरदतुरगदेश्या दूरतो वर्जितान्ताः कुशललिखितरूपा रेजिरे तेषु वर्णाः ॥ २० ॥

मूलम् - २०

अनतिविरलभावा अप्यनन्योन्यसङ्गा ऋजुतरततनानापङ्क्तिसाम्याप्तशोभाः ।
द्विरदतुरगदेश्या दूरतो वर्जितान्ताः कुशललिखितरूपा रेजिरे तेषु वर्णाः ॥ २० ॥

भावप्रकाशिका

तुरगदेश्यास्तुरङ्गकल्पा ‘ईषदसमाप्तौ कल्पब्देश्यदेशीयर’

इति ॥ २० ॥

पदार्थदीपिकोद्बोधिका

अनतीति ॥ अत्यन्तं विरलभावो अतिविरलभावः न विद्यते अतिविरलभावो येषां ते तथा । अन्योन्यं परस्परं सङ्गो अन्योन्यसङ्गः न विद्यते अन्योन्यसङ्गो येषां ते तथा परस्परासंस्पृष्टा इत्यर्थः । ऋजुतरा अवक्रास् ताश् च ता तता व्याप्ताश् च ता या नानापङ्क्तयस् तासां साम्यम् आद्यन्तयोर्न्यूनाधिक्यराहित्यं तेन सम्प्राप्ता शोभा कान्तिर् यैस् ते तथोक्ताः । द्विरदा गजास् तुरगा अश्वास् तेषां देश्याः सदृशा द्विरदतुरगदेश्या अश्वगजलिपिनामका इति भावः । ‘ईषदसमाप्तौ कल्पप्देश्यदेशीयर’ इति सादृश्यार्थे देश्यप्रत्ययः । दूरतो दूरादेव वर्जिता अन्ता यैस्ते तथोक्ताः, तत्राद्यन्तयोः पार्श्वयोर् नाभिद्वयस्य चतुर्दिक्षु च दूरतो वर्जितप्रान्ता इत्यर्थः । एवंभूतत्वादेव कुशलैर् लेखनकर्मणि चतुरैर् लिखितानि स्वरूपाणि येषां ते तथा तेषु पत्रिकाणां सञ्चयेषु वर्णा अक्षराणि रेजिरे ॥ २० ॥

मन्दोपाकारिणी

अनतीति ॥ तेषु पत्रिकाणां सञ्चयेषु वर्णा अक्षराणि रेजिरे शुशुभिरे ‘राजृ दीप्तौ’ इत्यतो लिट् आत्मनेपदं रेजे रेजाते रेजिरे । ‘वर्णो द्विजादौ शुक्लादौ यशोगुणकथासु च । अक्षरे गुणभेदे च स्वर्णे यज्ञे विलेपने’ इति विश्वः । कथंभूता अनतिविरलभावा अतिव्यवधानरहिता अपि समीपस्था अपि अनन्योन्यसङ्गाः परस्परम् असंस्पृष्टा इत्यर्थः । ऋजुतरततनानापङ्क्तिसाम्याप्तशोभा ऋजुतरा अत्यन्तऋजव ऋजुतराणां ततानां दीर्घाणां नानानां वह्नीनां पङ्क्तीनां श्रेणीनां साम्येन समत्वेन आप्ता प्राप्ता शोभा यैस्ते तथोक्ताः । पत्रेषु लिखितवर्णानां पङ्क्तय ऋजुतरा दीर्घा बह्व्यः समानाकारा एव सन्ति । तेन च वर्णाः सम्यक् शोभन्ते इत्यर्थः । द्विरदतुरगदेश्या द्विरदा गजास् तुरगा अश्वास् तेषां तदाकाराणां देश्याः सदृशा अश्वाकारगजाकारलिपय इत्यर्थः । सादृश्यार्थे देश्यप्रत्ययः । दूरतः दूरे वर्जितान्ता वर्जिताः परित्यक्ता अन्ताः प्रान्ता यैस् ते तथोक्तास् तत्राद्यन्तयोस् तत्पार्श्वयोश्चेति चतुर्दिक्ष्वपि प्रान्तभागेषु न लिखिता इत्यर्थः । ‘अन्तर्मध्ये तथा प्रान्ते’ इति विश्वः । एवंभूतत्वादेव कुशललिखितरूपाः कुशलैर् लेखनकर्मणि चतुरैः पुरुषैर् लिखितं रूपं येषां ते तथोक्ताः ॥ २० ॥

विश्वास-प्रस्तुतिः - २१

खटिति ददृशुरेके वाचनीयादिभागं परिचयपटुताभ्यां तावदेके चिरेण ।
हरिगुरुनमनं द्राग्यत्नतोऽमी विधाय प्रययुरपरसाम्यं सिद्धये स्याद्धि यत्नः ॥ २१ ॥

मूलम् - २१

खटिति ददृशुरेके वाचनीयादिभागं परिचयपटुताभ्यां तावदेके चिरेण ।
हरिगुरुनमनं द्राग्यत्नतोऽमी विधाय प्रययुरपरसाम्यं सिद्धये स्याद्धि यत्नः ॥ २१ ॥

पदार्थदीपिकोद्बोधिका

सपदीति ॥ एके केचन श्रोतरो वाचनीयस्य तदानीं श्रोतव्यत्वेन वाचनीयस्य ग्रन्थस्य आदिभागम् आदिवाक्यं, परिचयो ग्रन्थविषयकपरिचयः पटुता चातुर्यं ताभ्यां सपदि खटिति ददृशुः । तावत् तदा एके चिरेण शनैर् ददृशुः । तावत्परिचयपटुताभावादिति भावः । तथापि अमी चिरेण वाचनीयादिभागं ये ददृशुस् ते यत्नतः प्रयत्नविशेषात् हरिगुरुनमनं द्राक् विधायापरसाम्यं सपदि दृष्टवतां तेषां साम्यम् । नमनविषये साम्यं वा प्रययुः । तथा हि यत्नो देशकालोचितप्रयत्नः सिद्धये स्याद्धि । अत्रार्थान्तरन्यासालङ्कारः ॥ २१ ॥

मन्दोपाकारिणी

खटितीति ॥ एके केचन श्रोतारः । वाचनीयादिभागं श्रवणोपक्रमणकाले श्रोतव्यत्वेन वाचनीयस्य ग्रन्थस्य आदिम् आदिमं भागं वाक्यरूपैक-देशम् । परिचयपटुताभ्यां ग्रन्थविषयश्रवणमननादिरूपपरिचयो ऽभ्यासश्च पटुता चातुर्यं वाचनशक्तिरिति यावत् ताभ्यां निमित्ताभ्यां खटिति सपदि ददृशुर् दृष्टवन्तः । तावत् तदा एके अन्ये ‘एके मुख्यान्यकेवलाः’ इत्यमरः । चिरेण विलम्बेन ददृशुस् तावत्परिचय-पटुताऽभावाद् इति भावः । ‘दृशिर् प्रेक्षणे’ इति धातोर् लिट् परस्मैपदम् । तथापि अमी विलम्बेन द्रष्टारः यत्नतः यत्नविशेषात् हरिगुरुनमनं हरेर् गुरोश्च नमनं नमस्कारं द्राक् शीघ्रं विधाय कृत्वा, अपरसाम्यम् अपरेषां खटिति दृष्टवतां साम्यं प्रययुः । वाचनीयादिभागदर्शने साम्यसम्पादनासमर्थत्वान् नमस्कारं कृत्वा, तत्र साम्यं प्रापुर् इति भावः । यद्वा विलम्बेन द्रष्टारः शीघ्रद्रष्ट्रपेक्षया पूर्वमेव महोद्योगेन नमनं कृत्वा वाचनीयादिभागज्ञानं सम्पाद्य वाचनविषये साम्यं प्रापुर् इत्यर्थः । तद्युक्तं हि यत्नः देशकालोचितप्रयत्नः

सिद्धये अभीष्टसिद्धये स्याद्धि तत्तत्कार्योचिते प्रयत्ने कृते किं कार्यं न सिद्ध्येत् सर्वं सिध्येदेव इति भावः ॥ २१ ॥

विश्वास-प्रस्तुतिः - २२

यतवचसि जनेऽस्मिन्नानते सन्निरस्यन् सिचययवनिकां तां सान्ध्यजीमूतरक्ताम् ।
रविरिव रविपूज्याङ्घ्रिः समाजान्तरिक्षे व्यलसदतिशयालुः सन् सहस्रप्रकाशः ॥ २२ ॥

मूलम् - २२

यतवचसि जनेऽस्मिन्नानते सन्निरस्यन् सिचययवनिकां तां सान्ध्यजीमूतरक्ताम् ।
रविरिव रविपूज्याङ्घ्रिः समाजान्तरिक्षे व्यलसदतिशयालुः सन् सहस्रप्रकाशः ॥ २२ ॥

पदार्थदीपिकोद्बोधिका

यतेति ॥ आनते कृतनमस्कारे अस्मिन् जने श्रोतृजने यतं नियतं वचो यस्य स यतवचास् तस्मिन् इति मौनवति सति इत्यर्थः । सन्ध्यायां भवः सान्ध्यः स च असौ जीमूतो मेघश्च तद्वद्रक्तां रक्तवर्णां प्राक् स्थापितां सिचयात्मिका वस्त्रात्मिका च सा यवनिका च सिचययवनिका ताम् । ‘वस्त्रं सिचयः पटः प्रोक्त’ इति हलः । सन्निरस्यन् अपास्यन् । रविपूज्यावंघ्री यस्य स तथा । अत एवातिशयालुः स्वगुणैः सूर्यम् अतिशयिष्णुः सन् सहस्रं प्रकाशा यस्य स तथोक्तः श्रीपूर्णप्रज्ञः । समाजो व्याख्यानसभा स एव अन्तरिक्षं तस्मिन् रविरिव व्यलसत् शुशुभे । अस्मिन् जने सन्ध्यानुष्ठानं कुर्वति जने यतवचसि सति सहस्रप्रकाशः सहस्रकिरणः सूर्यः सान्ध्यजीमूताख्यां यवनिकामपास्यन्नभसि यथा शोभां भजेत्तद्वदित्यभिप्रायः ॥ २२ ॥

मन्दोपाकारिणी

यतेति ॥ आनते कृतनमस्कारे अस्मिन् जने श्रोतृजने यतवचसि यतः नियतं निगृहीतं वचः वचनं येन स तथोक्तस् तस्मिन् । मौनेन वर्तमाने सति सांध्यजीमूतरक्तां सांध्यः संध्याकालीनश्चासौ जीमूतः मेघश्च तद्वद् रक्तां लोहितवर्णां ‘घनजीमूतमुदिरजलमुग्धूमयोनयः’ इत्यमरस् तां समाधिकाले कृतां सिचयवनिकां सिचा वस्त्रात्मिका च सा यवनिका तिरस्करिणी च ‘प्रतिसीरा यवनिका स्यात् तिरस्करिणी च सा’ इत्यमरः । सन्निरस्यन् अपास्यन् रविपूज्याङ्घ्रिः रविणा सूर्येण पूज्यै अङ्घ्री चरणौ यस्य स तथोक्तः । अत एव अतिशयालुः स्वगुणैः सूर्यम् अतिशयिष्णुस्सन् सहस्रप्रकाशः सहस्रम् अनन्तं प्रकाशो ज्ञानं यस्य स तथोक्तः श्रीपूर्णप्रज्ञाचार्यः समाजान्तरिक्षे समाजः व्याख्यानसभैव अन्तरिक्षं गगनं तस्मिन् रविरिव व्यलसत् शुशुभे । ‘विपूर्वाद् लस विकासे’ इति धातोर् लङ् परस्मैपदम् । यतवचसि अस्मिन् संध्यानुष्ठानं कुर्वति जने विप्रादिजने आनते स्थिते सति । विप्रादिजने प्रातः संध्याम् अनुष्ठाय मौनेन नमस्कारं कृत्वा वर्तमाने सतीति यावत् । सहस्रप्रकाशः सहस्ररश्मिः रविः सूर्यः सांध्यजीमूताख्यरक्तवर्णयवनिकां मेघाख्यावरणम् अपास्यन् आकाशे यथा शोभते तथा इत्यभिप्रायः ॥ २२ ॥

विश्वास-प्रस्तुतिः - २३

त्रिभुवनवरतेजोव्यक्तवेदार्थशुक्लत्रितयरसतया ये वर्णिता वर्णवर्याः ।
पृथुमतिरथ तेषामैक्यमापाद्य सम्यक् प्रवचनपरिशुद्ध््यै् स्म प्रणौति प्रवीणः ॥ २३ ॥

मूलम् - २३

त्रिभुवनवरतेजोव्यक्तवेदार्थशुक्लत्रितयरसतया ये वर्णिता वर्णवर्याः ।
पृथुमतिरथ तेषामैक्यमापाद्य सम्यक् प्रवचनपरिशुद्ध््यै् स्म प्रणौति प्रवीणः ॥ २३ ॥

भावप्रकाशिका

‘स इमान् लोकानसृजत पृथिवीमन्तरिक्षं दिवं तान् लोकानभ्यत-पत्ते(पंस्ते)भ्योऽभितप्तेभ्यस्त्रीणि ज्योतींष्यजायन्ताग्निरेव पृथिव्या अजायत वायुरन्तरि-क्षादादित्यो दिवस्तानि ज्योतींष्यभ्यतपत्ते(पंस्ते)भ्योऽभितप्तेभ्यस्त्रयो वेदा अजायन्त ऋग्वेद एवाग्नेरजायत यजुर्वेदो वायोः सामवेद आदित्यात्तान् वेदानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रीणि शुक्लान्यजायन्त भूरित्येव ऋग्वेदादजायत भुवरिति यजुर्वेदात् स्वरिति सामवेदात्तानि शुक्लान्यभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयो वर्णा अजायन्त अकार उकारो मकार इति । तानेकधा समभरत्तदेतदोमिती’त्यादिश्रुत्या वर्णिता ऐतयब्राह्मणपञ्चमखण्डिकाप्रतिपादितप्रणवप्रकारो द्रष्टव्यः ॥ २३ ॥

पदार्थदीपिकोद्बोधिका

त्रिभुवनेति ॥ अथ प्रवीणः पृथुमतिः श्रीपूर्णप्रज्ञः ये वर्णवर्या आकारोकारमकाराख्यवर्णश्रेष्ठास् त्रयाणां भुवनानां समाहारस् त्रिभुवनं तस्मिन् वराणि उत्तमानि यानि तेजांसि अग्निवायुसूर्यलक्षणानि तेभ्यो व्यक्ता ये वेदा ऋग्यजुः- सामवेदास् तेषाम् अर्थो अर्थभूतं यच्छुक्लत्रितयं भूर्भुवःस्वरिति व्याहृतित्रयं तस्य रसः सारस् तस्य भावस् तत्ता तया वर्णिता श्रुता युक्ताः । तेषां वर्णवर्याणां सम्यगैक्यमानुपूर्व्येण नैरन्तर्यलक्षणं श्लेषमापाद्य सम्पाद्य वचनस्य व्याख्यानस्य परिशुद्धिर् निर्दोषत्वं तस्यै प्रणौति स्म प्रणवोच्चारणम् अकरोत् । श्रुतिश्च ‘स इमान् लोकान् असृजत पृथिवीमन्तरिक्षं दिवं तान् लोकानभ्यतपत् तेभ्योऽभिप्तेभ्यस् त्रीणि ज्योतींषि अजायन्त अग्निरेव पृथिव्या अजायत । वायुरन्तरिक्षादादित्यो दिवस्तानि ज्योतींषि अभ्यतपत्तेभ्योऽभितप्तेभ्यस् त्रयो वेदा अजायन्त । ऋग्वेद एव अग्नेरजायत । यजुर्वेदो वायोः सामवेद आदित्यात् तान् वेदान् अभ्यतपत्, तेभ्योऽभितप्तेभ्यस् त्रीणि शुक्लान्यजायन्त । भूरित्येव ऋग्वेदादजायत । भुवरिति यजुर्वेदात् । स्वरिति सामवेदात् तानि शुक्लान्यभ्यतपत् तेभ्योऽभितप्तेभ्यस् त्रयो वर्णा अजायन्त । अकार उकारो मकार इति । तानेकधा समभरत् तदेतत् ॐ इति’ इत्यादि ऐतरेयब्राह्मणपञ्चमखण्डिकाप्रतिपादितप्रणवप्रकारो द्रष्टव्यः ॥ २३ ॥

मन्दोपाकारिणी

त्रिभुवनेति ॥ प्रवीणः प्रवचननिपुणः ‘प्रवीणे निपुणाभि-ज्ञविज्ञनिष्णातशिक्षिताः’ इत्यमरः । पृथुमतिः श्रीपूर्णप्रज्ञाचार्यः प्रवचनपरिशुद्धयै प्रवचनस्य व्याख्यानस्य परिशुद्धयै निर्दोषत्वाय प्रणौति स्म प्रणवोच्चारणं कृतवान् ‘प्रपूर्वान् नु स्तुतौ’ इति धातोर् लट् परस्मैपदं नौति नुतः नुवन्ति किं कृत्वा तेषां वर्णानां सम्यक् आनुपूर्व्येण एैक्यं नैरन्तर्यलक्षणसंश्लेषम् आपाद्य, केषां वर्णानां, ये वर्णवर्या अक्षरश्रेष्ठा अकारोकारम-काराख्याः । त्रिभुवनवरतेजोव्यक्तवेदार्थशुक्लत्रितयरसतया अत्र त्रिशब्दः भुवनतेजोवेदशब्दैः प्रत्येकं सम्बध्यते सरूपाणाम् इत्येकशेष एवं च त्रीणि च तानि भुवनानि पृथिव्यन्तरिक्षदिवः संज्ञानि त्रिभुवनानि तेभ्यः वराणि सारत्वेन व्यक्तानि च तानि तेजांसि त्रीणि ज्योतींषि च अग्निवाय्वादित्याख्यानि तेभ्यो व्यक्ताः सारत्वेन अभिव्यक्ताश्च ते वेदा ऋग्वेदयजुर्वेद-सामवेदाख्यास्त्रयो वेदाश्च तेभ्यो ऽर्था अभिधेयरूपाणि व्यक्तानीति यावत् । शुक्लानि भूर्भुवस्वरिति व्याहृतयस् तेषां त्रितयं त्रयं तस्माद् रसतया सारतया वर्णिताः श्रुतौ उक्तास् त्रिभुवनेषु त्रीणि ज्योतींषि साराणि तेषु त्रिष्वपि त्रयो वेदाः सारास् तेष्वपि त्रिषु तिस्रो व्याहृतयः सारास् तास्वपि तिसृषु त्रयो वर्णा अकारोकारमकाराख्याः सारा इति श्रुतौ प्रतिपादिता इत्यर्थः । तेषाम् इति सम्बन्धः । श्रुतिस्तु ‘स इमान् लोकान् असृजत पृथिवीमन्तरिक्षं दिवं तान् लोकानभ्यतपत् तेभ्योऽभितप्तेभ्यस् त्रीणि ज्योतींषि अजायन्त अग्निरेव पृथिव्या अजायत वायुरन्तरिक्षादादित्यो दिवस्तानि ज्योतींषि अभ्यतपत् तेभ्योऽभितप्तेभ्यस् त्रयो वेदा अजायन्त ऋग्वेद एवाग्नेर् अजायत यजुर्वेदो वायोः सामवेद आदित्यात् । तान् वेदान् अभ्यतपत् तेभ्योऽभितप्तेभ्यस् त्रीणि शुक्लाणि अजायन्त भूरित्येव ऋग्वेदादजायत भुवरिति यजुर्वेदात् स्वरिति सामवेदात् तानि शुक्लाणि अभ्यतपत् तेभ्योऽभितप्तेभ्यस् त्रयो वर्णा अजायन्त अकार उकार मकार इति तानेकधा समभरत् तदेतद् ओम् इति’ ॥ २३ ॥

विश्वास-प्रस्तुतिः - २४

स्वरमचरमकाले मन्द्रमेवात्यजद्भिः स्फुटमुपनिषदन्ते वाचकैर्वाच्यमाने ।
प्रवचनमतिचित्रं प्राणभाजां श्रुतीनाम् अमृतममृतभावस्यैष हेतुं चकार ॥ २४ ॥

मूलम् - २४

स्वरमचरमकाले मन्द्रमेवात्यजद्भिः स्फुटमुपनिषदन्ते वाचकैर्वाच्यमाने ।
प्रवचनमतिचित्रं प्राणभाजां श्रुतीनाम् अमृतममृतभावस्यैष हेतुं चकार ॥ २४ ॥

पदार्थदीपिकोद्बोधिका

स्वरमिति ॥ चरमकाल उपसंहारकालः स न भवति इति अचरमकाल उपक्रमकाल इत्यर्थस् तस्मिन् । मन्द्रो मन्दः स्वरस् तम् अत्यजद्भिः । उपक्रमकाले उच्चैर्ध्वनेर् निषिद्धत्वाद् अङ्गीकृतमन्द्रस्वरैरित्यर्थः । मन्द्रस्वरम् अत्यजद्भिर् वाचकैः, उपनिषदाम् अन्तो निर्णयो यस्मात् स उपनिषदन्तस् तस्मिन् ग्रन्थे । उपनिषद्भाष्ये वा वेदान्तशास्त्रविषयग्रन्थान्तरे वेत्यर्थः । वाचकैः स्फुटं वाच्यमाने सति मन्द्रं वाचयद्भिरपि स्फुटं वाच्यमाने सति इत्यर्थः । एष श्रीमध्वः प्राणभाजां जीवानां श्रुतीनां कर्णानाम् अमृतम् अमृतायमानं, अमृतभावो मुक्तत्वं तस्य हेतुम् अतिचित्रं प्रवचनं व्याख्यानं चकार ॥ २४ ॥

मन्दोपाकारिणी

स्वरमिति ॥ अचरमकाले चरमो ऽन्तिमः न भवतीति अचरमो ऽचरमश्चासौ कालश्च अचरमकालस् तस्मिन् उपक्रमकाले इत्यर्थः । मन्द्रमेव स्वरम् उपांशुध्वनिम् अत्यजद्भिः स्वीकृतवद्भिर् उच्चैर्ध्वनेर् निषिद्धत्वाद् अङ्गीकृतमन्द्रस्वरैर् इत्यर्थः । वाचकैः पुस्तकं वाचयद्भिः शिष्यैर् उपनिषदन्ते उपनिषदाम् अन्तः निर्णयः यस्मात् तद् उपनिषदन्तम् । उपनिषद्वाष्यादिग्रन्थस् तस्मिन् ‘अन्तोऽस्त्री निर्णये नाशे स्वरूपाग्रयेतरेतरः’ इति भास्करः । स्फुटं स्पष्टं वाच्यमाने मन्द्रध्वनिना वाचयद्भिरपि इतरेषाम् अर्थबोधो यथा भवेत् तथा स्फुटं वाच्यमाने सति इत्यर्थः । एषः श्रीमध्वाचार्यः प्राणभाजां प्राणान् इन्द्रियाणि भजन्तीति प्राणभाजस् तेषां श्रोत्रादीन्द्रियपाटववताम् इत्यर्थः । जीवानां श्रुतीनां श्रवणेन्द्रियाणाम् अमृतम् अमृतसदृशं सुखकरम् इत्यर्थः । अमृतभावस्य अमृतत्वस्य मुक्तत्वस्य मोक्षस्येति यावत् । हेतुं कारणम् अतिचित्रं प्रवचनं वाचितग्रन्थव्याख्यानं चकार ॥ २४ ॥

विश्वास-प्रस्तुतिः - २५

धनमिव सधनायेभ्योऽर्कसूनुः प्रसन्नः शरशतमिव पार्थः संयुगार्थिभ्य उग्रः ।
अरतिविरहितः सोऽनारतं नोऽदिशन्नो प्रतिवचनमदीनं चोदकेभ्योऽखिलेभ्यः ॥ २५ ॥

मूलम् - २५

धनमिव सधनायेभ्योऽर्कसूनुः प्रसन्नः शरशतमिव पार्थः संयुगार्थिभ्य उग्रः ।
अरतिविरहितः सोऽनारतं नोऽदिशन्नो प्रतिवचनमदीनं चोदकेभ्योऽखिलेभ्यः ॥ २५ ॥

पदार्थदीपिकोद्बोधिका

धनमिति ॥ अरतिविरहितस् तन्द्रारहितः स श्रीमध्वः । चोदकेभ्यो ये मत्सरवर्जिताः सन्तस् तत्त्वज्ञानबुभुत्सया चोदयन्ति तेभ्यस् तत्सन्तोषकरं प्रत्युत्तरं प्रसन्नः सन्, धनाया धनतृष्णा तया सहिताः सधनायास्तेभ्यो धनार्थिभ्य इत्यर्थः । अर्कसूनुः कर्णो धनमिव, अथ ये समत्सरा जिगीषया चोदयन्ति तेभ्यस् तन्निराकरण-चतुराणि प्रत्युत्तराणि उग्रः, शत्रुभयङ्करः पार्थोऽर्जुनः संयुगार्थिभ्यो युद्धार्थिभ्यः शत्रुभ्यः शरशतमिवाखिलेभ्यः पृच्छकेभ्योऽदीनमतिप्रौढं प्रतिवचनं प्रत्युत्तरम् अनारतं सर्वदा नो अदिशदिति नो न प्रददातीति नो । अदिशदेवेत्यर्थः ॥ २५ ॥

मन्दोपाकारिणी

धनमिति ॥ अरतिविरहितो ऽरत्या आलस्येन विरहितः वर्जितः । सः श्रीमध्वाचार्यः । अखिलेभ्यश् चोदकेभ्यः पृच्छद्भ्यः सन्तुष्टस्सन् अदीनम् अतिप्रौढं प्रतिवचनं प्रत्युत्तरं ‘प्रतिवाक्योत्तरे समे’ इत्यमरो ऽनारतम् अविच्छेदेन नोऽदिशन्नो न प्रददौ इति नो अदिशद् एव इत्यर्थः । ये मत्सरवर्जितास्सन्तस् तत्वबुभुत्सया पृच्छन्ति तान् प्रति तत्सन्तुष्टिकरं प्रत्युत्तरं प्रसन्नो भूत्वा दिदेश इति भावः । कः कस्मै किमिव, अर्कसूनुः सूर्यपुत्रः कर्णः ‘विकर्तनार्कमार्तण्डमिहिरारुणपूषणः’ इत्यमरः सधनायेभ्यः धनाया धनतृष्णा तया सहिताः सधनाया धनकांक्षावन्तस् तेभ्यः धनं द्रव्यम् इव, ये तु मत्सराज् जिगीषया चोदयन्ति तेभ्यस् तन्निराकरणे शरान् उग्रः क्रूरस्सन् दिदेश तत्कथमिव उग्रः पार्थः संयुगार्थिभ्यः संयुगं युद्धम् अर्थिभ्य इच्छद्भ्यः शत्रुभ्यः शरशतमिव

बाणशतमिव ‘सम्प्रहाराभिसम्पातकलिसस्फोटसंयुगाः’ इत्यमरः । ‘दिश अतिसर्जने’

लङ् परस्मैपदम् ॥ २५ ॥

विश्वास-प्रस्तुतिः - २६

अथ दशशतशोचिष्याप्रयाति प्रतीच्याः प्रवचनमवसाय्य स्नातुमायात् तटाकम् ।
पृथुमतिरिह तावच्छ्रेष्ठसंसर्गलोलैः समगमि सपदि स्वर्निम्नगाद्यैः सुतीर्थैः ॥२६॥

मूलम् - २६

अथ दशशतशोचिष्याप्रयाति प्रतीच्याः प्रवचनमवसाय्य स्नातुमायात् तटाकम् ।
पृथुमतिरिह तावच्छ्रेष्ठसंसर्गलोलैः समगमि सपदि स्वर्निम्नगाद्यैः सुतीर्थैः ॥२६॥

पदार्थदीपिकोद्बोधिका

अथेति ॥ दश च तानि शतानि च दशशतानि तावन्ति रोचींषि यस्य तस्मिन् सहस्ररश्मौ सूर्य इत्यर्थः । प्रतीच्याः पश्चिमत आ ईषत् प्रतियाति सति मध्याह्नानन्तरमेवेति यावत् । पृथुमतिः श्रीमध्वः प्रवचनं व्याख्यानम् अवसाय्य समाप्य स्नातुं यावद् यदा तटाकम् आयाज् जगाम तावत् तदा श्रेष्ठस्य उत्तमस्य मध्वस्य यः संसर्गः सम्बन्धस् तस्मिल्लोलानि लोलुपानि तैः स्वः स्वर्गस्य निम्नगा गङ्गा आद्या येषां तानि स्वर्निम्नगाद्यानि तैः, तीर्थैस् तटाकं सपदि खटिति समगमि समागतम् । गङ्गादितीर्थानि तटाके मिलितानि इत्यर्थः ॥ २६ ॥

मन्दोपाकारिणी

अथेति ॥ दशशतशोचिषि दशशतं सहस्रं शोचींषि रश्मयः यस्य सः दशशतशोचिः सूर्यस् तस्मिन् । प्रतीच्याः पश्चिमदिशो ऽभिमुखम् इति शेषः पश्चिमाभिमुखम् इत्यर्थः । आ ईषत् प्रयाति सति गच्छति सति मध्याह्नानन्तरम् इति भावः । पृथुमतिः श्रीपूर्णप्रज्ञाचार्यः प्रवचनं व्याख्यानम् अवसाय्य समाप्य स्नातुं माध्याह्निकस्नानं कर्तुं यदा तटाकं प्रति सरोवरं प्रति आयाद् अगच्छत् ‘या प्रापणे’ इति धातोर् लङ् परस्मैपदम् आयाद् आयाताम् आयन् । तावत् तदा श्रेष्ठसंसर्गलोलैः श्रेष्ठस्य उत्तमस्य श्रीमध्वाचार्यस्य संसर्गे सम्बन्धविषये लोलैः सतृष्णैः ‘लोलः सतृष्णचलयोः’ इति भास्करः स्वर्निम्नगाद्यैः स्वः स्वर्गस्य निम्नगा नदी भागीरथी आद्या येषां तानि स्वर्निम्नगाद्यानि तैः सुतीर्थैः शोभनैस् तीर्थैस् तीर्थाभिमानिदेवैर् इह तटाके सपदि खटिति समगमि समागतम् । श्रीमध्वाचार्य-स्नानवेलायां मध्वाचार्यसङ्गत्यपेक्षया गङ्गादिसर्वतीर्थानि तटाके मिलितानि अभूवन्

इति भावः ॥ २६ ॥

विश्वास-प्रस्तुतिः - २७

घनरसनिकरोऽसावन्तरत्यन्तशुद्धो मुनिगण इव भूयः स्नेहवान् प्राग्दधानः ।
प्रतिकृतिमखिलज्ञस्यापरोक्ष्येण तावत् स्फुटमलभत रूपं मज्जने सज्जनेष्टम् ॥ २७ ॥

मूलम् - २७

घनरसनिकरोऽसावन्तरत्यन्तशुद्धो मुनिगण इव भूयः स्नेहवान् प्राग्दधानः ।
प्रतिकृतिमखिलज्ञस्यापरोक्ष्येण तावत् स्फुटमलभत रूपं मज्जने सज्जनेष्टम् ॥ २७ ॥

पदार्थदीपिकोद्बोधिका

घनेति ॥ अन्तो अन्तर्भागे अत्यन्तशुद्वः कर्दमादिशुद्धः भूयो बहुलो यः स्नेहः स्नेहाख्याम्भसो गुणो भूयः स्नेहः सोऽस्यास्तीति तथोक्तोऽसौ घनरसनिकरो जलसमूहः । ‘नीरक्षीराम्बुशम्बरम् । मेघपुष्पं घनरस’ इत्यमरः । प्राक् मज्जनात् पूर्वं, अखिलज्ञस्य तटाकसमीपवर्तिनः श्रीमध्वस्य प्रतिकृतिं प्रतिबिम्बं दधानः सन् तावत् तदा मज्जनम् अवगाहनं तस्मिन् मज्जनसमय इत्यर्थः । सज्जनेष्टं सज्जनप्रियं रूपं श्रीमध्वाचार्यरूपं स्फुटं सम्यक् आपरोक्ष्यम् अपरोक्षत्वं तेन मुनिगण इव मुनिसमूह इव अलभत प्राप । भूयः स्नेहवशाद् बहुलभक्तिमदन्तःकरणे अत्यन्तं शुद्धो अज्ञानादिदोषरहितः प्राक् ध्यानयोगपरिपाकात्पूर्वं प्रतिकृतिं ध्यानकाले मनसि प्रतीयमानभगवत्प्रतिबिम्बम् अन्ते अन्तःकरणे दधानो मुनिगणः पश्चाद् ध्यानयोगपरिपाकानन्तरं तत्स्वरूपमेव यथा सम्यगापरोक्ष्येण पश्येत्तद्वदिति भावः । तटाकसमीपवर्तिनः श्रीमध्वाचार्यस्य प्रतिबिम्बं दधानो जलसमूहः पश्चान् मज्जनसमये स्वरूपमेव अपरोक्ष्येण प्राप इत्यर्थः ॥ २७ ॥

मन्दोपाकारिणी

घनेति ॥ अन्तः जलान्तः जलमध्ये । अत्यन्तशुद्धः कर्दमादि-रहितः भूयः स्नेहवान् भूरिद्रवत्वधर्मवान् असौ घनरसनिकरः घनरसानाम् अम्भसां निकरः समूहः ‘मेघपुष्पं घनरस’ इत्यमरः । प्राक् मज्जनात् पूर्वम् अखिलज्ञस्य अखिलं सर्वं जानातीति अखिलज्ञस् तस्य पूर्णप्रज्ञाचार्यस्य प्रतिकृतिं प्रतिच्छायां दधानस्सन् तावत् तदा मञ्जने अवगाहनसमये सज्जनेष्टं सज्जनानाम् इष्टं प्रियं रूपं मध्वाचार्यस्य रूपम् आकारं स्फुटं सम्यक् आपरोक्ष्येण प्रत्यक्षतो ऽलभत प्राप्तवान् । स्नानार्थं गच्छतस् तटाकतीरवर्तिनः श्रीमध्वाचार्यस्य जले प्रतिफलितं प्रतिबिम्बं दधानः जलसमूहः पश्चान् मज्जनसमये स्वरूपमेव सम्यक् प्रत्यक्षेण प्राप इति भावः । क इव भूयः स्नेहवान् बहुभक्तिमान् मुनिगणः मुनीनां ध्यानं कुर्वताम् ऋषीणां गणः समूह इव । मुनिगणोऽपि अन्तो ऽन्तःकरणे अत्यन्तशुद्धो ऽज्ञानादिदोषरहितस्सन् प्राक् ध्यानयोगपरिपाकात्पूर्वम् अखिलज्ञस्य भगवतः ध्यानकाले मनसि प्रतीयमानं वासनामयं प्रतिबिम्बं दधानः ध्यानपरिपाकानन्तरं भगवत्स्वरूपमेव यथा सम्यक् अपरोक्षेण पश्येत् तद्वद् इति भावः ॥ २७ ॥

विश्वास-प्रस्तुतिः - २८

अपरिमितमनीषस्योल्लसच्छङ्खबाहो रथचरणिशिलानां तन्वतोऽत्राभिषेकम् ।
प्रतितनव उदारास्तास्वलं सन्निधातुस्तनव इव विरेजुः पाञ्चजन्यप्रियस्य ॥ २८ ॥

मूलम् - २८

अपरिमितमनीषस्योल्लसच्छङ्खबाहो रथचरणिशिलानां तन्वतोऽत्राभिषेकम् ।
प्रतितनव उदारास्तास्वलं सन्निधातुस्तनव इव विरेजुः पाञ्चजन्यप्रियस्य ॥ २८ ॥

पदार्थदीपिकोद्बोधिका

अपरिमितेति ॥ अत्र तटाके रथचरणश् चक्रम् अस्यास्तीति रथचरणी श्रीहरिस् तस्य शिलास् तासाम् । यद्वा रथचरणाश् चक्राण्यासु सन्तीति रथचरण्यस् ताश्च ताः शिलाश्च तासामिति । सालग्रामशिलानाम् इति यावत् । अभिषेकम् अभिषेचनं तन्वतः कुर्वतः, उल्लसत् शङ्खो बाहौ यस्य स तथोक्तस् तस्य । अपरिमिता मनीषा यस्य स तथा तस्य उदाराः समीचीनाः प्रतितनवः प्रतिबिम्बास् तासु चक्रिशिलास्वलं सम्यक् सन्निधातुः सन्निधानं कुर्वतः, पाञ्चजन्यः प्रियो यस्य स तथा तस्य श्रीहरेस् तनव इव स्वरूपाणीव तासु चक्रिशिलासु विरेजुः ॥ २८ ॥

मन्दोपाकारिणी

अपरिमितेति ॥ अत्र तटाके रथचरणिशिलानां रथचरणं चक्रम् आसाम् अस्तीति रथचरण्यस् ताश्च ताः शिलाश्च रथचरणिशिलास् तासां शालग्रामशिलानाम् इति यावत् । अभिषेकं तन्वतः कुर्वत उल्लसच्छङ्खबाहोर् उल्लसत् शुभ्रत्वेन शोभमानः शङ्खः बाहौ दक्षिणकरे यस्य स तथोक्तस् तस्य । अपरिमितमनीषस्य अपरिमिता मनीषा बुद्धिर् यस्य स तथोक्तस् तस्य श्रीमध्वाचार्यस्य ‘बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः’ इत्यमर उदारा उत्कृष्टाः सुरूपा इत्यर्थः । प्रतितनवः प्रतिबिम्बास् तासु शालग्रामशिलासु विरेजुः शुशुभिरे । का इव, तासु शालग्रामशिलासु अलम् अत्यन्तं सन्निधातुः सन्निधानं कुर्वतः पाञ्चजन्यप्रियस्य पाञ्चजन्यः शङ्खः प्रियः यस्य सस् तस्य शङ्खपाणिन इति यावत् । हरेस् तनव इव रूपाणीव । स्नात्वा तीरे उपविश्य शङ्खं दक्षिणपाणिना गृहीत्वा तीर्थार्थं शालग्रामशिलाभिषेककरणवेलायां स्वच्छत्वेन शालिग्रामशिलासु प्रतिफलिता हस्तधृत-शङ्खस्य मध्वाचार्यस्य आकाराः शालग्रामशिलासन्निहितस्य शङ्खपाणेर् हरेः रूपाणीव रेजिरे इति भावः ॥ २८ ॥

विश्वास-प्रस्तुतिः - २९

अभिदधति मुनीन्द्रा द्वादशाब्दोपवासप्रतिमफलमलं यत्सेवनं भक्तियुक्तम् ।
अधिकममरनद्याद्याप्लवाद्धन्यमान्यादपिबदलवबोधो विष्णुपादोदकं तत् ॥ २९ ॥

मूलम् - २९

अभिदधति मुनीन्द्रा द्वादशाब्दोपवासप्रतिमफलमलं यत्सेवनं भक्तियुक्तम् ।
अधिकममरनद्याद्याप्लवाद्धन्यमान्यादपिबदलवबोधो विष्णुपादोदकं तत् ॥ २९ ॥

भावप्रकाशिका

त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः । समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः ॥ षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी । द्वादशाब्दोपवासस्य विष्णुपादोदसेवनम् । यानि कानि च तीर्थानि ब्रह्माण्डान्तर्गतानि च । विष्णुपादोदकस्यैते कलां नार्हन्ति षोडशीमित्यभिदधति ॥ २९ ॥

पदार्थदीपिकोद्बोधिका

अभीति ॥ मुनीन्द्रा भक्तया युक्तं सहितं यथा भवति तथा भक्तियुक्तं यस्य श्रीविष्णुपादोदकस्य सेवनं यत्सेवनम् अलं सम्यक्, द्वादश च ते अब्दाश्च तेषु उपवासस् तेन प्रतिमं समानं द्वादशाब्दोपवासप्रतिमं तादृशं फलं यस्य तत्तथोक्तम् अभिदधति वदन्ति । पुनः कथंभूतमित्यत आह– धन्येति । धन्यमान्यान् महद्भिर् मान्याद् अमरनदी गङ्गा आद्यः यासां तास्वाप्लवात् स्नानादधिकम् अधिकफलं चाभिदधति । अलवबोधः पूर्णप्रज्ञाचार्यस् तदेवं महाफलं विष्णुपादोदकं सालिग्रामाभिषेकतीर्थम् इत्यर्थो ऽपिबत् स्वीकृतवान् विष्णुपादोदकस्योक्तफलवत्वञ्च । ‘त्रिरात्रफलदा नद्यो याः काश्चिदसमुद्रगाः । समुद्रगास्तु पक्षस्य मासस्य सरितां पतिः । षण्मासफलदा गोदा वत्सरस्य तु जाह्नवी । द्वादशाब्दोपवासस्य विष्णुपादोदसेवनम्’ इति प्रमाणसिद्धम् ॥ २९ ॥

मन्दोपाकारिणी

अभिदधतीति ॥ मुनीन्द्रा मुनिश्रेष्ठाः । भक्तियुक्तं भक्त्या युक्तं यथा भवति तथा भक्तिपूर्वकं यत्सेवनं यस्य श्रीविष्णुपादोदकस्य शालग्रामतीर्थस्य सेवनं पानरूपभजनम् अलं सम्यक् विधिपूर्वकं द्वादशाब्दोपवासप्रतिमफलं द्वादश अब्दा वत्सरा यस्य सः द्वादशाब्दः स चासौ उपवासो ऽनशनरूपव्रतविशेषश्च द्वादशाब्दोपवासस्य प्रतिमं सदृशं फलं यस्य तद् द्वादशाब्दोपवासप्रतिमफलम् अभिदधति द्वादशाब्दोपवासव्रते कृते सति यावत् फलं भवति तावत् फलं विष्णुपादोदकपाने कृते सति भवति इति वदन्तीति भावः । तथा धन्यमान्याद् धन्यैर् महद्भिर् मान्याद् आदरणीयाद् अमरनद्याद्याप्लवाद् अमरनदी देवनदी गङ्गा सैव आदिर् येषां तानि अमरनद्यादीनि अमरनद्यादिषु तीर्थेषु आप्लवात् स्नानाद् अधिकम् अधिकफलम् अभिदधति ‘आप्लवः स्नानं’ इत्यमरः । अलवबोधो ऽलवो ऽनल्पः बहुलः बोधो यस्य स तथोक्तः पूर्णप्रज्ञः । तद् एवं महाफलं विष्णुपादोदकं शालग्रामशिलाभिषेकतीर्थम् इत्यर्थो ऽपिबत् पानम् अकरोत् । ‘अभिपूर्वाड् डु धाञ् धारणपोषणयोर् इति धातोर् लट् परस्मैपदं दधाति धत्तः दधति’ । ‘पा पाने’ इत्यतो लङ् परस्मैपदम् । विष्णुपादोदकस्य उक्तफलत्वं च ‘त्रिरात्रफलदा नद्यः- द्वादशाब्दोपवासस्य विष्णुपादोदकसेवनम् इत्यादिवाक्यात् सिद्धम् ॥ २९ ॥

विश्वास-प्रस्तुतिः - ३०

तरणिभिरिव गौरैरूर्ध्वपुण्डर्ै्रर्द्विषड्भिः सदरपरमचक्रोदीर्णतेजा हरीष्टः ।
मुररिपुविमुखानां दुःसहो देहभाजां लयसमय इवान्यो मान्यधीराबभासे ॥ ३० ॥

मूलम् - ३०

तरणिभिरिव गौरैरूर्ध्वपुण्डर्ै्रर्द्विषड्भिः सदरपरमचक्रोदीर्णतेजा हरीष्टः ।
मुररिपुविमुखानां दुःसहो देहभाजां लयसमय इवान्यो मान्यधीराबभासे ॥ ३० ॥

भावप्रकाशिका

सन्तोऽरा अस्येति सदरम् ॥ ३० ॥

पदार्थदीपिकोद्बोधिका

तरणिभिरिति ॥ दरेण शङ्खेन सहितं सदरं तादृशं यत्परमचक्रम् उत्तमसुदर्शनं तेनोदीर्णं प्रवृद्धं तेजो यस्य स तथा शङ्खचक्रलाञ्छनेन प्रवृद्धकान्तिविशेष इत्यर्थः । हरेर् इष्टः हरीष्टः । मुररिपुविमुखानां भगवद्विमुखानां दुष्टानां देहभाजां प्राणिनां दुःसहोऽसह्योऽत्यप्रिय इत्यर्थः । मान्यधीः श्रीपूर्णप्रज्ञाचार्यस् तरणिभिरिव सूर्यैरिव गौरैः शुभ्रैर् द्वौ च ते षट् च तैर् द्वादशभिर् इत्यर्थः । उर्ध्वानि च तानि पुण्ड्राणि च तैः । ‘चित्रकमुक्तं विशेषकं पुण्ड्रमि’ति हलः । अन्यो अपरो लयसमय इव प्रलयस्य कालः स इव आबभासे । सोऽपि द्विषड्भिः सूर्यैः सहितः प्रलयकाले द्वादशादित्यानां युगपद् उदयात् । सदरपरमचक्रोदीर्णतेजाः शोभनारयुक्तहरिचक्रेण प्रवृद्धतेजा इत्यर्थः । लयसमयोऽपि संहाराङ्गत्वात् हरीष्टः । मुररिपुविमुखानां देहभाजां दुःसहश्च, तेषां तमः प्राप्तिनिमित्तत्वात् । हरिद्वेषपरिपाकवन्तो हि प्रलये तमः प्रविशन्ति ॥ ३० ॥

मन्दोपाकारिणी

तरणिभिरिति ॥ तरणिभिरिव सूर्यैरिव गौरैः शुभ्रैः ‘द्युमणिस्तरणिर्मित्रः’ इत्यमरः ‘अवदातः सितो गौरः’ इति च । द्विषड्भिर् द्वौ च ते षट् च तैर् द्विषड्भिर् द्वादशभिर् इत्यर्थः । ऊर्ध्वपुण्ड्रैर् ऊर्ध्वाकारैः पुण्ड्रैस् तिलकैर् गोपीचन्दनेन देहे कृतैः सहितः । सदरपरमचक्रोदीर्णतेजा दरः पाञ्चजन्यः शङ्खः दरेण सहितं च तत् परमं च तच् चक्रं च तेन उदीर्णम् अभिवृद्धं तेजः कान्तिर् यस्य स तथोक्तश् चक्रशङ्खलाञ्छनेन अभिवृद्धशोभाविशेषवान् इत्यर्थः । हरीष्टः हरेर् इष्टः । मुररिपुविमुखानां मुररिपोः श्रीहरेर् विमुखानां देहभाजां शरीरिणां दुःसहो ऽत्यप्रियः । भगवद्विमुखाः शङ्खचक्रधारिणं श्रीमध्वाचार्यं दृष्ट्वा न सहन्ते इति भावः । मान्यधीर् मान्या प्रमाणजन्या यथार्था धीर् बुद्धिर् यस्य स तथोक्तः, मान्या सर्वैर् आदरणीया धीर् बुद्धिर् यस्य इति वा श्रीपूर्णप्रज्ञाचार्य आबभासे बभौ । ‘भा दीप्तौ’ इत्यतो लिट् आत्मनेपदं बभासे बभासाते बभासिरे । क इव अन्यः प्रलयकालादपरः लयसमय इव लयकाल इव । लयकालोऽपि द्विषड्भिः सूर्यैः सहितः । प्रलयकाले द्वादशादित्या युगपद् उदयन्ति हि । सदरपरमचक्रोदीर्णतेजाश्च सन्त उत्तमा अराश् चक्राङ्गानि यस्य तत् सदरं ‘अरं शीघ्रे च चक्राङ्गे शीघ्रगामिनि किल्बिषे’ इति विश्वः । सदरं च तत् परमं च तच् चक्रं चेति सदरपरमचक्रं तेन उदीर्णं शोभमानं तेजो यस्य स तथोक्तः । हरिचक्रेण प्रवृद्धतेजा इत्यर्थः । हरीष्टः संहाराङ्गत्वात् । मुररिपुविमुखानां तमोयोग्यानां देहाभाजां जीवानां दुःसहश्च । तेषां तमःप्राप्तिनिमित्तत्वात् । हरिद्वेषपरिपाकवन्तो हि प्रलये प्रविशन्ति । स्नानानन्तरं तिलकचक्रशङ्खाद्यायुधानि दधार इति भावः ॥ ३० ॥

विश्वास-प्रस्तुतिः - ३१

समधिकधिषणस्य प्रेक्षमाणो जनौघः प्रकृतिमधुरमास्यव्याजपूर्णेन्दुबिम्बम् ।
अमुचदपसरेति श्रावकोक्तेः पुराऽस्मिन् प्रचलति पदवीं तां प्राञ्जलिस्तूर्णमारात् ॥३१॥

मूलम् - ३१

समधिकधिषणस्य प्रेक्षमाणो जनौघः प्रकृतिमधुरमास्यव्याजपूर्णेन्दुबिम्बम् ।
अमुचदपसरेति श्रावकोक्तेः पुराऽस्मिन् प्रचलति पदवीं तां प्राञ्जलिस्तूर्णमारात् ॥३१॥

पदार्थदीपिकोद्बोधिका

समधिकेति ॥ समधिका धिषणा प्रज्ञा यस्य स तथा तस्य श्रीमध्वस्य प्रकृतिमधुरं स्वभावेन रमणीयम् आस्यम् एव व्याजो मिषस् तेन पूर्णेन्दुबिम्बं पूर्णेन्दुमण्डलं यस्य स तथोक्तस् तम् । प्रेक्ष्यमाणः पश्यन् जनौघः । अपसरेति मार्गाद् अपगच्छेति श्रावकोक्तेः श्रोतुः शिष्यस्य उक्तेः, पुरा पूर्वम् अस्मिन् श्रीमध्वे प्रचलति आसनाच् चलति सति प्राञ्जलिः सन् तूर्णं यथा भवति तथा आराद् दूरतस् तां पदवीं मार्गम् अमुचद् अत्यजत् ॥ ३१ ॥

मन्दोपाकारिणी

समधिकेति ॥ समधिकधिषणस्य सम्यक् अधिका पूर्णा धिषणा यस्य तस्य पूर्णप्रज्ञाचार्यस्य । प्रकृतिमधुरं प्रकृत्या स्वभावेन मधुरं रमणीयं ‘प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे’ इति वैजयन्ती । आस्यव्याजपूर्णेन्दुबिम्बम् आस्यं व्याजं निमित्तं यस्य तत् तच्च तत् पूर्णं च तद् इन्दुबिम्बं चन्द्रमण्डलं च पूर्णेन्दुमण्डलसममुखम् इत्यर्थः । प्रेक्षमाणः पश्यन् जनौघो ऽस्मिन् मध्वाचार्ये प्रचलति सति आसनाद् उत्थाय निर्गच्छति सति, हे जन त्वं मार्गाद् अपसर अपयाहि, गमनमार्गं त्यक्त्वा दूरतो गच्छ इत्यर्थः । इति एवं श्रावकोक्तेः श्रावकस्य कस्यचित् शिष्यस्य उक्तेर् वचनात् पुरा पूर्वमेव प्राञ्जलिस्सन् प्रकृष्टः बद्धो ऽञ्जलिः करसम्पुटः येन स तथोक्तस्सन् तूर्णं शीघ्रम् आराद् दूरतः ‘आराद्दूरसमीपयोः’ इत्यभिधानं तां मध्वगम्यां पदवीं मार्गं ‘अयनं वर्त्ममार्गाध्वपन्थानः पदवी सृतिः’ इत्यमरो ऽमुचद् अत्यजत् । ‘मुच्लृ मोक्षणे’ इति धातोर् लुङ् परस्मैपदम् अमुचद् अमुचताम् अमुचन् । स्नानानन्तरं मठं प्रति गमनवेलायां मार्गस्थो जनः मार्गं त्यज इति शिष्योक्तेः पूर्वमेव कृताञ्जलिर्भूत्वा मार्गं विहाय मध्वमुखं निरीक्षमाणस्सन् दूरतो ऽतिष्ठद् इति भावः ॥ ३१ ॥

गुरुचरणसरोजद्वन्द्वनिर्णेजनाम्भो दधति जननिकाये सर्वमुर्वीगतं च ।
अवनिरनभिनन्दिन्यप्यदश्चक्षमेऽसौ कथमपि कथमेव स्यात्क्षमाख्याऽन्यथाऽस्याः
॥ ३२

पदार्थदीपिकोद्बोधिका

गुरुचरणेति ॥ जननिकाये जनसमूहे गुरोः श्रीमध्वस्य चरणावेव पादावेव सरोजे पद्मे तयोर् द्वन्द्वस्य युग्मस्य निर्णेजनं प्रक्षालनं तस्याम्भो जलम् उर्वीगतं भुवि पतितं सर्वं दधति सति असौ अवनिर् अनभिनन्दिन्यपि अप्रीयमाणापि अदश् चरणक्षालनजलधारणं कथमपि कथञ्चिदेव चक्षमे सेहे । अन्यथा न च क्षमते चेद् अस्या भुवः क्षमाख्या क्षमेति नाम कथमेव कथं नु स्यात्? सर्वत्र अतिक्षमायुक्तत्वात् हि क्षमा इत्युच्यते । कुत्रचित् क्षमाभावे च क्षमाख्या न स्याद् इत्यर्थः ॥ ३२ ॥

मन्दोपाकारिणी

गुरुचरणेति ॥ जननिकाये जनानां समूहे । गुरुचरणसरोजद्वन्द्व-निर्णेजनाम्भः गुरोः श्रीमध्वाचार्यस्य चरणावेव सरोजे कमले तयोर् द्वन्द्वं युग्मं ‘द्वन्द्वं कलहयुग्मयोः’ इत्यमरस् तस्य निर्णेजनं प्रक्षालनसम्बन्धि अम्भः जलम् उर्वीगतं भूम्यां गतं सर्वमपि निश्शेषमपि दधति सति स्वशिरसि धृतवति सति असौ अवनिर् भूमिर् अनभिनन्दिन्यपि अप्रीयमाणापि असन्तुष्यमाणापि अदः स्वगतपादोदकधारणं कथमपि कथञ्चिदेव कृच्छ्रेणेव चक्षमे सेहे । ‘क्षमूष् सहने’ इत्यतो लिट् आत्मनेपदं चक्षमे चक्षमाते चक्षमिरे । अन्यथा सहनाभावे अस्या भुवः क्षमाख्या क्षमा इति आख्या नाम कथमेव कथं नु स्यात् । सर्वत्र अतिक्षमायुक्तत्वादेव क्षमेत्युच्यते । कुत्रचित् क्षमाभावे क्षमेति नाम न स्याद् इत्यर्थः ‘गौरिला कुम्भिनी क्षमा’ इत्यमरः ॥ ३२ ॥

विश्वास-प्रस्तुतिः - ३३

अविदितरसभेदं शीतलं लघ्वगन्धं विमलममलपाणिः पाणिजैरप्रविष्टम् ।
वदनपवनभीत्या पार्श्वतो बिभ्रदग्रयं कमथ करकपूर्णं संयमीहानिनाय ॥ ३३ ॥

मूलम् - ३३

अविदितरसभेदं शीतलं लघ्वगन्धं विमलममलपाणिः पाणिजैरप्रविष्टम् ।
वदनपवनभीत्या पार्श्वतो बिभ्रदग्रयं कमथ करकपूर्णं संयमीहानिनाय ॥ ३३ ॥

भावप्रकाशिका

‘अगन्धमव्यक्तरसं शीतलं च तृषापहम् । अच्छं लघु च पथ्यं च तोयं गुणवदुच्यत’ इति च ॥ ३३ ॥

पदार्थदीपिकोद्बोधिका

अवदितेति ॥ अथ अमलौ पाणी हस्तौ यस्य स तथोक्तः संयमी निगृहीतेन्द्रियः कश्चिद् यतिः । वदनपवनस्य मुखवायोर् भीत्या भयेन श्वासवायुसम्बन्धभयादित्यर्थः । पार्श्वत एकस्मिन्पार्श्वे बिभ्रद् दधानः सन् अविदितो रसभेदो रसविशेषो यस्य तत्तथोक्तम् । शीतलं, लघु गुरुत्वदोषरहितं, न विद्यते गन्धो यस्य तदगन्धं विमलं स्वच्छं पाणिजैर् नखरैर् अप्रविष्टम् अस्पृष्टं करकपूर्णं कमण्डलुपूर्णम् । ‘अगन्धम-व्यक्तरसं शीतलञ्च तृषापहम् । अच्छं लघु च पथ्यं च तोयं गुणवदुच्यते’ इत्युक्ततोयगुण-युक्तमित्यर्थः । अग्रयं श्रेष्ठं कं जलम् । अग्रयोदकमित्यर्थः । इह आनिनाय ॥ ३३ ॥

मन्दोपाकारिणी

अविदितेति ॥ अथ अमलपाणिर् अमलौ प्रक्षालनेन निर्मलौ पाणी हस्तौ यस्य स तथोक्तः । संयमी कश्चिद् यतिः । इह पूजाकाले अग्रयं श्रेष्ठं कं जलम् अग्रयोदकम् इत्यर्थः । आनिनाय आनीतवान् ‘णीञ् प्रापणे’ इति धातोर् लिट् परस्मैपदं निनाय निन्यतुर् निन्युः । ‘को ब्रह्मात्मानिलार्केषु शमने सर्वनामनि । पावके च मयूरे च मुखशीर्षजलेषु कं’ इति विश्वः । किं कुर्वन् वदनपवनभीत्या वदनस्य मुखस्य पवनो वायुः श्वासवायुरिति यावत् । तस्य भीत्या भयेन पार्श्वतः मुखाभिमुख्यं परिहृत्य एकस्मिन् पार्श्वे बिभ्रद् दधानः । कथंभूतम् अग्रयोदकम् अविदितरसभेदम् अविदितो ऽज्ञातः रसभेदः रसविशेषः यस्य तत् तथोक्तम् अनुच्छिष्टम् इत्यर्थः । शीतलं लघु गुरुत्वदोषरहितम् अगन्धं दुर्गन्धरहितं विमलं स्वच्छं पाणिजैर् नखैर् अप्रविष्टम् अस्पृष्टं करकपूर्णं करके कमण्डलौ पूर्णं पूरितं ‘कमण्डलौ च करकः’ इत्यमरः ‘अगन्धमव्यक्तरसं शीतलं च तृषापहम् । अच्छं लघु च पथ्यं च तोयं गुणवदुच्यते’ इति उक्ततोयगुणयुक्तम् इत्यर्थः ॥ ३३ ॥

विश्वास-प्रस्तुतिः - ३४

विहसितबिसभङ्गश्रीप्रकर्षं सितिम्ना जलजममृतपूरैः पूरयामास रम्यम् ।
समयगुणविशेषालोचकैर्लालनीयः ससुरभिसुमनोभिः स स्फुटं गौरपक्षः ॥ ३४ ॥

मूलम् - ३४

विहसितबिसभङ्गश्रीप्रकर्षं सितिम्ना जलजममृतपूरैः पूरयामास रम्यम् ।
समयगुणविशेषालोचकैर्लालनीयः ससुरभिसुमनोभिः स स्फुटं गौरपक्षः ॥ ३४ ॥

भावप्रकाशिका

सुसुरभिसुमनोभिः सुष्ठुसुगन्धिपुष्पैः— ‘पूरयन्ति दिशः सोमं देवा गावः सरस्वती’ति च ॥ ३४ ॥

पदार्थदीपिकोद्बोधिका

विहसितेति ॥ गौरः प्रामाणिकत्वेन शोभनः पक्षः सिद्धान्तो यस्य स तथोक्तः । अत एव समयस्य स्वप्रणीतशास्त्रस्य ये गुणविशेषाः श्रुतिस्मृत्यनुगुणत्वादिगुणविशेषास् तेषाम् आलोचकैश् चिन्तकैः सुमनोभिर् देवैः स्फुटं सम्यग्लालनीय आदरणीयः स श्रीमध्वः सितिम्ना शुभ्रतया विहसितो निराकृतो बिसभङ्गश्रीप्रकर्षः मृणालभङ्गकान्त्यतिशयो येन स तथोक्तस् तम् । ‘मृणालं बिसमब्जादी’त्यमरः । रम्यं जलजं पाञ्चजन्यम् । सुरभीणि च तानि सुमनांसि च तैः शोभनपरिमलयुक्तप्रसूनैर् इत्यर्थः । अमृतपूरैर् जलसमूहैः । ‘पयः कीलालममृतमि’त्यमरः । पूरयामास । पाञ्चजन्यम् अग््य्रोदकेन अपूरयदित्यर्थः । समयगुणविशेषालोचकैः शुक्लपक्ष-कृष्णपक्षादिकालगुणविशेषपरैर् ज्योतिःशास्त्रविशारदैर् इत्यर्थः । लालनीयः शुभकर्मसु प्रशस्तत्वेन आदरणीयो गौरपक्षः शुक्लपक्षः सितिम्ना विहसितबिसभङ्गश्रीप्रकर्षम् । अत एव रम्यं मनोहरं जलजं चन्द्रं ससुरभिसुमनोभिः सुरभ्या सहिताः ससुरभयस् ते च ते सुमनसो देवाश्च तैः कर्तृभिर् अमृतपूरैर् अमृतात्मककलासमूहैः किरणैर् यथा पूरयेत् तद्वदिति ध्वनितोऽर्थः । तथा हि सुरभ्यादयो देवाः कृष्णपक्षप्रतिपदमारभ्य प्रत्यहं चन्द्रस्य एकैकां कलां दर्शावधि स्वीकृत्य पुनः शुक्लपक्षप्रतिपदमारभ्य यथाक्रमं प्रत्यर्पणेन चन्द्रम् अमृत-कलाभिः पूर्णिमावधि पूरयन्ति । तथाचोक्तं ‘पूरयन्ति दिशः सोमं देवा गावः

सरस्वती’ इति ॥ ३४ ॥

मन्दोपाकारिणी

विहसितेति ॥ गौरपक्षः गौरः प्रामाणिकत्वेन निर्मलः पक्षः वैष्णवसिद्धान्तः यस्य स तथोक्तः । अत एव समयगुणविशेषालोचकैः समयस्य स्वप्रणीत-सिद्धान्तस्य गुणविशेषाणां श्रुतिस्मृत्यनुगुणत्वादिगुणविशेषाणाम् आलोचकैः परामर्शपरैः । सुमनोभिर् देवैः स्फुटं सम्यक् लालनीय आदरणीयः सः मध्वाचार्यः शितिम्ना धवलतया ‘शिते धवलमेचकौ’ इत्यमरः । विहसितबिसभङ्गश्रीप्रकर्षं विहसितः निराकृतः बिसस्य कमलस्य भङ्गः विकासस् तस्य श्रीप्रकर्षः कान्त्युत्कर्षः येन स तथोक्तस् तम् अतिशुभ्रम् इत्यर्थः रम्यं मनोहरं जलजं शङ्खं ससुरभिसुमनोभिः सुरभयः परिमलसहिताश्च ताः सुमनसः पुष्पाणि च ताभिः सहितास् तैः ‘स्त्रियः सुमनसः पुष्पं’ इत्यमरः । अमृतपूरैर् अमृतानां जलानां पूरैः समूहैः पूरयामास पूरितम् अकरोत् । देवपूजाकाले अग्रयोदकेन शङ्खं पूरयित्वा देवस्याभिषेकं कृतवान् इति भावः । समयगुणविशेषालोचकैः समयस्य शुक्लपक्षकृष्ण-पक्षकालस्य गुणविशेषस्य साधुत्वादिगुणविशेषस्य आलोचकैर् विचारपरैर् ज्योतिःशास्त्रज्ञैर् इत्यर्थः लालनीयः शुभकर्मसु प्रशस्तत्वेन आदरणीयः । गौरपक्षः गौरः शुक्लश्चासौ पक्षश्च शुक्लपक्षाख्यः कालविशेष इत्यर्थः । शितिम्ना विहसितबिसभङ्गश्रीप्रकर्षं पूर्व एवार्थो ऽत एव रम्यं जलजं चन्द्रं ‘अब्जौ शङ्खशशाङ्कौ च’ इत्यमरः । ससुरभिसुमनोभिः सुरभ्या कामधेन्वा सहितास् ते च ते सुमनसः देवाश्च तैः कर्तृभिर् अमृतपूरैर् अमृतानाम् अमृतकलानां पूरैः समूहैः करणैर् यथा पूर्णं कुर्यात् तद्वदिति ध्वनितोऽर्थः । सुरभ्यादयो देवाः कृष्णप्रति-पदमारभ्य चन्द्रस्य प्रतिदिनम् एकैकां कलां दर्शावधि स्वीकृत्य पुनः शुक्लपक्षप्रति-पत्तिथिमारभ्य यथाक्रमं प्रत्यहम् एकैककलाप्रत्यर्पणेन चन्द्रम् अमृतकलाभिः पूर्णिमावधि पूरयन्तीति हि प्रसिद्धं ‘पूरयन्ति दिशः सोमं देवा गावः सरस्वती’ इति ॥ ३४ ॥

विश्वास-प्रस्तुतिः - ३५

विमलमलयजाम्भोबिन्दुभिश्चर्चितार्चो नवललिततुलस्या पुष्पराज्याऽऽर्चयत्सः ।
स्थलजजलजवल्लीवृक्षवीरुत्समस्तप्रसवविजयलक्ष्म्या मूर्तयेवेन्दिरेशम् ॥ ३५ ॥

मूलम् - ३५

विमलमलयजाम्भोबिन्दुभिश्चर्चितार्चो नवललिततुलस्या पुष्पराज्याऽऽर्चयत्सः ।
स्थलजजलजवल्लीवृक्षवीरुत्समस्तप्रसवविजयलक्ष्म्या मूर्तयेवेन्दिरेशम् ॥ ३५ ॥

पदार्थदीपिकोद्बोधिका

विमलेति ॥ विमलं निर्मलं यन्मलयजं चन्दनं तद्युक्तमंभस् तस्य बिन्दवस् तैर् विमलमलयजाम्भोबिन्दुभिर् अर्चिता भूषिता अर्चा प्रतिमा येन स तथोक्तः । ‘अर्चा तु प्रतिमा प्रोक्ता हरिणी सा हिरण्मयी’ति हलः । स श्रीमध्वो नवा नूतना या ललिततुलसी कोमलतुलसी तया पुष्पराज्या पुष्पसमूहेन मूर्तया मूर्तिमत्या स्थलजाश्च जलजाश्च वल्लीवृक्षवीरुधः स्थलजजलजवल्लीवृक्षवीरुधस् तासां यानि समस्तप्रसवानि सर्वकुसुमानि तेषां यो विजयस्तस्य या लक्ष्मीः श्रीस् तया इव इन्दिरेशं श्रीकृष्णम् आर्चयद् अर्चयामास ॥ ३५ ॥

मन्दोपाकारिणी

विमलेति ॥ विमलमलयजाम्भोबिन्दुभिर् विमलः निर्मलश्चासौ मलयजश् चन्दनश्च विमलमलयजस् तस्याम्भोबिन्दुभिश् चन्दनबिन्दुभिर् इत्यर्थः ‘गन्धसारो मलयजो भद्रः श्रीचन्दनोऽस्त्रियां’ इत्यमर आर्द्रगन्धेनेति भावः ‘अम्भोऽर्णस्तोयपानीयं’ इत्यमरः । चर्चितार्चश् चर्चिता लेपिता अर्चाः शालग्रामशिलादिप्रतिमा येन स तथोक्तः ‘अर्चा पूजाप्रतिमयोः’ इति विश्वः । सः श्रीमध्वाचार्यः नवललिततुलस्या नवा नूतना तत्काल एव सङ्गृहीता इति भावः ललिता कोमला नवा च सा ललिता च सा तुलसी च तया नूतनैः कोमलतुलसीदलैर् इत्यर्थः । पुष्पराज्या कुसुमानां समूहेन इन्दिरेशं लक्ष्म्याः पतिं हरिम् आर्चयत् पूजितवान् । ‘अर्च पूजायामि’ति धातोर् लङ् परस्मैपदम् आर्चिचदिति पाठे णिजन्ताद् लङ् आर्चिचद् आर्चिचताम् आर्चिचन् । कया इव मूर्तया मूर्तिमत्या तुलस्या तदभिमानिन्या देव्या इव तथा मूर्तया स्थलजजलजवल्लीवृक्षवीरुत्समस्तप्रसवविजयलक्ष्म्या इव वल्ल्यः लताश्च वृक्षाश्च वीरुधः लताविशेषाश्च वल्लीवृक्षवीरुधः स्थले जाताः स्थलजा जले जाता जलजाः स्थलजाश्च ता जलजाश्च ता वल्लीवृक्षवीरुधश्च स्थलजजलजवल्ली-वृक्षवीरुधः वल्लीवृक्षवीरुधां समस्तप्रसवाः समस्तपुष्पाणि ‘स्यादुत्पत्तौ फले पुष्पे प्रसवो गर्भमोचने’ इत्यमरस् तेषां विजय उत्कर्षस् तस्य लक्ष्मीः पुष्पोत्कर्षाभिमानिनी श्रीस् तया इव मूर्तिमत्या तुलस्यभिमानिदेव्या इव मूर्तिमत्या नानाविधपुष्पोत्कर्षाभिमानिश्रीदेव्या इव इत्यर्थः । अत्र वल्लीशब्देन ऊर्ध्वमण्डपावलम्बिन्यो लता वीरुध्शब्देन भूमावेव प्रसारिता लताविशेषा ग्राह्याः ‘वल्ली तु व्रततिर्लता लता प्रतानिनी वीरुत्’ इत्यमरः । प्रतानिनी भूमावेव प्रसारिता लता वीरुद् इति उच्यते इति अभिधानार्थः । स्थलजा जातीमालत्यादयः जलजाः कल्हारपद्मादयः वृक्षाश् चम्पकादय इति ज्ञेयम् । श्रीगन्धतुलसीनानाविधपुष्पैश्च देवं सम्यक् आराधयामास इति भावः ॥ ३५ ॥

विश्वास-प्रस्तुतिः - ३६

स दददधिकबोधः षोडशात्रोपचारान् व्यरहयदगुणान् द्वात्रिंशदागःपुरोगान् ।
अगणितगुणमुच्चैस्तोषयन् शार्ङ्गपाणिं षडपि परमभक्त्याऽनूपचारान् दिदेश ॥ ३६ ॥

मूलम् - ३६

स दददधिकबोधः षोडशात्रोपचारान् व्यरहयदगुणान् द्वात्रिंशदागःपुरोगान् ।
अगणितगुणमुच्चैस्तोषयन् शार्ङ्गपाणिं षडपि परमभक्त्याऽनूपचारान् दिदेश ॥ ३६ ॥

भावप्रकाशिका

अर्घ्यपाद्याचमनीयमधुपर्कपुनराचमनीयस्नानवस्त्रभूषणयज्ञोपवीता-सनगन्धपुष्पधूपदीपनैवेद्यनमस्काराः षोडशोपचाराः । अगुणा अन्यचित्तत्त्वादयः । ‘भुक्तवा पीत्वार्चनं दन्तकाष्ठाभक्ष्युपसर्पणम् । मैथुनानन्तरं चार्चा शवं स्पृष्ट्वोपसर्पणम् । अर्चान्तरे मूत्रविष्ठाविसर्गौ सास्रभाषणम् । नीलवस्त्रावृतस्याप्ती राजान्नात्तिरुपाग(ह)तिः । उपस्पृश्या-विधानैस्तु शुश्रूषोरपि रुष्टता । अकर्मण्यप्रसूनार्चा रक्तकौपीनवस्त्रता । कृष्णवस्त्रैर्हरेः कर्म-विधिः स्पृष्टिस्तमस्यपि । कामानुसारिता कृष्णवस्त्रस्य परिधूननम् । श्व(सं)स्पृष्टिः कोलमांसात्तिर्जालपादासनं तथा । उपसर्पः पङ्किले च चितिं स्पृष्ट्वोपसर्पणम् । पिण्या-कात्तिश्चोपसर्तुः पोत्रिमांसोपपादनम् । उपयातुर्मद्यपानं कुसुम्भदलभक्षणम् । (परप्रावरणग्राहः स्वञ्जनादेरकल्पनम् ।) पुष्पादाने धूपदानं हरिवोढुरुपानहौ । अभेरीहन्तुरभ्याप्तिरजीर्णान्नस्य पूजनम् । द्वात्रिंशदपराधास्तु कथिता गुरुदोषदाः । वसुन्धरायै कोलेन (लोकेश) विष्णुना प्रभविष्णुनेति’ च । ‘मुखवासश्च ताम्बूलं दर्पणं छत्रचामरे । पादुके चेति विज्ञेया उपचाराः परे बुधैरि’ति षडनूपचाराः ॥ ३६ ॥

पदार्थदीपिकोद्बोधिका

स इति ॥ अत्र षडधिका दश षोडश ते च ते उपचाराश्च तान् ददत् प्रयच्छन् अगणिता गुणा यस्य तं शार्ङ्गं पाणौ यस्य तं श्रीकृष्णं तोषयन् स श्रीमध्वो ऽधिकबोधः । द्य्वधिका त्रिंशद् द्वात्रिंशच्च तानि आगांसि च तानि पुरोगाणि पूर्वकाणि येषां तान् अगुणान् दोषान् व्यरहयद् वर्जयामास । रह त्यागे लङ् । परमभक्तया षट् अनूपचारानपि दिदेश ददौ । तत्र षोडशोपचाराः — अर्घ्यपाद्याचमनीयमधुपर्क पुनराचमनीय स्नान वस्त्र भूषण यज्ञोपवीतासन गन्ध पुष्प धूप दीप नैवेद्य नमस्कारा इति । द्वात्रिंशदपराधाश्च—

भुक्तवा पीत्वार्चनं दन्तकाष्ठाभक्ष्युपसर्पणम् ।

मैथुनानन्तरं चर्चा शवं स्पृष्ट्वोपसर्पणम् ॥

अर्चान्तरे मूत्रविष्ठाविसर्गौ सास्रभाषणम् ।

नीलवस्त्रवृतःस्याप्ती राजान्नात्तिरुपागतिः ॥

उपस्पृश्याविधानैस्तु शुश्रूषोरपि रुष्टता ।

अकर्मण्यप्रसूनार्चा रक्तकौपीनवस्त्रता ॥

कृष्णवस्त्रैर्हरेः कर्मविधिः स्पृष्टिस्तमस्यपि ।

कामानुसारिता कृष्णवस्त्रस्य परिधूननम् ॥

श्वस्पृष्टिः कोलमांसात्तिर्जालपादासनं तथा ।

उपसर्पः पङ्किले च चितिं स्पृष्ट्वोपसर्पणम् ॥

पिण्याकात्तिश्चोपसर्तुः पोत्रिमांसोपपादनम् ।

उपयातुर्मद्यपानं कुसुम्बदलभक्षणम् ॥

पुष्पादाने धूपदानं हरिवोढुरुपानहौ ।

अभेरी हन्तुरभ्याप्तिरजीर्णान्नस्य पूजनम् ॥

द्वात्रिंशदपराधस्तु कथिता गुरुदोषदाः ।

वसुन्धरायै कोलेन विष्णुना प्रभविष्णुना ॥

इत्युक्ताः । षडनूपचाराश्च मुखवासश्च ताम्बूलं दर्पणं छत्रचामरे । पादुके चेति विज्ञेया उपचाराः परे बुधैरिति ॥ ३६ ॥

मन्दोपाकारिणी

स इति ॥ अत्र पूजायां षोडश उपचारान् अर्घ्यपाद्यादीन् ददत् प्रयच्छन् । अगणितगुणम् अगणिता असंख्याता गुणा ज्ञानानन्दादयो यस्य स तथोक्तस् तम् । शार्ङ्गपाणिं शार्ङ्गं धनुः पाणौ यस्य स तथोक्तस् तं नारायणम् उच्चैः सम्यक् तोषयन् प्रीणयन् सो ऽधिकबोधः श्रीपूर्णप्रज्ञाचार्यः द्वात्रिंशदागःपुरोगान् द्वात्रिंशदपराधादीन् अगुणान् गुणविरुद्धान् दोषान् व्यरहयद् वर्जयामास ‘रह त्यागे’ इत्यतो लङ् परस्मैपदम् अरहयद् अरहयताम् अरहयन् । परमभक्त्या षट् अनूपचारानपि मुखवासादीनपि देवाय दिदेश दत्तवान् ‘दिशि अतिसर्जने इत्यतो लिट् परस्मैपदम्’ । ‘अर्घ्यं पाद्यं चाचमनं मधुपर्कं तथैव च । पुनराचमनं स्नानं वसनं भूषणं तथा । उपवीतासने गन्धपुष्पे वै धूपदीपकौ । नैवेद्यं नमनं चैते उपचाराश्च षोडश’ । ‘मुखवासश्च ताम्बूलं दर्पणं छत्रचामरे । पादुके चेति षडिमेऽनूपचाराः परे मताः’ । द्वात्रिंशदपराधास्तु, भुक्त्वा, पीत्वा, दन्तधावनमकृत्वा, शवं दृष्ट्वा, नीलवस्त्रं धृत्वा, अर्चनादयः ग्रन्थान्तरादवगन्तव्याः । मध्वाचार्यो ऽर्ध्यादि-षोडशोपचारैर् मुखवासादिभिः षड्भिर् अनूपचारैश्च हरिं पूजयित्वा ‘अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । तानि सर्वाणि मे देय क्षमस्व मधुसूदन’ इत्युक्तप्रकारेण क्षमापयामास इति भावः ॥ ३६ ॥

विश्वास-प्रस्तुतिः - ३७

तमरुणमणिवर्णं दिव्यदेहाख्यगेहे स्नपितमतिपृथुश्रद्धानदीचित्तवार्भिः ।
ननु स यजति नित्यं हृत्सरोजासनस्थं न तु सकृदिति पुष्पैरष्टभिर्भावपुष्पैः ॥ ३७ ॥

मूलम् - ३७

तमरुणमणिवर्णं दिव्यदेहाख्यगेहे स्नपितमतिपृथुश्रद्धानदीचित्तवार्भिः ।
ननु स यजति नित्यं हृत्सरोजासनस्थं न तु सकृदिति पुष्पैरष्टभिर्भावपुष्पैः ॥ ३७ ॥

भावप्रकाशिका

‘आराधयामि मणिसन्निभमात्मबिम्बं मायापुरे हृदयपङ्कज-सन्निविष्टम् । श्रद्धानदीविमलचित्तजलाभिषेकं भावाष्टपुष्पविधिना हरिमर्चयामी’ति भीमवचन-मनूदितं तमित्यादिना । अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । शौचं तुष्टिः सर्व समर्पणमित्यष्टभावपुष्पाणि । ‘अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः । सर्वभूतदयापुष्पं क्षमापुष्पं विशिष्यते । ज्ञानपुष्पं तपःपुष्पं ध्यानपुष्पं तु सप्तमम् । सत्यं चैवाष्टमं पुष्पमेभिस्तुष्यति केशव’ इति च ॥ ३७ ॥

पदार्थदीपिकोद्बोधिका

तमिति ॥ स श्रीमध्वः । अरुणो रक्तो यो मणिः पद्मरागमणिस् तस्य वर्ण इव वर्णो यस्य तम् । दिव्योऽलौकिको यो देहः स इत्याख्या यस्य तत्तथोक्तं तादृशं यद्गेहं गृहं तस्मिन् । अतिपृथुर् अतिविस्तृता या श्रद्धैव नदी तस्याश् चित्तमेव वारीणि तैः । अतिविस्तृतश्रद्धाख्यनदीगतचित्ताख्यजलैरित्यर्थः । स्नपितम् अभिषिक्तम् । हृत्सरोजमेव हृत्पद्ममेवासनं पीठं तस्मिन् तिष्ठतीति तथोक्तस्तं भगवन्तं पुष्टैः पूर्णैर् अष्टभिर् भावपूर्णैर् नित्यं सर्वदा यजति ननु । इति, इत्थं ‘विमलमलय-जाम्भोबिन्दुभिः’ इत्याद्युक्तप्रकारेण, पुष्पैर्नवललिततुलस्यादिबाह्यपुष्पैः सकृदेकदा न तु यजति । अयं भावः । अष्टभिः पुष्पैर् भगवन्तं सर्वदा यजत्येव न तु बाह्यपुष्पैः प्रत्यहं सकृदेव यजतीति । ‘तमरुणमणिवर्णमिति च’— ‘आराधयामि मणिसन्निभमात्मबिम्बं मायापुरे हृदयपङ्कजसन्निविष्टम् ॥ श्रद्धानदीविमलचित्तजलाभिषेकं’ भावाष्टपुष्पविधिना हरिमर्चयामी’ति भीमवचनम् अनूदितं ज्ञातव्यम् । ‘अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । शौचं तुष्टिः सर्वसमर्पणमि’त्यष्टभावपुष्पाणि ।

अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।

सर्वभूतदयापुष्पं क्षमापुष्पं विशिष्यते ॥ १ ॥

ज्ञानपुष्पं तपःपुष्पं ध्यानपुष्पं तु सप्तमम् ।

सत्यञ्चैवाष्टमं पुष्पमेभिस्तुष्यति केशवः ॥ २ ॥

इति चाष्टौ भावपुष्पाणि ॥ ३७ ॥

मन्दोपाकारिणी

तमिति ॥ सः श्रीमध्वाचार्य इति पूर्वोक्तप्रकारेण पुष्पैर् नानाविधबाह्यपुष्पैर् नित्यं प्रत्यहं सकृदेव तं हरिं यजतीति न तु नैव किन्तु दिव्यदेहाख्यगेहे शरीरनामि्न मन्दिरे अतिपृथुश्रद्धानदीचित्तवार्भिर् अतिपृथुर् अतिविस्तृता च सा श्रद्धा आस्तिक्याख्या च सा नदी च श्रद्धानद्याश् चित्ताख्यैर् वार्भिर् जलैः स्नपितम् अभिषिक्तम् अरुणमणिवर्णम् अरुणमणिः पद्मरागस् तस्य वर्ण इव वर्णो यस्य स तथोक्तस् तं रक्तवर्णं हृत्सरोजासनस्थं हृत्सरोजं हृदयकमलं तदेव आसनं तस्मिन् तिष्ठतीति हृत्सरोजासनस्थस् तं बिम्बरूपं भगवन्तं हरिम् अष्टभिर् अष्टसंख्याकैर् भावपुष्पैर् भावाख्यपुष्पैर् नित्यं सर्वदा यजति ननु पूजयत्येव ।

‘अहिंसा प्रथमं पुष्पं पुष्पमिन्द्रियनिग्रहः ।

सर्वभूतदयापुष्पं क्षमापुष्पं विशिष्यते ॥

ज्ञानपुष्पं तपः पुष्पं ध्यानपुष्पं तु सप्तमम् ।

सत्यं चैवाष्टमं पुष्पमेभिस्तुष्यति केशवः ॥’

इत्याद्यष्ट भावपुष्पाणि ज्ञेयानि ॥ ३७ ॥

विश्वास-प्रस्तुतिः - ३८

कृतपरमसपर्यः सान्द्रसच्चन्दनाम्भःपरिमलितभुजोरोमण्डलांसो मनीषी ।
स्मितरुचिरमुखेन्दुः स्निग्धकौशेयवासाः स सुरमुनिनराणां चक्षुषामुत्सवोऽभूत् ॥३८॥

मूलम् - ३८

कृतपरमसपर्यः सान्द्रसच्चन्दनाम्भःपरिमलितभुजोरोमण्डलांसो मनीषी ।
स्मितरुचिरमुखेन्दुः स्निग्धकौशेयवासाः स सुरमुनिनराणां चक्षुषामुत्सवोऽभूत् ॥३८॥

पदार्थदीपिकोद्बोधिका

कृतेति ॥ कृता परमसपर्या हरिपूजा येन स तथोक्तः । सान्द्रम् अविरलं यत् सच्चन्दनाम्भः समीचीनचन्दनजलं तेन परिमलिताः परिमलयुक्ततया कृता भुजोरोमण्डलांसो भुजौ च उरोमण्डलं च अंसौ च यस्य सस् तथोक्तः । स्मितं मन्दहासयुक्तं यद्रुचिरमुखं शोभनमुखं तदेव इन्दुर् यस्य स तथा । स्निग्धं मनोहरं कौशेय-वासो यस्य स तथा । मनीषी स श्रीमध्वो मुनिसुरनराणां चक्षुषाम् उत्सवो ऽभूत् ॥ ३८ ॥

मन्दोपाकारिणी

कृतेति ॥ कृतपरमसपर्यः कृता परमस्य सर्वोत्तमस्य भगवतः सपर्या पूजा येन स तथोक्तः ‘पूजा नमस्यापचितिः सपर्यार्चार्हणाः समा’ इत्यमरः । सान्द्रसच्चन्दनाम्भःपरिमलितभुजोरोमण्डलांसः भुजौ च उरसः वक्षसः मण्डलं च अंसौ स्कन्धौ च भुजोरोमण्डलांसाः । सान्द्रं घनीभूतं च तत् सत् समीचीनं च तच् चन्दनाम्भः गन्धजलं च सान्द्रसच्चन्दनाम्भश् चन्दनाम्भसा परिमलिताः परिमलयुता भुजोरोमण्डलांसा यस्य स तथोक्तः । स्मितरुचिरमुखेन्दुः स्मितेन मन्दहासेन रुचिरं सुन्दरं मुखमेव इन्दुश् चन्द्रः यस्य स तथोक्तः ‘सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्’ इत्यमरः । स्निग्ध-कौशेयवासाः स्निग्धं मसृणं कौशेयं पट्टतन्तुरचितं वासः वस्त्रं यस्य तथोक्तः ‘चिक्कणं मसृणं स्निग्धं’ इत्यमरः । मनीषी पण्डितः सः श्रीमध्वाचार्यः । सुरमुनिनराणां सुराश्च मुनयश्च नराश्च तेषां चक्षुषां नयनानाम् उत्सवः हर्षकरो ऽभूत् । हरिपूजानन्तरं निर्माल्यगन्धेन स्वाङ्गम् अलंकृत्य कौशेयवस्त्रेण प्रावरणं कृत्वा उपविष्टं मन्दं हसन्तं श्रीमध्वाचार्यं पश्यतां सुरनरादीनां नयनानाम् उत्सवोऽभूद् इत्यर्थः ॥ ३८ ॥

विश्वास-प्रस्तुतिः - ३९

परमथ परमान्नं प्राप्तमेवाप्रयासं प्रभुरिह बुभुजेऽसौ वेदवादप्रवीणः ।
अजितपरमभक्तः सन्ततं मन्यमानः सकलजगदधीशः प्रीयतां शौरिरित्थम् ॥ ३९ ॥

मूलम् - ३९

परमथ परमान्नं प्राप्तमेवाप्रयासं प्रभुरिह बुभुजेऽसौ वेदवादप्रवीणः ।
अजितपरमभक्तः सन्ततं मन्यमानः सकलजगदधीशः प्रीयतां शौरिरित्थम् ॥ ३९ ॥

भावप्रकाशिका

‘प्रायः सोऽयमनायासं पूज्यते परमेश्वरः । प्रीयतामिति तद्भक्तया सततं वेदशालिभिरि’ति भगवता स्वयमेवाभिहितमनूदितं परमित्यादिना ॥ ३९ ॥

पदार्थदीपिकोद्बोधिका

परमिति ॥ अथ श्रीहरिपूजानन्तरम् । प्रभुर् वेदानां वादे कथने प्रवीणश् चतुरः । अजितस्य श्रीहरेः परमभक्तो मुख्यभक्तः । ‘सकलजगदधीशः शौरिः श्रीकृष्ण इत्थं प्रीयतामि’ति सन्ततं मन्यमानः स्मरन् असौ श्रीमध्वः न विद्यते प्रयासो यथा भवति तथाऽप्रयासं प्राप्तं परम् उत्तमं परमान्नं पायसम् इह विष्णुमङ्गले बुभुजे । ‘भुजोऽनवन’ इत्यात्मनेपदम् ॥ ३९ ॥

मन्दोपाकारिणी

परमिति ॥ अथ प्रभुः स्वामी सकलजगदधीशः सकलानां जगताम् अधीशः नियामकः शौरिः श्रीकृष्णः प्रीयतां मम प्रीतो भवतु । इत्थं सन्ततं सर्वदा मन्यमानः स्मरन् वेदवादप्रवीणः वेदस्य वादे प्रवचने प्रवीणः निपुणः । अजितपरमभक्तो ऽजितस्य नारायणस्य परम उत्तमः भक्तो ऽसौ श्रीमध्वाचार्य इह मठे अप्रयासं न विद्यते प्रयासः प्रयत्नो यस्मिन् कर्मणि यथा भवति तथा प्राप्तं परम् उत्तमं परमान्नं पायसं बुभुजे भुक्तवान् । ‘भुज पालनाभ्यवहारयोः’ इति धातोर् लिट् आत्मनेपदम् ॥ ३९ ॥

विश्वास-प्रस्तुतिः - ४०

सहचरपरिक्लृप्ते सूक्ष्मवस्त्रावृतेऽसाववितनुरुहरूपौशीरवर्ये निषण्णः ।
अरमयदिह नानाहृद्यविद्याविलासैः कविजनपरिवारं मण्डयन् मण्डपाग्रयम् ॥ ४० ॥

मूलम् - ४०

सहचरपरिक्लृप्ते सूक्ष्मवस्त्रावृतेऽसाववितनुरुहरूपौशीरवर्ये निषण्णः ।
अरमयदिह नानाहृद्यविद्याविलासैः कविजनपरिवारं मण्डयन् मण्डपाग्रयम् ॥ ४० ॥

पदार्थदीपिकोद्बोधिका

सहचरेति ॥ सहचरेण शिष्येण परिक्लृप्ते रचिते सूक्ष्मं यद्वस्त्रं तेन आवृते अवितनुरुहरूपमवीनां मेषाणां तनूरुहरूपं रोमरूपं यद् औशीरवर्यम् आसनश्रेष्ठं तस्मिन् । रत्नकम्बलाख्यासनवर्य इत्यर्थः । ‘औशीरं तनयासन’ इत्यमरः । निषण्णो मण्टपाग््य्रं मण्टपश्रेष्ठं मण्डयन् स्व उपवेशनाद् अलंकुर्वन् असौ श्रीमध्वः । इह मण्टपे कविर् विद्वान् यो जनः स च असौ परिवारश्च तं नानाविधा या हृद्यविद्या मनोहरविद्यास् तासां विलासैर् अरमयत् समतोषयत् ॥ ४० ॥

मन्दोपाकारिणी

सहचरेति ॥ सहचरपरिक्लृप्ते सहचरेण अनुचरेण शिष्येण परिक्लृप्ते निर्मिते । सूक्ष्मवस्त्रावृते सूक्ष्मेण वस्त्रेण आस्तृते अवितनुरुहरूपौशीरवर्ये अविर् मेषः ‘मेषाजावय एडकः’ इत्यमरस् तनुरुहं रोम ‘तनूरुहं रोमलोम’ इत्यमरो ऽवेस् तनूरुहैः रूपं रूप्यते इति रूपं विरचितम् अवितनुरुहरूपं केवलं तदात्मकम् इत्यर्थो ऽवितनुरुहरूपं च तद् औशीरवर्यं च आसनश्रेष्ठं च तस्मिन् निषण्ण उपविष्टः ‘औशीरेशयनामने’ इत्यभिधानम् । मण्डपाग्रयं मण्डपो नाम जनाश्रयस्थलं ‘मण्डपोऽस्त्री जनाश्रयः’ इत्यमरः मण्डपेषु अग्रयं श्रेष्ठं मण्डयन् उपवेशनाद् अलंकुर्वन् असौ श्रीमध्वाचार्य इह मण्डपे कविजनपरिवारं कविजनः पण्डितजनश्चासौ परिवारश्च कविजनपरिवारस् तं परिवारतया उपविष्टविद्वज्जनम् इत्यर्थः । यद्वा कविजनानां परितः स्थितं वारं समुदायं ‘वारसङ्घातसञ्चयाः’ इत्यमरः नानाहृद्यविद्याविलासैर् नाना नानाविधाश्च ता हृद्या मनोहराश्च ता विद्याश्च नानाहृद्यविद्यास् तासां विलासैर् लीलाभिः ‘विलासो भावलीलयोः’ इति विश्वः । अरमयद् आनन्दयत् । ‘रमु क्रीडायां’ इति धातोर् णिजन्ताद् लङ् परस्मैपदम् ॥ ४० ॥

अवसरमधिगम्य भ्रूविजृम्भादभीष्टो मुखसततगलक्षीभूतपाणिप्रवालः ।
स्मितनयनविकासैस्तस्य विज्ञातभावः श्रवसि किमपि कार्यं मन्त्रयामास मङ्क्षु
॥४१॥
पदार्थदीपिकोद्बोधिका

अवसरमिति ॥ अभीष्टः श्रीमध्वाचार्यप्रियो भ्रूविलासात् श्रीमध्वस्य भ्रूविजृम्भाद् अवसरं समयम् अधिगम्य ज्ञात्वा उपांशु किञ्चिद् विवक्षुर् अवसरं प्रतीक्षमाणः सन् । कश्चित् श्रीमध्वस्य भ्रूविलाससंज्ञया ज्ञातावसर इत्यर्थः । स्मितञ्च नयनविकासाश्च तैर् विज्ञातो भावोऽभिप्रायो येन स तथोक्तः कश्चित् तस्य श्रीमध्वस्य श्रवसि श्रोत्रे किमपि कार्यं मंक्षु द्राक् मुखस्य सततगः पवनो मुखश्वास इत्यर्थः । तस्य लक्ष्मीभूतः सम्पद्भूतः पाणिप्रवालः पाणिपल्लवो यस्य स तथोक्तः सन्, स्वमुखश्वासो यथा मध्वाङ्गे न पतिष्यति तथा मुखपवनव्यवधानभूतपाणिकिसलयः सन् इत्यर्थः । मन्त्रयामास आलोचयामास ॥ ४१ ॥

मन्दोपाकारिणी

अवसरमिति ॥ अभीष्टः श्रीमध्वाचार्यस्य प्रियः कश्चित् शिष्यः भ्रूविजृम्भाद् भ्रुवोर् विजृम्भाद् विलासाद् अवसरम् अवकाशम् अधिगम्य ज्ञात्वा उपांशु किञ्चिद् वक्तुम् अवसरं प्रतीक्षमाणस्सन् कश्चित् श्रीमध्वाचार्यस्य भ्रूविलासविशेषं दृष्ट्वा अयम् अवसर इति ज्ञात्वा इत्यर्थः । स्मितनयनविकासैः स्मितेन मन्दहासेन नयनविकासैश्च विज्ञातभावः विज्ञातो भावो अभिप्रायो येन स तथोक्तस्सन् ‘भावोऽभिप्राय आशयः’ इत्यभिधानं तस्य मध्वाचार्यस्य श्रवसि श्रोत्रे ‘कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः’ इत्यमरः । किमपि यत्किञ्चित् कार्यं कर्तव्यं मङ्क्षु द्रुतं ‘द्राङ्मङ्क्षु सपदि द्रुतं’ इत्यमरः । मन्त्रयामास गौप्यकार्यं विचारयामास । मन्त्रयाम् आम्प्रत्ययान्तमव्ययम् । ‘अस भुवी’त्यतो लिट् परस्मैपदम् । कथंभूतः मुखसततगलक्षीभूतपाणिप्रवालः मुखस्य सततगः सततं गच्छतीति सततगः सदागतिर् वायुः ‘मातरिश्वा सदागतिः’ इत्यमरः । तस्य लक्षीभूतः व्यवधानीकृतः पाणिप्रवालः पाणिरेव करतलमेव प्रवालः पल्लवः यस्य स तथोक्तः ‘प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लवे’ इति विश्वः ॥ ४१ ॥

विश्वास-प्रस्तुतिः - ४२

प्रणतिपरमकृत्याः सन्मतेर्ये जनौघा विबभुरनतिदूरे संहतास्तानतीत्य ।
अहमहमिकयाऽऽशु प्राप्य पार्श्वं प्रणेमुर् बहव इह गृहस्थाः पूर्वसेवां विधातुम् ॥ ४२ ॥

मूलम् - ४२

प्रणतिपरमकृत्याः सन्मतेर्ये जनौघा विबभुरनतिदूरे संहतास्तानतीत्य ।
अहमहमिकयाऽऽशु प्राप्य पार्श्वं प्रणेमुर् बहव इह गृहस्थाः पूर्वसेवां विधातुम् ॥ ४२ ॥

पदार्थदीपिकोद्बोधिका

प्रणतीति ॥ इह अस्मिन् सदसि बहवो गृहस्थाः पूर्वसेवां विधातुम् अहमहमिकया अहमादौ कुर्याम् अहमादौ कुर्याम् इति बुद्ध्या आशु पार्श्वं प्राप्य प्रणतिरेव श्रीमध्वनमस्कार एव उत्तमकृत्यम् उत्तमव्यापारो येषां ते तथोक्ता ये जनौघाः सन्मतेः श्रीपूर्णप्रज्ञाचार्यस्य अनतिदूरे समीपे सङ्गताः सन्तो विबभुः । तानतीत्य तेभ्यो अपि अतिसामीप्यं गत्वा प्रणेमुर् इति भावः ॥ ४२ ॥

मन्दोपाकारिणी

प्रणतीति ॥ इह अस्यां सभायां बहवो गृहस्थाः पूर्वसेवां सर्वेभ्यः पूर्वं क्रियमाणा सेवा पूर्वसेवा तां विधातुम् अहमहमिकया ‘अहमहमिका तु सा स्यात् परस्परं यो भवति अहंकारः’ इत्यमरो ऽहमादौ कुर्याम् अहमादौ कुर्याम् इति अन्योन्यं जनानां योऽहंकारः सोऽहमहमिका इत्युच्यते अहं पूर्वम् अहं पूर्वम् इति बुद्ध्या इत्यर्थः । आशु शीघ्रं पार्श्वं मध्वाचार्यसमीपं प्राप्य प्रणेमुर् नमस्कारं कृतवन्तः । ‘णमु प्रह्वत्वे शब्दे च इत्यतो लिट् परस्मैपदम्’ । किं कृत्वा प्रणतिपरमकृत्याः प्रणतिर् नमस्काराख्यं परमम् उत्तमं कृत्यं येषां ते तथोक्ता ये जनौघा जनानां समुदायाः सन्मतेः सती निर्दुष्टा मतिर् यस्य तस्य श्रीमध्वाचार्यस्य अनतिदूरे समीपे संहता अविरलाः सङ्कुचितास्सन्तः विबभुः शुशुभिरे । तानतीत्य अतिक्रम्य ये पूर्वं नमस्कारं कर्तुं मध्वसमीपं गता निरवकाशत्वेन संहता अभूवन् अहं पूर्वमहं पूर्वम् इति बुद्ध्या तान् अतीत्य तेभ्योऽपि अतिसमीपं गत्वा बहवो गृहस्थाः श्रीमध्वाचार्यं प्रणेमुर् इति भावः ॥ ४२ ॥

विश्वास-प्रस्तुतिः - ४३

विविधजनपदस्थाः प्राक् श्रुतेभ्यो गुणेभ्यः शतगुणगुणमेनं विस्मिता वीक्षमाणाः ।
मुकुलितकरपद्मा आस्यतामित्यवाप्ताः प्रचुरतरहृदा सम्भावयाञ्चक्रिरेऽन्ये ॥ ४३ ॥

मूलम् - ४३

विविधजनपदस्थाः प्राक् श्रुतेभ्यो गुणेभ्यः शतगुणगुणमेनं विस्मिता वीक्षमाणाः ।
मुकुलितकरपद्मा आस्यतामित्यवाप्ताः प्रचुरतरहृदा सम्भावयाञ्चक्रिरेऽन्ये ॥ ४३ ॥

पदार्थदीपिकोद्बोधिका

विविधेति ॥ अवाप्ता दिदृक्षयाऽऽगता विविधा नानाविधा ये जनपदा देशास् तेषु तिष्ठन्ति इति तथोक्ताः । ‘नीवृज्जनपदो देश’ इत्यमरः । अन्ये जनाः प्राक् दर्शनात्पूर्वं श्रुतेभ्यो गुणेभ्यः शतं गुणा गणना येषां ते शतगुणाः शतावृत्तयो गुणा यस्य स तथा तं शतगुणाधिकगुणमित्यर्थः । एनं श्रीमध्वं वीक्षमाणास्सन्तः । अत एव विस्मिताः सन्तः मुकुलितानि करपद्मानि येषां ते तथा सन्तः प्रचुरतरहृदा श्रीपूर्णप्रज्ञाचार्येण आस्यताम् इति सम्भावयांचक्रिरे ॥ ४३ ॥

मन्दोपाकारिणी

विविधेति ॥ अवाप्ताः श्रीमध्वाचार्यमाहात्म्यं श्रुत्वा तं द्रष्टुम् आगताः । विविधजनपदस्था विविधा नानाविधा जनपदा देशास् तेषु तिष्ठन्तीति विविधजनपदस्थाः । अन्ये जनाः ‘नीवृज्जनपदो देशविषयौ’ इत्यमरः । प्राक् दर्शनात्पूर्वं स्वस्थानस्थितिकाले श्रुतेभ्यः गुणेभ्यः श्रीमध्वाचार्यगुणेभ्यः शतगुणगुणं शतेन गुणिता गुणा यस्य स तथोक्तस् तम् । पूर्वं यावन्तो गुणाः श्रुता अभूवन् तदपेक्षया शतगुणाधिकगुणवन्तम् इत्यर्थः । एनं श्रीमध्वाचार्यं वीक्षमाणाः पश्यन्तो ऽत एव विस्मिता आश्चर्ययुक्ताः । मुकुलितकरपद्मा मुकुलितानि अञ्जलीकृतानि करपद्मानि हस्ताख्यपद्मानि यैस् ते तथोक्तास्सन्तः प्रचुरतरहृदा प्रचुरतरम् अत्यन्तपूर्णं हृत् हृदयं यस्य स तथोक्तस् तेन पूर्णप्रज्ञाचार्येण हे जना युष्माभिर् आस्यताम् उपविश्यताम् इति सम्भावयांचक्रिरे

आदृता अभूवन् । ‘आस उपवेशने’ इत्यतो लोट् आत्मनेपदम् । आस्यताम् इति एकवचनमेव ॥ ४३ ॥

विश्वास-प्रस्तुतिः - ४४

अलमलमनुवादेनानुवाच्येत पश्चान्ननु गुरव इदानीमुद्यता हि प्रवक्तुम् ।
न मननमधुना द्रागाव्रजेत्याह्वयत्तान् श्रुतपरिचयसक्ताञ्छ्रावकाञ्छ्रावकाग्रयः ॥ ४४ ॥

मूलम् - ४४

अलमलमनुवादेनानुवाच्येत पश्चान्ननु गुरव इदानीमुद्यता हि प्रवक्तुम् ।
न मननमधुना द्रागाव्रजेत्याह्वयत्तान् श्रुतपरिचयसक्ताञ्छ्रावकाञ्छ्रावकाग्रयः ॥ ४४ ॥

पदार्थदीपिकोद्बोधिका

अलमिति ॥ अनुवादेन प्रमेयानुवादेन अलम् अलं सम्भ्रमे द्विरुक्तिः । पश्चात् श्रवणानन्तरम् अनुवाच्येत । अनुवचनमपि पश्चात् क्रियताम् । मननं चिन्तनम् अपि अधुना इदानीं न । कुत इत्यत आह– गुरव इति । गुरव इदानीं प्रवक्तुं व्याख्यातुम् उद्यता हि यस्मात् तस्माद् द्राक् आव्रज । इत्येवं वदन् श्रावकाग््य्रः कश्चित् श्रोतृषु प्रधानः श्रुतस्य श्रुतग्रन्थस्य परिचये अभ्यासे सक्तान् निरतान् श्रावकान् श्रोतॄन् आह्वयत् । आव्रजेद् इति एकैकापेक्षया एकवचनम् ॥ ४४ ॥

मन्दोपाकारिणी

अलमिति ॥ हे सहस्रश्रोतः । त्वया क्रियमाणेन अनुवादेन श्रुतग्रन्थानुवादेन अलम् अलम् । अलं शब्दो निषेधे । अनुवादो मास्तु इत्यर्थः । संभ्रमाद् द्विरुक्तिः ‘अलं भूषणपर्याप्तिशक्तिवारणवाचकं’ इत्यमरः । पश्चात् समयान्तरे अनुवाच्येत ग्रन्थानुवादः क्रियतां ‘अनुपूर्वं वच परिभाषणे’ इत्यतो कर्मणि विधिलिङ् आत्मनेपदम् । वाच्येत वाच्येयातां वाच्येरन् । मननं चिन्तनमपि अधुना न कर्तव्यम् । कुतः गुरव इदानीं प्रवक्तुं व्याख्यातुम् उद्यता ननु हि यस्मात् तस्मात् त्वं द्राक् शीघ्रम् आव्रज आगच्छ इति पृथक् पृथक् श्रावकाग्रयः श्रोतृषु प्रधानः कश्चित् शिष्यः श्रुतपरिचयसक्तान् श्रुतस्य ग्रन्थस्य परिचये पादार्धर्चादिरूपेण आवर्तनरूपाभ्यासे सक्तान् निरतान् तान् श्रावकान् श्रोतॄन् आह्वयद् आहूतवान् ‘ह्वेञ् स्पर्धायां शब्दे च’ इति धातोर् लङ् परस्मैपदम् ॥ ४४ ॥

अधिकधिषणमेनं व्याख्यया शोभमानं हरिमिव कविवर्यं सत्यवत्यास्तनूजम् ।
सततमनिमिषं सन्दृश्य सानन्दचित्ताः समयमपि गतं संविन्दते न स्म लोकाः
॥ ४५

भावप्रकाशिका

संविद्रते ‘वेत्तेर्विभाषेति’ रुट् ॥ ४५ ॥

पदार्थदीपिकोद्बोधिका

अधिकेति ॥ लोका जना व्याख्यया शोभमानं कविवर्यं ज्ञानिश्रेष्ठं सत्यवत्यास् तनूजं सत्यवतीपुत्रं हरिमिव व्यासमिव एनम् अधिकधिषणं श्रीपूर्णप्रज्ञाचार्यं सततं, न विद्यते निमेषो निमेषणं यथा भवति तथाऽनिमिषं सन्दृश्य दृष्ट्वा सानन्दम् आनन्दसहितं चित्तं येषां ते तथा सन्तो गतम् अतीतं समयं कालम् अपि न संविद्रते स्म न व्यजानन् । स्म अतीते । संविद्रत इति ‘समोगमृच्छीत्यात्मनेपदं’ ‘वेत्तेर्विभाषे’ति दस्य रुडागमः ॥ ४५ ॥

मन्दोपाकारिणी

अधिकेति ॥ लोका जना व्याख्यया शोभमानं कविवर्यं ज्ञानिश्रेष्ठं सत्यवत्याः सत्यवतीदेव्यास् तनूजं सुतं हरिं वेदव्यासमिव एनम् अधिकधिषणम् अधिका पूर्णा धिषणा बुद्धिर् यस्य स तथोक्तस् तं ‘बुद्धिर्मनीषा धिषणा’ इत्यमरः पूर्णप्रज्ञाचार्यं सततम् अविच्छेदेन अनिमिषं निमेषरहितं यथा भवति तथा अतिप्रीत्यासक्तिपूर्वकम् इति भावः । सन्दृश्य दृष्ट्वा सानन्दचित्ताः सानन्दं चित्तं येषां ते तथोक्तास्सन्तः गतम् अतिक्रान्तं समयमपि न संविन्दते स्म न ज्ञातवन्तः । ‘विद ज्ञाने’ इत्यस्माद् लट् आत्मनेपदम् । ‘समोगमृच्छिप्रच्छी’ इति आत्मनेपदं संवित्ते संविदाते संविन्दते, सविद्रते वा’ ॥ ४५ ॥

विश्वास-प्रस्तुतिः - ४६

उदयमित इवास्तं यंश्च भानुर्बभासे स्फुटमकलुषरूपो दर्शनीयोऽनुरागी ।
शुचिहरिपदमापत्सम्पदोराश्रितानां न हि भवति विशेषः स्वप्रकाशोन्नतानाम् ॥ ४६ ॥

मूलम् - ४६

उदयमित इवास्तं यंश्च भानुर्बभासे स्फुटमकलुषरूपो दर्शनीयोऽनुरागी ।
शुचिहरिपदमापत्सम्पदोराश्रितानां न हि भवति विशेषः स्वप्रकाशोन्नतानाम् ॥ ४६ ॥

पदार्थदीपिकोद्बोधिका

उदयमिति ॥ अकलुषं प्रसन्नं रूपं यस्य स तथा । अत एव दर्शनीयः सुखेन द्रष्टुं शक्यः । अनुरागो ऽस्यास्ति इति अनुरागी सन्ध्याकालानुयुक्ता-मलरागयुक्तो भानुः सूर्यः । अस्तम् अस्तगिरिं यन् गच्छंश्च, उदयम् उदयपर्वतम् इत इव प्राप्त इव स्फुटं सम्यक् बभासे शुशुभे । यथा कश्चित् प्रसन्नरूपो दर्शनीयः सुन्दरोऽनुरागी स्वप्रियेषु स्नेहयुक्तः पुरुषोऽस्तं विपदं गच्छन् सन्नुदयं सम्पदम् इत इव शोभते । न तु तत्र सङ्कोचविकासौ दर्शयति तथेत्यभिप्रायः । तत् तथा हि । शुचि निर्मलं हरिपदं विष्णुपदम् आकाशम् इत्यर्थः । आश्रितानां स्वप्रकाशोन्नतानां स्वरूपप्रकाशेन उत्कृष्टानाम् आपत्सम्पदोर् आपत्काले सम्पत्काले च विशेषः सङ्कोचविकासलक्षणो विकारो न भवति हि । श्रीहरिचरणाश्रितनां यथाऽऽपत्सम्पदोर् विशेषाभावस् तद्वद्विष्णुपदम् आकाशम् आश्रितस्य भानोरपि इति भावः । अत्रार्थान्तरन्यासालङ्कारः ॥ ४६ ॥

मन्दोपाकारिणी

उदयमिति ॥ भानुः सूर्यो ऽस्तम् अदर्शनं यंश्च गच्छन्नपि उदयम् इतः प्राप्त इव स्फुटं स्पष्टं बभासे शुशुभे ‘भासृ दीप्तौ’ इत्यतो लिट् आत्मनेपदम् । कथंभूतो ऽकलुषरूपः न विद्यते कलुषम् अस्वच्छं रूपं स्वरूपं यस्य स तथोक्तः ‘कलुषोऽनच्छ आविलः’ इत्यमरः स्वच्छरूप इत्यर्थः । अत एव दर्शनीयः सायंकाले सुखेन द्रष्टुं शक्यो ऽनुरागी अनुरागः सन्ध्याकालीनरक्तिमा अस्यास्तीति अनुरागी लोहितकान्तिर् इत्यर्थः । सूर्य उदयकाले यथा निर्मलाकारः सुखेन द्रष्टुं शक्यश्च लोहितकान्तिश्च तथैव अस्तमान-कालेऽपि तादृशगुणवान् अभूद् इत्यर्थः । यथा प्रसन्नरूपः दर्शनीयो ऽनुरागी स्वकीयेषु स्नेहवान् कश्चित् पुरुषो ऽस्तम् अदर्शनं विपदम् इत्यर्थः । यंश्च प्राप्नुवन्नपि उदयं संपदम् इत इव प्राप्त इव शोभते न तु तत्र सङ्कोचविकासौ दर्शयति तद्वत् सूर्य उदयास्तमययोर् एकप्रकार एव सन् शुशुभे इति भावः । तथा हि शुचि निर्मलं हरिपदं हरेर् विष्णोः पदं चरणम् आश्रितानां स्वप्रकाशोन्नतानां स्वप्रकाशेन स्वरूपप्रकाशेन उन्नतानाम् उत्कृष्टानां सतां पुरुषाणां, आपत्संपदोर् आपच्च संपच्च आपत्संपदौ तयोर् आपत्काले सम्पत्काले च विशेषः सङ्कोचविकासलक्षणविकारः न हि भवति । यथा श्रीहरिचरणमाश्रितानां सताम् आपत्संपदोर् विशेषाभावस् तथा विष्णुपदम् आकाशम् आश्रितस्य प्रकाशोन्नतस्य भानोरपि उदयास्तमययोर् विशेषाभाव इति भावः ॥ ४६ ॥

विश्वास-प्रस्तुतिः - ४७

मरकतमणिवर्णे भूतधात्रीपुरन्ध्रया लसति जलधिवासस्यर्धलीनः क्षणार्धम् ।
अरुणतरणिबिम्बच्छद्मना पद्मरागः कपिशकरकलापोल्लास्यभूत्प्रेक्षणीयः ॥ ४७ ॥

मूलम् - ४७

मरकतमणिवर्णे भूतधात्रीपुरन्ध्रया लसति जलधिवासस्यर्धलीनः क्षणार्धम् ।
अरुणतरणिबिम्बच्छद्मना पद्मरागः कपिशकरकलापोल्लास्यभूत्प्रेक्षणीयः ॥ ४७ ॥

पदार्थदीपिकोद्बोधिका

मरकतेति ॥ भूतधात्रीपुरन्ध््य्रा भूतधात्री भूमिरेव पुरन्ध्री स्त्री तस्या । ‘रमा वामा वामनेत्रा पुरन्ध्रीति हलः । मरकतश्चासौ मणिश्च तद्वद्वर्णो यस्य तथा तस्मिन् । लसति शोभमाने । जलधिः समुद्र एव वासो वस्त्रं तस्मिन् । क्षणार्धं किञ्चित्कालमित्यर्थः । अर्धलीनम् अर्धनिमग्नम् अरुणं लोहितं यत् तरणिबिम्बं सूर्यमण्डलं तदेव छद्म व्याजं तेन कपिशा रक्ता ये करा रश्मयस् तेषां कलापाः समूहास् तैर् उल्लसितुं शीलमस्येति तथोक्तः पद्मरागः प्रेक्षणीयो दर्शनीयोऽभूत् । कस्याश्चिद् योषितः नितम्बलग्ननीलवस्त्रे अर्धनिमग्नः पद्मरागो यथा दर्शनीयो भवति । एवं पृथिव्याख्ययोषितः समुद्राख्यनीलवसने अर्धनिमग्नो लोहितसूर्यमण्डलाख्यपद्मरागः प्रेक्षणीयो अभूदिति भावः । अत्र रूपकालङ्कारः ॥ ४७ ॥

मन्दोपाकारिणी

मरकतेति ॥ भूतधात्रीपुरन्ध््य्रा भूतधात्री पृथिव्येव पुरन्ध्री योषित् तस्याः ‘भूतधात्री रत्नगर्भा विपुला सागराम्बरा’ इत्यमरः । मरकतमणिवर्णे मरकतमणेर् इन्द्रनीलमणेर् वर्ण इव वर्णः नीलकान्तिर् यस्य तथोक्तस् तस्मिन् ‘गारुत्मकं मरकतम-श्मगर्भो हरिन्मणिः’ इत्यमरः । लसति शोभमाने जलधिवाससि जलधिः समुद्र एव वासो वस्त्रं तस्मिन् क्षणार्धं क्षणस्य अर्धम् अर्धक्षणपर्यन्तम् अर्धलीनो ऽर्धं यथा स्यात् तथा लीनः निमग्नः । अरुणतरणिबिम्बच्छद्मना अरुणः लोहितस् तरणिः सूर्यस् तस्य बिम्बं मण्डलं तस्य छद्मना व्याजेन कपिशकरकलापोल्लासी कपिशा लोहिताश्च ते करा रश्मयश्च कपि-शकरास् तेषां कलापैः समूहैर् उल्लासी भ्राजिष्णुः पद्मरागस् तन्नामकमणिः प्रेक्षणीयः दर्शनीयो ऽभूत् ‘कलापो भूषणे बर्हे तूणीरे संहतेऽपि च’ इत्यमरः । कस्याश्चिद् योषितः नितम्बसंवीतनीलवस्त्रे अर्धं गूढो ऽर्धं दृश्यमानः पद्मरागः यथा दर्शनीयो भवति एवं पृथिव्याख्ययोषितः समुद्रस्य नीलवर्णत्वात् समुद्राख्यनीलवसने निमग्नो ऽर्धं दृश्यः लोहित-सूर्यमण्डलः प्रेक्षणीयोऽभूद् इति भावः । अनेन सूर्यास्तमयो जात इत्युक्तं भवति ॥ ४७ ॥

विश्वास-प्रस्तुतिः - ४८

अवनिवनवनध्रुग्वायुखाहम्महत्सु प्रकृतिगुणसमेताव्याकृताकाश एकम् ।
ततमतनुमनाः सोऽचिन्तयत्सत्समाधावसुरसुरनरेभ्यः सद्गुणं नाथमन्यम् ॥ ४८ ॥

मूलम् - ४८

अवनिवनवनध्रुग्वायुखाहम्महत्सु प्रकृतिगुणसमेताव्याकृताकाश एकम् ।
ततमतनुमनाः सोऽचिन्तयत्सत्समाधावसुरसुरनरेभ्यः सद्गुणं नाथमन्यम् ॥ ४८ ॥

पदार्थदीपिकोद्बोधिका

अवनीति ॥ सः । अतन्वसूक्ष्मं मनो यस्य स तथा पूर्णप्रज्ञ इत्यर्थः । सत्समाधिः शोभनसमाधिस् तस्मिन् । समाधिसमय इत्यर्थः । अवनिर् भूमिः सा च वनं जलं तच् च । ‘जीवनं भुवनं वनम् इत्यमरः । वनध्रुक् वह्निः स च वायुश्च खम् आकाशं तच्च अहम् अहङ्कारतत्त्वं तच्च महन् महत्तत्त्वञ्च तेषु । प्रकृतिगुणाः सत्वरजस्तमांसि तैः समेतं तच्च तदव्याकृताकाशञ्च तस्मिन् ततं व्याप्तम् एकं प्रधानम् । स्थानभेदाद् भेदरहितं वा । असुराश्च सुराश्च नराश्च तेभ्यो जीवराशिभ्य इत्यर्थः । अन्यं भिन्नं सन्तो

गुणा यस्य स तथा तं निर्दोषज्ञानानन्दाद्यनन्तगुणमित्यर्थः । नाथं सर्वस्वामिनं भगवन्तम् अचिन्तयद् दध्यौ ॥ ४८ ॥

मन्दोपाकारिणी

अवनीति ॥ अतनुमना अतनु अनल्पं मनो यस्य सो ऽतनुमनाः । सः पूर्णप्रज्ञाचार्यः । सत्समाधौ संश्चासौ समाधिश्च शोभनसमाधिस् तस्मिन् समाधिसमये इत्यर्थः । अवनिवनवनध्रुग्वायुखाहम्महत्सु अवनिर् भूमिर् वनं जलं ‘वनं कानननीरयोः’ इति विश्वः, वनध्रुक् वनाय अरण्याय द्रुह्यति कुप्यते इति वनध्रुक् वनदाहकोऽग्निरित्यर्थः वायुर् भूतवायुः खम् आकाशं ‘खम् आकाशं प्रकीर्तितम्’ इति एकाक्षररत्नमाला अहम् अहङ्काराख्यं तत्त्वं महन् महत्तत्वम् । अवनिश्च वनं च वनध्रुक् च वायुश्च खं च अहं च महच्च अवनिवनवनध्रुग्वायुखाहम्महन्ति तेषु । तथा प्रकृतिगुणसमेता-व्याकृताकाशे प्रकृतेर् जडप्रकृतेः ‘प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे’ इति वैजयन्ती गुणाः सत्वरजस्तमाख्यास् त्रयो गुणास् तैः समेतश्चासौ अव्याकृताकाशश्च तस्मिन् ततं व्याप्तम् एकं स्थानभेदाद् भेदरहितं प्रधानं वा । असुरसुरनरेभ्यो ऽसुराश्च सुराश्च नराश्च तेभ्य उपलक्षणमेतच् चेतनाचेतनेभ्यो ऽन्यम् अत्यन्तभिन्नं सद्गुणं सन्तो निर्दोषा गुणा ज्ञानानन्दादयः यस्य सः सद्गुणस् तं नाथं सर्वस्वामिनम् एवंभूतं भगवन्तम् अचिन्तयद् ध्यातवान् । ‘चिति स्मृत्यां’ इति धातोर् लङ् परस्मैपदम्’ । सायंकालीनमन्त्रजपादि चकार इति भावः ॥ ४८ ॥

व्यदधत परिदृष्टज्योतिषः साधु सान्ध्यं नियममवनिदेवा ज्योतिषोऽप्यावलोकात् ।
विहितमनुसरन्तो धर्मशास्त्रप्रवीणाः सवितरि सवितारं चिन्तयन्तस्त्रिलोक्याः
॥ ४९

भावप्रकाशिका

आज्योतिषो दर्शनात् ‘पूर्वां सन्ध्यां जपंस्तिष्ठेत् सावित्रीमर्क-दर्शनात् । उत्तरां तु समासीत सम्यगृक्षविभावना’ दिति विहितम् ॥ ४९ ॥

पदार्थदीपिकोद्बोधिका

व्यदधतेति ॥ विहितं स्मृत्यादिविहितं सदाचारः सताम् आचारस् तम् अनुसरन्तो ऽनुवर्तमानाः । ‘पूर्वां सन्ध्यां जपंस्तिष्ठेत्सावित्रीमर्कदर्शनात् । उत्तरान्तु समासीनः सम्यगृक्षविभावनादि’ति स्मृतेः । धर्मशास्त्राणि धर्मप्रतिपादकशास्त्राणि तेषु प्रवीणाश् चतुराः स्मृतिविचारचतुरा इत्यर्थः । सवितरि सूर्ये त्रिलोक्याः सवितारं स्रष्टारं हरिं चिन्तयन्तो ध्यायन्तः । परिदृष्टानि ज्योतींषि सूर्यकिरणा यैस् ते तथोक्ता अवनिदेवा भूमिदेवा ब्राह्मणा ज्योतिषः जातावेकवचनं ज्योतिषाम् इति यावत् । अवलोको दर्शनं तस्माद् आ पर्यन्तं नक्षत्रदर्शनपर्यन्तमित्यर्थः । सन्ध्यायां कर्तव्यः सान्ध्यस्तं नियमं कर्म साधु सम्यग् यथा भवति तथा व्यदधत चक्रुः सूर्यास्तमयात्पूर्वमारभ्य नक्षत्रदर्शनपर्यन्तं सान्ध्यं कर्म अकुर्वन् इत्यर्थः ॥ ४९ ॥

मन्दोपाकारिणी

व्यदधतेति ॥ परिदृष्टज्योतिषः परिदृष्टानि ज्योतींषि सूर्यकिरणा यैस् ते परिदृष्टज्योतिषः । अवनिदेवा भूदेवा ब्राह्मणा ज्योतिषः नक्षत्रसमुदायस्य आवलोकाद् अवलोकः दर्शनम् आवलोकाद् दर्शनपर्यन्तं सान्ध्यं सन्ध्याकाले कर्तव्यमपि नियमं नित्यकर्म ‘नियमस्तु स यत्कर्म नित्यमागन्तुसाधनं’ इत्यमरः । साधु सम्यक् व्यदधत चक्रुः । ‘वि पूर्वाड् डु धाञ् धारणपोषणयोः’ इति धातोर् लङ् आत्मनेपदं व्यधत्त व्यदधातां व्यदधत । सूर्यास्तमानात्पूर्वमारभ्य नक्षत्रदर्शनपर्यन्तं सान्ध्यं कर्म अकुर्वन् इति भावः । कथंभूता विहितं ‘पूर्वां सन्ध्यां जपंस्तिष्ठेत्सावित्रीमर्कदर्शनात् । उत्तरान्तु समासीनः सम्यगृक्षविभावनात्’ इति स्मृत्यादिविहितं सदाचारम् अनुसरन्तो ऽनुवर्तमानाः । पुनः कथंभूता धर्मशास्त्रप्रवीणा धर्मशास्त्रे धर्मशास्त्रविचारे चतुराः । किं कुर्वन्तः सन्तः सवितरि सूर्ये त्रिलोक्यास् त्रयाणां लोकानां समाहारस् त्रिलोकी तस्याः सवितारं स्रष्टारं हरिं चिन्तयन्तः ध्येयस्सदा सवितृमण्डलमध्यवर्तीत्यादिगुणवत्तया ध्यायन्तः सन्तः ॥ ४९ ॥

विश्वास-प्रस्तुतिः - ५०

विविदुरतितरां ये देवताः षोडशोक्ता हरहरिहयपूर्वान्त्याः कलाभेदतोऽस्य ।
सुहुतमतिसृजन्तोऽग्न्याहितास्तेऽग्निहोत्रं व्यधुरुचितमपूर्वं येन गायत्रलोकः ॥ ५० ॥

मूलम् - ५०

विविदुरतितरां ये देवताः षोडशोक्ता हरहरिहयपूर्वान्त्याः कलाभेदतोऽस्य ।
सुहुतमतिसृजन्तोऽग्न्याहितास्तेऽग्निहोत्रं व्यधुरुचितमपूर्वं येन गायत्रलोकः ॥ ५० ॥

भावप्रकाशिका

रौद्रं गवि सद्वायव्यमुपावसृष्टमाश्विनं दुह्यमानं सौम्यं दुग्धं वारुणमधिश्रितं पौष्णं समुदयन्तं मारुतं विष्यन्दमानं वैश्वदेवं बिन्दुमन्मैत्रं शरो गृहीतं द्यावापृथिवीयमुद्वासितं सावित्रं प्रक्रान्तं वैष्णवं ह्रीयमाणं बार्हस्पत्यमुपावसन(मुपसम्पन्न) मग्नेः पूर्वाहुतिः प्रजापतेरुत्तरैन्द्रं हुतम्’ इति श्रुत्युक्ताः षोडशदेवताः । अतिसृजन्तोऽग्नये इदमित्यादिरूपेण । ‘वाहिताग्न्यादिष्वि’ति परनिपातः ॥ ‘गायत्रीलोकमाप्नोती’ति श्रुतौ गायत्रीशब्दोदितस्य विष्णोर्लोको ज्ञानद्वारा भवतीति ॥ ५० ॥

पदार्थदीपिकोद्बोधिका

विविदुरिति ॥ ये अग्न््याहिता आहिता अग्नयो यैस् ते अग्न््याहिताः । ‘वाहिताग्न््यादिषु’ इति सूत्राद्विशेषणस्य परनिपातः । आहिताग्नय इत्यर्थः । अस्य अग्निहोत्राख्यकर्मणः, कलानां भेदो विभागस् तेन इति ततः । अवान्तर-विभागाभिमानित्वेनेत्यर्थः । उक्ता ‘रौद्रं गवीत्या’दि श्रुत्युक्ता । हरो रुद्रः स च हरिहयः पुरन्दरः स च तौ पूर्वान्त्यौ यासां तास् तथोक्ता रुद्रपूर्वा हरिहयान्त्या इत्यर्थः । षडधिका दश षोडश देवता अतितरां सम्यक् विदुर् ज्ञातवन्तः । त अग्न््याहिता सुहुतम् अतिसृजन्तो ऽतिसर्जनं नाम ‘अग्नये इदं न मम’ इत्युक्तिस् तत् कुर्वन्तस्सन्तः । येनाग्निहोत्रेण गायत्रलोको गानत्राणकर्तृत्वेन, गायति च त्रायति चेति व्युत्पत्या गायत्रो गायत्रशब्दवाच्य श्रीहरिस् तस्य लोको भवति । अग्निहोत्रस्य भगवदर्पणबुद्ध्या कृतस्य ज्ञानद्वारा मोक्षहेतुत्वादिति भावः । उचितं स्वेषाम् उचितम् अपूर्वं सर्वेषाम् असाधारणं तमग्निहोत्रं व्यधुश् चक्रुः । षौडशदेवताश्च— ‘रौद्रं गवि सद्वायव्यमुपावसृष्टमाश्विनं दुह्यमानं सौम्यं दुग्धं वारुणमधिश्रितं पौष्णं समुदयन्तं मारुतं विष्यन्दमानं वैश्वदेवं बिन्दुमन्मैत्रं शरोगृहीतं द्यावापृथिवीयमुद्वासितं सावित्रं प्रक्रान्तं वैष्णवं ह्रीयमाणं बार्हस्पत्यमुपसन्नमग्नेः पूर्वाहुतिः प्रजापतेर् उत्तरैन्द्राहुतमि’ति श्रुत्युक्ताः । अस्याश्च अयमर्थः– गवि सत्, अग्निहोत्रे होष्यं क्षीरं दोहात्पूर्वं गवि वर्तमानं, रौद्रं रुद्रो देवता अस्येति रौद्रं, तदेव पुनरुपावसृष्टं स्तनस्थं सद् वायव्यं वायुदैवत्यं, दुह्यमानं सद् आश्विनम् आश्विदैवत्यं, दुग्धं निवृत्तदोहं सत् सौम्यं सोमदेवत्यं, अधिश्रितं, उष्णिकरणाधिश्रेण्यां निगदितं वारुणं वरुणदेवताकं, समुदयन्तं पाकानन्तरं सम्यग्गच्छन्तं पौष्णं पूषदैवत्यं, विष्यन्दमानम् अतिक्वथनेन पात्रादवगलन्मारुतं मरुद्दैवत्यं, बिन्दुमद् विष्यन्दसमये यदा बिन्दुयुक्तं भवति तदा वैश्वदेवं विश्वेदेवा अस्य देवता इत्यर्थः । प्रक्रान्तं होतुं प्रक्रान्तं सावित्रं सवितृदेवताकं, ह्रियमाणं होतुमग्निसमीपं नीयमानं वैष्णवं विष्णुदैवत्यं, उपावसनम् अग्नेः समीपं प्राप्तं बार्हस्पत्यं बृहस्पतिदैवत्यं, पूर्वाहुतिर् अग्नेः प्रथमाहुतिर् अग्निदैवत्या, प्रजापतेरुत्तरा उत्तराहुतिः प्रजापतिदैवत्या, हुतम् ऐन्द्रं, हवनक्रियेन्द्रदैवत्येत्यर्थः ॥ ५० ॥

मन्दोपाकारिणी

विविदुरिति ॥ अग्न्याहिता आहितो ऽग्निर् यैस् ते अग्न्याहिताः ‘वाहिताग्न्यादिषु’ इति सूत्रात् पूर्वनिपातः । अस्य अग्निहोत्राख्यकर्मणः कलाभेदतः कलानाम् अवान्तरविभागानां भेदतः, उक्ता अभिमानित्वेन श्रुतौ उदिताः । हरहरिहयपूर्वान्त्या हरः रुद्रश्च हरिहय इन्द्रश्च हरहरिहयौ पूर्व आदिमश्च अन्त्यो ऽन्तिमश्च पूर्वान्त्यौ हरहरिहयौ पूर्वान्त्यौ यासां तास् तथोक्ताः षोडशदेवतानां मध्ये रुद्रः पूर्व इन्द्रो ऽन्त्य इत्यर्थः ‘हरः स्मरहरो भर्गः’ इत्यमरः ‘जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः’ इत्यमरः । षोडश देवता अतितरां सम्यक् विविदुर् ज्ञातवन्तः ‘विद ज्ञाने’ इत्यस्माद् लिट् परस्मैपदं विवेद विविदतुर् विविदुः । ते ब्राह्मणा उचितं स्वेषां योग्यम् अपूर्वं सर्वेषाम् असाधारणम् अग्निहोत्रं कर्म व्यधुश् चक्रुः । ‘डु धाञ् धारणपोषणयोः’ लुङ् परस्मैपदम् अधाद् अधाताम् अधुः । किं कुर्वन्तः सुहुतम् अग्नौ प्रक्षिप्तं हविर् अतिसृजन्तस् त्यजन्तो ऽग्नौ हविः स्वाहेति हुत्वा ‘अग्नये इदं न मम’ इत्युक्तिं कुर्वन्त इत्यर्थः । अग्निहोत्रस्य फलमाह ॥ येनेति ॥ येन अग्निहोत्रेण गायत्रलोकः गायत्रस्य गायत्रनामकस्य हरेर् लोकः भवतीति शेषस् तादृशम् अग्निहोत्रं व्यधुर् इति सम्बन्धः । गायते त्रायते च इति व्युत्पत्या गानत्राणकर्तृत्वेन भगवतः गायत्र-शब्दवाच्यत्वं ज्ञेयम् अग्निहोत्रस्य भगवदर्पणबुद्ध्या कृतस्य ज्ञानद्वारा मोक्षहेतुत्वाद् इति भावः । षोडशदेवताप्रतिपादकश्रुतिर् उदाह्रियते ‘रौद्रं गवि सद्वायव्यमुपावसृष्टमाश्विनं दुह्यमानं सौम्यं दुग्धं वारुणमधिश्रितं पौष्णं समुदयन्तं मारुतं विष्यन्दमानं वैश्वदेवं बिन्दुमन्मैत्रं शरो गृहीतं द्यावापृथिवी यमुद्वासितं सावित्रं प्रक्रान्तं वैष्णवं ह्रियमाणं बार्हस्पत्यमुपसन्नमग्नेः पूर्वाहुतिः प्रजापतेरुत्तरैन्द्राहुतम् इति’ ॥ ५० ॥

विश्वास-प्रस्तुतिः - ५१

विधुरयमकलङ्कः स्याद्यदि स्यादवश्यं ननु निजसहजायाः सुन्दरास्येन्दुकल्पः ।
इति सुरललनाभिर्लालितः खेचरीभिः समधिकमधुरिम्णा पूर्णचन्द्रस्तदोदैत् ॥ ५१ ॥

मूलम् - ५१

विधुरयमकलङ्कः स्याद्यदि स्यादवश्यं ननु निजसहजायाः सुन्दरास्येन्दुकल्पः ।
इति सुरललनाभिर्लालितः खेचरीभिः समधिकमधुरिम्णा पूर्णचन्द्रस्तदोदैत् ॥ ५१ ॥

पदार्थदीपिकोद्बोधिका

विधुरिति ॥ खेचरीभिर् आकाशचरीभिः सुरललनाभिर् देवस्त्रीभिर् अयं विधुश् चन्द्रः यदि, न विद्यते कलङ्कश्चिह्नं यस्य सो ऽकलङ्कः स्याद् भवेत् तर्हि समधिको अत्युद्रिक्तो यो मधुरिमा माधुर्यं तेन निजा आत्मीया च सा सहजा स्वसा च निजसहजा तस्याः श्रीमहालक्ष्म्याः सुन्दरास्यमेव इन्दुस् तस्य सदृशः सुन्दरास्येन्दु-कल्पोऽवश्यं स्यान् ननु सर्वथा भवेद्धि इति लालितः श्लाघितः पूर्णचन्द्र उदैद् उदयमगात् । अयं भावः । चन्द्रो निजसहजाया रमायाः सुन्दरवदनमाधुर्यसमानमाधुर्यवान् भवति । तथापि न रमावदनसमानः । सममधुरमाधुर्यवत्वेऽपि सकलङ्कत्वात् । तस्मात्, यदि अयमकलङ्कः स्यात् तर्हि निष्कलङ्करमावदनसमानो भवेत् । न च अयं निष्कलङ्कः । एवं च सति सकलङ्कत्वान् न रमावदनसमानः । एतादृशमाधुर्यस्यान्यत्राभावान् नास्य समानस् तस्माद् असमान एवेति ॥ ५१ ॥

मन्दोपाकारिणी

विधुरिति ॥ तदा पूर्णचन्द्र उदैद् उदयम् अगात् ‘उत्पूर्वाद् इण् गतौ’ इति धातोर् लङ् परस्मैपदम् ऐद् ऐताम् आयन् । कथंभूतः खेचरीभिः खे आकाशे चरन्तीति खेचर्यस् ताभिः । सुरललनाभिः सुराणां देवानां ललनाभिः स्त्रीभिः’ प्रमदा मानिनी कान्ता ललना च नितम्बिनी’ इत्यमरः । लालित आदृतः, कथं, अयं विधुश् चन्द्रः यदि अकलङ्कः नैल्याख्यदोषरहितः स्यात् ‘कलङ्कोऽङ्कापवादयोः’ इत्यमरः । तर्हि निजसहजाया निजा स्वकीया च सा सहजा च निजसहजा तस्या निजस्वसुः रमायाः सुन्दरास्येन्दुकल्पः सुन्दरं च तद् आस्यं मुखं च सुन्दरास्यं सुन्दरास्यमेव इन्दुश् चन्द्रस् तस्य कल्पः सदृशो ऽवश्यं नियमेन स्यान्ननु भवेत् खलु तथापि समधिकमधुरिम्णा समधिक-श्चासौ मधुरिमा च समधिकमधुरिमा तेन अत्युत्तमसौन्दर्येण इत्यर्थः युक्त एव इति लालित आदृत इत्यर्थः सकलङ्कत्वाद् अकलङ्करमावदनसाम्याभावेऽपि एतादृशमाधुर्यस्य अन्यत्रा-भावान् नान्यसमानः किंतु अन्यापेक्षया अधिकसुन्दर एवेति लालित इति भावः ॥ ५१ ॥

विश्वास-प्रस्तुतिः - ५२

इनविरहमसह्यं प्राप्य पद्मैः सचक्रैश्चिरमिह परितप्तं पूर्वतप्तैः सुतुष्टम् ।
मृदुकुमुदचकोरैः पादसङ्गेन राज्ञः कमपि सकलहृद्यं कल्पयेन्नैव दैवम् ॥ ५२ ॥

मूलम् - ५२

इनविरहमसह्यं प्राप्य पद्मैः सचक्रैश्चिरमिह परितप्तं पूर्वतप्तैः सुतुष्टम् ।
मृदुकुमुदचकोरैः पादसङ्गेन राज्ञः कमपि सकलहृद्यं कल्पयेन्नैव दैवम् ॥ ५२ ॥

पदार्थदीपिकोद्बोधिका

इनेति ॥ इह रात्रौ चक्रैश् चक्रवाकैः सहितानि सचक्रानि (चक्रवाकानि) तैः पद्मैः । असह्यम् इनविरहं सूर्यवियोगं प्राप्य चिरं रात्रिपर्यवसानपर्यन्तं परितप्तम् । राज्ञश् चन्द्रस्य पादसङ्गेन किरणसम्बन्धेन पूर्वतप्तैर् दिवासूर्यकिरणतप्तैर् मृदुकुमुदानि मनोहरकुमुदानि तानि चकोराश् चकोरपक्षिणस् ते च तैः सुतुष्टं सुष्ठु सन्तोषं प्राप्तम् । तथा हि– दैवं विधिः कमपि पदार्थं सकलहृद्यं सकलमनोहरं नैव कल्पयेत् । निर्दोषोऽपि कश्चित् कस्यचिद् अप्रियो भवतीति भावः ॥ ५२ ॥

मन्दोपाकारिणी

इनेति ॥ इह रात्रौ सचक्रैश् चक्रवाकपक्षिभिः सहितानि सचक्राणि तैः ‘कोकश्चक्रश्चक्रवाकः’ इत्यमरः । पद्मैः कमलैर् असह्यं सोढुमशक्यम् इनविरहं सूर्यस्य वियोगं प्राप्य ‘इनः सूर्ये नृपे पत्यौ’ इति विश्वः । राज्ञश् चन्द्रस्य ‘राजा प्रभौ नृपे चन्द्रे’ इति विश्वः पादसङ्गेन पादानां रश्मीनां सङ्गेन सम्बन्धेन ‘पाद रश्म्यंघ्रितुर्यंशाः’ इत्यमरश् चिरं बहुकालं रात्र्यवसानपर्यन्तम् इत्यर्थः । परितप्तं दुःखितं पूर्वतप्तैरपि पूर्वं दिवा सूर्यकिरणैस् तप्तैर् दुःखितैर् मृदुकुमुदचकोरैर् मृदुभिः कोमलैः कुमुदैर् नीलोत्पलैश् चकोरैश् चकोराख्यपक्षिभिश्च सुतुष्टं सुष्ठु सन्तोषः प्राप्तः । तथा हि दैवं विधिः कमपि पदार्थं सकलहृद्यं सकलानां चेतनानां हृद्यं मनोहरं नैव कल्पयेन् न कुर्यात् । निर्दोषो न कश्चिदपि भवतीति एतच् चित्रं न हि इति भावः ॥ ५२ ॥

विश्वास-प्रस्तुतिः - ५३

दलितेन्द्रनीलमणिनीलविभ्रमं नवकुन्दकुड्मलसितद्विजावलि ।
स्मितया नगोत्तमशिरस्सुजातया वनमालया सुरभिताशयाऽन्वितम् ॥ ५३ ॥

मूलम् - ५३

दलितेन्द्रनीलमणिनीलविभ्रमं नवकुन्दकुड्मलसितद्विजावलि ।
स्मितया नगोत्तमशिरस्सुजातया वनमालया सुरभिताशयाऽन्वितम् ॥ ५३ ॥

भावप्रकाशिका

द्विजाः स्त्रीदन्ता नक्षत्राणि च । नगा गिरयो वृक्षाश्च ॥ ५३ ॥

पदार्थदीपिकोद्बोधिका

दलितेति ॥ विशेषकमेतत् । ‘त्रिभिः श्लोकैर्विशेष-कमि’त्युक्तेः । भगवान् स श्रीमध्वो गोभिर् वचनैस् तमांस्यज्ञानानि अपनयन् नाशयन् सन् प्रजानां गतिदं मोक्षदम् । आकाशपक्षे तु गमनक्रियाप्रदमित्यर्थः । मार्गदमिति वा । अन्योऽर्थोऽर्थान्तरं श्रीकृष्णाख्यं वस्तु प्रकटीचकार । तच्छास्त्रव्याख्यया तत्स्वरूपं प्रकटीचकारेत्यर्थः । भगवान् चन्द्रोऽपि स्वोदयेनार्थान्तरमाकाशाख्यं वस्तु प्रकटीचकार तत्राप्ययं विशेष इत्याह— परिपूर्णेत्यादिना । परिपूर्णसंवित् श्रीपूर्णप्रज्ञाचार्य आनन्दश्च चिच्चानन्दचितौ ताभ्यां सहिताः सानन्दचितस् तादृशा गुणाः सानन्दचिद्गुणास् तेषां गणः समूहो यस्य तत्तथोक्तमर्थान्तरं श्रीहरिलक्षणं वस्तु प्रकटीचकार । चन्द्रस्तु शब्दः गुणो यस्य तत् शब्दगुणं नभः प्रकटीचकारेत्ययमेव भेदः । एतावानेव विशेष इत्यर्थः । कथंभूतमर्थान्तरमित्यत आह— दलितेति । परिपूर्णसंवित् श्रीमध्वः । दलितो विपाटितो य इन्द्रनीलं मणिस् तस्य नीलविभ्रम इव नीलविभ्रमो नीलकान्तिर् यस्य तद् दलितेन्द्र-नीलमणिनीलविभ्रमम् । एवंविधं श्रीकृष्णाख्यं वस्तु । गगनमप्येतादृशम् । ‘आकाशो नीलमोदेतीति’ श्रुतेः । नवानि नूतनानि यानि कुन्दकुड्मलानि तानीव सिता धवला ये द्विजा दन्ताः । ‘दन्तविप्राण्डजा द्विजा’ इत्यमरः । तेषाम् आवलिः पङ्क्तिर् यस्य तत्तथोक्तम् । गगनञ्च नवकुन्दकुड्मलवद्धवलनक्षत्रयुक्तम् । स्मितया विकसितया । नगोत्तमा वृक्षोत्तमास् तेषां शिरांस्यग्राणि तेषु सुजाता सम्यगुत्पन्ना तया । सुरभिताः स्वगतपुष्पगन्धेन परिमलिता आशा दिशो यया सा तथोक्ता तया वनमालया वैजयन्त्याख्यया अन्वितं युक्तम् । गगनपक्षे तु— नगोत्तमशिरस्सु पर्वतोत्तमाग्रेषु सुजातया, वनमालया वनसमूहेना-न्वितमित्यर्थः । अर्थान्तरं श्रीकृष्णं गोभिर्वाग्भिः प्रकटीचकारेत्यन्वयः । चन्द्रस्तु गोभिः स्वचन्द्रिकाभिरुक्तप्रकारं गगनं प्रकटीचकारेति भावः । मञ्जुभाषिणीवृत्तम् । ‘सजसाजगौ च यदि मञ्जुभाषिणी’त्युक्तेः ॥ ५३ ॥

मन्दोपाकारिणी

अन्त्यकुलकमेतत् । भगवान् षड्गुणसम्पन्नः सः परिपूर्णसंवित् पूर्णप्रज्ञाचार्यो ऽर्थान्तरं कृष्णाख्यवस्तुविशेषं प्रकटीचकार सच्छास्त्रव्याख्यानेन तत्स्वरूपं स्पष्टं चकार । चन्द्रस्तु चन्द्रोऽपि स्वोदयेन अर्थान्तरं, आकाशाख्यं वस्तु प्रकाशयामास इति तृतीयश्लोकेन योजना । कथंभूतं कृष्णाख्यम् अर्थान्तरं- दलितेन्द्रनीलमणिनीलविभ्रमं दलितः विस्फुटितश्चासौ इन्द्रनीलमणिश्च दलितेन्द्रनीलमणिस् तद्वन् नीलः विभ्रमः कान्तिर् यस्य तत् तथोक्तम् आकाशाख्यमपि नीलरूपमेव । पुनः कथंभूतं नवकुन्दकुड्मल-सितद्विजावलि कुन्दस्य कुन्दपुष्पस्य कुड्मला मुकुलाः ‘कुड्मलो मुकलोऽस्त्रियां’ इत्यमरः नवा नूतनाश्च ते कुन्दकुड्मलाश्च नवकुन्दकुड्मलवत् सिताः शुभ्रा द्विजानां दन्तानाम् आवलिः पङ्क्तिर् यस्य तत् तथोक्तं ‘दन्तविप्राण्डजा द्विजाः’ इत्यमरः । आकाशन्तु नवकुन्दकुङ्मलवत् सितानां द्विजानां नक्षत्राणाम् आवलिः ‘यस्मिन् तत् तथोक्तम् । पुनः कथंभूतं स्मितया विकसितया नगोत्तमशिरस्सुजातया नगानां वृक्षाणाम् उत्तमा नगोत्तमाः पारिजातादयस् तेषां शिरोभिर् अग्रभागोत्पन्नपुष्पैर् इत्यर्थः । सु सम्यक् जातया उत्पन्नया ‘अगो नगश्च भुजगे भानौ भूधर भूरुहौ’ इति भास्करः । सुरभिताशया सुरभिताः परिमलिता आशा दिशः यया सा तथोक्ता तया ‘आशा तृष्णादिशोः प्रोक्ता’ इति विश्वः । वनमालया वैजयन्त्याख्यया मालया अन्वितं भूषितं ‘आपादलम्बिनी माला वनमालाभिधीयते’ इत्युक्तलक्षणा वनमाला ज्ञेया । आकाशं तु स्मितया विकसितकु-सुमयुक्तया नगोत्तमशिरस्सु जातया इति पदद्वयम् । नगोत्तमानां पर्वतोत्तमानां शिरस्सु उपरिप्रदेशेषु जातया सुरभिताशया सुरभिता आशा दिशः दिगन्ता यया सा तथोक्ता तया । वनमालया वनानां काननानां मालया समूहेन अन्वितं ‘माला च उन्नतभूमाला

पङ्क्तौ पुष्पादिदामनि’ इति भास्करः । मञ्जुभाषिणीवृत्तं ‘सजसाजगौ च यदि मञ्जुभाषिणी’ ॥ ५३ ॥

विश्वास-प्रस्तुतिः - ५४

मृदुगामिविमानसम्पदो रमयत्सुस्मितगोपसुन्दरीः
परितापविहीनमुज्ज्वलं सुततं सूक्ष्मतराम्बरं वरम् ॥ ५४ ॥

मूलम् - ५४

मृदुगामिविमानसम्पदो रमयत्सुस्मितगोपसुन्दरीः
परितापविहीनमुज्ज्वलं सुततं सूक्ष्मतराम्बरं वरम् ॥ ५४ ॥

भावप्रकाशिका

मृदुगामिन्यो विमानसम्पद आसां मृदुगामिन्यश्चैता विगतमान-सम्पदश्चेति च । गोपाः स्वर्गपाः पशुपाश्च । ततं व्याप्तं वीणादिवाद्यं च ॥ ५४ ॥

पदार्थदीपिकोद्बोधिका

मृद्विति ॥ स श्रीमध्वः । यद् अर्थान्तरं, मान एवाभिमान एव सम्पद् विगता नष्टा मानसम्पत् । यासां ता विमानसम्पदो नष्टलज्जा इत्यर्थः । मृदु मनोहरं यथा भवति तथा गन्तुं शीलमासामस्तीति मृदुगामिन्यस्ताश्च ता विमानसम्पदश्चेति मृदुगामिविमानसम्पदस्ताः । शोभनं स्मितं यासां ता सुस्मितास् ताश् च ता गोपसुन्दर्यश्च सुस्मितगोपसुन्दर्यस् ता रमयत् । आकाशमपि मृदुगामीनि यानि विमानानि तेषां सम्पद् यासां तास् तथोक्तास् ताः, गां स्वर्गं पान्तीति गोपा देवास् तेषां सुन्दर्योऽङ्गनास् ता रमयत् । मृदुगामिविमानारूढाः सुस्मिता देवाङ्गना आकाशे रमयन्ति हि । परितापविहीनं स्वतन्त्रत्वात् क्लेशरहितम् । आकाशन्तु जडत्वात् परितापविहीनम् । उज्वलं स्वच्छं निर्दोषमिति यावत् । आकाशमपि निर्मलम् । सु शोभनं ततं वीणादिवाद्यं यस्य तत्सुततम् । गोपाङ्गनाभिः सह नानावीणादिवाद्यैर् विहरदिति भावः । आकाशमपि सम्यग् व्याप्तम् । सूक्ष्मतरम् अतिसूक्ष्मम् अम्बरं वस्त्रं यस्य तत्तथोक्तम् । आकाशन्तु सूक्ष्मतरम् अतीन्द्रियञ्च तदम्बरं चेति सूक्ष्मतराम्बरं, बाह्येन्द्रियागोचरमित्यर्थः । वरमुत्तमम् । एवंविधं श्रीकृष्णाख्यं वस्तु सच्छास्त्रव्याख्यायनेन प्रकटीचकार । चन्द्रोऽपि स्वोदयेनैवंविधमम्बराख्यमर्थान्तरं प्रकटीचकारेत्यन्वयः । सुन्दरीवृत्तम् ॥ ५४ ॥

मन्दोपाकारिणी

पुनः कथंभूतं कृष्णाख्यम् अर्थान्तरम् ॥ मृदुगामिविमानसम्पदः मान एव अभिमान एव सम्पन् मानसम्पद् विगता मानसम्पद् याभ्यस् ता विमानसम्पदः नष्टलज्जा इत्यर्थः । मृदुगामिन्यः मन्दं गच्छन्त्यश्च ता विमानसम्पदश्चेति तथोक्ताः । सुस्मितगोपसुन्दरीः शोभनं स्मितं मन्दहासः यासां ताः सुस्मिता गोपानां गोपालकानां सुन्दर्यः रमण्यः सुस्मिताश्च ता गोपसुन्दर्यश्च ताः ‘सुन्दरी रमणी रामा’ इत्यमरः । रमयत् क्रीडयत् । आकाशं तु मृदुगामिविमानसम्पद आकाशे मृदु शनैर् गामिनां विमानानां सम्पद् यासां ताः सुस्मितगोपसुन्दरीर् गां स्वर्गं पान्तीति गोपा देवास् तेषां सुन्दर्यः सुस्मिताश्च ता गोपसुन्दर्यश्च ताः ‘गौर्नाके वृषभे चन्द्रे’ इति रत्नमाला । रमयद् देवाङ्गना विमानारूढाः सत्य आकाशे क्रीडन्तीति अर्थः । पुनः कथंभूतं, परितापविहीनं परितापेन सन्तापेन विहीनं, आकाशं तु जडत्वात् परितापविहीनम् । उज्ज्वलं स्वच्छं निर्दोषम् इति यावत् । आकाशं तु मेघरहितत्वाद् उज्ज्वलम् । सुततं सु शोभनं ततं वीणादिवाद्यं यस्य तत् सुततं गोपाङ्गनाभिस्सह वीणादिनानाविधवाद्यैर् विहारं कुर्वद् इति भावः ‘ततं वीणादिकं वाद्यं’ इत्यमरः । आकाशं तु सुततं सम्यक् ततं व्याप्तम् । सूक्ष्मतराम्बरम् अतिशयेन सूक्ष्मम् अम्बरं वस्त्रं यस्य तत् सूक्ष्मतराम्बरम् । आकाशं तु सूक्ष्मतरं च तद् अम्बरम् अम्बरशब्दवाच्यं च इति तथोक्तं, आकाशं तु बाह्येन्द्रियागोचरत्वात् सूक्ष्मम् इत्युच्यते । वरं सर्वोत्तमम् । आकाशं तु वरं पञ्चभूतोत्तमं पञ्चभूताऽवरा च इति पृथिव्या भूतावरत्वोक्त्या आकाशस्य भूतोत्तमत्वं सिद्धम् । सुन्दरीवृत्तम् ‘अयुजोर्यदि सौ लगौ लगौ समयोः स्भौरलगाश्च सुन्दरी’ इति वचनात् ॥ ५४ ॥

विश्वास-प्रस्तुतिः - ५५

गोभिस्तमांस्यपनयन् गतिदं प्रजानामर्थान्तरं स भगवान् प्रकटीचकार ।
सानन्दचिद्गुणगणं परिपूर्णसंविच्चन्द्रस्तु शब्दगुणमित्ययमेव भेदः ॥ ५५ ॥

मूलम् - ५५

गोभिस्तमांस्यपनयन् गतिदं प्रजानामर्थान्तरं स भगवान् प्रकटीचकार ।
सानन्दचिद्गुणगणं परिपूर्णसंविच्चन्द्रस्तु शब्दगुणमित्ययमेव भेदः ॥ ५५ ॥

॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते सुमध्वविजये महाकाव्ये आनन्दाङ्के चतुर्दशः सर्गः ॥

भावप्रकाशिका

गतिदं मोक्षदं मार्गदं च । निशायां भागवतं व्याचक्षाणः श्रीमन्मध्वः कृष्णादिरूपं प्रकाशितवानिति भावः ॥ ५५ ॥

इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य

भावप्रकाशिकाख्यटीकायां चतुर्दशः सर्गः ॥ १४ ॥

पदार्थदीपिकोद्बोधिका

व्याख्यातोऽयं श्लोकः । वसन्ततिलकावृत्तम् ॥ ५५ ॥

इति श्रीमद्वेदाङ्गमुनिविरचितश्रीसुमध्वविजयटीकाविवृतौ श्रीविश्वपतितीर्थकृतौ पदार्थदीपिकोद्बोधिकायां चदुर्दशः सर्गः ॥

मन्दोपाकारिणी

पुनः कथंभूतं प्रजानां जनानां मोक्षयोग्यानां गतिदं मोक्षादिगतिं ददातीति गतिदम् । आकाशन्तु प्रजानां गतिं मार्गं ददातीति गतिदम् इति । किं कुर्वन् सन् गोभिर् वचनैस् तमांसि अज्ञानाख्यतमांसि, अपनयन् नाशयन् चन्द्रोऽपि स्वोदयेन गोभिः किरणैस् तमांसि अन्धकारान् अपनयन् सन् । एवम् अर्थान्तरप्रकटनं चन्द्रमध्वयोः समं तथापि कश्चन विशेषोऽस्ति । कथं पूर्णप्रज्ञाचार्यः सानन्दचिद्गुणगणम् आनन्दश्च चिज् ज्ञानं च आनन्दचितौ आनन्दचिद्भ्यां सहिताः सानन्दचितस् ते च ते गुणा ऐश्वर्याद्यनन्तगुणाश्च तेषां गणः समूहः यस्य तत् सानन्दचिद्गुणगणं तद् अर्थान्तरं प्रकटीचकार । चन्द्रस्तु शब्दगुणं शब्दाख्य एक एव गुणो यस्य तत् शब्दगुणम् अर्थान्तरं प्रकटीचकार । इत्ययमेव एतावानेव भेदः विशेषः मध्वचन्द्रयोर् इति शेषः । अनेन रात्रौ चन्द्रोदयेन आकाशः सम्यक् प्रकाशितस् तथा रात्रौ मध्वाचार्यः पूर्वोक्तविशेषणकम् आनन्दज्ञानाद्यनन्तगुणं सर्वोत्तमं श्रीकृष्णाख्यं भगवन्तं भागवतादिसच्छास्त्रादिप्रवचनेन शिष्येभ्यः प्रकाशयामास इति भावः । वसन्ततिलकावृत्तं ‘उक्ता वसन्ततिलका तभजा जगौ गः’ इति तल्लक्षणात् ॥ ५५ ॥

इति श्रीमध्वविजयटीकायां श्रीमच्छलारिनरसिंहाचार्याणां शिष्येण विरचितायां मन्दोपकारिण्यां चतुर्दशः सर्गः ॥ १४ ॥