द्वादशः सर्गः
द्वादशः सर्गः
विश्वास-प्रस्तुतिः - १
तत्रानन्तस्वान्तवेदान्तिसिंहे मुख्यव्याख्यानिस्वने जृम्भमाणे ।
सद्यो माद्यद्वादिदन्तीन्द्रभीमे भेजे क्षोभो मायिगोमायुयूथैः॥ १ ॥
मूलम् - १
तत्रानन्तस्वान्तवेदान्तिसिंहे मुख्यव्याख्यानिस्वने जृम्भमाणे ।
सद्यो माद्यद्वादिदन्तीन्द्रभीमे भेजे क्षोभो मायिगोमायुयूथैः॥ १ ॥
पदार्थदीपिकोद्बोधिका
तत्रेति ॥ मुख्यव्याख्या उत्तमव्याख्यानं तद्रूपो निस्वनः ध्वनिर् यस्य तस्मिन् । सद्यो व्याख्यानिस्वनमात्रश्रवणकाल एव माद्यन्तो विद्वत्ताभिमानेन मदभावं प्राप्ता वादिन एव दन्तीन्द्रा गजश्रेष्ठास् तेषां भीमे भयङ्करे । अनन्तं स्वान्तं मनो यस्य सो ऽनन्तस्वान्तः श्रीपूर्णप्रज्ञः । वेदान्तोऽस्यास्तीति वेदान्ती वेदान्तशास्त्राभिज्ञ इति भावः । अनन्तस्वान्तश्चासौ वेदान्ती च स एव सिंहस् तस्मिन् । तत्र रजतपीठे जृम्भमाणे शोभमाने सति । ‘जृम्भणं जृम्भितोत्फुल्लविवृद्धेषु विचेष्टित’ इत्यभिधानम् । मायिन एव गोमायवः सृगालास् तेषां यूथैः समूहैः क्षोभो भयाच् चपलत्वं भवेत् तद्वन्मध्वव्याख्यानिनादश्रवणमात्राद्भीता मायिनश् चपलत्वं भेजुर् इति भावः । सर्गेऽस्मिन् प्रायः शालिनीवृत्तम् । लक्षणं तूक्तम् ॥ १ ॥
मन्दोपाकारिणी
श्रीगुरुभ्यो नमः ॥ तत्रेति ॥ मुख्यव्याख्यानिःस्वने मुख्या उत्तमा च सा व्याख्या प्रवचनं च मुख्यव्याख्या सैव निस्वनः ध्वनिर् यस्य सस् तथोक्तस् तस्मिन् । व्याख्यानरूपनादयुक्ते । इत्यर्थः ‘नादनिस्वाननिस्वनाः’ इत्यमरः । सद्यस् तत्क्षणे व्याख्यानश्रवणमात्र एव माद्यद्वादिदन्तीन्द्रभीमे दन्तीनां गजानाम् इन्द्राः श्रेष्ठा दन्तीन्द्राः ‘दन्ती दन्तावलो हस्ती’ इत्यमरः वादिन एव दन्तीन्द्रास् तथोक्ता माद्यन्तः पाण्डित्याभिमानेन मत्तत्वं भजन्तस् ते च ते वादिदन्तीन्द्राश्च तेषां भीमे भयङ्करे ‘घोरं भीमं भयानकं’ इत्यमरः विद्वत्ताभिमानेन गर्वयुक्तानामपि व्याख्यानशब्दश्रवणमात्रेण भयङ्करे इति भावः । अनन्तस्वान्तवेदान्तिसिंहे अनन्तम् अनन्तविषयकं स्वान्तं मनो यस्य सस् तथोक्तः ‘स्वान्तं हृन्मानसं मनः’ इत्यमरः । वेदानाम् अन्तो निर्णयो येभ्यस् ते वेदान्ता वेदनिर्णायकशास्त्राणि वेदान्ता अस्य सन्तीति वेदान्ती वेदान्तशास्त्राभिज्ञ इति भावः । अनन्तस्वान्तः पूर्णप्रज्ञाचार्याख्यः वेदान्ती च अनन्तस्वान्तवेदान्ती स एव सिंहः मृगेन्द्रो ऽनन्तस्वान्तवेदान्तिसिंहस् तस्मिन् । तत्र रजतपीठपुरे जृम्भमाणे शोभमाने सति मायिगोमायुयूथैर् मायिनः मायावादिन एव गोमायवः ृगालास् तेषां यूथानि वृन्दानि तैः ‘गोमायुर्मृगधूर्तकः’ इत्यमरः क्षोभः भयाच् चपलत्वं भेजे प्राप्तः ‘भज सेवायां’ इत्यतः कर्मणि लिट् आत्मनेपदं भेजे भेजाते भेजिरे, । यथा ृगालाः सिंहगर्जनं श्रुत्वा भयाच् चपला भवन्ति तथा मध्वाचार्यव्याख्यानशब्दश्रवणमात्राद् भीता मायावादिनः दुश्चित्तत्वं प्रापुरिति भावः । सर्गसमाप्तिपर्यन्तं प्रायः शालिनीवृत्तं ‘मस्तौ गौ चेच्छालिनी वेद लोकैः’ इति तल्लक्षणात् ॥ १ ॥
विश्वास-प्रस्तुतिः - २
सम्भूयामी चोलजद्वीपिपुर्योः पार्श्वे पापा मन्त्रयामासुरुग्राः ।
सासूया भूभूषणे वायुदेवे मूढा यद्वद्धार्तराष्ट्रान्तिके प्राक् ॥ २ ॥
मूलम् - २
सम्भूयामी चोलजद्वीपिपुर्योः पार्श्वे पापा मन्त्रयामासुरुग्राः ।
सासूया भूभूषणे वायुदेवे मूढा यद्वद्धार्तराष्ट्रान्तिके प्राक् ॥ २ ॥
भावप्रकाशिका
चोलजः पद्मतीर्थो नाम । ‘यो गुप्तपटलोक्तायां भैरवीचक्रसङ्गतौ । साङ्कर्यां परविद्यायां महावाग्म्यसतां गुरुः’ । द्वीपी पुण्डरीकपुरी ॥ २ ॥
पदार्थदीपिकोद्बोधिका
सम्भूयेति ॥ पापा उग्रा अमी मायिनः । चोलजः पद्मतीर्थः द्वीपिपुरिः पुण्डरीकमुनिस् तयोः । द्वीपिशब्दः पुण्डरीकपर्यायः । ‘व्याघ्रो द्वीपी पुण्डरी-कस्तरक्षुरि’ति हलायुधः । पार्श्वे समीपे सम्भूय मिलित्वा भुवो भूषणमिव भूषणस् तस्मिन् । वायुश्चासौ देवश्च तस्मिन् श्रीमध्वनामि्न वायुदेवे सासूया मात्सर्योपेताः सन्तः । प्राक् पूर्वं मूढा राजपुत्रादयः धृतराष्ट्रस्यापत्यं पुमान् धार्तराष्ट्रो दुर्योधनस् तस्य अन्तिके समीपे यद्वद् वायुदेवे भीमसेने सासूया मन्त्रयामासुस् तद्वन् मन्त्रयामासुः । मत्रि गुप्तभाषणे लिट् ॥ २ ॥
मन्दोपाकारिणी
सम्भूयेति ॥ पापाः पापम् एषाम् अस्तीति पापा अर्शाद्यजन्तः पापस्वरूपा उग्राः क्रूरा अमी मायिनश् चोलजद्वीपिपुर्योश् चोलजश् चोलदेशे जातः पद्मतीर्थः द्वीपिपुरिः पुण्डरीकपुरिः ‘व्याघ्रोऽपि पुण्डरीको ना’ इत्यमरः ‘ शार्दूलद्वीपिनौ व्याघ्रः’ इत्यमरश् चोलजश्च द्वीपिपुरिश्च तयोः पार्श्वे समीपे सम्भूय मिलित्वा मन्त्रयामासुर् विचारयामासुर् मन्त्रयां ‘‘आम्’’ प्रत्ययान्तम् अव्ययम् । ‘अस् भुवि’ इत्यतो लिट् परस्मैपदम् आस आसतुर् आसुः । कथंभूता भूभूषणे भुवः भूमेर् भूषणभूते वायुदेवे श्रीमध्वाख्यवायुदेवे सासूया असूयया उपेताः ‘असूया नाम गुणेषु दोषारोपः’ ‘असूया तु दोषारोपो गुणेष्वपि’ इत्यमरः के इव प्राक् पूर्वं भीमावतारे मूढा अज्ञाः ‘अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः’ इत्यमरः राजपुत्रा धार्तराष्ट्रान्तिके धृतराष्ट्रस्य अपत्यं पुमान् धार्तराष्ट्रो दुर्योधनस्
तस्य अन्तिके समीपे यद्वद् यथा येन प्रकारेण मन्त्रयामासुस् तद्वत् तेऽपि भूभूषणे
वायुदेवे सासूयाः ॥ २ ॥
विश्वास-प्रस्तुतिः - ३
सन्मात्सर्यं बद्धुमूचेऽशुभानां वाचाऽलोलं कोपि गांधारकस्य ।
मध्ये तेषां नीचनीत्या समानो वाचालोऽलं कोऽपि गान्धारकस्य ॥ ३ ॥
मूलम् - ३
सन्मात्सर्यं बद्धुमूचेऽशुभानां वाचाऽलोलं कोपि गांधारकस्य ।
मध्ये तेषां नीचनीत्या समानो वाचालोऽलं कोऽपि गान्धारकस्य ॥ ३ ॥
भावप्रकाशिका
अशुभानां धारकस्य चोलजस्य अलोलं स्थिरं कोपि कोपविशिष्टं सज्जनेषु मात्सर्यं बद्धुं गामूचे । कोऽप्यलं वाचालः शकुनेः समानः ॥ ३ ॥
पदार्थदीपिकोद्बोधिका
सदिति ॥ सन्मात्सर्यं, बद्धुम् ऊचे, अशुभानां, वाचा, अलोलं, कोपि, गान्धारकस्य, मध्ये, तेषां, नीचनीत्या, समानः, वाचालः, अलं, कः, अपि, गान्धारकस्य इति च्छेदः । तेषां मिलितानां मायिनां मध्ये अलम् अतितरां वाचालो बहुभाषी । ‘आलजाटजौ बहुभाषिणी’त्यालच् । नीचनीत्या कुत्सितनीत्या गान्धारकस्य शकुनेः समानः कोऽपि कश्चित् । वाचा स्ववचनेनाशुभानां दुष्टपुरुषाणां धारकस्य आश्रयभूतस्य पद्मतीर्थाख्यमायिभिक्षोः कोपोऽस्यास्तीति कोपि कोपविशिष्टं,
सत्सु मात्सर्यम् अलोलः स्थिरो यथा भवति तथा अलोलं वाचा स्ववचनेन बद्धुम् उत्पादयितुं गां वाचम् ऊचे ॥ ३ ॥
मन्दोपाकारिणी
सदिति ॥ द्वितीयपादे वाचा अलोलं कोपि गां धारकस्य इति, चतुर्थपादे वाचालो ऽलं को ऽपि गान्धारकस्य इति पदच्छेदः । तेषां मिलितानां मायावादिनां मध्ये अलम् अतितरां वाचालः बहुभाषी ‘स्याज्जल्पकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्’ इत्यमरः कोऽपि यःकश्चित्पुरुषो ऽशुभानां पापानाम् असज्जनानां वा धारकस्य आश्रयस्य असच्छ्रेष्ठस्य इत्यर्थः पद्मतीर्थस्य कोपि कोपः क्रोधो ऽस्यास्तीति कोपि कोपसहितं सन्मात्सर्यं सत्सु सज्जनेषु मात्सर्यं मत्सरत्वम् अलोलं लोलं चञ्चलं न भवतीति अलोलं ‘चलं लोलं चलाचलं’ इत्यमरः स्थिरं यथा भवति तथा इत्यर्थः वाचा स्ववचनेन बद्धुम् उत्पादयितुं गां वाचम् ऊचे अब्रवीत् । ‘वच परिभाषणे’ इत्यतो लिट् आत्मनेपदम् ऊचे ऊचाते ऊचिरे’ । ‘भूवाग्वारिषु गौर्मता’ इति विश्वः । कथंभूतः नीचनीत्या नीचश् च असौ नीतिश्च नीचनीतिस् तया गान्धारकस्य शकुनेर् दुर्योधनमातुलस्य समानः सदृशः मिलितेषु मायिषु मध्ये कश्चन पापिष्ठः पद्मतीर्थस्य मध्वाचार्ये कोपः मात्सर्यं च यथा स्यात् तथा वचनम् उवाच इति भावः ॥ ३ ॥
विश्वास-प्रस्तुतिः - ४
एकं तत्त्वं वष्टि मायामयीयं वाक्यैः प्राच्यैरप्यवाच्यं विधत्ते ।
पूर्वाऽपूर्वा हन्त दौर्घट्यभूषा चित्रं चित्रं दर्शनाचार्यनीतिः ॥ ४ ॥
मूलम् - ४
एकं तत्त्वं वष्टि मायामयीयं वाक्यैः प्राच्यैरप्यवाच्यं विधत्ते ।
पूर्वाऽपूर्वा हन्त दौर्घट्यभूषा चित्रं चित्रं दर्शनाचार्यनीतिः ॥ ४ ॥
पदार्थदीपिकोद्बोधिका
एकमिति ॥ पूर्वा पुरातनी अपूर्वा दुर्लभा दुर्घटस्य भावो दौर्घट्यं तद्भूषा अलङ्कारो यस्यास् तादृशी । अत एव मायाया विकारभूता मायामयी मायाविलासमूलेत्यर्थः । इयं दर्शनाचार्यनीतिर् दर्शनाचार्यस्य अस्मच्छास्त्राचार्यस्य शङ्करस्य नीतिः शास्त्रं चित्रं चित्रमत्याश्चर्यम् । इयं नीतिस् तत्त्वं ब्रह्माक्यं वस्तु, एकम् अद्वितीयं निर्विशेषं च वष्टि ब्रूते । वश कान्तौ लट् । प्रतिपादयति इत्यर्थः । तथापि प्राच्यैः पुरातनैर्वाक्यैर् वेदवचनैः । ‘यतो वाचो निवर्तन्त’ इत्यादिभिर् अवाच्यमपि विधत्ते । हन्त हर्षे । तत्त्वं ब्रह्माख्यं वस्त्वद्वितीयं निर्विशेषं ‘सत्यं ज्ञानमि’त्यादिरूपेण समर्थ्यापि तद्ब्रह्म अवाच्यम् इति च ब्रूते । तस्माद्दौर्घट्यम् अस्य भूषणम् इत्यर्थः ॥ ४ ॥
मन्दोपाकारिणी
किमवोचद् इत्यत आह ॥ एकमिति ॥ मायामयी विश्वस्य मायोपादनकत्वप्रतिपादिका इयं दर्शनाचार्यनीतिर् दर्शनस्य मायिशास्त्रस्य आचार्यस्य प्रवर्तकस्य शङ्कराचार्यस्य नीतिः शास्त्रं चित्रं चित्रमत्याश्चर्यं यथा स्यात् तथा तत्त्वं ब्रह्माख्यं वस्तु एकम् अद्वितीयं निर्विशेषं वष्टि इच्छति ब्रूते इत्यर्थः ‘वश कान्तौ कान्तिर् इच्छा अस्माद् धातोर् लट् परस्मैपदं वष्टि उष्ट उशन्ति’ । तथा प्राच्यैः पुरातनैर् वाक्यैः ‘यतो वाचो निवर्तन्ते’ इत्यादिभिर् वेदवचनैर् अवाच्यमपि विधत्ते प्रतिपादयति ‘वि पूर्वाड् डु धाञ् धारणपोषणयोर् इत्यतो लट् आत्मनेपदं धत्ते दधाते दधते’ । कथंभूता नीतिः पूर्वा पुरातनी अपूर्वा दुर्लभा दौर्घट्यभूषा दुर्घटत्वं भूषा अलङ्कारः यस्याः सा तथोक्ता ब्रह्म सत्यं ज्ञानम् इत्यादिना प्रतिपाद्य पुनो ऽवाच्यम् इति ब्रूते अत एतदुभयं दुर्घटं तस्माद् दुर्घटत्वभूषात्वं युक्तम् इति भावः । हन्त हर्षः ‘हन्त हर्षेऽनुकम्पायां’ इत्यमरः ॥ ४ ॥
विश्वास-प्रस्तुतिः - ५
मर्त्यामर्त्यामर्त्यविद्विट्पुरोगं विश्वं दृश्यं विप्रचण्डालपूर्वम् ।
भेदापेतं भेदि मानैः समानैः साधीयः कः साधयेत्तामलब्ध्वा॥ ५ ॥
मूलम् - ५
मर्त्यामर्त्यामर्त्यविद्विट्पुरोगं विश्वं दृश्यं विप्रचण्डालपूर्वम् ।
भेदापेतं भेदि मानैः समानैः साधीयः कः साधयेत्तामलब्ध्वा॥ ५ ॥
भावप्रकाशिका
‘साधीयः द्विवचनविभज्योपपदे तरबीयसुनावि’तीयसुन् । ‘अन्ति-कबाढयोर्नेदसाधावि’ति बाढशब्दस्य साधादेशः ॥ ५ ॥
पदार्थदीपिकोद्बोधिका
मर्त्येति ॥ समानैः । ‘जगत्प्रवाहः सत्योऽयं पञ्चभेदसमन्वितः’’, ‘‘सत्यं भिदा सत्यं भिदा सत्यं भिदा’’, ‘‘पञ्चभेदा इमे सत्याः सर्वावस्थासु सर्वशः’’, इत्यादिभेदप्रतिपादकवेदादिप्रमाणसहितैर् मानैः प्रत्यक्षादिप्रमाणैः । भेदो अस्यास्तीति भेदि, भेदविशिष्टतया प्रसिद्धम् । समानैः प्रत्यक्षादिप्रमाणसहितैर् मानैर् भेदप्रतिपादकवेदादिप्रमाणैर् भेदीति वा योजना । मर्त्या मनुजा अमर्त्या देवा अमर्त्यविद्विषो देवद्विषो दैत्यास् ते पुरोगाः पुरःसरा यस्य तादृशं दृश्यं प्रतीयमानं, विप्राश्च चण्डालाश्च पूर्वे यस्य तादृशं विश्वं जगद् भेदापेतं भेदरहितम् इति को विद्वान् ताम् अस्मद्दर्शनाचार्यनीतिम् अलब्ध्वा साधीयः दृढतरं यथा भवति तथा साधयेत् । न कोऽपीत्यर्थः । अत्र साधीय इति दृढार्थस्य बाढशब्दस्य ‘अन्तिकबाढयोर्नेदसाधौ’ इति साधादेश ईयसुन् प्रत्ययश्च । प्रत्यक्षादिप्रमाणैर् भेदस्यैव प्रतीयमानत्वात् तद्विरुद्धसर्वा-भेदसमर्थनम् अस्मद्दर्शनाचार्योक्तनीतिं विना न शक्यमिति भावः ॥ ५ ॥
मन्दोपाकारिणी
मर्त्येति ॥ ताम् अस्मद्दर्शनाचार्यनीतिम् अलब्ध्वा अप्राप्य श्रवणादिकम् अकृत्वा इति यावत् । कः यः कोऽपि विद्वान् मर्त्यामर्त्यामर्त्यविद्विट्पुरोगं मर्त्या मनुष्याः ‘मनुष्या मानुषा मर्त्याः’ इत्यमरो ऽमर्त्या देवाः ‘अमर्त्या अमृतान्धसः’ इत्यमरो ऽमर्त्यविद्विषो ऽमर्त्यानां देवानां विद्विषः शत्रवः दैत्याः ‘पूर्वदेवाः सुरद्विषः’ इत्यमरः मर्त्याश्च अमर्त्याश्च अमर्त्यविद्विषश्च एते पुरोगा आदयो यस्य तत् तथोक्तं विप्रचण्डालपूर्वं विप्रा ब्राह्मणाश् चण्डालाः श्वपचाः ‘निषादः श्वपचश्चान्तेवासिचण्डालपुल्कसाः’ इत्यमर एते पूर्वे यस्य तत् तथोक्तं, दृश्यं प्रतीयमानं विश्वम् अनेकविधं प्रपञ्चं भेदापेतं भेदेन अपेतं रहितं साधीयः दृढतरं साधयेत् समर्थयेत् । साधीय इत्यत्र दृढार्थस्य बाढशब्दस्य अतिबाढ्ये ‘अन्तिकबाढयोर्नेदसाधौ’ इति सूत्रेण साधादेश ईयसुन् प्रत्ययश्च ‘राधसाध संसिद्धावित्यतो लिङ् परस्मैपदम्’ । कथंभूतं विश्वं समानैर् मानैः प्रत्यक्षादिप्रमाणैः सहितैर् मानैः प्रमाणैः ‘जगत्प्रवाहः सत्योऽयं’ ‘सत्यं भिदा सत्यं भिदा’ ‘पञ्चभेदा इमे नित्याः’ इत्यादिभेदप्रति-पादकवेदादिप्रमाणैर् भेदि भेदोऽस्यास्तीति भेदि भेदवत्तया प्रसिद्धं प्रत्यक्षादिप्रमाणैर् जगति भेदस्यैव प्रतीयमानत्वात् तद्विरुद्धं सर्वाभेदसमर्थनम् अस्मद्दर्शनाचार्योक्तनीतिं विना न शक्यम् इति भावः ॥ ५ ॥
विश्वास-प्रस्तुतिः - ६
सत्यं सत्यं व्यावहार्यं विधत्ते सर्वं मोहे सर्वनिर्वाहिणी सा ।
ज्ञाने जाते दग्धवस्त्रप्रतीतं पक्वे तस्मिंस्तप्तलोहाप्तवार्वत् ॥ ६ ॥
मूलम् - ६
सत्यं सत्यं व्यावहार्यं विधत्ते सर्वं मोहे सर्वनिर्वाहिणी सा ।
ज्ञाने जाते दग्धवस्त्रप्रतीतं पक्वे तस्मिंस्तप्तलोहाप्तवार्वत् ॥ ६ ॥
पदार्थदीपिकोद्बोधिका
सत्यमिति ॥ सा दर्शनाचार्यनीतिः । मोहेऽज्ञाने सति । अज्ञानदशायां सत्यामित्यर्थः । सत्यं पारमार्थिकसत्यतया प्रतीयमानं सर्वं, व्यवहारविषयो व्यावहार्यम् । व्यावहारिकमित्यर्थः । सत्यं विधत्ते ब्रूते । ‘सन् घटः सन् पट’ इत्यादि प्रत्यक्षस्य विमतं सत्यम् अर्थक्रियाकारित्वाद् यन्न सत्यं न तदर्थक्रियाकारि यथा शुक्तिरजतं, न तथाचेदं तस्मान् न तथेत्याद्यनुमानस्य, ‘विश्वं सत्यं मघवाना’ इत्याद्यागमस्य च तत्सत्यत्वप्रतिपादकस्य व्यावहारिकसत्यताविषयत्वं विधत्त इति भावः । तस्मात्सा नीतिः सर्वनिर्वाहिणी सर्वस्यापि प्रमाणजातस्य निर्वाहिणी परस्पराविरोधेन विषयस्य व्यवस्था कल्पिकेत्यर्थः । तथा हि ‘सन् घट’ इत्यस्य सत्यत्वविषयप्रमाणस्य व्यावहारिकसत्यत्वं विषयः । विमतं मिथ्या दृश्यत्वात् शुक्तिरजतवदित्याद्यनुमानानां ‘नेह नानास्ति किञ्चन’ इत्याद्यागमनाञ्च ब्रह्मातिरिक्तप्रपञ्चमिथ्यात्वपराणां परमार्थतः सत्वनिषेधो विषय इति भिन्नविषयत्वव्युत्पादनेन परस्परविरोधपरिहारात् सर्वनिर्वाहिणीत्युच्यते । वस्तुतो विचार्यमाणे विश्वं कथंभूतमित्यपेक्षायामाह– ज्ञान इत्यादि । ज्ञाने ‘नेह नानास्ति किञ्चने’ त्याद्यागमजनितापरोक्षज्ञाने सति, दग्धवस्त्रप्रतीतं दग्धं यद्वस्त्रं तद्वत्प्रतीतं ज्ञातम् । दग्धवस्त्रं पश्यतो यथा भस्मैवेदं न वस्त्रमिति दृढनिश्चये सत्यपि चूर्णभावपर्यन्तम् आतानवितानात्मकप्रतीतिर् अनिवार्या, तद्वद्विमतं मिथ्या दृश्यत्वात् शुक्तिरजतवदित्यादि अनुमानैर् नेह नानेत्याद्यागमैश्च परोक्षतो ब्रह्मातिरेकेण प्रपञ्चमिथ्यात्वनिश्चये सत्यपि सर्वात्मनाविद्यास्तमयपर्यन्तं ‘सन् घट’ इत्यादिप्रतीतिर् अनिवार्या । तस्माद्दग्धवस्त्रप्रतीतम् इदम् । तस्मिन् ‘विमतं मिथ्या दृश्यत्वाद् इत्याद्यनुमानैर् नेह नानास्ति किञ्चने’ त्याद्यागमैश्चोत्पादिते ज्ञाने पक्वे सति परिपक्वे सति । अपरोक्षत्वं गते सतीति यावत् । तप्तं यल्लोहं तदाप्तं यद्वा जलं तद्वत् तप्तलोहाप्तवार्वद् भवतीति सम्बन्धः । तप्तलोहस्थं वारि यथा लोहान्न पृथग्प्रतीयते । एवं जीवजडात्मकप्रपञ्चमिथ्यात्वलक्षण ब्रह्मात्म्यैक्यज्ञाने परिपक्वे सति ब्रह्मातिरेकेण न किञ्चित्प्रतीयत इति भावः । अयमत्रान्वयप्रकारः मोहे सति सर्वं सत्यं व्यावहार्यं सत्यं विधत्ते इति यस्मात्सा सर्वनिर्वाहिणी । ज्ञाने जाते सति दग्धवस्त्रप्रतीतं सर्वं तस्मिन् पक्वे सति तप्तलोहाप्तवार्वद् भवति इति ॥ ६ ॥
मन्दोपाकारिणी
सत्यमिति ॥ दर्शनाचार्यनीतिर् मोहे अज्ञाने सति अज्ञानावस्थायाम् इत्यर्थः । सत्यं पारमार्थिकसत्यतया प्रतीयमानं सर्वं विश्वं व्यावहार्यं सत्यं व्यावहारिकं सत्यं विधत्ते ब्रूते तस्मात् सा दर्शनाचार्यनीतिः सर्वनिर्वाहिणी सर्वस्य प्रत्यक्षादिप्रमाणजातस्य निर्वाहिणी परस्पराविरोधेन विषयव्यवस्थाकल्पिका इत्यर्थः । विरोधपरिहारेण निर्वाह-प्रकारस्तु सन् घटः सन् पट इति विमतं प्रत्यक्षं सत्यम् अर्थकारित्वाद् इत्याद्यनुमानं ‘विश्वं सत्यं मघवा’ इत्याद्यागमश्च जगतः सत्यत्वं प्रतिपादयति, ‘विमतं मिथ्या दृश्यत्वात् शुक्तिरजतवत्’ इत्याद्यनुमानं ‘नेह नानास्ति किञ्चन’ इत्याद्यागमश्च ब्रह्मातिरिक्तस्य सर्वस्य प्रपञ्चस्य मिथ्यात्वं प्रतिपादयति, एवं प्राप्तम् उभयप्रमाणस्य परस्परविरोधम् अस्मद् दर्शनाचार्यनीतिः परिहरति । कथं, जगत्सत्यत्वग्राहिप्रमाणजातस्य व्यावहारिकसत्यत्वं विषयः मिथ्यात्वप्रतिपादकप्रमाणजातस्य परमार्थतः सत्यतानिषेधो विषय एवं भिन्नविषयकत्वव्युत्पादनेन परस्परविरोधपरिहारात् सर्वनिर्वाहिणी इत्युच्यते इति वस्तुतो विचार्यमाणे विश्वं कीदृशम् इत्यत आह-ज्ञाने इति । ज्ञाने नेह नानास्ति किञ्चन इत्यादि प्रमाणैर् ब्रह्मातिरिक्तं सर्वं मिथ्या इति परोक्षज्ञाने जाते निश्चिते सति विश्वं दग्धवस्त्रप्रतीतं दग्धम् अग्नौ दग्धं वस्त्रमिव प्रतीतं दग्धवस्त्रं पश्यतः पटत्वाभावनिश्चये सत्यपि चूर्णीभाव पर्यन्तं जायमाना पटाकारप्रतीतिर् यथा अनिवार्या तथा प्रमाणैर् ब्रह्मातिरेकेण प्रपञ्चमिथ्यात्वनिश्चये सत्यपि सर्वात्मना अविद्यानिवृत्तिपर्यन्तं ‘सन् पटः’ इत्यादि सत्त्वप्रतीतिर् अनिवार्यैव । तस्माद् दग्धवस्त्रप्रतीतमिदं, तस्मिन् प्रमाणेन जातमिथ्यात्वज्ञाने पक्वे सति अपरोक्षे सतीति यावत् । इदं विश्वं तप्तलोहाप्तवार्वत् तप्तम् अग्निना संतप्तं च तद् लोहं च तप्तलोहम् आप्तं प्राप्तं च तद् वा वारि च तद्वत् पृथङ् न प्रतीयते जीवजडात्मकप्रपञ्चमिथ्यात्वलक्षणब्रह्मात्मैक्यज्ञाने परिपक्वे सति ब्रह्मातिरेकेण न किञ्चित् प्रतीयते इति भावः ॥ ६ ॥
विश्वास-प्रस्तुतिः - ७
ज्ञानिश्रेष्ठश्रेष्ठविज्ञानिवर्गे नैर्गुण्यस्थे साम्प्रतं नाथभूताः ।
आक्रन्दं मे हन्त शृण्वन्तु सोऽयं हा हा मायावाद उत्सादमेति ॥ ७ ॥
मूलम् - ७
ज्ञानिश्रेष्ठश्रेष्ठविज्ञानिवर्गे नैर्गुण्यस्थे साम्प्रतं नाथभूताः ।
आक्रन्दं मे हन्त शृण्वन्तु सोऽयं हा हा मायावाद उत्सादमेति ॥ ७ ॥
पदार्थदीपिकोद्बोधिका
ज्ञानीति ॥ ज्ञानिश्रेष्ठश्रेष्ठविज्ञानिवर्गे ज्ञानिश्रेष्ठस् तन्नामकः कश्चन मायिप्रवरः स एव श्रेष्ठ उत्तमो यस्मिन् तादृशो विज्ञानिनां वर्गः । ज्ञानिश्रेष्ठश्चासौ विज्ञानिवर्गश्च तस्मिन् । निर्गता गुणा यस्मात् तन् निर्गुणं तस्य भावो नैर्गुण्यं निर्गुणब्रह्मभावस् तस्मिन् स्थितो नैर्गुण्यस्थस् तस्मिन् सति निर्गुणब्रह्मतादात्म्यलक्षणमुक्तिं गते सति । साम्प्रतम् इदानीं नाथभूता अस्माकं स्वामिभूताः सर्वे भवन्तो मे मम आक्रन्दम् आक्रोशं ृण्वन्तु । सोऽयं मायावादो मायाकल्पितं सर्वमिति वाद उत्सादं नाशमेति गच्छति । हा हा कष्टं कष्टम् ॥ ७ ॥
मन्दोपाकारिणी
ज्ञानिश्रेष्ठेति ॥ ज्ञानिश्रेष्ठश्रेष्ठविज्ञानिवर्गे ज्ञानिश्रेष्ठो नाम कश्चिन् मायावादिश्रेष्ठः ज्ञानिश्रेष्ठ एव श्रेष्ठ उत्तमो यस्मिन् सः, स च विज्ञानिनां विदुषां वर्गः समूहश्च अनयोः समाहारस् तस्मिन् ‘वृन्दभेदाः समैर्वर्गः सङ्घसार्थौ तु जन्तुभिः’ इत्यमरः नैर्गुण्यस्थे नैर्गुण्ये निर्गुणभावब्रह्मलक्षणमुक्तौ तिष्ठतीति नैर्गुण्यस्थस् तस्मिन् सति ज्ञनिश्रेष्ठप्रभृतिज्ञानिसमुदाये मुक्तिं गते सतीति यावत्, सांप्रतम् अधुना ‘अधुना सांप्रतं तथा’ इत्यमरः नाथभूता अस्माकं स्वामिनः भवन्तः मे मम आक्रन्दम् आक्रोशं ृण्वन्तु आकर्णयन्तु । हन्त ‘श्रु श्रवणे’ इत्यतो लोट् परस्मैपदं ृणोतु ृणुतां ृण्वन्तु । आक्रोशः किं विषय इत्यत आह-हा हेति ॥ सोऽयं पूर्वोक्तो ऽयं मायावादः मायाशास्त्रम् उत्सादं नाशम् एति प्राप्नोति हाहा कष्टं प्राप्तं ‘इण् गतौ’ इत्यतः लट् परस्मैपदम् एति इतः यन्ति । विषादार्थकस्य हाशब्दस्य क्लेशाद् द्विरुक्तिः ‘हा विषादश्रमार्तिषु’ इत्यमरः ॥ ७ ॥
विश्वास-प्रस्तुतिः - ८
भ्रष्टा भाट्टा न प्रभाकृत्प्रभाऽभूत् त्रस्ता माहायानिकाद्याश्च यत्र ।
दुर्गं मायावादसत्रं दिधक्षुर्नोपेक्ष्या नस्तत्त्ववादाग्निजिह्वा ॥ ८ ॥
मूलम् - ८
भ्रष्टा भाट्टा न प्रभाकृत्प्रभाऽभूत् त्रस्ता माहायानिकाद्याश्च यत्र ।
दुर्गं मायावादसत्रं दिधक्षुर्नोपेक्ष्या नस्तत्त्ववादाग्निजिह्वा ॥ ८ ॥
भावप्रकाशिका
भाट्टा भाट्टानुव्रता वनपरिचयरहिताः । अर्कप्रभा । अविरलतरु-मत्त्वात् । माहायानिका बौद्धा महायनसम्बन्धिनश्च ॥ ८ ॥
पदार्थदीपिकोद्बोधिका
भ्रष्टा इति ॥ यत्र मायावादाख्यवने । भट्टेन भट्टाचार्येण प्रोक्तं भाट्टं तस्मिन्निपुणा भाट्टा भाट्टशास्त्रकुशला मीमांसका इत्यर्थः । भ्रष्टा निरुत्तरीकृताः । यथा वनपरिचयरहिता भट्टशिष्याःछत्रपुस्तकादिमन्तो मार्गवशाद्वनं प्रविश्य भ्रष्टा भवेयुस् तद्वदिति श्लेषाभिप्रायः । यत्र पूर्वोक्तवने प्रभाकृत्प्रभा प्रभाकृतः प्रभाकराख्यवादिनः प्रभा सामर्थ्यं नाभूत् । सोऽपि निराकर्तुम् अशक्त इति भावः । किञ्च यत्र भास्कराख्यवादिनोऽपि सामर्थ्यं नाभूद् इति च व्याख्येयम् । अविरलद्रुमे वने यथा सूर्यप्रकाशो न भवति तद्वदिति श्लेषाभिप्रायः । यत्र पूर्वोक्तवने माहायानिका बौद्धा आद्या येषां तादृशास् त्रस्ताः । न मायावादिप्रत्यर्थिभावं भजन्त इति भावः । वनेषु यथा महारथशकटादिमन्तस्त्रस्ताः स्युरेवम् इति श्लेषाभिप्रायः । दुर्गं दुर्गमं मायावादसत्रं मायावादाख्यञ्च तत् सत्रं वनञ्च, ‘सत्रमा-च्छादने यज्ञे सदादाने वनेऽपि चे’त्यमरः । दग्धुम् इच्छुर् दिधक्षुस् तत्त्वमिति वादः सर्वं सत्यमिति वादः, स एवाग्निस् तस्य जिह्वा ज्वाला । ‘जिह्वावाग्रसनार्चिष्वि’ति वैजयन्ती । नो अस्माकम् उपेक्ष्या उपेक्षितुं योग्या न भवति । तन्निरासे प्रयतितव्यमेव इति भावः ॥८॥
मन्दोपाकारिणी
भ्रष्टा इति ॥ दुर्गं दुर्गमार्गं मायावादसत्रं मायावादः मायावाद-शास्त्राख्यं सत्रं वनं ‘सत्रमाच्छादने यज्ञे सदादाने वनेष्वपि’ इत्यमरः दिधक्षुर् दग्धुमिच्छुस् तत्त्ववादाग्निजिह्वा तत्त्ववादस् तत्त्ववादाख्यशास्त्रं स एव अग्निजिह्वा अग्नेर्ज्वाला नो ऽस्माकम् उपेक्ष्या उपेक्षितुं योग्या न, न भवति तन्निरासे प्रयतितव्यमेवेति भावः । कथंभूतं मायावादसत्रं यत्र मायावादशास्त्रे भाट्टा भट्टशास्त्राभिज्ञा भ्रष्टा निरुत्तरीकृतास् तथा वने रक्षकरहिता भाट्टा भट्टशिष्याश् छत्रपुस्तकभारवाहका मार्गवशाद् गन्तुम् अशक्ये वने प्रविश्य भ्रष्टा उद्विग्नाः स्युस् तद्वदिति श्लेषाभिप्रायः । पुनः कथंभूतं यत्र प्रभाकृत्प्रभा प्रभाकृतः प्रभाकराख्यवादिनः प्रभा सामर्थ्यं नाभूत् प्रभाकरोऽपि निराकर्तुं न शक्त इति भावः । यथा निबिडच्छायाद्रुमवने प्रभाकृत्प्रभा प्रभाकरस्य सूर्यस्य प्रभा प्रकाशो न भवति तथेति श्लेषाभिप्रायः । यत्र माहायानिकाद्याश्च माहायानिका बौद्धा आद्या येषां ते तथोक्ताः, बौद्धादिवादिनस् त्रस्ता भीता मायावादिनः प्रतिपक्षिणो नाभवन् इति भावः । यथा दुर्गमारण्ये माहायानिकाद्या महान्ति यानानि रथशकटादीनि वाहनानि येषां ते महायानिका एव माहायानिकास् ते एव आद्या येषां ते तथोक्ताः पुरुषास् त्रस्ता उद्विग्ना रथशकटादिवाहनानां वृक्षषण्डपाषाणादिमयेऽरण्ये प्रवेष्टुम् अशक्यत्वात् । एवमेव अत्रापीति श्लेषाभिप्रायः ‘यानं गतौ वाहने च’ इति विश्वः ॥ ८ ॥
विश्वास-प्रस्तुतिः - ९
यं यं प्रापद्भूरिचित्तः प्रदेशं तस्मात्तस्मादागतेरन्तरायः ।
प्रत्यज्ञायि व्यक्तमार्येण सोऽपि प्राप्नोत्पार्श्वं हा वयं भाग्यहीनाः ॥ ९ ॥
मूलम् - ९
यं यं प्रापद्भूरिचित्तः प्रदेशं तस्मात्तस्मादागतेरन्तरायः ।
प्रत्यज्ञायि व्यक्तमार्येण सोऽपि प्राप्नोत्पार्श्वं हा वयं भाग्यहीनाः ॥ ९ ॥
पदार्थदीपिकोद्बोधिका
यं यमति ॥ भूरि पूर्णं चित्तं यस्य स श्रीपूर्णप्रज्ञः यं यं प्रदेशं प्रापज् जगाम । आप्लॄ व्याप्तौ लुङ् । आर्येण सज्जनेन पद्मतीर्थेन ‘आर्यौ सज्जन-संविदावि’ति हेमचन्द्रः । तस्मात्तस्मात् प्रदेशादागतेरागमनस्यान्तरायो विघ्नो व्यक्तं स्पष्टं यथा भवति तथा प्रत्यज्ञायि प्रतिज्ञा कृता । सोऽपि श्रीमध्वोऽपि पार्श्वम् अस्मत्समीपं प्राप्नोत् प्राप । हा कष्टं वयं भाग्यहीनाः । अयमार्यः किं करोतु वयमेव भाग्यहीना इत्यर्थः । अयं भावः श्रीमध्वाचार्यस्य बदरिकाश्रमादागमनं श्रीमद्भाष्यनिर्माणञ्च गोदावरीतटे सर्ववादि निराकरणञ्च श्रुत्वा पुनः गोदावरीमतीत्य रजतपीठपुरं प्रत्यागच्छतीति च वार्तां श्रुत्वा, क्षुभ्यतो बिभ्यतश्च मायिनो दृष्ट्वा पद्मतीर्थेनेत्थं प्रतिज्ञा कृता । भूरिचित्त इदानीं यस्मिन् देशे तिष्ठति तस्माद्देशादितः परमिमं देशं प्रत्यागमनं निरोत्स्यामीति । पुनश्च समीपमागतं श्रुत्वाऽथ तत आगमनविघ्नं करोमीति । पुनःपुनरेवं तस्माद्देशादागतेरन्तरायप्रतिज्ञा कृता । तथाप्यसौ समीपमागतस् तदस्मद्दौर्भाग्यमिति ॥ ९ ॥
मन्दोपाकारिणी
यं यम् इति ॥ भूरिचित्तः भूरि पूर्णं चित्तं मनो यस्य सस् तथोक्तः पूर्णप्रज्ञाचार्यः यं यं प्रदेशं स्थलविशेषं प्रापत् प्राप्तवान् ‘प्रपूर्वाद् आप्लृ व्याप्तौ’ इत्यतः लुङ् परस्मैपदम् आपद् आपताम् आपन् । आर्येण पद्मतीर्थेन तस्मात्तस्मात् तस्मात्प्रदेशादागतेर् मध्वाचार्यागमनस्य अन्तरायः विघ्नः ‘विघ्नोऽन्तरायः प्रत्यूहः’ इत्यमरः व्यक्तं सर्वसमक्षं प्रत्यज्ञायि प्रतिज्ञातः । सोऽपि मध्वोऽपि पार्श्वम् अस्मत् समीपं प्राप्नोत् प्राप्तवान् ‘आप्लृ व्याप्तौ’ लङ् परस्मैपदम् आप्नोद् आप्नुताम् आप्नुवन् । वयं भाग्यहीना भाग्येन अदृष्टेन हीना हा कष्टम् । अयं भावः श्रीमध्वाचार्यस्य बदरिकाश्रमादागमनानन्तरं श्रीमद्भाष्यनिर्माणञ्च गोदावरीतीरे सर्ववादिनिराकरणञ्च श्रुत्वा पुनः गोदावरीमतिक्रम्य रजतपीठपुरं प्रत्यागमिष्य-तीति च वार्तां श्रुत्वा क्षुभ्यतो बिभ्यतश्च मायिनो दृष्ट्वा पद्मतीर्थेन इत्थं प्रतिज्ञां कृत्वा, कथंमध्वाचार्य इदानीं यस्मिन् देशे तिष्ठति तस्माद् देशात् परम् अस्मद्देशं प्रत्यागमनं निरोत्स्यामीति पुनस् तद्देशम् अतीत्य समीपमागतं श्रुत्वा तस्य तत आगमनविघ्नं करिष्यामीति प्रतिज्ञां कृत्वा पुनः पुन एवमेव तस्मात् तस्माद् आगमननिरोधविषये प्रतिज्ञां कृत्वा सोऽपि अस्मत् समीपम् आगत एव तस्माद् वयम् असमर्थत्वान् निर्भाग्या इति ‘दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः’ इत्यमरः ‘प्रतिपूर्वाज् ज्ञा अवबोधने’ इत्यतः कर्मणि लुङ् परस्मैपदम् अज्ञायि अज्ञायिषाताम् अज्ञायिषत ॥ ९ ॥
विश्वास-प्रस्तुतिः - १०
प्रश्नः पृष्टुः खण्ड्यते तेन नूनं युक्तां युक्तिं वक्ति चासावखण्ड्याम् ।
वादिव्रातं लज्जयेन्नो विशेषादाक्षेप्तेति श्रूयते किं नु कुर्मः ॥ १० ॥
मूलम् - १०
प्रश्नः पृष्टुः खण्ड्यते तेन नूनं युक्तां युक्तिं वक्ति चासावखण्ड्याम् ।
वादिव्रातं लज्जयेन्नो विशेषादाक्षेप्तेति श्रूयते किं नु कुर्मः ॥ १० ॥
पदार्थदीपिकोद्बोधिका
प्रश्न इति ॥ तेन श्रीमध्वाचार्येण पृष्ट आक्षिप्तः प्रश्नः खण्ड््यते निराक्रियते । नूनं निश्चये । ‘नूनं तर्केऽवधारण’ इत्यमरः । असौ श्रीमध्वाचार्यो युक्ताम् उपपन्नाम् अखण्ड्यां युक्तिं वक्ति च । अत एव वादिव्रातो निरुत्तरीकृतवादिसमूहस्तं लज्जयेत् । लज्जायुक्तं कुर्यात् । ओलस्जी व्रीडायां लिङ् । नोऽस्माकं विशेषादाक्षेप्ता निराकर्तेति श्रूयते । किं नु कुर्म एतत्प्रतीकारं किं वा कुर्मः ॥ १० ॥
मन्दोपाकारिणी
प्रश्न इति ॥ तेन मध्वाचार्येण प्रष्टुः प्रमेयं पृच्छतः वादिनः प्रश्नः पृच्छा ‘प्रश्नोऽनुयोगः पृच्छा च’ इत्यमरः खण्ड््यते प्रत्युत्तरदानेन परिह्रियते । नूनं निश्चयः ‘नूनं तर्के विनिश्चये’ इत्यमरः । ‘खडि भेदने इत्यस्मात् कर्मणि लट् परस्मैपदं खण्ड््यते खण्ड््येते खण्ड््यन्ते । असौ मध्वाचार्यः युक्ताम् उपपन्नां युक्तिं वक्ति च ‘वच परिभाषणे’ इत्यतो लट् परस्मैपदं वक्ति वक्त इति । वच् धातोः सर्वत्र वचनद्वयमेव न तु बहुवचनमिति ज्ञेयम् । असौ एवं प्रकारेण वादिव्रातं वादिस्तोमं ‘स्तामौघनिकरव्रातः’ इत्यमरः लज्जयेन् निरुत्तरीकृतं वादिसमूहं लज्जया युक्तं कुर्यात् ‘ओलस्जी व्रीडायाम् इत्यतो णिजन्ताद् लिङ् परस्मैपदम् । वादिष्वपि मध्ये नो ऽस्मान् मायावादिनः विशेषाद् विशेषाकारेण आक्षेप्ता निराकर्तेति च श्रूयते अस्माभिर् अत्र किंनु किं वा तत्प्रतीकारं कुर्मः ‘क्षिप् प्रेरणे’ इत्यत आङ् पूर्वात् कर्तरि लुट् परस्मैपदं क्षेप्ता क्षेप्तारौ क्षेप्तारः’ ‘श्रु श्रवणे इत्यतः’ कर्मणि लट् आत्मनेपदं श्रूयते श्रूयेते श्रूयन्ते’ ॥ १० ॥
विश्वास-प्रस्तुतिः - ११
प्राच्यं शास्त्रं यत्सपादं तु लक्षं वाक्येनैकेनाक्षिपद्धर्षतीर्थः ।
इत्थं पान्थैर्वर्णितं शृण्वतः प्राग्युष्मान्प्रापद्दूयमानं मनो मे ॥ ११ ॥
मूलम् - ११
प्राच्यं शास्त्रं यत्सपादं तु लक्षं वाक्येनैकेनाक्षिपद्धर्षतीर्थः ।
इत्थं पान्थैर्वर्णितं शृण्वतः प्राग्युष्मान्प्रापद्दूयमानं मनो मे ॥ ११ ॥
पदार्थदीपिकोद्बोधिका
प्राच्यमिति ॥ हर्षतीर्थो हर्षकरं तीर्थं शास्त्रं यस्मात् सः श्रीमदानन्दतीर्थः । प्राच्यं पुरातनं सपादं पादसहितं लक्षं लक्षसङ्ख्याकं यच्छास्त्रं तदेकेन वाक्येन अक्षिपत् । निराचक्र इत्यर्थः । इत्थं प्राक् पान्थैः पथिकैर् वर्णितं ृण्वतो मे मम मनो दूयमानं सद् वो युष्माकं प्रापत् । सपादलक्ष्यपरिमितमस्मच्छास्त्रमाक्षेप्तुं पद्मतीर्थादय एव समर्था इति दूरस्थान् युष्मान् मे मनो जगाम इति भावः ॥ ११ ॥
मन्दोपाकारिणी
प्राच्यमिति ॥ प्राच्यं पुरातनं सपादं लक्षं पादेन लक्षचतुर्थांशेन पञ्चविंशत्सहस्रेणाधिकेन सहितं सपादं ‘पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्रान्न्यर्कास्तमोनुदः’ इत्यमरः लक्षं लक्षसङ्खयाकग्रन्थोपेतं यच्छास्त्रम् अभूत् तच्छास्त्रं हर्षतीर्थ आनन्दतीर्थ एकेन वाक्येन आक्षिपन् निराकृतवान् ‘क्षिप प्रेरणे इत्यतो लङ् परस्मैपदम् । इत्थम् एवं प्राक् पूर्वं पान्थैः पथिकैर् मार्गे गच्छद्भिः पुरुषैः ‘पान्थः पथिकः’ इत्यमरः वर्णितम् उदितं वचनं ृण्वत आकर्णयतः मे मम मनः दूयमानं सत् संतप्तं सद् युष्मान् प्रापत् प्राप्नोत् ‘आप्लृ व्याप्तौ इत्यतो लुङ् परस्मैपदं’ सपादलक्षपरिमितम् अस्मच्छास्त्रम् आक्षिपन्तं तमिमं मध्वम् आक्षेप्तुं पद्मतीर्था एव समर्था इति दूरस्थान् युष्मान् मे मनो ऽगमद् इति भावः ॥ ११ ॥
विश्वास-प्रस्तुतिः - १२
वेदव्यासो न्वेष वेदो नु मूर्तो दिव्या मूर्तिर्यस्य सा सुस्मितस्य ।
तद्द्रष्ट्णां चेति वाणीकृपाणी नूनं मायापक्षमूलं छिनत्ति ॥ १२ ॥
मूलम् - १२
वेदव्यासो न्वेष वेदो नु मूर्तो दिव्या मूर्तिर्यस्य सा सुस्मितस्य ।
तद्द्रष्ट्णां चेति वाणीकृपाणी नूनं मायापक्षमूलं छिनत्ति ॥ १२ ॥
पदार्थदीपिकोद्बोधिका
वेदव्यास इति ॥ शोभनं स्मितं यस्य तस्य श्रीमध्वस्य सा मूर्तिस् तनुर् दिव्या अलौकिकी । अतः स एष श्रीमध्वाचार्यो वेदव्यासो नुः ? वेदव्यासो वा ? मूर्तः मूर्तिमान् वेदो नु ? वेदो वा । ‘प्रश्ने विकल्पे नुस्विच्चे’ति वैजयन्ती । इति तद् द्रष्टॄणां श्रीमध्वाचार्यं दृष्टवतां जनानां वाणीकृपाणी वचनखड्गलता मायावादिनः पक्षः सिद्धान्तो मायापक्षस् तस्य मूलं छिनत्ति खण्डयति ॥ १२ ॥
मन्दोपाकारिणी
वेदव्यास इति ॥ सुस्मितस्य शोभनं स्मितम् ईषत् हासः यस्य सस् तथोक्तस् तस्य मध्वस्य सा मूर्तिस् तनुर् दिव्या सलक्षणा । अस्तीति अध्याहारः । तद्द्रष्टॄणां तादृशं मध्वाचार्यं पश्यन्तीति तत्द्रष्टारः । तेषां मध्वाचार्यं दृष्टवतां जनानाम् एषः मध्वाचार्यः वेदव्यासो नु वेदव्यासो वा, मूर्तः मूर्तिमान् वेदो नु वेदो वा, ‘नु पृच्छायां विकल्पे च’ इत्यमर इति एवंरूपा वाणीकृपाणी वाणी वाग्रूपा कृपाणी खड्गं नूनं निश्चयेन मायापक्षमूलं मायापक्षस्य मायावादसिद्धान्तस्य मूलम् आश्रयं छिनत्ति खण्डयति ‘छिदिर् द्वैधीकरणे इत्यतो लट् परस्मैपदं छिनत्ति छिन्तश् छिन्दन्ति, । अयं भावः महापण्डितं लोकविलक्षणसुन्दराकारवन्तं मध्वाचार्यं दृष्ट्वा अयं साक्षाद् वेदव्यासो वा शरीरधारी वेदो वा इति जना वदन्ति । एवं तन्माहात्म्यप्रशंसापरया जनवाचा अन्ये जनाः सर्वेऽपि अस्मच्छास्त्रम् अनादृत्य मध्वशास्त्र एव प्रवीणा भवेयुः । तेन अस्मच्छास्त्रम् अप्रकाशितं भवेत् । खड्गेन वृक्षमूलच्छेदे वृक्षस्य अभिवृद्ध्यभाववदिति मे प्रतिभातीति ॥ १२ ॥
विश्वास-प्रस्तुतिः - १३
अक्लिष्टं तत्सूत्रभाष्यं बलीयोमानोपेतं का क्षतिर्नस्तथा चेत् ।
आस्माकाः केऽप्येवमुक्त्वा विलज्जा लज्जासिन्धौ दुःसहेऽमज्जयन्नः ॥ १३ ॥
मूलम् - १३
अक्लिष्टं तत्सूत्रभाष्यं बलीयोमानोपेतं का क्षतिर्नस्तथा चेत् ।
आस्माकाः केऽप्येवमुक्त्वा विलज्जा लज्जासिन्धौ दुःसहेऽमज्जयन्नः ॥ १३ ॥
पदार्थदीपिकोद्बोधिका
अक्लिष्टमिति ॥ तेन कृतं सूत्रभाष्यं तत्सूत्रभाष्यम् अक्लिष्टम् ऋजुमार्गेण सूत्रार्थवर्णनपरं बलीयांसि यानि मानानि प्रमाणानि तैरुपेतम् । स्वोक्तार्थे बलवत्प्रमाणसहितम् इति भावः । इति केचिद्वदन्ति । तथा चेन्नः का क्षतिः? का हानिः ? अस्तु नाम तत्तथा । विगता लज्जा येषां ते विलज्जाः । अस्माकं सम्बन्धिन आस्माका अस्मद्यूथ्या इत्यर्थः । केऽपि केचिदेवं तद्भाष्यप्रशंसारूपं वाक्यमुक्तवा नोऽस्मान् दुःसहेऽसह्ये लज्जासिन्धावमज्जयन् । टु मज्ज शुद्धौ लङ् । अस्मद्यूथ्यानां केषाञ्चित् तत्प्रशंसारूपं वाक्यं श्रुत्वा वयमतितरां लज्जिता वर्तामह इति भावः ॥ १३ ॥
मन्दोपाकारिणी
अक्लिष्टमिति ॥ तन् मध्वाचार्यकृतं सूत्रभाष्यं सूत्राणां भाष्यम् अक्लिष्टम् ऋजुमार्गेण सूत्रार्थवर्णनपरं तथा बलीयोमानोपेतं बलीयांसि प्रबलानि च तानि मानानि श्रुत्यादिप्रमाणानि च बलीयोमानानि तैर् उपेतं स्वोक्तार्थे प्रबलप्रमाणसहितम् इति केचिद्वदन्ति । आस्माका अस्मद्यूथ्याः केऽपि केचिद् विलज्जा विगता लज्जा ह्रीर् येभ्यस्ते तथोक्ता ह्रीरहिताः सन्तश् चेद् यदि मध्वभाष्यं तथा पूर्वोक्तप्रकारं स्यात् तर्हि नो ऽस्माकं का क्षतिः का हानिस् तत्तथास्तु एवम् इत्थं मध्वभाष्यप्रशंसारूपं वाक्यं ‘इवेत्थमर्थयोरेवं’ इत्यमर उक्त्वा अभिधाय नो ऽस्मान् दुःसहे सोढुमशक्ये लज्जासिन्धौ ह्रीसमुद्रे ‘मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा सापत्रपान्यतः’ इत्यमरो ऽमज्जयन् मग्नानकुर्वन् ‘टु मस्जो शुद्धौ इत्यतः णिजन्ताद् लङ् परस्मैपदं’ अस्मद्यूथ्यानामेव केषाञ्चिन् मध्वभाष्यप्रशंसारूपं वाक्यं श्रुत्वा वयम् अतितरां लज्जिता वर्तामहे इति भावः ॥ १३ ॥
विश्वास-प्रस्तुतिः - १४
तस्य व्याप्तैः शिष्यजालैस्तु गौणैः संसत्सिन्धौ शङ्खचक्रादिभृद्भिः ।
मा गृह्येरन् विश्वसत्वान्तराणि क्षेमाप्त्यै नस्तत्र नीतिं विधत्त ॥ १४ ॥
मूलम् - १४
तस्य व्याप्तैः शिष्यजालैस्तु गौणैः संसत्सिन्धौ शङ्खचक्रादिभृद्भिः ।
मा गृह्येरन् विश्वसत्वान्तराणि क्षेमाप्त्यै नस्तत्र नीतिं विधत्त ॥ १४ ॥
भावप्रकाशिका
जालं समूहः जलचरबन्धकं च । गौणा माधुर्यवाग्मित्वादि-गुणसम्बन्धिनस्तन्तुकृताश्च । शङ्खचक्रं शङ्खानां कम्बूनां मण्डलं च ॥ १४ ॥
पदार्थदीपिकोद्बोधिका
तस्येति ॥ गुणानां सम्बन्धीनि गौणानि तैर् माधुर्यादि गुणवद्भिर् इत्यर्थः । व्याप्तैः सर्वदेशेषु विततैः । शङ्खश्च चक्रञ्च त आदिनि येषां तानि बिभ्रतीति तादृशैः पाञ्चजन्यसुदर्शनादिभगवल्लाञ्छनयुक्तैर् इत्यर्थः । तस्य श्रीमध्वाचार्यस्य शिष्यजालैः शिष्यसमूहैः संसत्सिन्धौ सभासमुद्रे तत्र तत्र सभास्थानाख्यसमुद्र इत्यर्थः । विश्वानि यानि सत्वानि प्राणिनस् तेषां नराणामिति यावत् । अन्तराणि मनांसि । ‘द्रव्यासुव्यवसायेषु सत्वमस्त्री तु जन्तुष्वि’त्यमरः । यथा मा गृह्येरन् न वशीक्रियेरन् तथा तत्र नीतिम् उपायं नोऽस्माकं क्षेमाप्त्यै क्षेमप्राप्त््यै अस्माच्छास्त्रादिरक्षासिद्धय इत्यर्थः । प्राप्तपरिपालनं हि क्षेममित्युच्यते विधत्त कुरुत । श्लेषार्थे तु गौणैस् तन्तुमयैर् व्याप्तैर् जले प्रसृतैः शङ्खचक्रादिभृद्भिः कम्बुसमूहादिनानाजलचरचारिमद्भिर्जालैर् जलचरबन्धनैः । ‘जालं समूह आनायो गवाक्षक्षारकावपी’त्यमरः । सिन्धौ समुद्रे विश्वसत्वान्तराणि नानाप्राणि-विशेषानिवेति । मा गृह्येरन् इत्यत्र न माङ् अतो लिङ् ॥ १४ ॥
मन्दोपाकारिणी
तस्येति ॥ गौणैर् गुणानां सम्बन्धिभिर् मधुरवचनसौजन्यादि-गुणवद्भिर् व्याप्तैः सर्वदेशेषु पूरितैः शङ्खचक्रादिभृद्भिः शङ्खः पाञ्चजन्यश्च चक्रं सुदर्शनं च शङ्खचक्रे ते आदिनि येषां तानि गदादिलाञ्छनानि बिभ्रतीति शङ्खचक्रादिभृतस् तैः । शरीरे शङ्खचक्रादिविष्णुलाञ्छनधारिभिस् तस्य श्रीमध्वाचार्यस्य शिष्यजालैेः शिष्या एव जालानि आनाया जलजन्तुग्राहकाः ‘आनायः पुंसि जालं स्यात्’ इत्यमरस् तैः शिष्यजालैः । संसत्सिन्धौ संसदःसभास्थानान्येव सिन्धुः समुद्रस् तस्मिन् तत्तद्देशगतसभास्थानाख्यसमुद्रे ‘सभासमितिसंसदः’ इत्यमरः विश्वसत्वान्तराणि विश्वानि च तानि सत्त्वानि जन्तवश्च विश्वसत्त्वानि तेषाम् अन्तराणि मनांसि मा गृह्येरन् यथा मा वशीक्रियेरन् वशीकृतानि न भवेयुर् इति यावत् तथा तत्र अवशीकरणविषये नीतिम् उपायं विधत्त कुरुत । किमर्थं- नो ऽस्माकं क्षेमाप्त्यै क्षेमस्य अस्मच्छास्त्रसंरक्षणस्य आप्त्यै सिद्धये प्राप्तपरिपालनं हि क्षेम इत्युच्यते मध्वाचार्यशिष्याः शङ्खचक्रादिलाञ्छनं धृत्वा तत्तद्देशान् प्रति गत्वा तत्सभास्थानगतान् सर्वमनुष्यान् प्रति मध्वभाष्यगुणान् मधुरवचनैः प्रतिपाद्य तेषां स्वशास्त्रे यथा रुचिं नोत्पादयेयुस् तथा उपायं कुरुत । तेन अस्मच्छास्त्रसंरक्षणं भवेद् इति भावः । गौणैर् गुणास् तन्तवस् तैर् अन्वितैर् व्याप्तैः प्रसारितैः शङ्खचक्रादिभृद्भिः शङ्खानां कम्बूनां चक्रः समूहः ‘चक्रो गणे चक्रवाकः’ इति विश्वः शङ्खसमूह एव आदिर् येषां ते शङ्खचक्रादयः नानामत्स्यादिजलचरास् तान् बिभ्रति गृह्णन्तीति शङ्खचक्रादिभृतस् तैः शङ्खमीनमकरादिग्राहिभिर् जालैर् आनायैर् जलचरजन्तुबन्धनैर् इत्यर्थः । सिन्धौ समुद्रे विश्वसत्त्वान्तराणि विश्वानि च तानि सत्त्वान्तराणि जलजन्तुविशेषाश्च तानीव इति श्लेषार्थः । तानि यथा वशीकृतानि भवन्ति तथा मा गृह्येरन् इति वैधर्म्यदृष्टान्तः ‘अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये । छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च’ इत्यमरः, ‘वि पूर्वाड् डु धाञ् धारणपोषणयोर् इति धातोर् लोट् परस्मैपदं धेहि धत्तं धत्त’ ‘ग्रह उपादाने इत्यतः कर्मणि लिङ् आत्मनेपदं गृह्येत गृह्येयातां गृह्येरन्’ ॥ १४ ॥
विश्वास-प्रस्तुतिः - १५
गौणैस्तर्कैर्गौणवाक्याभिगुप्तैर्गौणीं बुद्धिं वर्धयन्ते नृणां ते ।
हंसानां नो वाग्विघातप्रवीणाः सिन्धुं भूयोवारिवर्षैरिवाब्दाः॥ १५ ॥
मूलम् - १५
गौणैस्तर्कैर्गौणवाक्याभिगुप्तैर्गौणीं बुद्धिं वर्धयन्ते नृणां ते ।
हंसानां नो वाग्विघातप्रवीणाः सिन्धुं भूयोवारिवर्षैरिवाब्दाः॥ १५ ॥
पदार्थदीपिकोद्बोधिका
गौणैरिति ॥ हंसानां परमहंसाश्रमिणां नोऽस्माकं वाचां ब्रह्मणो निर्गुणत्वप्रतिपादकवाक्यानां विघातो निराकरणं तस्मिन् प्रवीणा दक्षास् ते श्रीमध्वशिष्याः । गुणानां प्रतिपादकानि गौणानि तादृशानि यानि वाक्यानि ‘मय्यनन्तगुणेऽनन्ते’, ‘‘अथ कस्मादुच्यते ब्रह्मेति’’, ‘‘बृहन्तोऽह्यस्मिन् गुणाः’’ इत्यादीनि भगवतोऽनन्तगुणत्वसम्पादकवाक्यानि तैर् अभिगुप्तै रक्षितैः । गुणानां प्रतिपादका गौणास् तैर् ब्रह्मणः सगुणत्वसाधकैर् इत्यर्थः । तर्कैर् ब्रह्म सगुणं भवितुमर्हति वस्तुत्वाद् घटवदित्यादि अनुमानैर् इत्यर्थः । नृणां पुरुषाणां गौणीं ब्रह्मणः सगुणत्वविषयिणीं बुद्धिम् । अपो जलानि ददति इति अब्दा मेघास् ते च हंसानां हंसपक्षिणां वाग्विघातप्रवीणा नो न हि सति वर्षे हंसरवः श्रूयते । भूयांसि बहुलानि च तानि वारीणि च तेषां वर्षैः ‘वर्षोऽस्त्री भारताद्यब्दवृष्टिषु प्रावृषि स्त्रियां’ इत्यभिधानम् । सिन्धुमिव समुद्रमिव नदीमिवेति वा वर्धयन्ते । न चात्र वस्तुत्वानुमानस्य कश्चित्क्षुद्रोपद्रवः ‘मय्यनन्तगुणे’ ‘अथ कस्मादुच्यते’ इत्यादि अनन्तगुणत्वोपपादकागमानुग्रहीतत्वादिति भावेन गौणवाक्याभिगुप्तैर् इत्युक्तम् ॥ १५ ॥
मन्दोपाकारिणी
गौणैरिति ॥ ते मध्वाचार्यशिष्या गौणवाक्याभिगुप्तैर् गौणानि ब्रह्मगुणप्रतिपादकानि च तानि वाक्यानि च तैर् अभिगुप्तैर् अनुगृहीतैः ‘मय्यनन्तगुणेऽनन्ते’ ‘अथ कस्मादुच्यते ब्रह्मेति’ ‘बृहन्तो ह्यस्मिन् गुणाः’ इत्यादिवचनानि भगवतोऽनन्तगुणत्वसाधकानीति ज्ञेयम् । गौणैर् गुणानां सम्बन्धिनो गौणास् तैर् ब्रह्मणः सगुणत्वसाधकैस् तर्कैर् अनुमानैः, ‘‘ब्रह्म सगुणं भवितुमर्हति वस्तुत्वाद् घटवत्’’ इत्याद्यनुमानानि ब्रह्मणः सगुणत्वसाधकानि ‘‘मय्यनन्तगुणेऽनन्ते’’ इत्याद्यागमानुगृहीतत्वेन प्रबलानीति ज्ञेयम् । नृणां पुरुषाणां गौणीं ब्रह्मणः सगुणत्वविषयिणीं बुद्धिं मतिं वर्धयन्ते अभिवर्धयन्ते ‘वृधु वर्धने इति धातोर् लट् आत्मनेपदं’ कथंभूतास् ते, हंसानां योगिनां नो ऽस्माकं वाग्विघातप्रवीणा वाचां ब्रह्मणो निर्गुणत्वसाधकानाम् उक्तीनां विघाते निराकरणे प्रवीणा निपुणाः ‘प्रवीणो निपुणोऽभिज्ञः’ इत्यमरः । के कमिव अब्दा मेघाः ‘अब्दौ जीमूतवत्सरौ’ इत्यमरः । भूयोवारिवर्षैर् भूयांसि बहूनि च तानि वारीणि उदकानि च भूयोवारीणि तेषां वर्षैर् वृष्टिभिः सिन्धुमिव समुद्रमिव मेघा अपि हंसानां हंसपक्षिणां वाग्विघातप्रवीणा मेघगर्जितैर् हंसशब्दानां परिभूयमानत्वाद् इति भावः ॥ १५ ॥
विश्वास-प्रस्तुतिः - १६
बाहुल्येन ह्येतदुक्त्वा खलु द्रागेते विश्वं व्याप्नुवन्ति प्रकामम् ।
अस्मिन्नस्मद्दर्शनापायकाले यद्वल्लोकापायकाले लयापः ॥ १६ ॥
मूलम् - १६
बाहुल्येन ह्येतदुक्त्वा खलु द्रागेते विश्वं व्याप्नुवन्ति प्रकामम् ।
अस्मिन्नस्मद्दर्शनापायकाले यद्वल्लोकापायकाले लयापः ॥ १६ ॥
भावप्रकाशिका
उक्तवा खलु न वक्तव्यम् । ‘अलंखल्वोेः प्रतिषेधयोः प्राचां क्तवे’ति ॥ १६ ॥
पदार्थदीपिकोद्बोधिका
बाहुल्येनेति ॥ एतद् विपक्षोत्कर्षकथनपरं वाक्यं बाहुल्येन विस्तरेणोक्तवा खलु न वक्तव्यं हि । ‘अलं खल्वोः प्रतिषेधयोः प्राचां क्तवे’ति प्रतिषेधवाचिनः खलुशब्दप्रयोगे क्तवाप्रत्ययः । एतद्बाहुल्येन उक्तवा प्रयोजनाभावान् न वक्तव्यमिति भावः । अस्मिन् वर्तमानतया सन्निहिते अस्माकं दर्शनं शास्त्रम् अस्मद्दर्शनं तस्य अपायस्य परिक्षयस्य काल एते तत्त्ववादिनो, द्राक् शीघ्रं विश्वं जगल्लोकापायकाले लोकक्षयकाले प्रलयकाल इत्यर्थः । लयापः प्रलयजलानि यद्वत् तद्वत् प्रकामः प्रकृष्ट इच्छा यथा भवति तथा प्रकामं व्याप्नुवन्ति ॥ १६ ॥
मन्दोपाकारिणी
बाहुल्येनेति ॥ एतद् विपक्षोत्कर्षकथनपरं वचनं बाहुल्येन विस्तरेण उक्त्वा खलु न वक्तव्यं हि ‘निषेधवाक्यालङ्कारे जिज्ञासानुनये खलु’ इत्यमरात् खलुशब्दो निषेधवचनः । ‘अलं खल्वोः प्रतिषेधयोः प्राचां क्त्वा’ इति प्रतिषेधवाचिनः खलुशब्दस्य योगे क्त्वाप्रत्ययः । प्रयोजनाभावात् किं बहुवचनेन इति भावः । फलितार्थस्तु अयं- अस्मिन् वर्तमानतया सन्निहिते अस्मद्दर्शनापायकाले अस्माकं दर्शनस्य शास्त्रस्य अपायः क्षयस् तस्य काले एते तत्त्ववादिनो मध्वाचार्यशिष्या द्राक् खटिति प्रकामं स्वेच्छया विश्वं जगद् व्याप्नुवन्ति सर्वदेशेषु ते एव भवन्ति ‘वि पूर्वाद् आप्लृ व्याप्तौ’ इत्यतः लट् परस्मैपदम् आप्नोति आप्नुत आप्नुवन्ति । कथमिव लोकापायकाले लोकानां भुवनानाम् अपायकाले क्षयकाले कल्पान्ते इत्यर्थः । लयापः लयस्य प्रलयस्य आपः जलानि यद्वद् यथा विश्वं व्याप्नुवन्ति तथेति भावः ॥ १६ ॥
विश्वास-प्रस्तुतिः - १७
आकर्ण्येत्थं तस्य वाणीमथान्यो मानी तेषां मानिनां चित्तवेत्ता ।
स्वानां चेतो नन्दयन् मन्दचेता धृष्टामुच्चैर्वाचमाचष्ट कष्टः ॥ १७ ॥
मूलम् - १७
आकर्ण्येत्थं तस्य वाणीमथान्यो मानी तेषां मानिनां चित्तवेत्ता ।
स्वानां चेतो नन्दयन् मन्दचेता धृष्टामुच्चैर्वाचमाचष्ट कष्टः ॥ १७ ॥
पदार्थदीपिकोद्बोधिका
आकर्ण्येति ॥ अथेत्थं तस्य वाणीम् आकर्ण्य मानोऽभिमान एषाम् अस्तीति मानिनस् तेषां पद्मतीर्थादीनां चित्तवेत्ता अभिप्रायवेत्ता मानी स्वयञ्च वैदुष्यादिमानी सन् मन्दं स्वल्पं चेतो बुद्धिर्यस्य सोऽन्यः कष्टस् तन्नामकः कश्चिन्मायी स्वानां स्वयूथ्यानां चेतः, जातावेकवचनं चेतांसि इति यावत् । नन्दयन् सन् धृष्टां धैर्योपेतां वाचमुच्चैर् आचष्ट उवाच । ‘चक्षिङ् व्यक्तायां वाचि’ लङ् ॥ १७ ॥
मन्दोपाकारिणी
आकर्ण्येति ॥ अथ तस्य एवं वादिनः पुरुषस्य इत्थं पूर्वोक्तप्रकारां वाणीं वाचम् आकर्ण्य निशम्य मानिनां मानो ऽभिमान एषाम् अस्तीति मानिनस् तेषां मानिनां पद्मतीर्थादीनां चित्तवेत्ता चित्तस्य हृदयस्य अभिप्रायस्य इति यावत् । वेत्ता ज्ञाता मानी स्वयं चाभिमानवान् अन्यः कश्चित् कष्टः दुष्टः स्वानां स्वकीयानां स्वयूथ्यानाम् इति यावत् । ‘आत्मीये स्वोऽस्त्रियां धने’ इत्यमरः । चेतः जातौ एकवचनं चेतांसि इत्यर्थः । नन्दयन् सुखयन् मन्दचेता मन्दम् अल्पं चेतश् चित्तं यस्य सस् तथोक्तस् तादृशः सन् धृष्टां धार्ष्ट्योपेतां वाचं वाणीम् उच्चैर् उच्चध्वनिना आचष्ट अवोचत् ‘आङ् पूर्वाच् चक्षिङ् व्यक्तायां वाचीति धातोर् लङ् आत्मनेपदम् अचष्ट अचक्षाताम् अचक्षत’ ॥ १७ ॥
विश्वास-प्रस्तुतिः - १८
तेजःशङ्कामात्रतो यद्विलीनं धिग्भीरूणां मानसं मानहीनम् ।
एकान्तेन प्राप्ततेजोविलीनं स्थेयो यस्माद्भाति हैयङ्गवीनम्॥ १८ ॥
मूलम् - १८
तेजःशङ्कामात्रतो यद्विलीनं धिग्भीरूणां मानसं मानहीनम् ।
एकान्तेन प्राप्ततेजोविलीनं स्थेयो यस्माद्भाति हैयङ्गवीनम्॥ १८ ॥
पदार्थदीपिकोद्बोधिका
तेज इति ॥ यन् मानसं, तेजोऽस्तीति शङ्का तेजःशङ्का, केवलं तेजःशङ्का तेजःशङ्कामात्रं तस्मात् । प्रतिवादिनः सामर्थ्यातिशयो वर्तत इति शङ्कामात्रत एव इत्यर्थः विलीनं द्रवीभूतं भवति भयशीलं भवतीत्यर्थः । भीरूणाम् अधीराणां मानहीनम् अभिमानरहितं तन्मानसं मनो धिक् । यस्माद् भीरूणां मानसाद् एकान्तेन नियमेन प्राप्तं सम्बद्धं यत्तेजोऽग्निस्तेन विलीनं द्रवीभूतं हैयङ्गवीनं नूतनघृतम् । ‘तत्तु हैयङ्गवीनं यत् ह्योगोदोहोद्भवं घृतमि’त्यमरः । स्थेयोऽतिस्थिरं भाति प्रकाशते । अयं भावः हैयङ्गवीनम् अपि सम्यगग्न््यादितेजःसम्बन्धे सत्येव विलीयते न तु तेजःशब्दमात्रेण । भीरूणां मनस्तु विपक्षशब्दमात्रश्रवणाद्बिभेति । तस्माद्धैयङ्गवीनादपि भीरूणां मानस-मतिचपलमिति । स्थेय इत्यत्र ‘प्रियस्थिरे’त्यादिना स्थिरशब्दस्य स्थः । द्विवचनेत्यादिना ईयसुन्प्रत्ययश्च ॥ १८ ॥
मन्दोपाकारिणी
तेज इति ॥ यन् मानसम् अन्तःकरणं तेजःशङ्कामात्रतस् तेजसो ऽग्न्यादेः शङ्कामात्रतो ऽस्तीति ज्ञानादेव न तु तेजःसम्बन्धाद् विलीनं द्रवीभूतं भीतमिति यावद् भवति ‘ली द्रवीकरणे इति धातोः’ भीरूणाम् अधीराणां ‘अधीरे कातरस् त्रस्तौ भीरुभीरुकभीलुकाः’ इत्यमरः मानहीनम् अभिमानेन शून्यं तन् मानसं मनः धिक् निंदितं ‘धिक् निर्भर्त्सननिन्दयोः’ इत्यमरः । कुतः- यस्माद् एकान्तेन नियमेन प्राप्ततेजोविलीनं प्राप्तं सम्बद्धं च तत् तेजो ऽग्न्यादितेजश्च तेन विलीनं द्रवीभूतं हैयङ्गवीनं नूतनं घृतं ‘तत्तु हैयङ्गवीनं यद् ह्योगोदोहोद्भवं घृतं’ इत्यमरः स्थेयः भीरूणां मानसापेक्षया स्थिरतरं भाति प्रतीयते अतो धिक् इत्यर्थः । अयं भावः हैयङ्गवीनमपि सम्यक् अग्न्यादितेजःसम्बन्धसत्वे एव द्रवीभूतं भवति न तु तेजःशब्दश्रवणमात्रेण । भीरूणां भवतां मनस्तु शब्दश्रवणमात्रेण बिभेति तस्माद् भवतां मानसं हैयङ्गवीनापेक्षया अतिचपलम् इत्यतो धिक् इति ‘भा दीप्तौ इत्यतो लट् परस्मैपदं भाति भातः भान्ति’ ॥ १८ ॥
विश्वास-प्रस्तुतिः - १९
येषां विद्या शाङ्करी शङ्करी नो देवादीनां बाध्यतां साधयन्ती ।
शौक्रीवालं लज्जयेद्देवपूज्यं तेषामेषां सन्निधौ को विषादः॥ १९ ॥
मूलम् - १९
येषां विद्या शाङ्करी शङ्करी नो देवादीनां बाध्यतां साधयन्ती ।
शौक्रीवालं लज्जयेद्देवपूज्यं तेषामेषां सन्निधौ को विषादः॥ १९ ॥
भावप्रकाशिका
बाध्यतां बाधज्ञानगम्यतां बाध्यतां च ॥ १९ ॥
पदार्थदीपिकोद्बोधिका
येषामिति ॥ नो ऽस्माकं शं सुखं करोतीति शङ्करी, देवा आदयो येषां तेषां मनुष्यतिर्यगादीनां बाध्यतां बाधज्ञानगोचरताम् । अनिर्वाच्यताम् इत्यर्थः । साधयन्ती ब्रह्मैकमेव अबाध्यमन्यत्सर्वं ब्रह्मापरोक्षज्ञानेन बाध्यत इति हि मायिना स्वशास्त्रे समर्थितम् । या शाङ्करी विद्या देवपूज्यं बृहस्पतिं शौक्रीव शुक्रसम्बन्धिनीव । देवदेवानुगादीनां पीड्यतां साधयन्ती कृत्यप्रयोगादिरूपा शुक्रविद्या देवगुरुं देवादीनां पीड्यताभावविधानाक्षमं यथा लज्जयेत् । तद्द्वल्लज्जयेत् । देवगुरुविद्यापि न शङ्करविद्यासदृशीत्यर्थः । सा शङ्कराचार्यसम्बन्धिनी विद्या, तत्कृत शारीरकभाष्यादि-रूपशास्त्रं येषां पद्मतीर्थादीनाम् अस्ति तेषामेषां पद्मतीर्थादीनां सन्निधौ अस्माकं को विषादः ? किं भयम्? ॥ १९ ॥
मन्दोपाकारिणी
येषामिति ॥ येषां पद्मतीर्थादीनां शाङ्करी शङ्करस्य इयं शाङ्करी शङ्कराचार्यसम्बन्धिनी विद्या वर्तते तेषाम् एषां पद्मतीर्थादीनां सन्निधौ सन्निकर्षे ‘सन्निधिः सन्निकर्षणं’ इत्यमरः । को विषादो ऽस्माकं का भीतिः । कथंभूता विद्या नो ऽस्माकं शङ्करी शं सुखं करोतीति शङ्करी, पुनः कथंभूता देवादीनां देवमानवदानवादीनां बाध्यतां बाधकज्ञानगोचरतां साधयन्ती ब्रह्मैक्यमेव अबाध्यं तदन्यत् सर्वं ब्रह्मापरोक्षज्ञानेन बाध्यते इति हि मायिना स्वशास्त्रे समर्थितं या शाङ्करी विद्या देवपूज्यं बृहस्पतिं लज्जयेद् अपहसेद् देवगुरुबृहस्पतिविद्यापि न शङ्कराचार्यविद्यासदृशीति भावः । केन देवादीनां देवदेवानुगादीनां बाध्यतां पीड्यतां साधयन्ती कुर्वन्ती, शौक्री शुक्रस्य इयं शौक्री शुक्राचार्यसम्बन्धिनी विद्या कृत्याप्रयोगादिरूपा आभिचारिकविद्येव सा यथा देवपूज्यं बृहस्पतिं लज्जयेत् तिरस्कुर्याद् देवदेवानुगादीनां बाध्यताविधानक्षमत्वात् तथा इयमपि विद्या इति । ‘इव यद्वा यथा शब्दा उपमानार्थवाचकाः’ इत्यभिधानम् ॥ १९ ॥
विश्वास-प्रस्तुतिः - २०
यद्यद्वैतं कर्कशैर्गौणतर्कै रुद्धं साध्यं नैव भात्यस्तु तावत् ।
षट्कर्मज्ञैर्दिव्यमन्त्रौषधाढ्यैरेतैर्गुप्तान् नो न जेता हि कोऽपि ॥ २० ॥
मूलम् - २०
यद्यद्वैतं कर्कशैर्गौणतर्कै रुद्धं साध्यं नैव भात्यस्तु तावत् ।
षट्कर्मज्ञैर्दिव्यमन्त्रौषधाढ्यैरेतैर्गुप्तान् नो न जेता हि कोऽपि ॥ २० ॥
भावप्रकाशिका
पालनवशीकरणस्तम्भनविद्वेषणोच्चाटनमारणानि षट्कर्माणि ॥२०॥
पदार्थदीपिकोद्बोधिका
यदिति ॥ कर्कशैर् निराकर्तुम् अशक्यैर्गुणानां सम्बन्धिनो गौणास् तादृशा ये तर्का अनुमानानि तैः । ब्रह्म सगुणं भवितुमर्हति वस्तुत्वाद् घटवद् इत्यादिभिर् ब्रह्मणः सगुणत्वसाधकानुमानैर् इत्यर्थः । रुद्धं प्रतिरुद्धमद्वैतम् एैक्यं यदि साध्यं साधयितुं शक्यमिति नैव भाति नैव प्रकाशते । विपक्षतर्काणामतिप्रबलत्वादद्वैत समर्थनमशक्यमित्यस्मद्यूथ्यानां प्रतीयते यदीत्यर्थः । अस्तु तावत् तत्तथास्तु । तर्ह्यद्वैतसमर्थनाभावेऽस्माकं पराजयः स्यादिति चेन्नैवमाशंक्यम् । षट्कर्मज्ञैः षट् च तानि कर्माणि च तानि जानन्तीति तैः पालनवशीकरणस्तम्भनविद्वेषणोच्चाटन- मारणलक्षणषट्-कर्मज्ञैरित्यर्थः । दिव्यानि यानि मन्त्रौषधानि मन्त्राश्चौषधानि च तैराढ्यैः सम्पन्नैरेतैः पद्मतीर्थाद्यैर् गुप्तान् रक्षितान् नोऽस्मान् विजेता कश्चिन्न हि ॥ २० ॥
मन्दोपाकारिणी
यदीति ॥ कर्कशैर् निराकर्तुमशक्यैर् गौणतर्कैर् गौणैः सगुणत्वसाधकैस् तर्कैर् अनुमानैः रुद्धं प्रतिरुद्धम् औतं साध्यं साधयितुं शक्यम् इति यदि नैव भाति न प्रतीयते अस्मद्यूथ्यानामेव इति शेषः । तर्हि अस्तु तावत् तथैव तिष्ठतु ‘अस् भुवीति धातोः’ लोट् परस्मैपदम् अस्तु-स्तात् स्तां सन्तु । औतसमर्थनाभावे अस्माकं पराजयः स्याद् इति चेन् नैवं शंक्यम् । षट्कर्मज्ञैः षट् च तानि कर्माणि च षट्कर्माणि तानि जानन्तीति षट्कर्मज्ञास् तैः पालनवशीकरणस्तंभनविद्वेषणोच्चाटनमारणाख्यानि षट्कर्माणि पुनः दिव्यमन्त्रौषधाढ्यैर् मन्त्राश्च औषधानि च मन्त्रौषधानि दिव्यानि वीर्यवन्ति च तानि मन्त्रौषधानि च तैर् दिव्यमन्त्रौषधैर् आढ््यैः सम्पन्नैर् इत्यर्थः । एतैः पद्मतीर्थादिभिर् गुप्तान् संरक्षितान् ‘दिव्यमन्त्रौषधाद्यैः’ इति पाठे एतैः पद्मतीर्थादिभिः कर्तृभिर् दिव्यमन्त्रौषधाद्यैः करणैर् गुप्तान् इत्यर्थः । नो ऽस्मान् कोऽपि कश्चिदपि जेता पराभवकर्ता न हि नास्ति खलु ‘जि जये’ इत्यस्माद् धातोर् लुट् परस्मैपदं जेता जेतारौ जेतारः’ ॥ २० ॥
विश्वास-प्रस्तुतिः - २१
यद्यप्येवं न ह्युपेक्ष्यो विपक्षः किन्तु प्राप्तो नाधुनाऽऽक्रन्दकालः ।
अप्यद्वन्द्वस्वात्मबोधप्रतीतैराचार्यैर्यच्छङ्क्यते शङ्कराद्यैः ॥ २१ ॥
मूलम् - २१
यद्यप्येवं न ह्युपेक्ष्यो विपक्षः किन्तु प्राप्तो नाधुनाऽऽक्रन्दकालः ।
अप्यद्वन्द्वस्वात्मबोधप्रतीतैराचार्यैर्यच्छङ्क्यते शङ्कराद्यैः ॥ २१ ॥
पदार्थदीपिकोद्बोधिका
यद्यपीति ॥ यद्यपि एवं षट्कर्मज्ञैरेतैर्गुप्तानस्मान् कश्चिद्विजेता न । तथापि विपक्षो विरुद्धसिद्धान्त उपेक्ष्य उपेक्षार्हो न हि । यथाशक्ति नानोपायैस् तन्निराकरणे प्रयत्नः कर्तव्य एव । तर्हि विपक्षो नोपेक्ष्यश्चेत् ‘‘आदाक्रन्दं मे हन्त ृण्वन्त्वि’त्यादि वदन् तेजःशङ्कामात्रतो यद्विलीनमि’त्यादिना किमित्याक्षिप्यत इत्याशङ्क्य परिहरति – किन्त्वित्यादिना ॥ किन्तु तथाप्यधुना इदानीम् अतिसमर्थानां पद्मतीर्थादीनाम् उज्जीवनकाल इत्यर्थः । आक्रन्दकालो न प्राप्तः । तस्मात् तद्दर्शने आक्रन्दं कुर्वन्नाक्षिप्यत इति भावः । विपक्षः कुतो नोपेक्ष्यत इत्यपेक्षायामाह– अपीत्यादि ॥ भेदसमर्थनदक्षो विपक्षो ऽद्वन्द्वस्वात्मबोधप्रतीतैर्न विद्यते द्वन्द्वं सदृशं यस्य सोऽद्वन्द्व उत्तमस्तादृशो यः स्वात्मबोधः शोभनात्मज्ञानं जीवब्रह्मैक्यज्ञानमिति यावत् । तेन प्रतीतैः ख्यातैः । ‘प्रतीतः प्रथिते ख्यात’ इत्यभिधानम् । शङ्कराद्यैराचार्यैर्यद्यस्माच्छङ्क्यते । औतज्ञानवत्वेन प्रसिद्धैः शङ्कराचार्यप्रभृतिभिरपि विपक्षो निराकर्तुं शक्यते न वा इति शङ्क्यते तस्मात्प्रबलत्वाद्विपक्षो नोपेक्ष्यत इत्यर्थः । यद्वा अद्वन्द्वस्वात्मबोधप्रतीतैरित्यस्य अद्वन्द्वो द्वितीयरहितो विगलिताशेषभेदादिप्रपञ्चस्तस्य स्वात्मनः शुद्धस्य निर्गुणात्मनो बोधेन प्रतीतैर् इति वार्थः । तथा हि मायिनो निर्गुणसगुणभेदेन ब्रह्मद्वैविध्यमङ्गीकुर्वन्ति । तत्र विगलिताशेषभेदादिप्रपञ्चं निर्विशेषब्रह्मैव शुद्धं, तदपरोक्षज्ञानमेव मोक्षसाधनमिति चाहुः । अथवा अद्वन्द्वोऽसदृशः स्वः स्वतन्त्र आत्मा स्वामी श्रीहरिस्तस्य बोधो यस्य स श्रीपूर्णप्रज्ञाचार्यः प्रतीतैः प्रसिद्धैः शङ्कराद्यैर् आचार्यैर् यद्यस्मात् शङ्क्यते जेतुं शक्यते वा न वा इति शङ्क्यते । तस्मात्प्रबलत्वाद्विपक्षो मध्वाचार्यो नोपेक्ष्य इति । अद्वन्द्वः स्वात्मबोधः प्रतीतैरिति पदविभागेनास्मिन्पक्षेऽन्वयः ॥ २१ ॥
मन्दोपाकारिणी
यद्यपीति ॥ यद्यपि एवं पूर्वोक्तप्रकारेण अस्मान् विजेता कोऽपि न भवेत् । तथापि विपक्षः विरुद्धसिद्धान्त उपेक्ष्य उपेक्षां कर्तुम् अर्हः न हि, यथाशक्ति नानोपायैर् निराकरणे यत्नः कर्तव्य इति भावः । ननु तर्हि विपक्षो नोपेक्ष्यश्चेत् ‘आक्रन्दं मे हन्त ृण्वन्तु’ इति आक्रन्दं कुर्वन् पुरुषः ‘तेजःशङ्कामात्रतो यद्विलीनं’ इत्यादिना किमित्याक्षिप्यत इति आशङ्कां परिहरति-किंत्विति ॥ किन्तु तथापि अधुना इदानीम् आक्रन्दकाल आक्रन्दस्य आक्रोशस्य कालः न प्राप्तस् तस्माद् आक्रन्दं कुर्वन् पुरुषः निन्द्यत इति विपक्षो नोपेक्ष्य इत्यनेन यथाशक्ति विपक्षनिराकरणे यत्नः कार्य इत्युक्तम् । तत्कुतः सर्वथा निराकरणे एव प्रयत्नः किं न स्याद् इत्यत आह-अपीति ॥ विपक्षो ऽद्वन्द्वस्वात्मबोधप्रतीतैर् अद्वन्द्वो ऽसदृशः सु शोभन आत्मनः ब्रह्मणः बोध ऐक्यज्ञानम् अद्वन्द्वश्चासौ स्वात्मबोधश्च उत्तमब्रह्मैक्यज्ञानम् इति भावः । तेन प्रतीतैः प्रख्यातैः ‘प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः’ इत्यमरः शङ्कराद्यैः शङ्कराचार्यमुख्यैर् आचार्यैरपि यद् यस्मात् शङ्क्यते औतज्ञानित्वेन प्रसिद्धैः शङ्कराचार्यप्रभृतिभिरपि भेदसमर्थनदक्षो विपक्षः निराकर्तुं शक्यते न वा इति सन्दिह्यते तस्मात् प्राबल्याद् विपक्षनिराकरणे यथाशक्ति यत्नः कार्य इत्युक्तम् इति भावः । ‘शकि शङ्कायां’ इति धातोः कर्मणि लट् आत्मनेपदं शङ्क्यते शङ्क्येते शङ्क्यन्ते’ ॥ २१ ॥
विश्वास-प्रस्तुतिः - २२
पारम्पर्येणागतं तत्त्वशास्त्रं हन्तोत्सन्नं नूतनेनेत्युदीर्य ।
तेषां दोषा वर्णनीया विदग्धैः सन्तोऽसन्तो वाऽपि मध्यस्थलोके ॥ २२ ॥
मूलम् - २२
पारम्पर्येणागतं तत्त्वशास्त्रं हन्तोत्सन्नं नूतनेनेत्युदीर्य ।
तेषां दोषा वर्णनीया विदग्धैः सन्तोऽसन्तो वाऽपि मध्यस्थलोके ॥ २२ ॥
पदार्थदीपिकोद्बोधिका
पारम्पर्येणेति ॥ विदग्धैश् चतुरैर् अस्मदीयैः पुरुषैर् मध्यस्थस् तेषु च अस्मासु च उदासीनो यो लोको जनस् तस्मिन् । तेषां श्रीमध्वादीनां च सन्तो विद्यमाना असन्तोऽविद्यमाना वा दोषा नूतनेनेदानीन्तनेन तेन श्रीमध्वेन पारम्पर्येणानादितः परम्परयेत्यर्थः । आगतं तत्त्वशास्त्रम् औतलक्षणतत्त्वनिर्णयाख्यं यच्छास्त्रं शङ्कराचार्यशास्त्रमुत्सन्नं नाशितम् । हन्त इत्युदीर्य पूर्वम् एवम् उक्त्वा वर्णनीया पश्चात्तद्दोषा वर्णनीयास् तर्हि मध्यस्थानां तेषां तेषु अनादरो अस्मासु आदरश्च भवेदिति भावः ॥२२॥
मन्दोपाकारिणी
यथाशक्तियत्नप्रकारं दर्शयति पारम्पर्येणेति ॥ विदग्धैश् चतुरैर् अस्मदीयैः पुरुषैर् मध्यस्थलोके मध्यस्थ उदासीनश्चासौ लोकश्च जनश्च मध्यस्थलोकस् तस्मिन् ‘लोकस्तु भुवने जने’ इत्यमरो ऽस्मासु च परेषु च उदासीनजने तेषां मध्वादीनां सन्तो वा विद्यमाना वा असन्तोऽपि अविद्यमाना अपि वा दोषा दूषणानि वर्णनीयाः कथनीयाः । किं कृत्वा नूतनेन नवीनेन मध्वेन, पारम्पर्येण अनादिपरम्परया आगतं प्राप्तं तत्त्वशास्त्रं तत्त्वस्य औतरूपतत्त्वस्य शास्त्रम् औतनिर्णायकशाङ्करशास्त्रम् इति यावत् । उत्सन्नं नाशितं हन्त विषादः । इतिशब्द आद्यर्थक एवमादि ‘इति हेतुप्रकरणप्रकारादिसमाप्तिषु’ इत्यमरः । उदीर्य कथयित्वा एवं पूर्वम् उक्त्वा पश्चात्तद्दोषवर्णनेन मध्यस्थानां तेषु अनादरो भवेद् इति भावः ॥ २२ ॥
विश्वास-प्रस्तुतिः - २३
स्वाभिप्रायो ब्रह्मवत् स्यादवाच्यो मायाशक्त्या सर्वनिर्वाहसिद्धिः ।
इत्थं नीत्या शास्त्रनीत्येव बाध्यः सर्वो लोकः स्वात्मनो यः परः स्यात् ॥ २३ ॥
मूलम् - २३
स्वाभिप्रायो ब्रह्मवत् स्यादवाच्यो मायाशक्त्या सर्वनिर्वाहसिद्धिः ।
इत्थं नीत्या शास्त्रनीत्येव बाध्यः सर्वो लोकः स्वात्मनो यः परः स्यात् ॥ २३ ॥
भावप्रकाशिका
परः शत्रुरन्यश्च ॥ २३ ॥
पदार्थदीपिकोद्बोधिका
स्वाभिप्राय इति ॥ यस्मान् मायाशक्तया छद्मसामर्थ्येन सर्वनिर्वाहः परवशीकरणास्मदुत्कर्षाद्यखिलनिर्वाहस् तस्य सिद्धिः । तस्मात्तेषां श्रीमध्वादीनां दोषान् वदद्भिर् भवद्भिर् अस्मदीयैः स्वाभिप्रायोऽस्मानेव भजध्वं न तान् इत्यादिरूपात्माभिपायः ब्रह्मवद् अवाच्यः स्यात् । यथा ब्रह्म अस्मन्मतेऽवाच्यं तद्वदिति भावः । इत्थमेवं नीत्या उपायेन यदा स्वात्मनः परः प्रतिकूलः स्यात्, स सर्वोऽपि लोकः शास्त्रनीत्या इव स्वशास्त्रयुक्तयेव बाध्यः स्यात् । यथा शास्त्रयुक्तया स्वप्रतिकूलवादिजनो बाध्यो निराकर्तव्यस् तद्वदिति भावः ॥ २३ ॥
मन्दोपाकारिणी
स्वाभिप्राय इति ॥ मध्वादीनां दोषान् वदद्भिर् अस्मदीयैः स्वाभिप्रायः स्वेषाम् आत्मनाम् अभिप्रायो ऽस्मानेव भजध्वं न तान् इत्यादिरूप आशयः ‘अभिप्रायश्छन्द आशयः’ इत्यमरः । ब्रह्मवन् निर्गुणब्रह्मवद् अवाच्यः वक्तुम् अनर्हः स्याद् यथा अस्मन्मते ब्रह्म अवाच्यं तद्वन् न वक्तव्य इति भावः । कुतः यस्मान् मायाशक्त्या मायायाश् छद्मनः शक्त्या सामर्थ्येन सर्वनिर्वाहसिद्धिः सर्वस्य परवशीकरणास्मदुत्कर्षाद्य-खिलस्य निर्वाहः घटनं तस्य सिद्धिर् भवेद् अत इत्यर्थः । इत्थम् एवं नीत्या उपायेन स्वात्मनः स्वस्य यः जनः परः शत्रुः प्रतिकूल इति यावत् ‘परः स्यादुत्तमानात्मवैरिदूरेषु केवले परमव्ययमिच्छन्ति’ इति विश्वः, स्याद् भवेत् सः सर्वोऽपि लोकः बाध्यः निराकर्तव्यः । कयेव शास्त्रनीत्येव शास्त्रयुक्त्या यथा स्वप्रतिकूलवादिजनः निराकार्यस्
तथेति भावः ॥ २३ ॥
विश्वास-प्रस्तुतिः - २४
ग्रामे ग्रामे वार्यतां माननैषां पूर्वं पूर्वं सामपूर्वैरुपायैः ।
सम्प्राप्तानां मानभङ्गाय कार्यं ग्रन्थाकर्षाद्युद्यतैरस्मदीयैः ॥ २४ ॥
मूलम् - २४
ग्रामे ग्रामे वार्यतां माननैषां पूर्वं पूर्वं सामपूर्वैरुपायैः ।
सम्प्राप्तानां मानभङ्गाय कार्यं ग्रन्थाकर्षाद्युद्यतैरस्मदीयैः ॥ २४ ॥
पदार्थदीपिकोद्बोधिका
ग्राम इति ॥ ग्रामे ग्रामे वीप्सायां द्विर्वचनं प्रतिग्रामम् इत्यर्थः । एषां तत्त्ववादिनां साम पूर्वं येषां तैः सामदानभेददण्डाख्यैरित्यर्थः । उपायैः पूर्वं पूर्वं ग्रामप्रवेशात्पूर्वमेव मानना सम्भावना वार्यताम् । आगमननमस्कारभिक्षाप्रदानादि-सम्भावनं न कर्तव्यमिति निवार्यताम् इत्यर्थः । सम्प्राप्तानां येन केनाप्युपायेन ग्रामं प्राप्तानां तेषां मानभङ्गोऽभिमानखण्डनं तस्मै उद्यतैः सन्नद्धैर् अस्मदीयैर् ग्रान्थाकर्षो ग्रन्थानामा-कर्षणमादिर् यस्य तादृशं ग्रन्थाकर्षणदण्डखण्डनताडनादिकमित्यर्थः । कार्यम् ॥ २४ ॥
मन्दोपाकारिणी
ग्रामेति ॥ ग्रामे ग्रामे वीप्सायां द्विर्वचनं प्रतिग्रामम् इत्यर्थः । एषां तत्त्ववादिनां सामपूर्वैः साम पूर्वम् आदि येषां ते सामपूर्वास् तैर् उपायैः सामभेददानदण्डाख्यैश् चतुर्भिर् उपायैर् इत्यर्थः । साम सान्त्ववचनं, भेदः परस्परविरोधोत्पादनं, दानं द्रव्यदानं, दण्डः शरीरद्रव्यदण्डनादि एवं चत्वार उपाया ज्ञेयाः । पूर्वं पूर्वं ग्रामप्रवेशात् पूर्वमेव मानना अभ्यागमननमनभिक्षाप्रदानादिरूपा सम्भावना वार्यतां निवार्यताम् इत्यर्थः । ‘वृञ् वरणे इति धातोः कर्मणि लोट् आत्मनेपदं वार्यतां वार्येतां वार्यन्तां’ सम्प्राप्तानां येन केनाप्युपायेन ग्रामं प्रविष्टानां तेषां मानभङ्गाय मानस्य अभिमानस्य भङ्गाय
खण्डनाय उद्यतैः सन्नद्धैर् अस्मदीयैः पुरुषैर् ग्रन्थाकर्षादि ग्रन्थस्य पुस्तकस्य आकर्षो ऽपहरणं तदेव आदि यस्य तद् ग्रन्थाकर्षादि । आदिशब्देन दण्डखण्डनताडनादिकं
ग्राह्यं, कार्यं कर्तव्यम् ॥ २४ ॥
विश्वास-प्रस्तुतिः - २५
इत्याद्येते कार्यमालोच्य काले चक्रुर्वक्राश्चक्रिभक्तप्रतीपम् ।
योग्या मङ्क्तुं तेऽन्यथा स्युः कथं वा दुःखोग्राम्भस्यन्धतामिस्रसिन्धौ ॥ २५ ॥
मूलम् - २५
इत्याद्येते कार्यमालोच्य काले चक्रुर्वक्राश्चक्रिभक्तप्रतीपम् ।
योग्या मङ्क्तुं तेऽन्यथा स्युः कथं वा दुःखोग्राम्भस्यन्धतामिस्रसिन्धौ ॥ २५ ॥
पदार्थदीपिकोद्बोधिका
इत्यादीति ॥ वक्रा वक्रबुद्धय एते मायिनः काले तस्मिन्काले । इति आदिर्यस्य तदित्यादि ‘पारम्पर्येणागतं’ ‘स्वाभिप्रायो ब्रह्मवत्स्यात्’ ‘ग्रामे ग्रामे वार्यतामि’ति श्लोकत्रयेण कर्तव्यतयोक्तं कार्यम् आलोच्य पुनरपि विचार्य । चक्रम् अस्यास्तीति चक्री श्रीकृष्णस् तस्य भक्तस्य मध्वस्य प्रतीपं विरोधं दोषवर्णनसम्भावना-निवारणादिकं चक्रुः । अन्यथा तत्प्रतीपकरणाभावे ते मायिनः दुःखमेवोग्राम्भो यस्मिंस्तस्मिन्नन्धतामिस्रमेव सिन्धुस् तस्मिन् मङ्क्तुं मज्जनाय कथं वा योग्याः स्युः ? तमोयोग्याना• तेषां तमसि मज्जनं तावदावश्यकम् । तच्च श्रीहरिमुख्यप्राणद्वैषैकसाध्यम् । ‘द्वेषादृते न हि हरौ तमसि प्रवेशः प्राणे चे’त्युक्तेस् तत् प्रतीपकरणं तेषां
युक्तमिति भावः ॥ २५ ॥
मन्दोपाकारिणी
इत्यादीति ॥ वक्राः कुटिलबुद्धय एते मायिनः काले रूप्यपीठे व्याख्यानादुत्कर्षेण मध्वाचार्यस्थितिकाले । इत्यादि इति पूर्वोक्तम् आदि यस्य तद् इत्यादि । कार्यं कर्तव्यम् आलोच्य पुनरपि विचार्य, चक्रिभक्तप्रतीपं चक्रं सुदर्शनचक्रम् अस्यास्तीति चक्री चक्रिणश् चक्रधारिणः श्रीकृष्णस्य भक्तस्य मध्वाचार्यस्य प्रतीपं दोषवर्णनबहुमान-निवारणादिरूपं विरोधं चक्रुः कृतवन्तः । ‘डु कृञ् करणे इति धातोर् लिट् परस्मैपदम्’ । अन्यथा प्रतीपकरणाभावे ते मायिनः दुःखोग्राम्भसि उग्रम् असह्यं च तद् अम्भ उदकं च उग्राम्भः दुःखमेव उग्राम्भो यस्मिन् स तथोक्तस् तस्मिन् दुःखाख्योग्रजलोपेते अन्धतामिस्रसिन्धौ अन्धतामिस्राख्यश्चासौ सिन्धुः समुद्रश्च तस्मिन् मंक्तुं मज्जनाय अधःप्रवेशनाय कथं वा योग्याः स्युर् भवेयुः । तमोयोग्यानां तेषां तमसि पतनं तावदवश्यम् । तच्च हरिमुख्यप्राणद्वेषेणैव साध्यमिति श्रुत्यादौ निश्चितं तस्मान् मध्वाख्यमुख्यप्राणद्वेषकरणं तेषाम् एव युक्तम् इति भावः । ‘अस् भुवीति धातोर् विधिलिङ् परस्मैपदम्’ ॥ २५ ॥
विश्वास-प्रस्तुतिः - २६
व्रत्याकारं वासुदेवद्विषं तं प्राज्ञंमन्यं पुण्डरीकाभिधानम् ।
वादव्याजात्क्षेपकामाः कुमन्त्राश्चक्रुर्यत्नं रूप्यपीठालयेऽमी॥ २६ ॥
मूलम् - २६
व्रत्याकारं वासुदेवद्विषं तं प्राज्ञंमन्यं पुण्डरीकाभिधानम् ।
वादव्याजात्क्षेपकामाः कुमन्त्राश्चक्रुर्यत्नं रूप्यपीठालयेऽमी॥ २६ ॥
पदार्थदीपिकोद्बोधिका
व्रत्याकारमिति ॥ रूप्यपीठालये रूप्यपीठालयस्थदेवतालये मिलिता इति शेषः । वक्रा वक्रबुद्धयस् ते अमी मायिनः कुमन्त्रात् कुत्सितालोचनाद् वाद इति व्याजस्तेनाक्षेपाय निराकरणाय काम इच्छा येषां तादृशास्सन्तः । वादं कुर्म इति श्रीमध्वनिराकरणकामास्सन्त इत्यर्थः । व्रतिनो यतेराकारो वेषो यस्य तं वासुदेवद्विषं प्राज्ञमात्मानं मन्यत इति प्राज्ञंमन्यस्तम् । ‘आत्ममाने खश्’ इति खशि मुमागमः । तं प्रसिद्धं पुण्डरीक इत्यभिधानं नाम यस्य तं पुण्डरीकपुर्याख्यम् इत्यर्थः । यत्नं वादाय सन्नद्धं चक्रुः ॥ २६ ॥
मन्दोपाकारिणी
व्रत्याकारमिति ॥ रूप्यपीठालये रजतपीठपुरे मिलिता इति शेषः । कुमन्त्राः कुत्सितः मन्त्रः गुप्तवादः गौप्यविचारः येषां ते कुमन्त्राः ‘पापकुत्सेषदर्थे कुः’ इत्यमरः ‘वेदभेदे गुप्तवादे मन्त्रः’ इति च । अमी मायिनः वादव्याजात् स्वाभिप्रेताच्छादनेन आकारान्तरप्रदर्शनं व्याजश् छद्मेत्यर्थः । ‘कपटोऽस्त्री व्याजदम्भोप-धयश्छद्मकैतवे’ इत्यमरः । वादस्य वादकथया व्याजः वादं कुर्म इति छद्म तस्मात् ‘‘ल्यब्लोपनिमित्ता पञ्चमी’’ वादं निमित्तीकृत्येर्थः । क्षेपकामाः क्षेपं मध्वाचार्यनिराकरणं कामयन्त इति कामाः सन्तः व्रत्याकारं व्रतिनः यतेर् आकारः काषायकौपीनदण्ड-धारित्वरूपवेषः यस्य स तथोक्तस् तं वासुदेवद्विषं वासुदेवस्य विष्णोर् द्विट् द्वेषी तं प्राज्ञम्मन्यम् अहमेव प्राज्ञः पण्डित इत्यभिमन्यमानं तं प्रसिद्धं पुण्डरीकाभिधानं पुण्डरीक-पुरिनामकं वादिनं यत्नं यत्नवन्तं वादार्थसन्नद्धं चक्रुः ॥ २६ ॥
विश्वास-प्रस्तुतिः - २७
यद्वत् सिंहं ग्रामसिंहोऽशुचीच्छुर् हंसं काको यद्वदेवैकदृष्टिः ।
यद्वन्मायी भूरिमायुस्तरक्षुं तद्वद्विद्वद्वर्यमाह्वास्त मूढः ॥ २७ ॥
मूलम् - २७
यद्वत् सिंहं ग्रामसिंहोऽशुचीच्छुर् हंसं काको यद्वदेवैकदृष्टिः ।
यद्वन्मायी भूरिमायुस्तरक्षुं तद्वद्विद्वद्वर्यमाह्वास्त मूढः ॥ २७ ॥
पदार्थदीपिकोद्बोधिका
यद्वदिति ॥ मूढः पुण्डरीकपुरी । विद्वद्वर्यं विद्वच्छ्रेष्ठं श्रीमध्वाचार्यम् अशुचौ अपवित्रे विष्ठादाविच्छा यस्य स तथा ग्रामसिंहः शुनकः सिंहं यद्वत् । अयमपि अशुचीच्छुर् वेदादिप्रमाणविरुद्धत्वादशुचावात्मनो ब्रह्मतादात्म्येऽनुसन्धानवत्वात् । एका दृष्टिर्यस्य स तथा काकोे हंसं यद्वत् । अयमप्येकदृष्टिर् ब्रह्मैकमेव सत्यम् अन्यत् सर्वं मिथ्येति दर्शनात् । माया छद्म अस्यास्तीति मायी भूरिमायुः सृगालः । ‘स्त्रियां शिवा भूरिमायुर्गोमायुर्मृगधूर्तक’ इत्यमरः । तरक्षुं शार्दूलं यद्वत् । ‘शार्दूलद्वीपिनौ व्याघ्रोे तरक्षुस्तु मृगादन’ इत्यमरः । अयमपि मायी सर्वप्रपञ्चोपादानत्वेनेश्वराश्रिता प्रामाणिकमायाया अभ्युपगमात् । तद्वदाह्वास्त । स्पर्धायाम् आङ् इत्याङ् पूर्वाध्वयतेरात्मनेपदम् ॥ २७ ॥
मन्दोपाकारिणी
यद्वदिति ॥ मूढः मध्वमाहात्म्याज्ञानी ‘अज्ञे मूढयथाजात मूर्खवैदेहबालिशाः’ इत्यमरः । पुण्डरीकपुरिर् विद्वद्वर्यं विदुषां पण्डितानां वर्यं श्रेष्ठं श्रीमध्वाचार्यं तद्वत् तथा आह्वास्त स्पर्धया वादाय आहूतवान् । स्पर्धायाम् आङ् इत्याङ् पूर्वात् ह्वेञ् स्पर्धयां शब्दे च इत्यतो धातोर् लुङ् आत्मनेपदम् आह्वास्त आह्वासाताम् आह्वासत’ कथमिवाह्वास्त- अशुचीच्छुर् अशुचिम् अपवित्रम् उच्छिष्टादिकम् इच्छति कामयते इति अशुचीच्छुर् ग्रामसिंहः सारमेयः सिंहं मृगेन्द्रं यद्वद् यथा । अयमपि मायी अशुचीच्छुर् वेदादिप्रमाणविरुद्धत्वेन अशुचेर् ब्रह्मात्म्यैक्यस्य कामनात् । पुनः कथमिव, एकदृष्टिर् एका दृष्टिश् चक्षुरिन्द्रियं यस्य स तथोक्तः काकः हंसं यद्वद् अयमपि एकदृष्टिर् ब्रह्मात्मैक्यमेव सत्यम् अन्यत्सर्वं मिथ्येति ज्ञानवान् । पुनः कथमिव मायी छद्मवान् भूरिमायुः ृगालस् तरक्षुं शार्दूलं तद्वद् आह्वास्त ‘शार्दूलद्वीपिनौ व्याघ्रौ तरक्षुस्तु मृगादनः’ इत्यमरः । अयमपि मायी सर्वप्रपञ्चारोपोपादानेश्वराश्रिताप्रामाणिकमायाभ्युपगमात् तद्वदिति अन्वयः ॥ २७ ॥
विश्वास-प्रस्तुतिः - २८
अप्यल्पोऽसौ न ह्युपेक्षाम्बभूवे लोलात्मेवादक्षपक्षः पतङ्गः ।
मध्वेनाहो दुस्तरेण स्वभावात् तेजोराजीराजितेनाग्निनेव॥ २८ ॥
मूलम् - २८
अप्यल्पोऽसौ न ह्युपेक्षाम्बभूवे लोलात्मेवादक्षपक्षः पतङ्गः ।
मध्वेनाहो दुस्तरेण स्वभावात् तेजोराजीराजितेनाग्निनेव॥ २८ ॥
पदार्थदीपिकोद्बोधिका
अपीति ॥ पतङ्ग इव शलभ इव लोलश् चञ्चल आत्मा मनो यस्य स तथा । अदक्षः पक्षो यस्य सो ऽदक्षपक्षः शलभो यथा आशुगमने असमर्थपतत्रवान् इत्यर्थः । तद्वत् स्वपक्षसमर्थने परपक्षनिराकरणे चासमर्थपक्षः । अत एव अल्पोऽप्यसौ पुण्डरीकपुरिः, स्वभावान्मन्त्रौषधतपोवेदविद्याजनितसामर्थ्यमनपेक्ष्य केवलस्व-रूपसामर्थ्यादेव दुस्तरेणात्येतुम् अशक्येन मध्वेन तेजोराजिस्तेजःसमूहस्तया राजित उद्भासितस् तेन अग्निना इव नोपेक्षाम्बभूवे नोपेक्षितः । अग्निमभिपतन्नल्पोऽपि पतङ्गः यथाग्निना नोपेक्ष्यते किन्तु दह्यत एव । एवम् असौ अपि मध्वेन नाल्प इत्युपेक्षित
इति भावः ॥ २८ ॥
मन्दोपाकारिणी
अपीति ॥ पतङ्ग इव शलभनामककीटविशेष इव ‘पतङ्गः शलभः सूर्ये’ इति विश्वः । लोलात्मा लोलश् चञ्चल आत्मा स्वभावो यस्य स तथोक्तः ‘लोलश्चञ्चलतृष्णयोः’ इति विश्वः । ‘आत्मा देहमनोब्रह्मस्वभावधृतिबुद्धिषु’ इति च । शलभो यथा अदक्षपक्षो ऽदक्षौ दभ्रौ पक्षौ पतत्रे यस्य स तथोक्तस् तद्वदयमपि अदक्षपक्षो ऽदक्षः स्वपक्षसमर्थने वा परनिराकरणे वा असमर्थः पक्षः सिद्धान्तो यस्य स तथोक्तः । अत एव अल्पोऽपि नीचोऽपि असौ पुण्डरीकपुरिर् मध्वेन मध्वाचार्येण नोपेक्षाम्बभूवे नोपेक्षितो हि अहो आश्चर्यम् । कथंभूतेन मध्वेन स्वभावान् मन्त्रौषधतपो-विद्यादिजनितसामर्थ्यम् अनपेक्ष्य केवलं स्वरूपसामर्थ्यादेव दुस्तरेण पराजेतुम् अशक्येन । कः केनेव पतङ्गस् तेजोराशीराजितेन तेजसां राशिः समूहस् तेन राजितेन अग्निनेव अग्नौ पतन् अल्पोऽपि पतङ्गः यथा अग्निना नोपेक्ष्यते किन्तु दह्यत एव तथा असावपि अस्य इति नोपेक्षित इति भावः ॥ २८ ॥
विश्वास-प्रस्तुतिः - २९
मानैर्मान्यैर्भासमानोऽसमानैराक्षिप्यैनं स्वं मतं साधयित्वा ।
प्रीत्यै विष्णोरुत्तमप्रीतितीर्थो वेदव्याख्यां वेदवेदी चकार ॥ २९ ॥
मूलम् - २९
मानैर्मान्यैर्भासमानोऽसमानैराक्षिप्यैनं स्वं मतं साधयित्वा ।
प्रीत्यै विष्णोरुत्तमप्रीतितीर्थो वेदव्याख्यां वेदवेदी चकार ॥ २९ ॥
पदार्थदीपिकोद्बोधिका
मानैरिति ॥ न विद्यते समानं सदृशं प्रमाणं येषां तानि असमानानि तैः प्रबलैर् इत्यर्थः । अत एव मान्यैर् मानैर् वेदादिप्रमाणैर् भासमानः विवक्षितार्थे वेदादिप्रबलप्रमाणोदाहरणेन शोभमान इत्यर्थः । वेदं वेत्तीत्ति वेदवेदी वेदज्ञ इत्यर्थः । उत्तमश्चासौ प्रीतितीर्थ आनन्दतीर्थश्च उत्तमप्रीतितीर्थ एनं स्वप्रत्यर्थिभूतं मायिनम् आक्षिप्य निराकृत्य पुनः स्वं स्वकीयं मतं सिद्धान्तं साधयित्वा पुनश्च विष्णोः प्रीत्यै वेदव्याख्यां चकार ॥ २९ ॥
मन्दोपाकारिणी
मानैरिति ॥ असमानैर् न विद्यते समानं सदृशं येषां तानि असमानानि प्रबलानि इत्यर्थस् तैः । मान्यैः सर्वेषां प्रमाणत्वेन अङ्गीकारार्हैर् मानैर् वेदादिप्रमाणैर् भासमानः विवक्षितार्थवेदादिप्रबलप्रमाणोदाहरणेन शोभमानः वेदवेदी वेदं वेदार्थं वेत्तीति वेदवेदी उत्तमप्रीतितीर्थ उत्तमश्चासौ प्रीतितीर्थ आनन्दतीर्थश्चेति तथोक्तः । एनं प्रत्यर्थिभूतं पुण्डरीकपुरिम् आक्षिप्य निराकृत्य पुनः स्वं स्वकीयं मतं सिद्धान्तं साधयित्वा पुनश्च विष्णोः प्रीत्यै वेदव्याख्यां वेदस्य व्याख्यां प्रवचनं चकार कृतवान् । पुण्डरीकपुरिणा सह वादकथायां तदुक्तसिद्धान्तं वेदादिप्रबलप्रमाणैर् निरस्य तं निरुत्तरीकृत्य ततः स्वकीयसिद्धान्तं समर्थ्य पराजितस्य गमनानन्तरं पुनरपि विष्णुप्रीत्यर्थं वेदव्याख्यानं चकार आनन्दतीर्थाचार्य इति भावः ॥ २९ ॥
विश्वास-प्रस्तुतिः - ३०
आम्नायं ये पेठुराम्नायपूर्वं प्राप्ता विप्रास्तत्र कौतूहलेन ।
पर्यासीनास्तावदाचार्यवर्यं प्रेक्ष्यं प्रेक्षाञ्चक्रिरेऽनेकसंख्याः ॥ ३० ॥
मूलम् - ३०
आम्नायं ये पेठुराम्नायपूर्वं प्राप्ता विप्रास्तत्र कौतूहलेन ।
पर्यासीनास्तावदाचार्यवर्यं प्रेक्ष्यं प्रेक्षाञ्चक्रिरेऽनेकसंख्याः ॥ ३० ॥
पदार्थदीपिकोद्बोधिका
आम्नायमिति ॥ ये आम्नायोऽनन्यथापाठः पूर्वः पुरस्सरो यथा भवति तथा आम्नायपूर्वं स्वरवर्णादीनाम् अन्यथापाठराहित्येन सहितं सत्सम्प्रदाय-पूर्वकमिति यावत् । आम्नायं वेदं पेठुः पठितवन्तः । पठ पठने लिट् । तावत्तदा वेदव्याख्यानसमय इत्यर्थः । तत्र कौतूहलं कौतुकं तेन प्राप्ता अनेका भूयसी सङ्ख्या येषां ते तथोक्तास्ते विप्रवर्याः पर्यासीनाः परित उपविष्टाः सन्तः प्रेक्ष्यं दर्शनीयम् आचार्यवर्यं प्रेक्षांचक्रिरे ददृशुः ॥ ३० ॥
मन्दोपाकारिणी
आम्नायमिति ॥ ये विप्रा ब्राह्मणा आम्नायं वेदं ‘श्रुति स्त्री वेद आम्नायः’ इत्यमरः । आम्नायपूर्वम् आम्नायाः स्वरवर्णादीनां विपरीतपाठराहित्यं ‘आम्नायोऽनन्यथापाठः’ इत्यमरः, अन्यथापाठराहित्यपूर्वकं यथा भवति तथा क्रिया-विशेषणम् एतत् । वेदाध्येतृसम्प्रदायपूर्वकम् इति यावत् । पेठुर् अधीतवन्तः ‘पठ व्यक्तायां वाचीत्यतो लिट् परस्मैदम्’ । अनेकसङ्ख्या अनेका बह्वी सङ्ख्या येषां ते तथोक्तास् ते विप्रास् तावत् तदा वेदव्याख्यानसमये तत्र रूप्यपीठे कौतूहलेन कौतुकेन प्राप्ताः समागताः सन्तः पर्यासीनाः परित आचार्यस्य समीपे समन्तत आसीना उपविष्टाः सन्तः ‘समन्ततस्तु परितः सर्वतो विष्वगित्यपि’ इत्यमरः । प्रेक्ष्यं दर्शनीयं सुन्दरम् इत्यर्थः । आचार्यवर्यम् आचार्या वेदव्याख्यातारः ‘मन्त्रव्याख्याकृदाचार्यः’ इत्यमरस् तेषां वर्यं श्रेष्ठं श्रीमदानन्दतीर्थाचार्यं प्रेक्षाञ्चक्रिरे दृष्टवन्तः । वेदोच्चारणादिश्रवणविषये सावधाना बभूवुर् इति भावः ॥ ३० ॥
विश्वास-प्रस्तुतिः - ३१
उक्ताङ्गेभ्यः कादिकान् व्यञ्जयन्तं तत्तन्मात्राव्यञ्जनादौ प्रवीणम् ।
तिस्त्रोऽवस्थास्तद्गुणैर्भावयन्तं देवा दृष्ट्वा व्यस्मरन् देवदेवम् ॥ ३१ ॥
मूलम् - ३१
उक्ताङ्गेभ्यः कादिकान् व्यञ्जयन्तं तत्तन्मात्राव्यञ्जनादौ प्रवीणम् ।
तिस्त्रोऽवस्थास्तद्गुणैर्भावयन्तं देवा दृष्ट्वा व्यस्मरन् देवदेवम् ॥ ३१ ॥
भावप्रकाशिका
उक्ताङ्गेभ्यः कादिकान् ‘अकुहविसर्जनीयानां कण्ठ’ इत्याद्युक्तस्थानेभ्यः ककारादीन् , ‘ब्रह्मा शिरसि, ललाटे रुद्र’ इत्याद्युक्ताङ्गेभ्यो ब्रह्मादि-कान् व्यञ्जयन्तम् । तत्तन्मात्राव्यञ्जनादौ कादीनामुचितमात्रानुकूल्येन व्यञ्जने अपरुष-व्यक्तत्वे च । आदिशब्दात्‘‘एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं त्वर्धमात्रकम् । यथा व्याघ्री हरेत्पोतं दंष्ट्राभ्यां न तु पीडयेत् । भीता पतनभेदाभ्यां तद्वद्वर्णान् प्रयोजयेत्’ इति च । अपरुषव्यक्तत्वे शब्दतन्मात्रादिसृष्टौ भूतादिसृष्टौ च । किं बहुना तिस्रोऽवस्थास्तद्गुणैः पश्यन्ती मध्यमा वैखरीति शब्दस्फोर-णसमये तिस्रोऽवस्थास्तत्तद्देवताध्यानात्मकैर्गुणैः । ‘तां पश्यन्तीं प्रथममुदितां मध्यमां बुद्धिसंस्थां वाचं चक्रे करणविशदां वैखरीं च प्रपद्ये’ इति च । सृष्टिस्थिति-संहारावस्थास्तद्गुणैस्सत्वादिभिश्च ॥ ३१ ॥
पदार्थदीपिकोद्बोधिका
उक्तेति ॥ देवा, उक्तानि यान्याङ्गानि तेभ्यः । ‘अकुहविसर्जनीयानां कण्ठ’ इत्यादिना ककारादिवर्णोच्चारणस्थानत्वेनोक्तकण्ठाद्यङ्गेभ्य इत्यर्थः । कः ककार आदिर्येषां ते यथा तान् वर्णान् व्यञ्जयन्तमुच्चारयन्तं तत्तन्मात्रा-व्यञ्जनादौ तेषां तेषां मात्रास्तत्तन्मात्रास्तासां व्यञ्जनमुच्चारणं तदादिर्यस्य स तथोक्तस्तस्मिन् । ककारादि तत्तद्वर्णानामुचितैकद्य्वादिमात्राव्यञ्जने आदिशब्देन व्यक्तत्वेन अपरुषत्वेन चोच्चारणे चेत्यर्थः । प्रवीणं चतुरम् । तथोक्तं ‘एकमात्रो भवेद्ध्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनन्त्वर्धमात्रक’मिति । व्यक्तत्वेनापरुषत्वेनोच्चारण-प्रकारश्च सदृष्टान्त उच्यते– ‘यथा व्याघ्री हरेत्पोतं दंष्ट्राभ्यां न तु पीडयेत् । भीता पतनभेदाभ्यां तद्वद्वर्णान् प्रयोजयेत्’ । एवञ्चायमभिप्रायः— अर्धमात्रत्वेन ककारादि-हलामुच्चारणसमये तेषां स्थानत्वेनोक्तकण्ठताल्वाद्यंगेभ्य उच्चारणे ककारादीनां यथासम्भवं ह्रस्वदीघप्लुतात्मिकाकारादिस्वरशिरस्कत्वेनोच्चारणे तत्रापि व्यक्तत्वेनापरुषत्वेन चोच्चारणे चतुरमिति । तिस्रोऽवस्थाः पश्यन्ती मध्यमा वैखरी नाम तिस्त्रोेऽवस्थास्तासां गुणास्तद्गुणा-स्तैस्तासां पृथग्पृथगुक्तदेवताध्यानात्मकैरित्यर्थः । भावयन्तम् उत्पादयन्तं पश्यन्त्यादीनामुक्त-देवताध्यानाख्यगुणयुक्तत्वेन पश्यन्त्याद्यवस्थाश्चोत्पादयन्तमिति भावः । वेदव्याख्यानसमय एवंभूतं श्रीमध्वाचार्यं दृष्ट्वा उक्ताङ्गेभ्यः — ‘‘ब्रह्मा शिरसि, ललाटे रुद्रः,’’ ‘चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्चे’त्यादि श्रुतिभिर्ब्रह्माद्युत्पत्तिस्थान-त्वेनोक्तशिर आद्यङ्गेभ्यः कादिकान् ब्रह्मादीन् व्यञ्जयन्तं सृजन्तं तत्तन्मात्राव्यञ्जनादौ आकाशादिभूतानां तत्तन्मात्रागुणभूतशब्दादिसृष्टौ । आदिशब्देन आकाशादिपञ्चभूतसृष्टौ च प्रवीणम् । तिस्रोऽवस्थाः सृष्टिस्थितिसंहारलक्षणास्त्रिस्रोऽवस्थास् तत्तद्गुणैः सृष्ट्यादावङ्गभूतैः सत्वादिगुणैर्भावयन्तमुद्भावयन्तं देवदेवं श्रीनारायणं व्यस्मरन् ॥ ३१ ॥
मन्दोपाकारिणी
उक्तेति ॥ उक्ताङ्गेभ्यः ‘अकुहविसर्जनीयानां कण्ठः’ इत्यादि लक्षणग्रन्थे ककारादिवर्णाभिव्यक्तिस्थानत्वेन उक्तानि च तानि अङ्गानि च कण्ठताल्वाद्यवयवाश्च उक्ताङ्गानि तेभ्यः ‘अङ्गं प्रतीकोऽवयवः’ इत्यमरः । कादिकान् ककार आदिर् येषां ते कादिकास् तान् वर्णान् व्यञ्जयन्तम् उच्चारणेन व्यक्तीकुर्वन्तं तत्तन्मात्राव्यञ्जनादौ ते ते च ते मात्रा वर्णास् तेषां वर्णानां समुचितैकमात्रादिमात्राणां व्यञ्जनं व्यक्तीकरणमेव आदि मुख्यम् आदिशब्देन वर्णानां स्पष्टत्वेनोच्चारणम् अपौरुषेयत्वेनोच्चारणं ग्राह्यं तस्मिन् प्रवीणं निपुणं ‘प्रवीणे निपुणाभिज्ञः’ इत्यमरः । एकमात्रादिलक्षणं चोक्तं ‘एकमात्रो भवेत्ध्रस्वो द्विमात्रो दीर्घ उच्यते । प्लुतो भवेत्त्रिमात्रस्तु व्यञ्जनं त्वर्धमात्रकं’ इति । अपौरुषेयत्वेनोच्चारणं नाम वर्णानां यथा पीडा न स्यात् तथोच्चारणं तत्प्रकारश्च सदृष्टान्त उक्तः ‘यथा व्याघ्री हरेत्पोेतं दंष्ट्राभ्यां न तु पीडयेत् । भीता पतनभेदाभ्यां तद्वद्वर्णान् प्रयोजयेत्’ इति । अयं भावो ऽर्धमात्रत्वेन ककारादिहकारान्तोच्चारणसमये तेषां स्थानत्वे क्लृप्तताल्वाद्यङ्गेभ्य उच्चारणे ककारादिवर्णानां, यथासम्भवम् एकमात्रादिसंज्ञिकह्रस्वदीर्घप्लुतात्मकोदात्तानुदात्तादिस्वरशिर-स्कत्वेन उच्चारणे तत्रापि व्यक्तेन अपौरुषेयत्वेन चोच्चारणे चतुरमिति । तथा शब्दरूपस्य उच्चारणसमये पश्यन्ती मध्यमा वैखरीनामिकास् तिस्रो ऽवस्था भवन्ति ‘तां पश्यन्तीं प्रथममुदितां मध्यमां बुद्धिसंस्थां वाचं चक्रे करणविशदां वैखरीं च प्रपद्ये’ इति उक्तत्वात् । तथा च तास् तिस्रोऽवस्थास् तद्गुणैस् तासां पश्यन्त्याद्यवस्थादेवतानां गुणैः पृथक्पृथगुक्त-ध्यानाख्यगुणैर् भावयन्तम् अवस्थादेवताध्यानपूर्वकम् उत्पादयन्तम् इत्यर्थः । वेदव्याख्यानसमये एतादृशं मध्वाचार्यं दृष्ट्वा देवा देवदेवं देवानां देवं स्तुत्यं नारायणं व्यस्मरन् चिन्तितवन्तः । सदृशदर्शनात् सदृशस्मरणस्य उचितत्वात् कथं मध्वाचार्यनारायणयोः सादृश्यं, कथंभूतं देवदेवम् उक्ताङ्गेभ्यः ‘ब्रह्मा शिरसि ललाटे रुद्रश् चन्द्रमा मनसोजातः’ इत्यादि श्रुतौ ब्रह्माद्युत्पत्तिस्थानत्वेनोक्तेभ्यः शिर आद्यङ्गेभ्यः कादिकान् कः ब्रह्मा आदिर् येषां ते कादिकास् तान् ब्रह्मादिदेवान् ‘कः स्यात् पितामहे ब्रघ्ने मारुते शमनेऽनले’ इत्येकाक्षर-रत्नमाला । व्यञ्जयन्तं सृजन्तं तत्तन्मात्राव्यञ्जनादौ तेषां प्रसिद्धानाम् आकाशादि भूतानां तन्मात्राणां गुणभूतशब्दस्पर्शादीनां व्यञ्जनं सृष्टिः, आदिशब्देन आकाशादिभूतसृष्टिश्च तस्मिन् प्रवीणं, तिस्रोऽवस्थाः सृष्टिस्थितिसंहारलक्षणाः, तद्गुणैस् तस्मिन् सृष्ट्यादौ अङ्गभूतैः प्रधानैः सत्वादिगुणैर् भावयन्तम् उत्पादयन्तं व्यस्मरन् ‘स्मृ स्मरणे इति धातोर् लङ् परस्मैपदम्’ ॥ ३१ ॥
विश्वास-प्रस्तुतिः - ३२
आदौ हृस्वत्वेन वत्सानुवृत्त्या मात्रापादौ वर्तयन् दृश्यमानः ।
कुर्वन्नन्याश्चाग्रयरूपा विवृत्तीर्गोविन्दश्रीरास गोविन्दभक्तः ॥ ३२ ॥
मूलम् - ३२
आदौ हृस्वत्वेन वत्सानुवृत्त्या मात्रापादौ वर्तयन् दृश्यमानः ।
कुर्वन्नन्याश्चाग्रयरूपा विवृत्तीर्गोविन्दश्रीरास गोविन्दभक्तः ॥ ३२ ॥
भावप्रकाशिका
आदौ बाल्ये ह्रस्वत्वेन ह्रस्वरूपत्वेन पादौ वर्तयन् गच्छन् मात्रा दृश्यमानश् चरणक्षमो मम शिशुरिति प्रीत्या गोवत्सानामनुवृत्त्या । अन्यगोपीश्च विगतवृत्त्यन्तराः कुर्वन् स्वलीलया हि गोविन्दः । ‘आदिह्रस्वा वत्सानुसृतिरन्त्या वत्सानुसारिणी । पाकवत्युभयह्रस्वा दीर्घमध्या पिपीलिका । अर्धमात्रा वत्सानुसृतिस्तथा वत्सानुसारिणी । पाकवती पादोना पाकमात्रा पिपीलिके’ति शिक्षायाम् । स र्इं महीं धुनिमेतो ररम्णात्सो उस्नातॄनपारयत्स्वस्ति । त उत्स्नाय धृतव्रता आदित्या इति एतासां निदर्शनम् । आदौ ह्रस्वत्वेन वत्सानुसृत्याख्यायां विवृत्तौ कालस्य मात्रापरिमाणस्य चतुरंशस्य द्वावंशौ वर्तयन् दृश्यमानोऽन्याः पाकवत्याद्याश्च विवृत्तीरग्रयरूपाः कुर्वन् न चान्यथान्वयात् श्लेषस्य न्यायभङ्ग आशङ्कनीयः । रूपाः श्लेषस्य न्यायभङ्ग आशङ्कनेऽत्राहीनेन मूले विरहितपरिकर इत्यादिवत्सम्भवात् ॥ ३२ ॥
पदार्थदीपिकोद्बोधिका
आदाविति ॥ शब्दरूपविशेषो विवृत्तिर् इत्युच्यते । तत्र आदिह्रस्वा विवृत्तिर् वत्सानुसृतिर् इत्युच्यते । अन्त्यह्रस्वा विवृत्तिर् वत्सानुसारीणी-त्युच्यते । आद्यन्तह्रस्वा पाकवती इत्युच्यते । तथा ह्युक्तं शिक्षायां— ‘आदिह्रस्वाऽनु-सृतिरन्त्या वत्सानुसारिणी । पाकवत्युभयह्रस्वा दीर्घमध्या पिपीलिके’ति । एवं च सति आदौ ह्रस्वत्वेन हेतुना वत्सानुसृत्यां वत्सानुसृत्याख्यायां विवृत्तौ मात्रापादौ मात्राया मात्राख्यपरिमाणवतः कालस्य पादौ चतुरंशवतः समुदायस्य द्वावंशौ वर्तयन्नुच्चारणेन वर्तयन् दृश्यमानो देवादिभिर्दृश्यमानः । अग्रयं रूपं यासां ता अग्रयरूपास् ता अन्याश्च पाकवत्याद्या विवृत्तीश्च कुर्वन्नुच्चारणेन प्रकटीकुर्वन् गोविन्दभक्तः श्रीकृष्णभक्तः श्रीमध्वो गोविन्दस्य श्रीरिव श्रीः कान्तिर् यस्य स गोविन्दश्रीर् आस । गोविन्दश्च आदौ बाल्ये ह्रस्वत्वेन सूक्ष्मत्वेन हेतुना वत्सानुवृत्यां गोवत्सानामनुगमने गोवत्सपालकत्वेन तेषाम् अनुगमन इत्यर्थः । पादावंध्री वर्तयञ्चालयन् । मात्रा यशोदया दृश्यमानः सञ्चारणक्षमोऽभून्मम शिशुरिति सन्तोषेण दृश्यमानः । अग््य्ररूपा उत्तमरूपा अन्याश्च गोपाङ्गना विगता वृत्तिरन्यविषयकमनोवृत्तिर्ज्ञानं यासां तास् तथा ताः स्वलीलादर्शनासक्तयां विषयान्तरास्मरणेन विगतवृत्यन्तरा इत्यर्थः वर्तयन् कुर्वंश्च आस ॥ ३२ ॥
मन्दोपाकारिणी
आदाविति ॥ शब्दस्वरूपविशेषव्यक्तिः ‘विवृत्तिः’ इत्युच्यते । शब्दोच्चारणे अनेका विवृत्तयः सन्ति । ‘आदिह्रस्वा विवृत्तिर् वत्सानुवृत्तिर् अन्त्यह्रस्वा विवृत्तिर् वत्सानुसारिणीत्युच्यते । आद्यन्तह्रस्वा विवृत्तिः पाकवती इत्युच्यते दीर्घमध्या विवृत्तिः पिपीलिकेत्युच्यते । तथोक्तं शिक्षायां ‘आदिह्रस्वा वत्सानुवृत्तिरन्त्या वत्सानुसारिणी पाकवत्युभयह्रस्वा दीर्घमध्या पिपीलिकेति’ एवं च आदौ ह्रस्वत्वेन हेतुना वत्सानुवृत्त्या वत्सानुवृत्त्याख्यया विवृत्या मात्रापादौ मात्रा नाम ह्रस्ववर्णोच्चारणकालः सा पादचतुष्टयवती ततश्च मात्राया मात्राख्यपरिमाणवतः कालस्य पादौ द्वौ अंशौ वर्तयन् उच्चारणेन प्रदर्शयन् दृश्यमानः देवादिभिर् दृश्यमानो ऽग््य्ररूपाः श्रेष्ठरूपा अन्याश्च अपरा विवृत्तीः पाकवतीपिपीलिकाख्या विवृत्तीः कुर्वन् उच्चारणेन प्रकटयन् गोविन्दभक्तः गोविन्दस्य विष्णोर् भक्तः श्रीमध्वाचार्यः गोविन्दश्रीर् गोविन्दस्य यादवकृष्णस्य श्रीरिव श्रीर् वेषरचना यस्य स तथोक्तः कृष्णसदृश इति भावः । आस बभूव ‘अस् भुवीत्यतो लिट् परस्मैपदम् आस आसतुर् आसुः’ ‘श्रीर्वेषरचना शोभा’ इत्यमरः । कथं गोविदसाम्यं- गोविन्दोऽपि आदौ बाल्ये ह्रस्वत्वेन हेतुना वत्सानुवृत्त्या वत्सानां तर्णकानां ‘वत्सस्तर्णकपुत्रादौ’ इति विश्वो ऽनुवृत्त्या पालनार्थम् अनुगमनेन निमित्तेन मात्रापादौ इत्यत्र मात्रा पादौ इति पदद्वयम् एवं च पादौ स्वाङ्घ्री वर्तयन् पादन्यासं कुर्वन् इति यावत् । मात्रा यशोदया दृश्यमानो ऽयं मम शिशुर् इति सन्तोषेण दृश्यमानस् तथा अग््य्ररूपा अन्या यशोदायाः सकाशाद् अपराश्च गोपाङ्गना विवृत्तीर् विगता वृत्तिर् अन्यविषयक-चक्षुर्वृत्तिव्यापारः याभ्यस्ता विवृत्तयस् ता गोपाङ्गनानां कृष्णलीलादर्शनेन अन्यविषय-कव्यापारस्यापगतत्वाद् इति भावः । कुर्वन् गोवत्सपालनार्थं वत्सानुगमनं कुर्वन् कृष्णः मात्रा यशोदया अन्याभिःगोपाङ्गनाभिश्च दृश्यमान इति भावः ॥ ३२ ॥
विश्वास-प्रस्तुतिः - ३३
माङ्गल्याङ्गव्यक्तभावा त्रिलोकीं रङ्गारूढा विस्मयं प्रापयन्ती ।
कृष्णेवान्या मान्यविन्यासपादा रेजे माध्वी सुस्वरा वेदवाणी॥ ३३ ॥
मूलम् - ३३
माङ्गल्याङ्गव्यक्तभावा त्रिलोकीं रङ्गारूढा विस्मयं प्रापयन्ती ।
कृष्णेवान्या मान्यविन्यासपादा रेजे माध्वी सुस्वरा वेदवाणी॥ ३३ ॥
भावप्रकाशिका
श्रेयस्करैः शिक्षाद्यङ्गैर्व्यक्ताभिप्राया । अवयवेषु स्पष्टविलासा च । अनुनासिकतया क्रियमाणा वर्धितमात्राः स्वरा रङ्गास्तैरारूढा स्वयंवरप्राङ्कणमारूढा च । स्वरा उदात्तादयश्च ॥ ३३ ॥
पदार्थदीपिकोद्बोधिका
माङ्गल्येति ॥ माङ्गल्यानि श्रेयस्कराणि यान्यङ्गानि शिक्षाद्यङ्गानि तैर्व्यक्तः भावोऽभिप्रायो यस्याः सा तथोक्ता । कृष्णा च माङ्गल्याङ्गेषु मङ्गलावयवेषु व्यक्तः स्पष्टो भावो विलासो यस्याः सा तथोक्ता । त्रिलोकीं विस्मयं प्रापयन्ती । कृष्णा च तादृशी । रङ्गारूढा अनुनासिकतया क्रियमाणा वर्धिता मात्राः स्वरा रङ्गास् तैर् आरूढा युक्ता रङ्गाख्यस्वरविशेषैर्विशिष्टेत्यर्थः । कृष्णा च स्वयं वरप्राङ्गणारूढा । मान्यः सम्भाव्यो विन्यासः समापनं येषां ते मान्यविन्यासास्तादृशाः पादा ऋचां पादा यस्याः सा मान्यविन्यासपादा ऋगुच्चारणसमये यस्य पादस्य यत्स्वरवर्णान्ततया विन्यासो भवेत्तथा तत्पादविन्यासयुक्तेत्यर्थः । कृष्णा च शोभनचरणन्यासयुक्तपादा । सु शोभनः स्वर उदात्तानुदात्तादिस्वरो यस्याः सा सुस्वरा । कृष्णा च शुकहंसस्वरवत् सुस्वरा । मध्वस्य सम्बन्धिनी माध्वी वेदवाणी वेदवाक् अन्या कृष्णेव द्रौपदीव रेजे ॥३३॥
मन्दोपाकारिणी
माङ्गल्येति ॥ माध्वी मध्वस्य इयं माध्वी मध्वाचार्येणोच्चार्यमाणा वेदवाणी वेदवाक् रेजे शुशुभे ‘राजृ दीप्तौ इत्यतो लिट् आत्मनेपदं रेजे रेजाते रेजिरे’। कथंभूता वेदवाणी- माङ्गल्याङ्गव्यक्तभावा मङ्गलान्येव माङ्गल्यानि श्रेष्ठानि च तानि अङ्गानि शिक्षाद्यङ्गानि च तैर् व्यक्तः प्रकटितः भावो ऽभिप्रायः यस्याः सा तथोक्ता । पुनः कथंभूता त्रिलोकीं त्रयाणां लोकानां समाहारस् त्रिलोकी तां विस्मयम् आश्चर्यं प्रापयन्ती ‘विस्मयोऽऽद्भुतमाश्चर्यं’ इत्यमरः । पुनः कथंभूता रङ्गारूढा अनुनासिकतया क्रियमाणा एकमात्रकद्विमात्रकाख्याः स्वरविशेषा रङ्गास् तैर् आरूढा विशिष्टा । पुनः कथंभूता मान्यविन्यासपादा मान्य उचितः विन्यासः विरामः येषां ते मान्यविन्यासाः पादा ऋक्पादा यस्याः सा मान्यविन्यासपादा । पुनः सुस्वरा शोभनाः स्वरा उदात्तादिस्वरा यस्याः सा तथोक्ता । का इव रेजे अन्या कृष्णेव द्रौपदीव ‘कृष्णा तु द्रौपदीनीलाहारक्रूरासु दृश्यते’ इति विश्वः । कथंभूता कृष्णा- माङ्गल्याङ्गव्यक्तभावा माङ्गल्येषु सुन्दरेषु ओषु हस्ताद्यवयवेषु व्यक्तः स्पष्टः भावः विलासो यस्याः सा तथोक्ता । त्रिलोकीं विस्मयं प्रापयन्ती । रङ्गारूढा रङ्गं स्वयंवरमण्टपम् आरूढा प्रविष्टा । मान्यविन्यासपादा मान्यः शोभमानः विन्यासः पादविक्षेपो ययोस् तौ पादौ यस्याः सा तथोक्ता सुस्वरा शुकहंसवत् श्राव्यस्वरयुक्ता ॥ ३३ ॥
विश्वास-प्रस्तुतिः - ३४
गाम्भीर्याद्यैर्युक्तमौदार्यकार्यैर्नानानादश्लाघ्यमुच्चारणं तत् ।
शिक्षाशिक्षालक्षणानां हि लक्ष्यं मान्यं मन्ये धन्यबुद्धेरतुल्यम् ॥ ३४ ॥
मूलम् - ३४
गाम्भीर्याद्यैर्युक्तमौदार्यकार्यैर्नानानादश्लाघ्यमुच्चारणं तत् ।
शिक्षाशिक्षालक्षणानां हि लक्ष्यं मान्यं मन्ये धन्यबुद्धेरतुल्यम् ॥ ३४ ॥
भावप्रकाशिका
शिक्षायां प्रतिपाद्यमानोच्चारणशिक्षया प्रकटितानां लक्षणानां लक्ष्यम् ॥ ३४ ॥
पदार्थदीपिकोद्बोधिका
गाम्भीर्येति ॥ औदार्यस्य कार्याणि औदार्यकार्याणि तैर् औदार्यजन्यैर् इत्यर्थः । गाम्भीर्यम् आद्यं येषां धर्माणां तानि तथोक्तानि तैर् युक्तम् । नाना प्रकारा नादा नानानादास् तैः श्लाघ्यं प्रशस्यं शिक्षाशिक्षालक्षणानां शिक्षायाः शिक्षाख्याङ्गस्य शिक्षा उच्चारणशिक्षा तस्या लक्षणानि तेषाम् । शिक्षाख्यवेदाङ्गभूतग्रन्थे प्रतिपाद्यमानयोच्चारणशिक्षया प्रकटितानां लक्षणानामित्यर्थः । लक्ष्यमुदाहरणभूतम् अत एव मान्यं सुराद्यैरपि माननीयं धन्यबुद्धेः श्रीपूर्णप्रज्ञस्य तद् उच्चारणं वेदोच्चारणम् अतुल्यम् असदृशं मन्ये ॥ ३४ ॥
मन्दोपाकारिणी
गाम्भीर्याद्यैरिति ॥ औदार्यकार्यैर् उदारस्य महतः भाव औदार्यं महत्त्वं श्रेष्ठत्वम् इति यावत् ‘उदारो दातृमहतोः’ इत्यमरः । तेन कार्यैर् जन्यैः पुरुषाणां महत्वेन हि शब्दोच्चारणे गाम्भीर्यादिगुणा उत्पद्यन्ते इति भावः । गाम्भीर्याद्यैर् गाम्भीर्यम् आद्यं येषां ते गाम्भीर्याद्या गुणास् तैर् युक्तं नानानादश्लाघ्यं नानाप्रकाराश्च ते नादा ध्वनयश्च तैः श्लाघ्यं प्रशंसनीयं पूर्वं मन्द्रध्वनिः पश्चाद् उच्चध्वनिर् इत्यादय उच्चारणे नानाविधध्वनयः ‘मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु’ इत्यमरः । शिक्षाशिक्षालक्षणानां शिक्षायां शिक्षानामकवेदाङ्गभूतग्रन्थे प्रतिपाद्यमाना च सा शिक्षा च उच्चारण-विषयकानुशासनं तया प्रकटितानि च लक्षणानि च शिक्षाशिक्षालक्षणानि तेषाम् इति विग्रहः । लक्ष्यम् उदाहरणभूतम् अत एव मान्यं सुराद्यैरपि माननीयं धन्यबुद्धेर् धन्या पूर्णा बुद्धिर् यस्य स तथोक्तः श्रीमध्वाचार्यस्य तदुच्चारणं श्रुत्युच्चारणम् अतुल्यम् असदृशम् अहं मन्ये जानामि ‘मन ज्ञाने इति धातोर् लट् आत्मनेपदं मन्ये मन्यावहे मन्यामहे’ । शिक्षारूपवेदाङ्गे एवंरूपम् उच्चारणं कुर्याद् इति उच्चारणलक्षणं विहितम् । तच्च यत्किञ्चिदुदाहरणविषयत्वेन ज्ञेयं तत्र शिक्षोक्तोच्चारणलक्षणस्य मध्वकृतवेदोच्चारणमेव मुख्योदाहरणम् इति भावः ॥ ३४ ॥
विश्वास-प्रस्तुतिः - ३५
काल्पीः क्लृप्तीर्व्यञ्जयञ्छान्दसीश्च व्यक्तं शाब्दं शास्त्रमुद्भाव्य भूयः ।
स व्याचख्यावुक्तनैरुक्तमार्गो ज्यायाञ्ज्योतिर्वेदिनां वेदमित्थम् ॥ ३५ ॥
मूलम् - ३५
काल्पीः क्लृप्तीर्व्यञ्जयञ्छान्दसीश्च व्यक्तं शाब्दं शास्त्रमुद्भाव्य भूयः ।
स व्याचख्यावुक्तनैरुक्तमार्गो ज्यायाञ्ज्योतिर्वेदिनां वेदमित्थम् ॥ ३५ ॥
पदार्थदीपिकोद्बोधिका
काल्पीरिति ॥ स श्रीमध्वः कल्पे कल्पाख्यवेदाङ्गग्रन्थे प्रतिपादिताः काल्प्यस् ताः क्लृप्तीर् वेदार्थनियमान् व्यञ्जयन् प्रकटयन् सन् । छन्दसः सम्बन्धिन्यश् छान्दस्यस् ताश् च छन्दोनामके वेदाङ्गे कथिताश्चेत्यर्थः । क्लृप्तीर् व्यञ्जयन् । शब्दानां सम्बन्धि शाब्दं शास्त्रं व्याकरणं भूयोऽञ्जसा । अव्ययानाम् अनेकार्थत्वाद् भूतशब्द आञ्जस्येऽपि वर्तते । व्यक्तं यथा भवति तथा व्यक्तम् उद्भाव्य तत्र तत्र प्रकृतशब्दस्य स्वोक्तार्थवाचकत्वेन प्रकटय्य उक्तो ऽभिहितः नैरुक्तः निरुक्ताख्यवेदाङ्गसम्बन्धी यो मार्गः वैदिकशब्दनिर्वचनप्रकारो येन स तथोक्तः । स न केवलम् एवंभूत एव, ज्योतिर् ज्योतिश्शास्त्रं विदन्तीति ज्योतिर्वेदिनस् तेषां मध्ये ज्यायान् श्रेष्ठस्सन्, वेदाङ्गभूतज्योतिश्शास्त्राभिज्ञताञ्च प्रकटयन्नित्यर्थः । इत्थम् उक्तवक्ष्यमाणप्रकारेण वेदं व्याचख्यौ । शिक्षादिषडङ्गानुसारेण वेदं व्याचख्याविति भावः ॥ ३५ ॥
मन्दोपाकारिणी
काल्पीरिति ॥ सः मध्वाचार्य इत्थम् एवं प्रकारेण वेदं व्याचख्यौ व्याख्यातवान् ‘वि आङ् पूर्वात् ख्या प्रकथने इति धातोर् लिट् परस्मैपदं चख्यौ चख्यतुश् चख्युः’ । किं कुर्वन् काल्पीः कल्पस्य इमाः काल्प्यस् ताः कल्पाख्यवेदाङ्गप्रतिपादिताः क्लृप्तीर् वेदार्थनियमान् व्यञ्जयन् प्रकटयन् छान्दसीश् छन्दस इमाश् छान्दस्यस् ताश् छान्दसीश् छन्दोनामकवेदाङ्गे कथिताः क्लृप्तीश्च व्यञ्जयन्, पुनः किं कृत्वा शाब्दं शब्दानाम् इदं शाब्दं शब्दानां साधुत्वप्रतिपादकं शास्त्रं व्याकरणाख्यवेदाङ्गं भूयः बाहुल्येन सर्वशब्देषूक्तार्थवाच-कत्वेनेति यावत् । उद्भाव्य प्रकटयित्वा कथंभूत उक्तनैरुक्तमार्गः निरुक्तस्य अयं नैरुक्तः नैरुक्तश्चासौ मार्गश्च नैरुक्तमार्ग उक्तः प्रतिपादितः नैरुक्तमार्गः निरुक्ताख्यवेदाङ्गोक्तः शब्दनिर्वचनप्रकारः येन स तथोक्तः । पुनः कथंभूतः ज्योतिर्वेदिनां ज्योतिर्नामकवेदाङ्गं विदन्ति जानन्तीति ज्योतिर्वेदिनस् तेषां ज्यायान् श्रेष्ठ एवं शिक्षादिषडङ्गानुसारेण वेदं व्याचख्यौ इति भावः ॥ ३५ ॥
विश्वास-प्रस्तुतिः - ३६
श्रौते व्याख्योच्चारणे चारुणी ते मादृग्देही वर्णयेदस्य को नु ।
वागीशानैर्वाग्विहङ्गेशजीवैर्भूर्याश्चर्यैर्वर्णिते ये प्रणम्य ॥ ३६ ॥
मूलम् - ३६
श्रौते व्याख्योच्चारणे चारुणी ते मादृग्देही वर्णयेदस्य को नु ।
वागीशानैर्वाग्विहङ्गेशजीवैर्भूर्याश्चर्यैर्वर्णिते ये प्रणम्य ॥ ३६ ॥
पदार्थदीपिकोद्बोधिका
श्रौत इति ॥ मादृक् मत्सदृशो देही पुरुषः कोऽस्य श्रीमध्वस्य चारुणी मनोहरे श्रौते श्रुतिसम्बन्धिनी, व्याख्या च उच्चारणं च व्याख्योच्चारणे वर्णयेत् । न कोऽपि वर्णयितुं समर्थ इत्यर्थः । वर्ण स्तुतौ इति धातुः । कुतः येऽमुष्य व्याख्योच्चारणे वागीशानैः सर्ववचसाम् अभिमानिभिर् भूरि बहु आश्चर्यं येषां तैर् अतिविस्मययुक्तैर् इत्यर्थः । वाग्विहङ्गेशजीवैः सरस्वतीगरुडबृहस्पतिभिः प्रणम्य श्रीमध्वं नत्वा वर्णिते स्तुते । ‘जीव आङ्गीरसो वाचस्पतिरि’त्यमरः ॥ ३६ ॥
मन्दोपाकारिणी
श्रौत इति ॥ मादृक् मत्सदृशः देही पुरुषः को नु को वा, चारुणी मनोहरे श्रौते श्रुतेर् इमे श्रौते श्रुतिसम्बन्धिनी अस्य मध्वाचार्यस्य ते व्याख्योच्चारणे व्याख्या च उच्चारणं च व्याख्योच्चारणे वर्णयेत् स्तुवीत कोऽपि न समर्थ इत्यर्थः । ‘वर्ण स्तुतौ इति धातोर् लिङ् परस्मैपदम्’ । कुतः ये अमुष्य व्याख्योच्चारणे वागीशानैर् वाचां सर्ववाचाम् ईशानैर् अभिमानिभिर् भूर्याश्चर्यैर् भूरि बहुलम् आश्चर्यं विस्मयः येषां ते तथोक्तास् तैर् वाग्विहङ्गेशजीवैर् वाक् सरस्वतीदेवी विहङ्गेशः विहङ्गानां पक्षिणां ‘खगे विहङ्गविहगविहङ्गमविहायसः’ इत्यमर ईशः स्वामी गरुडः जीवो बृहस्पतिः ‘जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः’ इत्यमरः । वाक् च विहङ्गेशश्च जीवश्च वाग्विहङ्गेशजीवास् तैः प्रणम्य मध्वाचार्यं नत्वा वर्णिते स्तुते वागभिमानिभिः सरस्वत्यादि-भिरपि आश्चर्येणैव स्तूयमानत्वात् तादृशव्याख्योच्चारणस्तुतौ मनुष्यो ऽहम् अल्पबुद्धिर् न समर्थ इति भावः ॥ ३६ ॥
विश्वास-प्रस्तुतिः - ३७
छन्दःसार्थं सार्थमत्रामुनेत्थं प्रोक्तं श्रुत्वा ब्राह्मणा ब्रह्मणेव ।
सर्वे सौम्या जिष्णुजिज्ञासयाऽमी प्राप्य प्रोचुश्चित्रकायाभिधानम् ॥ ३७ ॥
मूलम् - ३७
छन्दःसार्थं सार्थमत्रामुनेत्थं प्रोक्तं श्रुत्वा ब्राह्मणा ब्रह्मणेव ।
सर्वे सौम्या जिष्णुजिज्ञासयाऽमी प्राप्य प्रोचुश्चित्रकायाभिधानम् ॥ ३७ ॥
पदार्थदीपिकोद्बोधिका
छन्द इति ॥ सौम्याः सुप्रसन्नमुखमानसा अमी सर्वे ब्राह्मणा अत्र मिलिताशेषविद्वत्सभायां ब्रह्मणेव चतुर्मुखेनेव अमुना श्रीमध्वेन इत्थमुक्तप्रकारेण सार्थम् अर्थसहितं यथा भवति तथा प्रोक्तं छन्दस्सार्थं वेदसमूहं श्रुत्वा जिष्णुजिज्ञासया श्रीमध्वपुण्डरीकयोर् मध्ये जेता क इति ज्ञातुमिच्छया चित्रो नानावर्णः कायः देहो यस्य स चित्रकायो व्याघ्रस् तस्य अभिधानं पुण्डरीक इति नाम यस्य स चित्रकायाभिधानस् तम् । पुण्डरीकनामकम् इति यावत् । ‘व्याघ्रो द्वीपी पुण्डरीकस्तरक्षुः शार्दूलः स्याच्चित्रकायो मृगारिरिति हलः । प्राप्य स्थलान्तरवर्तिनं प्राप्य प्रोचुः ॥ ३७ ॥
मन्दोपाकारिणी
छन्द इति ॥ सौम्याः प्रसन्नमुखमानसा अमी सर्वे ब्राह्मणा अत्र मिलिता शेषविद्वत्सभायां ब्रह्मणेव चतुर्मुखेनेव अमुना श्रीमध्वाचार्येण इत्थं पूर्वोक्तप्रकारेण सार्थम् अर्थसहितं यथा भवति तथा प्रोक्तं व्याख्यातं छन्दःसार्थं छन्दसां वेदानां सार्थं समूहं ‘सार्थो वणिक् समूहे स्यादपि सन्धानमात्रके’ इति विश्वः । श्रुत्वा आकर्ण्य जिष्णु-जिज्ञासया जिष्णोर् जयिनः जिज्ञासया ज्ञातुमिच्छया श्रीमध्वपुण्डरीकपुर्योर् मध्ये जयी क इति इच्छया इत्यर्थः । चित्रकायाभिधानं चित्रकाय इति पुण्डरीकपुरि इति अभिधानं नाम यस्य स तथोक्तः ‘व्याघ्रेऽपि पुण्डरीको ना’ इत्यभिधानम् । चित्रकायशब्दस्यापि व्याघ्रवाचित्वात् पुण्डरीकपदस्थाने चित्रकाय इत्युक्तं तं पुण्डरीकपुरिं स्थलान्तरे विद्यमानं प्राप्य प्रोचुर् बभाषिरे । ‘वच परिभाषणे इत्यतो लिट् परस्मैपदम्’ ॥ ३७ ॥
विश्वास-प्रस्तुतिः - ३८
प्राज्यप्रज्ञः प्राज्यया प्रज्ञयाऽसौ हन्तावोचन्मन्त्रवर्णाभिधेयम् ।
तत्प्रत्यर्थी प्रार्थ्यते वक्तुमेतत् प्राज्ञास्माभिः श्रोतुकामैर्भवांश्च ॥ ३८ ॥
मूलम् - ३८
प्राज्यप्रज्ञः प्राज्यया प्रज्ञयाऽसौ हन्तावोचन्मन्त्रवर्णाभिधेयम् ।
तत्प्रत्यर्थी प्रार्थ्यते वक्तुमेतत् प्राज्ञास्माभिः श्रोतुकामैर्भवांश्च ॥ ३८ ॥
पदार्थदीपिकोद्बोधिका
प्राज्य इति ॥ असौ प्राज्या पूर्णा प्रज्ञा यस्य स तथोक्तः श्रीमध्वः प्राज्यया सम्पूर्णया प्रज्ञया मन्त्रवर्णो वेदस् तस्य अभिधेयो अर्थस् तम् अवोचत् । हन्त हर्षे । हे प्राज्ञ हे विद्वन् तस्य श्रीमध्वस्य प्रत्यर्थी प्रतिवादितया विरोधी तत्प्रत्यर्थी भवांश्च श्रोतुं कामो येषां तैस् त्वत्प्रवचनप्रकारं श्रोतुकामैर् अस्माभिर् एतन् मन्त्रवर्णाभिधेयं मन्त्रवर्णकथनं कर्तुं प्रार्थ्यते ॥ ३८ ॥
मन्दोपाकारिणी
प्राज्येति ॥ असौ प्राज्यप्रज्ञः प्राज्या प्रचुरा पूर्णा प्रज्ञा यस्य स तथोक्तः ‘प्रभूतं प्रचुरं प्राज्यं’ इत्यमरः । श्रीपूर्णप्रज्ञाचार्यः प्राज्यया पूर्णया प्रज्ञया मन्त्रवर्णाभिधेयं मन्त्रवर्णस्य वेदस्य अभिधेयम् अर्थम् अवोचद् उक्तवान् । हन्त हर्षे । हे प्राज्ञ विद्वन् तत्प्रत्यर्थी तस्य मध्वाचार्यस्य परिपन्थी विरोधीति यावत् । भवांश्च भवानपि श्रोतुकामैर् वेदस्य त्वत्कृतप्रवचनप्रकारं श्रोतुकामैर् अस्माभिर् एतन् मन्त्राभिधेयं वक्तुं प्रार्थ्यते याच्यते । मध्वाचार्यव्याख्यानं श्रुतम् । भवता वेदव्याख्यानं क्रियेत तत्प्रकारं श्रोष्याम इत्यूचुरिति भावः ॥ ३८ ॥
विश्वास-प्रस्तुतिः - ३९
इत्युक्तस्तैरेष विस्तारिबुद्धेः प्राप्तुं साम्यं सम्प्रवृत्तो दुरात्मा ।
हास्योऽत्राभूद्वासुदेवप्रभार्थी यद्वत् पूर्वं पौण्ड्रको वासुदेवः ॥ ३९ ॥
मूलम् - ३९
इत्युक्तस्तैरेष विस्तारिबुद्धेः प्राप्तुं साम्यं सम्प्रवृत्तो दुरात्मा ।
हास्योऽत्राभूद्वासुदेवप्रभार्थी यद्वत् पूर्वं पौण्ड्रको वासुदेवः ॥ ३९ ॥
पदार्थदीपिकोद्बोधिका
इतीति ॥ तैर् विप्रैर् इत्युक्तः । विस्तारिणी पूर्णा बुद्धिर् यस्य स विस्तारिबुद्धिः श्रीमध्वस् तस्य । साम्यं वेदव्याख्यानेन साम्यं प्राप्तुं सम्प्रवृत्तो दुरात्मा दुर्बुद्धिरेष पुण्डरीकपुरिनामा । अत्र संसदि पूर्वं वासुदेवस्य श्रीकृष्णस्य या प्रभा गरुडवाहनत्वश्रीवत्सधारित्वादिकान्तिस्तामर्थितुं शीलमस्येति तथोक्तः पुण्ड्रकस्यापत्यं पौण्ड्रकः । पुत्रिकापुत्रधर्मेण पुण्ड्रकपुत्र इत्युच्यते । वासुदेवो यद्वत् तद्वत् हास्यः परिहासविषयो अभूत् । अत्रोपमालङ्कारः ॥ ३९ ॥
मन्दोपाकारिणी
इत्युक्त इति ॥ तैर् विप्रैर् इति पूर्वोक्तप्रकारेण उक्तः प्रार्थितः सन् विस्तारिबुद्धेर् विस्तारो ऽस्या अस्तीति विस्तारिणी बुद्धिर् यस्य स तथोक्तः । तस्य पूर्णप्रज्ञाचार्यस्य साम्यं वेदप्रवचने साम्यं समानत्वं प्राप्तुं सम्प्रवृत्तः प्रयत्नं कुर्वन् दुरात्मा दुष्ट आत्मा बुद्धिर् यस्य स तथोक्तः ‘आत्मा देहमनोब्रह्मस्वभावधृतिबुद्धिषु’ इति विश्वः । एषः पुण्डरीकपुरिर् अत्र सभायां हास्यो ऽपहासविषयो ऽभूत् । क इव पूर्वं कृष्णावतारे वासुदेवप्रभार्थी वासुदेवस्य श्रीकृष्णस्य प्रभां साम्यं गरुडवाहनचतुर्भुजत्वादिरूपम्
अपेक्षते इति वासुदेवप्रभार्थी पौण्ड्रकः पौण्ड्रकाख्यः वासुदेवः यद्वद् यथा हास्योऽभूत्
तथा इत्यर्थः ॥ ३९ ॥
विश्वास-प्रस्तुतिः - ४०
आङादेशादुत्तरं रादिशब्दं श्रुत्वा नारेत्युक्तवन्तं पदं तम् ।
व्याख्यालौल्यादैतरेयादिसूक्ते पृथ्वीदेवा निन्दनीयं निनिन्दुः ॥ ४० ॥
मूलम् - ४०
आङादेशादुत्तरं रादिशब्दं श्रुत्वा नारेत्युक्तवन्तं पदं तम् ।
व्याख्यालौल्यादैतरेयादिसूक्ते पृथ्वीदेवा निन्दनीयं निनिन्दुः ॥ ४० ॥
भावप्रकाशिका
‘अग्निना रयिमश्नवदि’त्यत्र ‘ना’ इत्ययमाङादेशः । ‘आङो नास्त्रिया’मिति सूत्रात् । तां संहितां श्रुत्वा अग्नीति पदं विभज्य नारेति पदमुक्तवन्तम् । अनधीतवानपि हि पुण्डरीकपूर्ननु शाब्दिकः कथमिदं वदेदिति ॥ अतिशङ्कि मा दशमतेर्हि किङ्करी सकलस्य चोदयति शारदागिरः ॥ ४० ॥
पदार्थदीपिकोद्बोधिका
आङिति ॥ पृथ्वीदेवा ब्राह्मणाः । ऐतरेयाया ऐतरेयशाखाया आदिसूक्तम् आदौ भवं सूक्तं प्रथमसूक्तं तस्मिन् ‘अग्निमीे पुरोहितमि’ त्यस्मिन् सूक्त इत्यर्थः । तत्रापि ‘अग्निना रयिमश्नवत्पोषमेव दिवेदिवे’ इत्यस्मिन् अर्धर्चि श्रूयमाणाद् आङादेशात् । आङ् इति तृतीयैकवचनम् । आङस्तृतीयैकवचनस्य आदेश आङादेशः, ‘अग्निने’त्यत्र ‘ना’ इत्येतत् । तथा हि ‘आङो नास्त्रियाम्’ ‘घेरुत्तरस्याङो ‘ना’ इत्ययमादेशो भवत्यस्त्रियामि’त्याङो ‘ना’ इत्यादेशविधानात् । एवं च अग्निनेत्यत्राङादेशभूत ‘ने’त्यस्मादाङादेशादित्यर्थः । उत्तरं रादिशब्दं र आदिर्यस्य रादिः रादिश्चासौ शब्दश्च रादिशब्दस्तं संहितायां ‘रयिमि’त्येतं रादिशब्दं श्रुत्वा, व्याख्यालौल्यमेतत्सूक्तव्याख्यानौत्कण्ठ््यं तस्मात् । अग्निमी इत्यादेः पदविभागसमये अग्निना रयिमित्यत्र, अग्नि इति पदं विभज्य पश्चान् नार इति पदम् उक्तवन्तम् अत एव निन्दनीयं तं निनिन्दुः । शाब्दिकोऽयं पुण्डरीकपुरी कथमेवं ब्रूयादिति न शङ्कनीयम् । दशमतिकिंकर्या शारदया भ्रंशितगिरस्तथा वचनसम्भवात् । तथा ह्युक्तं– ‘अनधीतवानिव हि पुण्डरीकपूर्ननु शाब्दिकः कथमिदं वदेदिति । अतिशङ्कि मा दशमतेर्हि किङ्करी सकलस्य चोदयति शारदागिरः’ इति ॥ ४० ॥
मन्दोपाकारिणी
आङादेशादिति ॥ पृथ्वीदेवा भूदेवा ब्राह्मणा इत्यर्थः ‘विप्रश्च ब्राह्मणोऽसौ’ इत्यमरः । तं पुण्डरीकपुरिं निनिन्दुः’ निन्दितवन्तः ‘‘णिदि कुत्सायाम् इत्यतो लिट् परस्मैपदं निनिन्द निनिन्दतुर् निनिन्दुः । कथंभूतम् ऐतरेयादिसूक्ते ऐतरेयस्य ऋग्वेदस्य आदि आदिमं च तत् सूक्तं च तस्मिन् ‘अग्निमीे पुरोहितं’ इति ऋग्वेदस्य प्रथमसूक्ते तत्रापि ‘अग्निना रयिमश्नवत्’ इत्यस्मिन् अर्धर्चि श्रूयमाणाद् इति शेषः । आङादेशात् तृतीयैकवचनभूतस्य आङ्प्रत्ययस्य नादेशेन सिद्धाद् अग्निना इत्यस्मात् शब्दाद् उत्तरं परतो विद्यमानं रादिशब्दं रः रेफ आदिर् यस्य सः रादिः रादिश्चासौ शब्दः रयिशब्दश्च रादिशब्दस् तं संहितापाठकाले रयिम् इत्येतं रादिशब्दं श्रुत्वा व्याख्यालौल्याद् व्याख्यायाम् एतत् सूक्तप्रवचने लौल्यात् सतृष्णत्वाद् औत्कण्ट््यादिति यावत् ‘लोलश्च-लसतृष्णयोः’ इत्यमरः । अग्निमीे इत्यादेः पदविभागसमये अग्निना रयिम् इत्यत्र अग्निना इति तृतीयान्तपदं विभज्य रयिम् इति पदं भेत्तव्यं तथा विहितत्वात् तथा पदच्छेदप्रकारं विहाय अग्नीतिपदं विभज्य पश्चान् नारेति पदम् उक्तवन्तम् अत एव निन्दनीयं तं निनिन्दुर् इति अन्वयः । शाब्दिकोऽयं पुण्डरीकः कथम् एवं ब्रूयाद् इति न शङ्कनीयं मध्वाचार्यकिङ्कर्या शारदया भ्रंशितवाचस् तथोक्तिसंभवात् । तथा हि उक्तं ‘अनधीतवानपि हि पुण्डरीकपूर्ननु शाब्दिकः कथमिदं वदेदिति । अतिशङ्कि मा दशमतेर्हि किङ्करी सकलस्य चोदयति शारदागिरः’ इति ॥ ४० ॥
विश्वास-प्रस्तुतिः - ४१
शार्दूलाख्यां प्राप्य सम्भावितः प्राक् लोके धूर्तो मायिगोमायुरेषः ।
वादिद्वीपिध्वंसिनं मध्वसिंहं प्राप्तो हीत्थं शब्दशेषो बभूव॥ ४१ ॥
मूलम् - ४१
शार्दूलाख्यां प्राप्य सम्भावितः प्राक् लोके धूर्तो मायिगोमायुरेषः ।
वादिद्वीपिध्वंसिनं मध्वसिंहं प्राप्तो हीत्थं शब्दशेषो बभूव॥ ४१ ॥
पदार्थदीपिकोद्बोधिका
शार्दूलेति ॥ धूर्तो विप्रलम्भक एष मायिगोमायुर् मायिसृगालः शार्दूलाख्यां शार्दूल इति संज्ञां प्राप्य प्राक् श्रीमध्वप्राप्तेः पूर्वं लोके सम्भावितो मानितः । तदानीं वादिनो दुर्वादिन एव द्वीपिनो व्याघ्रास् तान् ध्वंसयितुं विजेतुं शीलमस्येति तथा तं मध्वसिंहं श्रीमध्वाख्यसिंहं प्राप्तः सन् इत्थं शब्देन शेषोऽवशेषो यस्य स तथा शब्दमात्रेण अवशिष्ट इत्यर्थः । बभूव । हि । कष्टमेतत् । अयमभिप्रायः— यथा कश्चित् ृगालो व्याघ्रोऽहम् इत्युक्त्वा भीषयन् कदाचित् सिंहं प्राप्य तन्निनादमात्रेण पलायन् नायं व्याघ्रो ऽपि तु सृगाल एवेति निश्चितोऽपि नाममात्रेण शार्दूल इत्युच्यते न तु पूर्ववद् बहुमानविषयः, एवम् अयं पुण्डरीकपुरी इत्यन्तं कालं लोके महाप्राज्ञोऽयमिति पूजितोऽपि तदा सर्वविद्वच्छ्रेष्ठं सर्वदुर्वादिभञ्जनं श्रीमध्वाचार्यं प्राप्य भग्नदर्पो भूत्वा पुण्डरीकपुरि इति नाममात्रेणावशिष्टोऽभूदिति ॥ ४१ ॥
मन्दोपाकारिणी
शार्दूलेति ॥ धूर्तः विप्रलम्भक एषः मायिगोमायुर् मायी पुण्डरीकपुरिनामा गोमायुः ृगालः शार्दूलाख्यां शार्दूल इति संज्ञां प्राप्य प्राक् श्रीमध्वाचार्यप्राप्तेः पूर्वं लोके जनमध्ये सम्भावितः पूजितः सन् तदानीं वादिद्वीपिध्वंसिनं वादिनः दुर्वादिन एव द्वीपिनः शार्दूलास् तान् ध्वंसयति भञ्जयतीति वादिद्वीपिध्वंसी तं मध्वसिंहं श्रीमध्वाचार्याख्यसिंहं प्राप्तः सन् इत्थं पूर्वोक्तप्रकारेण शब्दशेषः शब्देन शार्दूल इति नाममात्रेण शेषो ऽवशिष्टः बभूव हि आश्चर्यमेतत् । अयं भावः यथा कश्चित् ृगालः व्याघ्रोऽहम् इत्युक्त्वा लोकं भीषयन् सन् कदाचित् सिंहं प्राप्य तन्निनादमात्रेण पलायन् नायं व्याघ्रो ऽपि तु ृगाल एव इति निश्चितोऽपि नाममात्रेण शार्दूल इत्युच्यते न तु पूर्ववद् भयविषय एवम् अयं पुण्डरीकपुरिर् इयन्तं कालं लोके महाप्राज्ञो ऽयम् इति पूजितोऽपि तदा सर्वविद्वच्छ्रेष्ठं सर्वदुर्वादिभञ्जनं श्रीमध्वाचार्यं प्राप्य भग्नदर्पो भूत्वा पुण्डरीक इति नाममात्रेणावशिष्टो बभूव न तु पूर्ववत् प्राज्ञोऽयमिति पूजाविषय इति ॥ ४१ ॥
विश्वास-प्रस्तुतिः - ४२
कृष्णाभीष्टा शास्त्रविस्पष्टसंज्ञा या स्वीया श्रीः पालिता सद्द्विजेन ।
पद्माख्यासत्सैन्धवेनाहृतां तां शुश्रावाग्रयानन्दतीर्थाख्यपार्थः ॥ ४२ ॥
मूलम् - ४२
कृष्णाभीष्टा शास्त्रविस्पष्टसंज्ञा या स्वीया श्रीः पालिता सद्द्विजेन ।
पद्माख्यासत्सैन्धवेनाहृतां तां शुश्रावाग्रयानन्दतीर्थाख्यपार्थः ॥ ४२ ॥
भावप्रकाशिका
कृष्णाभीष्टा कृष्णस्य व्यासस्याभीष्टा कृष्णेवाभीष्टा च । शास्त्रमिति विस्पष्टसञ्ज्ञाऽस्याः शास्त्रे भारतादौ विस्पष्टसञ्ज्ञा च । सद्द्विजेन लिकुचशेखरेण शङ्करार्येण धौम्येन च ॥ ४२ ॥
पदार्थदीपिकोद्बोधिका
कृष्णेति ॥ अग्रयानन्दतीर्थ इति उत्तमानन्दतीर्थ इत्याख्या यस्य सोऽग्रयानन्दतीर्थाख्यः स चासौ पार्थो अर्जुनश् च सः या कृष्णाभीष्टा कृष्णस्य श्रीवेदव्यासस्य अभीष्टा शास्त्रविस्पष्टसंज्ञा शास्त्रमिति विस्पष्टा प्रसिद्धा संज्ञा नाम यस्याः सा तथोक्ता सद्द्विजेन सतां निर्दोषेण द्विजेन लिकुचकुलशेखरेण शङ्करार्यनाम्ना विप्रेण पालिता रक्षिता या स्वीया स्वसम्बन्धिनी श्रीर्लोके स्वकीर्तिप्रततिहेतुभूता स्वकृतशास्त्रपुस्तकावलिस् ताम् । पद्मतीर्थ इत्याख्या यस्य स पद्माख्यः स चासौ असत् सैन्धवश्च दुष्टजयद्रथश्च तेन हृतामपहृतां शुश्राव । स्वकीयशास्त्रात्मकं पुस्तकजातं लिकुचवंशोद्भवशङ्करार्यकरात्पद्मतीर्थेन हृतं शुश्रावेति भावः । पार्थो यथा जयद्रथेन हृतां द्रौपदीं शुश्राव तद्वदिति भावः । स च कृष्णाभीष्टा कृष्णस्याभीष्टा कृष्ण च साऽभीष्टा चेति वा । शास्त्रविस्पष्टसंज्ञा शास्त्रे भारते प्रसिद्धसंज्ञा सद्द्विजेन धौम्येन पालिता, पार्थेषु मृगयां गतेषु धौम्येन पालिता हि । स्वीया स्वकीया श्रीः सम्पद्रूपा भार्या तां यथा पार्थः सैन्धवहृतां शुश्राव तद्वदिति भावः ॥४२॥
मन्दोपाकारिणी
कृष्णेति ॥ अग्रयानन्दतीर्थाख्यपार्थो ऽग्रयः श्रेष्ठश्चासौ आनन्द-तीर्थाख्यश्च स एव पार्थो ऽर्जुनस् तां श्रियं पद्माख्यासत्सैन्धवेन असद् दुष्टश्चासौ सैन्धवः जयद्रथश्च पद्मः पद्मतीर्थ इति आख्या यस्यासौ पद्माख्यश्चासौ असत् सैन्धवश्च तेन आहृताम् अपहृतां शुश्राव श्रुतवान् । ‘ृ श्रवणे इत्यतो लिट् परस्मैपदं शुश्राव शुश्रुवतुः शुश्रुवुः’ । तां कां या कृष्णाभीष्टा कृष्णस्य वेदव्यासस्य अभीष्टा प्रिया शास्त्रविस्पष्टसंज्ञा शास्त्रम् इति विस्पष्टा प्रसिद्धा संज्ञा नाम यस्याः सा तथोक्ता । सद्विजेन सच्चासौ द्विजश्च दोषरहितब्राह्मणस् तेन सन् ज्ञानी ‘सन् सुधीः कोविदो बुधः’ इत्यमरस् तादृशेन द्विजेनेति वा लिकुचकुलशेखरेण शङ्कराचार्यनाम्ना विप्रेण पालिता रक्षिता स्वीया स्वसम्बन्धिनी श्रीर् लोके स्वकीर्तिहेतुभूता स्वप्रणीतशास्त्रपुस्तकावलिरूपा सम्पद् अभूत् ताम् इति सम्बन्धः । मध्वाचार्येण स्वकृतशास्त्रपुस्तकजातं लिकुचकुलोत्पन्नशङ्कराचार्यनामकब्राह्मणाधीनं कृत-मभूत् । अत्र पुण्डरीकस्य पराजये सति पद्मतीर्थो ऽपाहरद् इति रूप्यपीठस्थेन मध्वाचार्येण श्रुतम् इति भावः । यथा अर्जुनः जयद्रथेन अपहृतां श्रियं शुश्राव तद्वद् इति भावः । या च कृष्णाभीष्टा यादवकृष्णस्य प्रीतिविषया शास्त्रविस्पष्टसंज्ञा शास्त्रे भारते विस्पष्टा प्रसिद्धा संज्ञा नाम यस्याः सा तथोक्ता । सद्विजेन सज्जनेन विप्रेण धौम्याचार्येण पालिता पार्थेषु सर्वेषु मृगयां गतेषु सत्सु धौम्येन रक्षिता हि एवं भूता स्वीया स्वकीया श्रीर् भाग्याख्या सम्पद् अभूत् ताम् इति सम्बन्धः, ‘सम्पत्तिः श्रीश्च लक्ष्मीश्च’ इत्यमरः । व्यासार्जुनाग्निहरिकोकिलकाकशूद्रतामिस्रपक्षकलिनीलगुणेषु कृष्णः’ इति भास्करः ॥४२॥
विश्वास-प्रस्तुतिः - ४३
तूर्णं तीर्णादभ्रमार्गोऽथ सार्यः सम्प्राप्तोऽसौ गोगणैर्भीषयित्वा ।
संयम्यान्तर्यन्तृकामेन हास्यं सम्प्राप्तश्रीर्निर्जितं तं जहास ॥ ४३ ॥
मूलम् - ४३
तूर्णं तीर्णादभ्रमार्गोऽथ सार्यः सम्प्राप्तोऽसौ गोगणैर्भीषयित्वा ।
संयम्यान्तर्यन्तृकामेन हास्यं सम्प्राप्तश्रीर्निर्जितं तं जहास ॥ ४३ ॥
भावप्रकाशिका
सार्यः सश्रेष्ठः । गोगणैर्वाग्गणैः शरगणैश्च । संयम्य निरुध्य
बध्वा च । अन्तर्यन्तृकामेनान्तर्यामिणो वांछयाऽन्तःप्रेरकेण मन्मथेन च । श्रीर्जयश्रीः पाञ्चाली च ॥ ४३ ॥
पदार्थदीपिकोद्बोधिका
तूर्णमिति ॥ अथ पुस्तकाहरणश्रवणानन्तरं तूर्णम् आशु तीर्णोऽतीतोऽदभ्रमार्गो बहुयोजनमार्गो येन स तथोक्तः सार्यः श्रेष्ठः यतिसहितोऽसौ श्रीमध्वः । तं पद्मतीर्थं सम्प्राप्तः सन् गोगणैर् वचनसमूहैर् भीषयित्वा संयम्य निरुध्य निरुत्तरीकृत्येत्यर्थः । सम्प्राप्तश्रीः सम्प्राप्तजयश्रीः सन् निर्जितं पराजितं पद्मतीर्थम् । अन्तर्यन्ता नियामकोऽन्तर्यामी तस्य काम इच्छा तेन एतत्सर्वम् अन्तर्यामी वेदेति वचनेनेति भावः । हास्यं परिहासविषयं पद्मतीर्थं जहास । पार्थो यथा तूर्णं तीर्णादभ्रमार्गः सार्य आर्येण ज्येष्ठेन भीमसेनेन सहितस्तं जयद्रथं प्राप्तवान् । अन्तर्यन्तृकामेन अन्तःप्रेरकेण कामेन मन्मथेन हास्यं परदारापहाराख्यकुकर्मणापहासविषयं तं जयद्रथं जहास तद्वदिति भावः ॥ ४३ ॥
मन्दोपाकारिणी
तूर्णमिति ॥ अथ पुस्तकापहरणश्रवणानन्तरं तूर्णम् आशु ‘सत्वरं चपलं तूर्णमविलम्बितमाशु च’ इत्यमरस् तीर्णादभ्रमार्गस् तीर्णो ऽतिक्रान्तो ऽदभ्रः बहुयोजनपरिमितः मार्गः येन स तथोक्तः ‘अदभ्रं बहुलं बहु’ इत्यमरः सार्य आर्येण ज्येष्ठयतिना सहितो ऽसौ श्रीमध्वाचार्यस् तं प्राग्रयवाटाख्यग्रामस्थं पद्मतीर्थं सम्प्राप्तः सन् गोगणैर् गवां वाचां गणैः समूहैर् भीषयित्वा भयं प्रापयित्वा संयम्य निरुध्य निरुत्तरीकृत्य सम्प्राप्तश्रीः सम्प्राप्ता सम्पादिता श्रीर् जयसम्पत्तिर् येन स तथोक्तः सन् निर्जितं पराजितम् अन्तर्यन्तृकामेन अन्तर्यन्ता अन्तर्यामी तस्य कामेन अपेक्षया अन्तर्याम्यपेक्षया कृतत्वेन निमित्तेनेति यावत् हास्यं परिहासविषयं तं पद्मतीर्थं जहास अपहसितवान् । कस्मिंश्चिद् विवादविषये एतत्सर्वम् अन्तर्यामी वेद इति अन्तर्याम्यपेक्षया कृतत्वेन हेतुना स्वमतानभिमतनियम्यनियामकयोर् उभयोर् अङ्गीकाराद् अपहासविषयं पद्मतीर्थं जहास इति भावः । ‘हसे हसने इत्यतो लिट् परस्मैपदम्’ । पार्थोऽपि द्रौपदीहरणश्रवणानन्तरं तूर्णं तीर्णादभ्रमार्गः सार्य आर्येण श्रीभीमसेनेन सहितः सन् जयद्रथं प्राप्तस् तं गोगणैर् गवां बाणानां गणैर् भीषयित्वा संयम्य पाशैर् बध्वा संप्राप्तश्रीः सम्प्राप्ता जयद्रथादपनीता श्रीर् द्रौपदी येन स तथोक्तो ऽन्तर्यन्तृकामेन अन्तर्यन्ता अन्तःप्रेरकः कामः मन्मथस् तेन कामोद्रेकप्रयुक्तपरदारधर्षणाख्यकुत्सितकर्मणा निमित्तेनेति यावत् । हास्यं जयद्रथं यथा जहास तद्वद् इति भावः । ‘गौर्बाणे वृषभे चन्द्रे वाग्भूदिग्धेनुषु स्त्रियाम् । द्वयोस्तु रश्मिदृग्बाणस्वर्गवश्चाम्बुलोमसु’ इति रत्नमाला ॥ ४३ ॥
विश्वास-प्रस्तुतिः - ४४
दुष्टात्माऽसौ भद्रमेकाकिनं यः क्षेप्तुं हेतुः सौख्यदाख्यं बभूव ।
हर्यंशोऽयं तं न चक्षाम भूयस्तोके सन्ने सूकरं केसरीव ॥ ४४ ॥
मूलम् - ४४
दुष्टात्माऽसौ भद्रमेकाकिनं यः क्षेप्तुं हेतुः सौख्यदाख्यं बभूव ।
हर्यंशोऽयं तं न चक्षाम भूयस्तोके सन्ने सूकरं केसरीव ॥ ४४ ॥
भावप्रकाशिका
योऽसौ पुरा भद्रं सज्जनं क्षेप्तुं हेतुः सौभद्रं च । सौख्यदाख्यं शङ्करार्यनामानं श्रवणेन स्वसुखकरनामानं च ॥ ४४ ॥
पदार्थदीपिकोद्बोधिका
दुष्टेति ॥ अयं हर्यंशो वाय्वंशः श्रीमध्वः । ‘यमानिलेन्द्र-चन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिष्वि’त्यमरः । योऽसौ दुष्टात्मा दुष्टबुद्धिः पद्मतीर्थः । भद्रं मनोवाक्कायकर्मभिः शोभनम् एकाकिनम् असहायं सन्तं सुखमेव सौख्यं तद्ददातीति सौख्यदः स इत्याख्या यस्य स तथा तम् । शङ्कराख्यमित्यर्थः । द्विजं क्षेप्तुं निराकर्तुं हेतुर्बभूव । तं पद्मतीर्थं तोके शिशौ सन्ने मृते सति केसरी सिंहः सूकरमिव भूयः पुनः न चक्षाम । तद्विषये क्षमावान्नाभूत् । सूकरेण सिंहं वञ्चयित्वा सिंहशिशौ नाशिते सति सिंहः सूकरं न क्षाम्यति किन्तु हन्त्येव । तद्वदयं मध्वोऽपि तं न चक्षाम इति भावः । श्लेषार्थे तु यं जयद्रथम् एकाकिनं सौख्यदाख्यं स्वकीयानां युधिष्ठिरादीनां सुखप्रदनामानं सौभद्रं सुभद्रातनयं क्षेप्तुं हन्तुं हेतुर्बभूव । पद्मव्यूहद्वारि पाण्डवनिरोधात् तस्य तद्धेतुत्वम् । तं जयद्रथं हर्यंश इन्द्रांशोऽर्जुनः यथा भूयो मरणावधि न चक्षाम तद्वदिति । अत्रोपमालङ्कारः ॥ ४४ ॥
मन्दोपाकारिणी
दुष्टेति ॥ हर्यंशः हरेर् वायोर् अंशो ऽयं श्रीमध्वाचार्यस् तं पद्मतीर्थं भूयः पुनः न चक्षाम तद्विषये क्षमावान् नाभूद् इति भावः । तं कं दुष्टात्मा असौ भद्रम् असौ भद्रम् इति पदच्छेदः यो ऽसौ दुष्टात्मा दुष्ट आत्मा बुद्धिर् यस्य स तथोक्तः पद्मतीर्थः भद्रं मनोवाक्कायकर्मभिः शोभनम् एकाकिनं सहायरहितं सौख्यदाख्यं सौख्यद इति शङ्कर इति आख्या यस्य स तथोक्तस् तं द्विजं क्षेप्तुं निराकर्तुं हेतुः कारणं बभूव । यथा हर्यंशः हरेर् इन्द्रस्य अंशो ऽवतारो ऽयम् अर्जुनस् तं जयद्रथं भूयः मरणपर्यन्तं न चक्षाम तद्वद् इति भावः । ‘क्षमुष् सहने इत्यतो लिट् परस्मैपदं चक्षाम चक्षमतुश् चक्षमुः’ तं कं यः दुष्टात्मा जयद्रथ एकाकिनं सौख्यदाख्यं सौख्यं सुखं ददातीति सौख्यदा तादृशी आख्या संज्ञा यस्य स तथोक्तस् तम् अत्र सौभद्रम् इति पदच्छेदः सुभद्राया अपत्यं पुमान् सौभद्रस् तं सौभद्रम् अभिमन्युं क्षेप्तुं हन्तुं हेतुर् बभूव कौरवपाण्डवयुद्धे पद्मव्यूहद्वारि पाण्डवनिरोधात् तस्य तत् हननहेतुत्वं तोके अपत्ये ‘स्तुक् तोकस्तनयश्च नन्दनः’ इति प्राज्ञैर् अपत्यं स्मृतम् इति सन्ने सति नाशिते सति केसरी सिंहः सूकरमिव वराहमृगमिव ‘वराहः सूकरो धृष्टिः’ इत्यमरः सूकरेण सिंहं वंचयित्वा सिंहशिशौ नाशिते सति सिंहः सूकरं यथा न क्षाम्यति किन्तु हन्त्येव तद्वद् अयं मध्वाचार्योऽपि तं न चक्षाम इति भावः ‘चन्द्रे सूर्ये यमे विष्णौ वासवे दर्दुरे हये । मृगेन्द्रे वानरे वायौ दशस्वपि हरिः स्मृतः’ इति धनञ्जयः ॥ ४४ ॥
विश्वास-प्रस्तुतिः - ४५
तस्य त्रासात्प्ष्ठतस्तिष्ठतोऽभूत् क्षेमापेक्षी यो जनः प्राग्जितोऽपि ।
मध्येऽन्येषां गोततीस्तत्प्रयुक्ताः सोऽद्यज्जिष्णुः पञ्चषैर्गोविशेषैः॥ ४५ ॥
मूलम् - ४५
तस्य त्रासात्प्ष्ठतस्तिष्ठतोऽभूत् क्षेमापेक्षी यो जनः प्राग्जितोऽपि ।
मध्येऽन्येषां गोततीस्तत्प्रयुक्ताः सोऽद्यज्जिष्णुः पञ्चषैर्गोविशेषैः॥ ४५ ॥
भावप्रकाशिका
यो जनः पुण्डरीकपुरी द्रौण्यादिश्च । गोततीः पञ्चषैर्गो-विशेषैरद्यत् । तेन कृतस्योपन्यासस्यापशब्दार्थादिदोषप्रकटकैः पञ्चषैर्वाक्यैस्तमखण्डयत् । पुनः स्वयमुपन्यासं कृत्वा तमुपन्यासमखण्डयन्तं ससहायं तमप्यनुक्तिनामकनिग्रहस्थानं प्राप्तं चकार ॥ ४५ ॥
पदार्थदीपिकोद्बोधिका
तस्येति ॥ जिष्णुर् जयशीलः स श्रीमध्वाचार्यः । प्राग्जितोऽपि पराजितोऽपि यो जनः पुण्डरीकपुर्याख्यो जन त्रासात् श्रीमध्वभयात् । ‘दरस्त्रासश्च साध्वसं’ इति हलः । पृष्ठतः पश्चाद्भागे तिष्ठतस् तस्य पद्मतीर्थस्य क्षेममपेक्षत इति क्षेमापेक्ष्यभूत् । अन्येषां मध्ये तत्प्रयुक्तास्तेन पुण्डरीकपुर्याख्येन प्रयुक्ता गोततीरुप-न्यासरूपवाक्ततीः । पञ्च च षड् च पञ्चषास् तैर् गोविशेषैस् तत्कृतोपन्यासस्य अपशब्दादिदोषप्रकाशैर् वचनविशेषैर् अद्यत् । अखण्डयत् । ‘दो अवखण्डन’ इति धातुः । स जिष्णुः पार्थो यथा प्राक् जितोऽपि यो जनो द्रौण्यादिजनस्त्रासादर्जुनभयात् पृष्ठतस्तिष्ठतः पार्थाभिमुख्यमप्राप्य द्रौण्यादीनां पृष्ठतो वर्तमानस्य तस्य जयद्रथस्य क्षेमापेक्षी मरणाभावापेक्षी अभूत् । अन्येषां मध्ये तत्प्रयुक्तास् तेन जयद्रथक्षेमापेक्षि दौण्यादिना प्रयुक्ता गोततीः शरततीः पञ्चषैर् गोविशेषैः शरविषेषैर् यद्वद् अखण्डयत् तद्वद्
इति भावः ॥ ४५ ॥
मन्दोपाकारिणी
तस्येति ॥ प्राक् पूर्वं जितोऽपि पराजितोऽपि यो जनः पुण्डरीकपुर्याख्यस् तस्य त्रासात् श्रीमध्वाचार्यस्य भयात् ‘दरत्रासौ भीतिर्भीः साध्वसं भयं’ इत्यमरः पृष्ठतः पश्चाद्भागे तिष्ठतः स्थितस्य पद्मतीर्थस्य क्षेमापेक्षी क्षेमं प्राप्तप्रतिष्ठासंरक्षणम् अपेक्षत इति क्षेमापेक्षी अभूत् । अषां मध्वशिष्याणां मध्ये तत्प्रयुक्तास् तेन पुण्डरीकपुरिणा प्रयुक्ता गोततीर् गवाम् उपन्यासरूपाणां वाचां ततीः समुदायान् जिष्णुर् जयशीलः सः मध्वाचार्यः पञ्चषैः पञ्च वा षड् वा पञ्चषास् तैर् गोविशेषैर् गवां वाचां विशेषैस् तत्कृतस्यो-पन्यासस्य अपशब्दादिदोषप्रकाशैर् इत्यर्थो ऽद्यद् अखण्डयत् ‘दो अवखण्डने इति धातोर् लङ् परस्मैपदम् अद्यद् अद्यताम् अद्यन्’ पुण्डरीकपुरिः पूर्वं मध्वाचार्येण पराजितोऽपि मध्वभयात् पश्चादेव स्थितस्य पद्मतीर्थस्य सहायो भूत्वा मध्वजनेषु उपन्यासं चकार मध्वाचार्यस् तदुपन्यासं निराचक्रे इति भावः । यथा जिष्णुः पार्थः प्राग्जितोऽपि पराजितोऽपि यो जनो ऽश्वत्थामादिस् तस्य त्रासाद् अर्जुनस्य भयात् पृष्ठतः पश्चाद्भागे तिष्ठतः पार्थाभिमुख्यम् अप्राप्य अश्वात्थामादीनां पश्चाद्भागे वर्तमानस्य इत्यर्थः जयद्रथस्य क्षेमापेक्षी मरणाभावापेक्षी अभूद् अन्येषां मध्ये पाण्डवानां मध्ये तत्प्रयुक्तास् तेन जयद्रथक्षेमापेक्षिणा अश्वत्थामादिना प्रयुक्ताः क्षिप्ता गोततीर् गवां बाणानां ततीः समूहान् पञ्चषैर् गोविशेषैर् बाणविशेषैर् अद्यद् अखण्डयत् तद्वद् इति भावः ॥ ४५ ॥
विश्वास-प्रस्तुतिः - ४६
विष्णोर्भूयः शोभयद्भिः पदान्तं पारम्पर्येणेर्यमाणैरवार्यैः ।
गोव्रातैस्तं दारयित्वा न्यगृह्णात् कञ्जाख्यानं सिन्धुपं मध्वपार्थः ॥ ४६ ॥
मूलम् - ४६
विष्णोर्भूयः शोभयद्भिः पदान्तं पारम्पर्येणेर्यमाणैरवार्यैः ।
गोव्रातैस्तं दारयित्वा न्यगृह्णात् कञ्जाख्यानं सिन्धुपं मध्वपार्थः ॥ ४६ ॥
भावप्रकाशिका
अत्र चायं प्रणीत आचार्यप्रियतमैः श्लोकः
‘आनन्दतीर्थपार्थस्य भयादास्ते स पृष्ठतः ।
पुरतः स्थापयित्वाऽन्यान् पद्मतीर्थजयद्रथ’ इति ।
‘विष्णुमङ्गलदेशान्ते हृतां कबलिकां निजाम् ।
श्रुत्वा रजतपीठस्थ एकवाटं ययौ गुरुः ।
तत्रस्थं चोलजं दृष्ट्वा स्वशिष्यैस्तं रुरोध सः ।
त्वच्छास्त्रं साधयसि चेत् प्राश्निकानाह्वयेत्यसौ ।
मध्वस्तेनोदितः प्रोचेऽत्राह्वयेच्छसि चेदिति ।
कृतकृत्योऽस्मि मे शास्त्रं व्याप्तमित्युदितेऽमुना ।
प्रोचे मध्वो मम व्याप्तं त्रैलोक्ये शास्त्रमित्यमुम् ।
अन्तर्यामी हन्त वेद तवेदं शाठ्यभाषितम् ।
इति ब्रुवाणं तं प्रोचे मध्वः स्मितमुखाम्बुजः ।
व्याप्तं त्वय्येव मच्छास्त्रं किमुतान्यत्र बालिश ।
अन्तर्यामी नियम्यश्च त्वयैवाङ्गीकृताविति ।
मिलितेष्वथ सभ्येषु प्राश्निकेष्वभवत्कथा ।
तत्र माध्व उपन्यासो ग्रन्थो वादाह्वयोऽभवत्’ ॥ ४६ ॥
पदार्थदीपिकोद्बोधिका
विष्णोरिति ॥ मध्वपार्थो भूयो विष्णोः पदान्तं पद्यत इति पदं स्वरूपं यस्य अन्तो निर्णयो यस्मात् तत् पदान्तं विष्णुस्वरूपनिर्णायकवेदवेदान्तादिकं शोभयद्भिर् वेदादेर् अपव्याख्यां निराकृत्य यथावद्य्वाख्यानात्मकैर् इत्यर्थः । पारम्पर्यं नैरन्तर्यं तेन ईर्यमाणैर् उच्यमानैर् अवार्यैर् वाद्यन्तरेण अनिवार्यैः । गोव्राता उपन्यासरूपवचनसमूहास् तैस् तं कञ्जतीर्थ इति आख्यानं नाम यस्य स कञ्जाख्यानस् तं पद्मतीर्थनामकमित्यर्थः । सिन्धून् सिन्धुदेशान् पातीति सिन्धुपस्तम् । ‘देशे नदविशेषेऽब्दौ सिन्धुर्ना सरिति स्त्रियामि’त्यमरः । जयद्रथं दारयित्वा निराकृत्य पराभाव्येत्यर्थः । न्यगृह्वान् निग्रहस्थानं प्राप्तम् अकरोत् । स्वकृतम् उपन्यासम् अखण्डयित्वा तूष्णीस्थितं तम् अनुक्तयाख्यनिग्रहस्थानं प्राप्तं चकारेति भावः । पार्थो यथा विष्णोः पदान्तम् आकाशप्रदेशान्तं शोभयद्भिः पारम्पर्येण ईर्यमाणैर् अवार्यैर् गोव्रातैः शरसमूहैस् तं सिन्धुपं दारयित्वा विदार्य न्यगृह्णाज् जघान । तद्वदिति श्लेषाभिप्रायः ॥ ४६ ॥
मन्दोपाकारिणी
विष्णोरिति ॥ मध्वपार्थः श्रीमध्वाचार्याख्यार्जुनः भूयः पद्मतीर्थसहायकारिपुण्डरीकनिराकरणानन्तरं पुनरपि विष्णोः परब्रह्मणः पदान्तं पद्यते गम्यते ज्ञायते इति पदं स्वरूपं तस्य अन्तो निर्णयो यस्मात् तत् तथोक्तं विष्णुस्वरूप-निर्णायकशास्त्रम् इत्यर्थः शोभयद्भिः पारम्पर्येण नैरन्तर्येण अविच्छेदेनेति यावद् ईर्यमाणैर् उच्यमानैर् अवार्यैर् निराकर्तुमशक्यैर् गोव्रातैर् गवाम् उपन्यासात्मकवचनानां व्रातैः समूहैः ‘स्तोमौघनिकरव्रातवारसंघातसञ्जयाः’ इत्यमरस् तं कञ्जाख्यानं कञ्ज इति पद्मतीर्थ इति आख्यानं नाम यस्य स तथोक्तस् तं सिन्धुपं जयद्रथं दारयित्वा निराकृत्य न्यगृह्णान् निग्रहस्थानयुक्तम् अकरोत् । स्वकृतम् उपन्यासम् अखण्डयित्वा तूष्णीं स्थितं तं पद्मतीर्थम् अनुक्त्याख्यनिग्रहस्थानयुक्तम् अकरोद् इति भावः । पार्थः यथा विष्णोः पदान्तं विष्णुपदस्य आकाशस्य अन्तं प्रान्तप्रदेशम् इत्यर्थः शोभयद्भिः पारम्पर्येण ईर्यमाणैर् मुच्यमानैर् अवार्यैर् गोव्रातैस् तं सिन्धुपं जयद्रथं दारयित्वा विदार्य न्यगृह्णात् तद्वद् इति भावः ‘निपूर्वाद् ग्रह उपादाने इत्यतो लङ् परस्मैपदम् अगृण्हाद् अगृण्हीताम् अगृण्हन्’ इति ‘अन्तः प्रान्तेऽन्तिके नाशे स्वरूपैकान्तनिर्णये’ इति विश्वः कृष्णाभीष्टेत्यारभ्योक्तः प्रमेयः नारायणपण्डिताचार्यैरेव सङ्गृह्य स्वकृतभावप्रकाशिकायाम् उक्तः ‘विष्णुमङ्गलदेशान्ते हृतां कबलिकां निजाम् । श्रुत्वा रजतपीठस्थ एकं वाटं ययौ गुरुः ॥ तत्रापि चोलजं दृष्ट्वा स्वशिष्यैस्तं रुरोध सः’ इत्यादिना ॥ ४६ ॥
विश्वास-प्रस्तुतिः - ४७
आस्तामास्तामेष वो विश्वमोषो रे रे मायावादिचोरा द्रवेत ।
द्रष्टा द्रष्टा निग्रहीता ध्रुवं वः प्राप्तः कालो द्राग्गुहान्तं प्रवेष्टुम् ॥ ४७ ॥
मूलम् - ४७
आस्तामास्तामेष वो विश्वमोषो रे रे मायावादिचोरा द्रवेत ।
द्रष्टा द्रष्टा निग्रहीता ध्रुवं वः प्राप्तः कालो द्राग्गुहान्तं प्रवेष्टुम् ॥ ४७ ॥
भावप्रकाशिका
पुनरपि सभ्यैरभिहितावसरात्पूर्वं तेषु त्रस्तेषु विद्रुतेषु वादावसान-पद्यानां मध्वमहाजयमहामहकुतूहलिभिः सद्भिर्निगदितानामयमभिसन्धिः प्रपञ्च्यते ‘द्रवत द्रवताशु मायिनः प्रविशध्वमतन्द्रिता गुहाः । कमलारमणाम्बराश्रयः समुदेत्यखिलज्ञभास्कर’ इत्यास्तामित्यनेन । त्वदुक्तं सत्यं मिथ्यावेत्याद्युक्त्वा द्रष्टा द्रष्टा वो निग्रहीता ॥ ४७ ॥
पदार्थदीपिकोद्बोधिका
कृष्णाभीष्टेत्यादिश्लोकोक्तं प्रमेयं ग्रन्थकृता स्वयमेव सङ्गृह्याप्युक्तं भावप्रकाशिकायां विष्णुमङ्गलेत्यादिना – तदस्माभिर् उदाह्रियते— ‘विष्णु-मङ्गलदेशान्ते हृतां कबलिकां निजाम् । श्रुत्वा रजतपीठस्थ एकवाटं ययौ गुरुः । तत्रस्थं चोलजं दृष्ट्वा स्वशिष्यैस् तं रुरोध सः । त्वच्छास्त्रं साधयसि चेत् प्राश्निकान् आह्वयेत्यसौ । मध्वस् तेनोदितः प्रोचेऽत्राहयेच्छसि चेदिति । कृतकृत्योऽस्मि मे शास्त्रं व्याप्तम् इत्युदितेऽमुना । प्रोचे मध्वो मम व्याप्तं त्र्यैलोक्ये शास्त्रमित्यमुम् । अन्तर्यामी हन्त वेद तवेदं शाठ्य-भाषितम् । इति ब्रुवाणं तं प्रोचे मध्वः स्मितमुखाम्बुजः । व्याप्तं त्वय्येव मच्छास्त्रं किमुतान्यत्र बालिश । अन्तर्यामी नियम्यश्च त्वयैवाङ्गीकृताविति । मिलितेष्वथ सभ्येषु प्राश्निकेष्वभवत्कथा । तत्र माध्व उपन्यासो ग्रन्थो वादाह्वयोऽभवत्’ इति । पुनरपि वादस्य सभ्याभिहितावसरात्पूर्वं त्रस्तेषु चोलजातिषु विद्रुतेषु सत्सु वादावसाने सति श्रीमध्वमहाविजय महामहेन कुतूहलिभिः सद्भिर्निगदितानां वादाख्यप्रकरणान्तेऽभि-निवेशितानां— ‘आनन्दतीर्थपुंसिंहो मायावादिदितेः सुतान् । विदार्य युक्तिनखरैरप्रतीपो विभासते । पलायध्वं पलायध्वं त्वरया मायिदानवाः । सर्वज्ञहरिरायाति तर्कागमदरारिधृक् । द्रवत द्रवताशु मायिनः प्रविशध्वमतन्द्रिता गुहाः । कमलारमणाम्बराश्रयः समुदेत्यखिलज्ञभास्करः । नृहरिः सकलज्ञनामकः समुदैति हि मायिदानवान् प्रपलायनमत्र तत्क्षमं त्वरया वो वसतिर्गुहासु च । जयत्यानन्दतीर्थेष्टदेवता नरकेसरी । विपाटिताज्ञानतमः कपाटोऽत्युरुहुंकृतः । जयत्यमितपौरुषः स्वजनतेष्टचिन्तामणिस्त्वजेश मुखवन्दितो गुणगणार्णवः श्रीपतिः । सर्वज्ञसन्मुनीन्द्रोच्चसन्मनःपङ्कजालयः । अजितो जयतीशानो रमाबाहुलताश्रयः’ । इति सप्तपद्यानामभिप्रायः प्रपञ्च््यते नारायणार्यैः ।
तत्र द्रवत द्रवतेत्यस्य चाभिप्राय— आस्तामिति ॥ रे रे ‘हीनसम्बोधने तु रे’ इत्यमरः । कर इत्यव्ययम् । सम्भ्रमे द्विरुक्तिः । मायावादिचोरा मायाकल्पितं जगदिति वादिन एव चोरा वो युष्माकम् एष विश्वमेषो भेदाद्यखिलप्रपञ्चस्य चौर्यम् आस्ताम् आस्ताम् । तिष्ठतु तिष्ठतु । इतः परमलमिति भावः । सम्भ्रमे तात्पर्ये वा द्विरुक्तिः । तर्हि किमस्माभिः कार्यमिति चेत् तत्राह द्रवेतेति । द्रवेत पलायध्वम् । कुतः द्रष्टा द्रष्टा पश्यन् पश्यन् पुरुषो ध्रुवं निश्चयेन वो निग्रहीता निग्रहस्थानं प्राप्तान् करिष्यति इत्यर्थः । ग्रह उपादाने लुट् । युष्माभिः किमुक्तं चेदपि भवदुक्तं सत्यं मिथ्या वेति विकल्प्य सत्यं चेदपसिद्धान्तः मिथ्या चेद्भवदुक्तेः प्रमितत्वात् तन्मिथ्यात्वं प्रमाणविरुद्धमित्याद्युक्तवा द्रष्टा वादी निरुत्तरान् कुर्यादित्यर्थः । तस्माद् युष्माकं द्राक् आशु गुहान्तो गुहाप्रदेशस् तं प्रवेष्टुं कालः प्राप्तः । यथा कश्चिच् चोरान् दृष्ट्वा एतच् चौर्यम् आस्तां द्रष्टा द्रष्टा पुरुष वोऽयुष्मान् हन्ता, तस्मात् पलायध्वम् । द्राक् गुहां प्रविशतेति ब्रूयात् तद्वदिति भावः । एतेषां श्लोकानां ‘इति निगदति मायावादिविद्वेषवेष’ इति सर्गान्त्यश्लोकेन सम्बन्धः ॥ ४७ ॥
मन्दोपाकारिणी
एवं पद्मतीर्थादिषु पराभूतेषु विद्रुतेषु सत्सु तत्र विद्यमानसज्जना मायावादिनः प्रति एवम् आहुर् इत्याह ॥ आस्ताम् इति ॥ रे इत्यव्ययं हीनसम्बोधने वर्तते ‘हीनसम्बोधने तु रे’ इत्यमरः रे रे मायावादिचोरा मायावादिनामकास् तस्करा वः युष्माकम् एव विश्वमोषः विश्वस्य भेदाद्यखिलप्रपञ्चस्य मोषश् चौर्यम् आस्ताम् आस्तां तिष्ठतु तिष्ठतु इतःपरम् अलम् इति भावः ‘आस उपवेशने इति धातोर् लोट् आत्मनेपदम् आस्ताम् आसाताम् आसतां’ तर्हि किं कार्यम् इति चेद् यूयं द्रवेत पलायध्वं ‘द्रु गतौ इति धातोर् विधिलिङ् परस्मैपदं द्रवेर् द्रवेतं द्रवेत’ कुतः द्रष्टा द्रष्टा यः यः युष्मान् द्रक्ष्यति स सर्वोऽपि जनः वः युष्मान् ध्रुवं निश्चयेन ‘ध्रुवं तु निश्चये तर्के’ इति विश्वः निग्रहीता निग्रहस्थान-प्राप्तान् करिष्यति । तथा हि युष्माभिः किंचिदुक्तं चेत् तदा भवदुक्तं सत्यं मिथ्या वा इति विकल्प्य सत्यं चेद् अपसिद्धान्तः मिथ्या चेद् भवदुक्तेः प्रमितत्वान् न मिथ्यात्वं प्रमाणाविरुद्धं सम्भवति इत्युक्त्वा द्रष्टा द्रष्टापुरुषः वः निरुत्तरान् कुर्याद् इत्यर्थः ‘ग्रह उपादाने इत्यतो लुट् परस्मैपदं ग्रहीता ग्रहीतारौ ग्रहीतारः’ तस्माद् युष्माकं द्राक् आशु गुहान्तं गुहाया अन्तं मध्यदेशं प्रवेष्टुं प्रवेशं कर्तुं कालः प्राप्तः । यथा कश्चिच् चोरान् दृष्ट्वैव एतच् चौर्यम् अलं द्रष्टा द्रष्टा जनः वः हन्ता तस्मात् पलायध्वं द्राक् गुहायां प्रविशत इति ब्रूयात् तद्वद् इति भावः । एतेषां श्लोकानां सर्गान्तिमश्लोकेन अन्वयो ज्ञातव्यः ॥ ४७ ॥
विश्वास-प्रस्तुतिः - ४८
तेजो विद्वच्चक्रचन्द्रस्य लीनं विध्वस्ताऽलं वादिनक्षत्रलक्ष्मीः ।
विश्वव्याप्तं यत्तु तद्दीप्तिमूलं युष्मत्प्रेष्ठं तन्निरस्तं तमश्च ॥ ४८ ॥
मूलम् - ४८
तेजो विद्वच्चक्रचन्द्रस्य लीनं विध्वस्ताऽलं वादिनक्षत्रलक्ष्मीः ।
विश्वव्याप्तं यत्तु तद्दीप्तिमूलं युष्मत्प्रेष्ठं तन्निरस्तं तमश्च ॥ ४८ ॥
पदार्थदीपिकोद्बोधिका
इह गुहां प्रवेष्टुं काल इत्याह—
तेज इति ॥ विदुषां चक्रं समूहस् तदेव चन्द्रस् तस्य तेजः सामर्थ्यं लीनं निरस्तम् । दुर्विदुषां विद्यामदो निरस्त इति भावः । वादिन एव नक्षत्राणि तेषां लक्ष्मीर् जयश्रीर् अपि अलं विध्वस्ता निरस्ता कुवादिनां जयश्रीरपि नष्टेत्यर्थः । न केवलम् एतावन्मात्रं किन्तु विश्वव्याप्तं लोकेव्याप्तं तयोर् दीप्तिमूलं दीप्तिकारणं तद्दीप्तिमूलं, विद्वच्चक्रचन्द्रस्य वादिनक्षत्र शोभायाश्च कारणमित्यर्थः, युष्मत्प्रेष्ठं प्रत्यक्षादिप्रमाणसिद्धभेदादिप्रपञ्चचोराणां युष्माकम् अतिप्रियं यत् तु तमोऽज्ञानं तच्च निरस्तम् । यदज्ञानमवलम्ब्य इयन्तं कालं विदुषां वादिनां च प्रसरो लोके तदज्ञानं नष्टम् । भवताम् अतिप्रियञ्च तद् अज्ञानम् । ‘मायाशक्त्या सर्वनिर्वाहसिद्धिरिति सर्वनिर्वाहहेतुत्वाङ्गीकारात्तस्य । चन्द्रदीप्तेर् नक्षत्रदीप्तेश् च कारणं ध्वान्तं चोराणाम् अतिप्रियं, तमसि हि चोराश् चोरयन्ति । तस्मिन् ध्वान्ते नष्टे सति यथा कश्चिच् चोरान् वदेत् । हे चोरास् तमो नष्टम् आशु द्रवतेति तद्वदिति भावः ॥ ४८ ॥
मन्दोपाकारिणी
अयमेव गुहायां प्रवेष्टुं काल इत्याह ॥ तेज इति ॥ विद्वच्चक्रचन्द्रस्य विदुषां पण्डितानां चक्रः समूहः ‘चक्रो गणे चक्रवाके’ इति विश्वः स एव चन्द्रस् तस्य तेजः प्रकाशः लीनं तिरस्कृतं विदुषां विद्यामदो निरस्त इति भावः । वादिनक्षत्रलक्ष्मीर् वादिनः कुवादिन एव नक्षत्राणि तेषां लक्ष्मीः शोभापि अलं सम्यक् विध्वस्ता नष्टा कुवादिनां जयश्रीरपि नष्टेति भावः । न केवलम् एतावन्मात्रं किन्तु विश्वव्याप्तं विश्वस्मिन् लोके व्याप्तं तद्दीप्तिमूलं तयोर् विद्वच्चक्रचन्द्रस्य वादिनक्षत्राणां च दीप्त्योः प्रकाशयोर् मूलं कारणं युष्मत्प्रेष्ठं प्रत्यक्षादिप्रमाणसिद्धभेदादि प्रपञ्चचोराणां युष्माकम् अतिप्रियं यत्तु तमो ऽज्ञानम् अभूत् तदपि निरस्तं यथा चन्द्रदीप्तेर् नक्षत्रदीप्तेश्च कारणं ध्वान्तं चोराणाम् अतिप्रियं तमसि हि चोराश् चोरयन्ति तादृशे ध्वान्ते नष्टे सति यथा कश्चित्पुरुषश् चोरान् प्रतिवदेत् हे चोरा अन्धकारो नष्टः जना युष्मान् पश्येयुर् हन्युश्च तत आशु द्रवत इति तद्वत् हे मायावादिनः भवदीयविदुषां विद्यामदो नाशितः वादिनां जयशोभा च नष्टा यद् अज्ञानम् अवलम्ब्य इयन्तं कालं विदुषां प्रवृत्तिर् अज्ञानस्य सर्वनिर्वाहहेतुत्वाङ्गीकाराद् भवताम् अतिप्रियं तच्च अज्ञानं नाशितम् अतः निराश्रयत्वाद् गुहां प्रवेष्टुं पलायध्वम् इति सज्जना अब्रुवन् इति भावः ॥ ४८ ॥
विश्वास-प्रस्तुतिः - ४९
पूर्वाशामापूर्य विश्वप्रकाशी गोसन्दोहैः सप्तविद्याख्यवाहः ।
युष्माभिः किं नैक्षि देदीप्यतेऽसौ देवः साक्षात्सर्ववित् सर्वदीपः ॥ ४९ ॥
मूलम् - ४९
पूर्वाशामापूर्य विश्वप्रकाशी गोसन्दोहैः सप्तविद्याख्यवाहः ।
युष्माभिः किं नैक्षि देदीप्यतेऽसौ देवः साक्षात्सर्ववित् सर्वदीपः ॥ ४९ ॥
भावप्रकाशिका
पूर्वेषां ब्रह्मादीनामाशां च ॥ ४९ ॥
पदार्थदीपिकोद्बोधिका
विद्वच्चक्रचन्द्रादेस् तेजो भङ्गः कुतः? कुतश्च तमो नष्टमिति चेद् अत्राह—
पूर्वेति ॥ सप्तविद्याख्यवाहः सप्त च ता विद्याश्च सप्तविद्या ऋगाद्याश्चत्वारो मूलरामायणं भारतं पञ्चरात्रञ्चेति सप्तविद्यास् ता इत्याख्या नाम येषां ते तथोक्तास्तादृशा वाहा अश्वा यस्य स तथोक्तः । ‘वाजिवाहार्वगन्धर्वहयसैन्धवसप्तय’ इत्यमरः । अत एव विश्वस्मिन् सर्वस्मिंल्लोके प्रकाशत इति विश्वप्रकाशी । अथवा विश्वस्य प्रपञ्चस्वरूपस्य ब्रह्मस्वरूपस्य च प्रकाशी उपदेशेन प्रकाशनशीलः । देवः क्रीडादिगुणकोऽसौ सर्ववित्सर्व-दीपः सर्वं दीपयति प्रकाशयतीति सर्वदीपः सूर्यः सर्वविदेव श्रीपूर्णप्रज्ञ एव सर्वदीपः श्रीमध्वाख्यसूर्य इत्यर्थः । गोसन्दोहा वचनसमूहास् तैः पूर्वाशां पूर्वेषां ब्रह्मादीनामाशां सज्जनाज्ञाननिरासविषयं मनोरथमित्यर्थः । आपूर्य पूरयित्वा ब्रह्मादीनां मनोरथं सम्यक् साधयित्वेति भावः । साक्षात् सर्वसमक्षम् । साक्षात्प्रत्यक्षतुल्ययोरि’त्यमरः । देदीप्यते प्रकाशते । श्रीमध्वाचार्यः सूर्यवत् सर्वसमक्षं प्रकाशते । असौ युष्माभिर् नेक्षि किं ? न दृष्टः किम्? श्रीमन्मध्वाचार्यं दृष्ट्वापि एवम् अस्थानं भवताम् अत्यनुचितम् । शीघ्रं प्रपलायध्वम् इति भावः । श्लेषार्थे तु सप्तवाहः सप्ताश्वः विश्वप्रकाशी सर्वप्रकाशको देवः सर्ववित् सर्वज्ञः सर्वदीपः सूर्यः पूर्वाशां प्राचीदिशं गोसन्दोहैः किरणसमूहैर् देदीप्यते । असौ
युष्माभिर् नैक्षि किम् ? हे बालिशा शीघ्रं प्रपलायध्वम् इति यथा कश्चिच् चोरान् वदेत् तद्वदिति भावः ॥ ४९ ॥
मन्दोपाकारिणी
विद्वच्चक्रचन्द्रादेस् तेजोभङ्गः कस्माद् अभूत् कुतश्च तमो नष्टम् इत्यत आह ॥ पूर्वेति ॥ असौ सर्ववित् सर्वदीपः सर्वं वेत्ति जानातीति सर्ववित् सर्वज्ञः पूर्णप्रज्ञः स एव सर्वं दीपयति प्रकाशयतीति सर्वदीपः मध्वाख्यसूर्यः साक्षात् प्रत्यक्षं सर्वसमक्षम् इति यावत् ‘साक्षात्प्रत्यक्षतुल्ययोः’ इत्यमरः देदीप्यते अतिशयेन प्रकाशते सूर्यो यथा सर्वसमक्षं प्रकाशते तथा मध्वाचार्योऽपि सर्वसमक्षं प्रकाशते असौ युष्माभिर् नैक्षि किं न दृष्टः किं श्रीमध्वाचार्यं दृष्ट्वापि एवम् अवस्थानं भवताम् अनुचितम् अतः शीघ्रं पलायध्वम् इति भावः ‘दीपी दीप्तौ इत्यतो यङंताद् लडात्मनेपदं देदीप्यते देदीप्येते देदीप्यन्ते’ ‘ईक्ष् दर्शनाङ्कनयोर् इत्यतः कर्मणि लुङ् आत्मनेपदम् ऐक्षि ऐक्षिषाताम् एक्षिषत’ किं कृत्वा असौ प्रकाशते गोसन्दोहैर् गवां वाचां सन्दोहैः समूहैः ‘सन्दोहविसरव्रजाः’ इत्यमरः पूर्वाशां पूर्वेषां ब्रह्मादीनाम् आशाम् अभिलाषम् आपूर्य पूरयित्वा सज्जनाज्ञाननिरासो भवेद् इति ब्रह्मादीनां मनोरथस् तत्वोपदेशेन सज्जनाज्ञाननिरासं साधयित्वेति भावः । कथंभूतः सप्तविद्याख्यवाहः सप्त च ता विद्याश्च सप्तविद्या इति आख्या येषां ते सप्तविद्याख्यास् ता एव वाहा अश्वा यस्य स तथोक्तः ‘वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः’ इत्यमर ऋग्यजुःसामाथर्वसंज्ञकाश् चत्वारो वेदाः, मूलरामायणं भारतं पञ्चरात्रं च इति त्रयम् । एवं सप्तविद्या विश्वप्रकाशी विश्वस्मिन् सर्वस्मिन् प्रकाशते इति विश्वप्रकाशी । यद्वा विश्वस्य परापरतत्वस्य प्रकाशनाद् विश्वप्रकाशी देवः क्रीडादिगुणवान् यथा सप्ताश्वः विश्वप्रकाशी सर्वप्रकाशकः सूर्यः पूर्वाशां पूर्वा प्राची च सा आशा दिक् च पूर्वाशा तां ‘आशादिगभिलाषयोः’ इत्यमरः गोसन्दोहैर् गवां किरणानां सन्दोहैर् आपूर्य व्याप्य देदीप्यते असौ नैक्षि किम् । हे बालिशाः शीघ्रं पलायध्वम् इति कश्चिच् चोरान् प्रति वदेत् तद्वन् मायिनः प्रति सज्जनोऽवदद् इति ‘गौः स्वर्गे वृषभे रश्मौ’ इति विश्वः ॥ ४९ ॥
विश्वास-प्रस्तुतिः - ५०
सर्वाधारं ब्रह्मसंज्ञं विहायो रम्याकारं शारदेन्दीवराभम् ।
सन्निर्णीतं गुण्यलं शब्दभेदैर्मध्वादित्यं संश्रितं कोऽपिधत्ते ॥ ५० ॥
मूलम् - ५०
सर्वाधारं ब्रह्मसंज्ञं विहायो रम्याकारं शारदेन्दीवराभम् ।
सन्निर्णीतं गुण्यलं शब्दभेदैर्मध्वादित्यं संश्रितं कोऽपिधत्ते ॥ ५० ॥
भावप्रकाशिका
शब्दभेदैर्गुणि सन्निर्णीतं वेदैर्ज्ञानादिगुणवन्निश्चितं ध्वनिभिर्गुणवच्च ॥
पदार्थदीपिकोद्बोधिका
एवंभूतो असौ केनापि आच्छादयितुम् अशक्य इत्याह—
सर्वाधारमिति ॥ सर्वाधारं सर्वेषाम् आश्रयं, शरदि भवं शारदं यद् इन्दीवरं तद्वद् आभा यस्य तत्तथोक्तम् । अत एव रम्य आकारो यस्य तत्तथा । शब्दभेदा वेदविशेषास् तैर् अलं सम्यक् गुणा अस्य सन्तीति गुणि ज्ञानानन्दादिगुणवदिति निर्णीतं निश्चितं सन् निर्दोषं ब्रह्मेति संज्ञा यस्य तद्ब्रह्मसंज्ञं विहायो नभः संश्रितं मध्वादित्यं श्रीमध्वसूर्यं को ऽपिधत्ते आच्छादयेत् । सर्वाधारत्वादिगुणयुक्तं परं ब्रह्म सम्यगाश्रितं श्रीमध्वं कः पुमान् आच्छादयेन् निराकुर्यान् न कोऽपीत्यर्थः । यथा सर्वाधारं सर्वप्राणिनामाश्रयं शारदेन्दीवराभं नीलवर्णं रम्याकारं शब्दभेदैः शब्दविशेषैर् ध्वनिभिर् गुणि ध्वन्याख्यगुणयुक्तत्वेन निर्णीतं विहाय आकाशम् आश्रितम् आदित्यं न कश्चिद् आच्छादयेत् तद्वदिति श्लेषाभिप्रायः ॥५०॥
मन्दोपाकारिणी
एवं भूतः मध्वसूर्यः केनापि आच्छादयितुं न शक्यते इत्याह ॥ सर्वाधारम् इति ॥ सर्वाधारं सर्वेषाम् आश्रयं शारदेन्दीवराभं शरदि शरत्काले भवं शारदं च तद् इन्दीवरं नीलोत्पलं च शारदेन्दीवरवद् आभा कान्तिर् यस्य स तथोक्तस् तं नीलवर्णम् इत्यर्थः रम्याकारं रम्यः मनोहर आकारः स्वरूपं यस्य स तथोक्तस् तं शब्दभेदैः शब्दानां वर्णात्मकशब्दानां भेदैर् विशेषैर् वेदैर् इत्यर्थो ऽलं सम्यक् गुणि गुणा अस्य सन्तीति गुणि ज्ञानानन्दाद्यनन्तगुणवद् इति निर्णीतं सन् निर्दोषं ब्रह्मसंज्ञं ब्रह्मेति परब्रह्मेति संज्ञा नाम यस्य तद् ब्रह्मसंज्ञं विहाय आकाशं ‘वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी’ इत्यमरः संश्रितम् आश्रितं मध्वादित्यं मध्वाचार्याख्यम् आदित्यं सूर्यं ‘सूरसूर्यार्यमादि-त्यद्वादशात्मदिवाकराः’ इत्यमरः कः पुरुषो ऽपिधत्ते आच्छादयेन् न कोऽपीत्यर्थः । यथा सर्वाधारं सर्वप्राणिनाम् आश्रयं शारदेन्दीवराभं नीलरूपं ‘आकाशे नीलिमोदेति’ इति श्रुतेः रम्याकारं शब्दभेदैर् ध्वनिविशेषैर् गुणि शब्दाख्यगुणयुक्तत्वेन निर्णीतं विहाय आकाशम् आश्रितं सूर्यं न कश्चिद् आच्छादयेत् तद्वत् सर्वाधारत्वादिगुणयुक्तं परब्रह्म सम्यगाश्रितं मध्वाचार्यं कः पुमान् आच्छादयेद् इति भावः । ‘अपि पूर्वाड् डु धाञ् धारणपोषणयोर् इति धातोर् लट् आत्मनेपदं धत्ते दधाते दधते’ ॥ ५० ॥
विश्वास-प्रस्तुतिः - ५१
विधावत विधावत त्वरितमत्रिवादासुरा अदभ्रधिषणाभिधो नरहरिर्हि जाज्वल्यते ।
स युक्तिनखरैः खरैर्मुखरमूर्खदुःखाङ्कुरैर्विदारयति दारुणप्रवचनप्रणादोऽप्रियान् ॥५१॥
मूलम् - ५१
विधावत विधावत त्वरितमत्रिवादासुरा अदभ्रधिषणाभिधो नरहरिर्हि जाज्वल्यते ।
स युक्तिनखरैः खरैर्मुखरमूर्खदुःखाङ्कुरैर्विदारयति दारुणप्रवचनप्रणादोऽप्रियान् ॥५१॥
भावप्रकाशिका
आनन्दतीर्थपुंसिंहो मायावादिदितेः सुतान् । विदार्य युक्तिनखरैर-प्रतीपोऽभिभासते । नृहरिः सकलज्ञनामकः समुपैति हि मायिदानवान् । प्रपलायनमत्र तत्क्षमं त्वरया वो वसतिर्गुहासु च ॥ इत्यनयोर्विधावतेति । मायावादिदितेः सुतानित्यत्र ‘षष्ठ्या आक्रोश’ इत्यलुग्भवति दास्याः पुत्र इत्यादिवत् । नन्विदं दैत्यत्वं तत्त्वतस्तेषामाक्रोशाभिप्रायत्वादिति । सत्यमेव दितिपुत्रत्वं मा भूदेषां मानुषत्वेन जातानां मायिनां, यदसुरत्वमन्धतमसैकयोग्यत्वलक्षणं तदस्त्यतितरामिति ॥ अत्रिवादा जीवेश्वर-जडानां त्रयाणां वादेन वचनेन नियमेन रहितास् तत्त्वतस्तद्वचनानां च अतत्त्वावेद-कत्वाङ्गीकारेण ॥ ५१ ॥
पदार्थदीपिकोद्बोधिका
आनन्दतीर्थपुंसिंहो मायावादिदितेः सुतानि’त्यस्य पद्यस्य, ‘नृहरिः सकलज्ञनामकः’ इत्यस्य च प्रपञ्चो— विधावतेत्यादि ॥ हे अत्रिवादासुरा त्रयाणां वादस्त्रिवादः न विद्यते त्रिवादो येषां तेऽत्रिवादा मायिनस् त एव असुराः । अत्रिवादा इति मायिन उच्यन्ते त्रिवादरहितत्वात् । वादो वचनं त्रयाणां वादस्त्रिवादो जीवेश्वरजगद्विषयं वचनमित्यर्थः । जीवेश्वरजगद्विषयवादः वचनं वेदादिकश्च तद्रहितत्वा-दत्रिवादा इति मायिन उच्यन्ते । वेदरहितत्वञ्च तेषां वेदवचनतत्वावेदकत्वानङ्गीकारादि-त्यर्थः । हि यस्माद् अदभ्रा पूर्णा धिषणा बुद्धिर् यस्य सोऽदभ्रधिषणः पूर्णप्रज्ञः स इत्यभिधा नाम यस्य स तथोक्तः । नरश्चासौ हरिः सिंहश्च नरहरिर् नृसिंहो जाज्वल्यतेऽअतितरां ज्वलति । स श्रीमध्वाख्यसिंहो मुखरा वाचाला ये मूर्खाः कुवादिनस् तेषां यानि दुःखानि तेषाम् अङ्कुर उत्पत्तिर्येभ्यस् ते तथोक्तास् तैः खरैः क्रूरैर् युक्तय एव नखरा नखास् तैर् दारुणं दुष्टानाम् असह्यं यत् प्रवचनं व्याख्यानं तद्रूपः प्रणादः सिंहनादो यस्य स तथा सन् अप्रियान् शत्रून् विदारयति । दारुणप्रणादो नरसिंहो नखरैर् यथा शत्रून् विदारयति । एवमेव अदभ्रधिषणः श्रीपूर्णप्रज्ञाचार्यो दारुणप्रवचनस्सन् युक्तिभिः प्रतिवादिनो निराकरोतीत्यर्थः । तस्मात् त्वरितं यथा भवति तथा विधावत विधावत पलायध्वं पलायध्वम् । पृथ्वीवृत्तम् । ‘जसौ जसयलावसुग्रहयतिश्च पृथ्वीगुरुरि’त्युक्तेः ॥ ५१ ॥
मन्दोपाकारिणी
विधावतेति ॥ हे अत्रिवादासुरा वादो वेदवचनं त्रयाणां जीवेश्वरजगद्विषयकवेदवचनम् इत्यर्थः । न विद्यते त्रिवादो येषां ते अत्रिवादा मायावादिनस् तेषां त्रिवादरहितत्वं च जीवेश्वरजगद्विषयकवेदवचनस्य अतत्वावेदकत्वाङ्गीकारात् तथा च अत्रिवादा मायावादिन एव असुरा दैत्या यूयं त्वरितं शीघ्रेण विधावत विधावत पलायध्वं पलायध्वं ‘वि पूर्वाद् धाव् गतिशुद्ध्योर् इत्यतो लोट् परस्मैपदं धाव धावतं धावत’ सम्भ्रमाद् द्विरुक्तिः । कुतः, हिशब्दो हेतौ ‘हिर् हेतोर् अवधारणे’ इत्यमरः हि यस्माद् अदभ्रधिषणाभिधो ऽदभ्रधिषणः पूर्णप्रज्ञ इति अभिधा नाम यस्यासौ अदभ्रधिषणाभिधः नरहरिर् नरसिंहः हरिशब्दस्य सिंहपर्यायत्वाज् जाज्वल्यते अतितरां ज्वलति प्रकाशते तस्माद् विधावत इति ‘ज्वल दीप्तौ इत्यतो यङंताल्लडात्मनेपदं जाज्वल्यते जाज्वल्येते’ ज्वलतु अस्माकं किमनिष्टम् इत्यत आह स इति ॥ दारुणप्रवचनप्रणादः प्रवचनं व्याख्यानमेव प्रणादः प्रकृष्टसिंहनादः दारुणः दुःसहः प्रवचनप्रणादो यस्य सः दारुणप्रवचनप्रणादः सः मध्वनृसिंहः मुखरमूर्खदुःखाङ्कुरैर् मुखरा असंगतभाषिणश्च ते मूर्खा अविवेकिनश्च तेषां दुःखस्याङ्कुरैर् हेतुभिः स्वरैस् तीक्ष्णैः ‘तिग्मं तीक्ष्णं स्वरं तद्वत्’ इत्यमरः युक्तिनखरैर् युक्तय एव नखरास् तैः ‘नखोऽस्त्री नखरोऽस्त्रियां’ इत्यमरो ऽप्रियान् अहितान् शत्रून् इत्यर्थः ‘द्विड् विपक्षाहितामित्र’ इत्यमरः विदारयति भेदयति ‘दृ विदारणे इत्यतो णिजन्ताल्लट् परस्मैपदं’ यथा दारुणनादः नृसिंहः नखैर् हिरण्यकशिपुमुखान् शत्रून् विदारयति एवं मध्वाचार्यः व्याख्यानं कुर्वन् युक्तिभिः प्रतिपक्षिणो निराकरोतीति भावः । पृथ्वीवृत्तं ‘जसौ जसयलावसुग्रहयतिश्च पृथ्वी गुरुर् इति तल्लक्षणात्’ ॥ ५१ ॥
धत्ते रूपाण्यनन्तान्यपि भुवनपतेर्यो हृदाऽप्येकपक्षो
दक्षः सद्भ््यो्ऽखिलेभ्योऽप्यमृतमिह ददौ केवलं यो न मात्रे ।
विश्वास-प्रस्तुतिः - ५२
पक्षिश्रेष्ठोऽपरः सन्नमितमतिपदोऽसम्पदे स्यादयं वो
मा दर्पं मायिसर्पा भजत भजत तास्ता गुहा द्राग्द्विजिह्वाः ॥ ५२ ॥
मूलम् - ५२
पक्षिश्रेष्ठोऽपरः सन्नमितमतिपदोऽसम्पदे स्यादयं वो
मा दर्पं मायिसर्पा भजत भजत तास्ता गुहा द्राग्द्विजिह्वाः ॥ ५२ ॥
भावप्रकाशिका
स एकरूपमप्यंसे नैव धत्ते द्विपक्षोऽपि अमृतं मोक्षमपि सर्वेभ्यः ॥
पदार्थदीपिकोद्बोधिका
धत्त इति ॥ द्वे जिह्वे येषां ते द्विजिह्वा मायिनाम् अनृतवादित्वाद् द्विजिह्वत्वं सर्पाणां द्वे जिह्व इति प्रसिद्धमेव । हे मायिसर्पा मायिन एव सर्पा अयं श्रीमध्वः पक्षिश्रेष्ठः सन्नपरः पक्षिश्रेष्ठाद् गरुडादन्यस् तद्विलक्षण इति यावत् । तथा हि गरुडः पक्षिणां विहगानां श्रेष्ठत्वात्पक्षिश्रेष्ठ इत्युच्यते । अयं तु न तथा किन्तु पक्षिणां सिद्धान्तवतां वादिनां श्रेष्ठस् तस्मात् पक्षिश्रेष्ठःसन् अपि अपर इत्यर्थः । इतश्चाप्यपरोऽयमित्याह— धत्त इत्यादिना । अयं श्रीमध्वो हृदापि हृदयेनापि भुवनपतेस् त्रैलोक्यनाथस्य हरेर् अनन्तानि अपरिमितानि रूपाणि धत्ते धारयति । सर्वदाऽप्यनन्तभगवद्रूपाणि ध्यायतीत्यर्थः । गरुडस्त्वंसेनाप्येकमेव रूपं धत्ते । अयं श्रीमध्व एकः प्रधानः पक्षः सिद्धान्तो यस्य स तथा सर्वोत्तमसिद्धान्तवान् इति भावः । गरुडस्तु द्विपक्षः । अयं श्रीमध्वो दक्षः सर्वविषये चतुरः । गरुडस्त्वदक्षो न दक्षप्रजेश्वरः, किन्तु दक्षदौहित्र एव । यः श्रीमध्व इह जगत्यखिलेभ्यः सद्भ्यश्च अमृतं मोक्षं ददावित्यर्थः । गरुडस्तु केवलं मात्रेऽमृतं सुधां ददौ । एवम् अयं पक्षिश्रेष्ठ इति नामभागापि गरुडाद् अपर इत्यर्थः । एवंभूतोऽयम् अमितमतिपदो अमितमतिरिति पूर्णप्रज्ञ इति पदं नाम यस्य स तथोक्तो वो युष्माकम् असम्पदेऽभूतये स्याद्भवेत् । तस्माद्यूयं दर्पो गर्वस् तं मा भजत न कुरुत । वैदुष्यगर्वं त्यक्त्वा विनीता भवत इत्यर्थः । मानित्वाद्गर्वत्यागे समर्था वयं किं कुर्म इति चेदत्राह द्रागिति । द्राक् आशु तास् ता युष्मदिष्टा गुहा भजत विशत । गरुडम् आपतन्तं दृष्ट्वा कश्चित्सर्पान् प्रत्येवं यथा ब्रूयात् तद्वच् चोलादीन् प्रति सन्निकरोवददित्यर्थः । स्रग्धरावृत्तम् । ‘म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेय’मित्युक्तेः ॥ ५२ ॥
मन्दोपाकारिणी
धत्त इति ॥ द्विजिह्वा द्वे जिह्वे रसने येषां ते द्विजिह्वाः ‘रसज्ञा रसना जिह्वा’ इत्यमरः । हे मायिसर्पा मायिन एव सर्पा भुजङ्गा दर्पं गर्वं मा भजत मा कुरुत मायिनाम् अनृतवादित्वाद् द्विजिह्वता प्रसिद्धैव । एवं द्विजिह्वत्वेन सर्पतुल्या मायिनः यूयं गर्वं त्यक्त्वा विनीता भवत इति भावः ‘भज सेवायाम् इत्यतो लोट् परस्मैपदं भज भजताद् भजतं भजत’ । कुतः- अमितमतिपदो ऽमिता पूर्णा मतिः प्रज्ञा यस्य सो ऽमितमतिर् अमितमतिरिति पदं नाम यस्य स तथोक्तः पक्षिश्रेष्ठः पक्षिणां खगानां श्रेष्ठः गरुडः मध्वनामा गरुडः वः युष्माकम् असम्पदे न संपद् असंपत् तस्यै अनैश्वर्याय स्याद् भवेन् मध्वगरुडयोर् वैलक्षण्यमाह अपर इति ॥ अयं मध्वः पक्षिश्रेष्ठस्सन् अपरः गरुडाद् विलक्षणः । कथं- गरुडः पक्षिणां श्रेष्ठत्वात् पक्षिश्रेष्ठ इत्युच्यते अयं तु न तथा पक्षिणां सिद्धान्तिनां वादिनां श्रेष्ठत्वात् पक्षिश्रेष्ठ इत्युच्यते । तथा च पक्षिश्रेष्ठशब्दवाचित्वेन समोऽपि मध्वो ऽर्थवैलक्षण्याद् अपरो गरुड इत्यर्थः । इतोऽपि गरुडाद्विलक्षण इत्याह धत्त इत्यादिना । यः श्रीमध्वः हृदापि हृदयेनापि भुवनपतेर् भुवनानां लोकानां पतिः स्वामी तस्य हरेर् अनन्तान्यपि रूपाणि धत्ते धरति सर्वदापि मनसि भगवतो ऽनन्तरूपाणि धत्ते इति भावः । गरुडस्तु स्वस्कन्धेन एकमेव रूपं धत्ते अयं मध्व एकपक्ष एकः प्रधानः पक्षः सिद्धान्तो यस्य स एकपक्षः सर्वोत्तमसिद्धान्तवान् इत्यर्थः ‘एके मुख्यान्यकेवलाः’ इत्यमरः । गरुडस्तु पतत्राख्यपक्षद्वययुक्तो ऽयं मध्वः दक्षः सर्वविषये चतुरः गरुडस्तु अदक्षः दक्षप्रजापतिर्न भवति किंतु दक्षदौहित्रः दक्षप्रजापतिदुहिता विनतादेवी तस्यां कश्यपाज् जातत्वाद् इति भावस् तथा अयं मध्व इह अधिकारिवर्गे केवलं मात्रे जनन्यै अमृतं मोक्षं न ददौ किंतु अखिलेभ्यः सद्भ्यो सज्जनेभ्योऽपि अमृतं मोक्षं ददौ दत्तवान् ‘डु दाञ् दाने इत्यतो लिट् परस्मैपदं ददौ ददतुर् ददुः’ ‘श्रेयो निःश्रेयसामृतं मोक्षोऽपवर्गः’ इत्यमरः । गरुडस्तु केवलं मात्रे स्वजनन्यै अमृतं सुधां ददौ, न अखिलेभ्यः सद्भ्यो ददौ ‘पीयूषममृतं सुधा’ इत्यमर एवं मध्वः पक्षिश्रेष्ठ इति नामवानपि गरुडादपर इत्यर्थः । एवं भूतोऽयं युष्माकम् अनर्थाय स्यात् तस्माद् दर्पं मा भजत इति भावः ‘दरी तु कन्दरो वा स्त्री देवखातबिले गुहा’ इत्यमरः । यथा गरुडमापतन्तं दृष्ट्वा कश्चित् पुमान् सर्पान् प्रति यूयं गूहिता भवत इति ब्रूते तद्वत् पद्मतीर्थादीन् प्रति सज्जनसमुदायो वदतीति भावः । स्रग्धरावृत्तं ‘म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्’ ॥ ५२ ॥
विश्वास-प्रस्तुतिः - ५३
वेदव्रातसुदर्शनः परिलसत्तर्काख्यशङ्खध्वनि-
र्विभ्राजिष्णुपुराणसंहतिगदः श्लोकौघशार्ङ्गान्वितः ।
सत्सूत्रेष्वितिहासनन्दकचणो मध्वाख्यनारायणः
प्राप्तो वो निजिघृक्षया द्रवत हे मायाविदेवद्विषः ॥ ५३ ॥
मूलम् - ५३
वेदव्रातसुदर्शनः परिलसत्तर्काख्यशङ्खध्वनि-
र्विभ्राजिष्णुपुराणसंहतिगदः श्लोकौघशार्ङ्गान्वितः ।
सत्सूत्रेष्वितिहासनन्दकचणो मध्वाख्यनारायणः
प्राप्तो वो निजिघृक्षया द्रवत हे मायाविदेवद्विषः ॥ ५३ ॥
भावप्रकाशिका
‘पलायध्वं पलायध्वं त्वरया मायिदानवाः । सर्वज्ञो हरिरायाति तर्कागमदरारिभृदि’त्यस्य वेदव्रातेत्यादिना ॥ ५३ ॥
पदार्थदीपिकोद्बोधिका
‘पलायध्वं पलायध्वं त्वरया मायिदानवाः सर्वज्ञहरिर् आयाति तर्कागमदरारिधृक्’ इत्यस्य प्रपञ्चो—
वेदव्रातेति ॥ वेदव्रातो वेदसमूहः स एव सुदर्शनं सुदर्शनचक्रं यस्य स तथोक्तः परिलसन्तो वेदानुसारित्वेन शोभमाना ये तर्कास् ते इत्याख्या यस्य स तथोक्तस् तादृशः शङ्खध्वनिर्यस्य स तथोक्तः । विभ्राजिष्णुर्विशेषेण शोभनशीला या पुराणसंहतिः पुराणसमूहः सैव गदा यस्य स तथोक्तः । श्लौकौघ एव श्लोकरूपपञ्चरात्रवृन्दमेव शार्ङ्गं शार्ङ्गाख्यं धनुस् तेन अन्वितो युक्तः । मिताक्षरं श्लोकरूपं पञ्चरात्रं श्लोकशब्दवाच्यं, गद्यरूपं पञ्चरात्रं मिताक्षरं विद्येत्युच्यते । ‘अमिताक्षरं पञ्चरात्रं पञ्चरात्रं विद्येत्याहुर्मनीषणः मिताक्षरं श्लोकाख्यमुभयं वेद इत्युच्यते’ इति ब्रह्माण्डे । सन्ति निर्दोषाणि च तानि सूत्राणि च सत्सूत्राणि तान्येवेषवश्शरास्ते चेतिहास एव भारतमेव नन्दकः खड्गः स च सत्सूत्रेष्विति हासनन्दकास्तैश्चणश्चतुरः । भगवतः खड्गस्य नन्दकाख्या । ‘खड्गोऽस्य नन्दक’ इति हलः । मध्वाख्यनारायणः, हे मायाविदेवद्विषः माया एषामस्तीति मायाविनो मायावादिनस्त एव देवद्विषो दैत्या वो युष्माकं निगृहीतुमिच्छा निजिघृक्षा निग्रहणेच्छा तया प्राप्तः । अतो द्रवत पलायध्वम् । शार्दूलविक्रीडितवृत्तम् । ‘सूर्याश्वैर्मसजास्तताः सगुरवः शार्दूलविक्रीडितमि’त्युक्तेः । अत्र रूपकालङ्कारः ॥ ५३ ॥
मन्दोपाकारिणी
वेदव्रातेति ॥ हे मायाविदेवद्विषः मायाविनो मायावाद्याख्या देवद्विषः दैत्याः ‘पूर्वदेवाः सुरद्विषः’ इत्यमरः । द्रवत पलायध्वम् । कुतः- मध्वाख्य-नारायणः मध्व इति आख्या नाम यस्य स तथोक्तः स चासौ नारायणश्च तथोक्तः यः युष्मान् निजिघृक्षया निग्रहीतुम् इच्छा निजिघृक्षा तया भवतां निग्रहं कर्तुं प्राप्त आगतवान् । कथंभूतःवेदव्रातसुदर्शनः वेदानां श्रुतीनां व्रातः समूहः स एव सुदर्शनं चक्रायुधं यस्य स तथोक्तः ‘स्तोमौघनिकरव्रातः’ इत्यमरः । परिलसत्तर्काख्यशङ्खध्वनिः परिलसन् प्रमाणादि-पदार्थनिर्णायकत्वेन शोभमानस् तर्कः ब्रह्मतर्काख्यग्रन्थः परिलसंश्चासौ तर्कश्च परिलसत्तर्कस् तर्क इत्याख्या संज्ञा यस्य सस् तर्काख्यः स चासौ शङ्खः पाञ्चजन्यनामकस् तस्य ध्वनिर् घोषो यस्य स तथोक्तः । विभ्राजिष्णुपुराणसंहतिगदः विभ्राजिष्णुर् विशेषेण भ्राजनशीला च सा पुराणसंहतिर् वृन्दं ‘स्त्रियां तु संहतिर्वृन्दं’ इत्यमरः पुराणसंहतिरेव गदा कौमोदकी यस्य स तथोक्तः । श्लोकौघशार्ङ्गान्वितः श्लोकानां पद्यानां ‘पद्ये यशसि च श्लोकः’ इत्यमर ओघो ऽमूहः यस्मिन् स श्लोकौघः पञ्चरात्रम् इत्यर्थः । श्लोकौघ एव शार्ङ्गं शार्ङ्गनामकं धनुस् तेनान्वितः युक्तः । द्विविधं पञ्चरात्रं मिताक्षरममिताक्षरं च इति । आद्यं छन्दोबद्धपद्यरूपं द्वितीयम् अच्छन्दोबद्धं गद्यरूपं तच्चोक्तं ब्राह्मे ‘अमिताक्षरं पञ्चरात्रं गद्यमाहुर्मनीषिणः । मिताक्षरं श्लोकवाच्यन्तूभयं वेद उच्यते ॥’ इति ॥ सत्सूत्रेष्वितिहासनन्दकचणः सन्ति उत्तमानि च तानि सूत्राणि च ब्रह्मसूत्राणि ‘सच्छब्दमुत्तमं ब्रूयात्’ इत्युक्तेः सत्सूत्राण्येव इषवः शराः ‘लम्बमार्गणशराः पत्रीरोप इषुर्द्वयोः’ इत्यमरः । इतिहासः महाभारतं मूलरामायणं च स एव चन्दकः खड्गः सत्सूत्रेषवश्च इतिहासनन्दकश्च सत्सूत्रेष्विति-हासनन्दकास् तैश् चणः प्रसिद्धः । यथा नारायणश् चक्रशङ्खगदाधनुर्बाणखड्गाख्यायुधानि धृत्वा शङ्खघोषं कुर्वन् शत्रुनिग्रहणेच्छया आगच्छेत् तद्वद् वेदपञ्चरात्रागमब्रह्मतर्कब्रह्म-मीमांसेतिहासपुराणात्मकशास्त्राभिज्ञो ऽयं मध्वाचार्यः हे मायावादिनः वः निग्रहणेच्छया आगतोऽस्ति । अतः पलायध्वम् इति जनोऽवदद् इति भावः ‘शङ्खो लक्ष्मीपतेः पाञ्चजन्यः’ इत्यमरः । शार्दूलविक्रीडितवृत्तं ‘सूर्याश्वैर्मसजास्ततास्सगुरुवः शार्दूलविक्रीडितम्’ ॥ ५३ ॥
विश्वास-प्रस्तुतिः - ५४
इति निगदति मायावादिविद्वेषवेषे शुभजननिकरे स्वारामतोऽस्मात् प्रयातः ।
न्यवसदमरधिष्ण्ये प्राग्रयवाटाभिधाने गुरुमतिरभिनन्दन् देवमानन्दमूर्तिम् ॥ ५४ ॥
मूलम् - ५४
इति निगदति मायावादिविद्वेषवेषे शुभजननिकरे स्वारामतोऽस्मात् प्रयातः ।
न्यवसदमरधिष्ण्ये प्राग्रयवाटाभिधाने गुरुमतिरभिनन्दन् देवमानन्दमूर्तिम् ॥ ५४ ॥
॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते सुमध्वविजये महाकाव्ये आनन्दाङ्के द्वादशः सर्गः ॥
भावप्रकाशिका
स्वारामस्य ‘कावु’ इत्यपभ्रष्टभाषा । प्राग्रयवाटस्य ‘कोडिपाडि’
इति ॥ ५४ ॥
इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य
भावप्रकाशिकाख्यटीकायां द्वादशः सर्गः ॥ १२ ॥
पदार्थदीपिकोद्बोधिका
इतीति ॥ मायावादिषु विद्वेषः स एव वेषोऽलङ्कारो यस्य स मायावादिविद्वेषवेषस्तस्मिन् मायावादिविषये सम्पूर्णद्वेषयुक्त इत्यर्थः । शुभा ये जनास्तेषां निकरः समूहस्तस्मिन् श्रीमध्वमहाविजयमहोत्सवसकुतूहलिनि सज्जनसमूह इत्यर्थः । इति ‘आस्तामास्तामि’त्यादि निगदति सति । तस्माद्यत्र पद्मतीर्थो दृष्टो निरुद्धो वादे पराजितश्च । अस्मात्स्वारामतः ‘कावु’ इत्यपभ्रष्टसंज्ञकाद्देशात्प्रयातो गुरुमतिः पूर्णप्रज्ञः प्राग्रयञ्च तद्वाटञ्चोपवनञ्च प्राग्रयवाटं तदित्यभिधानं नाम यस्य तत्तथोक्तं तस्मिन् अपभ्रष्टसंज्ञायां ‘कोडिपाडी’ति संज्ञकेऽमरधिष्ण्यं देवस्थानं तस्मिन् । आनन्दो मूर्तिः शरीरं यस्य स तथा तं देवं तत्राधिष्ठितमानन्दरूपं जनार्दननामानं भगवन्तं दृष्ट्वा अभिनन्दन् सन्तुष्टः सन् न्यवसत् । चातुर्मास्यमुवास । मालिनीवृत्तम् । ‘ननमयययुतेयं मालिनी भौगिलोकैरित्युक्तेः ॥ ५४ ॥
इति श्रीमद्वेदाङ्गमुनिविरचितश्रीसुमध्वविजयटीकाविवृतौ श्रीविश्वपतितीर्थकृतौ पदार्थदीपिकोद्बोधिकायां द्वादशः ॥
मन्दोपाकारिणी
इतीति ॥ मायावादिविद्वेषवेषे मायावादिषु विद्वेषः स एव वेषो यस्य इति विग्रहः मायावादिविषये सम्पूर्णद्वेषयुक्ते इत्यर्थः । एवंभूते शुभजननिकरे शुभानां मध्वाचार्यविजयमहोत्सवे कुतूहलिनां जनानां निकरे समूहे इति ‘आस्ताम् आस्ताम् एष वो विश्वमोषः’ इत्यादिकं पूर्वोक्तप्रकारं वचनं निगदति वदति सति यस्मिन् आरामे पद्मतीर्थः निरुद्धः वादे पराजितश्च अस्मात् स्वारामतः शोभमानाद् आरामत उपवनात् ‘आरामः-स्यादुपवनं’ इत्यमरः प्रयातः निर्गतः गुरुमतिर् गुर्वी श्रेष्ठा मतिर् यस्य सः पूर्णप्रज्ञाचार्यः प्राग्रयवाटाभिधाने प्राग्रयवाटम् इति अभिधानं नाम यस्य तत्तथोक्तं तस्मिन् अमरधिष्ण्ये अमरस्य हरेर् धिष्ण्ये स्थाने देवालये इत्यर्थः ‘धिष्ण्यमोको निवसनं स्थानावसथवास्तु च’ इत्यमरः न्यवसच् चातुर्मास्यम् उवास ‘वस निवासे इत्यतो लङ् परस्मैपदं’ किं कुर्वन् आनन्दमूर्तिम् आनन्ददेहं देवं तद्देवालयेऽधिष्ठितं भगवन्तम् अभिनन्दन् प्रीणयन् इति पद्मतीर्थपराजयानन्तरम् अनुपदमेव वर्षाकाले प्राप्ते पद्मतीर्थाधिष्ठितस्थलं परित्यज्य प्राग्रयवाटाख्यदेवालये चातुर्मास्यम् उवासेति भावः मालिनीवृत्तं ‘ननमयययुतेऽयं मालिनी भोगिलोकैः’ इत्युक्तेः ॥ ५४ ॥
इति श्रीमध्वविजयटीकायां श्रीमच्छलारिनरसिंहाचार्याणां शिष्येण शेषेण विरचितायां मन्दोपकारिण्यां द्वादशः सर्गः ॥ १२ ॥