१३ त्रयोदशः सर्गः

त्रयोदशः सर्गः

त्रयोदशः सर्गः

विश्वास-प्रस्तुतिः - १

पृथुदर्शनमुत्थितं कृतार्थं पृथिवीभृत्प्रणतिं गृहीतवन्तम् ।
निजशिष्यमुदेऽथ सह्यमाप्तं पुरुषः कश्चिदुपाययौ कदाचित् ॥ १ ॥

मूलम् - १

पृथुदर्शनमुत्थितं कृतार्थं पृथिवीभृत्प्रणतिं गृहीतवन्तम् ।
निजशिष्यमुदेऽथ सह्यमाप्तं पुरुषः कश्चिदुपाययौ कदाचित् ॥ १ ॥

भावप्रकाशिका

‘उत्थाय पौर्णमास्यां स्वाराममितो निशीथ एव गतम् । श्रुत्वा चोलं त्रासाद्ग्राम्यैस्सह दत्तमग्रहीद्ग्रन्थम्’ । पृथिवीभृज्जयसिंहः ॥ १ ॥

पदार्थदीपिकोद्बोधिका

पृथ्विति ॥ उत्थितं कृतचातुर्मास्योत्थानं कृतो ऽर्थः प्रयोजनं येन स तथा तम् । चोलजं पद्मतीर्थं पौर्णमास्याम् उत्थाय निशीथ एव स्वारामतो गतं श्रुत्वा त्रस्तैर्ग्रामजनैर् दत्तं चोलजाहृतं पुस्तकजातं स्वयमगृहीत्वा कस्यचिन् मध्यस्थस्य करे स्थापितवन्तमिति भावः । पृथिवीभृत्प्रणतिं पृथिवीं बिभर्तीति पातीति पृथिवीभृज् जयसिंहाख्यभूपस् तस्य प्रणतिर् नमस्कारस्तां गृहीतवन्तम् अङ्गीकृतवन्तम् । निजाः स्वकीया ये शिष्यास् तेषां मुत् सन्तोषस् तस्यै । सह्यः सह्यगिरिस् तमाप्तम् । सह्योपरि विद्यमानानां निजशिष्याणां सन्तोषाय तत्र गन्तुं मार्गवशात्सह्यगिरिम् आप्तमिति भावः । पृथु महद् दर्शनं ज्ञानं यस्य तं श्रीपूर्णप्रज्ञं कदाचित् कश्चित्पुरुष उपाययौ । सर्गेऽस्मिन् प्रायश्चन्द्रिकावृत्तम् । ‘विषमे ससजा गुरू यदि स्युः सभारायश्च युजीह चन्द्रिका से’त्युक्तेः ॥ १ ॥

मन्दोपाकारिणी

पृथ्विति ॥ उत्थितं चातुर्मास्यव्रतादुत्थितं तत्समाप्तिमन्तम् इत्यर्थः कृतार्थः कृतः साधितो ऽर्थः पुस्तकप्राप्तिरूपप्रयोजनं येन सस् तथोक्तस् तं पृथिवीभृत्प्रणतिं पृथिवीभृतः जयसिंहाख्यस्य राज्ञः प्रणतिं नमस्कारं गृहीतवन्तम् अङ्गीकृतवन्तम् अथ निजशिष्यमुदे निजानां स्वकीयानां शिष्याणां मुदे संतोषार्थं सह्यं सह्याख्यपर्वतम् आप्तं प्राप्तवन्तम् । पृथुदर्शनं पृथु पूर्णं दर्शनं ज्ञानं यस्य सस् तथोक्तस् तं मध्वाचार्यं कदाचित् कस्मिंश्चित्काले कश्चित्पुरुषः जयसिंहराजभृत्य आह्वातुम् उपाययौ समीपमाजगाम । ‘उप आङ् पूर्वाद् या प्रापणे इति धातोर् लिट् परस्मैपदम्’ । चातुर्मास्यसमाप्त्यनन्तरं पद्मतीर्थं पौर्णमास्यां निशीथे एव स्थानाद्गतं श्रुत्वा तद्ग्रामस्थजनाः पद्मतीर्थेन अपहृतं मध्वाचार्यपुस्तकजातं मध्वाचार्याय दत्तवन्तः । मध्वाचार्यस्तु तत्पुस्तकजातं राजसन्निधौ पद्मतीर्थकृतम् अन्यायं प्रकटीकृत्य तं निंदयित्वा अनन्तरं ग्रहीष्यामीति बुध्या स्वयम् अगृहीत्वा तद्ग्रामस्थस्यैव कस्यचिन्मध्यस्थस्य हस्ते स्थापितवान् । तदा जयसिंहराजेन मध्वाचार्य-माहात्म्यं श्रुत्वा स्वां पुरीं प्रति आगन्तव्यमिति बुध्या प्रेषितं नमस्कारम् अङ्गीकृत्य श्रीमध्वे गच्छति सति मार्गे सह्यगतनिजशिष्या मध्वाचार्यं नमस्कारादिना प्रार्थ्य सह्यपर्वतं प्रति आनीतवन्तः । तत्र तेषां प्रीतये कतिचिद्दिनानि निवसति सति, कस्मिंश्चिद्दिवसे जयसिंह-राजभृत्यः मध्वाचार्यम् आह्वातुम् आजगामेति भावः । चन्द्रिकावृत्तं प्रायोऽस्मिन्सर्गे ‘विषमे ससजा गुरू यदि स्युः सभरायश्च युजीह चन्द्रिका सा’ इत्युक्तेः । केचिद् इदं वृत्तं मालभारिणी वसन्तमालिका वा इति वदन्ति ॥ १ ॥

विश्वास-प्रस्तुतिः - २

भगवानिह नः स्वकिङ्कराणामचिरेणाव्रजतादनुग्रहार्थम् ।
इति कार्यचिकीर्षयाऽऽर्थयत् त्वां नृप इत्यभ्यधितैष तं प्रणम्य ॥ २ ॥

मूलम् - २

भगवानिह नः स्वकिङ्कराणामचिरेणाव्रजतादनुग्रहार्थम् ।
इति कार्यचिकीर्षयाऽऽर्थयत् त्वां नृप इत्यभ्यधितैष तं प्रणम्य ॥ २ ॥

पदार्थदीपिकोद्बोधिका

भगवानिति ॥ एष समागतः पुरुषस्तं श्रीमध्वं प्रणम्य स्वकिङ्कराणां नोऽस्माकम् अनुग्रहार्थं, अचिरेण शीघ्राद् इह अस्मद्देश आव्रजतादागच्छतु । इति नृपो जयसिंहाख्यः कार्यचिकीर्षया चोलजाहृतपुस्तकापहारस्य प्रतिक्रियापूर्वकं त्वां क्षमापयित्वा मध्यस्थकरे स्थापितपुस्तकदानाख्यकार्यकरणेच्छया त्वामार्थयत् प्रार्थयामास । अर्थ उपयाञ्चायां लङ् । इत्यभ्यधित जगाद ॥ २ ॥

मन्दोपाकारिणी

भगवानिति ॥ एषः राजपुरुषस् तं श्रीमध्वाचार्यं प्रणम्य इति इत्थम् अभ्यधित अवोचत् । कथम् ? हे मध्वाचार्य भगवान् पूज्यः भवान् स्वकिंकराणां स्वस्य भवतः किंकराणां भृत्यानां नो ऽस्माकम् अनुग्रहार्थम् अनुग्रहं कर्तुम् अचिरेण शीघ्रेण इह अस्मत्पुर्याम् आव्रजताद् आगच्छतु इति । नृपः जयसिंहराजः कार्यचिकीर्षया कार्यस्य पद्मतीर्थकृतपुस्तकापहारस्य प्रतिक्रियापूर्वकं त्वां क्षमयित्वा मध्यस्थलोककरे स्थापितपुस्त-कादापनाख्यकार्यस्य चिकीर्षया कर्तुमिच्छया त्वाम् आर्थयत् प्रार्थितवान् इत्यभ्यधित इति सम्बन्धः । ‘अभिपूर्वाड् डु धाञ् धारणपोषणयोरित्यतो लुङात्मनेपदम् अधित अधिषाताम् अधिषत’ । ‘आङ् पूर्वाद् व्रज गतावित्यस्माल्लोट् परस्मैपदं व्रजतु व्रजताद् व्रजतां व्रजन्तु’ ॥ २ ॥

विश्वास-प्रस्तुतिः - ३

अथ माघवतीमपास्य काष्ठां व्रजता प्रैधिततेजसा प्रतीचीम् ।
परिशोधयता स्वपादसङ्गात् पृथिवीं प्राज्ञदिवाकरेण रेजे ॥ ३ ॥

मूलम् - ३

अथ माघवतीमपास्य काष्ठां व्रजता प्रैधिततेजसा प्रतीचीम् ।
परिशोधयता स्वपादसङ्गात् पृथिवीं प्राज्ञदिवाकरेण रेजे ॥ ३ ॥

पदार्थदीपिकोद्बोधिका

अथेति ॥ अथ इत्थं तद्वचनानन्तरम् । मघोन इन्द्रस्य सम्बन्धिनी माघवती तामैन्द्रीमिति यावत् । काष्ठां दिशमपास्य त्यक्त्वा प्रतीचीं पश्चिमां दिशं व्रजता, स्वपादौ स्वचरणौ तयोः सङ्गः संसर्गस् तस्मात् पृथिवीं परिशोधयता, प्रैधितं परिपूर्णं तेजो यस्य स तथा तेन । प्राज्ञदिवाकरेण श्रीपूर्णप्रज्ञाख्यसूर्येण रेजे । ऐन्द्रीमाशां हित्वा प्रतीचीं दिशं व्रजन् स्वकिरणसङ्गात् सर्वं पावयन् दिवाकरो यथा प्रकाशते तद्वद् उक्तलक्षणकोऽयं श्रीमध्वाचार्यो रराजेति भावः ॥ ३ ॥

मन्दोपाकारिणी

अथेति ॥ अथ राजभृत्यवचनानन्तरम् । माघवतीं मघवत इन्द्रस्य इयं माघवती तां प्राचीम् इत्यर्थः । ‘इन्द्रो मरुत्वान्मघवा’ इत्यमरः । अपास्य त्यक्त्वा प्रतीचीं पश्चिमां काष्ठां दिशं प्रति व्रजता गच्छता, स्वपादसङ्गात् स्वस्य पादौ चरणौ तयोस्सङ्गात् सम्बन्धात् पृथिवीं भूमिं परिशोधयता पवित्रीकुर्वता प्रैधिततेजसा प्रैधितं प्रकर्षेण अभिवृद्धं परिपूर्णम् इत्यर्थः, तेजः सामर्थ्यं यस्य सः प्रैधिततेजास् तेन प्राज्ञदिवाकरेण प्राज्ञः पूर्णप्रज्ञाचार्याख्यः दिवाकरः सूर्यस् तेन रेजे शुशुभे । ‘राजृ दीप्तावित्यतो भावे लिडात्मनेपदम् । भावे प्रथमपुरुषैकवचनमेव न द्विवचनबहुवचने भावस्यैकत्वात् । यथा प्राचीं दिशं त्यक्त्वा प्रतीचीं व्रजता स्वपादसङ्गात् स्वस्य पादा रश्मयस् तेषां सङ्गात् पृथिवीं परिशोधयता प्रैधिततेजसा अभिवृद्धदीप्तिमता सूर्येण दीप्यते तद्वत् सूर्यसदृशेन मध्वाचार्येण दीप्यते इति भावः ॥ ३ ॥

विश्वास-प्रस्तुतिः - ४

अशुभानपहाय मायिजुष्टानधमाद्रीनिव गोत्रनिम्नगौघैः ।
सुजनैस्तरसाऽभिगम्यमानः परमस्नेहतया क्रमप्रसन्नैः ॥ ४ ॥

मूलम् - ४

अशुभानपहाय मायिजुष्टानधमाद्रीनिव गोत्रनिम्नगौघैः ।
सुजनैस्तरसाऽभिगम्यमानः परमस्नेहतया क्रमप्रसन्नैः ॥ ४ ॥

भावप्रकाशिका

परमस्नेहतया परमप्रणयत्वात् स्नेहवत्वाच्च ॥ ४ ॥

पदार्थदीपिकोद्बोधिका

अशुभानिति ॥ अयं परमानन्दाख्यविद्वच्छ्रेष्ठः मायिजुष्टान् मायावादिभिर् वशीकृतान् अशुभान् दुर्जनान् अपहाय हित्वा परम उत्तमः स्नेहो यस्य स परमस्नेहस् तस्य भावस्तत्ता तया । क्रमप्रसन्नैः क्रमेण श्रीमध्वसन्दर्शनादिना प्रसन्नैर्मनः प्रसादमाप्नुवद्भिः, अर्थान्तरे परमस्नेहतयोत्तमद्रवद्रव्यत्वेन क्रमप्रसन्नैः क्रमेण कार्श्यं त्यजद्भिः । ‘आपः सांसिद्धिका द्रवा’ इत्युक्तेरपामेव स्वाभाविकद्रवत्वम् । लोहादीनां मूषाग्निसंयोगेन द्रवीभावादि औपाधिकत्त्वम् । तत्र परमस्नेहत्वं नाम स्वाभाविकद्रवत्वं विवक्षितम् । स्वाभाविकद्रवस्यैव कदाचित्कलुषस्य ततः क्रमेण प्रसन्नत्वं निर्मलत्वं भवति । तस्मात् परमस्नेहतया क्रमप्रसन्नैर्वर्षासु कलुषैः क्रमेण शरत्काले प्राप्तप्रसन्नैर्निर्मलैर् इत्यर्थः । सुजनैः सज्जनैर् मायिजुष्टान् मायिभिस् तस्करादिभिः सेवितानधमाद्रीन् क्षुद्रपर्वतानपहाय गोत्राणां पर्वतानां निम्नगा गोत्रनिम्नगास्तासाम् ओघास्तैरिव पर्वतोत्पन्ननदीसमूहैर् इव इत्यर्थः । तरसा त्वरयाऽभिगम्यमानः सन् प्रयाणे यात्रायां सुरसिन्धोर् देवनद्या गङ्गायाः सन्ततं प्रवाह इवातिवेलमत्यन्तं विबभौ शुशुभे । अत्यन्तकुलकमेतत् ॥ ४ ॥

मन्दोपाकारिणी

अशुभानिति ॥ अयं परमानन्दसुतीर्थसूरिराजः परम उत्तम आनन्दो यस्मात् तत् परमानन्दं मोक्षप्रदमिति यावत् । अत एव सु शोभनं तीर्थं शास्त्रं यस्य स तथोक्तः । ‘तीर्थं शास्त्रेऽध्वरे क्षेत्रे’ इत्यमरः । सूरिणां ज्ञानिनां राजा श्रेष्ठः सूरिराजः परमानन्दसुतीर्थश्चासौ सूरिराजश्च स तथोक्तः । प्रयाणे गमनकाले अतिवेलं भृशं बभौ शुशुभे ‘अतिवेलभृशात्यर्थं’ इत्यमरः ‘भा दीप्तावित्यतो लिट् परस्मैपदं बभौ बभतुर् बभुः । क इव ? सुरसिन्धोः सुराणां देवानां सिन्धोर् नद्या भागीरथ्याः सन्ततप्रवाहः सन्ततो ऽविच्छिन्नः प्रवाह इव निर्खर इव इति । अन्त्यकुलकमेतत् । कथंभूतो मध्वः मायिजुष्टान् मायावादिभिर् जुष्टान् वशीकृतान् अशुभान् दुर्जनान् अपहाय हित्वा सुजनैस् तरसा वेगेन ‘रंहो वेगस्तरो लघुः’ इति विश्वो ऽभिगम्यमानो ऽनुगम्यमानः । कथंभूतैः सुजनैः परमस्नेहतया परम उत्तमः स्नेहः प्रणयः येषां ते परमस्नेहास् तेषां भावः परमस्नेहता तया क्रमप्रसन्नैः क्रमेण पूर्वं श्रीमध्वाचार्यदर्शनं ततः स्पर्शनम् अनन्तरम् अभिलपनम् इत्यादिक्रमेण प्रसन्नैर् मनःप्रसादं प्राप्नुवद्भिर् मध्वाचार्ये अतिस्नेहस्य विद्यमानत्वात् तद्दर्शना-दिना प्रसन्नान्तःकरणैर् इत्यर्थः । कः कैरिव - अभिगम्यमानः गङ्गाप्रवाहः मायिजुष्टान् मायिभिः कपटवद्भिर् आश्रितान् अशुभान् अधमाद्रीन् अधमाः क्षुद्राश्च ते अद्रयश्च पर्वताश्च तान् अपहाय गोत्रनिम्नगौघैर् गोत्राणां महापर्वतानां ‘अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः’ इत्यमरः निम्नगानां नदीनां ‘स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा’ इत्यमर ओघैः समूहैरिव क्षुद्रपर्वतान् परित्यज्य महापर्वतोद्भवनदीभिर् अनुगम्यमान इत्यर्थः । कथंभूतैः ? निम्नगौघैः परमस्नेहतया परमः स्वाभाविकः स्नेहः द्रवत्वं येषां ते परमस्नेहास् तेषां भावः परमस्नेहता तया स्वाभाविकद्रवद्रव्यत्वात् क्रमप्रसन्नैर् वर्षर्तौ कलुषैः क्रमेण शरत्काले प्राप्ते प्रसन्नैः कलुषं त्यजद्भिः स्वभाविकनिर्दोषस्यैव कदाचित् कलुषीभूतस्य क्रमेण प्रसन्नत्वस्य जायमानत्वाद् इति भावः ॥ ४ ॥

विश्वास-प्रस्तुतिः - ५

सुमनःफलशोभिनोऽत्र पुंसो नमयन् गोभिरनोकहानिवोच्चान् ।
अपि भङ्गमुपानयन्ननम्रान् दृढभावानपरानवार्यवीर्यः ॥ ५ ॥

मूलम् - ५

सुमनःफलशोभिनोऽत्र पुंसो नमयन् गोभिरनोकहानिवोच्चान् ।
अपि भङ्गमुपानयन्ननम्रान् दृढभावानपरानवार्यवीर्यः ॥ ५ ॥

पदार्थदीपिकोद्बोधिका

सुमन इति ॥ अयं परमानन्दसुतीर्थसूरिराजो अत्र भुवि उच्चान् उत्तमान् । मुक्तियोग्यान् इति भावः । सुमनःफलशोभिनः सु शोभनं यन्मनस् तस्य फलानि फलभूतानि ज्ञानभक्तिवैराग्यादीनि तैः शोभिनः शोभमानान् । मनोनैर्मल्यजन्यत्वेन मनसः फलभूतैर् ज्ञानादिगुणैः शोभमानानि इत्यर्थः । पुंसः पुरुषान् सत्पुरुषान् इति यावत् । गोभिर् वचनैः । सुरसिन्धुप्रवाहो गोभिर्जलैः सुमनःफलशोभिनः सुमनांसि पुष्पाणि फलानि च तैः शोभिनः शोभमानान् उच्चानुन्नताननोकहानिव वृक्षानिव नमयन् आप्रवणी-कुर्वन् सन् । ‘अनोकह कुटः शालः पलाशी द्रुद्रुमानगा’ इत्यमरः । दृढस्य भाव दृढभावस् तस्माद् दृढत्वादित्यर्थः । कठिनमानसादिति यावत् । अनम्रानविनीतान् । अपरान् पुंसोऽन्यान् पुरुषान् भङ्गमपि तिरस्कारमपि प्रवाहमुखे तिर्यक् पतितान् दृढत्वाद् नम्रान् वृक्षान् सुरसिन्धुप्रवाह इवोपानयन् प्रापयन् सन् । ‘शुष्ककाष्ठानि मूर्खाश्च भज्यन्ते न नमन्ति च’ इति हि भाषितम् । अवार्यं दुर्वादिभिर् निवारयितुम् अशक्यं वीर्यं वादसामर्थ्यं यस्य स तथा सन् । न हि केनचिन्निवार्यते मध्वोऽखिलदुर्वादिनिराकरणसंरम्भ इत्यर्थः । सुरसिन्धु-प्रवाहसंरम्भप्रवाह इव श्रीमध्व एतादृशः सन् प्रयाणे सुरसिन्धोर् गङ्गायाः सन्ततप्रवाह इवातिवेलम् अत्यन्तं विबभौ रेज इत्यन्वयः ॥ ५ ॥

मन्दोपाकारिणी

सुमन इति ॥ पुनः कथंभूतः ? अत्र मार्गे सुमनःफलशोभिनः सु शोभनं निर्मलं च तन् मनश्च सुमनः सुमनसः फलानि निर्मलमनोजन्यत्वेन मनःफलानि ज्ञानभक्तिवैराग्यादिगुणास् तैः शोभिनः शोभमानान् । उच्चान् उत्तमान् मोक्षयोग्यान् इति भावः । पुंसः पुरुषान् गोभिः स्वकीयवचनैर् नमयन् स्वस्मिन् प्रवणीकुर्वन् । कः कानिव गङ्गाप्रवाहः गोभिर् जलैः ‘भूवाग्वारिषु गौर्मता’ इति विश्वः । सुमनःफलशोभिनः सुमनोभिः पुष्पैः फलैश्च शोभमानान् ‘मालायां पण्डिते पुष्पे देवे सुमनसोऽभिधा’ इति विश्वः । उच्चान् उत्तमान् अनोकहान् वृक्षान् इव नमयन् प्रह्वीभावं प्रापयन् ‘अनोकहः कुटस्सालः पलाशी द्रुद्रुमागमाः’ इत्यमरः फलपुष्पभराक्रान्तान् वृक्षान् प्रवाहः स्वजलैर्यथा नमयति तद्वदिति भावः । कथंभूतः दृढभावान् दृढः भावः स्वभावः येषां ते तथोक्तास् तान् ‘भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु’ इत्यमरः । अनम्रान् अविनीतान् अपरान् पुंसः भङ्गमपि पराजयमपि ‘भङ्गः खड्गे पराजये’ इति रत्नमाला । उपानयन् प्रापयन् दृढभावान् दृढस्वरूपान् अत एव अनम्रान् भङ्गं द्वैधीभावं प्रापयन् प्रवाह इव ‘शुष्ककाष्ठानि मूर्खाश्च भज्यन्ते न नमन्ति च’ इत्युक्तेः पुनः कथंभूतो ऽवार्यवीर्यो ऽवार्यं केनाप्यनिवार्यं वीर्यं दुर्वादिनिराकरणसंरम्भः यस्य स तथोक्तः गङ्गाप्रवाहोऽपि अवार्यवेगः ॥ ५ ॥

विश्वास-प्रस्तुतिः - ६

गमनोत्सवविस्मितैर्निषेव्यो विविधैर्जानपदैर्जनैरजस्रम् ।
परिसत्वरकीर्तिरार्तिमुक्त्यै पुरुषैर्दूरभवैश्च गम्यमानः ॥ ६ ॥

मूलम् - ६

गमनोत्सवविस्मितैर्निषेव्यो विविधैर्जानपदैर्जनैरजस्रम् ।
परिसत्वरकीर्तिरार्तिमुक्त्यै पुरुषैर्दूरभवैश्च गम्यमानः ॥ ६ ॥

पदार्थदीपिकोद्बोधिका

गमनेति ॥ अयं परमानन्दसुतीर्थसूरिराजो गमनोत्सवो गमनमेवोत्सवो महस्तेन विस्मितास्तैर्विविधैर् जनपदेषु ग्रामेषु भवा जानपदास् तैर्जनैर् अजस्रं निषेव्यः सन् । गङ्गाप्रवाहश्च समुद्रं प्रति गमनोत्सवविस्मितैर् जानपदैर् जनैर् निषेव्यः । नानाविधशिष्यसंवृतमेनं गमनसमये द्रष्टुं नानाजनपदाज्जना आगच्छन्ति इत्यर्थः । परिसत्वरा प्रसरिष्णुः कीर्तिर् यस्य स तथा सन् गङ्गाप्रवाहोऽप्येतादृशः । आर्तिमुक्तयै सांसारिकदुःख-निवृत्यर्थं पुरुषैर् दूरा च सा भूः प्रदेशश्च दूरभूस्तस्या गम्यमानः प्राप्यमानःसन् । गङ्गौघोऽप्येतादृशः, प्रयाणे सुरसिन्धोः सन्ततप्रवाह इव अतिवेलं विबभावित्यर्थः ॥ ६ ॥

मन्दोपाकारिणी

पुनः कथंभूतः ? गमनोत्सवविस्मितैर् गमनलक्षणे उत्सवे विस्मितैर् आश्चर्ययुक्तैः । विविधैर् जानपदैर् जनपदो देशः ‘नीवृज्जनपदौ देशविषयौ’ इत्यमरः जनपदे विद्यमाना जानपदास् तैर् जनैः । अजस्रं नित्यं प्रतिदिनमिति यावत् । ‘नित्यानवरताजस्रं’ इत्यमरः । निषेव्यः सेव्यमानः । पुनः कथंभूतः ? परिसत्वरकीर्तिः परिसत्वरा प्रसरणशीला कीर्तिर् यशः यस्य स तथोक्तः । आर्तिमुक्त्यै आर्तेः सांसारिकदुःखस्य मुक्त्यै निवृत्यर्थं दूरभवैश्च दूरदेशे भवन्ति उत्पद्यन्ते इति दूरभवास् तैरपि पुरुषैर् गम्यमानः । यथा भागीरथीप्रवाह उभयतीरगतैर् नानादेशस्थैर् विस्मयेन गमनोत्सवदर्शिभिर् जनैः प्रतिदिनं स्नानपानादिना सेव्यते लोकव्याप्तकीर्तिश्च भूत्वा सर्वदुःखविमोचनार्थं दूरदेशस्थैरपि जनैः प्राप्यते, तद्वदयं मध्वाचार्यस् तत्तद्देशगतस्सन् नानाविधशिष्यवृन्देन सह प्रयाणसमये आश्चर्येण गमनोत्सवदर्शिभिर् नानाविधतत्तद्देशस्थजनैः प्रतिदिनम् अभिगमननमस्कारादिना सेव्यते । तथा च प्रतिदिनं वर्धमानकीर्तिस्सन् दूरदेशोत्पन्नैरपि दर्शननमस्कारादिना सर्वदुःख-विमोचनाय प्रतिदिनं प्राप्यते च इति भावः ॥ ६ ॥

विश्वास-प्रस्तुतिः - ७

अमरैरमरानुगैर्मुनीन्द्रैरपरेक्षाविषयैश्च सेव्यमानः ।
हरिपादसरोजसङ्गसारो भुवने पावनपावनो निकामम् ॥ ७ ॥

मूलम् - ७

अमरैरमरानुगैर्मुनीन्द्रैरपरेक्षाविषयैश्च सेव्यमानः ।
हरिपादसरोजसङ्गसारो भुवने पावनपावनो निकामम् ॥ ७ ॥

पदार्थदीपिकोद्बोधिका

अमरैरिति ॥ अयं परमानन्दसुतीर्थसूरिराजः । अपरेषां मनुष्यादीनाम् ईक्षा चाक्षुषज्ञानं तस्या अविषया अगोचरास् तैः, अमरैर् देवैर् अमरानुगैर् देवभृत्यैर् गन्धर्वादिभिर् मुनीन्द्रैश्च सेव्यमानःसन् । सुरसिन्धुप्रवाहोऽप्येवमेव निकाममत्यन्तं हरेः पादः स एव सरोजं पद्मं तस्य सङ्गस् तेन सार उत्तमः । अत एव भुवने पावनात् पवित्रात् पावनः पावनपावनोऽत्यन्तं शुद्धःसन् । मार्गे तत्र तत्र गमनेऽपि हरिपादसन्त-तस्मरणात् सदाप्यतिशुद्धः सन् एवेत्यर्थः । एवमेव गङ्गाप्रवाहोऽपि । प्रयाणे सुरसिन्धोः सन्ततप्रवाह इवातिवेलं विबभावित्युत्तरश्लोकेनान्वयः ॥ ७ ॥

मन्दोपाकारिणी

अमरैरिति ॥ पुनः कथंभूतः ? अपरेक्षाविषयैर् अपरेषां मनुष्याणाम् ईक्षाया दृष्टेर् अविषयैर् अगोचरैर् अदृश्यैर् इत्यर्थः । अपरोक्षाविषयैरिति पाठेऽपि प्रत्यक्षाविषयैर् इत्येवार्थः । अमरैर् देवैर् अमरानुगैर् अमराणाम् अनुगैर् भृत्यैर् गन्धर्वैर् मुनीन्द्रैश्च निकामं यथेप्सितं ‘कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितं’ इत्यमरः सेव्यमानः । गङ्गाप्रवाहोऽपि एवमेव हि । पुनः कथंभूतः ? हरिपादसरोजसङ्गसारः हरेः श्रीनारायणस्य पादावेव सरोजे कमले तयोः सङ्गेन संबन्धेन सार उत्तमः ‘सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु’ इत्यमरः । अत एव भुवने लोके पावनपावनो ऽत्यन्तं पवित्रः । एवं सुरसिन्धुप्रवाहोऽपि । त्रिविक्रमपादप्रक्षालनोदकत्वाद् गङ्गाया इति ॥ ७ ॥

विश्वास-प्रस्तुतिः - ८

अयमप्रतिवारणः प्रयाणे परमानन्दसुतीर्थसूरिराजः ।
विबभावतिवेलमच्छरूपः सुरसिन्धोरिव सन्ततप्रवाहः ॥ ८ ॥

मूलम् - ८

अयमप्रतिवारणः प्रयाणे परमानन्दसुतीर्थसूरिराजः ।
विबभावतिवेलमच्छरूपः सुरसिन्धोरिव सन्ततप्रवाहः ॥ ८ ॥

पदार्थदीपिकोद्बोधिका

अयमिति ॥ अच्छं निर्दोषं रूपं यस्य स तथा । सुरसिन्धुप्रवाहोऽपि धवलस्वरूपः । प्रयाणं गमनं तस्मिन् । न विद्यते प्रतिवारणं प्रतिद्वन्द्वो यस्य स तथा गमनेऽसदृश इत्यर्थः । सूरीणां विदुषां राजा सूरिराजः परमानन्दतीर्थ एवोत्तमानन्दतीर्थ एव सूरिराजो ज्ञानिश्रेष्ठः । सुरसिन्धोर् देवनद्या गङ्गायाः । ‘देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियामि’त्यमरः । सन्ततः सार्वकालिकश्चासौ प्रवाहश्च सन्ततप्रवाहः स इव । अतिक्रान्ता वेला मर्यादा यथा भवति तथाऽतिवेलम् अत्यन्त-मित्यर्थः । विबभौ विरेजे ॥ ८ ॥

मन्दोपाकारिणी

अयमिति ॥ पुनः कथंभूतः ? अप्रतिवारणः न विद्यते प्रतिवारणः प्रतिरोधकर्ता यस्य स तथोक्तः । प्रवाहोऽपि तादृशः । अच्छरूपो ऽच्छं निर्मलं रूपं स्वरूपं

यस्य स तथा । गङ्गाप्रवाहोऽपि धवलवर्णो ऽवशिष्टपदानि चतुर्थश्लोके द्रष्टव्यानि ॥ ८ ॥

विश्वास-प्रस्तुतिः - ९

समयेन गतोऽमहीयसाऽसौ विषयं स्तम्भपदोपसर्जनाख्यम् ।
मदनाधिपतेः सुधाम धाम प्रविवेशाखिललोकवन्दनीयम् ॥ ९ ॥

मूलम् - ९

समयेन गतोऽमहीयसाऽसौ विषयं स्तम्भपदोपसर्जनाख्यम् ।
मदनाधिपतेः सुधाम धाम प्रविवेशाखिललोकवन्दनीयम् ॥ ९ ॥

भावप्रकाशिका

विषयस्य ‘कबेनाड्’ इत्यपभ्रष्टभाषा ॥ ९ ॥

पदार्थदीपिकोद्बोधिका

समयेनेति ॥ असौ श्रीमध्वः महीयान् न भवतीत्यमहीयान् ते नामहीयसा अल्पेन इत्यर्थः । समयेन कालेन स्तम्भ इति पदं स्तम्भपदं तदुपसर्जनम् अमुख्यम् । उपपदम् इति यावत् । यस्याः सा स्तम्भपदोपसर्जना सैवाख्या नाम यस्य स स्तम्भपदोपसर्जनाख्यस् तं विषयं जनपदम् । ‘कबेनाडित्यपभ्रष्टसंज्ञा । तथा च कबेनाडिति संज्ञायाः स्तम्भपदोपसर्जनत्वं सम्भवति । गतः प्राप्तःसन् सु शोभनं धाम तेजो यस्य तत् सुधाम, मदनाधिपतेर् मदनेश्वरनाम्नो देवस्य, अखिललोकाः समस्तजनास्तैर्वन्दनीयं नमस्कार्यं धाम आलयं प्रविवेश । मदनाधिपतिनाम्नो ‘मधूरि’त्यपभ्रष्टसंज्ञा ॥ ९ ॥

मन्दोपाकारिणी

समयेनेति ॥ असौ मध्वाचार्यो ऽमहीयसा महीयान् अतिबहुलो न भवतीति अमहीयान् तेन अल्पेनेत्यर्थः । समयेन कालेन ‘कालो दिष्टोऽप्यनेहापि’ इत्यमरः । स्तम्भपदोपसर्जनाख्यं स्तम्भ इति पदम् उपसर्जनं यस्याः सा स्तम्भपदोपसर्जना तादृशी आख्या अभिधानं यस्य सः स्तम्भपदोपसर्जनाख्यस् तम् । विषयं देशं ‘विषयः स्यादिन्द्रियार्थे देशे जानपदेऽपि च’ इति विश्वः । गतः प्राप्तःसन् । सुधाम शोभनं धाम तेजः यस्य तत् सुधाम मदनाधिपतेर् मदनाधिपतिनाम्नः देवस्य धाम आलयं ‘धामधिष्ण्ये च तेजसि’ इति विश्वः । प्रविवेश प्रविष्टवान् । ‘विश प्रवेशने’ इति धातोर् लिट् परस्मैपदं विवेश विविशतुर् विविशुः । कथंभूतं धाम ? अखिललोकवन्दनीयम् अखिलाश्च ते लोकाश्च जनाश्च तैर् वन्दनीयं नमस्करणीयं ‘लोकस्तु भुवने जने’ इत्यमरः ॥ ९ ॥

विश्वास-प्रस्तुतिः - १०

क्षणदामिह तावदूषिवांसं विहिताहर्मुखयोग्ययोगमेनम् ।
गमनोद्यमलक्षणैरजानन् गमनायोद्यतमाशु शिष्यसङ्घाः ॥ १० ॥

मूलम् - १०

क्षणदामिह तावदूषिवांसं विहिताहर्मुखयोग्ययोगमेनम् ।
गमनोद्यमलक्षणैरजानन् गमनायोद्यतमाशु शिष्यसङ्घाः ॥ १० ॥

भावप्रकाशिका

क्षणदामूषिवांसं ‘कालाध्वनोरत्यन्तसंयोग’ इति द्वितीया ॥१० ॥

पदार्थदीपिकोद्बोधिका

क्षणदामिति ॥ इह मदनाधिपतिधामि्न क्षणदां रात्रिं तावदूषिवांसम् । अत्यन्तसंयोगे द्वितीया । अहर्मुखस्य प्रातःकालस्य योग्योऽहर्मुखयोग्यः स चासौ योगः कर्म च अहर्मुखयोग्ययोगः । विहितः कृतोऽहर्मुखयोग्ययोगो येन स तथोक्तस् तम् । कृतप्रातःस्नानादिकर्माणम् इति यावत् । ‘प्रत्यूषोऽहर्मुखं कल्यमि’त्यमरः । एनं श्रीमध्वं शिष्यसङ्घा गमनस्य प्रयाणस्योद्यमः प्रयत्नस्तस्य लक्षणानि चिह्नानि तैराशु गमनं प्रयाणं तस्मादुद्यतं सन्नद्धं व्यजानन् । ज्ञा अवबोधने लङ् ॥ १० ॥

मन्दोपाकारिणी

क्षणदामिति ॥ इह मदनाधिपतिदेवालये । क्षणदां रात्रिं ‘निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा’ इत्यमरः । तावत् तां रात्रिमेव ऊषिवांसम् एकरात्रिमात्रं वासं कृतवन्तं ‘यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे’ इत्यमरः । विहिताहर्मुखयोग्ययोगं विहितो ऽनुष्ठितो ऽहर्मुखे प्रत्यूषे प्रातःकाले इत्यर्थः । ‘प्रत्यूषोऽहर्मुखं कल्यं’ इत्यमरः । योग्यो ऽनुष्ठानं कर्तुम् उचितः योगः कर्म येन स तथोक्तस् तं कृतप्रातस्नानादिकर्माणम् इति यावत् । एनं श्रीमध्वाचार्यं शिष्यसङ्घाः शिष्याणां शिष्यभूतानां यतीनां गृहस्थानां ब्रह्मचारिणां सङ्घा गणाः ‘गणौघसङ्घसङ्घात-व्रातवारकुलोत्कराः’ इति हलायुधः । गमनोद्यमलक्षणैर् गमने गमनविषये उद्यमस्य उद्योगस्य लक्षणैश् चिह्नैर् आशु गमनाय शीघ्रेण गन्तुम् उद्यतम् उद्योगं कुर्वन्तम् अजानन् ज्ञातवन्तः । ‘ज्ञा अवबोधने’ इत्यस्माल्लङ् परस्मैपदम् अजानाद् अजानीताम् अजानन् । एकस्यामेव रात्रौ उषित्वा प्रातःकाले स्नानादिविहितकर्म कृत्वा उद्योगं कुर्वाणं मध्वाचार्यं विलोक्य शीघ्रं गन्तुम् उद्योगं करोतीति ज्ञातवन्त इति भावः ॥ १० ॥

विश्वास-प्रस्तुतिः - ११

पुरतो विसृताः समाधिशुद्ध्यै यतयस्तत्र पटीः कषायवेषाः ।
सहसोदहरन् स्वयोग्यमुद्रायुतदण्डादिकधारणोद्यमेन ॥ ११ ॥

मूलम् - ११

पुरतो विसृताः समाधिशुद्ध्यै यतयस्तत्र पटीः कषायवेषाः ।
सहसोदहरन् स्वयोग्यमुद्रायुतदण्डादिकधारणोद्यमेन ॥ ११ ॥

पदार्थदीपिकोद्बोधिका

पुरत इति ॥ यतयः श्रीमध्वशिष्यास् तत्र अमरसदने समाधेर्भगवद्ध्यानस्य शुद्धिश्चित्तविशेषाभावलक्षणसौष्ठवं तस्यै पुरतोऽग्रतो विसृता विस्तृता यवनिकात्वेन कृता इति यावत् । कषायो वेषः स्वरूपं यासां ताः कषायवेषाः पटीः पटान् । स्वेषां परमहंसानां योग्याः स्वयोग्यास् तादृशा या मुद्राः सुरभिपरश्वादिमुद्रास् ताभिर्युता युक्ता ये दण्डादिका दण्डपुस्तककमण्डल्वादयस् तेषां धारणं ग्रहणं तस्योद्यमः प्रयत्नस् तेन सह, सहसा द्राक् उदहरन्नुद्धृतवन्तः ॥ ११ ॥

मन्दोपाकारिणी

पुरत इति ॥ यतयः मध्वशिष्याः संन्यासिनः । तत्र देवालये समाधिशुद्ध्यै समाधौ भगवद्ध्याने ‘समाधिर्नियमे ध्याने’ इत्यभिधानम् । शुद्ध्यै चित्तविक्षेपाभावलक्षणसौष्ठवाय पुरतः । स्वेषामग्रतः ‘स्यात्पुरः पुरतोऽग्रतः’ इत्यमरः । विसृताः प्रसारिता यवनिकत्वेन कृता इत्यर्थः कषायवेषाः कषायः रक्तः वेषः वर्णः यासां ताः कषायवेषाः ‘निर्यासे च कषायोऽथ लोहितः’ इति विश्वः पटीः पटान् सहसा द्राक् उदहरन् उद्धृतवन्तः । कथम् ? स्वयोग्यमुद्रायुतदण्डादिकधारणोद्यमेन स्वेषां परमहंसानां योग्याभिः परशुप्रभृतिभिर् मुद्राभिर् युतास् ते च ते दण्डा यष्टयश्च दण्डा एव आदयो येषां कमण्डलुपुस्तकादीनां ते स्वयोग्यमुद्रायुतदण्डादिकास् तेषां धारणे उद्यमेन प्रयत्नेन सहेति शेषः । यतयः शीघ्रगमनोद्यमं मध्वाचार्यं दृष्ट्वा स्वयमपि दण्डकमण्डलुपुस्तकादिभारोद्धरण-रूपोद्यमं चक्रुरिति भावः । उत्पूर्वात् ‘हृञ् हरण’ इत्यतो लङ् परस्मैपदम् ॥ ११ ॥

विश्वास-प्रस्तुतिः - १२

अवधार्य विशेषकारिशङ्खप्रकटाङ्कान् सुधिया गतार्द्रभावान् ।
लसिता तुलसीस्रगस्य कण्ठे हरिनिर्माल्यतयोचिता न्यधायि ॥ १२ ॥

मूलम् - १२

अवधार्य विशेषकारिशङ्खप्रकटाङ्कान् सुधिया गतार्द्रभावान् ।
लसिता तुलसीस्रगस्य कण्ठे हरिनिर्माल्यतयोचिता न्यधायि ॥ १२ ॥

पदार्थदीपिकोद्बोधिका

अवधार्येति ॥ शोभना धीर् यस्य स सुधीस् तेन केनचिद् यतिना । अस्य श्रीमध्वस्य विशेषका वक्षोभुजादिगतास्तिलकास् ते च अरिश् चक्रं स च शङ्खश्च तयोर्ये प्रकटाः स्पष्टा अङ्का लाञ्छनानि तान् । ‘तिलकं तमालपत्रं चित्रकमुक्तं विशेषकः पुण्ड्रमि’ति हलः । गत आर्द्रभावो येषां ते तथा तान् शुष्कानिति यावत् । अवधार्य ज्ञात्वा । लसिता शोभमाना हरेर् निर्माल्यं हरिनिर्माल्यं तस्य भावस्तत्ता तया, उचिता धर्तुम् उचिता तुलसीस्रक् तुलस्या माला अस्य श्रीमध्वस्य कण्ठे गले न्याधायि निहिता ॥ १२ ॥

मन्दोपाकारिणी

अवधार्येति ॥ सुधिया शोभना धीर् यस्य सः सुधीस् तेन केनचिन्मध्वाचार्यशिष्येण । विशेषकारिशङ्खप्रकटाङ्कान् विशेषकास् तिलकाः ‘तमालपत्र-तिलकचित्रकाणि विशेषकाः’ इत्यमरः । अरिश् चक्रं च शङ्खश्च अरिशङ्खौ ‘अरिः पुमांश्चक्रवाके रिपौ चक्रे तु न द्वयोः’ इत्यभिधानम् । तयोः प्रकटाः स्फुटाश्च ते अङ्काश् चिह्नानि ‘अङ्क उत्सङ्गाचिह्नयोः’ इत्यमरः । विशेषकाश्च अरिशङ्खप्रकटाङ्काश्चेति तथोक्ताः । तान् वक्षोभुजादिगतान् गोपीचन्दनादिना कृतान् तिलकान् तदुपरि चक्रशङ्खयोः स्वच्छलांछनानि च इत्यर्थः । गतार्द्रभावान् आर्द्राणां भावः धर्म आर्द्रभावः गतो ऽपगत आर्द्रभाव आर्द्रत्वं येभ्यस्ते तथोक्तास् तान् । शुष्कान् इति यावत् । अवधार्य ज्ञात्वा । तिलकानाम् आर्द्रत्वे मालासम्बन्धेन नाशशङ्कया शुष्कत्वं निश्चित्य इति भावः । लसिता शोभमाना मनोहरा तुलसीस्रक् तुलस्याः स्रक् माला ‘माल्यं मालास्रजौ’ इत्यमरः । तुलसीकोमलदलनिर्मिता तत्काष्ठमणिनिर्मिता वा माला अस्य श्रीमध्वाचार्यस्य कण्ठे गले ‘कण्ठो गलोऽथ ग्रीवायां’ इत्यमरः । न्यधायि निहिता । कथंभूता हरिनिर्माल्यतया हरेर् निर्माल्यतया समर्पितत्वेन अनुभूतशेषतया उचिता धारयितुं योग्या । ‘निपूर्वकाद्धाञ् धातोः कर्मणि लुङात्मनेपदम् अधायि अधायिषाताम् अधायिषत’ ॥ १२ ॥

विश्वास-प्रस्तुतिः - १३

यतधीर्गुरुचक्रिमूर्तिपूर्णं यतनिश्वासवचा विशोध्य पाणी ।
गुणकुण्डलमण्डितं विमानं गुणबद्धं कवचावृतं बभार ॥ १३ ॥

मूलम् - १३

यतधीर्गुरुचक्रिमूर्तिपूर्णं यतनिश्वासवचा विशोध्य पाणी ।
गुणकुण्डलमण्डितं विमानं गुणबद्धं कवचावृतं बभार ॥ १३ ॥

पदार्थदीपिकोद्बोधिका

यतधीरिति ॥ निश्वासश्च वचश्च निश्वासवचसी यते नियमिते निश्वासवचसी येन स तथोक्तः । यतधीर् वशीकृतमना यतिर् इत्यर्थः । पाणी हस्तौ विशोध्य प्रक्षाल्य चक्राण्यस्य सन्तीति चक्रिण्यस्ताश्च ता मूर्तयश्चक्रिमूर्तयः, गुरूणां श्रीमध्वाचार्याणां चक्रिमूर्तयस् ताभिः पूर्णम् । गुणेन तन्तुना कृते कुण्डले गुणकुण्डले ताभ्यां मण्डितम् अलङ्कृतम् । गुणबद्धं कवचावृतं कवचेनाच्छादनवस्त्रेणावृतम् आच्छादितं विमानं देवपेटीं बभार ॥ १३ ॥

मन्दोपाकारिणी

यतधीरिति ॥ यतनिश्वासवचा निश्वासः श्वासवायुश्च वचः वचनं च निश्वासवचसी यते नियमिते निश्वासवचसी येन स तथोक्तः । मौनवान् इत्यर्थः । यतधीर् यता निगृहीता धिय इन्द्रियवृत्तयः येन सः यतधीः कश्चिद्यतिर् इत्यर्थः । ‘ये निर्जितेन्द्रियग्रामा यतिनो यतयश्च ते’ इत्यमरः । पाणी हस्तौ विशोध्य उदकेन प्रक्षाल्य गुरुचक्रिमूर्तिपूर्णं गुरूणां श्रीमध्वाचार्याणां चक्रिण्यश् चक्रवत्यश्च ता मूर्तयश्च प्रतिमाश्च चक्रिमूर्तयः शालग्रामशिला इत्यर्थस् ताभिः पूर्णम् । गुणकुण्डलमण्डितं गुणैस् तन्तुभिर् वृत्तं च तत् कुण्डलं च गुणकुण्डलं तेन मण्डितम् अलङ्कृतम् । गुणबद्धं गुणेन तन्तुना बद्धम् । कवचावृतं कवचाकारवस्त्रेण आच्छादितं विमानं पेटिकाख्यं बभार शिरसि धृतवान् । ‘डु भृञ् भरणे इत्यतो लिट् परस्मैपदं बभार बभ्रतुर् बभ्रुः’ ॥ १३ ॥

विश्वास-प्रस्तुतिः - १४

सकमण्डलुमण्डलावलम्बं स्वयमेवालघुपुस्तकादिभारम् ।
युवशिष्यगणो दधे नयत्नान्न हि दाक्ष्यस्य समो गुणोऽपरोऽस्ति ॥ १४ ॥

मूलम् - १४

सकमण्डलुमण्डलावलम्बं स्वयमेवालघुपुस्तकादिभारम् ।
युवशिष्यगणो दधे नयत्नान्न हि दाक्ष्यस्य समो गुणोऽपरोऽस्ति ॥ १४ ॥

पदार्थदीपिकोद्बोधिका

सकमण्डल्विति ॥ युवानश्च ते शिष्याश्च युवशिष्यास् तेषां गणः समूहः । कमण्डलूनां जलपात्राणां मण्डलं समूहस् तस्य अवलम्बोऽवलम्बनं तेन सहितः सकमण्डलुमण्डलावलम्बस्तम् । अलघुर्गुरुर्यः पुस्तकादिभारः पुस्तकानि आदीनि येषां तानि तेषां भारस्तम् । स्वयमेवोद्धरणादावन्यापेक्षां विनैव, यत्नाभावो नयत्नस् तस्मात् । नैकधेत्यादिवन्नसमासोऽयम् । दधे उवाह । तथा हि दक्षस्य समर्थस्य भावो दाक्ष्यं तस्य समोऽपरोऽन्यो गुणो नास्ति हि । दक्षत्वमेव सर्वगुणेषु प्रधानमिति भावः । हीति प्रसिद्धिं सूचयति । अत्रार्थान्तरन्यासालङ्कारः ॥ १४ ॥

मन्दोपाकारिणी

सेति ॥ युवशिष्यगणः यूनां तरुणानां शिष्याणां छात्राणां गणः समूहः । सकमण्डलुमण्डलावलम्बं कमण्डलूनाम् उदकपात्राणां मण्डलं कदम्बकं ‘स्यान्मण्डलं द्वादशराजके च देशे च बिल्वे च कदम्बके च’ इति विश्वः । तस्य अवलम्बेन ग्रहणेन सहितम् । अलघुपुस्तकादिभारं पुस्तकमेव आदि यस्य स तथोक्तः पुस्तकादिश्चासौ भारश्च । लघुर्न भवतीति अलघुर् गुरुरित्यर्थः, अलघुश्चासौ पुस्तकादिभारश्च तम् । स्वयमेव उद्धरणादौ अन्यापेक्षां विनैव नयत्नाद् अनायासाद् दधे शिरसि उवाह । ‘धाञो लिडात्मनेपदं दधे दधाते दधिरे’ । गुरुभूतपदार्थवहनं युक्तमेवेत्याह न हीति । दाक्ष्यस्य दक्षस्य भावो दाक्ष्यं तस्य दक्षत्वस्य समः सदृशो ऽपरो गुणः नास्ति दक्षत्वमेव सर्वगुणेषु प्रधानं हीति भावः ॥ १४ ॥

विश्वास-प्रस्तुतिः - १५

अतिसम्भ्रमतः परिभ्रमन्तं भरदामानवलोकिनं चिराय ।
अनुयोगपरं मुहुः प्रमत्तं जहसुर्नूतनशिष्यमत्र केचित् ॥ १५ ॥

मूलम् - १५

अतिसम्भ्रमतः परिभ्रमन्तं भरदामानवलोकिनं चिराय ।
अनुयोगपरं मुहुः प्रमत्तं जहसुर्नूतनशिष्यमत्र केचित् ॥ १५ ॥

पदार्थदीपिकोद्बोधिका

अतीति ॥ अत्र अस्मिन्काले । केचित् शिष्याश् चिराय चिरकाले भरस्य स्वेन नेतव्यस्य पुस्तकादिभारस्य यद्दाम बन्धनपाशस् तदनवलोकिनम् अपश्यन्तम् । अत एव अतिसम्भ्रमतः परिभ्रमन्तम् । गमनकालात्ययशङ्कयेति भावः । मुहुः पुनः पुनरनुयोगे ‘त्वया दृष्टं किमि’ति पुनः पुनः प्रश्ने परः परायणस् तं प्रमत्तं विस्मृतनिहितस्थलं नूतनशिष्यं जहसुः ॥ १५ ॥

मन्दोपाकारिणी

अतीति ॥ अत्र स्वाधिष्ठितस्थले प्रयाणोद्यमकाले केचित् शिष्या नूतनशिष्यं नवीनशिष्यं जहसुर् हसितवन्तः ‘हसे हसने’ इत्यतो लिट् परस्मैपदं जहास जहसतुर् जहसुः । कथंभूतं चिराय बहुकालं ‘चिरायचिररात्रायचिरस्याद्याश्चिरार्थकाः’ इत्यमरः । भरदामानवलोकिनं भरस्य नेतव्यपुस्तकादिभारस्य ‘भरोऽतिशयभारयोः’ इत्यमरः । दाम बन्धनपाशो ऽनवलोकिनम् अपश्यन्तम् अत एव अतिसम्भ्रमत उद्वेगात् ‘सम्भ्रमः साध्वसेऽपि स्यात्’ इति विश्वः । परिभ्रमन्तम् इतस्ततः सञ्चरन्तम् । गमनकालात्ययशङ्कयेति भावः । मुहुः पुनःपुनो ऽनुयोगपरम् अनुयोगः प्रश्नः ‘प्रश्नोऽनुयोगः पृच्छा च इत्यमरः । तत्र परम् आसक्तं ‘‘त्वया दृष्टं किं भरदाम’’ इति प्रतिपुरुषं पुनःपुनः पृच्छन्तम् इत्यर्थः । प्रमत्तं निहितस्थलस्मृतिरहितम् ॥ १५ ॥

विश्वास-प्रस्तुतिः - १६

अथ तत्क्षणघट्टितोरुघण्टाघननादव्यपदेशतः परेण ।
अमितप्रमतिः प्रचोदितोऽसाविति निर्यत्सु निजेषु निर्जगाम ॥ १६ ॥

मूलम् - १६

अथ तत्क्षणघट्टितोरुघण्टाघननादव्यपदेशतः परेण ।
अमितप्रमतिः प्रचोदितोऽसाविति निर्यत्सु निजेषु निर्जगाम ॥ १६ ॥

पदार्थदीपिकोद्बोधिका

अथेति ॥ अथ असौ अमितप्रमतिः श्रीपूर्णप्रज्ञाचार्यः निजेषु स्वशिष्येषु इति एवं निर्यत्सु निर्गच्छत्सु । स चासौ क्षणश्च तत्क्षणस् तस्मिन् निर्गमनसमय इत्यर्थः । घट्टिता ताडिता या उरुघण्टा तस्या यो घननादः स एव व्यपदेशो व्याजस् तस्मादिति ततः । परेण मदनाधिपतिना देवेन प्रचोदितः सन् निर्जगाम । निर्गच्छतो घण्टानाद एव शोभनं निमित्तम् अभूदिति भावः ॥ १६ ॥

मन्दोपाकारिणी

अथेति ॥ असौ अमितप्रमतिर् अमिता पूर्णा प्रमतिः प्रज्ञा यस्य स तथोक्तः श्रीपूर्णप्रज्ञाचार्यः । निजेषु स्वकीयेषु शिष्येषु । इति पूर्वोक्तप्रकारेण स्वस्वभारम् ऊढ्वा निर्यत्सु देवालयान्निर्गच्छत्सु सत्सु । अथ अनन्तरं निर्जगाम निर्गतवान् । कथंभूतस् तत्क्षणघट्टितोरुघण्टाघननादव्यपदेशतः स चासौ क्षणश्च तत्क्षणस् तस्मिन्निर्गमनसमये घट्टिता ताडिता केनचित् पुरुषेण सहसा वादिता उरुघण्टा उर्वी स्थूला च सा घण्टा च उरुघण्टा तत्क्षणघट्टिता च सा उरुघण्टा च तत्क्षणघट्ठितोरुघण्टा घनः गम्भीरश्चासौ नादः शब्दश्च तत्क्षणघट्टितोरुघण्टाया घननादः स एव व्यपदेशः व्याजस् तस्मात् परेण मदनदेवालयस्थेन परमात्मना ‘परोऽरिपरमात्मनोः’ इत्यमरः । प्रचोदितः प्रेरितः । निर्गमनसमये देवालयान्त उपरिभागे बद्धा घण्टा केनचित् पुरुषेण स्वभावतः वादिता तं घण्टानादं श्रुत्वा मध्वो ऽयं घण्टानाद एव निर्गच्छतः शोभनसमय इति मदनाधिपतिर् मां प्रेरयतीति घण्टानादं निमित्तीकृत्य निर्जगामेति भावः ॥ १६ ॥

विश्वास-प्रस्तुतिः - १७

धृतमातपवारणं वरेण्यं व्रतिराजं तमुपर्युपर्युदारम् ।
उदयन्मिहिरोपरिष्ठपूर्णद्विजराजश्रियमाययावभूताम् ॥ १७ ॥

मूलम् - १७

धृतमातपवारणं वरेण्यं व्रतिराजं तमुपर्युपर्युदारम् ।
उदयन्मिहिरोपरिष्ठपूर्णद्विजराजश्रियमाययावभूताम् ॥ १७ ॥

पदार्थदीपिकोद्बोधिका

धृतमिति ॥ वरेण्यं श्रेष्ठम् । व्रतिनां यतीनां राजा व्रतिराजस् तं श्रीमध्वम् । उपर्युपरि उपरिभागे समीपभाग इत्यर्थः । धृतम् उदारमुत्तमम् आतपवारणं श्वेतच्छत्रम् । अभूतां कुत्राप्यजातां कुत्राप्यदृष्टाम् इति यावत् । उदयन् उद्यन्यो मिहिरः सूर्यस् तस्योपरिष्ठ उपरि वर्तमानो यः पूर्णद्विजराजः पूर्णचन्द्रस् तस्य श्रीः कान्तिस् तामाययौ प्राप । श्रीमध्वस्योद्यदादित्यवर्णत्वात् तदुपरि ध्रियमाणस्य छत्रस्य पूर्णचन्द्रवच्छ्वेतत्वाद् उद्यदादित्योपरिभागस्थपूर्णचन्द्रशोभां लेभ इति अभूतोपमेयम् । व्रतिराजमित्यत्र ‘उभसर्वतसोः कार्याधिगुपर्यादिषु त्रिषु द्वितीये’त्यनेन द्वितीया ॥ १७ ॥

मन्दोपाकारिणी

धृतमिति ॥ वरेण्यं वरणीयं व्रतिराजं व्रतिनां राजा व्रतिराजस् तं श्रीमध्वाचार्यम् । उपर्युपरि शिरस उपरिष्टात् समीपे । ‘उपर्यध्यधसः सामीप्ये’ इति सूत्रेण द्विरुक्तिः । धृतं केनचित् शिष्येण । उदारं महद् अत्युत्तममिति यावद् आतपवारणम् आतपं सूर्यप्रभां वारयति निवारयतीति आतपवारणं ‘प्रकाशो द्योत आतपः’ इत्यमरः । छत्रपर्यायातपत्रशब्दार्थकथनम् इदम् । आतपात् त्रायते इति हि तच्छब्दार्थश् छत्रमित्यर्थः । अभूतां कुत्रापि कदापि अदृष्टाम् । उदयन्मिहिरोपरिष्ठपूर्णद्विजराजश्रियम् उदयद् उदयं प्राप्नुवांश्चासौ मिहिरः सूर्यश्च ‘मिहिरारुणपूषणः’ इत्यमरः । तस्य उपरि तिष्ठतीति उपरिष्ठः पूर्णः षोडशकलापूर्णश्चासौ द्विजराजश् चन्द्रश्च ‘द्विजराजश्शशधरः’ इत्यमरः । उपरिष्ठश्चासौ पूर्णद्विजराजश्च तस्य श्रीः शोभा ताम् । ‘श्रीर्वेषरचना शोभा’ इत्यमरः । आययौ प्राप । ‘या प्रापणे इत्यतो लिट् परस्मैपदम् । अयं भावः - मध्वाचार्यस्य सुवर्णप्रभात्वाद् उद्यदादित्यसाम्यं मध्वोपरि धृतच्छत्रस्य शुभ्रत्वात् पूर्णिमाचन्द्रसाम्यम् । यदि उद्यदादित्यस्य लोहितमण्डलोपरिष्टात् सम्पूर्णधवलं वर्तुलं चन्द्रमण्डलं भवेत् तर्हि सुवर्णवर्णमध्वाचार्य-मस्तकोपरि धृतस्य धवलवर्तुलच्छत्रस्योपमा सम्भवेत् । न चेष्टापत्तिः । लोहितोदितसूर्योपरि श्वेतपूर्णचन्द्रमण्डलस्य कदापि अभूतत्वाद् अत एव अभूतोपमा इयमिति ॥ १७ ॥

विश्वास-प्रस्तुतिः - १८

भुवनत्रयधारिणं मुकुन्दं दधदन्तस्स दधे गुरुः स्वयं च ।
अपि केनचिदित्यदो न चित्रं ननु स प्राणपतिर्बभार तं च॥ १८ ॥

मूलम् - १८

भुवनत्रयधारिणं मुकुन्दं दधदन्तस्स दधे गुरुः स्वयं च ।
अपि केनचिदित्यदो न चित्रं ननु स प्राणपतिर्बभार तं च॥ १८ ॥

पदार्थदीपिकोद्बोधिका

भुवनेति ॥ भुवनत्रयं लोकत्रयं बिभर्ति । तच्छील इति भुवनत्रयभारी तम् । ‘भुवनत्रयधारिणमि’ति क्वचित्पाठः । मुकुन्दम् अन्तः स्वहृदये दधत् स गुरुः श्रीमध्वः स्वयञ्च केनचित् केनापि पुरुषेण दधे अंसाभ्यां धृतः । इत्यत इत्येतच् चित्रम् आश्चर्यं न भवति । कुत इत्यत आह– प्राणपतिर् इति । स प्राणपतिर् मुख्यप्राणस्तञ्च वाहकपुरुषञ्च चशब्दाद् आत्मानमपि स्वयमेवान्तर्यामी भूत्वा बभार ननु । अतो न चित्रमिति भावः ॥ १८ ॥

मन्दोपाकारिणी

भुवनेति ॥ केनचिदपि केनापि पुरुषेण । भुवनत्रयधारिणं भुवनानां त्रयं धरतीति भुवनत्रयधारी तम् । मुकुन्दं श्रीनारायणम् अन्तः स्वहृदये ‘अन्तर्मध्ये तथा प्रान्ते’ इति विश्वः । दधद् वहन् । स गुरुर् मध्वाचार्यः स्वयं दधे धृत इति अद एतच् चित्रम् आश्चर्यं न । कुतः ? स प्राणपतिः प्राणानाम् इन्द्रियाणां पतिः स्वामी मुख्यप्राणः । तं च स्वात्मवाहकमपि पुरुषं स्वयमेव अन्तर्गतस्सन् बभार उवाह । ननु निश्चयः । हरिर् जगत्त्रयं बिभर्ति तादृशं विश्वंभरं मध्वः हृदये सर्वदा स्मरतीति हेतोर् हृदयेन भगवद्धारकस् तं च वाहकः पुरुषोऽल्पबलः धत्ते इत्येतद् विचित्रतया प्रतीयते । दुर्बलस्य बहुधारणायोगात् । तथापि इदं न चित्रम् । प्राणपतिर् मध्वो ऽन्तर्यामिरूपेण स्ववाहकमपि स्वयमेव बिभर्तीति हेतोरिति भावः । ‘धाञ् धारणपोषणयोः’ लिडात्मनेपदं दधे दधाते दधिरे । ‘भृञ् भरणे इत्यतो लिट् परस्मैपदं बभार बभ्रतुर् बभ्रुः ॥ १८ ॥

विश्वास-प्रस्तुतिः - १९

यतयो गृहिणोऽथ वर्णिमुख्याः श्रुतिगास्त्यक्तनिषिद्धकाम्यभावाः ।
इह मूर्तिधरा इव स्वधर्माः शतसङ्ख्याश्शतसङ्ख्यमन्वगच्छन् ॥ १९ ॥

मूलम् - १९

यतयो गृहिणोऽथ वर्णिमुख्याः श्रुतिगास्त्यक्तनिषिद्धकाम्यभावाः ।
इह मूर्तिधरा इव स्वधर्माः शतसङ्ख्याश्शतसङ्ख्यमन्वगच्छन् ॥ १९ ॥

भावप्रकाशिका

निषिद्धकाम्यभावो निषिद्धकाम्यकर्मणोरभिप्रायो निषिद्धत्वं काम्यत्वं च ॥ १९ ॥

पदार्थदीपिकोद्बोधिका

यतय इति ॥ श्रुतिं वेदं गच्छन्ति इति श्रुतिगाः । वेदगतत्वं नाम वेदपाठादिनिरतत्वं वेदोक्ताचारनिष्ठत्वञ्च । स्वधर्माश्च श्रुतिगा वेदसिद्धाः । काम्ये कर्मणि भावः काम्यभावः काम्यकर्मविषयं मन इति यावत् । निषिद्धश्चासौ काम्यभावश्च त्यक्तो निषिद्धकाम्यभावो यैस्तैस् त्यक्तनिषिद्धकाम्यभावाः केवलनिवृत्तविषया इत्यर्थः । ‘तस्मान्नेष्टियायजूकः स्या’दित्यादिना काम्यकर्मणो निषिद्धत्वात् । त्यक्तनिषिद्धकाम्यकर्माण इत्यर्थः । धर्माश्च तादृशाः । शतं सङ्ख्या येषां ते शतसङ्ख्या यतयः । शतसङ्ख्या गृहिणो गृहस्थाः । अथ वर्णिमुख्या ब्रह्मचारिषु श्रेष्ठाः । ‘ब्रह्माचारी भवेद्वर्णी’ति हलः । मूर्तिं शरीरं धारयन्तीति मूर्तिधराः । स्वधर्मा इव स्वस्ववर्णाश्रमधर्मा इव इह गमनसमये शतं सङ्ख्या ज्ञानं यस्य स तथा तं श्रीपूर्णप्रज्ञाचार्यम् अन्वगच्छन् ॥ १९ ॥

मन्दोपाकारिणी

यतय इति ॥ इह गमनसमये शतसंख्याः शतं संख्या येषां ते शतसंख्याः शतशब्दो बहुशब्दपर्यायः बहुसंख्याका इत्यर्थः । यतयः संन्यासिनस् तथा गृहिणः गृहस्था अथ वर्णिमुख्या वर्णिनां ब्रह्मचारिणां मुख्याः श्रेष्ठाः ‘वर्णिनो ब्रह्मचारिणः’ इत्यमरः । शतसंख्यं शतं बहु संख्या ज्ञानं यस्य स तथोक्तस् तं श्रीपूर्णप्रज्ञाचार्यम् । ‘संख्यावान् पण्डितः कविः’ इत्यमरः । ‘चर्चा संख्या विचारणा’ इत्यमरः । अन्वगच्छन् सहययुः । ‘गम्लृ गतौ’ इत्यतो लङ् परस्मैपदम् । के इव मूर्तिधरा धरन्तीति धरा मूर्तेः शरीरस्य धरा मूर्तिधराः । स्वधर्मा इव स्वस्ववर्णाश्रमधर्मा इव पुण्यानीव वा ‘धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः’ इत्यमरः । कथंभूताः- श्रुतिगाः श्रुतिषु वेदेषु यागादिषु गा गता रताः । वेदानां पाठं व्याख्यानं च कुर्वन्त इत्यर्थः । स्वधर्मा अपि श्रुतिगा वेदेषु गता विहिताः । पुनः कथंभूतास् त्यक्तनिषिद्धकाम्यभावाः काम्याश्च ते भावाः कर्माणि च काम्यभावा निषिद्धाश्च ते काम्यभावाश्च निषिद्धकाम्यभावास् त्यक्ता वर्जिता निषिद्धकाम्यभावा यैस्ते तथोक्ताः । निषिद्धाश्च काम्याश्च निषिद्धकाम्यास् ते च ते भावाश्च अन्यत् पूर्ववद् इति वा । ‘भावस्सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु’ इत्यमरः । ‘तस्मान् नेष्टियाजकः स्यात्’ इत्यादिना काम्यकर्मणः निषिद्धत्वात् त्यक्त-निषिद्धकाम्यकर्माण इत्यर्थः । धर्माश्च त्यक्तः वर्जितः निषिद्धः काम्यः भावो विषयः येषां ते तथोक्ताः प्रवृत्तिविषयका न भवन्तीत्यर्थः । किन्तु केवलं निवृत्तिविषया इति भावः॥१९॥

विश्वास-प्रस्तुतिः - २०

परिवारजना न मार्गदुःखं प्रययुः पूरुषरत्नमीक्षमाणाः ।
इति नाद्भुतमस्य हि प्रयान्ति स्मृतिमात्राद्भविनो भवापवर्गम् ॥ २० ॥

मूलम् - २०

परिवारजना न मार्गदुःखं प्रययुः पूरुषरत्नमीक्षमाणाः ।
इति नाद्भुतमस्य हि प्रयान्ति स्मृतिमात्राद्भविनो भवापवर्गम् ॥ २० ॥

पदार्थदीपिकोद्बोधिका

परिवारेति ॥ पूरुषेषु रत्नं पूरुषरत्नं पुरुषश्रेष्ठमित्यर्थः । ‘रत्नं स्वजातिश्रेष्ठेऽपी’त्यमरः । श्रीमध्वमीक्षमाणाः सन्तः परिवाराश्च ते जनाश्च परिवारजनाः शिष्यजना मार्गस्य दुःखं मार्गदुःखम् । मार्गगमननिमित्तकश्रमम् इत्यर्थः । न प्रययुः । इत्यद्भुतमाश्चर्यं न । कुत इत्यत आह— भविन इति । भवः संसार एषामस्तीति भविनः संसारिणः । अस्य स्मृतिमात्रात् स्मरणमात्राद्भवात्संसारादपवर्गो मोक्षस्तं प्रयान्ति हि । एतादृशमाहात्म्यवतः सङ्गेन श्रमो नाभूज्जनानाम् इत्येतन्नाद्भुतम् इति भावः ॥ २० ॥

मन्दोपाकारिणी

परिवारेति ॥ परिवारजना गच्छता मध्वाचार्येण सह तस्य समंततः गच्छन्तः परिवारभूता जनाः । पूरुषरत्नं पुरुषश्रेष्ठं ‘रत्नं श्रेष्ठे मणावपि’ इति विश्व ईक्षमाणाः सन्तः पश्यन्तस्सन्तः मार्गदुःखं मार्गगमनजन्यक्लेशं न प्रययुर् न प्राप्नुवन्त इति एतद् अद्भुतम् आश्चर्यं न । कुतः हि यस्माद् भविनः भवः संसार एषाम् अस्तीति भविनः ‘भवस्संसारसम्प्राप्तिश्रेयस्संकरजन्मसु’ इति विश्वः । अस्य श्रीमध्वाचार्यस्य स्मृतिमात्रात् स्मरणादेव भवापवर्गं भवात् संसाराद् अपवर्गं मोक्षं प्रयान्ति लभन्ते । ‘मोक्षोऽपवर्गः’ इत्यमरः यस्य स्मरणमात्रेण सर्वदुःखरूपसंसारनाशो भवति तद्दर्शने सति तदेकदेशमार्गदुःखपरिहारो भवतीति नाश्चर्यम् । स्मरणापेक्षया दर्शनस्य अधिकसाधनत्वाद् इति भावः ॥ २० ॥

विश्वास-प्रस्तुतिः - २१

मदनेश्वरवल्लभप्रदेशे प्रभुमायान्तमथाभ्यपद्यत द्राक् ।
जयसिंह इमं नृसिंहवर्यः शुभधीः स्तम्भविशिष्टसिंहनामा ॥ २१ ॥

मूलम् - २१

मदनेश्वरवल्लभप्रदेशे प्रभुमायान्तमथाभ्यपद्यत द्राक् ।
जयसिंह इमं नृसिंहवर्यः शुभधीः स्तम्भविशिष्टसिंहनामा ॥ २१ ॥

पदार्थदीपिकोद्बोधिका

मदनेति ॥ अथ शुभधीः शोभनचित्तः स्तम्भेन स्तम्भपदेन विशिष्टं सहितं स्तम्भविशिष्टं तादृशं सिंहनाम यस्य स तथोक्तः । स्तम्भपदसिंहनामवान् इत्यर्थः । तौलवभाषायां ‘कबेसिंहनामे’त्यर्थः । ‘कबे’ इति तौलवभाषायां स्तम्भविशेष उच्यते । जयसिंहस् तन्नामक एवं नामद्वयविशिष्टो नृसिंहवर्यो नृसिंहेषु राजसु वर्यः श्रेष्ठः । मदनेश्वरवल्लभो मदनेश्वरप्रियो यः प्रदेशस् तस्मिन् आयान्तं प्रभुमिमं श्रीमध्वं द्राक् अभ्यपद्यत ॥ २१ ॥

मन्दोपाकारिणी

इदानीं जयसिंहराजस्य मध्वाचार्यदर्शनप्रकारमाह ॥ मदनेत्या-दिना ॥ अथ एवं गमनारम्भे सति । शुभधीः शुभा धीर् यस्य स तथोक्तः । स्तम्भविशिष्टसिंहनामा स्तम्भेन स्तम्भपदेन विशिष्टं युक्तं सिंह इति नाम संज्ञा यस्य स तथोक्तः स्तम्भसिंह इति नामाङ्कितवानित्यर्थः जयसिंहः जयसिंहाख्यः नृसिंहवर्यः नृणां मनुष्याणां सिंहाः श्रेष्ठा राजानः नृसिंहास् तेषु वर्य उत्तमः राजश्रेष्ठः मदनेश्वरवल्लभप्रदेशे मदनस्य मदननामकदेवालयस्य ईश्वरस्य स्वामिनः नारायणस्य वल्लभे प्रिये प्रदेशे स्थलविशेषे आयान्तं प्रभुं स्वामिनम् इमं श्रीमध्वाचार्यं द्राक् शीघ्रम् अभ्यपद्यत अभिमुखतो ऽगमत् ‘अभिपूर्वकपद गतावित्यतः लङात्मनेपदम् अपद्यत अपद्येताम् अपद्यन्त’ ॥ २१ ॥

विश्वास-प्रस्तुतिः - २२

अवतीर्य पुरैव वाहनात्स्वादपि मार्गादपसार्य सैनिकान् सः ।
सह कैश्चन भूसुरैरवाप्तस्त्रिजगत्पूज्यपदान्तिके ननाम ॥ २२ ॥

मूलम् - २२

अवतीर्य पुरैव वाहनात्स्वादपि मार्गादपसार्य सैनिकान् सः ।
सह कैश्चन भूसुरैरवाप्तस्त्रिजगत्पूज्यपदान्तिके ननाम ॥ २२ ॥

पदार्थदीपिकोद्बोधिका

अवतीर्येति ॥ पुरैव श्रीमध्वसमीपगमनात् पूर्वमेव स्वात् स्वकीयाद्वाहनाद्गजादेरवतीर्य सैनिकानपि सेनायां भवान् जनानपि मार्गाद् अध्वनोऽपसार्य कैश्चन भूसुरैर्विप्रैः सह साकम् अवाप्तः स राजा त्रिजगत्पूज्यस्य श्रीमध्वस्य पदान्तिके पादसन्निधौ ननाम ॥ २२ ॥

मन्दोपाकारिणी

अवतीर्येति ॥ सः जयसिंहराजः । पुरैव श्रीमध्वाचार्यागमनात्प्रागेव स्वात् स्वकीयात् ‘आत्मीये स्वोऽस्त्रियां धने’ इत्यमरः । वाहनाद् यानाद् अवतीर्य अवरुह्य सैनिकानपि सैन्यानपि । ‘सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते’ इत्यमरः मार्गादपसार्य निस्सारयित्वा कैश्चन कतिभिर् भूसुरैर् ब्राह्मणैः सह अवाप्तः प्राप्तस्सन् । त्रिजगत्पूज्य-पदान्तिके त्रीणि च तानि जगन्ति च त्रिजगत्सु पूज्यः श्रीमध्वाचार्यस् त्रिजगत्पूज्यस्य पदयोश् चरणयोर् अन्तिके समीपे । ‘पदं व्याजाङ्घ्रितद्भेद’ इति भास्करः । ननाम प्रणतवान् । ‘उपकण्ठान्तिकाभ्यर्णः’ इत्यमरः । ‘णमु प्रह्वत्वे शब्दे च’ इत्यतो लिट् परस्मैपदं ननाम नेमतुर् नेमुः ॥ २२ ॥

विश्वास-प्रस्तुतिः - २३

पृथिवीपतिनाऽनुगम्यमानो विनयाद्भक्तिरसार्द्रमानसेन ।
अचिरेण स विष्णुमङ्गलस्य प्रययावायतनोत्तमस्य पार्श्वम् ॥ २३ ॥

मूलम् - २३

पृथिवीपतिनाऽनुगम्यमानो विनयाद्भक्तिरसार्द्रमानसेन ।
अचिरेण स विष्णुमङ्गलस्य प्रययावायतनोत्तमस्य पार्श्वम् ॥ २३ ॥

पदार्थदीपिकोद्बोधिका

पृथिवीति ॥ भक्तिरेव रसस्तेनार्द्रं क्लिन्नं पूर्णमिति यावत् । तादृशं मानसं मनो यस्य स तथोक्तस् तेन । पृथिवीपतिना जयसिंहेन विनयात् प्रश्रयादनुगम्यमानः स श्रीमध्वः । चिरं न भवतीत्यचिरेण शीघ्रेण विष्णुमङ्गलं तन्नामकं तस्य आयतनोत्तमस्य देवालयश्रेष्ठस्य पार्श्वमन्तिकं प्रययौ प्राप ॥ २३ ॥

मन्दोपाकारिणी

पृथिवीपतिनेति ॥ भक्तिरसार्द्रमानसेन भक्तिरेव रसः जलम् । ‘गुणे रागे द्रवे रसः’ इत्यमरः । तेन आर्द्रं क्लिन्नं मानसं मनः यस्य स तथोक्तस् तेन पृथिवीपतिना पृथिव्या भूमेः पतिना स्वामिना जयसिंहराजेन । विनयात् प्रावण्याद् अनुगम्यमानो ऽनु पश्चाद्भागे व्रज्यमानः । ‘पश्चात्सादृश्ययोरनु’ इत्यमरः । सः श्रीमध्वाचार्यो ऽचिरेण शीघ्रं विष्णुमङ्गलस्य तन्नामकस्य आयतनोत्तमस्य आयतनेषु देवालयेषु उत्तमस्य श्रेष्ठस्य पार्श्वम् अन्तिकं प्रययौ अवाप ॥ २३ ॥

विश्वास-प्रस्तुतिः - २४

नरदेवदिदृक्षया समेता उभयग्रामजना जनाः परे च ।
उपयान्तमनन्तमानसं तं मुहुरैक्षन्त कुतूहलाब्धिमग्नाः ॥ २४ ॥

मूलम् - २४

नरदेवदिदृक्षया समेता उभयग्रामजना जनाः परे च ।
उपयान्तमनन्तमानसं तं मुहुरैक्षन्त कुतूहलाब्धिमग्नाः ॥ २४ ॥

भावप्रकाशिका

‘वाटः समुवाय’ इति ग्रामद्वयम् ॥ २४ ॥

पदार्थदीपिकोद्बोधिका

नरदेवेति ॥ नरदेवदिदृक्षया जयसिंहाख्यनृपतिदर्शनेच्छया समेता मिलिता उभयश्च तौ ग्रामौ च तयोर्जनास् तौलवभाषया ‘पाडिकुडे’ इत्यपभ्रष्टसंज्ञक-ग्रामीणजना इत्यर्थः । (वाटः समुवाय’ नामक ग्रामद्वयमिति भावप्रकाशिकायाम्) उभयशब्दस्य द्विवचनाभावादेकवचनबहुवचनान्तं रूपम् । परेऽन्ये जनाश्चोपयान्तमुप-गच्छन्तम् । अनन्तं मानसं ज्ञानं यस्य स तथा तं श्रीपूर्णप्रज्ञम् । कुतूहलमेवाब्धिस् तस्मिन् मग्नाः सन्तः कुतूहलपूर्णाः सन्तो मुहुः पुनः पुनरैक्षन्त ॥ २४ ॥

मन्दोपाकारिणी

इदानीं काव्यनायकं श्रीमध्वाचार्यनामकं श्रीपादराजं पादादिमौलि-पर्यन्तं वर्णयितुमुपक्रमते नरदेवेत्यादिभिर्द्वादशश्लोकैः ॥ नरदेवदिदृक्षया नरदेवस्य जयसिंहराजस्य दिदृक्षया द्रष्टुमिच्छया समेता मिलिता उभयग्रामजना उभयश्चासौ ग्रामश्च उभयग्राम उभयग्रामस्य जना विष्णुमङ्गलाख्यदेवालयपार्श्वस्थग्रामद्वयजना इति भावः । तथा परे अन्ये ‘पर इतरान्यपरममुख्येषु’ इत्यभिधानम् । ग्रामान्तरस्था जनाश्च उपयान्तं गच्छन्तम् अनन्तमानसं पूर्णप्रज्ञाचार्यं तं मुहुः पुनःपुन ऐक्षन्त अपश्यन् । ‘ईक्ष दर्शनाङ्कनयोरिति धातोर् लङात्मने पदम् । कथंभूता जनाः कुतूहलाब्धिमग्नाः कुतूहलस्य कौतुकस्य अब्धौ समुद्रे मग्ना आसक्ताः । कुतूहलं नाम पुनः पुनर्दर्शनीय इति अपूर्वदर्शनजन्यसुखविशेषम् अनुभवन्त इत्यर्थः ॥ २४ ॥

विश्वास-प्रस्तुतिः - २५

पुरतो मधुरस्वरैर्वदद्भिः स्वकृताः कर्णसुखा मुकुन्दगाथाः ।
धृतपङ्कजबीजचक्रचिह्नैः कृतनृत्यैश्चतुरैर्निषेव्यमाणम् ॥ २५ ॥

मूलम् - २५

पुरतो मधुरस्वरैर्वदद्भिः स्वकृताः कर्णसुखा मुकुन्दगाथाः ।
धृतपङ्कजबीजचक्रचिह्नैः कृतनृत्यैश्चतुरैर्निषेव्यमाणम् ॥ २५ ॥

पदार्थदीपिकोद्बोधिका

पुनः पुनः कथंभूतमैक्षन्त इत्यपेक्षायामाह—

पुरत इत्यादिना ॥ आदिकुलकमेतत् । उभयग्रामजनाः परे जनाश्च पुरतोऽग्रतः स्वकृताः स्वेन रचिताः कर्णयोः सुधा याभ्यास्ताः कर्णसुधा मुकुन्दस्य गाथाः । मुकुन्दविषयगाथा इत्यर्थस् ता वदद्भिर्मधुरो मनोहरः स्वनो ध्वनिर्येषां तैः । कृतं नृत्तं यैस्तैः पङ्कजबीजानि चक्रचिह्नानि च धृतानि पङ्कजबीजचक्रचिह्नानि यैस्तैः । बाह्वोश्चक्रचिह्नानि, कण्ठे कमलमणिमालाञ्च धृतवद्भिर् इत्यर्थः । चतुरैः सर्वकार्येषु विदग्धैः पुरुषैर्निषेव्यमाणं श्रीमध्वं मुहुर् ऐक्षन्तेति पूर्वेणान्वयः ॥ २५ ॥

मन्दोपाकारिणी

पुरत इति ॥ आदिकुलकमेत् । पुनः कथंभूतं पुरतो ऽग्रतः स्वकृताः स्वैः कृता विरचिताः कर्णसुखाः कर्णयोः श्रोत्रयोः सुखं हर्षः याभ्यस् ताः कर्णसुखा मुकुन्दगाथा मुकुन्दस्य गाथा गुणकीर्तनरूपप्रबन्धविशेषान् वदद्भिः पठद्भिर् मधुरस्वरैर् मधुराः प्रियाः श्राव्याः स्वरा ध्वनयः येषां ते तथोक्तास् तैः ‘मधुरं रसवत्स्वादुप्रियेषु’ इति विश्वः । कृतनृत्यैः कृतानि नृत्यानि नर्तनानि यैस्ते तथोक्तास् तैः ‘तांडवं नटनं नाट्यं लास्यं नृत्यं च नर्तनं’ इत्यमरः । धृतपङ्कजबीजचक्रचिह्नैः पङ्कजानां पद्मानां बीजानि च चक्रस्य चिह्नानि लक्षणानि च धृतानि पङ्कजबीजचक्रचिह्नानि यैस् ते तथोक्तास् तैः । बाह्वोश् चक्रशङ्खलांछनानि धृत्वा कण्ठे कमलाक्षमालां धृतवद्भिर् इति भावश् चतुरैर् विदग्धैः पुरुषैर् निषेव्यमाणं सेव्यमानम् ॥ २५ ॥

विश्वास-प्रस्तुतिः - २६

कलिताञ्जलिना स्फुटानुयान्तं जनसम्बाधसहेन भूमिभर्त्रा ।
करुणाविषयं चिकीर्षुणा स्वं व्रजता किङ्करतामकैतवेन ॥ २६ ॥

मूलम् - २६

कलिताञ्जलिना स्फुटानुयान्तं जनसम्बाधसहेन भूमिभर्त्रा ।
करुणाविषयं चिकीर्षुणा स्वं व्रजता किङ्करतामकैतवेन ॥ २६ ॥

पदार्थदीपिकोद्बोधिका

कलितेति ॥ पूर्वोक्तजनाः कलितो बद्धोऽञ्जलिरञ्जलिपुटं येन स तथोक्तस् तेन । जनसंबाधो जनसंमर्दस्तं सहत इति तथोक्तस् तेन जनसंमर्दसहिष्णु-नेत्यर्थः । स्वमात्मानं करुणाविषयं सेवया श्रीमध्वकृपाविषयं चिकीर्षुणा कैतवस्या-भावोऽकैतवं तेन निर्व्याजेनेति यावत् । किङ्करतां श्रीमध्वसेवकतां व्रजता भूमिभर्त्रा राज्ञा जयसिंहेन स्फुटं स्पष्टं यथा भवति तथाऽनुयातः स्फुटानुयातस्तं श्रीमध्वं मुहुर् एैक्षन्तेति पूर्वेणान्वयः ॥ २६ ॥

मन्दोपाकारिणी

कलितेति ॥ पुनः कथंभूतं कलिताञ्जलिना कलितः बद्धो ऽञ्जलिर् हस्तसम्पुटः येन सस् तथोक्तस् तेन । ‘अञ्जलिस्तु पुमान् हस्तसम्पुटः’ इति विश्वः जनसम्बाधसहेन जनानां सम्बाधं सङ्कटं सहते क्षमते इति जनसम्बाधसहस् तेन । ‘सङ्कटं ना तु सम्बाधः’ इत्यमरः । जनसंमर्दसहिष्णुना । स्वं स्वात्मानं करुणाविषयं करुणाया विषयं गोचरम् । चिकीर्षुणा कर्तुमिच्छता । सेवया स्वात्मानं तत्कृपापात्रं कर्तुकामेन इत्यर्थः । औतवेन कपटाभावेन निर्व्याजं यथा स्यात्तथा । ‘कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे’ इत्यमरः किङ्करतां श्रीमध्वाचार्यस्य निरुपाधिककिङ्करतां व्रजता प्राप्नुवता भूमिभर्त्रा भूमेर् भर्त्रा स्वामिना । ‘भर्त्रेन्द्र इनईशिता’ इति धनञ्जयः । जयसिंहेन स्फुटानुयान्तं स्फुटं सर्वसमक्षम् अनुयान्तं पादचारिणा अनुगम्यमानम् ॥ २६ ॥

विश्वास-प्रस्तुतिः - २७

इदमित्थमितीक्षणैर्नराणामपरिच्छेद्यमहिष्ठधामरूपम् ।
अधिकं धरणीमलञ्चिकीर्षुं स्फुटमुद्यन्तमिव द्युनाथमन्यम्॥ २७ ॥

मूलम् - २७

इदमित्थमितीक्षणैर्नराणामपरिच्छेद्यमहिष्ठधामरूपम् ।
अधिकं धरणीमलञ्चिकीर्षुं स्फुटमुद्यन्तमिव द्युनाथमन्यम्॥ २७ ॥

पदार्थदीपिकोद्बोधिका

इदमिति ॥ पूर्वोक्तजना नराणामीक्षणानि नयनानि तैरिदं दृश्यमानं स्वरूपमित्थमेवंभूतम् इत्यपरिच्छेद्यम् अनिर्धार्यं महिष्ठधाम बहुलतेजो यस्य तदपरिच्छेद्यमहिष्ठधाम तादृशं रूपं यस्य स तथोक्तस् तम् । धरणीं भुवम् अधिकमलंचिकीर्षुम् अलङ्करणेच्छावन्तम् । एवंभूतत्वात् स्फुटं सम्यगुद्यन्तमन्यं द्वितीयं द्युनाथम् इव सूर्यमिव मुहुर् एैक्षन्तेत्यन्वयः ॥ २७ ॥

मन्दोपाकारिणी

इदमिति ॥ पुनः कथंभूतं नराणां मनुष्याणाम् ईक्षणैश् चक्षुर्भिः ‘ईक्षणं चक्षुरक्षिणी’ इत्यमरः । इदं दृश्यमानं रूपम् इत्थम् एवंभूतम् इति अपरिच्छेद्यमहिष्ठधामरूपम् अपरिच्छेद्यं परिच्छेत्तुम् ईदृशमेवेति निर्धारयितुम् अशक्यं महिष्ठम् अतिबहुलं धाम तेजः रूपं स्वरूपं यस्य सस् तथोक्तस् तं धरणीं धरित्रीम् अधिकं यथा भवति तथा अलञ्चिकीर्षुम् अलङ्कर्तुकामम् । कमिव नराणाम् ईक्षणैर् इदमित्थमेवेति अपरिच्छेद्य-महिष्ठधामरूपम् अधिकं धरणीम् अलञ्चिकीर्षुं स्फुटं स्पष्टम् उद्यन्तम् उदयं प्राप्नुवन्तम् अन्यं द्युनाथमिव सूर्यमिव । यथा भुवम् अलङ्कर्तुकाम उदयं प्राप्नुवन् सूर्यो ऽतिबहुलतेजःपुञ्जत्वेन चक्षुषी विवृत्य अविच्छेदेन द्रष्टुमशक्यत्वेन पुनः पुनर्वीक्षणे अभिनवत्वेन दृश्यमानस्सन् एतादृशाकार एवेति निर्धारयितुम् अशक्यस् तद्वद् भूमिमलङ्कर्तुमेव प्रादुर्भूतः श्रीमध्वाचार्योऽपि महातेजोराशित्वेन चक्षुषा सम्यक् ईदृशाकार एवेति परिच्छेत्तुमशक्य इति भावः । अनेन अतितेजःपुञ्जत्वम् उक्तं भवति ॥ २७ ॥

विश्वास-प्रस्तुतिः - २८

अशनैः शनकैरिवाव्रजन्तं युवसिंहप्रवरप्रगल्भयानम् ।
अतिपाटलपादपल्लवाभ्यामवनिं पावनतामलं नयन्तम् ॥ २८ ॥

मूलम् - २८

अशनैः शनकैरिवाव्रजन्तं युवसिंहप्रवरप्रगल्भयानम् ।
अतिपाटलपादपल्लवाभ्यामवनिं पावनतामलं नयन्तम् ॥ २८ ॥

पदार्थदीपिकोद्बोधिका

अशनैरिति ॥ पूर्वोक्तजना शनैर्न भवतीति अशनैः शीघ्रम् इत्यर्थः । आव्रजन्तमपि शनकैराव्रजन्तमिव, युवा चासौ सिंहप्रवरश्च युवसिंहप्रवरस् तद्वत्प्रगल्भं श्रेष्ठं यानं गमनं यस्य स तथा तम् । अतिपाटलौ अतिरक्तौ यौ पादौ तावेव पल्लवौ किसलयौ ताभ्यामवनिं भुवमलं सम्यक् पावनतां नयन्तं श्रीमध्वं मुहुर् एैक्षन्तेत्यन्वयः ॥ २८ ॥

मन्दोपाकारिणी

॥ अशनैरिति ॥ पुनः कथंभूतम् अशनैः शीघ्रेण शनकैरिव मन्दमिव आव्रजन्तम् आगच्छमानम् । शीघ्रेणैव गच्छता तेन सह गन्तॄणां मार्गश्रमाभावादिति भावः । युवसिंहप्रवरप्रगल्भयानं सिंहानां श्रेष्ठः सिंहप्रवरः युवा तरुणश्चासौ सिंहप्रवरश्च ‘वयस्यस्तरुणो युवा’ इत्यमरः । युवसिंहप्रवरवत् प्रगल्भं प्रौढं यानं गमनं यस्य सस् तथोक्तस् तम् । तरुणसिंहवद् गच्छन्तम् इत्यर्थः । ‘यानं गतौ वाहने च’ इति विश्वः । अतिपाटलपादपल्लवाभ्याम् अति अत्यन्तं पाटलौ रक्तवर्णौ च तौ पादौ चरणौ च । ‘श्वेतरक्तस्तु पाटलः’ इत्यमरः । अतिपाटलपादावेव पल्लवौ किसलयौ ताभ्याम् । ‘पल्लवोऽस्त्री किसलयं’ इत्यमरः । अवनिं भूमिम् अलं सम्यक् पावनतां पवित्रतां नयन्तं प्रापयन्तम् । अनेन पादतलद्वयं वर्णितं भवति । तत्र लौहित्यलक्षणसौन्दर्यपवित्रीकरणत्व-रूपयोर् गुणयोर् उक्तत्वात् ॥ २८ ॥

विश्वास-प्रस्तुतिः - २९

नखनिर्जितपद्मरागरागं वरकूर्मप्रपदं निगूढगुल्फम् ।
सुरवर्यकराग्रसेव्यजङ्घं द्विरदोदारकरोपमोरुयुग्मम् ॥ २९ ॥

मूलम् - २९

नखनिर्जितपद्मरागरागं वरकूर्मप्रपदं निगूढगुल्फम् ।
सुरवर्यकराग्रसेव्यजङ्घं द्विरदोदारकरोपमोरुयुग्मम् ॥ २९ ॥

पदार्थदीपिकोद्बोधिका

नखेति ॥ पूर्वोक्तजना नखनिर्जितः स्वपादनखैर्निर्जितः पद्मरागरागः पद्मरागमणीनां लौहित्यं येन स तथा तम् । निगूढौ गुल्फौ पादग्रन्थी यस्य स तथा तम् । ‘पादाग्रं प्रपदं पादः पदंघ्रिश्चरणोऽस्त्रियाम् । तद्ग्रन्थी घुटिके गुल्फौ’ इत्यमरः । सुरवर्याणां देवश्रेष्ठानां कराग्राणि करतलानि तैः सेव्ये जङ्घे यस्य स तथा तम् । वरश्चासौ कूर्मश्च वरकूर्म उत्तमकूर्मस् तद्वत्प्रपदं पादाग्रं यस्य स तथा तम् । द्वौ रदौ दन्तौ यस्य स द्विरदो गजस् तस्योदारकर उत्तमहस्तस्तस्योपमा ययोस्तौ तादृशौ यावूरू तयोर्युग्मं युगलं यस्य स तथा तं मुहुर् एैक्षन्तेत्यन्वयः ॥ २९ ॥

मन्दोपाकारिणी

नखेति ॥ पुनः कथंभूतं नखनिर्जितपद्मरागरागं नखैश् चरणनखैर् निर्जितस् तिरस्कृतः पद्मरागस्य शोणरत्नस्य । ‘शोणरत्नं लोहितकः पद्मरागः’ इत्यमरः । रागः लौहित्यं येन सस् तथोक्तस् तम् । पद्मरागकान्त्यपेक्षया अधिकरक्तकान्तियुक्त-पादनखोपेतमित्यर्थः । ‘रागोऽनुरक्तौ मात्सर्ये क्लेशादौ लोहितादिषु’ इति विश्वः । वरकूर्मप्रपदं वरः श्रेष्ठः कूर्मः कमठः । ‘कूर्मे कमठकच्छपौ’ इत्यमरः वरकूर्मवत् प्रपदे पादाग्रे यस्य सस् तथोक्तस् तम् । कूर्माकारसदृशपादाग्रोपेतम् इत्यर्थः । ‘पादाग्रं प्रपदं’ इत्यमरः । निगूढगुल्फं निगूढौ पिण्डीभूतौ गुल्फौ पादग्रन्थी यस्य सस् तथा तम् । ‘तद्ग्रन्थी घुटिके गुल्फौ’ इत्यमरः जङ्घाधःपिण्डाकारौ पादग्रन्थी गुल्फौ इत्युच्येते । सुरवर्यकराग्रसेव्यजङ्घं सुरवर्याणां रुद्रादिदेवश्रेष्ठानां कराग्रैः करतलैः सेव्ये संवाह्ये जङ्घे जान्वोरधोभागौ यस्य सस् तथा तम् । ‘जङ्घा तु प्रसृता जानुः’ इत्यमरः द्विरदोदारकरोपमोरुयुग्मं द्विरदः गजः । ‘द्विरदोऽनेकपो द्विपः’ इत्यमरः । द्विरदस्य उदारः महान् करः शुण्डादण्डः । ‘करो वर्षोपले पाणौ शुण्डा’ इत्यभिधानं स एव उपमा दृष्टान्तः ययोस्तौ द्विरदोदारकरोपमौ तौ च तौ ऊरु सक्थिनी च । ‘सक्थि क्लीबे पुमानूरुः’ इत्यमरः । ऊर्वोर् युग्मं युगलं यस्य सस् तथा तम् । गजशुण्डाकारोरुद्वयोपेतम् ॥ २९ ॥

विश्वास-प्रस्तुतिः - ३०

शुभशुद्धनितम्बबिम्बराजन्नवकौशेयविशेषबाह्यवस्त्रम् ।
तनुकुक्षिगलालिकेषु रेखात्रितयेन प्रकटेन शोभमानम् ॥ ३० ॥

मूलम् - ३०

शुभशुद्धनितम्बबिम्बराजन्नवकौशेयविशेषबाह्यवस्त्रम् ।
तनुकुक्षिगलालिकेषु रेखात्रितयेन प्रकटेन शोभमानम् ॥ ३० ॥

पदार्थदीपिकोद्बोधिका

शुभेति ॥ पूर्वोक्तजनाः शुभः शोभनो यः शुद्धनितम्बो निर्मलनितम्बप्रदेशस् तस्य बिम्बं मण्डलं तस्मिन् राजमानः शोभमानो यो नवकौशेयविशेषः नवं नूतनं यत् कौशेयं तस्य विशेषस्तद्रूपं बाह्यवस्त्रं बाह्यवासो यस्य स तथा तम् । तनुश्चासौ कुक्षिश्च तनुकुक्षिस् तनूदरं स च गलः कण्ठः स च अलिकं ललाटं तच्च तेषु । प्रकटेन स्पष्टेन रेखात्रितयेन रेखात्रयेण शोभमानं श्रीमध्वं मुहुर् एैक्षन्तेत्यन्वयः ॥ ३० ॥

मन्दोपाकारिणी

शुभेति ॥ पुनः कथंभूतं शुभशुद्धनितम्बबिम्बराजन्नवकौशेय-विशेषबाह्यवस्त्रं शुभं शोभमानं च तत् शुद्धं निर्मलं च तन् नितम्बबिम्बं कटिमण्डलं च शुभशुद्धनितम्बबिम्बं तस्मिन् राजद् विराजमानं नवं नूतनं कौशेयविशेषः क्रिमिकोश-निर्मितवस्त्रविशेषः ‘कौशेयं क्रिमिकोशोत्थं’ इत्यभिधानं पट्टवस्त्रमिति यावद् बाह्यं कौपीनाद्बहिर् उपरि धीयमानं बाह्यं च तद् वस्त्रं कौशेयविशेषश्चासौ बाह्यवस्त्रं तथा च शुभशुद्धनितम्बबिम्बराजन्नवकौशेयविशेषात्मकं बाह्यवस्त्रं परिधानाख्यम् अधोवस्त्रं यस्य सस् तथोक्तस् तम् । अन्तः गुह्यमात्राच्छादकं कटिसूत्रे पूर्वतः पृष्ठतश्च सम्बद्धं कौपीनाख्यवस्त्रं परिहितमस्ति । तद्बहिर् नितम्बबिम्बे परितः कौशेयवस्त्रं संवीतम् अस्तीति भावः । अनेन यतिभिर् अन्तः कौपीने धृतेऽपि तदुपरि नितम्बबिम्बाच्छादकं वस्त्रमपि परिधातव्यम् इत्युक्तं भवति । तनुकुक्षिगलालिकेषु तनुर् अल्पपरिमाणः ‘तनुः काये कृशेऽल्पेऽपि’ इति विश्वः कुक्षिर् उदरः ‘पिचण्डकुक्षी जठरोदरं’ इत्यमरः गलः कण्ठो ऽलिकं ललाटं ‘ललाटमलिकं गोधिः’ इत्यमरस् तनुश्चासौ कुक्षिश्च तनुकुक्षिस् तनुकुक्षिश्च गलश्च अलिकं च तनुकुक्षिगलालिकानि तेषु । प्रकटेन स्पष्टं दृश्यमानेन रेखात्रितयेन त्रयेण शोभमानम् उदरकण्ठललाटानि प्रत्येकं तिर्यग्रेखात्रयोपेतानीति भावः ॥ ३० ॥

विश्वास-प्रस्तुतिः - ३१

मृदुसूक्ष्मघनारुणाविकाच्छप्रकटप्रावरणेन भासमानम् ।
अतिनूतनतिग्मभानुभासां निकरेणेव सुवर्णसानुमन्तम् ॥ ३१ ॥

मूलम् - ३१

मृदुसूक्ष्मघनारुणाविकाच्छप्रकटप्रावरणेन भासमानम् ।
अतिनूतनतिग्मभानुभासां निकरेणेव सुवर्णसानुमन्तम् ॥ ३१ ॥

पदार्थदीपिकोद्बोधिका

मृद्विति ॥ पूर्वोक्तजना मृदु च तत् सूक्ष्मं लघु च घनं निबिडं तच् च अरुणं रक्तं तच्चाविकमूर्णात्मकं तच्चाच्छं निर्मलं प्रकटं शोभमानं यत्प्रावरणम् आच्छादनवस्त्रं तेन । प्रवरप्रावरणेनेति क्वचित्पाठो ऽतिनूतनः सद्य एवोद्यन् यस्तिग्मभानुः सूर्यस् तस्य भासः किरणास् तासां निकरः समूहस् तेन भासमाननम् । सुवर्णमयानि च तानि सानूनि ृङ्गाणि च सुवर्णृङ्गानि तान्यस्य सन्तीति तथोक्तस् तम् इव महामेरुप-र्वतमिवेत्यर्थः । उद्यद्दिनकरस्यातिरोहितरश्मिनिकरेण भासमानं मेरुमिव इति भावः । भासमानं श्रीमध्वं मुहुर् एैक्षन्तेति पूर्वेणान्वयः ॥ ३१ ॥

मन्दोपाकारिणी

मृद्विति ॥ पुनः कथंभूतं मृदुसूक्ष्मघनारुणाविकाच्छप्रकटप्रावरणेन मृदुना कोमलेन सूक्ष्मेण सूक्ष्मतन्तुनिर्मितेन घनेन अविरलतन्तुमता अरुणेन आरक्तेन आविर् मेषः ‘मेढ्रोरभ्रोरणोर्णायुर्मेषवृष्णय एडके’ इत्यमर आविनः लोम्ना निर्मितम् आविकं तेन आविकेन ऊर्णात्मकेन अच्छेन निर्मलेन प्रकटेन शोभमानेन प्रावरणेन शरीराच्छादक-वस्त्रेण कटौ संवीतं वस्त्रं ‘अन्तरीयोपसंख्यानपरिधानान्यधोंऽशुके’ इत्यमराभिधानात् परिधानादिशब्दवाच्यं हिमानिलादिनिवारणार्थं देहे प्रावृतं वस्त्रं प्रावरणशब्दवाच्यं ‘नीशारः स्यात् प्रावरणे हिमानिलनिवारणे’ इत्यमरः मृदु च तत् सूक्ष्मं च तद् घनं च तद् अरुणं च तद् आविकं च तद् अच्छं च तत् प्रकटं च तत् प्रावरणं चेति विग्रहस् तेन भासमानम् । कमिव अतिनूतनतिग्मभानुभासां तिग्मास् तीक्ष्णा भानवः किरणा यस्य सस् तथोक्तः ‘भानुः किरणसूर्ययोः’ इति विश्वो ऽतिनूतनः सद्य एवोदितश्चासौस् तिग्मभानुः सूर्यश्च तस्य भासां दीप्तीनां ‘भाश्छविद्युतिदीप्तयः’ इत्यमरः निकरेण समूहेन भासमानं दीप्यमानम् । सुवर्णसानुमन्तं सुवर्णाः सुवर्णात्मकाः सानवः ृङ्गाणि यस्य सस् तथोक्तस् तम् । मेरुपर्वतमिव यथा सौवर्णमेरुपर्वत उद्यदादित्यकान्त्या शोभते तद्वत् परिहितपीताम्बरः सुवर्णवर्णो ऽयं मध्वाचार्यः रक्तवर्णेन प्रावृतेन ऊर्णावस्त्रेण व्यराजत इति भावः ॥ ३१ ॥

विश्वास-प्रस्तुतिः - ३२

पृथुवक्षसमुन्नतांसभित्तिं गुरुवृत्तायतहृद्यबाहुदण्डम् ।
परमारुणपाणिपल्लवान्तःस्फुरितोर्ध्वध्वजलाञ्छनादिमन्तम् ॥ ३२ ॥

मूलम् - ३२

पृथुवक्षसमुन्नतांसभित्तिं गुरुवृत्तायतहृद्यबाहुदण्डम् ।
परमारुणपाणिपल्लवान्तःस्फुरितोर्ध्वध्वजलाञ्छनादिमन्तम् ॥ ३२ ॥

पदार्थदीपिकोद्बोधिका

पृथ्विति ॥ पूर्वोक्तजना पृथु विशालं वक्षो यस्य तम् । अंसावेव भित्ती अंसभित्ती । उन्नतेंऽसभित्ती यस्य स तथा तम् । गुरू स्थूलौ वृत्तायतहृद्यबाहुदण्डौ वर्तुलदीर्घमनोहरभुजदण्डौ यस्य स तथा तम् । परमारुणपाणि-पल्लवान्तः परमारुणावतिलौहितौ यौ पाणिपल्लवौ पाणी पल्लवाविव तयोरन्तरन्तर्भागे हस्ततलयोरिति यावत् । अन्त इत्यव्ययम् । स्फुरितानि विलसन्ति च तान्यूर्ध्वध्व-जलाञ्छनादीनि च ऊर्ध्वध्वजरेखारूपं लाञ्छनं तदादि येषां चक्रादिचिह्नानां तानि अस्य सन्तीति स्फुरितोर्ध्वध्वजलाञ्छनादिमान् तं श्रीमध्वम् एैक्षन्तेत्यन्वयः ॥ ३२ ॥

मन्दोपाकारिणी

पृथ्विति ॥ पुनः कीदृशं पृथुवक्षसं पृथु विशालं वक्ष उरः यस्य सस् तथोक्तस् तम् । उन्नतांसभित्तिम् अंसौ स्कन्धावेव भित्ती कुड्ये अंसभित्ती ‘भित्तिः स्त्री कुड्यं’ इत्यमरः ‘स्कन्धो भुजशिरोंऽसोऽस्त्री’ इत्यमर उन्नते उच्चे अंसभित्ती यस्य सस् तथोक्तस् तम् । गुरुवृत्तायतहृद्यबाहुदण्डं गुरू स्थूलौ वृत्तौ वर्तुलौ आयतौ दीर्घौ हृद्यौ सुन्दरौ बाहू भुजौ तावेव दण्डौ यस्य सस् तथोक्तस् तम् । परमारुणपाणि-पल्लवान्तःस्फुरितोर्ध्वध्वजलाञ्छनादिमन्तम् पाणी हस्ततले एव पल्लवौ किसलये परमम् अत्यन्तम् अरुणौ लोहितौ च तौ पाणिपल्लवौ च तयोर् अन्तः मध्ये स्फुरितानि विलसन्ति ऊर्ध्वम् ऊर्ध्वरेखा ऊर्ध्वं च तद् ध्वजलाञ्छनं च ध्वजाख्यचिह्नं च ऊर्ध्वध्वजलाञ्छनं तदेव आदि येषां तानि चक्रादिचिह्नानीत्यर्थ ऊर्ध्वध्वजलाञ्छनादीनि अस्य सन्तीति ध्वजलाञ्छनादिमान् तं पाणितलयोर् या ऊर्ध्वरेखा सैव ध्वजरेखेत्युच्यते ध्वजचक्रादि-रेखोपेतपाणितलद्वयमन्तम् इत्यर्थः ॥ ३२ ॥

विश्वास-प्रस्तुतिः - ३३

परिपूर्णशशाङ्कबिम्बशङ्काविषयं प्राक् सहसाऽवलोकनेन ।
अकलङ्कतया परं विविक्तं वदनं बिभ्रतमच्छविभ्रमाब्धिम्॥ ३३ ॥

मूलम् - ३३

परिपूर्णशशाङ्कबिम्बशङ्काविषयं प्राक् सहसाऽवलोकनेन ।
अकलङ्कतया परं विविक्तं वदनं बिभ्रतमच्छविभ्रमाब्धिम्॥ ३३ ॥

पदार्थदीपिकोद्बोधिका

परीति ॥ पूर्वोक्तजनाः प्राक् प्रथमं सहसाऽवलोकनं दर्शनं तेन परिपूर्णं यच्छशाङ्कबिम्बं चन्द्रमण्डलं तदीया या शङ्का तस्या विषयस् तम् परं पश्चात्, न विद्यते कलङ्को लाञ्छनं यस्य तत्तथा तस्य भावस्तत्ता तया विविक्तं चन्द्रमण्डलात्पृथक्कृतं, अच्छो निर्मलो यो विभ्रमः कान्तिस् तेनाब्धिरिव अब्धिस् तम् । निर्मलकान्तिपरिपूर्णम् इत्यर्थः । वदनं बिभ्रतम् । अयं भावः सहसा श्रीमध्वमुखं पश्यतां पुंसां कान्त्याधिक्योपलम्भादिदं चन्द्रमण्डलमिति प्रतीतिर् जायते । पश्चाद् विवेकपूर्वकं दर्शने सति तत्र कलङ्कमपश्यतां तेषां नेदं चन्द्रमण्डलं सत्यपि कान्त्याधिक्ये कलङ्काभावात् । तस्माद् अकलङ्कमेतद्वदनं सकलङ्काच्चन्द्रमण्डलात्पृथगेवेति बुद्धिर्जायते । एवम् अविवेकदशायां चन्द्रमण्डलत्वशङ्काविषयं, विवेकदशायां चन्द्रमण्डलादन्यत्वबुद्धिविषयं वदनं बिभ्रतमिति । तं श्रीमध्वं मुहुर् एैक्षन्तेत्यन्वयः ॥ ३३ ॥

मन्दोपाकारिणी

॥ परिपूर्णेति ॥ पुनः कथंभूतं प्राक् प्रथमं सहसा अतर्कितं ‘अतर्किते तु सहसा’ इत्यमरः । अवलोकनेन दर्शनेन परिपूर्णशशाङ्कबिम्बशङ्काविषयं परिपूर्णस्य षोडशकलाभिपूर्णस्य शशाङ्कबिम्बस्य चन्द्रमण्डलस्य ‘बिम्बोऽस्त्री मण्डलं त्रिषु’ इत्यमरः शङ्काप्रतीतिर् भ्रान्तिरिति यावत् तस्या विषयम् । परं पश्चाद् अकलङ्कतया कलङ्कः दोषः ‘कलङ्कोऽङ्कापवादयोः’ इत्यमरः न विद्यते कलङ्कः दोषो यस्य सो ऽकलङ्कस् तस्य भावो ऽकलङ्कता तया इत्यर्थः कलङ्करहितत्वेन हेतुना । विविक्तं चन्द्रमण्डलात् पृथक्कृतम् अच्छविभ्रमाब्धिम् अच्छस्य निर्मलस्य विभ्रमस्य कान्तेर् अब्धिः समुद्रस् तं ‘विभ्रमः संशये भ्रान्तौ शोभायां च’ इति वैजयन्ती इह भ्रान्तेर् अकारणम् एतादृशं वदनं मुखं बिभ्रतं दधतम् । अयं भावः - सहसा श्रीमध्वाचार्यमुखं पश्यतां पुंसां कान्त्याधिक्योपलम्भाद् इदं चन्द्रमण्डलमिति प्रतीतिर् जायते, पश्चाद् विवेकपूर्वं दर्शने सति तत्र कलङ्कमपश्यताम् इति बुद्धिरभूद् अविवेकदशायां चन्द्रमण्डलत्वशङ्काविषयं, विवेकदशायां तु चन्द्रमण्डलादन्यदिति बुद्धिविषयं वदनं बिभर्तीति । चन्द्रबिम्बापेक्षया अतिसुन्दरवदनोपेतमिति भावः ॥ ३३ ॥

विश्वास-प्रस्तुतिः - ३४

अतिसुन्दरमन्दहासराजन्नवकुन्दाभरदं शुभारुणोष्ठम् ।
कमलायतलोचनावलोकैरपि लोकान् सकलान् प्रहर्षयन्तम् ॥ ३४ ॥

मूलम् - ३४

अतिसुन्दरमन्दहासराजन्नवकुन्दाभरदं शुभारुणोष्ठम् ।
कमलायतलोचनावलोकैरपि लोकान् सकलान् प्रहर्षयन्तम् ॥ ३४ ॥

पदार्थदीपिकोद्बोधिका

अतीति ॥ पूर्वोक्तजना अतिसुन्दरो यो मन्दहासस् तेन राजन्तो नवकुन्दाभरदा नवानि नूतनानि यानि कुन्दानि कुन्दकुसुममुकुलानि तेषामाभेवाभा कान्तिर्येषां ते तथा । तादृशा ये रदा दन्तास्ते यस्य स तथोक्तस् तम् । शुभावरुणोष्ठौ यस्य स तथा तम् । कमलवदायते विशाले लोचने ताभ्याम् अवलोका दर्शनानि तैः सकलान् लोकान् प्रहर्षयन्तं सन्तोषयन्तं श्रीमध्वं मुहुर् एैक्षन्तेत्यन्वयषः ॥ ३४ ॥

मन्दोपाकारिणी

अतीति ॥ पुनः कथंभूतम् अतिसुन्दरमन्दहासराजन्नवकुन्दाभरदम् अतिसुन्दरेण मन्दहासेन सुस्मितेन राजन्तः शोभमाना नवानि प्रत्यग्राणि सद्य उत्पन्नानीति यावत् । कुन्दानि कुन्दकुसुममुकुलानि नवकुन्दानाम् आभाः सदृशा नवकुन्दाभाश्च ते रदा दन्ताश्च ‘रदना दशना दन्ता रदाः’ इत्यमरो ऽतिसुन्दरमन्द-हासराजन्तः नवकुन्दाभरदा यस्य सस् तथोक्तस् तं मन्दं हसन्तं शुद्धकुन्दकुड्मलाकार-दन्तयुक्तमित्यर्थः । शुभारुणोष्ठं शुभौ सुन्दरौ अरुणौ लोहितौ ओष्ठौ रदनच्छदौ यस्य सस् तथोक्तस् तं ‘ओष्ठाधरौ तु रदनच्छदौ दशनवाससी’ इत्यमरः । कमलायतलोचनावलोकैः कमलवत् कमलपत्रवद् आयतयोर् विशालयोर् लोचनयोर् अवलोकैर् दर्शनैः ‘दर्शनालोकनेक्षणम्’ इत्यमरः । सकलान् लोकान् जनान् प्रहर्षयन्तं सन्तोषयन्तम् ॥३४॥

विश्वास-प्रस्तुतिः - ३५

अतिभासुरकर्णभासितश्रीतुलसीगुच्छमतुच्छकान्तिगण्डम् ।
भुवनत्रयभूत्यभूतिदाने चतुरभ्रूवरविभ्रमं सुमौलिम् ॥ ३५ ॥

मूलम् - ३५

अतिभासुरकर्णभासितश्रीतुलसीगुच्छमतुच्छकान्तिगण्डम् ।
भुवनत्रयभूत्यभूतिदाने चतुरभ्रूवरविभ्रमं सुमौलिम् ॥ ३५ ॥

पदार्थदीपिकोद्बोधिका

अतिभासुरेति ॥ पूर्वोक्तजना अतिभासुरावतिसुन्दरौ यौ कर्णौ तयोर्भासितो विराजितः श्रीतुलसीगुच्छः श्रीतुलसीस्तबको यस्य स तथा तम् । ‘स्तबको गुच्छको गुच्छो गुलिच्छः परिकीर्तित’ इति हलः । अतुच्छा पूर्णा कान्तिर्ययोस्तौ तथोक्तौ तादृशौ गण्डौ यस्य स तथा तम् । भुवनत्रयं लोकत्रयं तस्य ये भूत्यभूती सृष्टिप्रलयौ तयोर्दानं प्रदानं तस्मिन् चतुरः समर्थो भ्रूवरविभ्रमो भ्रुवोः श्रेष्ठविलासो यस्य स तथा तम् । सु शोभनो मौलिर्मस्तकं यस्य स तथा तं श्रीमध्वं मुहुर् एैक्षन्तेत्यन्वयः ॥३५॥

मन्दोपाकारिणी

अतीति ॥ पुनः कथंभूतम् अतिभासुरकर्णभासितश्रीतुलसीगुच्छम् अतिभासुरयोः कर्णयोः सुन्दरयोः श्रोत्रयोर् भासितः राजमानः श्रीतुलस्या गुच्छः स्तबकः यस्य सस् तथोक्तस् तं ‘स्याद्गुच्छकस्तु स्तबकः’ इत्यमरः । अतुच्छकान्तिगण्डं तुच्छा अल्पा न भवतीत्यतुच्छा सम्पूर्णा कान्तिर् ययोस्तौ अतुच्छकान्ती गण्डौ कपोलौ यस्य सस् तथोक्तस् तं ‘अधस्ताच्चिबुकं गण्डौ कपोलौ’ इत्यमरः । भुवनत्रयभूत्यभूतिदाने भुवनानां लोकानां त्रयस्य भूतिर् उत्पत्तिर् अभूतिर् भूतिभिन्नं स्थितिप्रलयादिकं यद्वा भुवनत्रयस्य सज्जनासज्जनरूपस्य भूतिः सुखाद्यैश्वर्यम् अभूतिर् दुःखाद्यरिष्टं ‘विभूतिर्भूतिरैश्वर्यं’ इत्यमरस् तयोर् भूत्यभूत्योर् दाने । चतुरभ्रूवरविभ्रमं चतुरः दक्षः समर्थ इति यावद् भ्रूवरयोर् विभ्रमः विलासः यस्य स तथोक्तस् तम् । भ्रुवौ नाम चक्षुषोरूर्ध्वभागे विद्यमानावयवौ ज्ञेयौ ‘ऊर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियां’ इत्यमरः । सुमौलिं शोभनः मौलिर् मस्तको यस्य स तथोक्तस् तम् । एतादृशं मध्वाचार्यम् ऐक्षन्त इति पूर्वेणान्वयः ॥ ३५ ॥

विश्वास-प्रस्तुतिः - ३६

सकलावयवान् स्फुटं मिमानाः प्रतिमालक्षणदर्शनाय लक्ष्यम् ।
चतुरा विदधुर्यदीयगात्रं स सुलक्ष्मेत्यधुना निगद्यते नो ॥ ३६ ॥

मूलम् - ३६

सकलावयवान् स्फुटं मिमानाः प्रतिमालक्षणदर्शनाय लक्ष्यम् ।
चतुरा विदधुर्यदीयगात्रं स सुलक्ष्मेत्यधुना निगद्यते नो ॥ ३६ ॥

पदार्थदीपिकोद्बोधिका

सकलेति ॥ चतुराः पुरुषलक्षणविचारविदग्धाः पुरुषाः सकलावयन् श्रीमध्वस्य हस्तपादादिसर्वावयवान् स्फुटं सम्यक् मिमाना मानीकुर्वन्तः सन्तः । यस्य सम्बन्धि यदीयं तच्च तद्गात्रञ्च यदीयगात्रम् । श्रीमध्वदेहम् । प्रतिमालक्षणानि शिलादिप्रतिमालक्षणानि तेषां लक्षणं ज्ञानं तस्मै लक्ष्यं निदर्शनं विदधुः । पुरुषलक्षण-विचारविदग्धाः पुरुषा श्रीमध्वस्य सकलावयवान् मिमानाः सन्तस् तदवयेषु लक्षणशास्त्रसंवादं दृष्ट्वा एतदङ्गोपाङ्गवदेव सर्वप्रतिमाङ्गोपाङ्गानि भवेयुर् इति निश्चितवन्त इति भावः । स श्रीमध्वः सु शोभनं लक्ष्म लक्षणं यस्य स सुलक्ष्मा । शोभनलक्षणोपेत इत्यर्थः । इत्यधुना अद्य नो निगद्यते मया विशिष्य न वर्ण्यत इति कविवचनम् ॥ ३६ ॥

मन्दोपाकारिणी

सकलेति ॥ चतुराः पुरुषलक्षणविदग्धाः पुरुषाः । सकलावयवान् सर्वावयवान् श्रीमध्वाचार्यस्य हस्तपादाङ्गुल्याद्यङ्गानि ‘अङ्गं प्रतीकोऽवयवः’ इत्यमरः । स्फुटं मिमानाः प्रमाणीकुर्वन्तस्सन्तः यदीयगात्रं यस्य इदं यदीयं यदीयं च तद् गात्रं शरीरं च यदीयस्य मध्वस्य गात्रम् । प्रतिमालक्षणदर्शनाय प्रतिमानां शिलादिप्रतिमानां लक्षणं तत्तदवयवोचितस्थूलत्वदैर्घ्यादिपरिमाणं तस्य दर्शनाय ज्ञानाय लक्ष्यं निदर्शनं विदधुः कृतवन्तः । पुरुषलक्षणविचारचतुराः पुरुषा यस्य मध्वस्य हस्तपादादिशरीरावयवान् प्रमाणीकुर्वन्तस्सन्तस् तदवयवेषु लक्षणशास्त्रसंवादं दृष्ट्वा एतदङ्गोपाङ्गवदेव सर्वप्रतिमाङ्गो-पाङ्गानि भवेयुर् इति निश्चितवन्त इति भावः । स एवंभूतः मध्वाचार्यो ऽधुना इदानीम् एतज्जन्मन्येव सुलक्ष्मेति शोभनानि लक्ष्माणि लक्षणानि यस्य स तथोक्त उत्तमपुरुषलक्षणवानिति अस्माभिर् नो निगद्यते नोच्यते किन्तु अयं सर्वदा सुलक्षण एवेति सम्मत इति भावः । अनेन इमानि मध्वाचार्याणां शरीरलक्षणानि स्वाभाविकानीति श्रुत्यादिसम्मतानि इत्युक्तं भवति । निपूर्वकाद् गद व्यक्तायां वाचि इति धातोः कर्मणि लडात्मनेपदं निगद्यते निगद्येते निगद्यन्ते ॥ ३६ ॥

विश्वास-प्रस्तुतिः - ३७

अतिलोलदृशां समीक्षितुं स्वं जनसम्बाधभयेन दूरभाजाम् ।
समदर्शयदूर्ध्वमोरसोऽसौ दययैवोरुजनौघमध्यगोऽपि ॥ ३७ ॥

मूलम् - ३७

अतिलोलदृशां समीक्षितुं स्वं जनसम्बाधभयेन दूरभाजाम् ।
समदर्शयदूर्ध्वमोरसोऽसौ दययैवोरुजनौघमध्यगोऽपि ॥ ३७ ॥

पदार्थदीपिकोद्बोधिका

अतीति ॥ असौ श्रीमध्वः । उरुजना बहुलजनास् तेषामोघः समूहस्तस्य यन्मध्यं तद्गच्छतीति तथोक्तस्तथापि स्वमात्मानं समीक्षितुं द्रष्टुम् अतिलोला अत्यन्तलोलुपा दृशो दृष्टयो येषां ते तथा तेषाम् । तथापि जनसम्बन्धो जनसंमर्दस् तस्माद्भयेन दूरं दूरप्रदेशं भजन्तीति दूरभाजस् तेषां जनानां दययैव, आ उरस उरस्थलमारभ्योर्ध्वमूर्ध्वभागं समदर्शयत् । स्वयमुरुजनौघमध्यगोऽपि पूर्वमानादुच्चो भूत्वा आत्मानमुरस्थलादारभ्योर्ध्वभागं सर्वेभ्यो दर्शयमास इत्यर्थः ॥ ३७ ॥

मन्दोपाकारिणी

अतीति ॥ असौ मध्वाचार्यः । उरुजनौघमध्यगोऽपि उरुश्चासौ जनश्च उरुजन उरुजनस्य ओघः समूहः ‘ओघः प्रवाहो निवहः’ इति विश्वस् तस्य मध्ये गच्छति तिष्ठतीति उरुजनमध्यगोऽपि । मध्वदर्शनाय बहुलोकानां मिलितत्वाद् बहुजन-मध्यस्थं स्वं स्वात्मानं समीक्षितुं द्रष्टुम् अतिलोलदृशाम् अतिलोला अत्यन्ततृष्णावत्यः दृशः नेत्राणि येषां ते तथोक्तास् तेषां बहुजनमध्यस्थं मध्वं कदा नु पश्याम इत्युत्कण्ठावताम् इति भावः । ‘लोलश्चञ्चलतृष्णयोः’ इति भास्करस् तथा जनसम्बाधभयेन जनस्य सम्बाधः सम्मर्दः पीडा इति यावत् । तस्य भयेन स्वेषां जनपीडा स्यादिति शङ्कया दूरभाजां दूरदेशं भजन्तीति दूरभाजस् तेषां दूरवर्तिनां जनानां दययैव कृपयैव ‘कृपा दयाऽनुकम्पा स्यात्’ इत्यमरः । उरसः वक्षस्थलात् ‘उरो वत्सं च वक्षश्च’ इत्यमर आ आरभ्य इत्यौरस ऊर्ध्वम् ऊर्ध्वभागं समदर्शयद् वक्षस्थलादूर्ध्वभागं सर्वेभ्यो दर्शयामास इति भावः ॥ ३७ ॥

विश्वास-प्रस्तुतिः - ३८

सविकासदृशां कृताञ्जलीनां जनतानां परमादरान्नतानाम् ।
वलयेन वृतः प्रियं मुरारेः प्रविवेशायतनं प्रबर्हबोधः ॥ ३८ ॥

मूलम् - ३८

सविकासदृशां कृताञ्जलीनां जनतानां परमादरान्नतानाम् ।
वलयेन वृतः प्रियं मुरारेः प्रविवेशायतनं प्रबर्हबोधः ॥ ३८ ॥

पदार्थदीपिकोद्बोधिका

सविकासेति ॥ विकासेन सहिताः सविकासास् तादृशा दृशो यासां तास् तथा तासाम् । स्वमुखारविन्ददर्शनेन सविकासनयनानाम् इत्यर्थः । कृता अञ्जलयो हस्तमुकुलीभावा याभिस् तास् तथा तासाम् । परमादरः परमभक्तिस् तेन आनता नम्रास् तासां जनतानां जनसमूहानां वलयं मण्डलं तेन वृतो युक्तः । प्रबर्हः श्रेष्ठः बोधो ज्ञानं यस्य स तथा श्रीमध्वो मुरारेः श्रीविष्णुमङ्गलाधिवासिनो हरेः प्रियम् आयतनं देवालयं श्रीविष्णुमङ्गलाख्यं देवगृहं प्रविवेश ॥ ३८ ॥

मन्दोपाकारिणी

सविकासेति ॥ सविकासदृशां विकासेन सहिताः सविकासाः फुल्ला दृशश् चक्षूंषि येषां ते सविकाशदृशस् तेषाम् । मध्वाचार्यमुखारविन्ददर्शनेन प्रसन्ननयनानाम् । कृताञ्जलीनां कृतो ऽञ्जलिः करसम्पुटः यैस्ते तथोक्तास् तेषाम् । परमादराद् अतिभक्त्या नतानां नम्रीभूतानां जनतानां जनसमुदायानाम् । जनानां समूहो जनता इति व्युत्पत्तिः । वलयेन मण्डलेन वृतः परिवृतः । प्रबर्हबोधः प्रबर्हः श्रेष्ठः बोधो ज्ञानं यस्य स तथोक्तः ‘मुख्यवर्यवरेण्याश्च प्रबर्होऽनवरार्घ्यवत्’ इत्यमरः । श्रीपूर्णप्रज्ञाचार्यः मुरारेर् मुरनामकासुरस्य ओः शत्रोः श्रीविष्णुमङ्गलाधिवासिनः हरेः प्रियम् आयतनं देवालयं प्रविवेश प्रविष्टवान् । ‘विश प्रवेशने’ इति धातोर्लिट् परस्मैपदम् ॥ ३८ ॥

विश्वास-प्रस्तुतिः - ३९

विविधप्रभुमध्यसन्निषण्णो नरदेवेन समं स गूढदेवः ।
विबभावुडुराडिवोडुमध्ये सह मह्यास्तनयेन पूर्णबिम्बः ॥ ३९ ॥

मूलम् - ३९

विविधप्रभुमध्यसन्निषण्णो नरदेवेन समं स गूढदेवः ।
विबभावुडुराडिवोडुमध्ये सह मह्यास्तनयेन पूर्णबिम्बः ॥ ३९ ॥

पदार्थदीपिकोद्बोधिका

विविधेति ॥ नरदेवेन जयसिंहभूपेन समं साकं विविधा ये प्रभवः खण्डाधिपतयस् तेषां मध्यं तस्मिन् सन्निषण्ण उपविष्टः स गूढः मानुषरूपेण गूढश्चासौ देवश्च गूढदेवः श्रीमुख्यवायुदेवः । पूर्णः बिम्बो मण्डलं यस्य स तथा । उडूनां नक्षत्राणां राट् राजोडुराट् चन्द्रः । ‘नक्षत्रमृक्षं भं तारा तारकाप्युडवा स्त्रियामि’त्यमरः । मह्या भुवस् तनयेन पुत्रेण अङ्गारकेन सह । ‘अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुत’ इत्यमरः । उडुमध्यं नक्षत्रमध्यं तस्मिन्निव विभभौ विशेषेण शुशुभे । यद्वा गूढदेवः मह्यास् तनयेन सह उडुमध्ये पूर्णबिम्ब उडुराडिव विबभाविति । अत्रोपमालङ्कारः ॥ ३९ ॥

मन्दोपाकारिणी

विविधेति ॥ नरदेवेन जयसिंहराजेन समं सह ‘साकं सत्रा समं सहं’ इत्यमरः । विविधप्रभुमध्यसन्निषण्णः विविधा अनेकदेशस्थाः प्रभवः परिवृढा देशपतय इति यावत् । ‘प्रभुः परिवृढोऽधिपः’ इत्यमरः । तेषां मध्ये सन्निषण्ण उपविष्टः गूढदेवः गूढः मानुषवेषेण आच्छादितः देवः मुख्यवायुदेवांशभूतः । सः श्रीमध्वाचार्यः विबभौ विशेषेण शुशुभे । क इव पूर्णबिम्बः पूर्णं बिम्बं मण्डलं यस्य स तथोक्तः । उडुराट् उडूनां नक्षत्राणां ‘नक्षत्रमृक्षं भं तारा तारकाप्युडुवा स्त्रियां’ इत्यमरः । राट् राजा चन्द्रः । मह्या भूम्यास् तनयेन पुत्रेण अङ्गारकेण ‘अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः’ इत्यमर उडुमध्ये इव उडूनां नक्षत्राणां मध्ये इव इति । विबभौ विपूर्वकात् ‘भा दिप्तौ’ इति धातोर् लिट् परस्मैपदं बभौ बभतुर् बभुः ॥ ३९ ॥

विश्वास-प्रस्तुतिः - ४०

अवदत्स कथां रथाङ्गपाणेर्भगवान् भागवते भवापहन्त्रीम् ।
अनुरूपगुणस्वरादिभाजा निजशिष्यप्रवरेण वाच्यमाने ॥ ४० ॥

मूलम् - ४०

अवदत्स कथां रथाङ्गपाणेर्भगवान् भागवते भवापहन्त्रीम् ।
अनुरूपगुणस्वरादिभाजा निजशिष्यप्रवरेण वाच्यमाने ॥ ४० ॥

भावप्रकाशिका

निजशिष्यप्रवरेण हृषीकेशतीर्थेन ॥ ४० ॥

पदार्थदीपिकोद्बोधिका

अवददिति ॥ भगोऽस्यास्तीति भगवान् षड्गुणैश्वर्यवान् स श्रीमध्वो अनुकूलाः पुराणार्थवक्तृश्रीमध्वाचार्यानुकूला गुणा गाम्भीर्यश्राव्यत्वादिगुणा येषां तेऽनुकूलगुणास् तादृशा ये स्वरादयः स्वराकृत्यादयस् तान् भजतीत्यनुकूलगुणस्वरादिभाक् तेन । गाम्भीर्यश्राव्यत्वादिगुणाकृत्यादिभाजेत्यर्थः । निजशिष्याः स्वकीयशिष्यास् तेषु प्रवरः श्रेष्ठस् तेन हृषीकेशतीर्थेन भागवतं भागवतपुराणं तस्मिन् वाच्यमाने सति । भवापहन्त्रीं संसारनाशिनीं रथाङ्गं चक्रं पाणौ यस्य स तथा तस्य श्रीकृष्णस्य कथामवदत् ॥ ४० ॥

मन्दोपाकारिणी

अवददिति ॥ भगवान् ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसोर् भगो ऽस्यास्तीति भगवान् अव्याहतैश्वर्यादिषड्गुणवान् सः श्रीमध्वः । अनुरूपगुणस्वरादिभाजा अनुरूपो ऽनुकूलः गुणः श्राव्यत्वादिर् यस्य सो ऽनुरूपगुणः स चासौ स्वरः ध्वनिश्च अनुरूपगुणस्वरः स एव आदिर् यस्य तद् आदिशब्देन वाचकत्वशक्तिर्गाह्या अनुरूप-गुणस्वरादि भजतीति भाक् तेन । सर्वेषां श्राव्यस्वरवता सम्यक् वाचकत्वशक्तिमता गाम्भीर्यादिगुणवता च इत्यर्थः । निजशिष्यप्रवरेण निजेन स्वकीयेन शिष्यश्रेष्ठेन हृषीकेशतीर्थेन । भागवते भागवताख्यपुराणे वाच्यमाने सति । भवापहन्त्रीं भवस्य संसारस्य अपहन्त्रीं नाशिनीम् । रथाङ्गपाणेः रथाङ्गं चक्रं पाणौ यस्य सस् तस्य श्रीकृष्णस्य कथां चरित्रम् अवदत् श्रीकृष्णचरितापादकभागवतव्याख्यानम् अकरोत् हत्यर्थः ॥ ४० ॥

विश्वास-प्रस्तुतिः - ४१

कथनं तदुदारधैर्यसारं मधुरं पुष्कलभाववत् प्रसन्नम् ।
विदुषोऽविदुषोऽत्र श्रुण्वतोऽलं व्यधितानन्दरसाम्बुधौ निमग्नान् ॥ ४१ ॥

मूलम् - ४१

कथनं तदुदारधैर्यसारं मधुरं पुष्कलभाववत् प्रसन्नम् ।
विदुषोऽविदुषोऽत्र श्रुण्वतोऽलं व्यधितानन्दरसाम्बुधौ निमग्नान् ॥ ४१ ॥

पदार्थदीपिकोद्बोधिका

कथनमिति ॥ उदारधैर्यमुत्तमधैर्यं तस्य सारं सारभूतम् । उदारधैर्यस्य सारो यस्मिन् तदिति वा । मधुरं श्रोतृजनमनोहरं पुष्कलः सम्पूर्णो भावोऽभिप्रायः सोऽस्यास्तीति तथोक्तं प्रसन्नं शब्दतोऽर्थतश्चाकठोरं कथनं पुराणकथनं ृण्वतः श्रवणं कुर्वतो विदुषः पण्डितानविदुषोऽपण्डितानपि आनन्द एव रसो यस्मिन् स तथा स चासावम्बुधिश्च तस्मिन् निमग्नान् व्यधित । अकरोत् ॥ ४१ ॥

मन्दोपाकारिणी

कथनमिति ॥ उदारधैर्यसारम् उत्कृष्ठेन धैर्येण सारम् उत्तमम् । मधुरं श्रोतृजनमनोहरम् । पुष्कलभाववत् पुष्कलः पूर्णः भावो ऽभिप्रायो ऽस्यास्तीति पुष्कलभाववत् । ‘पूर्णश्रेयसि पुष्कलः’ इति अभिधानं प्रसन्नं शब्दतोऽर्थतश्च अकठोरम् । एवंभूतं तत्कथनं भागवताख्यानम् अत्र सभायाम् अलं सम्यक् आदरेण शृण्वतः श्रवणं कुर्वतः विदुषः पण्डितान् अविदुषोऽपि अपण्डितानपि जनान् आनन्दरसाम्बुधौ आनन्दरसस्य सुखाख्यजलस्य अम्बुधौ समुद्रे निमग्नान् व्यधित अकृत ‘डु धाञ् धारणपोषणयोर् इति धातोर् लुङात्मनेपदम् अधित अधिषाताम् अधिषत’ ॥ ४१ ॥

विश्वास-प्रस्तुतिः - ४२

गमनासनसङ्कथादिलीलाः स्मृतिमात्रेण भवापवर्गदात्रीः ।
कथमप्यमराः प्रपञ्चयेयुर्ननु मध्वस्य न मादृशोऽल्पबोधाः॥ ४२ ॥

मूलम् - ४२

गमनासनसङ्कथादिलीलाः स्मृतिमात्रेण भवापवर्गदात्रीः ।
कथमप्यमराः प्रपञ्चयेयुर्ननु मध्वस्य न मादृशोऽल्पबोधाः॥ ४२ ॥

पदार्थदीपिकोद्बोधिका

गमनेति ॥ केवला स्मृतिः स्मृतिमात्रं तेन भवादपवर्गो मोक्षस् तस्य दात्र्यस् ताः श्रीमध्वस्य गमनम् आगमनं तच्च आसनम् उपवेशनं सङ्कथा श्रीभागवतार्थसङ्कथनं सा च गमनासनसंकथास् ता आदयो यासां तास्तादृशाश्च ता लीलाश्च ता अमराः कथमपि भारतीरुद्राद्यनुग्रहबलादेव प्रपञ्चेयुर् वर्णयेयुः । मादृशो मद्विधा अल्पबोधा अल्पज्ञानिनो न प्रपञ्चयेयुर् ननु । सामर्थ्याभावादिति भावः । पचि विस्तारवचने लिङ् ॥ ४२ ॥

मन्दोपाकारिणी

गमनेति ॥ स्मृतिमात्रेण केवलस्मरणादेव भवापवर्गदात्रीर् भवात् संसाराद् अपवर्गस्य मोक्षस्य दात्रीः कर्त्रीः । मध्वस्य पूर्णप्रज्ञाचार्यस्य गमनासन-सङ्कथादिलीला गमनं गतिश्च आसनम् उपवेशनं च सङ्कथा सम्भाषणं च गमनासनसङ्कथा एता आदयो यासां ता गमनासनसङ्कथादयस् ताश्च ता लीलाः क्रियास् ताः । ‘लीला विलासक्रिययोः’ इति विश्वो ऽमरा देवाः कथमपि भारतीरुद्राद्यनुग्रहबलादेव प्रपञ्चयेयुर् विस्तारयेयुः । श्रीमध्वाचार्यगमनादिमहिमानं देवा अपि महाप्रयत्नेन विस्तराद् वर्णयेयुः । मादृशः ‘प्रथमा बहुवचनान्तम् इदं मादृक् मादृशौ मादृशः’ इति । मादृशः मत्सदृशा अल्पबोधा अल्पः बोधः ज्ञानं येषां ते तथोक्ता न प्रपञ्चयेयुर् ननु । ‘पचि विस्तारवचने’ इत्यतो लिङ् परस्मैपदं पञ्चयेत् पञ्चयेतां पञ्चयेयुः ॥ ४२ ॥

विश्वास-प्रस्तुतिः - ४३

सुतपःकवितादिसद्गुणानां लिकुचानां कुलजोऽङ्गिरोन्वयानाम् ।
अभवद्गुहनामको विपश्चित्कविवर्योऽखिलवादिवन्दनीयः ॥ ४३ ॥

मूलम् - ४३

सुतपःकवितादिसद्गुणानां लिकुचानां कुलजोऽङ्गिरोन्वयानाम् ।
अभवद्गुहनामको विपश्चित्कविवर्योऽखिलवादिवन्दनीयः ॥ ४३ ॥

भावप्रकाशिका

गुहनामको विपश्चित् सुब्रह्मण्यपण्डितः ॥ ४३ ॥

पदार्थदीपिकोद्बोधिका

सुतप इति ॥ सुतपश्च कविता गद्यपद्यात्मककविता आदिर्येषां ते कवितादयः, ते च सुतपःकवितादयः सद्गुणा ज्ञानभक्तिवैराग्यादिसद्धर्मा येषां ते तथा तेषाम् । अङ्गिरसोऽन्वयो गोत्रं येषां ते तथा तेषां लिकुचानां लिकुच-संज्ञककुलजन्मनां द्विजन्मनां कुलजः कविवर्यः कविश्रेष्ठो ऽखिलवादिवन्दनीयो ऽखिलवादिभिः स्तुत्यः गुह इति सुब्रह्मण्य इति नाम यस्य स गुहनामको विपश्चित् पण्डितो ऽभवत् ॥ ४३ ॥

मन्दोपाकारिणी

इदानीं मध्वाचार्यस्य त्रिविक्रमपण्डिताचार्यैः सह वादकथां प्रपञ्चयितुं तदुत्पत्तिप्रकारमाह ॥ सुतप इत्यादिना ॥ सुतपःकवितादिसद्गुणानां शोभनं च तत् तपश्च सुतपः, कविता गद्यपद्यात्मकप्रबन्धनिर्माणशक्तिर् आदिशब्देन पाण्डित्य-सदाचारभक्तिज्ञानादयः ग्राह्याः । सुतपश्च कविता च सुतपःकविते आदी येषां ते । सन्तश्च ते गुणाश्च सद्गुणाः सुतपःकवितादयश्च ते सद्गुणाश्च सुतपःकवितादिसद्गुणा येषां तेषाम् । अङ्गिरोन्वयानाम् अङ्गिरा नाम ऋषिः स एव अन्वयः गोत्रं येषां ते तथोक्तास् तेषां ‘सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ’ इत्यमरः । आङ्गिरसगोत्रोद्भवानामित्यर्थः । लिकुचानां लिकुचनामकानां द्विजानां कुलजः कुले जातः । गुहनामकः सुब्रह्मण्यनामा सुब्रह्मण्यस्य स्कन्दावतारत्वात् ‘पार्वतीनन्दनस्कन्दः सेनानीराग्निभूर्गुहः’ इत्यमरात् स्कन्द वाचकगुहशब्देन व्यवहारः विपश्चित् पण्डितः ‘विद्वान् विपश्चिद्दोषज्ञः’ इत्यमरः । अभवद् आसीत् । कथंभूतः कविवर्यः कवीनां पण्डितानां श्रेष्ठः ‘संख्यावान् पण्डितः कविः’ इत्यमरः । अखिलवादिवन्दनीयो ऽखिलैर् वादिभिर् वन्दनीयः नमस्करणीयः ॥ ४३ ॥

विश्वास-प्रस्तुतिः - ४४

दयिताऽस्य सती गुणानुरूपा विधिविर्येण मुहुर्मृतप्रजाऽपि ।
अभजद्भुवनप्रभू हरीशौ सुतकामा वसुदेवसूनुभक्ता ॥ ४४ ॥

मूलम् - ४४

दयिताऽस्य सती गुणानुरूपा विधिविर्येण मुहुर्मृतप्रजाऽपि ।
अभजद्भुवनप्रभू हरीशौ सुतकामा वसुदेवसूनुभक्ता ॥ ४४ ॥

पदार्थदीपिकोद्बोधिका

दयितेति ॥ सती पतिव्रता गुणानुरूपा पत्युर्गुणानुकूला वसुदेवसूनुभक्ता श्रीकृष्णभक्ता । अस्य सुब्रह्मण्यपण्डितस्य दयिता भार्या विधिवीर्यं दैवसामर्थ्यं तेन मुहुः पुनः पुनः मृतप्रजा मृताः प्रजा अपत्यानि यस्याः सा तथापि सुते काम इच्छा यस्याः सा तथा सती भुवनप्रभू सर्वलोकेश्वरौ हरीशौ हरिहरौ अभजत् ॥४४॥

मन्दोपाकारिणी

दयितेति ॥ सती पतिव्रता ‘सती साध्वी पतिव्रता’ इत्यमरः । गुणानुरूपा पत्युर्गुणानाम् अनुकूलस्वभावा । अस्य सुब्रह्मण्यपण्डितस्य दयिता भार्या विधिवीर्येण विधेर् अदृष्टप्रेरकदेवताया वीर्येण सामर्थ्येन । मुहुः पुनः पुनः मृतप्रजापि मृता प्रजा सन्तानं यस्यास्सा तथोक्ता । ‘प्रजा सन्तानलोकयोः’ इति विश्वः मृतपुत्रापि सुतकामा सुतस्य काम इच्छा यस्यास्सा तादृशी सती । भुवनप्रभू भुवनानां लोकानां प्रभू नाथौ हरीशौ हरिश्च ईशः हरश्च हरीशौ हरिहरौ इत्यर्थः । ‘शम्भुरीशः पशुपतिः’ इत्यमरः । अभजद् असेवत । ‘भज सेवायामित्यतो लङ् परस्मैपदम् ।’ कथंभूता वसुदेवसूनुभक्ता वसुदेवस्य सूनुः सुतः श्रीकृष्णस् तस्य भक्ता विशेषतो भक्तिमती ॥ ४४ ॥

विश्वास-प्रस्तुतिः - ४५

परमेश्वरयोः प्रसादयोगात्सुतरत्नं तदसूत सूरिपत्नी ।
परिषत्पदपत्तनेषु नार्घो विविदे यस्य समः परीक्षकाग्रयैः ॥ ४५ ॥

मूलम् - ४५

परमेश्वरयोः प्रसादयोगात्सुतरत्नं तदसूत सूरिपत्नी ।
परिषत्पदपत्तनेषु नार्घो विविदे यस्य समः परीक्षकाग्रयैः ॥ ४५ ॥

पदार्थदीपिकोद्बोधिका

परमेति ॥ सूरिपत्नी सुब्रह्मण्यपण्डितपत्नी परमेश्वरयोर् हरिहरयोः प्रसादयोगात्सेवाजन्यानुग्रहसम्बन्धात् । यस्य सुतरत्नस्य परिषदां विदुषां पदानि स्थानानि सभास् तान्येव पत्तनानि तेषु परीक्षकाग्रयाः सुतरत्नपरीक्षकश्रेष्ठास् तैः सम उचितो अर्घो मूल्यं न विविदे न ज्ञातः । अनर्घत्वाद् अनर्घमेतदित्येव उच्यते । तथा तत्सुतस्य विद्वत्सभारूढस्य तस्य सर्वविद्यावैदग्ध्यादिगुणजातं पश्यद्भिर् विद्वज्जनैस् तस्य गुणानामियत्ता नावधारितेति भावः । तदेतादृशं सुतरत्नं सुताख्यं रत्नम् असूत सुषुवे ॥ ४५ ॥

मन्दोपाकारिणी

परमेश्वरयोरिति ॥ सूरिपत्नी सूरेः सुब्रह्मण्याख्यपण्डितस्य ‘धीमान् सूरिः कृती कृष्टिः’ इत्यमरः । पत्नी भार्या । परमेश्वरयोः परमः सर्वोत्तमः हरिर् ईश्वरः हरश्च तयोर् हरिहरयोः । प्रसादयोगात् सेवाजनितानुग्रहस्य योगात् सम्बन्धात् तत् तादृशं सुतरत्नं पुत्राख्यरत्नम् असूत सुषुवे । ‘षूङ् प्राणिगर्भविमोचने इत्यतो लङात्मनेपदम् असूत असुवाताम् असुवत । तत् कीदृशं यस्य सुताख्यरत्नस्य परिषत्पदपत्तनेषु परिषदः विद्वत्सभाः ‘समज्या परिषद्गोष्टी सभासमितिसंसदः’ इत्यमरः । परिषद एव पदानि स्थानानि तानि च तानि पत्तनानि पुर्यस् तेषु । ‘पूः स्त्री पुरी नगर्यौ वा पत्तनं पुटभेदनं’ इत्यमरः परीक्षकाग्रयैः रत्नपरीक्षकेषु श्रेष्ठैः पुरुषैः सम उचितो ऽर्घः मूल्यं न विविदे न ज्ञातः । ‘मूल्ये पूजाविधावर्घः’ इत्यमरः । ‘विद ज्ञाने’ इत्यतः कर्मणि लिट् आत्मनेपदं विविदे विविदाते विविदिरे । यथा अनर्घस्य कस्यचिद्रत्नस्य मौल्यपरिज्ञानाय पत्तने नीतस्य सतः पत्तनेषु रत्नमूल्यपरीक्षकेषु विदग्धैः पुरुषैस् तद्योग्यार्घो न ज्ञायते किंतु अर्घहीनत्वाद् अमूल्यमित्येवोच्यते । तथा तत्सुतस्य विद्वत्तया रूढस्य सतः विद्वत्सभासु प्रविष्टस्य तस्य सर्वविद्यावैदग्ध्यादिगुणजातं पश्यद्भिर् विद्वज्जनैस् तस्य गुणानाम् इयत्ता नावधारिता इति भावः । तादृशं सुताख्यरत्नम् असूतेत्यन्वयः ॥ ४५ ॥

विश्वास-प्रस्तुतिः - ४६

वदनेन्दुमवेक्ष्य नन्दनस्य स्वकुलोत्तारणदक्षलक्षणस्य ।
कृतकृत्यतया क्रियाः प्रकुर्वन् कविराख्यादुचितां त्रिविक्रमाख्याम् ॥ ४६ ॥

मूलम् - ४६

वदनेन्दुमवेक्ष्य नन्दनस्य स्वकुलोत्तारणदक्षलक्षणस्य ।
कृतकृत्यतया क्रियाः प्रकुर्वन् कविराख्यादुचितां त्रिविक्रमाख्याम् ॥ ४६ ॥

भावप्रकाशिका

वेदे, कवितायां, वेदान्त इति त्रिषु विक्रमोऽस्येत्युचितां त्रिविक्रमा-ख्याम् ॥ ४६ ॥

पदार्थदीपिकोद्बोधिका

वदनेति ॥ स्वस्य सुब्रह्मण्यविपश्चितो यत्कुलं लिकुचसंज्ञकं कुलं तस्य यदुत्तारणं समस्तव्रजिनसमुद्रसन्तरणं तस्मिन् दक्षाणि चतुराणि लक्षणान्यङ्ग-सम्बन्धा यस्य स तथा तस्य नन्दनस्य वदनेन्दुम् अवेक्ष्य कृतं कृत्यं कार्यं येन स तथा तस्य भावस्तत्ता तया । क्रिया जातकर्मादिक्रियाः प्रकुर्वन् कविः सुब्रह्मण्यपण्डित उचितां त्रिविक्रम इत्याख्या त्रिविक्रमाख्या तामाख्याद् अवदत् । ख्या प्रकथन इति धातुः । त्रिषु वेदे कवितायां वेदान्ते चेति त्रिषु विक्रमो अवगतिरस्येति त्रिविक्रम इत्यन्वर्थत्वाद् उचितां त्रिविक्रसंज्ञां पिता चकारेति भावः ॥ ४६ ॥

मन्दोपाकारिणी

वदनेति ॥ कविः सुब्रह्मण्याख्यपण्डितः । स्वकुलोत्तारणद-क्षलक्षणस्य स्वकुलस्य आत्मीयकुलस्य लिकुचकुलस्य उत्तारणे सकलपापवृन्दान् मोचने दक्षाणि चतुराणि लक्षणानि शुभलक्षणानि यस्य स तथोक्तस् तस्य नन्दनस्य तनयस्य । वदनेन्दुं वदनमेव इन्दुश् चन्द्रस् तम् अवेक्ष्य दृष्ट्वा । कृतकृत्यतया कृतं पूर्णं कृत्यं प्रयोजनं यस्य स तथोक्तस् तस्य भावः कृतकृत्यता तया सम्प्राप्तमनोरथत्वेन इत्यर्थः । क्रिया जातकर्मादिकर्माणि प्रकुर्वन् सन् । उचिताम् अन्वर्थकां त्रिविक्रमाख्यां त्रिविक्रम इति आख्यां संज्ञाम् आख्याद् अवदत् । ‘आङ्पूर्वकख्या प्रकथने इति धातोर्लङ् परस्मैपदम् आख्याद् आख्याताम् आख्यान्’ । त्रिषु वेदे वेदान्ते कवितायां च इति त्रिषु विक्रमो ऽवगमो ऽस्य इत्यन्वर्थकत्वाद् उचितां त्रिविक्रमसंज्ञाम् अकरोद् इति भावः ॥ ४६ ॥

विश्वास-प्रस्तुतिः - ४७

कलभाषण एव सूरिपोतः कविरासीदनवद्यपद्यवादी ।
अवभाति ननु प्रभाप्रभावी भगवान् बालतरोऽपि तिग्मभानुः ॥ ४७ ॥

मूलम् - ४७

कलभाषण एव सूरिपोतः कविरासीदनवद्यपद्यवादी ।
अवभाति ननु प्रभाप्रभावी भगवान् बालतरोऽपि तिग्मभानुः ॥ ४७ ॥

पदार्थदीपिकोद्बोधिका

कलेति ॥ सूरिपोतः पण्डितशिशुः । कलम् अव्यक्तमधुरं भाषणं यस्य स तथा बाल्ये अव्यक्तभाषादशापन्न एवेत्यर्थः । अनवद्यानि पद्यानि निर्दोषपद्यानि वक्तुं शीलम् अस्येति अनवद्यपद्यवादी, तथा सन् कविरासीत् । तथा हि तिग्मभानुर् उष्णकिरणो भगवान् सूर्यः बालतरोऽपि प्रभाप्रभावः प्रभासामर्थ्यम् अस्यास्तीति तथोक्तः सन्नवभाति ननु शोभते खलु ॥ ४७ ॥

मन्दोपाकारिणी

कलेति ॥ सूरिपोतः सूरेः सुब्रह्मण्याख्यपण्डितस्य पोतः शिशुः ‘पोतः पाकोऽर्भको डिम्भः’ इत्यमरः । कलभाषण एव कलम् अव्यक्तमधुरं भाषणं वचनं यस्य स तथोक्तः । ‘ध्वनौ तु मधुरास्फुटे कलः’ इत्यमरः । अस्फुटाक्षरवचनावस्थायामेवेति भावः । अनवद्यपद्यवादी न विद्यन्ते अवद्यानि शब्ददूषणानि येषां तानि अनवद्यानि तानि च तानि पद्यानि श्लोकाश्च अनवद्यपद्यानि तेषां वादी वदनशीलः सन् । कविर् गद्यपद्यात्मकप्रबन्धकर्ता आसीत् । बाल्ये अव्यक्तकलभाषणकाले एव निर्दोषश्लोक-करणशीलोऽभूद् इति भावः । तद्युक्तमेव हि । भगवान् अतिपूज्यस् तिग्मभानुः सूर्यः बालतरोऽपि अतिनूतनोऽपि उदयमात्रमितोऽपीति यावत् । प्रभाप्रभावी प्रभायाः प्रभावः सामर्थ्यम् अस्यास्तीति प्रभाप्रभावी सन् ‘वीर्यं बलं प्रभावश्च’ इत्यमरः । अवभाति ननु शोभते खलु । यथा उदितमात्रस्य सूर्यस्य प्रभासामर्थ्यं च अनुभवसिद्धं तथा अस्य बालस्यापि महाप्रतिभावत्वं न असम्भावितम् इति भावः ॥ ४७ ॥

विश्वास-प्रस्तुतिः - ४८

सकलाङ्गयुतावभातशाखः समये प्राप्त उदारपक्षिसेव्यः ।
स ससर्ज सदध्वगोपकृत्यै लिकुचः काव्यफलं रसाभिरामम् ॥ ४८ ॥

मूलम् - ४८

सकलाङ्गयुतावभातशाखः समये प्राप्त उदारपक्षिसेव्यः ।
स ससर्ज सदध्वगोपकृत्यै लिकुचः काव्यफलं रसाभिरामम् ॥ ४८ ॥

भावप्रकाशिका

काव्यफलमुषाहरणाख्यम् ॥ ४८ ॥

पदार्थदीपिकोद्बोधिका

सकलेति ॥ सकलाङ्गानि शिक्षाकल्पनिरुक्तादिसर्वाणि वेदाङ्गानि तैर्युताः सकलाङ्गयुताः सकलाङ्गयुततयाऽवभाता ज्ञाता सकलाङ्गयुतावभातास् तादृशाः शाखा ऋगादिशाखा येन स तथोक्तः । समयः शास्त्रं तस्मिन् प्राप्ते ज्ञाते सति, उदाराः पूर्वापरविवेकादिगुणोदारा ये पक्षिणः नानाविधशास्त्रवन्तस् तैः सेव्यः । नानाविध शास्त्रसिद्धान्ताभिज्ञैस् तत्तत्समयविशेषजिज्ञासया निषेव्य इत्यर्थः । लिकुचो लिकुचकुलजन्मा स त्रिविक्रमार्यः । सन्त एवाध्वगाः पान्थास् तेषामुपकृतिरुपकारस् तस्यै । रसाभिरामं ृङ्गारादिरसैर् अभिरामं काव्यमेव फलं काव्यफलं तत् । उषाहरणाख्यकाव्यात्मकफलम् इत्यर्थः । ससर्ज उत्पादयामास । श्लेषार्थे तु– सकलाङ्गयुतावभातशाखः पल्लवान्तरशाखादि सकलवृक्षाङ्गयुक्ततया विराजमानबृहच्छाखोपेतः । अत एव उदारपक्षिसेव्य एवं स्वस्वजातौ यथायोग्यतया प्रौढनानाविहङ्गमसेव्यः सल्लिकुचो लिकुचाख्य वृक्षविशेषः समये प्राप्ते सति फलनिष्पत्तिकाले प्राप्ते सति पान्थानामुपकाराय यथा फलति तद्वदित्यभिप्रायः ॥ ४८ ॥

मन्दोपाकारिणी

सकलेति ॥ सकलाङ्गयुतावभातशाखः सकलानि च तानि अङ्गानि शिक्षाकल्पादिवेदाङ्गानि च तैर् युताः सहिताः । अवभाता ज्ञाताः शाखा ऋगादिशाखा येन स तथोक्तः षडङ्गसहितवेदाध्ययनवान् इत्यर्थः । समये शास्त्रे प्राप्ते सति अवगते सति ‘समयाः शपथाचारकालसिद्धान्तसंविदः’ इत्यमरः । उदारपक्षिसेव्य उदाराः श्रेष्ठाश्च ते पक्षिणः सिद्धान्तिनश्च उदारपक्षिणस् तैः सेव्यः निषेव्यः । तत्कालवर्तिनः सर्वसिद्धान्तिनः सर्वसिद्धान्ताभिज्ञं त्रिविक्रमार्यं तत्तत्सिद्धान्तविशेषजिज्ञासया असेवन्त इति भावः । लिकुचः लिकुचकुलसम्भूतः सस् त्रिविक्रमार्यः सदध्वगोपकृत्यै सज्जनाख्यपान्थानाम् उपकाराय । रसाभिरामं रसैः ृङ्गारादिभिः काव्यरसैर् अभिरामं मनोहरं ‘ृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः’ इत्यमरः । ‘ृङ्गारहास्यकरुणवीररौद्रभयानकाः । बीभत्साद्भुतशांताख्या नव काव्ये रसाः स्मृताः’ इति काव्यप्रकाशे ृङ्गारादिरसा उक्ता ज्ञेयाः । काव्यफलं काव्यम् उषाहरणाख्यं फलं ससर्ज उत्पादयामास । यथा सकलाङ्गयुतावभातशाखः सकलानि अङ्गानि त्वक्पल्लवादिवृक्षानि तैर् युतत्वादेव अवभाता विराजमानाः शाखा वृक्षस्कन्धा यस्य स तथोक्तो ऽष्टाङ्गत्वेन शोभमानस्थूलशाखावान् । उदारपक्षिसेव्य उदारास् तत्तज्जातौ श्रेष्ठाः पक्षिणः नानाविधविहङ्गास् तैः सेव्यस्सन् लिकुचः लिकुचाख्यवृक्षविशेषः समये फलोत्पत्तिकाले प्राप्ते सति पान्थानाम् उपकाराय रसाभिरामं रसेन मधुररसेन अभिरामं मनोहरं फलं सृजति तद्वत् त्रिविक्रमपण्डिताचार्यः सर्वशास्त्राभिगमनानन्तरं शृङ्गारादि-काव्यरसोपेतम् उषाहरणाख्यं काव्यं चकार इति श्लेषाभिप्रायः ॥ ४८ ॥

विश्वास-प्रस्तुतिः - ४९

प्रतिपादितमात्मना यथार्थं पृथुमायासमयस्य दुर्घटत्वम् ।
स्वगुरौ परिहर्तुमक्षमेऽपि श्रुतवांस्तं स वयस्यबोधितोऽलम् ॥ ४९ ॥

मूलम् - ४९

प्रतिपादितमात्मना यथार्थं पृथुमायासमयस्य दुर्घटत्वम् ।
स्वगुरौ परिहर्तुमक्षमेऽपि श्रुतवांस्तं स वयस्यबोधितोऽलम् ॥ ४९ ॥

पदार्थदीपिकोद्बोधिका

प्रतीति ॥ आत्मना स्वेन प्रतिभावितमुद्भावितं यथार्थं विचार्यमाणे सति परमार्थतो विद्यमानमेव, पृथुर्महान् मायासमयो मायावादशास्त्रं तस्य दुर्घटत्वं पूर्वापरविरुद्धत्वेन अनुपपन्नत्वं, स्वगुरौ परिहर्तुम् अक्षमेऽपि स त्रिविक्रमार्यस् तच्छास्त्रश्रवणेच्छारहितो ऽप्यलं सम्यक् सवयस्यबोधितः सन् सखिबोधितः संस्तं मायासमयं श्रुतवान् । शुश्रावेति भावः ॥ ४९ ॥

मन्दोपाकारिणी

प्रतिपादितमिति ॥ आत्मना स्वात्मना प्रतिपादितम् उद्भावितं यथार्थं विचार्यमाणे सति परमार्थतो विद्यमानमेव । पृथुमायासमयस्य पृथोर् बहुलस्य मायासमयस्य मायावादशास्त्रस्य दुर्घटत्वं पूर्वापरविरुद्धत्वेन अनुपपन्नत्वम् । स्वगुरौ स्वस्य शास्त्रोपदेशकर्तरि । परिहर्तुम् अक्षमेऽपि न क्षम इत्यक्षमस् तस्मिन् असमर्थेऽपि इत्यर्थः । ‘क्षमं शक्ते हिते त्रिषु’ इत्यमरः । सस् त्रिविक्रमार्यस् तच्छास्त्रश्रवणेच्छारहितोऽपि अलं वयस्यबोधितः सन् वयस्यैः समानवयस्कैर् बोधितस्सन् ‘स्निग्धो वयस्यः सवयाः’ इत्यमरः । तं मायासमयं श्रुतवान् अृणोत् । स्वकृतानुपपत्तिशङ्कापरिहाराभावेन तच्छास्त्रश्रवणे आदररहितोऽपि केवलं वयस्यबोधित एव सन् मायावादशास्त्रं श्रुतवान् इति भावः ॥ ४९ ॥

विश्वास-प्रस्तुतिः - ५०

भगवत्युदिते सगोविलासे वटुभावं त्यजति त्रिविक्रमार्ये ।
अपि भानुपुरस्सराः समस्ताः प्रययुः कीटमणिप्रभत्वमाशु ॥ ५० ॥

मूलम् - ५०

भगवत्युदिते सगोविलासे वटुभावं त्यजति त्रिविक्रमार्ये ।
अपि भानुपुरस्सराः समस्ताः प्रययुः कीटमणिप्रभत्वमाशु ॥ ५० ॥

भावप्रकाशिका

भानुर्नाम कश्चित्प्राभाकरप्रचुरः ॥ ५० ॥

पदार्थदीपिकोद्बोधिका

भगवतीति ॥ गोविलासो वचनविलासस् तेन सहितः सगोविलासस् तस्मिन् त्रिविक्रमार्ये त्रिविक्रमनामि्न वटुभावं त्यजति सति, भगवति हरावुदिते सति वेदशास्त्रपुरस्सरं प्रतिपादिते सति, भानुः पुरस्सरो येषां ते तथा समस्तवादिनः कीटमणिप्रभेव खद्योतप्रभेव प्रभा येषां ते कीटमाणिप्रभास् तेषां भावस् तत्वमाशु प्रययुः । अतिप्रभाणाम् अपि भानुपुरस्सराणां वैदुष्यं त्रिविक्रमार्यवैदुष्यापेक्षया अत्यल्पम् अभूदिति भावः । यथादौ वामनरूपे त्रिविक्रमाख्ये भगवति क्रमेण वटुभावं त्यक्त्वा व्याप्तरूपे भवति सति तत्तेजसा प्रतिमुष्टतेजसः सूर्यादयः खद्योतसदृशा अभवंस्तद्वदिति श्लेषार्थः ॥ ५० ॥

मन्दोपाकारिणी

भगवतीति ॥ सगोविलासे गवां वाचां विलासः विस्तारस् तेन सहिते । त्रिविक्रमार्ये त्रिविक्रमाचार्यनामि्न भगवति श्रीनारायणे उदिते वेदशास्त्रनैपुण्याख्यम् उदयं प्राप्ते सति । वटुभावं वटोर् ब्रह्मचारिणः भावः धर्मः वटुत्वं बाल्यावस्थां त्यजति त्यक्तवति सति । भानुपुरस्सरा भानुर्नाम कश्चित् प्रभाकरशास्त्राभिज्ञः स एव पुरस्सर आदिर् येषां ते तथोक्ताः । समस्ता वादिनः कीटमणिप्रभत्वं कीटमणिः खद्योताख्यः कीटस् तस्य प्रभेव प्रभा कान्तिर् येषां ते कीटमणिप्रभास् तेषां भावः कीटमणिप्रभत्वं खद्योतसादृश्यम् आशु प्रययुः । अतिपण्डितानामपि भानुप्रभृतिवादिनां वैदुष्यं त्रिविक्रम-पण्डिताचार्यवैदुष्यापेक्षया अत्यल्पम् अभूद् इति भावः । यथा आदौ सगोविलासे गवां तेजसां विलासेन सहिते अतितेजःपुञ्जे वामनरूपे भगवति वटुभावं ह्रस्वाकारं त्यक्त्वा क्रमेण त्रिविक्रमरूपेण व्याप्ते सति तत्तेजसा प्रतिमुष्टतेजसः सूर्यादयो देवाः खद्योतसदृशा अभवन् तद्वदिति श्लोषाभिप्रायः ॥ ५० ॥

विश्वास-प्रस्तुतिः - ५१

अतिदक्षमतिं सपादलक्षे समये मायिजनस्य युक्तिशूरम् ।
महितं हि महीतले महिम्ना जनको नन्दनमब्रवीदुपांशु ॥ ५१ ॥

मूलम् - ५१

अतिदक्षमतिं सपादलक्षे समये मायिजनस्य युक्तिशूरम् ।
महितं हि महीतले महिम्ना जनको नन्दनमब्रवीदुपांशु ॥ ५१ ॥

पदार्थदीपिकोद्बोधिका

अतीति ॥ जनकः पिता सुब्रह्मण्यपण्डितः पादेन सहितं सपादं लक्षं लक्षसङ्ख्या यस्य स सपादलक्षस् तस्मिन् सपादलक्षग्रन्थात्मक इत्यर्थः । मायिजनस्य समये शास्त्रे विषये अतिदक्षमतिम् अतिचतुरमतिं युक्तिशूरं स्वपक्षसाधने परपक्षदूषणे च युक्तिभिर्विदग्धम् । अत एव महिम्ना सामर्थ्येन मह्यास्तलं तस्मिन् महितं पूजितं नन्दनं त्रिविक्रमाचार्यम् उपांशु रहस्यब्रवीत् ॥ ५१ ॥

मन्दोपाकारिणी

अतिदक्षेति ॥ जनकः पिता सुब्रह्मण्याख्यपण्डितः । सपादलक्षे पादेन लक्षचतुर्थांशेन पञ्चविंशतिसहस्रेणेति यावत् सहितं सपादं च तद् लक्षं च सपादलक्षं तस्मिन् । मायिजनस्य मायी चासौ जनश्च मायिजनस् तस्य मायावादिनः । समये शास्त्रे अतिदक्षमतिम् अतिदक्षा अत्यन्तं निपुणा मतिर् बुद्धिर् यस्य स तथोक्तस् तम् । युक्तिशूरं युक्तिषु स्वपक्षसाधने परपक्षनिवारणे च विदग्धम् अत एव महिम्ना माहात्म्येन अत एव महीतले महितं सभाजितं नन्दनं पुत्रं त्रिविक्रमार्यम् उपांशु रहसि ‘रहश्चोपांशु चालिङ्गे’ इत्यमरो ऽब्रवीद् अवोचत् । ‘ब्रूञ् व्यक्तायां’ वाचि इत्यतो लङ् परस्मैपदम् अब्रवीद् अब्रूताम् अब्रुवन् ॥ ५१ ॥

विश्वास-प्रस्तुतिः - ५२

श्रुणु वाचमिमां विचारितार्थां न कलौ निर्गुणभावना सुखाय ।
इति गौणविमुक्तये गुणाढ्यं स्मर देवं सुतवासुदेवमेव ॥ ५२ ॥

मूलम् - ५२

श्रुणु वाचमिमां विचारितार्थां न कलौ निर्गुणभावना सुखाय ।
इति गौणविमुक्तये गुणाढ्यं स्मर देवं सुतवासुदेवमेव ॥ ५२ ॥

पदार्थदीपिकोद्बोधिका

ृण्विति ॥ विचारितो विचार्य निर्धारितो अर्थो यस्याः सा तथा तामिमां वक्ष्यमाणां वाचं ृणु । कलौ कलियुगे निर्गुण इति भावना निर्गुणभावना परब्रह्मणो निर्गुणत्वध्यानम् इत्यर्थः । सुखाय मोक्षसुखाय न भवति । इति अस्माद्धेतो-र्गुणैर्युक्ता गौणी सा च सा मुक्तिश्च तस्यै ज्ञानानन्दादिगुणयुक्तमोक्षार्थम् इत्यर्थः । देवमेव क्रीडादिगुणविशिष्टमेव वसुदेवसूनुं वासुदेवं गुणाढ्यमेव भज । यदि ज्ञानानन्दादिगुणरहितं परं ब्रह्मोपास्येत तर्हि तत्फलं मोक्षोऽपि ज्ञानाद्यभावः सुखाय न भवति । मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेदिति मोक्षधर्मवचनात् । तस्मान् निर्गुणोपासनं न सुखाय । यदि ज्ञानानन्दादिगुणं तद्ब्रह्मोपासितं स्यात्तदुपासनफलं मोक्षोऽपि ज्ञानानन्दादिगुणविशिष्ट एव स्यात् । एवंविधश्च मोक्षः पुरुषार्थों भवति । निर्दोषज्ञानानन्दाद्यात्मकत्वात् ।

तस्माद् एवंविधगौणमोक्षाय भगवन्तं वासुदेवं निर्दोषज्ञानानन्दाद्यनन्तगुणविशिष्टमेव भजेत्यर्थः ॥ ५२ ॥

मन्दोपाकारिणी

ृण्विति ॥ हे सुत तनय । विचारितार्थां विचारितः विचार्य निर्धारितो ऽर्थो ऽभिधेयः यस्याः सा ताम् । इमां वक्ष्यमाणां वाचं ृणु अवधारय । ‘ृ श्रवणे’ इति धातोर्लोट् परस्मैपदं ृणु ृणुतं ृणुत । कलौ कलियुगे निर्गुणभावना परब्रह्मणः निर्गुणत्वस्य भावना ध्यानम् उपासना सुखाय मोक्षसुखाय न, न भवेद् इति हेतोः । गौणविमुक्तये गौणा ज्ञानानन्दादिगुणात्मिका च सा विमुक्तिश्च तस्यै देवं क्रीडादिगुणवन्तमेव वासुदेवं वसुदेवस्य सुतं श्रीकृष्णं वसुदेवसूनुमिति क्वचित्पाठः । गुणाढ्यमेव गुणैर् आढ्यं सम्पन्नमेव स्मर चिन्तय उपास्व इति । ‘स्मृ चिन्तायामि’त्यतो लोट् परस्मैपदं स्मर स्मरतं स्मरत । भज इति क्वचित्पाठः । यदि ज्ञानानन्दादिसर्वगुणरहितं परब्रह्म उपास्येत तर्हि तत्फलमोक्षोऽपि ज्ञानानन्दरहित एव स्यात् । ‘तं यथा यथोपासते तदेव भवति’ इति श्रुतेः । न तु ज्ञानानन्दाभावः सुखाय भवति । ‘मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत्’ इति वचनात् तस्मान्निर्गुणोपासना न सुखाय भवति । यदि ज्ञानानन्दादिगुणविशिष्टं परब्रह्म उपासितं स्यात् तदा तदुपासनाफलमोक्षोऽपि ज्ञानानन्दाद्यनन्तगुणविशिष्ट एव स्यात् । एवंविधो हि मोक्षः पुरुषार्थाय भवति । तस्माद् एवंविधगौणमोक्षाय भगवन्तं वासुदेवं निर्दोषं ज्ञानानन्दाद्यनन्तगुणविशिष्टमेव उपास्व इति भावः ॥ ५२ ॥

विश्वास-प्रस्तुतिः - ५३

इति तातवचो निशम्य किञ्चित्तरलात्माऽपि विचार्य शास्त्रसारम् ।
परमेव स पारमारुरुक्षुर्विगुणोपास्तिमुपाृणोत्परेभ्यः ॥ ५३ ॥

मूलम् - ५३

इति तातवचो निशम्य किञ्चित्तरलात्माऽपि विचार्य शास्त्रसारम् ।
परमेव स पारमारुरुक्षुर्विगुणोपास्तिमुपाृणोत्परेभ्यः ॥ ५३ ॥

पदार्थदीपिकोद्बोधिका

इतीति ॥ इति एवमुक्तं तातवचः पितृवचो निशम्यापि किञ्चित्तरलश्चञ्चल आत्मा मनो यस्य स तथा । निर्गुणोपासनं मोक्षसाधनम् उत सगुणोपासनमिति चञ्चलमानस इत्यर्थः । स त्रिविक्रमार्यः शास्त्रसारं विचार्य परमन्यत् पारं तीरं संसारसागरस्य पारमित्यर्थः । आरुरुक्षुर् मुमुक्षुरित्यर्थः । परेभ्यः पितुरन्येभ्यो मायिभ्यो विगता गुणा यस्मात् तद् विगुणं तस्योपास्तिमुपासनाम् । निर्गुणोपासनप्रकारम् इत्यर्थः । उपाृणोत् । निर्गुणोपासनं मोक्षसाधनं न भवति सगुणोपासनमेव मोक्षसाधन-मिति तातवचो निशम्यापि किञ्चिच् चञ्चलमानसः सन् येन केनापि प्रकारेण मुमुक्षोस्तु निर्गुणोपासनं वेदादिप्रमाणसंमतं, अथ सगुणोपासनं वेति सयुक्तिकं सर्वशास्त्राभिप्रायं सम्यग्विचार्य शास्त्रे यदुपासनं वेदादिप्रमाणसम्मतं पुरुषार्थसाधनञ्च तदेवोपसनं करिष्याम इति निश्चित्यादौ तत्प्रकारजिज्ञासया परेभ्यो निर्गुणोपास्तिं शुश्रावेति भावः ॥ ५३ ॥

मन्दोपाकारिणी

इतीति ॥ इति एवं तातवचस् तातस्य पितुः सुब्रह्मण्यस्य ‘तातस्तु जनकः पिता’ इत्यमरः । वचः वचनं निशम्यापि श्रुत्वापि । किञ्चिद् ईषत् ‘किञ्चिदीषन्मनागल्पे’ इत्यमरस् तरलात्मा तरलश् चञ्चल आत्मा मनः यस्य स तथोक्तः ‘चञ्चलं तरलञ्चैव’ इत्यमरः । निर्गुणोपासनं वा मोक्षसाधनम् उत सगुणोपासनम् इति दोलायमानमानसः सस् त्रिविक्रमाचार्यः शास्त्रसारं शास्त्रस्य सारं रहस्यमेव विचार्य परं पारं संसारसागरस्य पारं तीरम् आरुरुक्षुर् आरोढुम् इच्छन् सन् परेभ्यः पितुरन्येभ्यो मायिभ्यः विगुणोपास्तिं विगुणां निर्गुणविषयिणीम् उपास्तिम् उपासनाप्रकारम् उपाृणोत् । ‘ृ श्रवणे’ इत्यतः लङ् परस्मैपदम् अृणोद् अश्रुणुताम् अृण्वन् । निर्गुणोपासनं मोक्षसाधनं न भवति किन्तु सगुणोपासनमेव मोक्षसाधनमिति पितुर्वचनं श्रुत्वापि किंचिच्चञ्चलचित्तस् त्रिविक्रमाचार्यः येन केनापि प्रकारेण मुमुक्षोर् निर्गुणोपासनं वेदादिप्रमाणसंमतं वा उत सगुणोपासनमेवेति सयुक्तिकं सर्वशास्त्रतात्पर्यं सम्यक् विचार्य शास्त्रे यदुपासनं वेदादिसर्वप्रमाणसंमतं पुरुषार्थसाधनं च तादृशोपासनं करिष्यामीति निश्चित्य आदौ तावत् तत्प्रकारादिजिज्ञासया परेभ्यः विगुणोपास्तिं शुश्राव इति भावः ॥ ५३ ॥

विश्वास-प्रस्तुतिः - ५४

निजधर्मरतो गृहिप्रबर्हः कलिकालाकुलितान्तरोऽपि हन्त ।
नितरां निशितात्मना निसर्गात् स्फुटमालोचयदित्यसौ कदाचित् ॥ ५४ ॥

मूलम् - ५४

निजधर्मरतो गृहिप्रबर्हः कलिकालाकुलितान्तरोऽपि हन्त ।
नितरां निशितात्मना निसर्गात् स्फुटमालोचयदित्यसौ कदाचित् ॥ ५४ ॥

पदार्थदीपिकोद्बोधिका

निजेति ॥ निजः स्ववर्णाश्रमोचितो यो धर्मस् तस्मिन् रतो निष्ठो गृहिप्रबर्हो गृहस्थश्रेष्ठोऽसौ त्रिविक्रमार्यः । कलेर्यः कालस्तेनाकुलितं विलोडितमन्तरं मानसं यस्य सः । तथापि निसर्गः स्वभावस्तस्मान्नितराम् अत्यन्तं निशितात्मना युक्तायुक्तविचारचतुरेण मनसा स्फुटं सम्यक् इति वक्ष्यमाणप्रकारेणालोचयद् विचारयामास । लोचृ दर्शने । परेभ्यो विगुणोपास्तिं श्रुत्वापि तत्रापरितुष्टमनाः सन् स्वयमेवेत्थं विचारयामासेति भावः ॥ ५४ ॥

मन्दोपाकारिणी

निजेति ॥ निजधर्मरतः निजः स्ववर्णाश्रमोचितः निजश्चासौ धर्मश्च तत्र रतः । निष्ठावान् गृहिप्रबर्हः गृहिषु गृहस्थाश्रमिषु प्रबर्हः श्रेष्ठो ऽसौ त्रिविक्रमाचार्यः । कलिकालाकुलितान्तरोऽपि कलिकालेन कलिकालसामर्थ्येन आकुलितं व्याकुलीकृतम् अन्तरम् अन्तःकरणं यस्य स तथोक्तोऽपि । निसर्गात् स्वभावात् ‘स्वरूपं च स्वभावश्च निसर्गश्च’ इत्यमरः । नितराम् अतिशयेन निशितात्मना निशितस् तेजितः ‘निशितक्ष्णुतशातानि तेजिते’ इत्यमरः । युक्तायुक्तविचारचतुर इति यावत् । निशितश्चासौ आत्मा मनश्च तेन स्फुटं सम्यक् इति वक्ष्यमाणप्रकारेण आलोचयद् विचारयामास । हन्त हर्षसूचकाव्ययम् । ‘हन्त हर्षेऽनुकंपायां वाक्यारम्भविषादयोः’ इत्यमरः । परेभ्यो विगुणोपास्तिं श्रुत्वापि तत्र अपरितुष्टमनाः सन् स्वयम् एवं वक्ष्यमाणप्रकारेण विचारयामासेति भावः । आङ् पूर्वात् ‘लोचृ दर्शने’ इत्यतो णिजन्ताद् लङ् परस्मैपदम् ॥ ५४ ॥

विश्वास-प्रस्तुतिः - ५५

रचितं ननु सूत्रमत्र मानं विदुषा सत्यवतीसुतेन साक्षात् ।
अपरस्परसङ्गतानि भाष्याण्यथ सर्वाणि न मानतां व्रजेयुः ॥ ५५ ॥

मूलम् - ५५

रचितं ननु सूत्रमत्र मानं विदुषा सत्यवतीसुतेन साक्षात् ।
अपरस्परसङ्गतानि भाष्याण्यथ सर्वाणि न मानतां व्रजेयुः ॥ ५५ ॥

पदार्थदीपिकोद्बोधिका

रचितमिति ॥ अत्र तत्वनिर्णयविषये विदुषा सर्वज्ञेन सत्यवतीसुतेन रचितं निर्मितं सूत्रं ब्रह्मसूत्रं साक्षान्मुख्यतः मानं प्रमाणं ननु । अपरस्परसङ्गतानि परस्परसम्बन्धरहितानि परस्परविरुद्धानि इति यावत् । सर्वाणि भाष्याणि, भारतीविजयसच्चिदानन्दब्रह्मघोषादिभी रचितान्येकविंशतिसङ्ख्याकानि सर्वाण्यपि ब्रह्मसूत्रभाष्याणि मानतां प्रमाणतां न व्रजेयुः । अयमत्राभिप्रायः । ब्रह्मस्वरूपनिर्णये तावद् ब्रह्मसूत्रमेव मुख्यं प्रमाणम् । सर्वश्रुत्यादिविरोधपरिहारमुखेन सर्वज्ञेन भगवता रचितत्वात् । एवञ्च सति प्रमाणतमब्रह्मसूत्रस्य तन्मूलभाष्याणां परस्परविरोधे सति सूत्रविरुद्धभाष्याणामेव अप्रामाण्यं न्याय्यम् । भाष्येषु सर्वेष्वपि विचार्यमाणेषु सत्सु तानि सूत्रविरुद्धानि न पुरुषार्थसाधनानि इति । अथवा अपरस्परसङ्गतानि परस्परं समबलभाष्यान्तरविरुद्धानीति न एकमपि भाष्यं प्रमाणम् । आप्ततमप्रणीतं सूत्रमेव प्रमाणम् इति वार्थः । अपरस्परसङ्गतानि एकैकशः पूर्वापरविरुद्धानीति वा ॥ ५५ ॥

मन्दोपाकारिणी

रचितमिति ॥ अत्र तत्त्वनिर्णयविषये । विदुषा सत्यवतीसुतेन सत्यवत्याः सत्यवतीदेव्याः सुतेन वेदव्यासेन रचितं निर्मितं सूत्रं ब्रह्मसूत्रं साक्षान् मुख्यतः मानं ननु प्रमाणं खलु । अथ अपरस्परसङ्गतानि अन्योन्यम् अनुकूलानि एकविषय-विषयाणीति यावत् । परस्परसङ्गतानि न भवन्तीति अपरस्परसङ्गतानि परस्परविरुद्धार्थ-प्रतिपादकानि सर्वाण्यपि एकविंशतिसङ्ख्याकानि भाष्याणि ब्रह्मसूत्रभाष्याणि मानतां प्रमाणतां न व्रजेयुर् न प्राप्नुयुः । अयं भावः- ब्रह्मस्वरूपनिर्णये तावद् ब्रह्मसूत्रमेव मुख्यं प्रमाणम् । सर्वश्रुत्यादि विरोधपरिहारमुखेन सर्वज्ञेन भगवता व्यासेन रचितत्वात् । तद्भाष्याणि तु सर्वाण्यपि परस्परविरुद्धानि अतः नैकमपि भाष्यं प्रमाणमिति । ‘व्रज गतौ’ इत्यतो लिङ् परस्मैपदम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः - ५६

यदि तेषु निराग्रहान्तराः स्मः सुघटं नोपलभामहे हि किञ्चित् ।
न तथापि परम्परोपयातं न पठामः प्रणयेन शाङ्करीयम् ॥ ५६ ॥

मूलम् - ५६

यदि तेषु निराग्रहान्तराः स्मः सुघटं नोपलभामहे हि किञ्चित् ।
न तथापि परम्परोपयातं न पठामः प्रणयेन शाङ्करीयम् ॥ ५६ ॥

**पदार्थदीपिकोद्बोधिका**

तर्हि सर्वाण्यपि भाष्याणि सूत्रविरुद्धानीति कृत्वा न तेष्वादरोऽपि कर्तुं शक्यत इत्याह— यदीत्यादिना ॥ यदि तेषु भाष्येषु निराग्रहम् आग्रहरहितमान्तरं मनो येषां ते निराग्रहान्तराः स्मो भवामः । तर्हि सु शोभना घटा घटना यस्य तत्सुघटं सूत्रार्थाविरुद्धमित्यर्थः । किञ्चित् सूत्रार्थविवरणरूपं किमपि निबन्धनं नोपलभामहे हि न पश्यामो हि । तर्हि का चिकीर्षेत्यत आह — नेत्यादि । तथापि सूत्रविरुद्धतया प्रतीयमानत्वेऽपि परम्परोपयातं परम्पराप्राप्तं सङ्करेण प्रणीतं साङ्करीयं भाष्यं प्रणयेनादरेण न पठाम इति न । किन्तु पठाम एव । सर्वेषां भाष्याणां सूत्रविरुद्धत्व-साम्येऽपि किमिति साङ्करीये पक्षपात इत्याशङ्कायामुक्तं— परम्परोपयातम् इति । अस्मत्पूर्वैर् आदृतत्ववैशेष्यादिति भावः ॥ ५६ ॥

मन्दोपाकारिणी

परस्परविरुद्धेषु भाष्येषु आग्रहं परित्यज्य सूत्राविरुद्धम् एकं भाष्यं स्वीकर्तव्यम् इति अत आह- यदीति ॥ यदि तेषु भाष्येषु वयं निराग्रहान्तरा निर्गत आग्रहो ऽभिनिवेशः यस्मात्तन् निराग्रहं निराग्रहम् अन्तरं मनो येषां ते तथोक्ता आग्रहरहिताः स्मः भवामः । ‘अस भुवि’ इत्यतो लट् परस्मैपदम् अस्मि स्वः स्मः । तर्हि तेषु मध्ये सुघटम् उपपन्नं सूत्रार्थाविरुद्धं किञ्चित् सूत्रार्थविवरणरूपम् एकमपि भाष्यं नोपलभामहे न पश्यामः । हि अनुभवसिद्धमेतत् । उपपूर्वात् ‘डु लभष् प्राप्तौ’ इत्यतो लडात्मनेपदं लभे लभावहे लभामहे । तर्हि किं चिकीर्षसि इत्यत आह-नेति । तथापि सूत्रविरुद्धमपि शाङ्करीयं शङ्करप्रणीतभाष्यं प्रणयेन आदरेण न पठाम इति न, किन्तु पठाम एव । विरुद्धत्वसाम्याद् भाष्यान्तरपरित्यागेन शङ्करभाष्ये पक्षपातः कुत इत्यत आह-परम्परोपयातम् इति । परम्परया उपयातम् अस्मत्पूर्वैर् आदृतम् अतः कुलपरम्परा-गतत्त्वरूपविशेषाद् इदमेव पाठ्यते अस्माभिरिति भावः । ‘पठ व्यक्तयां वाचि’ इत्यतो लट् परस्मैपदं पठामि पठावः पठामः ॥ ५६ ॥

विश्वास-प्रस्तुतिः - ५७

घटनोपनिषत्सु नाल्पबुद्धेः सुघटेत्यभ्युपगम्य चिन्तयामः ।
न विमुक्तिमुपैति कोऽपि मुक्त्वा समयोक्तामिह यामिमामुपास्तिम् ॥ ५७ ॥

मूलम् - ५७

घटनोपनिषत्सु नाल्पबुद्धेः सुघटेत्यभ्युपगम्य चिन्तयामः ।
न विमुक्तिमुपैति कोऽपि मुक्त्वा समयोक्तामिह यामिमामुपास्तिम् ॥ ५७ ॥

पदार्थदीपिकोद्बोधिका

घटनेति ॥ अल्पा च सा बुद्धिश्च तस्या उपनिषत्सु घटना सम्बन्धः । तद्विचारसामर्थ्यमिति यावत् । सुघटा न किन्तु दुर्घटेत्यर्थः । अल्पा बुद्धिर् उपनिषद्विचारे न प्रसरतीति भावः । अल्पा बुद्धिर्यस्येति बहुव्रीहिर्वा । तथात्वे अल्पबुद्धेः पुरुषस्य उपनिषद्विचारो दुर्घट इत्यर्थः । इत्यभ्युपगम्य ज्ञात्वा इहोपनिषत्सु यामुपास्तिं मुक्तवा विना कोऽपि कश्चिदपि विमुक्तिं नो उपैति, समयोक्तां सकलसच्छास्त्रोक्तां तामिमामुपास्तिं चिन्तयामो विचारयामः । अयमत्राभिप्रायः । अल्पबुद्धेर् उपनिषद्विचारो दुर्घट इत्यभ्युपेत्य वयमल्पबुद्धयः सन्तः साक्षादुपनिषद्विचारं परित्यज्य भारतपञ्चरात्र-ब्रह्मसूत्रादिसकलसच्छास्त्रेषु या भगवदुपासना मोक्षसाधनत्वेन उच्यते यया च विना न मोक्षस् तामुपास्तिमेव सम्यग्विचारयाम इति ॥ ५७ ॥

मन्दोपाकारिणी

ननु विरुद्धभाष्याणि परित्यज्य स्वातन्त्र्येणैव उपनिषद्विचारः कुतो न क्रियते इत्यत आह- घटनेति ॥ अल्पबुद्धेर् अल्पा अल्पविषयिणी बुद्धिर् यस्य तस्य पुरुषस्य । उपनिषत्सु उपनिषद्विषये घटना विचारः न सुघटा न सुलभा दुर्घटा एव इति एवम् अभ्युगम्य ज्ञात्वा । वयम् इह परब्रह्मविषये याम् उपास्तिम् उपासनां मुक्त्वा विना कोऽपि पुरुषः विमुक्तिं नोपैति न प्राप्नोति ताम् इमां समयोक्तां ब्रह्मसूत्रादिसकलसच्छास्त्रेषु उक्तां प्रतिपादिताम् उपास्तिम् उपासनाप्रकारं चिन्तयामः । ‘चिति स्मृत्यां’ इत्यतो लट् परस्मैपदम् । अयं भावः- अल्पबुद्धेर् उपनिषद्विचारो दुर्घट एवेति ज्ञात्वा वयमपि अल्पबुद्धय इति हेतोः साक्षादुपनिषद्विचारं परित्यज्य भारतपञ्चरात्रब्रह्मसूत्रदिसकलसच्छास्त्रेषु या भगवदुपासना मोक्षसाधनत्वेन उच्यते यया उपासनया विना मोक्षो न भवेत् तां सकलसच्छास्त्रोक्ताम् उपास्तिमेव विचारयामः ॥ ५७ ॥

विश्वास-प्रस्तुतिः - ५८

विततः सुखसच्चिदद्वयात्मा समुपास्यो विहितो हि तत्त्वविद्भिः ।
स च नावयवी निरूप्यते चेद्द्युतिमात्रं च न हीत्यदो रहस्यम् ॥ ५८ ॥

मूलम् - ५८

विततः सुखसच्चिदद्वयात्मा समुपास्यो विहितो हि तत्त्वविद्भिः ।
स च नावयवी निरूप्यते चेद्द्युतिमात्रं च न हीत्यदो रहस्यम् ॥ ५८ ॥

पदार्थदीपिकोद्बोधिका

विचारप्रकार एव श्लोकत्रयेणोच्यते— वितत इत्यादिना ॥ तत्वं विदन्ति इति तत्वविदस् तैर् भगवत्तत्वनिर्णयविद्भिर् इत्यर्थः । भगवान् विततो व्याप्तः । सुखसच्चित् सती च सा चिच्च सच्चित् सुखञ्च सच्चिच्च सुखसच्चित् सुखरूपो निर्दोषज्ञानरूपश्च इत्यर्थः । न विद्यते द्वयं समानम् अधिकं वा वस्तु यस्य सोऽद्वयस् तादृश आत्मा स्वरूपं यस्य स तथोक्तः । एवंभूतः सन्नुपास्य उपासनार्हो विहितो हि श्रुत्यादिष्वभिहितो हि । स एवम् उपास्यत्वेन अभिहितो अपि अवयवा अस्य सन्तीत्यवयवी ज्ञानानन्दाद्यात्मक-करचरणादिसुन्दरसकलावयवविशिष्टो न निरूप्यते चेत् । रूप रूपक्रियायां लट् । सर्वात्मना सर्वावयवविशिष्टश्च न निरूप्यते चेदिति योज्यम् । एवं तर्हि केवला द्युतिर् द्युतिमात्रं तेजोमात्रञ्च न हि सम्भवति हि । इत्यद इत्येतत् प्रमेयं रहस्यं साङ्करशास्त्रस्य फलितार्थ इत्यर्थः । तत्वविद्भिर्व्याप्तत्वेन निर्दोषज्ञानानन्दाद्यात्मकत्वेन च उपास्यत्वेन विहितो भगवानवयवी न निरूप्यते चेत् स शाङ्करीयशास्त्रोक्तप्रकारेण निरवयवो निर्गुणो निर्विशेषश्चेति निरूप्यते चेत्तर्हि निरवयवत्वाद् एव ब्रह्मतेजोरूपम् इत्येतद् अपि न स्याद् इति सङ्करभाष्यफलितार्थः स्यादिति भावः ॥ ५८ ॥

मन्दोपाकारिणी

विचारप्रकारमेवाह ॥ त्रिभिः श्लोकैर् वितत इत्यादिभिः ॥ तत्त्वविद्भिस् तत्त्वं विदन्तीति तत्त्वविदस् तैर् भगवत्तत्त्वनिर्णयज्ञानिभिर् भगवान् हरिर् विततः व्याप्तः, सुखसच्चित् सुखः सुखस्वरूपः सच्चिन् निर्दोषज्ञानरूपः सुखश्चासौ सच्चिच्च । अद्वयात्मा न विद्यते द्वयं यस्य सो ऽद्वयः समाधिकशून्य आत्मा स्वरूपं यस्य स तथोक्तः । एवंभूतो हरिः समुपास्यः विहितो हि । स एवम् उपासनाविषयत्वेन विहितोऽपि भगवान् । अवयवी ज्ञानानन्दाद्यात्मककरचरणादिसुन्दरसकलावयवान् न निरूप्यते चेन् न प्रतिपाद्यते चेत् तर्हि ब्रह्म द्युतिमात्रं च केवलप्रकाशरूपमपि न हि सम्भवति । इत्यद एतत्प्रमेयं रहस्यं शास्त्रफलितार्थः स्यात् । तत्त्वज्ञानिभिर् व्याप्तत्वेन सुखज्ञानादिरूपेण च उपास्यो विहितो भगवान् हस्तपादाद्यवयववान् न निरूप्यते चेत् शाङ्करीयभाष्योक्तप्रकारेण निरवयवो निर्गुणः निर्विशेषश्चेति निरूप्यते चेत् तर्हि निरवयवत्वादेव हेतोर् ब्रह्म प्रकाशरूपमित्येतदपि न स्यादिति शाङ्करीयभाष्यस्य फलितार्थः स्यादिति भावः । रूप रूपक्रियायाम् इत्यतः कर्मणि लडात्मनेपदं रूप्यते रूप्येते रूप्यन्ते ॥ ५८ ॥

विश्वास-प्रस्तुतिः - ५९

यदि चेदृगुपास्यतेऽस्य रूपं तिमिरत्वेन विभाति पारिशेष्यात् ।
फलमप्यथ मुक्तिरीदृशी स्यादिति नो नैव धिनोत्युपास्तिरेषा ॥ ५९ ॥

मूलम् - ५९

यदि चेदृगुपास्यतेऽस्य रूपं तिमिरत्वेन विभाति पारिशेष्यात् ।
फलमप्यथ मुक्तिरीदृशी स्यादिति नो नैव धिनोत्युपास्तिरेषा ॥ ५९ ॥

पदार्थदीपिकोद्बोधिका

अस्तु तर्ह्येवंभूतमुपास्यं परं ब्रह्म का बाधा इत्यत आह—

यदीति ॥ अस्य परब्रह्मणो रूपं यदीदृक् द्युतिमात्रविशिष्टं न भवतीति उपास्यते ध्यायते । तर्हि परिशेषस्य भावः पारिशेष्यं तस्मात् तिमिरत्वेन अन्धकारत्वेन विभाति । तद्विरुद्धज्ञानाद्यात्मकत्वं न प्रसज्यत इति भावः । तथात्वेन ब्रह्मोपासने को दोष इत्यत आह– फलमित्यादि । अथैवम् उपासनानन्तरम् उपासकस्य तत्साध्यफलं फलभूता मुक्तिर् अपि ईदृशी केवलतिमिराद्यात्मिका स्यात् । न च उपासकस्यैवंभावः पुरुषार्थ इत्यभिप्रायः । इति तस्मात् हेतोरेषोपास्तिर्हि नोऽस्मान्नैव धिनोति न पुष्णाति । धिनु पुष्टाविति धातुः । एवं विधोपसनं नो ऽस्माकं मनःप्रसादमासादयतीति भावः ॥ ५९ ॥

मन्दोपाकारिणी

अस्त्वेवंभूतम् उपास्यं ब्रह्म का हानिर् इत्यत आह ॥ यदीति ॥ अस्य ब्रह्मणः रूपं यदि ईदृक् पूर्वोक्तप्रकारेण अप्रकाशरूपम् इति उपास्यते ध्यायते । उपपूर्वात् ‘आस उपवेशने’ इत्यतः कर्मणि लडात्मनेपदम् आस्यते आस्येते आस्यन्ते । तर्हि पारिशेष्यात् परिशेषतस् तिमिरत्वेन तमोरूपत्वेन ‘तमिस्रं तिमिरं तमः’ इत्यमरः । विभाति प्रतिभाति । ‘भा दीप्तौ’ इत्यतो लट् परस्मैपदम् । प्रसक्तप्रतिषेधः परिशेषस् तस्य भावः पारिशेष्यम् । यदि ज्ञानानन्दात्मकत्वतेजोमात्रत्वादिप्रकारं ब्रह्म न भवति इति शास्त्रनिर्णयः स्यात् तर्हि सम्भाविततया प्रसक्तज्ञानानन्दात्मकत्वाभावे तद्विरुद्धाज्ञानाद्यात्मकं प्रसज्येत इति भावः । तथात्वेन ब्रह्मोपासने को दोष इति चेत्तत्राह- फलमिति । अथ एवम् उपासनानन्तरम् उपासकस्य फलम् उपासनासाध्यं फलं मुक्तिरपि ईदृशी केवलं तिमिररूपा स्यान् न च उपासकस्य अयं भावः पुरुषार्थ इत्यभिप्राय इति तस्माद्धेतोर् एषा निर्गुणविषयिणी उपास्तिर् नो ऽस्मान् नैव धिनोति न पुष्णाति । ‘धिनु पुष्टौ’ इति धातोर् लट् परस्मैपदं धिनोति धिनुतः धिन्वन्ति । एवंविधोपासना अस्माकं मनःप्रसादं न सम्पादयतीति भावः ॥ ५९ ॥

विश्वास-प्रस्तुतिः - ६०

अथ वेदपुराणभारतादि स्वयमालोच्य यथावबोधमत्र ।
गुणवन्तमुपास्महे मुकुन्दं स्मृतिधर्मान् भृशमाचरन्त एव॥ ६० ॥

मूलम् - ६०

अथ वेदपुराणभारतादि स्वयमालोच्य यथावबोधमत्र ।
गुणवन्तमुपास्महे मुकुन्दं स्मृतिधर्मान् भृशमाचरन्त एव॥ ६० ॥

पदार्थदीपिकोद्बोधिका

एवं तर्हि सङ्करभाष्योक्तमुपासनं न धिनोति चेत् कथं भगवदुपासनं क्रियत इत्यत आह— अथेति ॥ स्वयं वयं स्वयमेव स्मृत्युक्ता धर्मा स्मृतिधर्मास् तान् मन्वादिस्मृत्युक्तवर्णाश्रमोचितधर्मान् इत्यर्थः । स्फुटं सम्यगाचरन्तः कुर्वन्त एव सन्तः भृशमिति क्वचित्पाठः । वेदाश्च पुराणानि च भारतञ्च वेदपुराणभारतानि तानि । आलोच्य विचार्यात्र वेदादौ अवबोधम् अनतिक्रम्य यथावबोधम् । अस्मदवबोधानुसारेण इत्यर्थः । मुकुन्दं श्रीहरिं गुणवन्तम् उपास्महे चिन्तयामः । तद्दर्शनपक्षपातं विहाय स्वयमेव वेदपुराणादिकं विचार्य तत्र वेदादौ यथा मुकुन्दस्वरूपं प्रतिपाद्यते । प्रतिपादितञ्च

तत्स्वरूपम् अस्माकं यथा ज्ञातुं शक्यते तथा ज्ञानानन्दादिगुणविशिष्टमेव

मुकुन्दम् उपास्महे, स्वविहितधर्मानुष्ठानस्य चित्तशुद्धिद्वारा भगवदुपासनाङ्गत्वात् तदाचरणपुरस्सरमिति भावः ॥ ६० ॥

मन्दोपाकारिणी

ननु शङ्करभाष्योक्तोपासनानुष्ठाने मनःप्रसादाभावे केन प्रकारेण भगवदुपासना क्रियते इत्यत आह ॥ अथेति ॥ अथ तत्तद्भाष्योक्तपक्षपरित्यागानन्तरं स्वयं स्वयमेव वेदपुराणभारतादि आदिपदेन पञ्चरात्रादि ग्राह्यम् आलोच्य विचार्य अत्र वेदादौ यथावबोधं बोधानुसारेणेत्यर्थः । मुकुन्दं गुणवन्तं गुणा ज्ञानानन्दादयो ऽस्य सन्तीति गुणवान् तम् उपास्महे ध्यायामः । तत्तद्दर्शनपक्षपातं विहाय वेदपुराणादिकं विचार्य तत्र वेदादौ यथा मुकुन्दस्वरूपं प्रतिपाद्यते तत्स्वरूपम् अस्माभिर् यथा ज्ञातुं शक्यते तथा ज्ञानानन्दादिविशिष्टमेव मुकुन्दम् उपास्महे इति भावः । उपपूर्वात् ‘आस उपवेशने’ इत्यतो लडात्मनेपदम् आसे आस्वहे आस्महे । किं कुर्वतः स्मृतिधर्मान् स्मृतिषु उक्ताश्च ते

धर्माश्च तान् स्मृत्युक्तस्ववर्णाश्रमोचितपञ्चमहायज्ञादिकर्माणि भृशं सम्यक् आचरन्त

एव अनुतिष्ठन्त एव स्ववर्णाश्रमविहितधर्मानुष्ठानस्य अन्तःकरणशुद्धिद्वारा भगवदुपासनाङ्गत्वाद् इति भावः ॥ ६० ॥

विश्वास-प्रस्तुतिः - ६१

अवधार्य यदेति कार्यमार्यः स विवेकादुपचक्रमे विधातुम् ।
परिपूर्णमतेर्जगत्सु कीर्तिं परिपूर्णामृणोत् तदा विशुद्धाम् ॥ ६१ ॥

मूलम् - ६१

अवधार्य यदेति कार्यमार्यः स विवेकादुपचक्रमे विधातुम् ।
परिपूर्णमतेर्जगत्सु कीर्तिं परिपूर्णामृणोत् तदा विशुद्धाम् ॥ ६१ ॥

पदार्थदीपिकोद्बोधिका

अवधार्येति ॥ स आर्यस् त्रिविक्रमपण्डिताचार्यः कार्यं स्वकर्तव्यं विवेकः पूर्वोत्तरपरामर्शस् तस्माद् इत्येवम् अवधार्य निश्चित्य विधातुं वेदादिविचारं कर्तुं यदोपचक्रमे प्रारभत तदा जगत्सु परिपूर्णां व्याप्तां विशुद्धां निर्दोषां परिपूर्णमतेः श्रीपूर्णप्रज्ञाचार्यस्य कीर्तिम् अृणोत् ॥ ६१ ॥

मन्दोपाकारिणी

अवधार्येति ॥ स आर्यस् त्रिविक्रमपण्डिताचार्यः कार्यं स्वकर्तव्यं विवेकात् स्वकर्तव्याकर्तव्ये विविच्य इति यावत् । इति पूर्वोक्तप्रकारेण अवधार्य निश्चित्य इत्थमेव करिष्ये इति निर्धार्य विधातुं वेदादिविचारं कर्तुं यदा उपचक्रमे आरम्भम् अकरोत् ।् उपपूर्वात् ‘क्रमु पादविक्षेपे’ इति धातोर्लिडात्मनेपदं चक्रमे चक्रमाते चक्रमिरे । तदा विचारारम्भसमये जगत्सु लोकेषु परिपूर्णां व्याप्तां विशुद्धां निर्मलां परिपूर्णमतेः पूर्णप्रज्ञाचार्यस्य कीर्तिं प्रसिद्धिम् अृणोत् श्रुतवान् । मध्वाचार्यो नाम कश्चन तत्त्ववादी पण्डितः सर्वान् वादिनः विजित्य सर्वाणि मायावादमतानि दूषयित्वा सर्वत्र पूज्यमानो विराजते इत्येवं मध्वाचार्यं दृष्टवतां जनानां मुखेन मध्वकीर्तिं शुश्राव इति भावः ॥ ६१ ॥

विश्वास-प्रस्तुतिः - ६२

विहिनस्ति हि नो जनोऽतिवाग्मी समयं कोऽपि परम्परोपयातम् ।
क्षिप तं त्वमुदारयुक्तिशूरो न परे तत्र समर्थतां व्रजेयुः ॥ ६२ ॥

मूलम् - ६२

विहिनस्ति हि नो जनोऽतिवाग्मी समयं कोऽपि परम्परोपयातम् ।
क्षिप तं त्वमुदारयुक्तिशूरो न परे तत्र समर्थतां व्रजेयुः ॥ ६२ ॥

पदार्थदीपिकोद्बोधिका

विहिनस्तीति ॥ अन्त्यकुलकमेतत् । मायी च असौ जनश्च मायिजनस् तेन मायिमताश्रितजनेन इत्यर्थः । तत्र तत्र दृष्टस्थले स्वश्चासौ जनश्च स्वजनस् तस्य भावस्तत्त्वं तेन स्वयूथ्यजनत्वेन हेतुनेत्यर्थः । इति ‘क्षिप तं त्वमुदारयुक्तिशूर’ इत्यादिना प्रकारेण श्रीमध्वं क्षेप्तुं निराकर्तुमर्थ्यमानोऽनुकूलं वचो वाक्यं यस्य सोऽनुकूलवचा अर्थयतो मायिजनस्यानुकूलवचन इत्यर्थः । मायिनां परितोषायाहमेकेनैवोत्तरेण श्रीमध्वाचार्यं निराकरिष्यामीति वदन्निति भावः । महिष्ठोऽतिमहान्मानो यस्य स तथोक्तः । बहुप्रमाणोपेत इत्यर्थः । संशयं छिनत्तीति संशयच्छित् स्वयं सर्वेषां संशयस्य छेत्तेत्यर्थः । एवंभूतोऽपि मनसा संशयमाप श्रीमध्वं क्षेप्तुं शक्नोमि न वेति संशयापन्नोऽभूदित्यर्थः । इति कुलकान्त्यश्लोकेन सम्बन्धः । कथमर्थ्यमान इत्यत आह– विहिनस्तीति । अत्यन्तं वाग्म्यतिवाग्मी कोऽपि जनः कश्चिज्जनः श्रीमध्वतदन्तेवास्यादिजन इत्यर्थः । परम्परोपयातः परम्पराप्राप्तस्तं पुरातनमिति यावत् । नोऽस्माकं समयं शास्त्रं हि यस्माद्विहिनस्ति निराकरोति । हिसु हिंसायां लट् । तस्मादुदारयुक्तिशूर उत्तमयुक्तिभिः शूरस्त्वं तमस्मत्समयं निराकुर्वन्तं जनं क्षिप निराकुरु परेऽन्ये तत्र निराकरणे समर्थतां

शक्ततां न व्रजेयुः ॥ ६२ ॥

मन्दोपाकारिणी

तदा मायावादिनस् त्रिविक्रमाचार्यम् उपेत्य प्रार्थितवन्तः कथम् इत्यत आह ॥ विहिनस्तीति ॥ अतिवाग्मी अत्यन्तं वाचालः कोऽपि कश्चिज्जनः । परम्परोपयातं परम्परया उपयातं प्राप्तं पुरातनमिति यावत् । नो ऽस्माकं समयं मायावादशास्त्रं विहिनस्ति निराकरोति । विपूर्वात् ‘हिसि हिंसायां’ इत्यतो लट् परस्मैपदं हिनस्ति हिंस्तः हिंसन्ति । तस्मात् हे त्रिविक्रमाचार्य उदारयुक्तिशूर उदारा उत्कृष्टाश्च ता युक्तयश्च तासु शूरः समर्थस् त्वं तम् अस्मत्समयं निराकुर्वन्तं जनं क्षिप निराकुरु । ‘क्षिप निरसने’ इति लोट् परस्मैपदं क्षिप क्षिपतं क्षिपत । परे त्वदन्ये तत्र मध्वनिराकरणविषये समर्थतां शक्ततां न व्रजेयुर् न प्राप्नुयुः । ‘व्रज गतौ’ इत्यतो लिङ् परस्मैपदम् ॥ ६२ ॥

विश्वास-प्रस्तुतिः - ६३

तव वेदनदीर्विगाह्य भूयः समयाम्भोदिषु कुर्वतो विहारम् ।
नवकाव्यरसप्रियस्य वादिद्विरदेन्द्रप्रतिवारणो न जज्ञे ॥ ६३ ॥

मूलम् - ६३

तव वेदनदीर्विगाह्य भूयः समयाम्भोदिषु कुर्वतो विहारम् ।
नवकाव्यरसप्रियस्य वादिद्विरदेन्द्रप्रतिवारणो न जज्ञे ॥ ६३ ॥

पदार्थदीपिकोद्बोधिका

तवेति ॥ वादिद्विरदेन्द्र सर्ववादिगजराज वेदा एव नद्यस्ता विगाह्य प्रविश्य भूयः समया एव शास्त्राण्येवाम्भोदयः समुद्रास्तेषु विहारं क्रीडां कुर्वतः, नवकाव्यानि नूतनकाव्यानि तेषां ये रसाः ृङ्गारादयस्तेषु प्रियस्य । वेदेषु शास्त्रेषु ृङ्गारादिरसोपेतकाव्येषु कृतपरिश्रमस्येत्यर्थः । तव प्रतिवारणः प्रतिवादिगजो न जज्ञे । तव प्रतिवादी कोऽपि नास्ति । यथा मत्तगजेन्द्रस्य जेता कश्चिदपि गजो न भवति

तद्वदिति भावः ॥ ६३ ॥

मन्दोपाकारिणी

तवेति ॥ हे वादिद्विरदेन्द्र वादिन एव द्विरदा गजास् तेषाम् इन्द्र श्रेष्ठ तव प्रतिवारणः प्रतिवादिनामा प्रतिगजः न जज्ञे नोत्पन्नः । ‘जनी प्रादुर्भावे इति धातोर् लिडात्मनेपदं जज्ञे जज्ञाते जज्ञिरे । तव प्रतिवादी कोऽपि नास्ति । यथा मत्तगजेन्द्रस्य जेता कश्चिदपि गजो न भवति तद्वदिति भावः । ‘द्विरदोऽनेकपो द्विपः’ इत्यमरः । कथंभूतस्य तव, वेदनदीर् वेदा एव नद्यस् ता विगाह्य प्रविश्य भूयः पुनः समयाम्भोधिषु समयाः सर्वशास्त्राणि तान्येव अम्भोधयः समुद्रास् तेषु विहारं क्रीडां कुर्वतः । वेदशास्त्रेषु निशितबुद्धिमत इत्यर्थः । पुनः कथंभूतस्य तव, नवकाव्यरसप्रियस्य काव्यरसाः ृङ्गारादयः नवकाव्यरसा नवसङ्ख्याकाश्च तेषु प्रियस्य प्रीतिमतः ‘ृङ्गारहास्यकरुण-वीररौद्रभयानकाः । बीभत्साद्भुतशान्ताख्या नव काव्ये रसाः स्मृताः’ इति काव्य-प्रकाशोक्ताः ृङ्गारादयो नवरसा ज्ञेया वेदेषु शास्त्रेषु ृङ्गारादिरसोपेतकाव्येषु च परिचयवत इत्यर्थः ॥ ६३ ॥

विश्वास-प्रस्तुतिः - ६४

उपयाहि यशः शशाङ्कगौरं निजयूथस्य भयं निराकुरु त्वम् ।
अधुना विधिनोपपादितं त्वं प्रतिवादिप्रतिवारणं निवार्य ॥ ६४ ॥

मूलम् - ६४

उपयाहि यशः शशाङ्कगौरं निजयूथस्य भयं निराकुरु त्वम् ।
अधुना विधिनोपपादितं त्वं प्रतिवादिप्रतिवारणं निवार्य ॥ ६४ ॥

पदार्थदीपिकोद्बोधिका

उपयाहीति ॥ अधुना विधिना दैवेनोपपादितं निष्पादितं तं प्रतिवाद्येव प्रतिवारणः प्रतिगजस्तं निवार्य निराकृत्य शशाङ्कगौरं चन्द्रवद्धवलं यश उपयाहि प्राप्नुहि । निजानां स्वकीयानां यूथस्य समूहस्य भयं निराकुर्वित्यर्थ्यमान इत्युत्तरश्लोकेन सम्बन्धः ॥ ६४ ॥

मन्दोपाकारिणी

उपयाहीति ॥ हे त्रिविक्रमाचार्य त्वम् अधुना इदानीं विधिना दैवेन । ‘दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः’ इत्यमरः । उपपादितम् उत्पादितं तं प्रतिवादिप्रतिवारणं प्रतिवादी श्रीमध्वः स एव प्रतिवारणः प्रतिगजस् तं निवार्य निराकृत्य । शशाङ्कगौरं शशाङ्कवच् चन्द्रवद् गौरं धवलं ‘अवदातस्सितो गौरो वलक्षो धवलोऽर्जुनः’ इत्यमरः । यशः कीर्तिम् उपयाहि प्राप्नुहि । ‘यशः कीर्तिस्समाख्या च’ इत्यमरः । उपपूर्वात् ‘या प्रापणे’ इति धातोर् लोट् याहि यातं यात । निजयूथस्य निजानां स्वकीयानां जनानां यूथस्य वृन्दस्य भयं निराकुरु परिहर । ‘निर् आङ् पूर्वकाड् डु कृञ् करणे इत्यतो लोट् परस्मैपदं कुरु कुरुतं कुरुत’ ॥ ६४ ॥

विश्वास-प्रस्तुतिः - ६५

इति मायिजनेन तत्र तत्र स्वजनत्वेन स तावदर्थ्यमानः ।
अनुकूलवचा महिष्ठमानो मनसा संशयमाप संशयच्छित्॥ ६५ ॥

मूलम् - ६५

इति मायिजनेन तत्र तत्र स्वजनत्वेन स तावदर्थ्यमानः ।
अनुकूलवचा महिष्ठमानो मनसा संशयमाप संशयच्छित्॥ ६५ ॥

पदार्थदीपिकोद्बोधिका

पूर्वमेव व्याख्यातोऽयं श्लोकः ॥ ६५ ॥

मन्दोपाकारिणी

इतीति ॥ इति पूर्वोक्तप्रकारेण मायिजनेन मायी मायावादी चासौ जनश्च मायिजनस् तेन मायिमतमाश्रितेन जनेन तत्र तत्र दृष्टदृष्टस्थलेषु स्वजनत्वेन स्वः स्वयूथ्यश्चासौ जनश्च स्वजनस् तस्य भावस् तेन स्वयूथ्यत्वेन हेतुना । इति पूर्वोक्तप्रकारेण मध्वं क्षेप्तुम् अर्थ्यमानस् तावत् तदा अनुकूलवचा अनुकूलं प्रार्थयतो मायिजनस्य सन्तोषकरं वचः वचनं यस्य सो ऽनुकूलवचाः । मायिनां परितोषाय अहमेकेनैवोत्तरेण श्रीमध्वाचार्यं निराकरिष्यामीति वदन् इति भावः । महिष्ठमानः महिष्ठो ऽतिबहुलः मानो ऽभिमानः यस्य स तथोक्तः । बहुप्रमाणोपेतो वा । संशयच्छित् स्वयं सर्वेषां संशयं छेत्तीति संशयच्छिद् एवंभूतः सस् त्रिविक्रमाचार्यः मनसा संशयम् आप अवाप्तवान् । सर्ववादिनिराकरणदक्षं श्रीमध्वाचार्यं प्रतिक्षेप्तुं शक्नोमि न वेति संशयमापन्नोऽभूद् इत्यर्थः । ‘आप्लृ व्याप्तौ’ इत्यतो लिट् परस्मैपदम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः - ६६

सितमध्ववचःसृणिप्रयोक्तॄन् पुरुषानेष विषादयन् कवीभः ।
विविधोत्तरधूलिपातनेन प्रतिघेनाधिकमन्धयाञ्चकार ॥ ६६ ॥

मूलम् - ६६

सितमध्ववचःसृणिप्रयोक्तॄन् पुरुषानेष विषादयन् कवीभः ।
विविधोत्तरधूलिपातनेन प्रतिघेनाधिकमन्धयाञ्चकार ॥ ६६ ॥

पदार्थदीपिकोद्बोधिका

शितास्तीक्ष्णा मध्ववचांस्येव सृणयोऽङ्कुशास्तासां प्रयोक्तार-स्तान् । ‘अङ्कुशोऽस्त्री सृणिः स्त्रियामि’त्यमरः । श्रीमध्वाचार्योक्तयुक्तयात्मकवचनानि प्रयुञ्जानानित्यर्थः । पुरुषान् श्रीमध्वशिष्यान् विषादयन् भीषयन्नेष कवीभस् त्रिविक्रमपण्डिताख्यगजो विविधानि यान्युत्तराणि तान्येव धूलयस्तासां पातनेन प्रक्षेपणेन विविधोत्तरात्मकधूलिप्रक्षेपात्मकेनेत्यर्थः । प्रतिघेन प्रतिबन्द्या प्रतिघो नाम प्रतिघातः निवारणमिति यावत् । ‘प्रतिघः प्रतिघातेऽस्त्र’ इत्यमरः । प्रतिघेन कोपेनेति वा । प्रत्युत्तराप्रतिपत्तौ सत्यां कोपाद्यादृशतादृशनानाविधोत्तरात्मकधूलिप्रक्षेपेणेत्यर्थः । ‘प्रतिघौ रुट् प्रतीघाता’विति अधिकं यथा भवति तथा अन्धयाञ्चकार निरुत्तरांश्चकार ॥ ६६ ॥

मन्दोपाकारिणी

सितेति ॥ एषः कवीभः कविस् त्रिविक्रमपण्डिताचार्य एव इभः महागजः । ‘इभः स्तम्बेरमः पद्मी’ इत्यमरः । सितमध्ववचःसृणिप्रयोक्तॄन् सितानि तीक्ष्णानि च तानि मध्वस्य वचांसि युक्त्यात्मकवचनानि च तान्येव सृणिर् अङ्कुशस् तां प्रयोक्तॄन् प्रयुञ्जानान् । ‘अङ्कुशोऽस्त्री सृणिःस्त्रियाम्’ इत्यमरः । पुरुषान् श्रीमध्वाचार्यशिष्यभूतान् विदुषः विषादयन् खेदं प्रापयन् सन् विषादं कर्तुमित्यर्थः । प्रतिघेन कोपेन ‘कोपक्रोधामर्षरोषप्रतिघारुट् क्रुधौ स्त्रियाम्’ इत्यमरः । विविधोत्तरधूलिपातनेन विविधानि नानारूपाणि च तानि उत्तराणि प्रत्युत्तराणि च तान्येव धूलयः पांसवस् तासां पातनेन प्रक्षेपणेन । ‘रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयोरजः’ इत्यमरः । अधिकम् अन्धयाञ्चकार अन्धान् अकरोत् । अयं भावः- मध्वाचार्यकीर्तिश्रवणानन्तरं तस्मिन् देशे तत्र तत्र दृष्टैः श्रीमध्वाचार्यसमीपे मध्वशास्त्रं सम्यगधीतवद्भिर् मध्वाचार्यशिष्यभूतैः पुरुषैः प्रसङ्गे सति यथा मत्तगजो ऽङ्कुशं कुम्भस्थले प्रयोक्तारम् अम्बष्ठं क्लेशयन् कोपेन तदुपरि नानाविधधूलिं प्रक्षिप्य अन्धीकरोति तद्वत् त्रिविक्रमाचार्यः मध्वशास्त्रोक्तदृढयुक्तीः प्रयुञ्जानान् मध्वशिष्यभूतजनान् विषादयन् समये प्रत्युत्तरापरिस्फूर्तौ सत्यां कोपेन यादृशतादृशनानाविधप्रत्युत्तरैर् निरुत्तरान् अकरोद् इति ॥ ६६ ॥

विश्वास-प्रस्तुतिः - ६७

क्षणदासु विचक्षणः स वीक्ष्य प्रचुरप्रज्ञमनोज्ञशास्त्रसारम् ।
अपराविदितः प्रसादगर्भं विदधे विस्मयमान्तरं महान्तम् ॥ ६७ ॥

मूलम् - ६७

क्षणदासु विचक्षणः स वीक्ष्य प्रचुरप्रज्ञमनोज्ञशास्त्रसारम् ।
अपराविदितः प्रसादगर्भं विदधे विस्मयमान्तरं महान्तम् ॥ ६७ ॥

पदार्थदीपिकोद्बोधिका

क्षणदास्विति ॥ विचक्षणो विवेकी स त्रिविक्रमपण्डितः क्षणदासु निशास्वपराविदितोऽन्यैरविज्ञातः सन् प्रसादः प्रसन्न गर्भोऽभिप्रायो यस्य स तथा तम् । यद्वा प्रसन्नता गर्भेऽन्तर्भागेऽभिप्राये यस्य स तथा तं प्रचुरप्राज्ञस्य श्रीपूर्णप्रज्ञस्य मनोज्ञशास्त्रस्य मनोहरशास्त्रस्य सारः फलितार्थस्तं वीक्ष्यान्तरं मानसं महान्तं विस्मयमाश्चर्यं चक्रे विदधे । श्रीमध्वाचार्यशिष्येण त्रिविक्रमार्यसहजेन सङ्करार्येण स्वमन्दिरे निहितं श्रीमध्वाचार्यशास्त्रपुस्तकजातं क्षणदास्वन्यैरविदितो वाचयन् मनोहरं तच्छास्त्राभिप्रायं ज्ञात्वा मनसा महान्तं विस्मयमापेत्यर्थः ॥ ६७ ॥

मन्दोपाकारिणी

क्षणदास्विति ॥ विचक्षणः विवेकी सस् त्रिविक्रमपण्डिताचार्यः । क्षणदासु रात्रिषु ‘त्रियामा क्षणदा क्षपा’ इत्यमरः । अपराविदितः सन् अपरैर् अन्यैर् अविज्ञातः सन् । प्रसादगर्भं प्रसादो ऽभिप्रायः गर्भे कुक्षौ यस्य तत् तथोक्तं ‘गर्भोऽर्भके नाट्यसन्धौ कुक्षौ पवनसङ्कटे’ इत्यमरः । प्रचुरप्रज्ञमनोज्ञशास्त्रसारं प्रचुरा पूर्णा प्रज्ञा यस्य सस् तथोक्तस् तस्य मध्वाचार्यस्य मनोज्ञं मनोहरं च तत् शास्त्रसारं च ग्रन्थश्रेष्ठं चेति तथोक्तम् । ‘निदेशग्रन्थयोः शास्त्रं’ इत्यमरः । मध्वकृतभाष्यादिग्रन्थं वीक्ष्य दृष्ट्वा आन्तरम् अन्तरे मनसि भव आन्तरं महान्तं बहुलं विस्मयम् आश्चर्यं विदधे चक्रे । विपूर्वात् ‘डु धाञ् धारणपोषणयोः’ इति धातोर् लिडात्मनेपदं दधे दधाते दधिरे । अयं भावः- त्रिविक्रम-पण्डिताचार्यस्य अनुजः शङ्कराचार्यनामकः कश्चिदभूत् । स च मध्वाचार्यशिष्यो भूत्वा तच्छास्त्रम् अधीत्य मध्वस्य परमाप्तो भूत्वा मध्वाचार्यशास्त्रपुस्तकजातं मध्वाचार्यानुज्ञयैव स्वाधीनं कृत्वा स्वमन्दिरे निहितवान् । ततस् त्रिविक्रमाचार्यः स्वानुजगृहे विद्यमानं मध्वाचार्यपुस्तकजातं ज्ञात्वा रात्रिष्वेव अन्यैरविज्ञातस्सन् गम्भीराभिप्रायगर्भितं

मध्वशास्त्रं दृष्ट्वा वाचयन् आलोच्य मनोहरं तदभिप्रायं ज्ञात्वा स्वमनस्येव अत्याश्चर्यम् अनुभूतवान् इति ॥ ६७ ॥

विश्वास-प्रस्तुतिः - ६८

विदितवान् व्यवहृत्य सुदर्शनं बहुलबोधमवेक्ष्य स निश्चयात् ।
अपि न तस्य मतं सहसाऽऽददे ननु विमृश्य कृती कुरुतेऽखिलम् ॥ ६८ ॥

मूलम् - ६८

विदितवान् व्यवहृत्य सुदर्शनं बहुलबोधमवेक्ष्य स निश्चयात् ।
अपि न तस्य मतं सहसाऽऽददे ननु विमृश्य कृती कुरुतेऽखिलम् ॥ ६८ ॥

पदार्थदीपिकोद्बोधिका

विदितवानिति ॥ स त्रिविक्रमार्यो बहुलबोधं श्रीपूर्ण-प्रज्ञमवेक्ष्य, व्यवहृत्य विप्रतिपन्ननानाविधप्रमेयविषयव्यवहारं कृत्वा सुदर्शनं प्रबल-युक्तयाऽऽगमादिप्रमाणयुक्तत्वेन चैतच्छास्त्रमेव निश्चयान्निर्दुष्टशास्त्रमिति विदितवानपि ज्ञातवानपि तस्य श्रीमध्वस्य मतं सहसा खटिति नाददे नाङ्गीचकार । तथाऽहि । कृती निपुणः पुरुषोऽखिलं कार्यं विमृश्यालोच्य कुरुते ननु । अतो विमृश्यकारित्वादयं सहसा नाङ्गीचकारेति भावः । अत्रार्थान्तरन्यासालङ्कारः । द्रुतविलम्बितवृत्तम् । ‘द्रुतविलम्बितमाह नभौ भरावि’त्युक्तेः ॥ ६८ ॥

मन्दोपाकारिणी

विदितवानिति ॥ सस् त्रिविक्रमपण्डिताचार्यः । बहुलबोधं बहुलः पूर्णः बोधो ज्ञानं यस्य स तथोक्तस् तं मध्वाचार्यम् अवेक्ष्य । व्यवहृत्य विप्रतिपन्न-नानाविधप्रमेयविषये व्यवहारं कृत्वा । निश्चयात् सुदर्शनं प्रबलयुक्त्यादिप्रमाणोपेतत्वाद् एतद्दर्शनमेव निर्दोषदर्शनम् इति विदितवानपि ज्ञातवानपि तस्य मध्वाचार्यस्य मतं सिद्धान्तं सहसा खटिति नाददे न स्वीकृतवान् । आङ्पूर्वात् ‘डु दाञ् दाने’ इत्यतो लिडात्मनेपदं ददे ददाते ददिरे । तद्युक्तं हि । कृती निपुणः । ‘कृती कुशल इत्यपि’ इत्यमरः । अखिलम् अशेषं कार्यं विमृश्य सम्यग्विचार्यैव कुरुते ननु करोति खलु । ‘डु कृञ् करणे’ इत्यतो लट् कुरुते कुर्वाते कुर्वते । अयं भावस् त्रिविक्रमाचार्यः पुस्तकदर्शनानन्तरं कदाचिद् यदृच्छया मध्वाचार्यं दृष्ट्वा तदा विप्रतिपन्नप्रमेयविषयेषु व्यवहारं कृत्वा मनसि एतद्दर्शनमेव सुदर्शनम् अत्र संशयो नास्तीति सम्यक् ज्ञातवान् । एवं तत्र मध्वशिष्यभूतैर् जनैः सह प्रसङ्गतः । रात्रिषु पुस्तकदर्शनतोऽपि मध्वाचार्यं दृष्ट्वा तेन सह प्रमेयविशेषव्यवहारतोऽपि मध्वशास्त्रस्य निर्दोषदर्शनत्वं ज्ञात्वापि पुनरपि विचारणीयम् इति बुद्ध्या खटिति मध्वमतं न जग्राह इति । द्रुतविलम्बितवृत्तं ‘द्रुतविलम्बितमाह नभौ भरौ’ इति वचनात् ॥ ६८ ॥

विश्वास-प्रस्तुतिः - ६९

तं विष्णुमङ्गलगतं बहुलप्रबोधं प्राप्याभ्यवन्दत तदाऽयुगविक्रमार्यः ।
आनन्ददं स चतुराननहासलक्ष्म्या तत्त्वं प्रवेत्तुममरेन्द्र इवाब्जयोनिम् ॥ ६९ ॥

मूलम् - ६९

तं विष्णुमङ्गलगतं बहुलप्रबोधं प्राप्याभ्यवन्दत तदाऽयुगविक्रमार्यः ।
आनन्ददं स चतुराननहासलक्ष्म्या तत्त्वं प्रवेत्तुममरेन्द्र इवाब्जयोनिम् ॥ ६९ ॥

॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते सुमध्वविजये महाकाव्ये आनन्दाङ्के त्रयोदशः सर्गः ॥

भावप्रकाशिका

चतुराननं चत्वार्याननानि ॥ ६९ ॥

इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य

भावप्रकाशिकाख्यटीकायां त्रयोदशः सर्गः ॥ १३ ॥

पदार्थदीपिकोद्बोधिका

तमिति ॥ युगं युगलं न भवतीत्ययुगाः । अयुगा विक्रमा यस्य सोऽयुगविक्रमस्त्रिविक्रमः स चासावार्यश्च । तदा विष्णुमङ्गलं विष्णुमङ्गलाख्यदेवालयं गतं प्राप्तं चतुरं भद्रं यदाननं तस्य यो हासस्तस्य लक्ष्मीः श्रीस् तया सतामानन्ददं तं बहुलप्रबोधं प्राप्य, अमरेन्द्रा देवेन्द्रास्तत्वं श्रीहरिस्वरूपं प्रवेत्तुं सम्यग् ज्ञातुं चतुराननहासलक्ष्म्या चतुर्णामाननानां हासश्रिया सतामानन्ददमब्जयोनिमिव चतुर्मुखमिवाभ्यवन्दत । त्रिविक्रमार्योऽपि तत्वविविदिषया प्राप्याभ्यवन्दतेत्यभिप्रायः ॥६९॥

इति श्रीमद्वेदाङ्गमुनिविरचितश्रीसुमध्वविजयटीकाविवृतौ श्रीविश्वपतितीर्थकृतौ पदार्थदीपिकोद्बोधिकायां त्रयोदशः सर्गः ॥

मन्दोपाकारिणी

तमिति ॥ सो ऽयुगविक्रमार्यस् त्रिशब्दस्य अयुगार्थत्वात् त्रिशब्दस्थाने अयुगशब्दप्रयोगः । तथा च त्रिविक्रमपण्डिताचार्यः । तदा जयसिंहराजोद्देशे आगमनकाले । विष्णुमङ्गलगतं विष्णुमङ्गलाख्यदेवालये गतं विद्यमानं बहुलप्रबोधं श्रीमध्वाचार्यं प्राप्य उपेत्य अभ्यवन्दत नमस्कृतवान् । कथंभूतं- चतुराननहासलक्ष्म्या चतुरं सुन्दरं च तद् आननं मुखं च तस्य हासः मन्दहास एव लक्ष्मीः श्रीस् तया मन्दस्मितशोभया । आनन्ददम् आनन्दं ददातीति आनन्ददस् तम् । कः कमिव- अमरेन्द्रो ऽमराणां देवानाम् इन्द्रः पुरन्दरः । तत्त्वं श्रीहरिस्वरूपं प्रवेत्तुं सम्यग्ज्ञातुम् अब्जयोनिं विरिञ्चिमिव । ‘धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः’ इत्यमरः । कथंभूतम् अब्जयोनिं- चतुराननहासलक्ष्म्या चत्वारि च तानि आननानि च चतुराननानि तेषां हासलक्ष्म्या मन्दहासश्रिया आनन्ददम् ।

अयमस्य सर्गद्वयस्य समुदायाभिप्रायः । एवं पूर्वोक्तरीत्या त्रिविक्रमपण्डिताचार्ये स्थितवति सति रजतपीठपुरे श्रीमध्वाचार्येऽपि वेदान्तसूत्रव्याख्यानादिना उत्कर्षेण विराजमाने सति तदुत्कर्षमसहमानैः पद्मतीर्थपुण्डरीकपुरिप्रभृतिभिर् मन्त्रादिबलात् शङ्कराचार्यमन्दिरे स्थापितमध्वाचार्यपुस्तकजाते अपहृते सति तां वार्तां श्रुत्वा मध्वाचार्यः शीघ्रेण पद्मतीर्थाधिष्ठितग्रामं प्राप्य तं निगृह्य पराजयति सति प्राग्रयवाटाख्ये चातुर्मास्यव्रतसमाप्त्यनन्तरं पौर्णमास्यां रात्रावेव पद्मतीर्थः पलायितः । तज् ज्ञात्वा तत्रस्थाः परिवृढास् तदपहृतमध्वाचार्यपुस्तकजातम् आनीय मध्वाचार्याय प्रददुः । मध्वाचार्यस्तु पद्मतीर्थादिकृतापराधं राजसमक्षं प्रकटीकृत्य तं निन्दयित्वा पुस्तकजातं ग्रहीष्यामीति बुद्ध्या स्वयमगृहीत्वा तत्रस्थस्य कस्यचिन् मध्यस्थस्य ब्राह्मणस्य सन्निधावेव निधाय सह्यपर्वतस्थ-स्वकीयशिष्यजनप्रीत्यर्थं सह्यपर्वतं जगाम । तदनन्तरं तत् श्रुत्वा जयसिंहराजस् तत्पुस्तकजातं दापयिष्यामीति बुद्ध्या मध्वाचार्यं स्वदूतमुखेन सम्प्रार्थ्य स्वराजधानीं प्रति आह्वयामास । आहूतो मध्वाचार्यो ऽनेकविधैर् यतिगृहस्थब्रह्मचारिभिर् अनेकैः शिष्यैः परिवृतस्सन् जयसिंहराजधानीं प्रत्यागत्य विष्णुमङ्गलाख्यदेवालये प्रविश्य उवास । तदा त्रिविक्रमाचार्यः यथा देवेन्द्रस् तत्त्वं वेत्तुं चतुर्मुखं जगाम तथा तत्त्वं वेत्तुमनास्सन् मध्वाचार्यमुपेत्य अभ्यवन्दत इति । वसन्ततिलकावृत्तं ‘उक्ता वसन्ततिलका तभजा जगौ गः’ इति तल्लक्षणात् ॥ ६९ ॥

इति श्रीमध्वविजयटीकायां श्रीमच्छलारिनरसिंहाचार्याणां

शिष्येण शेषेण विरचितायां मन्दोपकारिण्यां त्रयोदशः सर्गः ॥ १३ ॥