११ एकादशः सर्गः

एकादशः सर्गः

एकादशः सर्गः

विश्वास-प्रस्तुतिः - १

प्रचुरान्तरप्रवचनं फणिराडुपशुश्रुवान्ससनकादिमुनिः ।
गगनेऽल्पदृष्टवपुरत्र जनैस्त्वरितं निलीनरुचिराप पदम् ॥ १ ॥

मूलम् - १

प्रचुरान्तरप्रवचनं फणिराडुपशुश्रुवान्ससनकादिमुनिः ।
गगनेऽल्पदृष्टवपुरत्र जनैस्त्वरितं निलीनरुचिराप पदम् ॥ १ ॥

भावप्रकाशिका

विचन्द्रायां क्षपायां तु चन्द्रिकाभ्रमिणो जनाः ।

शेषस्य तेजस्यथ तं यान्तं मध्वो व्यदर्शयत् ॥ १ ॥

पदार्थदीपिकोद्बोधिका

प्रचुरान्तरेति ॥ अत्र रूप्यपीठपुरे । जनैर् भूमिष्ठैर्जनैर् गगने व्योमि्न अल्पं किञ्चिद् दृष्टं वपुर् यस्य तादृशः । ससनकादिमुनिः सनकादिमुनिसहितः फणिराट् सर्पराट् शेषः । प्रचुरं पूर्णम् अन्तरं ज्ञानं यस्य तस्य प्रवचनं व्याख्यानम् उपशुश्रुवान् श्रुतवान् सन् । त्वरितं शीघ्रं यथा भवति तथा निलीना अदृष्टा रुचिः कान्तिर् यस्य तादृशः सन् पदं निजस्थानम् आप । ‘विचन्द्रायां क्षपायां तु चन्द्रिकाभ्रमिणो जनाः । शेषस्य तेजस्यथ तं यान्तं मध्वो ह्यदर्शयदि’त्यैतिह्यम् । अस्मिन् सर्गे प्रायः प्रमिताक्षरावृत्तम् । ‘प्रमिताक्षरा सजससैर्गदिते’त्युक्तेः ॥ १ ॥

मन्दोपाकारिणी

प्रचुरेति ॥ ससनकादिमुनिः सनक एव आदिर् येषां ते सनकादयः सनकादयश्च ते मुनयश्च सनकादिमुनयस् तैः सहितः ससनकादिमुनिः । फणिराट् फणिनां सर्पाणां राट् राजा शेषः ‘कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी’ इत्यमरः । प्रचुरान्तरप्रवचनं प्रचुरं पूर्णम् अन्तरं मनः यस्य सः प्रचुरान्तरः प्रचुरान्तरस्य पूर्णप्रज्ञाचार्यस्य प्रवचनं ब्रह्मसूत्रभाष्यव्याख्यानम् उपशुश्रुवान् सन् । अत्र भूमौ जनैर् भूमिष्ठमनुष्यैर् गगने अन्तरिक्षे ‘नभोऽन्तरिक्षं गगनं’ इत्यमरः । अल्पदृष्टवपुर् अल्पं किञ्चिद् दृष्टं दृग्विषयीभूतं वपुः शरीरं यस्य सस् तथोक्तस्सन् । त्वरितं शीघ्रेण ‘जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रमरं द्रुतं’ इत्यमरः । निलीनरुचिर् निलीना तत्क्षण एव अदृष्टा रुचिः कान्तिर् यस्य स तथोक्तस्सन् ‘प्रभारुग्रुचिस्त्विड् भा भाश्छविद्युतिदीप्तयः’ इत्यमरः । पदं निजस्थानं ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु’ इत्यमरः । आप । ‘आप्लृ व्याप्तौ’ इत्यतो लिट् परस्मैपदम् । कदाचिन् मध्वाचार्ये ब्रह्मसूत्रव्याख्यानं कुर्वति सति शेषदेवः सनकादिमुनिभिस्सह आगत्य अन्तरिक्ष एव स्थित्वा मध्वव्याख्यानं श्रुत्वा गमनसमये भूमिष्ठश्रोतृजनैः किंचिद् दृष्टः सन् तत्क्षण एव अदृष्टः सन् स्वस्थानं जगाम इति भावः । अत्र इदम् ऐतिह्यम् ‘‘चन्द्राभावसमये तस्मिन् व्याख्यानस्थले व्याख्यानार्थम् आगतस्य शेषस्य शुभ्रायां कान्तौ व्याप्तायां कुत इदानीं चन्द्रिकेति आश्चर्यं कुर्वाणान् भूमिष्ठजनान् प्रति नेयं चन्द्रिका किंतु शेषकान्तिरिति वदन् मध्वः गच्छन्तं शेषं प्रदर्शयामास इति । अस्मिन् सर्गे प्रायः प्रमिताक्षरावृत्तं ‘प्रमिताक्षरा सजससैः कथिता’ इति तल्लक्षणात् ॥ १ ॥

विश्वास-प्रस्तुतिः - २

अतिचित्रधामि्न निजधामि्न रतं ससहस्रमस्तकमनन्तममुम् ।
मुनयोऽभिवाद्य विनयाभरणा वरमन्वयुञ्जत तदर्थमिमम् ॥ २ ॥

मूलम् - २

अतिचित्रधामि्न निजधामि्न रतं ससहस्रमस्तकमनन्तममुम् ।
मुनयोऽभिवाद्य विनयाभरणा वरमन्वयुञ्जत तदर्थमिमम् ॥ २ ॥

पदार्थदीपिकोद्बोधिका

अतीति ॥ विनय एव आभरणं येषां तादृशा मुनयः सनकादयः । अतिचित्रं धाम तेजो यस्य तस्मिन् । निजधामि्न स्वकीयमन्दिरे रतम् अवस्थितम् । ‘धामनी गृहतेजसी’त्यमरः । सहस्रसंख्याकानि च तानि मस्तकानि च तैः सहितम् अमुम् अनन्तं शेषम् अभिवाद्य अभिवन्द्य इमं वक्ष्यमाणं वरम् उत्तमम् अर्थं तदा अन्वयुञ्जत अपृच्छन् ॥ २ ॥

मन्दोपाकारिणी

अतीति ॥ गृहं प्रति गमनानन्तरं विनयाभरणा विनय एव आभरणं भूषणं येषां ते तथोक्ताः । मुनयः सनकादयो ऽतिचित्रधामि्न अतिचित्रम् आश्चर्यं धाम तेजः यस्य तद् अतिचित्रधाम तस्मिन् । निजधामि्न निजम् आत्मीयं च तद् धाम गृहं च निजधाम ‘धामनी गृहतेजसि’ इत्यभिधानं तस्मिन् रतं विद्यमानं ससहस्रमस्तकं सहस्रं च तानि मस्तकानि शिरांसि सहस्रमस्तकानि ‘मूर्धा ना मस्तकोऽस्त्रियां’ इत्यमरः, सहस्रमस्तकैः सहितः ससहस्रमस्तकः सहस्रफण इति यावत् । तम् अमुम् अनन्तं शेषं ‘शेषोऽनन्तो वासुकिस्तु’ इत्यमरः । अभिवाद्य नमस्कृत्य इमं वक्ष्यमाणं वरं वरणीयम् अवश्यं श्रवणीयम् इति यावत् । तदर्थं तस्य मध्वशास्त्रस्य अर्थं प्रष्टव्यप्रमेयम् अन्वयुञ्जत अपृच्छन् । ‘अनुपूर्वाद् युजिर् योगे इत्यतो लङ् आत्मनेपदम्’ ॥ २ ॥

विश्वास-प्रस्तुतिः - ३

भगवत्तमस्य विपुलप्रमतेः समयं मनोहरतमं जगति ।
महितं भवद्भिरपि लोकपते पठतां मुहुः फलमुदेष्यति किम् ॥ ३ ॥

मूलम् - ३

भगवत्तमस्य विपुलप्रमतेः समयं मनोहरतमं जगति ।
महितं भवद्भिरपि लोकपते पठतां मुहुः फलमुदेष्यति किम् ॥ ३ ॥

पदार्थदीपिकोद्बोधिका

भगवदिति ॥ हे लोकपते शेष जगति अत्यन्तं मनोहरं मनोहरतमं भवद्भिरपि महितं पूजितम् । अतिशयेन भगवान् भगवत्तमस् तस्य । षड्गुणवताम् उत्तमस्य इत्यर्थः । विपुला पूर्णा प्रमतिर् यस्य तस्य श्रीमध्वस्य समयं शास्त्रं मुहुः पठतां किं फलम् उदेष्यति सेत्स्यति । ‘इण् गतौ’ लृट् । इत्यन्वयुञ्जत इति सम्बन्धः ॥ ३ ॥

मन्दोपाकारिणी

भगवदिति ॥ हे लोकपते लोकस्य नागलोकस्य पते स्वामिन् शेष जगति लोके मनोहरतमम् अतिशयेन मनोहरं मनोहरतमम् । भवद्भिरपि लोके ज्ञानिश्रेष्ठत्वेन प्रसिद्धैर् युष्माभिरपि महितं पूजितम् । भगवत्तमस्य अतिशयेन भगवान् भगवत्तमस् तस्य । अतिशयितैश्वर्यादिगुणसम्पन्नस्य । विपुलप्रमतेर् विपुला पृथुला पूर्णेति यावत् प्रमतिः प्रज्ञा यस्य स तथोक्तस् तस्य पूर्णप्रज्ञाचार्यस्य ‘विपुलः पृथुलेऽगाधे’ इति विश्वः । समयं ब्रह्मसूत्रभाष्यादिशास्त्रं ‘समयाः शपथाचारकालसिद्धान्तसंविदः’ इत्यमरः । मुहुः पुनः पठताम् अर्थज्ञानपूर्वकं पाठं कुर्वतां श्रोतॄणां किं कीदृशं फलम् उदेष्यति सेत्स्यति । ‘उत्पूर्वकात् ‘इण् गतावित्यतो लृट् परस्मैपदम् एष्यति एष्यत एष्यन्ति’ ॥ ३ ॥

विश्वास-प्रस्तुतिः - ४

अधिकारिणां फलमलं विदुषां भवति प्रवृत्तिरतिवीर्यवती ।
इति तत्फलं सफलसंकथनो भगवान्प्रपञ्चयतु भूरिदयः ॥ ४ ॥

मूलम् - ४

अधिकारिणां फलमलं विदुषां भवति प्रवृत्तिरतिवीर्यवती ।
इति तत्फलं सफलसंकथनो भगवान्प्रपञ्चयतु भूरिदयः ॥ ४ ॥

पदार्थदीपिकोद्बोधिका

अधिकारिणामिति ॥ अधिकारो एषाम् अस्ति इति अधिकारिणस् तेषाम् अपि । श्रीमध्वशास्त्रश्रवणपठनादौ अधिकारिणाम् अपि इत्यर्थः । फलं श्रवणपाठादिजन्यं फलम् अलं सम्यक् विदुषां जानतां सतां प्रवृत्तिः श्रीमध्वशास्त्र-श्रवणादिरूपा क्रिया । अतिवीर्यं महाफलम् अस्या अस्ति इति अतिवीर्यवती भवति । ज्ञानपूर्वकं कृतस्य कर्मणः फलाधिक्यसद्भावादिति भावः । इति तस्मात् हेतोर् अस्माकं तत्फलज्ञानपूर्वकप्रवृत्यर्थं सफलं सत्यं सङ्कथनं सम्भाषणं यस्य तादृशो, भूरिर् भूयसी दया यस्य तादृशो भगवान् भवान् तत्फलं श्रीमध्वशास्त्रश्रवणपाठादिजन्यं फलं प्रपञ्चयतु विस्तरेण ब्रवीतु । इति अन्वयुञ्जत इति पूर्वेण सम्बन्धः ॥ ४ ॥

मन्दोपाकारिणी

किमर्थं फलप्रश्न इत्यत आह ॥ अधिकारिणाम् इति ॥ यस्मात् फलं मध्वशास्त्रश्रवणपाठादिजन्यं फलम् अलं सम्यक् विदुषां जानताम् अधिकारिणाम् अधिकारो येषाम् अस्तीति अधिकारिणस् तेषां मध्वशास्त्रश्रवणादौ योग्यतावतां जनानां प्रवृत्तिः शास्त्रश्रवणादौ प्रवृत्तिर् अतिवीर्यवती अतिवीर्यम् अस्या अस्तीति महाफलवती भवति । ज्ञानपूर्वकं कृतस्य कर्मणः फलाधिक्यसद्भावाद् इति भावः । इति तस्मात् हेतोः सफलसंकथनः सफलं फलेन सहितं संकथनं सम्भाषणं यस्य स तथोक्तः । भूरिदयः बहुदयालुर् उपदेशकरणे त्वद्दयाव्यतिरेकेण अन्यनिमित्तस्य अभावाद् इति भावः । भगवान् ज्ञानादिगुणवान् भवान् तत्फलं श्रीमध्वशास्त्रश्रवणपाठादेः फलं प्रपञ्चयतु विस्तरेण ब्रवीतु । इति अन्वयुञ्जत इति सम्बन्धः । प्रपूर्वात् ‘पचि विस्तारवचने’ इत्यस्माद्धातोर् लोट् परस्मैपदं प्रपञ्चयतु प्रपञ्चयतां प्रपञ्चयन्तु’ ॥ ४ ॥

विश्वास-प्रस्तुतिः - ५

इति तैरुदीरितमुदारमतिर्वचनं निशम्य स जगाद गिरम् ।
ृणुतादरेण महनीयतमं महनीयपादसमयस्य फलम् ॥ ५ ॥

मूलम् - ५

इति तैरुदीरितमुदारमतिर्वचनं निशम्य स जगाद गिरम् ।
ृणुतादरेण महनीयतमं महनीयपादसमयस्य फलम् ॥ ५ ॥

पदार्थदीपिकोद्बोधिका

इतीति ॥ उदारमतिर् उत्तममतिः स शेषः । तैर् मुनिभिर् उदीरितम् उक्तं वचनं निशम्य । महनीयतमं पूज्यतमम् । महनीयः पूज्यः पादः स्वरूपं यस्य तस्य श्रीमध्वस्य समयः शास्त्रं तस्य फलं श्रवणादिजन्यं फलम् आदरेण भक्तया ृणुतेति गिरं जगाद ॥ ५ ॥

मन्दोपाकारिणी

इतीति ॥ उदारमतिर् उदारा उत्कृष्टा मतिर् यस्य स तथोक्तः शेषः । तैः सनकादिभिर् इति पूर्वोक्तप्रकारेण उदीरितं वचनं निशम्य आकर्ण्य गिरं प्रत्युत्तररूपां वाचं जगाद अब्रवीत् । गद व्यक्तायां वाचीत्यतो लिट् परस्मैपदं जगाद जगदतुर् जगदुः । किमिति जगाद- हे मुनयः यूयं महनीयतमम् अतिशयेन महनीयम् अतिपूज्यं महनीयपादसमयस्य महनीयः पूज्यः पादः स्वरूपं यस्य सः महनीयपादः । ‘उत्तमानां स्वरूपन्तु पादशब्देन भण्यते’ इत्यभिधानम् । तस्य मध्वाचार्यस्य समयस्य शास्त्रस्य फलं श्रवणादिजन्यं फलम् आदरेण भक्त्या ‘आदरो भजनं भक्तिः’ इत्युक्तेः ृणुत आकर्णयत । ‘श्रु श्रवणे’ इत्यतो धातोर् लोट् परस्मैपदं ृणु ृणुतं ृणुत ॥ ५ ॥

विश्वास-प्रस्तुतिः - ६

त्रिदिवादि लभ्यमपि नास्य फलं कथितं कृषेरिव पलालकुलम् ।
स्वफलं तु मुक्तिपदमुक्तिपदं शुकशारदादिपरमार्थविदाम् ॥ ६ ॥

मूलम् - ६

त्रिदिवादि लभ्यमपि नास्य फलं कथितं कृषेरिव पलालकुलम् ।
स्वफलं तु मुक्तिपदमुक्तिपदं शुकशारदादिपरमार्थविदाम् ॥ ६ ॥

भावप्रकाशिका

‘शब्दयोनिरि’त्यारभ्य ‘श्यामावदाताः शतपत्रलोचनाः’ इत्यादि शुकोक्तिः । ‘धानापूपा मांसकामाः सदा पायसकर्दमाः’ इत्यादि शारदोक्तिः ॥ ६ ॥

पदार्थदीपिकोद्बोधिका

त्रिदिवादीति ॥ त्रिदिवः स्वर्ग आदिर् यस्य तत् त्रिदिवादि । लभ्यमपि सुलभमप्यस्य श्रीमध्वशास्त्रस्य फलं मुख्यफलं कृषेः कर्षकव्यापारस्य पलालकुलमिव शुष्कतृणसमूह इव न कथितं ज्ञानिभिर्न प्रोक्तम् । स्वफलं तु स्वस्य मुख्यफलं तु शुकः शुकमुनिः, स च शारदा सरस्वती त आदी येषां तादृशाः, ते च ते परमार्थविदश्च, परम उत्तमो योऽर्थो भगवांस्तं विदन्तीति तेषाम् । शुकशारदादि-परतत्त्वज्ञानिनामित्यर्थः । उक्तिपदं प्रशंसारूपवचनास्पदम् । तैः स्तुत्यमिति भावः । मुक्तिपदं मोक्षस्थानम् । तत्र ‘न वर्तते यत्र रजस्तमस्तयोः सत्वं च मिश्रं न च कालविक्रमः । न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः’ इत्यादिशुकोक्तिः । ‘धानापूपा मांसह्रदः सदा पायसकर्दमाः’ इति शारदोक्तिः ॥ ६ ॥

मन्दोपाकारिणी

त्रिदिवेति ॥ त्रिदिवादि त्रिदिवः स्वर्ग आदिर् यस्य तत् त्रिदिवादि । लभ्यमपि मध्वशास्त्रश्रवणेन सुलभमपि अस्य मध्वशास्त्रस्य फलं मुख्यफलं न कथितम् । किमिव कृषेः कर्षणव्यापारसिद्धस्य क्षेत्रस्य पलालकुलमिव पलालस्य निष्फलस्य व्रीह्यादितृणस्य कुलं समूहमिव ‘पलालोऽस्त्री स निष्फलः’ इत्यमरः । यद्यपि मध्वशास्त्रश्रवणादिना स्वर्गादिफलं भवति तथापि तन् मुख्यं फलं न भवति पलालस्य कृषिफलत्वेऽपि मुख्यफलत्वाभावाद् इति भावः । तर्हि मुख्यं फलं किमित्यत आह स्वेति ॥ स्वफलं स्वस्य मध्वशास्त्रस्य फलं तु मुख्यं फलं मुक्तिपदं मुक्तेर् मोक्षस्य पदं स्थानं कथंभूतं शुकशारदादिपरमार्थविदां शुकः शुकाचार्यः शारदा सरस्वती शुकश्च शारदा च शुकशारदे ते आदी येषां ते शुकशारदादयः परमः सर्वोत्तमश्चासौ अर्थश्च परमार्थः परतत्त्वं परमार्थं विदन्तीति परमार्थविदः शुकशारदादयश्च ते परमार्थविदश्च तेषाम् उक्तिपदम् उक्तीनां वचनानां पदम् आस्पदं शुकादिभिः स्तुत्यम् इत्यर्थः । भागवतादौ शुकादिभिर् मुक्तेः स्तुतत्वाद् इति भावः ॥ ६ ॥

विश्वास-प्रस्तुतिः - ७

परमागमार्थवरशास्त्रमिदं भजताममानवकलारचितम् ।
व्रजतामहो परमवैष्णवतां रतये स्वलोकमजितो दिशति ॥ ७ ॥

मूलम् - ७

परमागमार्थवरशास्त्रमिदं भजताममानवकलारचितम् ।
व्रजतामहो परमवैष्णवतां रतये स्वलोकमजितो दिशति ॥ ७ ॥

पदार्थदीपिकोद्बोधिका

परमेति ॥ मानवो मनुष्यो न भवतीति इति अमानवः श्रीमुख्यवायुस् तस्य या कला अंशः श्रीमध्वमुनिस् तेन रचितं कृतम् इदं परमा उत्तमा ये आगमा वेदादयस् तेषाम् अर्था येन शास्त्रेण तत्परमागमार्थं, तादृशं यद्वरशास्त्रम् उत्तमशास्त्रं भजतां श्रवणमननादि कुर्वताम् । अत एव विष्णोर् भक्ता वैष्णवा परमवैष्णवो मुख्यवैष्णवस्तस्य भावस्तत्ता तां व्रजतां सतां रतये क्रीडाया अजितः श्रीकृष्णः स्वलोको वैकुण्ठस् तं दिशति ददाति । अहो विस्मये ॥ ७ ॥

मन्दोपाकारिणी

परमेति ॥ अजितः नारायणो ऽमानवकलारचितं मानवः मनुष्यः न भवतीति अमानवः देव इत्यर्थः । मुख्यवायुस् तस्य कलया अंशभूतेन मध्वाचार्येण रचितं कृतम् इदं परमागमार्थवरशास्त्रं परमाश्च ते आगमा वेदादिसदागमाश्च परमागमास् तेषाम् अर्थः यस्मिन् तत् परमागमार्थं वेदाद्यर्थभूतम् इत्यर्थः । तच्च तद् वरशास्त्रम् उत्तमशास्त्रं च परमागमार्थवरशास्त्रम् । भजतां श्रवणमननादिना सेवमानानां परमवैष्णवतां विष्णोर् इमे वैष्णवा विष्णुभक्ताः परमा उत्तमाश्च ते वैष्णवाश्च परमवैष्णवाः परमवैष्णवानां भावः परमवैष्णवता तां व्रजतां प्राप्तवतां सज्जनानां रतये क्रीडायै स्वलोकं स्वस्य स्वात्मनः लोकं वैकुण्ठं लोकं दिशति ददाति । ‘दिश अतिसर्जने’ इत्यतो लट् परस्मैपदम् । अहो आश्चर्यम् । मध्वशास्त्रश्रवणादिना वैकुण्ठाख्यमहाफलप्राप्तिर् भवतीति वेदाद्यर्थरूपं मध्वशास्त्रं पठतां ृण्वतां व्याकुर्वतां च परमवैष्णवानां भगवान् लक्ष्मीपतिर् वैकुण्ठलोकं दिशतीति भावः । अनेन मध्वशास्त्रश्रवणादेः किं फलमित्यस्य प्रश्नस्य वैकुण्ठलोकप्राप्तिः फलम् इत्युत्तरम् उक्तं भवति ॥ ७ ॥

विश्वास-प्रस्तुतिः - ८

ननु तत्र विश्वविभवैकपदं परिभाति प्रतिभाति पूर्णपुरुषस्य पुरी ।
उपलभ्यते यदुपमानपदं प्रतिबिम्बमेव मणिवप्रगतम् ॥ ८ ॥

मूलम् - ८

ननु तत्र विश्वविभवैकपदं परिभाति प्रतिभाति पूर्णपुरुषस्य पुरी ।
उपलभ्यते यदुपमानपदं प्रतिबिम्बमेव मणिवप्रगतम् ॥ ८ ॥

पदार्थदीपिकोद्बोधिका

भगवल्लोके कोऽस्त्यतिशय इति अपेक्षायामाह –

नन्वित्यादिना ॥ तत्र भगवल्लोके विश्वे समस्ता ये विभवा ऐश्वर्याणि तेषाम् एकं मुख्यं यत्पदम् आस्पदम् । ‘धनं हिरण्यञ्च वसु विभव’ इति हलः । ‘पदं व्यवसितत्राणस्थानलक्ष्मां घ्रिवस्तुष्वि’त्यमरः । पूर्णपुरुषस्य श्रीहरेः पुरी परिभाति ननु लसति हि । मण्यात्मको वप्रः प्रकारस् तं गतं प्राप्तं प्रतिबिम्बमेव यदुपमानपदं यस्या उपमानस्थानम् उपलभ्यते ज्ञायते । मणिमयवप्रगतं प्रतिबिम्बमेव तस्याः पुर्या उपमानभावं भजते नान्यदिति भावः ॥ ८ ॥

मन्दोपाकारिणी

भगवल्लोके को ऽतिशयो ऽस्ति येन तस्य महाफलत्वम् इत्यतः वैकुण्ठगतातिशयं वर्णयति शेष इत्याह- नन्वित्यादिना ॥ उत्तरग्रन्थेन समग्रेण । तत्र वैकुण्ठलोके विश्वविभवैकपदं विश्वानि सर्वाणि च तानि विभवानि ऐश्वर्याणि च विश्वविभवानि सकलशोभातिशया इति यावत्, तेषाम् एकं मुख्यं पदं स्थानं ‘एके मुख्यान्यकेवलाः’ इत्यमरः । पूर्णपुरुषस्य पूर्णस्य सकलगुणपूर्णस्य पुरुषस्य हरेः । पुरी नगरी ‘पूः स्त्री पुरी नगर्यौ वा पत्तनं’ इत्यमरः प्रतिभाति ननु शोभते हि । प्रति पूर्वात् ‘भा दीप्तौ’ इत्यतो लट् परस्मैपदं भाति भातः भान्ति’ । कथंभूता पुरीत्यत आह- मणीति ॥ मणिवप्रगतं मणिमयश्चासौ वप्रः प्राकारश्च मणिवप्रः ‘वप्रः प्राकाररोधसोः’ इत्यमरः । तत्र गतं विद्यमानं रत्नखचितप्राकारे प्रतिफलितं विष्णुपुर्याः प्रतिबिम्बमेव यदुपमानपदं यस्याः पुर्या उपमानपदम् उपमानस्य सादृश्यस्य पदं स्थानं कविभिर् उपलभ्यते हि । भगवत्पुर्या रत्नप्राकारे प्रतिफलितप्रतिबिम्बं विना अन्यत्सदृशं वस्तु नास्तीति भावः । उपपूर्वात् ‘डु लभष् प्राप्तौ’ इत्यतः कर्मणि लडात्मनेपदम्’ ॥ ८ ॥

विश्वास-प्रस्तुतिः - ९

सितसौधसन्ततिरुचा स्फुरिता परितोऽरुणाश्मगृहपंक्तिरुचिः ।
इह मच्छरीरवलये लसितामनुयाति मूर्तिमसुरासुहृतः ॥ ९ ॥

मूलम् - ९

सितसौधसन्ततिरुचा स्फुरिता परितोऽरुणाश्मगृहपंक्तिरुचिः ।
इह मच्छरीरवलये लसितामनुयाति मूर्तिमसुरासुहृतः ॥ ९ ॥

पदार्थदीपिकोद्बोधिका

सितेति ॥ परितः सिता शुभ्रा ये सौधाः प्रासादास् तेषां सन्ततिः समूहस् तस्या रुक् कान्तिस् तया स्फुरिता लसिता । अरुणानि रक्तानि यान्यश्मानि पद्मरागमणयस् तन्मयानि यानि गृहाणि मन्दिराणि तेषां या पङ्क्तिस् तस्या रुचिः कान्तिः । इह अस्मिन् , मम शरीरमेव वलयो मण्डलं तस्मिन् मच्छरीरात्मक- शय्यामण्डल इत्यर्थः । इह मच्छरीरवलय इति शेषवाक्यम् । तथा च शेषात्मकशय्यामध्य इति यावत् । लसितां शोभमानाम् असुरासून् असुरप्राणान् हृतवान्निति असुरासुहृत् तस्य श्रीहरेर् मूर्तिर् अनुयाति विडम्बते । शुभ्रे मच्छरीरवलय उद्यदादित्यवर्णस्य श्रीहरेर्मूर्तिर्यथा शोभते तद्वत् सितसौधसन्ततिमध्यगतारुणाश्मगृहपङ्क्तिः शोभत इति भावः ॥ ९ ॥

मन्दोपाकारिणी

सितेति ॥ परितः गृहबहिर्भागे समंतात् सितसौधसन्ततिरुचा सुधानाम लेपनद्रव्यविशेषः ‘सुधा लेपोऽमृतं स्नुही’ इत्यमरः । तथा च सुधया लेपनद्रव्येण लिप्ताः सौधाः प्राकारास् तेषां संततिः समूहस् तस्या रुक् कान्तिः सिता शुभ्रवर्णा च सा सौधसंततिरुक् च तया स्फुरिता लसिता । अरुणाश्मगृहपङ्क्तिरुचिर् अरुणा रक्तवर्णाश्च ते अश्मानः पाषाणाश्च अरुणाश्मभिः पद्मरागमणिभिर् इत्यर्थः । निर्मितानि च तानि गृहाणि च तेषां पङ्क्तिर् आवलिस् तस्या रुचिः कान्तिः ‘स्युः प्रभारुग्रुचिस्त्विड् भा’ इत्यमरः । इह अस्मिन् मच्छरीरवलये मम शरीरं मच्छरीरं तस्य वलये मण्डले मच्छरीरात्मकशय्यायाम् इत्यर्थः । लसितां शोभमानाम् असुरासुहृतो ऽसुराणां दैत्यानाम् असून् प्राणान् ‘पुंसि भूम्नयसवः प्राणाः’ इत्यमरः । हरति अपहरतीति असुरासुहृत् । दान्तपाठे तु असुराणां सुहृन् मित्रं न भवतीति असुरासुहृत् शत्रुस् तस्य विष्णोर् मूर्तिं तनुम् अनुयाति अनुकरोति । अनु पूर्वात् ‘या प्रापणे’ इत्यतो लट् परस्मैपदं याति यातः यान्ति । अयं भावः भगवत्पुर्यां रक्तवर्णपद्मरागमणिनिर्मितानि गृहाणि सन्ति तत्परितः शुभ्रवर्णचूर्णलिप्ताः प्राकारास्सन्ति । शुभ्रप्राकारमध्यगतरक्तवर्णगृहपङ्क्तिर् धवलमच्छरीरमध्ये विद्यमानोद्यदादित्यवर्णहरिमूर्तिवद् भाति । यद्वा सितसौधसन्ततिरुचेत्यस्य अयमर्थः सिताः स्फटिकमणिनिर्मितत्वेन शुभ्राः सौधा राजसदनानि गृहविशेषा इत्यर्थः । ‘सौधोऽस्त्री राजसदनं’ इत्यमरः । तेषां सन्ततिरुचेति । ततश्च परितः स्फटिकनिर्मितगृहाणि तदन्तः पद्मरागमणिनिर्मितगृहाणि सन्तीत्यर्थः । सम्पद्यते अन्यत् सर्वं पूर्ववदेव भवति ॥ ९ ॥

विश्वास-प्रस्तुतिः - १०

शबला वलीकघटितस्फटिकद्युतिभिर्हरिन्मणिमयी वलभी ।
प्रतिसद्म भाति यमुना मिलिता सितसौरसैन्धवपयोभिरिव॥ १० ॥

मूलम् - १०

शबला वलीकघटितस्फटिकद्युतिभिर्हरिन्मणिमयी वलभी ।
प्रतिसद्म भाति यमुना मिलिता सितसौरसैन्धवपयोभिरिव॥ १० ॥

भावप्रकाशिका

आच्छादनं स्याद्वलभी गृहाणां गोपानसी दारु च वक्रसंस्थम् । नीध्रं वलीकं पटलान्तमाहुः कपोतपालीं च विटङ्कसंज्ञाम् इति । ‘हृद्भगसिन्ध्वन्ते पूर्वपदस्य चे’ति पूर्वपदवृद्धिः । सौरसैन्धवपयोभिः ॥ १० ॥

पदार्थदीपिकोद्बोधिका

शबलेति ॥ वलीकघटितस्फटिकद्युतिभिर् वलीके गृहाच्छादनाग्रे । ‘नीध्रं वलीकं पटलान्तमाहुरि’ति हलः । ‘वलीकनीध्रे पटल’ इत्यमरश्च । पटलमिति गृहाच्छादनमुच्यते । ‘पटलं छदिरि’त्यमरः । तथा च गृहाच्छादनभूतफलकादी-नामग्रभागे घटिता याः स्फटिकद्युतयः स्फटिकानां कान्तयस् ताभिः शबला मिश्रा हरिन्मणिमयी इन्द्रनीलरत्नमयी वलभी गृहाणाम् आच्छादनम् । ‘आच्छादनं स्याद्वलभी गृहाणामि’ति हलः । ‘वलभीच्छादने वक्रदारुणी’त्यमरश्च । सद्म सद्म प्रति प्रतिसद्म प्रतिमन्दिरं सुरसिन्धोर् गङ्गायाः सम्बन्धीनि सौरसैन्धवानि तानि च तानि पयांसि च । सितानि श्वेतानि च तानि सौरसैन्धवपयांसि च, तैर् मिलिता यमुनेव यमुनानदीव भाति शोभते । सौरसैन्धवेति ‘हृद्भगसिन्ध्वन्तेभ्यः पूर्वपदस्य चे’त्युभयपदवृद्धिः । सौभाग्यं सौहार्दम् इतिवत् ॥ १० ॥

मन्दोपाकारिणी

शबलेति ॥ वलीकघटितस्फटिकद्युतिभिर् अत्र वलीकशब्देन पटलप्रान्तभाग उच्यते पटलशब्देन तु आच्छादनमुच्यते ‘वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः’ इत्यमरः । तथा च वलीके आच्छादनाग्रे गृहाच्छादनभूतपटलप्रान्तभागे इति यावत् । घटितानां खचितानां स्फटिकानां स्फटिकनामकशुभ्रमणीनां द्युतिभिः कान्तिभिः शबला कर्बुरा मिश्रितेति यावत् ‘चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे’ इत्यमरः । हरिन्मणिमयी इन्द्रनीलरत्नखचिता वलभी गृहाणाम् आच्छादनं ‘आच्छादनन्तु वलभी गृहाणां’ इति हलायुधः । ‘गोपानसी तु वलभी छादने वक्रदारुणि’ इत्यमरः । प्रतिसद्म सद्मप्रति प्रतिसद्म इति अव्ययसमासः । सर्वगृहेषु इत्यर्थः । ‘गृहं गेहोदवसितं वेश्म सद्म निकेतनं’ इत्यमरः । भाति शोभते । का इव ? सितसौरसैन्धवपयोभिः सुरसिन्धुर् देवनदी गङ्गा ‘सिन्धुर्ना सरितस्त्रियां’ इत्यमरः । सुरसिन्धोः सम्बन्धीनि सौरसैन्धवानि तानि च तानि पयांसि जलानि सितानि शुभ्राणि च तानि सौरसैन्धवपयांसि च तथोक्तानि तैः । मिलिता सङ्गता यमुना तन्नामकनदीव यथा सितासितयोर् गङ्गायमुनयोः सङ्गमः शोभते तद्वत् शुभ्रस्फटिकखचितगृहाच्छादनप्रान्तभागनीलमणिखचितगृहाच्छादनयोः सङ्गमः शुशुभे इति भावः सौरसैन्धव इत्यत्र ‘हृद्भगसिन्ध्वन्ते पूर्वपदस्य च’ इति उभयथा पदवृद्धिः

सौभाग्यम् इतिवत् ॥ १० ॥

विश्वास-प्रस्तुतिः - ११

यदि नाभविष्यदिह विभ्रमतानियमो जनस्य निलयावलिषु ।
विकटा विटङ्ककृतपत्रिततिः कृतकेत्यवैक्ष्यत कथञ्चन नो॥ ११ ॥

मूलम् - ११

यदि नाभविष्यदिह विभ्रमतानियमो जनस्य निलयावलिषु ।
विकटा विटङ्ककृतपत्रिततिः कृतकेत्यवैक्ष्यत कथञ्चन नो॥ ११ ॥

भावप्रकाशिका

विकटा श्रेष्ठा च ॥ ११ ॥

पदार्थदीपिकोद्बोधिका

यदीति ॥ इह वैकुण्ठे । जनस्य यदि विगतो भ्रमो भ्रान्तिज्ञानं येषां ते विभ्रमास् तेषां भावो विभ्रमता तस्या नियमो नाभविष्यत् । तर्हि निलयावलयो मन्दिरपङ्क्तयस्तासु विकटा श्रेष्ठा दर्शनीया इत्यर्थः । विटङ्के कपोतपाटिकायां कृता रचिता या पत्रिततिः पक्षिसमूहः ‘कपोतपाटिकायां तु विटङ्कं पुन्नपुंसकमि’त्यमरः । कृतकेति कृत्रिमेति कथञ्चन नो अवैक्ष्यत ।’ लिङ् निमित्ते लृङ् क्रियातिपत्ताविति लृङ् । अयं भावः- वैकुण्ठे वर्तमानजनानां यदि विभ्रमतानियमो भ्रान्तिराहित्यनियमो न स्यात् तर्हि विटङ्ककृतपत्रिततिं पश्यतां तेषां कृत्रिमत्वप्रतीतिर् न स्यात् । किन्तु अकृत्रिमा एते पक्षिण इति प्रतीतिर् भवेत् । अस्ति च अत्र विगतभ्रान्तित्वनियमः ।

मुक्तानां भ्रान्तिलेशस्यापि असम्भवात् । तस्माद् विटङ्ककृतपत्रिततिं दृष्ट्वा कृतकत्वेनैव व्यज्ञासिषुरिति ॥ ११ ॥

मन्दोपाकारिणी

यदीति ॥ इह वैकुण्ठे जनस्य मुक्तजनस्य यदि विभ्रमतानियमः विगतः भ्रमः भ्रान्तिर् येभ्यस् ते विभ्रमा विभ्रमाणां भावो विभ्रमता तस्या नियमः सर्वथा भ्रान्त्यभाव इत्यर्थः । नाभविष्यत् । यदि मुक्तानां नियमेन भ्रान्तिर् नास्तीति न स्याद् इति यावत् । तर्हि निलयावलिषु निलयानां गृहाणाम् आवलिषु पङ्क्तिषु विकटा सुन्दरा दर्शनीया ‘विकटः सुन्दरः प्रोक्तः’ इति विश्वः । विटङ्ककृतपत्रिततिर् विटङ्केषु पक्षिगृहेषु कृतानां पतत्रिणां पक्षिणां ततिः समूहः ‘पतत्रिपत्रिपतगः’ इत्यमरः विटङ्ककृता च सा पत्रिततिश्च विटङ्ककृतपत्रिततिः । कृतकेति कृत्रिमेति मुक्तैः कथञ्चन केन प्रकारेणापि नो अवैक्ष्यत नैव ज्ञायेत । ‘अवपूर्वाद् ईक्ष दर्शनाङ्कनयोर् इत्यतः कर्मणि लङ् आत्मनेपदम् अवैक्ष्यत अवैक्ष्येताम् अवैक्ष्यन्त’ । अयं भावः- वैकुण्ठगृहेषु कपोतपालिकाख्यस्थलविशेषे काष्ठादिविकाराः कृत्रिमा दर्शनीयाः पक्षिणः स्थापितास्सन्ति । ते च स्वाभाविकपक्षिवद् उत्पतिष्यन्तीव दृश्यन्ते तथापि तादृशपक्षिणः पश्यतां मुक्तानाम् अकृत्रिमत्वभ्रान्तिर् न भवति । अज्ञानलेशस्यापि असम्भवात् । अन्यथा मुक्तत्वव्याहतेः । किन्तु कृत्रिमा एते पक्षिण इत्येव प्रतीतिर् भवति । अनेन कृत्रिमा अपि अकृत्रिमसदृशास्सन्ति भ्रान्तिजनकेऽपि तादृशे वस्तुनि मुक्तानां सर्वथा भ्रान्तिर् नास्ति इति च एवंरूपो ऽतिशयः वैकुण्ठे उक्तो भवति ॥ ११ ॥

विश्वास-प्रस्तुतिः - १२

विविधस्तुलोपगतचित्रपटीसुवितानलम्बिमणिदामगणः ।
शरणान्तरेष्वधिकपूरणतः प्रचकास्ति विभ्रम इवावगलन्॥ १२ ॥

मूलम् - १२

विविधस्तुलोपगतचित्रपटीसुवितानलम्बिमणिदामगणः ।
शरणान्तरेष्वधिकपूरणतः प्रचकास्ति विभ्रम इवावगलन्॥ १२ ॥

पदार्थदीपिकोद्बोधिका

विविध इति ॥ विविधः नानावर्णस् तुलायां मन्दिरान्तस्थतुलायाम् उपगतं सम्बद्धं यच् चित्रपटीसुवितानं चित्रपटात्मकशोभनवितानं तस्माल्लम्बी लम्बमानो यो मणिदामगणो मणिमालासमूहः । शरणान्तरेषु मन्दिरान्तः प्रदेशेषु अधिकपूरणतो ऽतिपूर्णताया अवगलन् स्रवन् विभ्रम इव कान्तिरिव प्रचकास्ति शोभते ॥ १२ ॥

मन्दोपाकारिणी

विविध इति ॥ विविधः नानावर्णः । तुलोपगतचित्र-पटीसुवितानलम्बिमणिदामगणस् तुला मन्दिरान्तः स्तम्भद्वयोपरि तिर्यक् स्थापितः गृहाच्छादनभूतफलकाद्याधारः वृक्षशिलारूपः पदार्थस् तुलासु मन्दिरान्तर्गततुलासु उपगता सम्बद्धचित्रपटी चित्रा नानावर्णा पटी पटः वस्त्रं तदात्मकं सु शोभनं वितानं तस्माद् लम्बी अधोमुखत्वेन वर्तमानः मणीनां दामानि मालास् तेषां गणः समूहः प्रचकास्ति शोभते । ‘चकासृ दीप्तौ’ इत्यतः लट् परस्मैपदं चकास्ति चकास्तश् चकासति’ । चित्रा च सा पटी च चित्रपटी । तुलासु उपगता तुलोपगता । तुलोपगता च सा चित्रपटी च चित्रपट्यात्मकं च तत् सुवितानं च चित्रपटीसुवितानम् । वितानाद् लम्बी वितानलम्बी मणीनां दामानि मणिदामानि मणिदाम्नां गणः वितानलम्बी चासौ मणिदामगणश्च इति विग्रहः । ‘अस्त्री वितानमुल्लोचो दूष्याद्यं वस्त्रवेश्मनि’ इत्यमरः । अन्तरेषु अन्तःस्थितप्रदेशेषु ‘अन्तरमवकाशावधी’ इत्यमरः । अधिकपूरणतो ऽतिपूर्णत्वाद् अवगलन् विभ्रम इव कान्तिरिव ‘विभ्रमः संशये भ्रान्तौ शोभायां च’ इति वैजयन्ती । अयं भावः- ‘गृहान्तः विचित्रवस्त्रात्मकवितानानि तुलासम्बद्धानि प्रसारितानि वर्तन्ते । तेषु रत्नमाला अधोलम्ब-मानाः सन्ति । तासु अधोलम्बमानासु रत्नमालासु एवम् उत्प्रेक्षा– ‘गृहान्तः सर्वत्र कान्तीनां व्याप्तत्वात् पुनः प्रदेशाभावाद् अतिरिच्यमानाः कान्तयो ऽधः स्रवन्तीव’ इति ॥ १२ ॥

विश्वास-प्रस्तुतिः - १३

विमलाकृतिः प्रकृतिरेव महामणिहेममय्यखिलवस्तुमयी ।
इह सम्भवेत्सकलकान्तिरसः कथितोऽधिकोक्तिभिरतः कविभिः ॥ १३ ॥

मूलम् - १३

विमलाकृतिः प्रकृतिरेव महामणिहेममय्यखिलवस्तुमयी ।
इह सम्भवेत्सकलकान्तिरसः कथितोऽधिकोक्तिभिरतः कविभिः ॥ १३ ॥

पदार्थदीपिकोद्बोधिका

‘ननु तत्र विश्वविभवैकपदमि’ त्यादिनोक्तं नासम्भावितमित्याह–विमलाकृतिरिति ॥ इह वैकुण्ठे विमला आकृतिः स्वरूपं यस्यास् तादृशी प्रकृतिरेव रमैव । यतो महामणयश्च हेमानि च तेषां स्वरूपा महामणिहेममयी । किं बहुना ? अखिलानि यानि वस्तूनि तदात्मिकाऽखिलवस्तुमयी । अतः कविभिर् अधिका आपाततो ऽत्युक्तितया प्रतीयमाना या उक्तयो वचांसि ताभिः कथितः सकलानां समस्तपदार्थानां कान्तिरसः शोभातिशयः । सकलवस्तुनिष्ठत्वेनोच्यमानः शोभातिशय इत्यर्थः । सम्भवेद् घटत एव । मणिहेमाद्यखिलवस्तूनां निर्दोषकान्तिरूपरमात्मकत्वान् नासम्भावितं किमपीति भावः ॥ १३ ॥

मन्दोपाकारिणी

‘ननु तत्र विश्वविभवैकपदं’ इत्यादिनोक्तं नासम्भावितमित्याह -विमलेति ॥ यत इह भगवत्पुर्यां विमलाकृतिर् विमला निर्दोषा आकृतिः स्वरूपं यस्याः सा विमलाकृतिः । प्रकृतिरेव महालक्ष्मीरेव महामणिहेममयी मणयः रत्नानि च हेम सुवर्णं च मणिहेमानि ‘हिरण्यं हेमहाटकं’ इत्यमरः, महान्ति अमूल्यानि च तानि मणिहेमानि च मणिहेमस्वरूपा मणिहेममयी । किं बहुना ? अखिलवस्तुमयी अतः कविभिः काव्यकारैर् अधिकोक्तिभिर् अधिकाश्च ता उक्तयश्च अधिकोक्तय आपाततो ऽत्युक्ततया प्रतीयमान-वचनानि ताभिः कथित उच्यमानः सकलकान्तिरसः कान्तीनां रसो ऽतिशयः कान्तिरसः शोभातिशयः सकलश्चासौ कान्तिरसश्च तथोक्तः सम्भवेद् घटत एव । गृहमणिसुवर्णाद्य-खिलपदार्थानां निर्दोषातिसुन्दरकान्तिरमास्वरूपत्वाद् अत्र उच्यमानः शोभातिशयः कोऽप्यसम्भावितः न भवतीति भावः ॥ १३ ॥

विश्वास-प्रस्तुतिः - १४

तदनादिकालमितमुक्तिरतेरगणेयशम्भुमुखसङ्घततेः ।
नगरैर्महापुरमसंहतिमल्लसति प्रभोरयमहो महिमा ॥ १४ ॥

मूलम् - १४

तदनादिकालमितमुक्तिरतेरगणेयशम्भुमुखसङ्घततेः ।
नगरैर्महापुरमसंहतिमल्लसति प्रभोरयमहो महिमा ॥ १४ ॥

पदार्थदीपिकोद्बोधिका

तदिति ॥ न विद्यते आदिर् यस्य सोऽनादिः स चासौ कालश्च तम् । ‘कालाध्वनोरि’ति द्वितीया । अनादिकाल इत्यर्थः । इता प्राप्ता मुक्तिरतिर् मुक्तिसुखं यया तादृशी तस्याः । अगणय्या अगणिता ये शम्भुमुखसङ्घाः शम्भुर् ब्रह्मा रुद्रो वा मुखं प्रधानो येषां देवानां ते शम्भुमुखास् तेषां सङ्घास्तेषां ततिः पङ्क्तिस्तस्याः । ‘शम्भुर्धातृहरार्हत्स्वि’ति वैजयन्ती । नगरैः पुरैः संहतेरभावोऽसंहतिः सा अस्यास्तीति असंहतिमत् । सम्बाधरहितमित्यर्थः । तन् महापुरं महानगरं लसति । अयं संहत्यभावः, अनादितः प्रतिकल्पं मुक्तानाम् अनन्तानां ब्रह्मरुद्रादीनां नगरसमूहैः पूरणेऽपि तस्मिन्नगरे संहत्यभाव इत्यर्थः । प्रभोः श्रीनारायणस्य महिमा सामर्थ्यम् । अहो एतदाश्चर्यम् ॥ १४ ॥

मन्दोपाकारिणी

तदिति ॥ अनादिकालम् अनादिश्चासौ कालश्च तं ‘कालाध्वनोरत्यन्तसंयोगे’ इति द्वितीया अनादिकालतः । इतमुक्तिरतेर् मुक्तेर् मोक्षस्य रतिः सुखं मुक्तिरतिर् इता प्राप्ता मुक्तिरतिर् यया सा तथोक्ता तस्याः । अनादिकालान् मोक्षसुखम् अनुभवन्त्या इत्यर्थः । अगणेयशम्भुमुखसंघततेः शम्भुश् चतुर्मुखः ‘शम्भू ब्रह्म त्रिलोचनौ’ इत्यमरः, स एव मुखम् आदिर् येषां ते शम्भुमुखा गरुडशेषादयस् तेषां सङ्घः समूहस् तस्य ततिः पङ्क्तिः । गणयितुं शक्या गणेया ‘गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम्’ इत्यमरः, न गणेया अगणेया । अगणेया च सा शम्भुमुखसङ्घततिश्च तस्याः । नगरैः पट्टणैर् असंहतिमत् संहतिः सान्द्रसम्बन्धः न संहतिर् असंहतिर् अस्यास्तीति असंहतिमत् । तद् वैकुण्ठाख्यं महापुरं महच्च तत्पुरं च उत्तमनगरं लसति राजते’ । ‘लस दीप्तौ’ इत्यतो लट् परस्मैपदम्’ । अयम् अनन्तजनैः पूरितेऽपि नगरे सङ्कुलत्वाभावः प्रभोर् विष्णोर् महिमा माहात्म्यम् अहो आश्चर्यम् । अनादिकालतः प्रतिकल्पं मुक्ता ब्रह्मशेषगरुडादिजीवगणा अनन्तास् तत्र सन्ति तेषां पृथक् नगराणि सन्ति । एवं च अनन्तकालीनानन्तब्रह्मादिनगरसमूहैः पूर्णेऽपि नगरे निरवकाशत्वलक्षणसंहत्यभावोऽस्ति, ‘अवकाशवन्तो दिव्यत्वात् पूर्यन्ते न कदाचन’ इति वचनादिदं च विष्णोः सामर्थ्यम् अत्याश्चर्यम् इति भावः ॥ १४ ॥

विश्वास-प्रस्तुतिः - १५

भवनं विभाति भुवनैकपतेर्भुवनत्रयाद्भुतगणातिशयि ।
वरमन्दिरप्रकरमध्यगतं द्विजमण्डलस्थशशिमण्डलवत् ॥ १५ ॥

मूलम् - १५

भवनं विभाति भुवनैकपतेर्भुवनत्रयाद्भुतगणातिशयि ।
वरमन्दिरप्रकरमध्यगतं द्विजमण्डलस्थशशिमण्डलवत् ॥ १५ ॥

पदार्थदीपिकोद्बोधिका

भवनमिति ॥ भुवनानां लोकानां त्रयं, तस्य ये अद्भुतगुणास् तान् अतिशयितुं शीलमस्येति तादृशम् । भुवनत्रयगतसर्वैश्वर्यगुणाति-शयिष्ण्वित्यर्थः । वरमन्दिराणि उत्तममन्दिराणि तेषां ये प्रकराः समूहास् तेषां यन्मध्यं तद् गतं प्राप्तम् । भुवनानाम् एकपतिर्मुख्यपतिस् तस्य श्रीहरेर् भवनं मन्दिरम् । द्विजमण्डले नक्षत्रसमूहे तिष्ठतीति तादृशं यच्छशिमण्डलं चन्द्रबिम्बं तद्वद् विभाति शोभते ॥ १५ ॥

मन्दोपाकारिणी

भवनमिति ॥ भुवनत्रयाद्भुतगणातिशयि भुवनानां त्रयं तत्र विद्यमानाश्च ते अद्भुतगणा आश्चर्यसमूहाश्च ‘विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवं’ इत्यमरः, तान् अतिशेते इति भुवनत्रयाद्भुतगणातिशयि अलौकिकसर्वाश्चर्योपेतम् इत्यर्थः । वरमन्दिरप्रकरमध्यगतं वराणि श्रेष्ठानि च तानि मन्दिराणि तेषां प्रकरः समूहस् तस्य मध्ये गतं विद्यमानं ‘पूगो वितानं प्रकरः’ इत्यमरः । भुवनैकपतेर् भुवनानां सर्वलोकानाम् एकपतेर् मुख्यनाथस्य हरेर् भवनं मन्दिरं विभाति शोभते । किमिव द्विजमण्डलस्थशशिमण्डलवद् द्विजानां नक्षत्राणां मण्डलं समूहस् तस्मिन् तिष्ठतीति द्विजमण्डलस्थं शशिनश् चन्द्रस्य मण्डलं बिम्बं शशिमण्डलं द्विजमण्डलस्थं च तत् शशिमण्डलं च शशिमण्डलमिव शशिमण्डलवत् । अत्र द्विजशब्दस्य नक्षत्रवाचकत्वं ‘द्विजराजः शशधर’ इति चन्द्रस्य द्विजराजत्वोक्तेर् अवगम्यते । यथा नक्षत्रसमूहमध्ये सर्वमनोहरं चन्द्रमण्डलं शोभते

तद्वत् परितो विद्यमानप्रकाशमानमन्दिरसमूहमध्ये अत्यपूर्वं विष्णोर्भवनं देदीप्यते

इति भावः ॥ १५ ॥

विश्वास-प्रस्तुतिः - १६

स्वयमिन्दिरैव पतिमानकरी गृहकर्म यत्र कुरुते सुतराम् ।
अपि किङ्करीदशशतीमहिता श्रियमत्र वर्णयति वेश्मनि कः॥ १६ ॥

मूलम् - १६

स्वयमिन्दिरैव पतिमानकरी गृहकर्म यत्र कुरुते सुतराम् ।
अपि किङ्करीदशशतीमहिता श्रियमत्र वर्णयति वेश्मनि कः॥ १६ ॥

पदार्थदीपिकोद्बोधिका

स्वयमिति ॥ यत्र भगवन्मन्दिरे । पत्युः स्वभर्तुर् मानः सम्भावना तं करोतीति तादृशी इन्दिरा स्वयमेव किङ्करीणां दासीनां दशशत्या सहस्रेण महितापि सम्पूजितापि सुतराम् अत्यन्तं गृहकर्म सम्मार्जनलेपनादिगृहकृत्यं कुरुते । अत्र एतादृशे वेश्मनि श्रियं शोभां को वर्णयति ? न कोऽपीत्यर्थः ॥ १६ ॥

मन्दोपाकारिणी

स्वयमिति ॥ यत्र भगवन्मन्दिरे । पतिमानकरी पत्युर् भर्तुर् नारायणस्य मानं पूजां कुर्वती इन्दिरा लक्ष्मीः स्वयमेव सुतराम् अतिशयेन गृहकर्म गृहस्य कर्म संमार्जनलेपादिकृत्यं कुरुते करोति । कथंभूता किंकरीदशशतीमहिता किंकरीणां दासीनां दशशत्या सहस्रेण महितापि पूजितापि अत्र वेश्मनि गृहे श्रियं शोभां कः को वा वर्णयति वर्णयितुं समर्थः न कोऽपि इत्यर्थः । बहुदासीसेवितापि रमा स्वयं पतिशुश्रूषणे रता सती दासीव गृहसंमार्जनलेपादिगृहकृत्यं करोति इति । एतत् शोभातिशयं को वर्णयेद् इति भावः । अनेन स्त्रियाः पतिशुश्रूषणम् आवश्यकमित्युक्तं भवति । ‘डु

कृञ् करणे’ इत्यतो लट् आत्मनेपदं कुरुते कुर्वाते कुर्वते । ‘वर्ण स्तुतौ’ इत्यतो

लट् परस्मैपदम् ॥ १६ ॥

विश्वास-प्रस्तुतिः - १७

कमलापतिः कमलयाऽमलया कमनीयया कमललोचनया ।
अमृताहिराजमृदुभोगगतः स्वरतोऽपि तत्र रमते परमः ॥ १७ ॥

मूलम् - १७

कमलापतिः कमलयाऽमलया कमनीयया कमललोचनया ।
अमृताहिराजमृदुभोगगतः स्वरतोऽपि तत्र रमते परमः ॥ १७ ॥

पदार्थदीपिकोद्बोधिका

कमलेति ॥ परमः सर्वोत्तमः कमलापतिः श्रीपतिः स्वेन रतः स्वरतस् तथापि तत्र उक्तगुणविशिष्टे स्वमन्दिरे । अमृतो मुक्तो यो ऽहिराजः सर्पराजः शय्यात्मकः शेषस् तस्य यो मृदुभोगो मृदुशरीरं तं गतः प्राप्तः सन् । ‘ओः शरीरं भोगः स्यादि’ति हलः । न विद्यते मलं दुःखस्पृष्टत्वादिदोषा यस्यास् तया, कमनीयया मनोहरया, कमलवद् लोचने यस्यास् तया, कमलया रमया रमते ॥ १७ ॥

मन्दोपाकारिणी

कमलेति ॥ परमः सर्वोत्तमः कमलापतिः कमलाया लक्ष्म्याः पतिर् भर्ता ‘कमला श्रीर्हरिप्रिया’ इत्यमरः । स्वरतोऽपि स्वेनैव रतोऽपि रममाणोऽपि तत्र पूर्वोक्तगुणविशिष्टे अतिसुन्दरे मन्दिरे । अमृताहिराजमृदुभोगगतो ऽहीनां सर्पाणां राजा अहिराजः शेषः ‘भुजङ्गोऽहिर्भुजङ्गमः’ इत्यमरः, अमृतः मुक्तश्चासौ अहिराजश्च अमृताहिराजस् तस्य मृदुः कोमलश्चासौ भोगः देहश्च तस्मिन् गतः मुक्तशेषशरीरात्मक-शय्यागतस्सन् ‘भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः’ इत्यमरः । अमलया निर्दोषया कमनीयया मनोहरया कमललोचनया कमलवद् लोचने यस्याः सा तथोक्ता तया कमलया श्रीदेव्या रमते क्रीडते । ‘रमु क्रीडायामित्यतो लडात्मनेपदं रमते रमेते रमन्ते’ ॥ १७ ॥

विश्वास-प्रस्तुतिः - १८

तरुणप्रभाकरसहस्ररुचं कनकाम्बरं मणिमयाभरणम् ।
हसिताननेन्दुमरविन्ददृशं तमरीन्द्रधारिणमनुस्मरत ॥ १८ ॥

मूलम् - १८

तरुणप्रभाकरसहस्ररुचं कनकाम्बरं मणिमयाभरणम् ।
हसिताननेन्दुमरविन्ददृशं तमरीन्द्रधारिणमनुस्मरत ॥ १८ ॥

पदार्थदीपिकोद्बोधिका

तरुणेति ॥ तरुणा उद्यन्तो ये प्रभाकराः सूर्यास् तेषां यत्सहस्रं तस्य रुगिव रुक् दीप्तिर् यस्य तम् । कनकवर्णम् अम्बरं यस्य तम् । पीताम्बर-मित्यर्थः । मणिमयानि रत्नमयानि आभरणानि यस्य तम् । आननमेवेन्दुः, हसितो मन्दस्मितोपेत आननेन्दुर् यस्य तम् । अरविन्दवद् दृशौ यस्य तम् । अरीन्द्रं चक्रश्रेष्ठं धर्तुं शीलमस्येति तं श्रीहरिम् अनुस्मरत चिन्तयत । इदं सनकादीन् प्रति शेषवचनम् ॥ १८ ॥

मन्दोपाकारिणी

तरुणेति ॥ हे सनकादयः यूयम् अरीन्द्रधारिणम् अरीन्द्रं सुदर्शनचक्रं धारयति धत्ते इति अरीन्द्रधारी तम् अरीन्द्रधारिणं ‘अरिः पुमांश्चक्रवाके रिपौ चक्रे तु न द्वयोः’ इत्यमरः । तं परमात्मानम् अनुस्मरत अनुचिन्तयत । ‘स्मृ स्मरणे’ इत्यतो लोट् परस्मैपदं स्मर स्मरतं स्मरत । कथंभूतं तरुणप्रभाकरसहस्ररुचं तरुणा उद्यन्तश्च ते प्रभाकराः ‘तरुणः स्यान्नवे यूनि’ इति विश्वः । ‘प्रभाकरविभाकराः’ इत्यमरः । तरुणप्रभाकराणां सहस्रवद् रुक् कान्तिर् यस्य सस् तरुणप्रभाकरसहस्ररुक् तम् उद्यदादित्यसहस्रसदृशवर्णम् । पुनः कीदृशं कनकाम्बरं कनकवद् अम्बरं वस्त्रं यस्य स तथोक्तस् तं पीताम्बरधारिणं ‘अम्बरं व्योमि्न वाससि’ इत्यमरः । पुनः किंभूतं मणिमयाभरणं मणिमयानि नवरत्नखचितानि आभरणानि यस्य सस् तम् । हसिताननेन्दुं हसितः मन्दस्मितोपेत आननेन्दुर् मुखचन्द्रः यस्य स तथोक्तस् तम् । अरविन्ददृशम् अरविन्दवत् कमलवद् दृशौ चक्षुषी यस्य स तथोक्तस् तम् ॥ १८ ॥

विश्वास-प्रस्तुतिः - १९

गणयेद्रमाऽस्य न गुणानखिलांश्चतुराननश्चतुरवागपि नो ।
न वयं सहस्रवदना अपि तानपरोदितानतिवदेम पुनः ॥ १९ ॥

मूलम् - १९

गणयेद्रमाऽस्य न गुणानखिलांश्चतुराननश्चतुरवागपि नो ।
न वयं सहस्रवदना अपि तानपरोदितानतिवदेम पुनः ॥ १९ ॥

पदार्थदीपिकोद्बोधिका

गणयेदिति ॥ रमा अस्य भगवतो गुणान् अखिलान् सर्वानपि न गणयेत् । गण संख्याने लिङ् । सर्वगुणान् गणयितुम् अशक्तेति भावः । चतुरा वाक्यस्य तादृशः, चत्वारि आननानि यस्य स चतुराननो ब्रह्मापि नो गणयेत् । सहस्रं वदनानि येषां तादृशा वयमप्यखिलान् न गणयामः । पुनरपि अथापि अपरैरन्यैश्शङ्करादिभिरुदितान् प्रोक्तान् गुणान् अतिवदेम अतिशयेन वदेम ॥ १९ ॥

मन्दोपाकारिणी

गणयेदिति ॥ रमा लक्ष्मीर् अस्य पूर्वोक्तगुणविशिष्टस्य भगवतः गुणान् अखिलान् निःशेषान् न गणयेद् गणयितुं न शक्ता इत्यर्थः । चतुरवाक् चतुरा पाटवयुक्ता वाक् वागिन्द्रियं यस्य सः वाग्मी अपि इत्यर्थः । चतुराननश् चत्वारि आननानि मुखानि यस्य सश् चतुर्मुखोऽपि नो गणयेत् । सहस्रवदनाः सहस्राणि वदनानि मुखानि येषां ते तथोक्ताः । वयमपि अखिलान् न गणयामः । ‘गण संख्याने’ इत्यतः विधिलिङ् परस्मैपदं गणयेद् गणयेतां गणयेयुः । पुनो ऽथापि अपरोदितान् अपरैः शुकाचार्यादिभिर् उदितान् भागवतादौ कथितान् गुणान् अतिवदेम अतिशयेन वदेम । शुकाद्युक्तगुणानेव शुकाद्यपेक्षया अतिशयत्वेन वर्णयाम इत्येव विशेष इति भावः । ‘वद व्यक्तायां’ वाचीत्यतो लिङ् परस्मैपदं वदेयं वदेव वदेम ॥ १९ ॥

विश्वास-प्रस्तुतिः - २०

विधयो विहङ्गपतयोऽगणिता रमणीयुताश्च फणिपेन्द्रमुखाः ।
परयोगभूरिसुखभोगमिता अवलोक्य तं दधति मोदरसम्॥ २० ॥

मूलम् - २०

विधयो विहङ्गपतयोऽगणिता रमणीयुताश्च फणिपेन्द्रमुखाः ।
परयोगभूरिसुखभोगमिता अवलोक्य तं दधति मोदरसम्॥ २० ॥

पदार्थदीपिकोद्बोधिका

विधय इति ॥ परे सर्वविलक्षणे भगवति योगो मनोयोगस् तेन ध्यानेनेति यावत् । भूरिसुखभोगो भूरि स्वयोग्यतया पूर्णं यत्सुखं तस्य भोगोऽनुभवम् इताः प्राप्ताः । अथवा परमयोग उत्तमभक्तयाख्योपायस् तेन भूरिसुखभोगं मोक्षे पूर्णानन्दानुभवम् इताः प्राप्ताः । अगणिता असंख्याता विधयो ब्रह्माणः, अगणिता विहंगपतयः पक्षिपतयो गरुडाः, फणिनो नागान् पातीति फणिपः शेषः स च इन्द्रश्च तौ मुखे मुख्यौ येषां तादृशास् तैः सहिता देवाः, रमणीयुता स्वस्वभार्यायुक्ताः सन्तः भगवन्तम् अवलोक्य मोदरसं सन्तोषसारं भगवद्दर्शनजनितम् उत्तममानन्दं दधाति धारयन्ति ॥ २० ॥

मन्दोपाकारिणी

विधय इति । अगणिता असङ्ख्याता विधयश् चतुर्मुखाः ‘विधाता विश्वसृड् विधिः’ इत्यमरः । अगणिता विहङ्गपतयः विहङ्गानां पक्षिणां ‘खगे विहङ्ग विहगाः’ इत्यमरः, पतय ईश्वरा गरुडाः ‘वैनतेयः खगेश्वरः’ इत्यमरः । अगणिताः फणिपेन्द्रमुखाः फणिपाः शेषदेवाश्च इन्द्राश्च फणिपेन्द्रा एते मुखानि आद्या येषां ते फणिपेन्द्रमुखास् तैः सहिता देवा रमणीयुता रमणीभिर् युताः सहितास्सन्तस् तं भगवन्तम् अवलोक्य, मोदरसं मोदस्य सन्तोषस्य रसः सारस् तं ‘रसः सारो वरः श्रेष्ठः’ इत्यभिधानम् । भगवद्दर्शनाज् जातम् उत्तमानन्दं दधति प्राप्नुवन्ति अनुभवन्तीति यावत् । ‘डु धाञ् धारणपोषणयोः’ इति धातोर् लट् परस्मैपदं दधाति धत्तः दधति । कथंभूताः परयोगभूरिसुखभोगं परे भगवति नारायणे ‘परोऽरिपरमात्मनोः’ इत्यमरः योगेन मनोयोगेन ध्यानेनेति यावत् । भूरिसुखभोगं भूरि पूर्णं च तत् सुखं च तस्य भोगो ऽनुभवस् तम् इताः प्राप्ता मुक्ता असङ्ख्यातब्रह्मादिगणाः स्वस्वभार्यासहिताः स्वयोग्यपूर्णसुखम् अनुभवन्त-स्सन्तः भगवन्तं दृष्ट्वा सन्तोषातिशयं प्राप्नुवन्ति इति भावः ॥ २० ॥

विश्वास-प्रस्तुतिः - २१

सचतुर्भुजा वनजपत्रदृशो वरवेषिणोऽत्र सपिशङ्गपटाः ।
अरुणप्रभाश्च तरुणाभ्ररुचो विचरन्ति नाथरुचयः पुरुषाः॥ २१ ॥

मूलम् - २१

सचतुर्भुजा वनजपत्रदृशो वरवेषिणोऽत्र सपिशङ्गपटाः ।
अरुणप्रभाश्च तरुणाभ्ररुचो विचरन्ति नाथरुचयः पुरुषाः॥ २१ ॥

पदार्थदीपिकोद्बोधिका

सचतुर्भुजा इति ॥ चत्वारश्च ते भुजाश्च तैः सहिताः । वने जले जातं वनजं पद्मं तस्य यत्पत्रं दलं तद्वद्दृशौ दृष्टी येषां तादृशाः । ‘जीवनं भुवनं वनमि’त्यमरः । वर उत्तमो यो वेषोऽलङ्कारः स एषामस्तीति वरवेषिणः, पिशङ्गपटः पीताम्बरं तेन सहिताः, अरुणा रक्ता प्रभा येषां तादृशाः । केचिदुद्यदादित्यवर्णा इत्यर्थः । तरुणं यदभ्रं मेघो नीलमेघस् तद्वद् रुचयो येषां तादृशाः, केचन नीलमेघश्यामा इत्यर्थः । अत एव नाथस्य सर्वमुक्ताधिपस्य श्रीहरेः रुगिव रुग्येषां तादृशा भगवत्सारूप्यं प्राप्ता इति भावः । ते मुक्ताः पुरुषा विचरन्ति । यथा सुखमितस्ततः पर्यटन्ति । सचतुर्भुजेत्यादि-विशेषणैर् नाथरुचित्वं तेषाम् उपपादितम् । चतुर्भुजत्वादिरूपेणैव हरिसारूप्यं तेषां न तु सर्वसाम्येनेति ॥ २१ ॥

मन्दोपाकारिणी

सचतुर्भुजा इति ॥ अत्र वैकुण्ठे । नाथरुचयः नाथस्य सर्वमुक्ताधिपस्य विष्णोः रुचिरिव रुचिः कान्तिर् येषां ते तथोक्ता भगवत्सदृशा इत्यर्थः । भगवत्सारूप्यं प्राप्ता इति भावः । पुरुषा मुक्ता विचरन्ति यथासुखम् इतस्ततः पर्यटन्ति । ‘चर गतिभक्षणयोः’ इति धातोर् लट् परस्मैपदम् । मुक्तानां केन धर्मेण भगवत्सारूप्यम् इत्यत उच्यते-‘‘सचतुर्भुजाः’’ इत्यादिविशेषणैः । सचतुर्भुजाश् चत्वारश्च ते भुजाश्च तैः सहिताः । पुनः कथंभूता वनजपत्रदृशः वने जले जायत इति वनजं कमलं ‘जीवनं भुवनं वनं’ इत्यमरः, तस्य पत्रं पर्णं तद्वद् दृशौ नेत्रे येषां ते वनजपत्रदृशः । पुनः कथंभूता वरवेषिणः वरा वेषा भूषणानि येषां सन्तीति उत्तमालङ्कारवन्त इत्यर्थः । ‘वेशो नेपथ्यभूषणे’ इत्यमरः । वेषवेशयोः पर्यायः । पुनः कथंभूताः सपिशङ्गपटाः पिशङ्गाः पीतवर्णाश्च ते पटा वस्त्राणि च पिशङ्गपटैः सहिताः सपिशङ्गपटाः पीताम्बरयुता इत्यर्थः । तत्र केचन अरुणप्रभा अरुणस्य उद्यदादित्यस्य प्रभेव प्रभा कान्तिर् येषां ते अरुणप्रभाः ‘अरुणो भास्करेऽपि स्यात्’ इत्यमरः । केचन तरुणाभ्ररुचस् तरुणानां नवानां नीलवर्णानाम् इति यावत्, ‘तरुणः स्यान्नवे यूनि’ इति विश्वः । अभ्राणां मेघानां रुचिरिव कान्तिरिव रुक् येषां ते तरुणाभ्ररुचः ‘अभ्रं मेघो वारिवाहः’ इत्यमरः । एवंभूतत्वेन भगवत्साम्यं मुक्तानां न तु सर्वप्रकारेण साम्यम् इति भावः ॥ २१ ॥

विश्वास-प्रस्तुतिः - २२

भगवत्समीपमुपयातवतां प्रमदो न केवलमलब्धतुलः ।
अपि तस्य लोकमतिलोकगुणं भजतां सुदुर्लभमभूरिशुभैः॥ २२ ॥

मूलम् - २२

भगवत्समीपमुपयातवतां प्रमदो न केवलमलब्धतुलः ।
अपि तस्य लोकमतिलोकगुणं भजतां सुदुर्लभमभूरिशुभैः॥ २२ ॥

पदार्थदीपिकोद्बोधिका

भगवदिति ॥ केवलं भगवत्समीपं हरिसमीपम् उपयातवतां प्राप्तवतां प्रमद आनन्दो ऽलब्धा तुला साम्यं येन तादृशो ऽसदृश इत्यर्थः । न केवलं भगवत्सामीप्यं भजतामेवानन्दोऽसदृशः, किन्त्वतिक्रान्ता लोकगुणा ब्रह्मादिलोकगुणा येन तम् । न विद्यते भूरिशुभं बहुसुकृतं येषां तैः । सुदुर्लभं प्राप्तुम् अशक्यम्, हरेर् लोकं भजतामपि आनन्दोऽतुलः । ‘एवं सचतुर्भुजाः’ ‘भगवत्समीपमि’ति च श्लोकद्वयेनोक्तानां सारूप्य, सालोक्यसामीप्यलक्षणत्रिविधमोक्षिणामपि आनन्दः स्वस्वयोग्यतानुसारेण पूर्णः करकः, पूर्णो घटः, पूर्णः शराव इतिवदिति भावः । सायुज्यभाजां तु पूर्णानन्दत्वं कैमुत्यन्यायसिद्धम् ॥ २२ ॥

मन्दोपाकारिणी

भगवदिति ॥ केवलं भगवत्समीपं भगवतः विष्णोः समीपं सामीप्यम् उपयातवतां प्राप्तानां प्रमद आनन्दः ‘मुत्प्रीतिः प्रमदो हर्षः’ इत्यमरः । अलब्धतुलो ऽलब्धा अप्राप्ता तुला साम्यं येन सोऽलब्धतुलो ऽसदृश इति न । न केवलं भगवत्सामीप्यं प्राप्तानामेव आनन्दो ऽसदृश इत्यर्थः । अपि किन्तु अतिलोकगुणं लोकानां सत्यलोकादिलोकानां गुणान् अतिक्रम्य वर्तमानं तस्य हरेर् लोकं वैकुण्ठं भजतां प्राप्तानां पुरुषाणामपि आनन्दो ऽलब्धतुलः । किंभूतं लोकम् अभूरिशुभैर् अभूरि अल्पं शुभं पुण्यं येषां ते अभूरिशुभास् तैः पुरुषैः सुदुर्लभम् अत्यन्तम् अप्राप्यम् । ‘सचतुर्भुजा’ इत्यादि श्लोकाभ्यां सालोक्यसामीप्यसारूप्यलक्षणत्रिविधमोक्षवन्त उक्तास् त्रिविधानामपि आनन्दः स्वस्वयोग्यतानुसारेण पूर्ण एवेति ज्ञातव्यम् । पूर्णो घटः पूर्णः शराव इत्यादिवद् इति भावः । सायुज्यमुक्तिं प्राप्तानां तु पूर्णानन्दत्वं कैमुत्यन्यायेन सिद्धमिति नोक्तम् ॥ २२ ॥

विश्वास-प्रस्तुतिः - २३

न भवन्ति यत्र मृतिजन्मजरास्त्रिविधं भयं किमुत दुःखगणः ।
अपरं च किञ्चिदशुभं न भवेन्न गुणादि तत्प्रभवमूलमपि॥ २३ ॥

मूलम् - २३

न भवन्ति यत्र मृतिजन्मजरास्त्रिविधं भयं किमुत दुःखगणः ।
अपरं च किञ्चिदशुभं न भवेन्न गुणादि तत्प्रभवमूलमपि॥ २३ ॥

पदार्थदीपिकोद्बोधिका

नेति ॥ यत्र यस्मिन् वैकुण्ठे । मृतिर् मरणं जन्म उत्पत्तिर् जरा च मृतिजन्मजरा न भवन्ति । तिस्रो विधाः प्रकारा यस्य तादृशम् आध्यात्मिकम् आधिभौतिकम् आधिदैविकं च इति त्रिविधमित्यर्थः । भयं न भवति । दुःखगणो अन्यदुःखगणो न भवतीति किमुत, न भवत्येवेति भावः । अपरं च किञ्चिद् अशुभम् अमङ्गलं न भवेत् । तस्य मृतिजन्मादेः प्रभव उत्पत्तिस् तस्य मूलं कारणभूतं तत्प्रभवमूलं, गुणाः सत्वरजस्तमांस्यादयो यस्य तादृशं गुणादि । सत्वादिगुणत्रयं वा । आदिशब्दसङ्गृहीतः कश्चिददृष्टविशेषो वा न । मृत्यादेः कारणाभावात्कार्यं मृत्यादिकं च न भवतीति भावः । एवंभूतं लोकं भजतामिति पूर्वेण सम्बन्धः । यत्र मृतिजन्मजरा न भवन्ति तत्रानन्तसुखैः सुखमनुभूयत इत्युत्तरत्र वा सम्बन्धः ॥ २३ ॥

मन्दोपाकारिणी

नेति ॥ यत्र यस्मिन् लोके मृतिजन्मजरा मृतिर् मरणं जन्म उत्पत्तिर् जरा वृद्धत्वं मृतिश्च जन्म च जरा चेति द्वन्द्वसमासः । एता न भवन्ति । त्रिविधमपि आध्यात्मिकम् आधिभौतिकम् आधिदैविकं च इति त्रिविधं तिस्रो विधाः प्रकारा यस्मिन् तत् त्रिविधं भयं न भवति । दुःखगणः दुःखानां समूहः किमुत न भवतीति किमु वक्तव्यं न भवत्येव इति भावः । अपरं च पूर्वोक्तादन्यच्च किंचिदशुभं मात्सर्यादिदूषणं न भवेत् । तत्प्रभवमूलं तस्य मृत्यादेः प्रभवस्य उत्पत्तेर् मूलम् आदिकारणं गुणाद्यपि सत्वरज-स्तमोगुणा आदयो यस्य तद् गुणादि आदिशब्देन अदृष्टविशेषो गृह्यते न, मृत्यादि-कारणाभावान् मृत्यादिकं न भवतीति भावः । यत्र मृत्यादिकं नास्ति तादृशं लोकं भजताम् इति पूर्वेण अन्वयः । एतादृशे लोके सुखमनुभूयते इति उत्तरश्लोकेनापि अन्वयः ॥ २३ ॥

विश्वास-प्रस्तुतिः - २४

अनुभूयते सुखमनन्तसखैः सकलैरलम्मतिपदं सततम् ।
अपि तारतम्यसहितैः स्वगुरुप्रवणैः परस्परमुरुप्रणयैः ॥ २४ ॥

मूलम् - २४

अनुभूयते सुखमनन्तसखैः सकलैरलम्मतिपदं सततम् ।
अपि तारतम्यसहितैः स्वगुरुप्रवणैः परस्परमुरुप्रणयैः ॥ २४ ॥

पदार्थदीपिकोद्बोधिका

अन्विति ॥ तारतम्यसहितैरपि सुखादिविषये तारतम्य-युक्तैरपि परस्परम् उरुर् महान् प्रणयः स्नेहो येषां तैः । मत्सरवर्जितैर् इति भावः । स्वगुरुषु स्वोत्तमेषु प्रवणैर् विनयवद्भिः स्वोत्तमेषु भक्तिमद्भिर् इत्यर्थः । ‘अन्येऽपि स्वात्मनो मुख्या क्रमाद्गुरव ईरिता’ इति वचनात् । अनन्तस्य श्रीहरेः सखायो ऽनन्तसखास् तैः । ‘राजाहःसखिभ्यष्टजि’ति टच् । सकलैः सारूप्यादिचतुर्विधमोक्षिभिः सततम् अलं सम्यक्, मतिपदं बुद्धेर् विषयभूतं सुखं स्वरूपसुखम् अनुभूयते ॥ २४ ॥

मन्दोपाकारिणी

अनुभूयत इति ॥ अनन्तसखैर् अनन्तस्य विष्णोः सखायो ऽनन्तसखास् तैः । ‘राजाहः सखिभ्यष् टच्’ । सकलैः सालोक्यसामीप्यसारूप्यसायुज्य लक्षणचतुर्विधमोक्षवद्भिः पुरुषैः सततं निरन्तरम् अलम्मतिपदम् अलंमतिर् अलंबुद्धिस् तस्याः पदं विषयीभूतं सुखम् अनुभूयते । ‘अनुपूर्वकभूधातोः कर्मणि लट् आत्मनेपदम्’ । किंभूतैस् तारतम्यसहितैरपि सुखादिविषये तारतम्येन नीचोच्चभावेन युक्तैरपि परस्परम् अन्योन्यम् उरुप्रणयैर् उरुर् उत्कृष्टः प्रणयः स्नेहः येषां ते तथोक्तास् तैर् मत्सरवर्जितैरिति भावः । स्वगुरुप्रवणैः स्वेषां गुरव उत्तमाः स्वगुरवः स्वगुरुषु प्रवणैर् नम्रैर् भक्तिमद्भिर् इत्यर्थः । ‘अन्येऽपि स्वात्मनो मुख्याः क्रमाद्गुरव ईरिताः’ इत्युक्तेः ॥ २४ ॥

विश्वास-प्रस्तुतिः - २५

अतिसुन्दराः सुरभयः पुरुषा हरिचन्दनेन नवचन्द्ररुचा ।
चलचारुचामरधरानुचरा विचरन्ति नित्यतरुणा इह ते ॥ २५ ॥

मूलम् - २५

अतिसुन्दराः सुरभयः पुरुषा हरिचन्दनेन नवचन्द्ररुचा ।
चलचारुचामरधरानुचरा विचरन्ति नित्यतरुणा इह ते ॥ २५ ॥

पदार्थदीपिकोद्बोधिका

अतीति ॥ अतिसुन्दरा अतिसुरूपिणः, नवो नूतनः पूर्वपक्षोदित इत्यर्थः । यश्चन्द्रस् तस्य रुगिव रुक् कान्तिर् यस्य तेन हरिचन्दनेन अङ्गलेपभूतश्रीचन्दनेन सुरभयः सुगन्धिनः । चलानि यानि चारुचामराणि मनोहरचामराणि धारयन्तीति चलचारुचामरधरास् तादृशा अनुचरा भृत्या येषां तादृशाः । नित्यतरुणा नित्ययुवानः । जरावर्जिता इत्यर्थः । ते उक्तलक्षणाः पुरुषा मुक्तपुरुषा इह उक्तलक्षणे भगवल्लोके विचरन्ति ॥ २५ ॥

मन्दोपाकारिणी

अतीति ॥ ते पूर्वोक्तलक्षणाः पुरुषा इह उक्तलक्षणे भगवल्लोके विचरन्ति इतस्ततः सञ्चरन्ति । कथंभूता अतिसुन्दरा अत्यन्तसुरूपिणः नवचन्द्ररुचा नवः नूतन उदित इति यावत्, स चासौ चन्द्रः नवचन्द्रः नवचन्द्रस्य रुगिव कान्तिरिव रुक् यस्य तन् नवचन्द्ररुक् तेन रक्तवर्णेन इत्यर्थः । हरिचन्दनेन हरिचन्दनाख्येन अङ्गरागेण सुरभयः सुगन्धिनः परिमलोपेतसुगन्धलेपनेन सुगन्धवन्त इति भावः । चलचारुचामरचरानुचराश् चारूणि मनोहराणि च तानि चामराणि च, चलानि च तानि चारुचामराणि च चमरीमृगलांगूलश्वेतकेशात्मकवस्तूनि चामरशब्दवाच्यानि इति ज्ञेयम् । धरन्तीति धराश् चलचारुचामराणां धरा एतादृशा अनुचरा दासा येषां ते तथोक्ताः । अनुचरैश् चामरैर् वीज्यमाना इति भावः । नित्यतरुणा नित्यं युवान एव सर्वथा जरादिवर्जिता इति भावः । ‘वयस्यस्तरुणो युवा’ इत्यमरः ॥ २५ ॥

विश्वास-प्रस्तुतिः - २६

सविलासलास्यपरितुष्टदृशो मृदुगीतवाद्यमुदितश्रवणाः ।
अनुरञ्जयन्ति नवकञ्जदृशो रमणा अमी स्वरमणीस्तरुणीः॥ २६ ॥

मूलम् - २६

सविलासलास्यपरितुष्टदृशो मृदुगीतवाद्यमुदितश्रवणाः ।
अनुरञ्जयन्ति नवकञ्जदृशो रमणा अमी स्वरमणीस्तरुणीः॥ २६ ॥

पदार्थदीपिकोद्बोधिका

सविलासेति ॥ विलासेन सहितं सविलासं यल्लास्यं नृत्त्यं तेन परितुष्टा दृशो लोचनानि येषां तादृशाः, सविलासलास्यदर्शनेन परितुष्टदृश इत्यर्थः । मृदुगीतं मनोहरगानं तच्च वाद्यं च ताभ्यां मुदितानि श्रवणानि श्रोत्रेन्द्रियाणि येषां तादृशाः । मृदुगीतवाद्यश्रवणेन मुदितश्रवणेन्द्रिया इत्यर्थः । अमी वैकुण्ठस्था रमणा

भर्तारो नवकञ्जं नूतनकमलं तद्वद् दृशो लोचनानि यासां तादृशीस् तरुणीस्

तरुणवयसि स्थिता स्वरमणीः स्वभार्या अनुरञ्जयन्ति । तदिच्छानुसारप्रवृत्त्या स्वेषु अनुरागयुक्ताः कुर्वन्ति ॥ २६ ॥

मन्दोपाकारिणी

सविलासेति ॥ सविलासलास्यपरितुष्टदृशः विलासः नर्तनसमये क्रियमाणः हस्ताद्यङ्गविक्षेपस् तेन सहितं सविलासं तच्च तद् लास्यं नर्तनं च ‘लास्यं नृत्यं च नर्तनं’ इत्यमरः, सविलासलास्येन परितुष्टा दृशो ऽक्षीणि येषां ते तथोक्ताः । स्वस्वस्त्रीणां विलाससहितनर्तनदर्शनेन हर्षितनयनाः, मृदुगीतवाद्यमुदितश्रवणा मृदूनि कर्णयोर् अकठोराणि गीतानि गानानि वाद्यानि मुरजादिवादित्राणि । गीतानि च वाद्यानि च गीतवाद्यानि मृदूनि च तानि गीतवाद्यानि च तैः । मुदितानि संतुष्टानि श्रवणानि श्रोत्रेन्द्रियाणि येषां ते तथोक्ताः । अकठोरगायनवाद्यध्वनिश्रवणेन श्रोत्रेन्द्रियसुखवन्त इत्यर्थः । ‘कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः’ इत्यमरः । अमी रमणाः पतयः नवकञ्जदृशः नवं नूतनं विकसितं च तत् कञ्जं कमलं च नवकञ्चवद् दृशः लोचनानि यासां तास् तथोक्ताः । तरुणीस् तरुणवयसि स्थिताः स्वरमणीः स्वेषां भार्या अनुरञ्जयन्ति तदिच्छानुसारेण प्रवृत्त्या स्वस्मिन् अनुरागयुक्ताः कुर्वन्ति । ‘अनुपूर्वकाद् रञ्ज रागे’ इत्यतो लट् परस्मैपदम् ॥ २६ ॥

विश्वास-प्रस्तुतिः - २७

परिणायकानुपवनाभिमुखाननु निःसरन्ति हरिणीनयनाः ।
विमलाद्विमानवलयाच्छनकैः शशिमण्डलादिव रुचो रुचिराः॥ २७ ॥

मूलम् - २७

परिणायकानुपवनाभिमुखाननु निःसरन्ति हरिणीनयनाः ।
विमलाद्विमानवलयाच्छनकैः शशिमण्डलादिव रुचो रुचिराः॥ २७ ॥

पदार्थदीपिकोद्बोधिका

परिणायकानिति ॥ हरिणीनयनना एणीनयनवन् नयनानि यासां तादृश्यः, हरिणीनयनवद् आयतलोचना इत्यर्थः । नार्य उपवनस्याभिमुखान् गन्तुम् उद्यतान् परिणायकान् स्वपतीन् विमलान् निर्मलाद् विमानवलयाद् विमानमण्डलात् शनकैः शशिमण्डलाच् चन्द्रमण्डलाद् रुचिराः शोभमाना रुचय इव कान्तय इव अनु निस्सरन्ति अनुगच्छन्ति । उद्यत् शशिमण्डलाद् यथा रुचो निर्गच्छन्ति एवं विमानमण्डलान् नार्यो निर्गच्छन्तीति भावः । शनकैर् इति तासां गतिस्वभावकथनम् ॥ २७ ॥

मन्दोपाकारिणी

पूर्वश्लोके नायकान् अनुवर्ण्य इदानीं नायिका वर्णयति ॥ परिणायकानिति ॥ हरिणीनयना हरिणीनां नयनवन् नयने यासां तास् तथोक्ताः । नार्यः हरिणीनयनवद् विस्तृतलोचना इत्यर्थः । ‘मृगे कुरङ्गवातायुहरिणाजिनयोनयः’ इत्यमरः । उपवनाभिमुखान् वनक्रीडां कर्तुम् उपवनम् उद्यानवनं गन्तुम् अभिमुखान् उद्यतान् परिणायकान् स्वपतीन् अनु अनुसृत्य विमलान् निर्मलात् प्रकाशमानाद् विमानवलयाद् विमानानां व्योमयानानां वलयान् मण्डलात् शनकैर् निःसरन्ति निर्गच्छन्ति । शनकैर् इति स्त्रीणां गतिस्वभावोक्तिः । का इव शशिमण्डलात् शशिनश् चन्द्रस्य मण्डलाद् रुचिराः शोभमाना रुचय इव कान्तय इव उद्यच् चन्द्रमण्डलाद् यथा कान्तयः निर्गच्छन्ति एवं विमानमण्डलान् नार्यः निर्गच्छन्तीति भावः । विमानानां चन्द्रसाम्योक्त्या स्त्रीणां रुचिसाम्योक्त्या उभयोरपि अतिकान्तिमत्वम् उक्तं भवति । ‘निर्पूर्वात् सृ गतौ’ इत्यतो लट् परस्मैपदम् ॥ २७ ॥

विश्वास-प्रस्तुतिः - २८

अरुणाश्मवर्णतनवस्तनवः शुभहारसन्निभरुचोऽत्र पराः ।
हरिनीलनीलरुचयोऽप्यपराः प्रकटीभवन्ति विविधाभरणाः॥ २८ ॥

मूलम् - २८

अरुणाश्मवर्णतनवस्तनवः शुभहारसन्निभरुचोऽत्र पराः ।
हरिनीलनीलरुचयोऽप्यपराः प्रकटीभवन्ति विविधाभरणाः॥ २८ ॥

पदार्थदीपिकोद्बोधिका

अरुणेति ॥ काश्चन अरुणाश्मानः पद्मरागमणेर् वर्ण इव वर्णो यासां तादृश्यस् तनवो देहा यासां तादृश्यः । अपरा अन्याः, शुभहारस्य शोभनहारस्य सन्निभा समाना रुक् कान्तिर् यासां तादृश्यः शुभ्रकान्तय इत्यर्थः । अपरा अन्या हरिनीलवद् इन्द्रनीलवन् नीलरुचिर् नीलकान्तिर् यासां तादृश्यः । विविधानि आभरणानि यासां तादृश्यस् तनवो नार्योऽत्र अस्मिंल्लोके प्रकटीभवन्ति विमानान्निर्ग-मनानन्तरं प्रकाशन्ते ॥ २८ ॥

मन्दोपाकारिणी

अरुणेति ॥ तनवः नार्यो ऽत्र वैकुण्ठपुरे प्रकटीभवन्ति विमानवलयान् निर्गमानन्तरं प्रकाशन्ते । कथंभूताः काश्चन अरुणाश्मवर्णतनवो ऽरुणा रक्तवर्णाश्च ते अश्मानः पाषाणाश्च अरुणाश्मानः पद्मरागमणय इत्यर्थः । अरुणाश्मवद् वर्णः कान्तिर् यासां ता अरुणाश्मवर्णास् तनवः देहा यासां तास् तथोक्ताः । परा अन्याः शुभहारसन्निभरुचः शुभा निर्मलाश्च ते हाराश्च मुक्तामाला इत्यर्थः । शुभहारैः संन्निभा सदृशा रुक् कान्तिर् यासां तास् तथोक्ताः । अपराः काश्चन हरिनीलनीलरुचयः हरिनीलवद् इन्द्रनीलमणिवन् नीला रुचिः कान्तिर् यासां तास् तथोक्ताः । सर्वा अपि ताः स्त्रियः विविधाभरणा विविधानि अनेकप्रकाराणि आभरणानि अलङ्कारा यासां तास् तथोक्ताः ॥ २८ ॥

विश्वास-प्रस्तुतिः - २९

सुचिरद्युतीर्दधति सूक्ष्मतरं स्वयमम्बरं च खलु बिभ्रति याः ।
शुकनिस्वना ध्रुवमिमा अपराः सुपयोधरा जलधरावलयः ॥ २९ ॥

मूलम् - २९

सुचिरद्युतीर्दधति सूक्ष्मतरं स्वयमम्बरं च खलु बिभ्रति याः ।
शुकनिस्वना ध्रुवमिमा अपराः सुपयोधरा जलधरावलयः ॥ २९ ॥

भावप्रकाशिका

अन्या असुचिरद्युतीर्विद्युतो दधति । अम्बरं च स्वयं न दधति किन्त्वम्बरेण धार्यन्ते दुन्दुभिस्वनाश्चेति । सुपयोधराः सुकुचाः सुजलधराश्च । ‘द्य्वष्टवर्षा तु या योषिच्छ्यामा जलधरावलि’रिति । जलधरावलित्वं चात्र गुणतो न कालतः ॥ २९ ॥

पदार्थदीपिकोद्बोधिका

सुचिरेति ॥ या नार्यः सुचिराश् चिरकालस्थायिन्यो द्युतयः कान्तयस् ता दधति वहन्ति । मेघावलयश्च सुचिरद्युतीर् दधति । सूक्ष्माम्बरं सूक्ष्मवस्त्रं बिभ्रति । मेघावलयस्त्वम्बरेण धार्यन्ते । याः शुकस्य निस्वन इव निस्वनो यासां तादृश्यः । शुकध्वनिवत्कोमलध्वनय इत्यर्थः । मेघावलयो गम्भीरस्वनाः । शोभनौ पयोधरौ स्तनौ यासां ताः सुपयोधरा इमा जलधरावलयः, द्य्वष्टवर्षा नार्यः । ‘द्य्वष्टवर्षा तु या योषिच्छ््यामा जलधरावलिरि’त्यभिधानम् । अपरा जलधरावलिनामभाग्भ्योमेधजालेभ्योऽन्याः । द्य्वष्टवर्षा नार्यश्च जलधरावलय इत्युच्यन्ते । मेघावलयश्च जलधरावलय इत्युच्यन्ते । एवं नामसाम्येऽप्युक्तरीत्या विरुद्धधर्मवत्वादिमा नार्यो मेघजलेभ्यो विलक्षणा ध्रुवं नात्र संशयोऽस्ति ॥ २९ ॥

मन्दोपाकारिणी

सुचिरेति ॥ या नार्यः सुचिरद्युतीः सुचिरा अतिस्थायिन्यश्च ता द्युतयः कान्तयश्च सुचिरद्युतयस् ता दधति वहन्ति । मेघावलयस्तु क्षणिकप्रभा विद्युतः दधति । ‘डु धाञ्’ धारणपोषणयोर् इत्यतो लट् परस्मैपदं दधाति धत्तः दधति । याश्च नार्यः स्वयमेव सूक्ष्मतरम् अतिशयेन सूक्ष्मं सूक्ष्मतरम् अम्बरं वस्त्रं बिभ्रति खलु धरन्ति खलु । ‘डु भृञ् धारणपोषणयोर् इत्यतः लट् परस्मैपदं बिभर्ति बिभृतः बिभ्रति’ । मेघावलयस्तु अम्बरशब्दवाच्येनैव आकाशेन धार्यन्ते हि ‘अम्बरं व्योमि्न वाससि’ इत्यमरः । याश्च इमाः शुकनिस्वनाः शुकस्य निस्वनवन् निस्वनाः श्राव्यस्वरा यासां तास् तथोक्ताः । मेघावलयस्तु कठेरध्वनयः ‘नादनिस्वाननिस्वनाः’ इत्यमरः । याश्च सुपयोधराः शोभमानौ पयोधरौ कुचौ यासां ताः सुपयोधराः ‘वक्षोजौ च पयोधरौ’ इत्यमरः । मेघावलयस्तु धरन्तीति धराः सुपयसां शोभनजलानां धरा धारका या एतादृशास् ता इमा नार्यो ऽपराः प्रसिद्धजलधरावलिशब्दवाच्येभ्यः मेघसमूहेभ्यः विलक्षणाः । जलधरावलयः ध्रुवं निश्चयेन भवन्ति । अयं भावः ‘द्व्यष्टवर्षातु या योषित् श्यामा जलधरावलिः’ इत्यभिधानात् । षोडशवत्सरा नार्यः जलधरावलय इत्युच्यन्ते । मेघसमूहा अपि जलधरावलय इत्युच्यन्ते । जलधराणां मेघानाम् आवलय इति निर्वचनात् ततश्च जलधरावलिशब्दवाच्यानाम् एतासां नारीणां मेघसमूहानां च पूर्वोक्तप्रकारेण विलक्षणत्वाद् इमा नार्यः प्रसिद्धजलधरावलिभ्यः विलक्षणा जलधरावलयो भवन्तीति ॥ २९ ॥

विश्वास-प्रस्तुतिः - ३०

समतीतविद्रुमभुवां सुदृशां पदपल्लवाग्रयनखरक्तरुचीः ।
परभागतः स्फटिककुट्टिमभूः प्रकटीकरोति न पुरा प्रकटाः॥ ३० ॥

मूलम् - ३०

समतीतविद्रुमभुवां सुदृशां पदपल्लवाग्रयनखरक्तरुचीः ।
परभागतः स्फटिककुट्टिमभूः प्रकटीकरोति न पुरा प्रकटाः॥ ३० ॥

भावप्रकाशिका

परभागो गुणान्तरसम्बन्धाद्गुणोत्कर्षः यया श्वेतसिचये कौसुम्भतन्तुतत्या ॥ ३० ॥

पदार्थदीपिकोद्बोधिका

समतीतेति ॥ स्फटिकेन कुट्टिमा अवनद्धा सा च सा भूश्च स्फटिककुट्टिमभूः, समतीता अतिक्रान्ता विद्रुमभुवो विद्रुमबद्धभूमयो याभिस् तासाम् । सुदृशां शोभननयनानां नारीणां पुरा विद्रुमावनद्धस्थलातिक्रमात्पूर्वं न प्रकटा अस्पष्टाः, पदानि पादाः पल्लवा इव किसलया इव पदपल्लवास् तेषाम् अग्रयनखा उत्तमनखास् तेषां रक्तरुचयो रक्तकान्तयः परभागतः वर्णान्तरसंयोगात् प्रकटीकरोति स्पष्टीकरोति । अयं भावः विद्रुमस्थलसञ्चारावसरे नखानां विद्रुमस्य च समानकान्तित्वान् नखकान्तिर् विविच्य न ज्ञाता स्फटिकसञ्चारे नखकान्तिर् अतिस्पष्टाऽभूदिति ॥ ३० ॥

मन्दोपाकारिणी

समतीतेति ॥ स्फटिककुट्टिमभूः स्फटिकैः स्फटिकमणिभिः कुट्टिमा निबद्धा भूर् भूमिश्च स्फटिकखचितभूमिः ‘कृट्टिमोऽस्त्री निबद्धा भूः’ इत्यमरः । समतीतविद्रुमभुवां समतीताः सम्यक् अतिक्रान्ता विद्रुमाणां प्रवालानां भुवः विद्रुमखचितभूमयः याभिस् तास् तथोक्तास् तासां ‘मुक्ताथ विद्रुमः पुंसि प्रवालं पुंनपुंसकं’ इत्यमरः । सुदृशां शोभना दृक् दर्शनं यासां तास् तासां नारीणां पदपल्लवाग्रयनखरक्तरुचीः पदान्येव पल्लवाः किसलयानि ‘पल्लवोऽस्त्री किसलयं’ इत्यमरः, अग्रयाः श्रेष्ठाश्च ते नखाश्च अग्रयनखाः पदपल्लवानाम् अग्रयनखास् तेषां रक्ताश्च ता रुचयः कान्तयश्च पदपल्लवाग्रय-नखरक्तरुचयस् ताः । परभागतः वर्णान्तरसंयोगात् प्रकटीकरोति व्यक्तीकरोति । कथंभूता नखरुचीः पुरा विद्रुमस्थलातिक्रमात् पूर्वम् अप्रकटा अस्पष्टा अनभिव्यक्ताः । अयं भावः वैकुण्ठे विद्रुमभूमयः सन्ति । तत्र नारीणां विद्रुमभूमिषु संचारकाले पादनखानां विद्रुमाणां च रक्तत्वेन समकान्तित्वान् नखकान्तिर् विविच्य न ज्ञाता विद्रुमभूमिं परित्यज्य स्फटिकभूमिषु संचारकाले पुनः नखकान्तिर् अतिस्पष्टाऽभूदिति ॥ ३० ॥

विश्वास-प्रस्तुतिः - ३१

हरिणीदृशां सुवसनानि बृहत्सुनितम्बबिम्बरुचिरोरुरुचा ।
शबलद्युतीनि मदनस्य जगज्जयवैजयन्त्य इति निश्चिनुमः ॥ ३१ ॥

मूलम् - ३१

हरिणीदृशां सुवसनानि बृहत्सुनितम्बबिम्बरुचिरोरुरुचा ।
शबलद्युतीनि मदनस्य जगज्जयवैजयन्त्य इति निश्चिनुमः ॥ ३१ ॥

पदार्थदीपिकोद्बोधिका

हरिणीति ॥ बृहन् महद्यत् सुनितम्बबिम्बं सु शोभनं नितम्बस्य स्त्रीकट्याः पश्चाद्भागस्य बिम्बं मण्डलं तस्य रुचिरा मनोहरा या उरुरुक् उत्कृष्टकान्तिस् तया शबला मिश्रा द्युतिः कान्तिर् येषां तादृशानि । योषिन्नितम्बसम्बन्धान् नितरां शोभमानानीति भावः । हरिणीनां मृगीणां दृश इव दृशो दृष्टयो यासां तासां निवसनानि वस्त्राणि मदनस्य कामस्य जगज्जयः स्त्रीजगद्विजयस् तस्य वैजयन्त्यो लक्षणभूताः पताका इति निश्चिनुमो निश्चयं कुर्मः । ‘वैजयन्ती पताकायां जयन्त्यां केशवस्रजी’ त्यभिधानम् ॥ ३१ ॥

मन्दोपाकारिणी

हरिणीति ॥ हरिणीदृशां हरिणीनां मृगीणां दृश इव दृशो नयनानि यासां तास् तथा तासां हरिणीदृशां सुवसनानि वस्त्राणि ‘वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकं’ इत्यमरः । मदनस्य मन्मथस्य ‘मदनो मन्मथो मारः’ इत्यमरः । जगज्जयवैजयन्त्यः जगतः जये विजये वैजयन्त्यः लक्षणभूताः पताका इति निश्चिनुमः निश्चयं कुर्मः । ‘निपूर्वाच् चिञ् चयने इत्यतो लट् परस्मैपदं चिनोमि चिनुवश् चिनुमः । ‘वैजयन्ती पताकायां जयन्त्यां केशवस्रजि’ इत्यभिधानम् । कथंभूतानि वसनानि बृहत्सुनितम्बबिम्बरुचिरोरुरुचा बृहतः स्थूलस्य शोभनस्य नितम्बयोर् बिम्बस्य मण्डलस्य ‘पश्चान्नितम्बः स्त्रीकट्याः’ इत्यमरः रुचिरया शोभनया उर्व्या बहुलया रुचा कान्त्या । शबलद्युतीनि शबला मिश्रिता द्युतिर् येषां तानि तथोक्तानि । योषिन्नितम्बसम्बन्धाद् वस्त्राणि नितरां शोभमानानि इत्यर्थः । स्त्रीनितम्बसम्बद्धवस्त्रदर्शने सति सर्वे पुरुषाः कामेन जिता भवन्तीति भावः ॥ ३१ ॥

विश्वास-प्रस्तुतिः - ३२

करपल्लवैस्तरलितैर्ललितैरसकृत्क्वणत्कनककङ्कणकैः ।
नवरोमराजिवलिवल्गुमृदुप्रतनूदरैरतिमनाक्तरलैः ॥ ३२ ॥

मूलम् - ३२

करपल्लवैस्तरलितैर्ललितैरसकृत्क्वणत्कनककङ्कणकैः ।
नवरोमराजिवलिवल्गुमृदुप्रतनूदरैरतिमनाक्तरलैः ॥ ३२ ॥

पदार्थदीपिकोद्बोधिका

करेति ॥ ‘तरुणा भवन्त्यथ निवृत्तमुखा’ इत्यन्तं कलापकमेतत् । तत्रेत्थमन्वयः — अथ तासु विमानान्निर्गतासु नारीषु प्रगतासु गच्छन्तीषु सतीषु, रणितैः क्वणद्भिः रशनाः काञ्च्यो मणिनूपुरा मणिखचितमञ्जीरास् तैः । ‘स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा’ इत्यमरः । ‘मञ्जीरो नूपुरोऽस्त्रियामि’ति च । इमं विलासं स्वगमनविलासम् अनुवीक्षितुं द्रष्टुं गदिता इवोक्ता इव तरुणा युवानो भर्तारः, निवृत्तानि मुखानि येषां तादृशा भवन्ति पुरा ननु । ‘यावत्पुरा निपातयोर्लडि’ति लट् । पुरस्ताद्गच्छन्तो युवान आवृत्य पश्चाद् ददृशुर् इति भावः ।

तरलितैश् चलितैर् ललितैः कोमलैर् असकृन् निरन्तरं क्वणन्ति रणन्ति कनककङ्कणानि स्वर्णात्मककरभूषणानि येषां तैः । ‘कङ्कणं करभूषणमि’त्यमरः । कराः पल्लवा इव तैरुपलक्षितासु । एवं सर्वत्र । ‘इत्थंभूतलक्षणे’ इति तृतीया । अतिमनाक् अत्यल्पं तरलैश् चञ्चलैः पादचारेण गमनावसरे किञ्चिच्चञ्चलैरिति भावः । ‘किञ्चिदीषन्मनागल्प’ इत्यमरः । नवा नूतना या रोमराजयो रोमपङ्क्तयस्ताश्च वलयश्च ताभिर् वल्गूनि भद्राणि मृदुप्रतनूदराणि तैः । नवरोमराजिवल्गुत्वं, मृदुत्वं, प्रतनुत्वञ्चोदरविशेषणानि । तेश्चोपलक्षितासु नारीषु गच्छन्तीषु निवृत्तमुखा भवन्ति पुरेत्यन्वयः ॥ ३२ ॥

मन्दोपाकारिणी

करेति ॥ ‘तरुणा भवन्त्यथनिवृत्तमुखाः’ इत्यन्तम् अन्त्यकुलक-मेतत् । प्रथमम् अन्वयप्रकारस्तु— अथ विमानादवरोहणानन्तरं तासु नारीषु प्रगतासु, पतिषु पुरतो गच्छत्सु सत्सु तत्पश्चाद् गच्छतीषु सतीषु तरुणा युवानः पतयः निवृत्तमुखा निवृत्तानि पश्चाद्भागाभिमुखानि मुखानि आननानि येषां ते तथोक्ता भवन्ति । पुरस्ताद्गच्छन्तो युवानः मुखम् आवृत्य पश्चाद् ददृशुर् इति भावः । कथंभूता इव तदागमनसमये रणितैर् ध्वनिं कुर्वद्भिः रशनामणिनूपुरैः रशनाः कांच्यश्च मणिभिः रत्नैः खचिता नूपुरा मञ्जीराश्च रशनामणिनूपुरास् तैः । ‘स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा’ इत्यमरः, ‘मञ्जीरो नूपुरोऽस्त्रियां’ इति च । नूपुरो नाम पादभूषणं रशनानां क्षुद्रघण्टिकाघटितत्वेन रणितत्वं ज्ञेयम् । गदिता इव उदिता इव । किं कर्तुं, इमं तनुविलासं तनूनां शरीराणां विलासं गमनसमये कृतृङ्गाररसम् अनुवीक्षितुं द्रष्टुं पुरतो गच्छन्तस् तरुणाः पश्चादागच्छन्तीनां स्त्रीणां गतिविलासं द्रष्टुं क्वणन्नूपुरादिशब्दैर् आहूता इव आवृत्य पश्चाद् ददृशुरिति भावः । कथं भूतासु स्त्रीषु, तरलितैश् चलितैर् ललितैः कोमलैः ‘सुकुमारोऽङ्गविन्यासे मसृणे ललितं स्मृतं’ इत्यभिधानम् । असकृन् निरन्तरं क्वणत्कनककङ्कणकैः कनकानां सुवर्णानां कङ्कणानि करभूषणानि कनककङ्कणानि क्वणन्ति रणन्ति कनककङ्कणानि येषां ते तथोक्ताः ‘कङ्कणं करभूषणं’ इत्यमरः । स्वार्थे कप्रत्ययः । एवंभूतैः करपल्लवैः पाणिकिसलयैर् उपलक्षितासु पुनः कथंभूतासु नवरोमराजिव-लिवल्गुमृदुप्रतनूदरैर् नवानि नूतनानि सूक्ष्माणि कोमलानि इति यावत्, नवानि च तानि रोमाणि तनूरुहाणि च ‘तनूरुहं रोम लोम’ इत्यमरः नवरोम्णां राजिः पङ्क्तिर् नवरोमराजिः ‘राजिः स्यात् पङ्क्तिरेखयोः’ इति विश्वः, नवरोमराजिश्च वलयश्च त्रिवलिनामकरेखा-विशेषाश्च नवरोमराजिवलयः नवरोमराजिवलिभिर् वल्गूनि मनोहराणि नवरोमराजिवल्लि-वल्गूनि ‘वल्गु छागे मनोज्ञे च’ इति विश्वः, नवरोमराजिवलिवल्गूनि च तानि मृदूनि कोमलानि च तानि प्रतनूनि अतिसूक्ष्माणि च तानि उदराणि च नवरोमराजिवलि-वल्गुमृदुप्रतनूदराणि तैर् उदरैः । नाभेर् उपरि ऊर्ध्वरेखाकारसूक्ष्मरोमपङ्क्तिः रोमराजिः, वलयस् तिस्रः, तत्रैव तिर्यक् रेखाविशेष एवंभूतैर् उदरैर् उपलक्षितासु । कथंभूतैर् उदरैर् अतिमनाक् अत्यल्पं तरलैः पादचारेण गमनावसरे किञ्चिच् चलैर् इति भावः ॥३२॥

विश्वास-प्रस्तुतिः - ३३

कुचकुम्भपूर्णतरकान्तिसुधारसशेषबिन्दुविसरच्छविभिः ।
वरहारराजिभिरुतानुपदं प्रतिलोडिताभिरशनैरुरसि ॥ ३३ ॥

मूलम् - ३३

कुचकुम्भपूर्णतरकान्तिसुधारसशेषबिन्दुविसरच्छविभिः ।
वरहारराजिभिरुतानुपदं प्रतिलोडिताभिरशनैरुरसि ॥ ३३ ॥

पदार्थदीपिकोद्बोधिका

कुचकुम्भेति ॥ कुचाः कुम्भा इव तेषु पूर्णतर अतिपूर्णो यः कान्तिसुधारसः कान्त्याख्यसुधाजलं तस्य यः शेषस् तस्य बिन्दवस् तेषां विसरः प्रसारस् तस्य छविरिव छविः कान्तिर् यासां ताभिः कुचाख्यकुम्भान् कान्त्याख्यसुधामयजलेन पूरयित्वा पुनरप्यवशिष्टस्य कान्तिसुधाजलस्य बिन्दूनां प्रसरवत् प्रकाशमानाभिरिति भावः । पदे पदे अनुपदं प्रतिपदम् उरसि अशनैर् जवेन परिलोडिताभिर् गतिवशाच् चलिताभिः । वरहारा उत उत्तमहारास् तेषां राजयः समूहास् ताभिरुतोपलक्षितासु तास्वित्यादि पूर्ववदन्वयः ॥ ३३ ॥

मन्दोपाकारिणी

कुचकुम्भेति ॥ पुनः कथंभूतासु अनुपदम् उरसि वक्षसि ‘उरो वत्सं च वक्षश्च’ इत्यमरः । अशनैर् जवेन प्रतिलोडिताभिर् गतिवशाच् चलिताभिः । वरहार-राजिभिर् उत वरा हारा मुक्तावल्यस् तेषां राजिभिश्च उपलक्षितासु । कथंभूताभिर् वरहारराजिभिः कुचकुम्भपूर्णतरकान्तिसुधारसशेषबिन्दुविसरच्छविभिः कुचाः स्तना एव कुम्भाः कलशास् तेषु पूर्णतरा अतिशयेन पूर्णाः कान्तय एव सुधारसा अमृतजलानि कुचकुम्भपूर्णतराश्च ते कान्तिसुधारसाश्च तथा तेषां शेषस् तस्य बिन्दूनां विसरः समूहः ‘सन्दोहविसरव्रजाः’ इत्यमरः, ‘पीयूषम् अमृतं सुधा’ इत्यमरः, । यद्वा विसरः प्रसरः विसर्पणमिति यावत् तद्वच् छविः कान्तिर् यासां तास् तथोक्तास् ताभिः ‘भाश्छविद्युति-दीप्तयः’ इत्यमरः । कुचाख्यघटेषु कान्त्याख्यसुधामयजलेन अत्यन्तपूरितेषु सत्सु पुनो ऽवशिष्टस्यापि तत्रैव निक्षिप्तस्य अवकाशाभावोन उद्रिच्य बहिर् निर्गतस्य कान्तिसुधाजलस्य बिन्दूनां समूहवत् प्रकाशमानाभिरिति भावः ॥ ३३ ॥

विश्वास-प्रस्तुतिः - ३४

अपि लीलया कुवलयोल्लसितैरपरैः करैः सहचरीनिहितैः ।
वदनैः शुचिस्मितकटाक्षरसैश्चलकुण्डलोल्लसितगण्डयुगैः॥ ३४ ॥

मूलम् - ३४

अपि लीलया कुवलयोल्लसितैरपरैः करैः सहचरीनिहितैः ।
वदनैः शुचिस्मितकटाक्षरसैश्चलकुण्डलोल्लसितगण्डयुगैः॥ ३४ ॥

पदार्थदीपिकोद्बोधिका

अपीति ॥ लीलया विनोदेन कुवलयैर् उत्पलपुष्पैर् उल्लसिताः शोभमानास् तैः करैः । ‘स्यादुत्पलं कुवलयमि’त्यमरः । क्रीडार्थं गृहीतकुवलययुक्तदक्षिणकरैरित्यर्थः । सहचरीषु किङ्करीषु निहितैर् निक्षिप्तैर् अपरैः करैर् वामकरैश् च उपलक्षितासु । चलंति गतिवशाच् चलन्ति यानि कुण्डलानि ताटङ्कानि तैर् उल्लसितानि गण्डयुगानि कपोलयुगानि येषां तैः । शुचीनि स्मितानि कटाक्षरसाश्च येषां तानि शुचिस्मितकटाक्षरसानि तैर् वदनैर् उपलक्षितासु । शुचिस्मितानि कटाक्षरसाश्च तैर् उपलक्षितास्विति वा । तास्वित्यादि पूर्ववदन्वयः ॥ ३४ ॥

मन्दोपाकारिणी

अपीति ॥ पुनः कथंभूतासु लीलया क्रीडानिमित्तेन कुवलयोल्ल-सितैः क्रीडार्थं गृहीतैः कुवलयैर् उत्पलैः ‘स्यादुत्पलं कुवलयं’ इत्यमरः । उल्लसितैः शोभमानैः करैर् दक्षिणहस्तैः ‘बलिहस्तांशवः कराः’ इत्यमरः । सहचरीनिहितैः सहचरीषु सखीषु निहितैः सखिस्कन्धेषु स्थापितैः । अपरैर् दक्षिणकरेभ्योऽन्यैः करैर् वामकरैरपि उपलक्षितासु । पुनः कथंभूतासु चलकुण्डलोल्लसितगण्डयुगैश् चलानि गतिवशाच् चञ्चलानि च तानि कुण्डलानि कर्णभूषणानि च गण्डानां कपोलानां युगानि युग्मानि गण्डयुगानि युगं युग्मे कृतादिषु’ इत्यमरः । चलकुण्डलैर् उल्लसितानि शोभितानि गण्डयुगानि येषां तानि तथोक्तानि तैः । शुचिस्मितकटाक्षरसैः शुचीनि निर्मलानि च तानि स्मितानि मन्दहासाश्च शुचिस्मितानि कटाक्षस्य अपाङ्गदर्शनस्य रसाः साराः कटाक्षरसाः ‘अपाङ्गनेत्रयोरन्तः कटाक्षोऽपाङ्गदर्शने’ इत्यमरः । शुचिस्मितानि च कटाक्षरसाश्च येषु तानि शुचिस्मितकटाक्षरसनानि तैर् वदनैर् मुखैर् उपलक्षितासु ॥ ३४ ॥

विश्वास-प्रस्तुतिः - ३५

प्रगतासु तासु रणितैरशनामणिनूपुरैरिव तदा गदिताः ।
अनुवीक्षितुं तनुविलासमिमं तरुणा भवन्त्यथ निवृत्तमुखाः॥ ३५ ॥

मूलम् - ३५

प्रगतासु तासु रणितैरशनामणिनूपुरैरिव तदा गदिताः ।
अनुवीक्षितुं तनुविलासमिमं तरुणा भवन्त्यथ निवृत्तमुखाः॥ ३५ ॥

भावप्रकाशिका

करपल्लवादिभिः प्रगतासु इत्थंभूतलक्षणे तृतीया ॥ ३५ ॥

पदार्थदीपिकोद्बोधिका

प्रगतास्विति ॥ श्लोकोऽयं ‘करपल्लवैरि’ति श्लोकव्याख्याना-वसरे व्याख्यातः ॥ ३६ ॥

मन्दोपाकारिणी

एतादृशासु नारीषु प्रगतासु सतीषु तरुणा निवृत्तमुखा भवन्ति इति अन्वयः ॥ ३५ ॥

विश्वास-प्रस्तुतिः - ३६

अनुपालिताः स्वदयितैर्दयिताः कथमप्युपेत्य कुचभारनताः ।
शनकैः पुनस्तदवलम्बबलात्किल ता विशन्ति परमोपवनम्॥ ३६ ॥

मूलम् - ३६

अनुपालिताः स्वदयितैर्दयिताः कथमप्युपेत्य कुचभारनताः ।
शनकैः पुनस्तदवलम्बबलात्किल ता विशन्ति परमोपवनम्॥ ३६ ॥

भावप्रकाशिका

किल अपरमार्थे ॥ ३६ ॥

पदार्थदीपिकोद्बोधिका

अन्विति ॥ स्वासां दयितास्तैः स्वभतृभिर् अनुपालिताः प्रतीक्षिताः, कुचानां ये भारास् तैर् नता नम्रा दयिता नार्यः कथमपि स्तनजघनभाराच् चलितुम् अशक्ताः सत्यः कथञ्चिदुपेत्य स्वभर्तृसमीपं प्राप्य पुनः पश्चात् तेषाम् अवलम्ब आश्रय एव बलं तस्मात् शनकैः परमम् उत्तमं यदुपवनं विशंति । किल इति अपरमार्थे । वस्तुतः श्रमादिदोषाभावेऽपि तत्र तत्प्रदर्शनं विडम्बनमात्रमेवेति भावः ॥ ३६ ॥

मन्दोपाकारिणी

अन्विति ॥ स्वदयितैः स्वासां दयितैर् भर्तृभिर् अनुपालिताः कदानु इमा नार्य आगमिष्यन्तीति प्रतीक्षिताः । कुचभारनताः कुचानां स्तनानां भारेण नताः प्रह्वीभूता दयिता नार्यः कथमपि कथंचिन् महता प्रयासेनेति यावत्, उपेत्य पतिसामीप्यं प्राप्य पुनः पश्चात् तदवलम्बबलात् तेषां पतीनाम् अवलम्ब आश्रयस् तस्य बलात् किल । शनकैर् मन्दं ताः परमोपवनं परमम् उत्तमम् उपवनम् उद्यानं विशन्ति प्रविशन्ति । स्तनभारनतत्वेन पतिभिस्सह शीघ्रं गन्तुम् अशक्ताः पुरतो गच्छद्भिः स्वपतिभिः प्रतीक्षिता नार्यः पतिसामीप्यं प्राप्य तदनन्तरं पतिहस्तान् अवलम्ब्य शनैः ृङ्गारवनं प्रविशन्तीति भावः । किल इति अपरमार्थे । तत्र श्रमादिदोषाभावात् श्रमादिप्रदर्शनं तु लोकविडम्बनमिति ज्ञातव्यम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः - ३७

हसितप्रसूननिकरोरुभरप्रणमत्सुवर्णमणिसर्वतरून् ।
उपगूहयन्नमृतसिन्धुसखः पवनो न कस्य सुखमेधयति ॥ ३७ ॥

मूलम् - ३७

हसितप्रसूननिकरोरुभरप्रणमत्सुवर्णमणिसर्वतरून् ।
उपगूहयन्नमृतसिन्धुसखः पवनो न कस्य सुखमेधयति ॥ ३७ ॥

पदार्थदीपिकोद्बोधिका

हसितेति ॥ हसितानि विकसितानि यानि प्रसूनानि तेषां निकरस्य समूहस्य उरुभरेणोत्कृष्टभारेण प्रणमन्तो नम्रीभावं भजन्तो ये सुवर्णमणिसर्वतरवः सुवर्णमया मणिमयाश्च ये सर्वतरवस् तान् उपगूहयन् आश्लिषन् । अनेन पवनस्य सौरभ्यमुक्तम् । अमृतमयौ च तौ सिन्धू समुद्रौ च तयोः सखामृतसिंधुसखः । ‘राजाहः-सखिभ्यष्टजि’ति टच् अनेन शैत्यमुक्तं भवति । एवंविधः पवनः कस्य सुखं नैधयति? सर्वेषामपि सुखम् एधयत्येव । तत्र सुधासमुद्रौ स्त इत्यत्र ‘अरश्च वैण्यश्च सुधासमुद्रौ तत्रैव सर्वाभिमतप्रदौ द्वौ’ । ‘अरश्च च वैण्यश्चार्णवौ ब्रह्मलोक’ इति प्रमाणम् ॥ ३७ ॥

मन्दोपाकारिणी

हसितेति ॥ हसितप्रसूननिकरोरुभरप्रणमत्सुवर्णमणिसर्वतरून् प्रसूनानां पुष्पाणां निकराः समूहाः प्रसूननिकरा हसिताश्च ते प्रसूननिकराश्च हसित-प्रसूननिकरा उरुर् अतिशयश्चासौ भरः भारश्च उरुभरः ‘भरोऽतिशयभारयोः’ इत्यमरः, हसितप्रसूननिकराणाम् उरुभरस् तेन प्रणमन्तः नम्रीभावं भजन्तः सुवर्णं च मणयश्च सुवर्णमणयः सुवर्णमणीनां सर्वतरवः सुवर्णमणिमयवृक्षा इत्यर्थः। हसितप्रसूननिकरोरु-भरप्रणमन्तश्च ते सुवर्णमणिसर्वतरवश्चेति तथोक्तास् तान् । उपगूहयन् आश्लिष्यन् पुष्पपरिमलं दधान इति यावत् । अनेन पवनस्य सौरभम् उक्तम् । अमृतसिन्धुसखो ऽमृतस्य सुधायाः सिन्धू समुद्रौ अमृतसिन्ध्वोः सखा अमृतसिन्धुसखो ऽमृतसिन्धूपरि संचरन्निति यावत् । अनेन पवनस्य शैत्यम् उक्तं भवति । एवं सुरभिः शीतः पवनः मन्दवायुः कस्य प्राणिनः सुखं नैधयति न वर्धयति । सर्वेषामपि सुखम् एधयत्येव । ‘एध वृद्धौ’ इत्यतो णिजन्ताद् लट् परस्मैपदम्’ । ब्रह्मलोके सुधासमुद्रौ वर्तेते ‘अरश्च हि वैण्यश्चार्णवौ ब्रह्मलोके’ इति श्रुतेः । अरश्च वैण्यश्च सुधासमुद्रौ तत्रैव सर्वाभिमतप्रदौ द्वौ इति स्मृतिप्रमाणाच्च ॥ ३७ ॥

विश्वास-प्रस्तुतिः - ३८

उपचारनन्दनमिदं द्युवनं नियमेन नन्दयति यन्न जनम् ।
परमेव नन्दनमुपेन्द्रवनं सकलं सदा यदभिनन्दयति ॥ ३८ ॥

मूलम् - ३८

उपचारनन्दनमिदं द्युवनं नियमेन नन्दयति यन्न जनम् ।
परमेव नन्दनमुपेन्द्रवनं सकलं सदा यदभिनन्दयति ॥ ३८ ॥

पदार्थदीपिकोद्बोधिका

श्लोकस्यास्य व्याख्या लिखितपुस्तके न दृश्यते ॥ ३८ ॥

मन्दोपाकारिणी

उपचारेति ॥ इदं द्युवनं द्योः स्वर्गस्य वनं ‘सुरलोको द्यो दिवौ द्वे’ इत्यमरः । उपचारनन्दनम् उपचारतो ऽमुख्यतः नन्दनं नन्दननामकं कुतः, यद् यस्माद् इदं द्युवनं जनं सर्वजनं नियमेन न नन्दयति न सुखयति । उपेन्द्रवनम् उपेन्द्रस्य विष्णोर् वनं वैकुण्ठगतं वनं परमेव मुख्यमेव नन्दनं नन्दननामकं कुतः, यद् यस्माद् इदं सकलं जनं सदा अभिनन्दयति । ‘टु नदि समृद्धौ इत्यतो लट् परस्मैपदम्’ । अयं श्लोकः प्रक्षिप्त इत्याहुर् अत एव पूर्वटीकाकारैर् न व्याख्यातः ॥ ३८ ॥

विश्वास-प्रस्तुतिः - ३९

वरपारिभद्रकसुकल्पतरुव्रजपारिजातहरिचन्दनवत् ।
सहितं समादिपदताननगैः परिभूषयन्ति तदहो ॠतवः ॥ ३९ ॥

मूलम् - ३९

वरपारिभद्रकसुकल्पतरुव्रजपारिजातहरिचन्दनवत् ।
सहितं समादिपदताननगैः परिभूषयन्ति तदहो ॠतवः ॥ ३९ ॥

पदार्थदीपिकोद्बोधिका

वरेति ॥ ऋतवो वरा उत्तमा पारिभद्रकाः ‘शक्रपादपः पारिभद्रकः’ इत्यमरस् ते च सुकल्पतरवः शोभनकल्पवृक्षास् तेषां ये व्रजाः समूहास् ते च पारिजाताश्च हरिचन्दनाश्च तेऽस्मिन् सन्तीति तादृशम् । पुनश्च ‘समि’ति पदमादिपदं येषां तादृशा ताननगा तानवृक्षाश्च तैः । सन्तानाख्यैर् वृक्षैर् इति यावत् । सहितं तद्वनं परिभूषयन्ति । अहो आश्चर्यम् । भूष अलङ्कार इति धातुः ॥ ३९ ॥

मन्दोपाकारिणी

वरेति ॥ वरपारिभद्रकसुकल्पतरुव्रजपारिजातहरिचन्दनवद् वरा उत्तमाश्च ते पारिभद्रकास् तन्नामकवृक्षाश्च वरपारिभद्रकाः ‘शक्रपादपः पारिभद्रकः’ इत्यमरः, पारिभद्रकः कश्चन देवतरुर् ज्ञेयः, शोभनाश्च ते कल्पतरवः कल्पवृक्षाश्च तथोक्ताः, वरपारिभद्रकाश्च सुकल्पतरवश्च तेषां व्रजः समूहः वरपारिभद्रकसुकल्पतरुव्रजश्च पारिजाताः पारिजाताख्यवृक्षाश्च हरिचन्दना हरिचन्दनाख्यवृक्षाश्च तथोक्ताः, एते अस्मिन् सन्तीति वरपारिभद्रकसुकल्पकतरुव्रजपारिजातहरिचन्दनवत् । समादिपदताननगैः समिति आदिपदं प्रथमपदं येषां ते समादिपदाः समादिपदाश्च ते तानाश्च समादिपदतानाः सन्ताना इत्यर्थः सन्तानाख्याश्च ते नगा वृक्षाश्च तथोक्तास् तैः । ‘शैलवृक्षौ नगावगौ’ इत्यमरः । सहितम् एते पञ्चापि देववृक्षाः । तदुक्तम् अमरकोशे ‘पञ्चैते देवतरवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्’ । अमरकोशे मन्दारशब्देन पारिभद्रो ग्राह्यः, ‘पारिभद्रो निम्बतरुर्मन्दारः पारिजातकः’ इत्यमरकोशोक्तेः । मन्दारस्तु सुरद्रुमे पारिभद्रेऽर्कपर्णे च इति विश्वोक्तेश्च । एवं वृक्षसमूहोपेतं तद् वनम् ऋतवः वसन्तादयः षट् ऋतवः परिभूषयन्ति अलं कुर्वन्ति । अहो वैकुण्ठवनं सर्वर्तुष्वपि नियमेन स्वस्वकालो-चितफलपुष्पादिभिर् अलंकृतमेेवेति भावः । ‘परिपूर्वाद् भूष अलङ्करणे इत्यतः लट् परस्मैपदम्’ ॥ ३९ ॥

विश्वास-प्रस्तुतिः - ४०

स्मितमाधवीकुसुमरम्यतरौ नवचम्पकादिकुसुमोल्लसितौ ।
मधुमाधवौ मधुपगीर्मधुरौ मधुजित्प्रियान्प्रमदमानयतः॥ ४० ॥

मूलम् - ४०

स्मितमाधवीकुसुमरम्यतरौ नवचम्पकादिकुसुमोल्लसितौ ।
मधुमाधवौ मधुपगीर्मधुरौ मधुजित्प्रियान्प्रमदमानयतः॥ ४० ॥

पदार्थदीपिकोद्बोधिका

स्मितेति ॥ स्मितानि विकसितानि यानि माधवीकुसुमानि तै रम्यतरौ मनोहरौ । चम्पकाश् चम्पकवृक्षा आदयो येषां तेषां कुसुमानि, नवानि यानि चम्पकादिकुसुमानि तैर् उल्लसितौ शोभितौ । अत एव मधुपगीर् मधू भ्रमरस्वरमनोहरौ मधुमाधवौ चैत्रवैशाखमासौ । ‘स्याच्चैत्रे चैत्रिको मधुर् वैशाखे माधवो राध’ इत्यमरः । मधुं जितवानिति मधुजिन् मधुसूदनस् तस्य प्रियान् भक्तान् प्रमदं सुखमानयतः प्रापयतः ॥४०॥

मन्दोपाकारिणी

भोगं क्रमेण प्रपञ्चयति ॥ स्मितेत्यादिना ॥ मधुमाधवौ मधुश् चैत्रः माधवः वैशाखः मधुश्च माधवश्च मधुमाधवौ ‘स्याच्चैत्रे चैत्रिको मधुर् वैशाखे माधवो राधः’ इत्यमरः । मासद्वयं वसन्तर्तुर् मधुश्च माधवश्च वसन्तर्तुर् इति श्रुतेः । मधुजित्प्रियान् मधुनामकं दैत्यं जयतीति मधुजिन् मधुसूदनस् तस्य प्रियान् भक्तान् प्रमदं सुखं ‘मुत्प्रीतिः प्रमदो हर्षः’ इत्यमरः । आनयतः ‘णीञ् प्रापणे’ इत्यस्माद् लट् परस्मैपदम् आनयति आनयत आनयन्ति’ । ‘चैत्रवसन्तमधुद्रुमदैत्यविशेषेषु पुंसि मधुशब्दः’ इति रत्नमाला । कथंभूतौ मधुमाधवौ स्मितमाधवीकुसुमरम्यतरौ माधवीनां माधवीवृक्षाणां कुसुमानि पुष्पाणि स्मितानि विकसितानि च तानि माधवीकुसुमानि च तैः रम्यतरौ अतिशयेन रम्यौ अतिमनोहरौ इत्यर्थः । पुनः कथंभूतौ नवचम्पकादिकुसुमोल्लसितौ चम्पकं चम्पकपुष्पम् आदिर् येषां तानि चम्पकादीनि । चम्पकादीनि च तानि कुसुमानि पुष्पाणि च । नवानि च तानि चम्पकादिकुसुमानि च तैर् उल्लसितौ शोभमानौ अत एव मधुपगीर्मधुरौ मधुपानां भ्रमराणां गीर्भिः स्वरैर् मधुरौ मनोहरौ ‘मधुरं रसवत्स्वादुप्रियेषु’ इति विश्वः ॥ ४० ॥

विश्वास-प्रस्तुतिः - ४१

नवमल्लिकास्रजमभीष्टतमः शुचिसम्भवां प्रणयिनीशिरसि ।
कलयन् स्वयं न कुशलेति किल प्रतिघट्टयत्युरुकुचावुरसा॥ ४१ ॥

मूलम् - ४१

नवमल्लिकास्रजमभीष्टतमः शुचिसम्भवां प्रणयिनीशिरसि ।
कलयन् स्वयं न कुशलेति किल प्रतिघट्टयत्युरुकुचावुरसा॥ ४१ ॥

पदार्थदीपिकोद्बोधिका

नवमल्लिकेति ॥ अभीष्टतमः पतिः । शुचौ ज्येष्ठमासे सम्भव उत्पत्तिर् यस्यास् ताम् । ‘ज्येष्ठे शुक्लः शुचिस्त्वयमि’त्यमरः । नवा नूतना या मल्लिकास्रक् मल्लिकामाला ताम् । न कुशलेति, त्वं शिरसि सम्यक् मालां बद्ध्रुं न जानासीति उक्तवा किल स्वयं प्रणयिनीशिरसि भार्याशिरसि कलयन् अभिमुखं

स्थित्वा बध्नन् सन् । उरसा निजवक्षसा । ‘उरो वत्सं च वक्षश्चे’त्यमरः । उरुकुचौ तस्या उरुस्तनौ प्रतिघट्टयति दृढं ताडयति । घट्ट चलने इति धातुः । अयं भावः । नवमल्लिकामालां कबर्यां बद्धुम् उद्यतां रमणीं प्रेक्ष्यमाणः प्रियस् त्वं न जानासि इत्युक्तवा

स्रजम् आदाय तस्या अभिमुखं स्थित्वा स्वयं तत्कबर्यां बाहुभ्याम् अबध्नात् । तद्य्वाजेन उरुकुचौ प्रतिघट्टयतीति ॥ ४१ ॥

मन्दोपाकारिणी

नवेति ॥ अभीष्टतमो ऽतिशयेन अभीष्टो ऽभीष्टतमः पतिः । शुचिसम्भवां शुचौ ग्रीष्मर्तौ ज्येष्ठाषाढमासयोर् इति यावत्, सम्भवां जातां ‘शुचिः शुद्धेऽनुपहते ृङ्गाराषाढयोः सिते ग्रीष्मे हुतवहेऽपि स्यात्’ इति विश्वः । नवमल्लिकास्रजं नवा नूतना च सा मल्लिकानां पुष्पाणां स्रक् माला च नवमल्लिकास्रक् ताम् । न कुशलेति किल ‘‘हे रमणि त्वं शिरसि मालां सम्यक् बद्धुं न जानासीति’’ स्वप्रणयिनीं प्रत्युक्त्वा किल । प्रणयिनीशिरसि प्रणयिन्याः प्रियायाः शिरसि कबर्याम् इति यावत् । कलयन् बध्नन् उरसा स्ववक्षसा ‘उरस्तु वक्षसि श्रेष्ठः’ इति रत्नमाला । उरुकुचौ उरू स्थूलौ च तौ कुचौ । प्रतिघट्टयति दृढं ताडयति ‘घट्ट ताडने इत्यतो लट् परस्मैपदम्’ । अयं भावः मल्लिकाकुसुममालां कबर्यां बद्धुम् उद्यतां रमणीं प्रेक्ष्य रमणः ‘‘हे रमणि त्वं बद्धुं न वेत्सि’’ इति वदन् मालाम् आदाय तस्या अभिमुखं स्थित्वा स्वतः कबर्यां स्वहस्ताभ्यां बध्नन् बन्धनव्याजेन स्ववक्षसा तस्याः स्थूलकुचौ आश्लिषतीति ॥ ४१ ॥

विश्वास-प्रस्तुतिः - ४२

मधुरस्वरास्ततपतत्रततिप्रकटान्तपंक्तिधृतनेत्ररुचः ।
शिखिनोऽनुयान्ति हि सहस्रदृशं जलदर्तुलक्ष्मनिजनृत्तमहे ॥ ४२ ॥

मूलम् - ४२

मधुरस्वरास्ततपतत्रततिप्रकटान्तपंक्तिधृतनेत्ररुचः ।
शिखिनोऽनुयान्ति हि सहस्रदृशं जलदर्तुलक्ष्मनिजनृत्तमहे ॥ ४२ ॥

पदार्थदीपिकोद्बोधिका

मधुरेति ॥ मधुरो मनोहरः स्वरः केकाध्वनिर्येषां तादृशाः । तता विस्तृता या पतत्रततयो बर्हसमूहास् तासां प्रकटाः स्पष्टा अन्ता अग्रभागा यासां ताः प्रकटान्तास् तादृश्यो याः पङ्क्तय आवलयस् तासु धृता नेत्ररुचयो नेत्रकान्तयो यैस् तादृशा शिखिनो मयूराः । ‘केकी शिखी शिखण्डी’ति हलः । जलं ददातीति जलदः सचासौ ऋतुश्च जलदर्तुर् वर्षर्तुस् तस्य लक्ष्म लक्षणभूतं यन् निजनृत्तं स्वकीयनर्तनं तदेव मह उत्सवस् तस्मिन् । सहस्रं दृशो दृष्टयो यस्य तम् इन्द्रम् अनुयान्ति हि अनुकुर्वन्ति हि । वर्षाकाले मेघध्वनिं श्रुत्वा मयूरा नृत्यन्तीति प्रसिद्धम् । नृत्ते बर्हाणां विस्तृतत्वात् तदग्रे नयनसदृशानि बहूनि वर्तुलानि प्रकटीभवन्ति । तैः सहस्रदृशम् इन्द्रम् अनुयान्ति इति भावः ॥ ४२ ॥

मन्दोपाकारिणी

मधुरेति ॥ मधुरस्वरा मधुरः श्रोत्रेन्द्रियप्रियः स्वरः ध्वनिर् येषां ते मधुरस्वराः । शिखिनः मयूराः ‘शिखावलः शिखी केकी’ इत्यमरः । जलदर्तुलक्ष्म-निजनृत्तमहे जलं ददातीति जलदः स चासौ ऋतुश्च जलदर्तोर् वर्षर्तोर् लक्ष्म लक्षणं चिह्नं ‘चिह्नं लक्ष्म च लक्षणं’ इत्यमरः, निजं च तन् नृत्तं नर्तनं च जलदर्तुलक्ष्म च तन् निजनृत्तं च तदात्मकश्चासौ मह उत्सवश्च जलदर्तुलक्ष्मनिजनृत्तमहस् तस्मिन् ‘मह उद्धव उत्सवः’ इत्यमरः । सहस्रदृशं सहस्रं दृशश् चक्षूंषि यस्य स तथोक्तस् तम् । सहस्राक्षम् इन्द्रम् अनुयान्ति हि अनुकुर्वन्ति हि । कथंभूतास्सन्तः, ततपतत्रततिप्रकटान्तपङ्क्तिधृतनेत्ररुचस् ततानि विस्तृतानि छत्रायितानि इति यावत्, पतत्राणि पक्षा बर्हाणि ‘गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहं’ इत्यमरः, ततानि च तानि पतत्राणि च तेषां ततयः समूहास् तासु प्रकटाः प्रकटं दृश्यमानाः, अन्तानां बर्हाग्रे विद्यमानानां वर्तुलाकाराणां पङ्क्तय आवलयो ऽन्तपङ्क्तयस् ततपतत्रततिप्रकटाश्च ता अन्तपङ्क्तयश्च तासु धृता नेत्राणां रुक् कान्तिर् यैस् ते तथोक्तास्सन्तः । अयं भावः वर्षर्तौ मेघध्वनिं श्रुत्वा मयूरा मधुरस्वरं कुर्वन्तः सन्तः नृत्यन्तीति सिद्धं मयूरनर्तनं वर्षर्तोर् लक्षणम् । नर्तनसमये च बर्हाणि आविष्कुर्वन्ति । तदग्रेषु नयनसदृशानि वर्तुलानि प्रकटीभवन्ति । तैश्च सहस्रनेत्र इव प्रतीयन्ते इति ॥ ४२ ॥

विश्वास-प्रस्तुतिः - ४३

शरदोल्लसत्कुवलयेक्षणया विकचारविन्दरुचिराननया ।
प्रियया च शोभनशुकस्वनया रमते जनो मुखरहंसकया ॥ ४३ ॥

मूलम् - ४३

शरदोल्लसत्कुवलयेक्षणया विकचारविन्दरुचिराननया ।
प्रियया च शोभनशुकस्वनया रमते जनो मुखरहंसकया ॥ ४३ ॥

भावप्रकाशिका

कुवलयवदीक्षणमरविन्दवद्रुचिराननम् । शुकवच्छोभनस्वरः । हंसकं चरणाभरणं प्रियायाः । शरदस्तु कुवलयमेव ईक्षणमरविन्दमेव रुचिराननं शोभनशुकस्वर एव स्वरः मुखराः श्वेतच्छदाः ॥ ४३ ॥

पदार्थदीपिकोद्बोधिका

शरदेति ॥ जनो मुक्तजनः । उल्लसत् कुवलयं शोभमानोत्पलमेव ईक्षणं चक्षुर् यस्यास् तया । विकचानि विकसितानि यानि अरविन्दानि पद्मानि तान्येव रुचिराननं मनोहरमुखं यस्यास् तया । शोभना ये शुकास् तेषां स्वन एव स्वनो ध्वनिर् यस्यास् तया । शोभनः शुकस्वनो यस्यास् तयेति वा । मुखराः कूजन्तो हंसका हंसा यस्यस् तया । स्वार्थे कः । शरदा शरदृतुना । उल्लसत्कुवलयेक्षणया, शोभनोत्पलसदृशेक्षणया, विकचारविन्दरुचिराननया विकसितारविन्दवद्रुचिराननया, शोभनशुकस्वनया शोभनशुकस्वनवत्स्वनयुक्तया, मुखरहंसकया क्वणन् पादकटकया । ‘हंसकः पादकटक’ इत्यमरः । प्रियया भार्यया च रमते ॥ ४३ ॥

मन्दोपाकारिणी

शरदेति ॥ जनः मुक्तजनः । शरदा शरदर्तुना प्रियया स्वरमण्या च रमते क्रीडति । ‘रमु क्रीडायाम् इत्यतो लट् आत्मनेपदं रमते रमेते रमन्ते’ । कथंभूतया शरदा, उल्लसत्कुवलयेक्षणया उल्लसन्ति विकसितानि च तानि कुवलयानि उत्पलानि च तान्येव ईक्षणानि चक्षूंषि यस्याः सा तथोक्ता तया ‘स्यादुत्पलं कुवलयं’ इत्यमरः । विकचारविन्दरुचिराननया विकचानि च तानि अरविन्दानि पद्मानि च तान्येव रुचिरं मनोहरम् आननं मुखं यस्याः सा तथोक्ता तया । शोभनशुकस्वनया शोभनः श्राव्यः शुकानां कीराणां शुकपक्षिणां स्वन एव स्वनो यस्याः सा तथोक्ता तया ‘कीरशुकौ समौ’ इत्यमरः । मुखरहंसकया मुखराः कूजन्तः हंसा हंसपक्षिणः यस्यां सा तथोक्ता तया । स्वार्थे कप्रत्ययः । ‘हंसास्तु स्वेतगरुतः’ इत्यमरः । कथंभूतया प्रियया च उल्लसत्कुवलयेक्षणया उल्लसत् कुवलयवद् ईक्षणं यस्याः सा तया विकचारविन्दरुचिराननया विकचारविन्दवद् रुचिरम् आननं यस्याः सा तया । शोभनशुकस्वनया शुकस्य स्वनवत् स्वनो यस्याः सा तया । मुखरहंसकया मुखरः क्वणन् हंसकः पादकटकः यस्याः सा तया ‘हंसकः पादकटकः’ इत्यमरः ॥ ४३ ॥

विश्वास-प्रस्तुतिः - ४४

अभिनन्दयन् हिमॠतुं सुसखा स्फटिकाचलच्छलहिमाधिकृतम् ।
फलिनीकुलं कुसुमयञ्छिशिरो हसतीव फुल्लनवकुन्दरुचा ॥ ४४ ॥

मूलम् - ४४

अभिनन्दयन् हिमॠतुं सुसखा स्फटिकाचलच्छलहिमाधिकृतम् ।
फलिनीकुलं कुसुमयञ्छिशिरो हसतीव फुल्लनवकुन्दरुचा ॥ ४४ ॥

भावप्रकाशिका

हिमऋतुः ‘ऋत्यकः’ इति प्रकृतिभावः । सुसखा ‘राजाहः सखिभ्यष्टजि’ति टचो ‘न पूजनादि’त्यपवादः ॥ ४४ ॥

पदार्थदीपिकोद्बोधिका

अभीति ॥ स्फटिकात्मकश्चासौ अचलः पर्वतश्च स्फटिकाचलः स इति छलं, व्याजः, तच्च तत् हिमञ्च तेन अधिकृतं व्याप्तम् । स्फटिक-पर्वतवत् प्रतीयमानहिमेन व्याप्तम् इत्यर्थः । हिमऋतुं हेमन्तऋतुम् । ‘ऋत्यक’ इति प्रकृतिभावान्न गुणः । अभिनन्दयन् सुसखा हिमर्तोः शोभनसखा । ‘न पूजनादि’ति निषेधान्न टच् । फलिनीनां कुलं समूहम् । फलिनी ‘गजगे’ति प्रसिद्धः कश्चन गुल्मविशेषः । ‘प्रियंगु फलिनी श्यामे’ति हलः । कुसुमयन् पुष्पितं कुर्वन् शिशिरः शिशिरऋतुः । फुल्लानि विकसितानि नवकुन्दानि नूतनकुन्दकुसुमानि तेषां रुक् कान्तिस् तया हसतीव अस्ति । कुन्दकुसुमानां धवलत्वेन हासोऽपि धवल इति कविसमयत्वाद् धवलकुन्दकुसुमविकासं दृष्ट्वा हास इत्युत्प्रेक्षेति भावः । अनेन श्लोकेन ऋतुद्वयं वर्णितं भवति ॥ ४४ ॥

मन्दोपाकारिणी

अभिनन्दयन्निति ॥ फलिनीकुलं फलिनी नाम कश्चिद्गुल्मविशेषः फलिन्याः कुलं समूहम् । कुसुमयन् पुष्पितं कुर्वन् शिशिरः शिशिरऋतुः । फुल्लनवकुन्दरुचा फुल्लानि विकसितानि च तानि नवानि नूतनानि च तानि कुन्दानि कुन्दपुष्पाणि च तेषां रुचा कान्त्या हसतीव हासं करोतीव कुन्दपुष्पाणां धवलत्वाद् धवलहासयोः साम्याद् धवलकुन्दपुष्पविकासं दृष्ट्वा हास इत्युत्प्रेक्षेति भावः । अनेन शिशिरऋतुकार्यं वेत्तव्यम् । कथंभूतः शिशिरः स्फटिकाचलच्छलहिमाधिकृतं स्फटिकः स्फटिकमयश्चासौ अचलः पर्वतश्च ‘अचलशैलशिलोच्चयाः’ इत्यमरः, तस्य छलेन व्याजेन ‘छलन्तु छलिते व्याजे’ इति विश्वः, स्फटिकाचलवत् शुभ्रेणेति भावः । हिमेन नीहारेण अधिकृतं व्याप्तं ‘अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमं’ इत्यमरः । अनेन स्फटिकाचलवत् शुभ्रबहुहिमवत्वं हिमऋतोर् लक्षणम् उक्तं भवति । एतादृशं हिमऋतुम् अभिनन्दयन् सुखयन् । पुनः कथंभूतः सुसखा हिमर्तोर् अत्यन्तं सुहृत् तत्कार्यहिमकरणे सहकारित्वाद् इति भावः । अनेन हिमर्तुशिशिरर्तुद्वयकार्यम् उक्तं वेत्तव्यम् । हिमऋतुरित्यत्र ऋत्यक इति पाक्षिकः प्रकृतिभावः । सुसखेत्यत्र ‘राजाहः सखिभ्यष्टच्’ इत्यस्य ‘न पूजनात्’ इति अपवादान् न

टच् इति ज्ञातव्यम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः - ४५

हिमशीतवर्षपरितापपुरस्सरदोषमूलमिह नर्तुगणः ।
प्रियमेव साधयति नित्यमहो स विमुक्तिमानिति विमुक्तिमताम् ॥ ४५ ॥

मूलम् - ४५

हिमशीतवर्षपरितापपुरस्सरदोषमूलमिह नर्तुगणः ।
प्रियमेव साधयति नित्यमहो स विमुक्तिमानिति विमुक्तिमताम् ॥ ४५ ॥

पदार्थदीपिकोद्बोधिका

हिमेति ॥ इह भगवल्लोके ऋतुगणः वसन्तादिऋतुसमूहः । हिमं तुषारः, शीतं वर्षं, परितापश्च ते पुरस्सरा आद्या येषां ते च ते दोषाश्च तेषां मूलं कारणभूतम् । ‘तुषारस्तुहिनं हिमं’ इत्यमरः । न भवति, किन्तु विमुक्तिर् एषाम् अस्तीति तेषां नित्यं प्रियमेव सुखमेव साधयति । इत्यस्माद्धेतोः स ऋतुगणो विमुक्तिमान् मोक्षवान् निर्दोषत्वादिति भावः । अहो एवम् आश्चर्यवान् अयं लोक इति भावः ॥ ४५ ॥

मन्दोपाकारिणी

हिमेति ॥ इह वैकुण्ठे ऋतुगणः षडृतूनां समूहः । विमुक्तिमतां विमुक्तिर् मोक्षो येषाम् अस्तीति विमुक्तिमन्तस् तेषां मुक्तानां हिमशीतवर्षपरितापपुरस्सरदोषमूलं हिमं तुषारः ‘तुषारस्तुहिनं हिमं’ इत्यमरः, शीतं शीतगुणः, वर्षं वृष्टिः, परिताप आतपबाधा । हिमं च शीतं च वर्षं च परितापश्च हिमशीतवर्षपरितापा एते एव पुरस्सरा आदयो येषां ते तथोक्ताः । एवंभूताश्च ते दोषाश्च तेषां मूलं कारणं न भवति । ऋतुगणः स्वस्वकार्यहिमादिकारी न भवति इत्यर्थः । किन्तु नित्यं प्रियमेव साधयति करोति । ‘राध साध संसिद्धौ इत्यतो लट् परस्मैपदम्’ । इति अस्मात् कारणात् स ऋतुगणः विमुक्तिमान् निर्दोषत्वाद् इति भावः । अहो आश्चर्यं भगवल्लोकमाहात्म्यम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः - ४६

अमृतस्रगुत्तमफलप्रसवानमृताय तत्र जनताऽर्पयति ।
उपभोक्तुमप्यविधिबन्धवशा प्रकृतिं प्रयाति सकलोऽपि सदा ॥ ४६ ॥

मूलम् - ४६

अमृतस्रगुत्तमफलप्रसवानमृताय तत्र जनताऽर्पयति ।
उपभोक्तुमप्यविधिबन्धवशा प्रकृतिं प्रयाति सकलोऽपि सदा ॥ ४६ ॥

पदार्थदीपिकोद्बोधिका

अमृतेति ॥ तत्र वैकुण्ठलोके । जनानां समूहो जनता, विधिरेव बन्धो विधिबन्धस् तस्य वशा अधीना तादृशी न भवतीति अविधिबन्धवशा । एवं कुर्यादिति श्रौतस्मार्तविधिनामकबन्धस्य वशेऽवर्तमानापीत्यर्थः । उपभोक्तुम् आत्मन उपभोगाय अमृतञ्च स्रजो मालास् ताश्च उत्तमफलानि च प्रसवाः पुष्पाणि च तान् । ‘प्रसवः पुष्पफलयोरपत्ये गर्भमोचन’ इति हेमचन्द्रः । अमृताय नित्यमुक्ताय हरये अर्पयति समर्पयति । ऋ गतौ । अमृतादिकं सर्वमपि हरये समर्प्योपभुङ्क्त इत्यर्थः । तस्य मुक्तजनस्य तदुपपन्नमेव । तथा हि सकलोऽपि सर्वोऽपि जनः सदा प्रकृतिं स्वभावं प्रयाति अनुवर्तते । भगवति सर्वसमर्पणस्य तत्स्वभावत्वाद् अद्यापि तथा वर्तत इति भावः । अत्रार्थान्तरन्यासालङ्कारः ॥ ४६ ॥

मन्दोपाकारिणी

अमृतेति ॥ तत्र वैकुण्ठे जनता जनानां समूहो जनता । अविधिबन्धवशापि एवं कर्म कुर्यादेवेति श्रौतस्मार्तकर्मनिर्बन्धो विधिस् तेन बन्धः बन्धनं तस्य वशा अधीना विधिबन्धवशा सा न भवतीति अविधिबन्धवशा । कर्माद्यकरणे प्रत्यवायरहितापि इति भावः । उपभोक्तुम् आत्मन उपभोगार्थम् अमृतस्रगुत्तमफलप्रसवान् अमृतं च स्रक् माला च उत्तमफलानि च प्रसवाः पुष्पाणि च तथोक्तास् तान् ‘स्यादपत्ये फले पुष्पे प्रसवो गर्भमोचने’ इत्यमरः । अमृताय नित्यमुक्ताय हरये अर्पयति समर्पयति । ‘ऋ गतावित्यतो णिजन्ताल्लट् परस्मैपदम्’ । मुक्तो जनः, कर्म कर्तव्यमेवेति निर्बन्धा-भावेऽपि अमृतादिकं सर्वं स्वभोग्यं हरये समप्यर्ैैव भुङ्क्ते इत्यर्थः । इदं तत्स्वभाव इत्याह-प्रकृतिमिति ॥ सकलोऽपि सर्वजनोऽपि सदा प्रकृतिं स्वभावं प्रयाति अनुवर्तते । भगवति सर्वसमर्पणस्य मुक्तस्वभावत्वात् तत्सर्वं युज्यते इति भावः ॥ ४६ ॥

विश्वास-प्रस्तुतिः - ४७

प्रमदातिरेकमुपयातवता प्रमदागणेन चरतोपवने ।
उपगीयते स्म मधुरं मधुजिच्चरितं सकान्तततिना सततम् ॥ ४७ ॥

मूलम् - ४७

प्रमदातिरेकमुपयातवता प्रमदागणेन चरतोपवने ।
उपगीयते स्म मधुरं मधुजिच्चरितं सकान्तततिना सततम् ॥ ४७ ॥

पदार्थदीपिकोद्बोधिका

प्रमदेति ॥ प्रमदस्य सुखस्य अतिरेकम् आधिक्यम् उपयातवता प्राप्तवता । उपवने आरामे । ‘आरामः स्यादुपवनमि’त्यमरः । चरता सकान्तततिना भर्तृसमूहसहितेन स्वस्वभर्तृसहितेन इति यावत् । प्रमदागणेन, सन्ततं निरन्तरं मधुजिच्चरितं श्रीहरिचरितं मधुरं श्रोत्रमनोहरं यथा भवति तथा उपगीयते स्म ॥ ४७ ॥

मन्दोपाकारिणी

प्रमदेति ॥ प्रमदातिरेकं प्रमदस्य सुखस्य अतिरेकम् आधिक्यम् उपयातवता उपवने ृङ्गारवने चरता सकान्तततिना कान्तानां पतीनां ततिः समूहस् तया सहितेन प्रमदागणेन स्त्रीणां समूहेन ‘प्रमदा मानिनी कान्ता’ इत्यमरः । सततं निरन्तरं मधुजिच्चरितं मधुं जयतीति मधुजित् तस्य हरेश् चरितं चरित्रं मधुरं श्रोत्रसुखं यथा स्यात् तथा उपगीयते स्म । ‘गै शब्दे इत्यतः कर्मणि लट् आत्मनेपदम्’ । स्त्रीसमूहः स्वस्वपतिभिस्सह वने सञ्चरन् सन् सुखोद्रेकात् हरिचरितं नित्यं गायति इति भावः ॥४७॥

विश्वास-प्रस्तुतिः - ४८

ललना ललन्त्यभिवरं प्रवरा ललिता लुनन्ति कुसुमानि पराः ।
इतराः स्रजो विरचयन्ति पतीननुरञ्जयन्ति न हि काश्चन नो ॥ ४८ ॥

मूलम् - ४८

ललना ललन्त्यभिवरं प्रवरा ललिता लुनन्ति कुसुमानि पराः ।
इतराः स्रजो विरचयन्ति पतीननुरञ्जयन्ति न हि काश्चन नो ॥ ४८ ॥

पदार्थदीपिकोद्बोधिका

ललना इति ॥ प्रवरा उत्तमा ललना नार्यो वरं वरमभि अभिवरम् । स्वस्वभर्त्राभिमुख्येन इत्यर्थः । ललन्ति नृत्यन्ति । लल ईप्सायां लट् । ललिता अतिकोमलाः परा अन्याः कुसुमानि लुनन्ति । लूञ् छेदने लट् । इतराः स्रजो माला विरचयन्ति । रच प्रतियत्ने । काश्चन पतीन् न अनुरञ्जयन्तीति नो न सुखयन्तीति नो सर्वाश्च स्वस्वपतिसेवया तान् सुखयन्त्येव ॥ ४८ ॥

मन्दोपाकारिणी

ललना इति ॥ प्रवरा उत्तमा ललना नार्यः ‘ललना च नितम्बिनी’ इत्यमरः । अभिवरं वरान् पतीन् अभीति अभिवरं स्वभर्त्राभिमुख्येन इत्यर्थः । ललन्ति नृत्यन्ति । ‘लल विलासे इति धातोर् लट् परस्मैपदम्’ । ललिता अतिकोमलाः परा अन्या नार्यः कुसुमानि पुष्पाणि लुनन्ति छिन्दन्ति । ‘लूञ् छेदने इत्यतो लट् परस्मैपदम्’ । इतरा अन्याः स्त्रियः स्रजः माला विरचयन्ति बध्नन्ति । काश्चन का अपि स्त्रियः पतीन् नो अनुरञ्जयन्ति इति न किन्तु अनुरञ्जयन्त्येव इत्यर्थः । ‘रञ्ज् रागे लट् परस्मैपदम्’ ॥ ४८ ॥

विश्वास-प्रस्तुतिः - ४९

वनलीलया विविधया मुदितास्तरुणा घनस्तननतास्तरुणीः ।
सुलतालयेषु परिरभ्य रतिं वदनारविन्दमधुपा दधति ॥ ४९ ॥

मूलम् - ४९

वनलीलया विविधया मुदितास्तरुणा घनस्तननतास्तरुणीः ।
सुलतालयेषु परिरभ्य रतिं वदनारविन्दमधुपा दधति ॥ ४९ ॥

पदार्थदीपिकोद्बोधिका

वनेति ॥ विविधया नानाविधया वनलीलया वनक्रीडया मुदिताः सन्तुष्टास् तरुणा युवानः सु शोभना ये लतालया लतागृहाणि तेषु घनौ निबिडौ यौ स्तनौ ताभ्यां नता नम्रास्तास् तरुणीः परिरभ्य वदनमेव अरविन्दं तस्य यन् मधु तत् पिबन्तीति तादृशा । अधरसुधां पिबन्तःसन्तो रतिं रतिक्रीडां दधति कुर्वन्ति ॥ ४९ ॥

मन्दोपाकारिणी

वनेति ॥ विविधया नानाविधया वनलीलया वनक्रीडया मुदिताः सन्तुष्टास् तरुणा युवानः पुरुषाः सुलतालयेषु शोभनेषु लतानां वल्लीनाम् आलयेषु गृहेषु ‘वल्ली तु व्रततिर्लता’ इत्यमरः । घनस्तननता घना निबिडाश्च ते स्तनाः कुचाश्च घनस्तनास् तैर् नताः प्रह्वास् तरुणीर् युवतीः परिरभ्य आलिङ्ग्य रतिं सुरतक्रीडां दधति कुर्वन्ति । कथंभूतास् तरुणाः, वदनारविन्दमधुपास् तरुणीनां वदनान्येव अरविन्दानि पद्मानि वदनारविन्दानि तेषां मधु पुष्परसं मकरन्दम् इत्यर्थः, पिबन्तीति वदनारविन्दमधुपाः ‘मधु क्षौद्रे जले क्षीरे मद्ये पुष्परसेऽपि च’ इति विश्वः । तरुणा वनेषु स्त्रीभिः सह तत्र संचारेण नानाविधक्रीडां कृत्वा लतागृहेषु स्तनभारनतास् तरुणीर् आलिङ्ग्य मुखचुम्बनं कुर्वन्तः सन्तः सुरतक्रीडां कुर्वन्तीति भावः । ‘डु धाञ् धारणपोषणयोरिति धातोर् लट् परस्मैपदं दधाति धत्तः दधति’ ॥ ४९ ॥

विश्वास-प्रस्तुतिः - ५०

रसिकाः सुधाप्सु सरसीषु ततो रुतनूपुरानुकृतसारसकाः ।
विहरन्ति साकमवगाह्य धवैर्जलमड्डुकोत्सवहसद्वदनाः ॥ ५० ॥

मूलम् - ५०

रसिकाः सुधाप्सु सरसीषु ततो रुतनूपुरानुकृतसारसकाः ।
विहरन्ति साकमवगाह्य धवैर्जलमड्डुकोत्सवहसद्वदनाः ॥ ५० ॥

पदार्थदीपिकोद्बोधिका

रसिका इति ॥ ततो वनक्रीडानन्तरं रुतानि क्वणंति यानि नूपुराणि पादभूषणानि तैर् अनुकृता विडम्बिताः सारसकाः सारसाख्यपक्षिविशेषा याभिस् ताः । ‘सारसा जलकुक्कुटा’ इत्यमरः । रसिका विलासिन्यो धवैः पतिभिः साकं सुधात्मिका आपो यासु तासु सरसीषु । ‘कासारः सरसी सर’ इत्यमरः । अवगाह्य अवतीर्य जलमेव मड्डुको मद्दलविशेषस् तस्य य उत्सवस् ताडनोत्सवस् तेन हसन्ति हासयुक्तानि वदनानि यासां तादृश्यः सत्यः । ‘वाद्यप्रभेदा डमरुमड्डुडिण्डिमखर्खरा’ इत्यमरः । विहरन्ति क्रीडन्ति ॥ ५० ॥

मन्दोपाकारिणी

रसिका इति ॥ रसिका विलासिन्यो नार्यः । ततः पूर्वोक्तप्रकारेण वनक्रीडानन्तरम् । रुतनूपुरानुकृतसारसका रुताः क्वणन्तश्च ते नूपुरा मञ्जीराः पादभूषणानि ‘मञ्जीरो नूपुरोऽस्त्रियां’ इत्यमरस् तैर् अनुकृता विडम्बिताः सारसा जलकुक्कुटाख्यपक्षिविशेषा याभिस् तास् तथोक्ताः । ‘सारसा जलकुक्कुटाः’ इत्यभिधानम् । एवंभूताः सत्यः धवैः पतिभिः ‘धवः प्रियः पतिर्भर्ता’ इत्यमरः । साकं सह ‘साकं सत्रा समं सह’ इत्यमरः । सुधाप्सु सुधा अमृतमया आपः जलानि यासु तासु सुधाप्सु समासान्तविधेर् अनित्यत्वात् सुधाप्सु इति साधु । सरसीषु सरस्सु ‘कासारः सरसी सरः’ इत्यमरः । अवगाह्य प्रविश्य विहरन्ति क्रीडन्ति । ‘वि पूर्वात् हृञ् हरणे इत्यतो लट् परस्मैपदम्’ । कथंभूताः सत्यः जलमड्डुकोत्सवहसद्वदना जलेषु मड्डुकः हस्ताभ्यां ताडनं तल्लक्षणे उत्सवे हसन्ति हासयुक्तानि वदनानि यासां तास् तथोक्ताः । वनक्रीडानन्तरं नार्यः ध्वनिविशेषकारिभिः सारसपक्षिभिरिव प्रतीयमाननूपुराख्यपादभूषणैर् युताः सत्यः पतिभिः सह सरोवरसमीपं गत्वा अमृतमयोदकेषु सरोवरेषु प्रविश्य हस्ताभ्यां जलताडनं कृत्वा हसन्त्यः सत्यः क्रीडन्ति इति भावः ॥ ५० ॥

विश्वास-प्रस्तुतिः - ५१

विविधा विधाय विहृतीः सलिले विकटेषु विद्रुमतटेषु गताः ।
सुरभिं सुवर्णमथ वर्णकमाददते सखीकरगतं महिलाः ॥ ५१ ॥

मूलम् - ५१

विविधा विधाय विहृतीः सलिले विकटेषु विद्रुमतटेषु गताः ।
सुरभिं सुवर्णमथ वर्णकमाददते सखीकरगतं महिलाः ॥ ५१ ॥

पदार्थदीपिकोद्बोधिका

विविधा इति ॥ महिला नार्यः सलिले विविधा विहृतीः क्रीडा विधाय । अथ जलविहारानन्तरं विकटेषु श्रेष्ठेषु । विशालेष्विति वा । ‘विशङ्कटं विशालं स्यात्करालं विकटं तथे’ति हलः । विद्रुमतटेषु विद्रुमावबद्धतीरेषु गताः स्थिताः सत्यः, सखीकरगतं सखीहस्तस्थितं सुरभिं शोभनपरिमलाढ्यं सु शोभनो वर्णो यस्य तं वर्णकम् अङ्गरागम् । ‘वर्णको विलेपने मलयजे नटे चे’ति हेमचन्द्रः । आददते प्रतिगृह्णन्ति । डु दाञ् दाने लट् ॥ ५१ ॥

मन्दोपाकारिणी

विविधा इति ॥ महिलाः ‘वनिता महिला’ इत्यमरः सलिले जले विविधा विचित्रा विहृतीः क्रीडा विधाय कृत्वा अथ जलक्रीडानन्तरं विकटेषु सुन्दरेषु ‘विकटः सुन्दरे प्रोक्तः’ इत्यमरः, विद्रुमतटेषु प्रवालानां तटेषु विद्रुमखचिततीरेषु इत्यर्थः । ‘प्रवालं विद्रुमोऽस्त्रियां’ इत्यमरः । गताः स्थिताः सत्यः सखीकरगतं सखीनां सहचरीणां करेषु गतं विद्यमानं सुरभिं घ्राणतर्पणं घ्राणेन्द्रियप्रियपरिमलोपेतम् इति भावः । ‘सुरभिर्घ्राणतर्पणं’ इत्यमरः, । सुवर्णं शोभनः वर्णः कान्तिर् यस्य सस् तथोक्तस् तं ‘वर्णो द्विजादौ शुक्लादौ’ इत्यमरः । वर्णकं शरीरविलेपनद्रव्यम् अङ्गरागं ‘गात्रानुलेपनी वर्ती वर्णकोऽस्त्री विलेपनं’ इत्यमरः । आददते प्रतिगृह्णन्ति ‘आङ् पूर्वाद् दद दाने इत्यतो लट् आत्मनेपदम् आदत्ते आददाते आददते’ जलक्रीडानन्तरं तीरमागत्य शरीरम् अङ्गरागेण विलेपयन्ति नार्य इति भावः ॥ ५१ ॥

विश्वास-प्रस्तुतिः - ५२

जघनांशुकैरवयवाभरणैः कुचकुंकुमैश्च कचमाल्यवरैः ।
नयनाञ्जनैरपि मिथोऽब्जदृशां घटितैरलंकृतिरलं क्रियते ॥ ५२ ॥

मूलम् - ५२

जघनांशुकैरवयवाभरणैः कुचकुंकुमैश्च कचमाल्यवरैः ।
नयनाञ्जनैरपि मिथोऽब्जदृशां घटितैरलंकृतिरलं क्रियते ॥ ५२ ॥

पदार्थदीपिकोद्बोधिका

जघनेति ॥ मिथः परस्परं घटितैः सम्बद्धैर् अब्जदृशां पद्मलोचनानां नारीणां जघनांशुकैर् जघनानि च अंशुकानि अम्बराणि तैः । अवयवा हस्तपादादय आभरणानि कटकनूपुरादीनि च तैः । कुचाश्च कुङ्कुमानि च तैः । कचाः केशबन्धास् ते च माल्यवराणि माल्यश्रेष्ठानि तैः । नयनानि च अञ्जनानि च तैरप्यलं सम्यक् अलङ्कृतिर् अलङ्कारः क्रियते । जघनादिसम्बन्धाद् अंशुकादीनाम् अंशुकादिसम्बन्धाज् जघनादीनाम् एवं मिथोऽलङ्कारोऽभूदिति भावः ॥ ५२ ॥

मन्दोपाकारिणी

जघनेति ॥ मिथो ऽन्योन्यं परस्परम् इत्यर्थः । घटितैः सम्बद्धैर् अब्जदृशाम् अब्जवत् कमलवद् दृशौ लोचने यासां ता अब्जदृशस् तासां स्त्रीणां जघनांशुकैर् जघनानि च अंशुकानि च तैर् इति द्वन्द्वः, जघनैः कटिपुरोभागैः ‘पश्चान्नितम्बः स्त्री कट्याः क्लीबेतु जघनं पुरः’ इत्यमरः, कटिभिर् इत्यर्थो ऽंशुकैर् वस्त्रैः ‘वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकं’ इत्यमरः । अवयवाभरणैर् अवयवैः कर्णहस्ताद्यवयवैर् आभरणैः कुण्डलकटकाद्यैस् तत्तद्योग्यभूषणैर् अवायवाश्च आभरणानि च इति विग्रहः । कुचकुङ्कमैः कुचैः स्तनैः कुङ्कुमैः कुङ्कुमाख्यलेपनद्रव्यैः कचमाल्यवरैः कचैः केशैर् माल्यवरैः पुष्पमालोत्तमैः ‘माल्यं मालास्रजौ मूधर्ि्न’ इत्यमरः, कचाश्च माल्यवराणि च इति विग्रहः । नयनाञ्जनैरपि नयनैर् लोचनैर् अञ्जनैः कज्जलैर् अलं सम्यक् अलङ्कृतिर् अलङ्करणं क्रियते जघनाद्यवयवसम्बन्धाद् वस्त्रादीनां वस्त्राभरणादिसम्बन्धाज् जघनादीनाम् इति परस्परा-लङ्कारोऽभूद् इति भावः ॥ ५२ ॥

विश्वास-प्रस्तुतिः - ५३

तनुमध्यमा निजगृहाणि गताः सममात्मनामसुसमैरसमैः ।
अमृतं पिबन्त्यसुलभं भविभिश्चषकैर्महारजतरत्नमयैः ॥ ५३ ॥

मूलम् - ५३

तनुमध्यमा निजगृहाणि गताः सममात्मनामसुसमैरसमैः ।
अमृतं पिबन्त्यसुलभं भविभिश्चषकैर्महारजतरत्नमयैः ॥ ५३ ॥

पदार्थदीपिकोद्बोधिका

तन्विति ॥ निजगृहाणि स्वकीयगृहाणि गताः प्राप्तास् तनु कृशं मध्यमं मध्यमप्रदेशो यासां तास् तनुमध्यमा नार्यः । समा न भवन्तीति असमास् तैर् उत्तमैर् इत्यर्थः । नार्यपेक्षया भर्तुर् उत्तमत्वादिति भावः । आत्मनाम् असुभिः प्राणैः समा असुसमास् तैः पतिभिः समं साकम् । महारजतं सुवर्णम् । ‘महारजतकाञ्चन’ इत्यमरः । रत्नानि च तेषां स्वरूपाणि महारजतरत्नमयानि तैश्चषकैः पानपात्रैः । ‘चषकोऽस्त्री पानपात्रमि’त्यमरः । भवः संसार एषाम् अस्तीति भविनः संसारिणस् तैर् असुलभम् अलभ्यम् अमृतं पिबन्ति ॥ ५३ ॥

मन्दोपाकारिणी

तन्विति ॥ तनुमध्यमास् तनु कृशं मध्यमं यासां तास् तथोक्ताः ‘मध्यमं चावलग्नं च’ इत्यमरः । ‘तनुः काये कृशेऽल्पेऽपि’ इति विश्वः । नार्यः निजगृहाणि निजानि च तानि गृहाणि मन्दिराणि च निजगृहाणि गताः प्राप्तवत्यः सत्यो ऽसमैः समा न भवन्तीति असमास् तैः स्वापेक्षया उत्तमैः, भार्यापेक्षया भर्तुर् उत्तमत्वाद् इति भावः । आत्मनां स्वासाम् असुसमैर् असुभिः प्राणैः समैः प्राणप्रियैर् इत्यर्थः । ‘पुंसि भूम्नयसवः प्राणाः’ इत्यमरः । पतिभिः समं सह महारजतरत्नमयैर् महारजतं काञ्चनं च रत्नानि च तदात्मकानि महारजतरत्नमयानि तैः रत्नखचितसुवर्णात्मकैर् इत्यर्थः । ‘महारजतकाञ्चने’ इत्यमरः । चषकैः पानपात्रैः ‘चषकोऽस्त्री पानपात्रं’ इत्यमरः । अमृतं पिबन्ति ‘पा पाने इत्यतो लट् परस्मैपदम्’ कथंभूतम् अमृतं, भविभिर् भवः संसारो एषाम् अस्तीति भविनस् तैः संसारिभिः ‘भवः ससारसम्प्राप्तिः’ इति विश्वः । असुलभं सुलभं न भवतीति असुलभम् अलभ्यम् इत्यर्थः । नार्यः नानाविधक्रीडानन्तरं गृहमुपेत्य पतिभिः सह अमृतं पिबन्ति इति भावः ॥ ५३ ॥

विश्वास-प्रस्तुतिः - ५४

मृदुकम्रशय्यमनुरागवतां मणिमञ्चमञ्चितदृशोऽवसरे ।
पतिचोदिता अधिरुहन्ति शनैर् विनयो हि भूषयति सर्वरसम् ॥ ५४ ॥

मूलम् - ५४

मृदुकम्रशय्यमनुरागवतां मणिमञ्चमञ्चितदृशोऽवसरे ।
पतिचोदिता अधिरुहन्ति शनैर् विनयो हि भूषयति सर्वरसम् ॥ ५४ ॥

पदार्थदीपिकोद्बोधिका

मृद्विति ॥ अञ्चिताः पूजिता दृशो दृष्टयो यासां तादृश्यः । शोभनदृश इत्यर्थः । नार्यः, अनुरागः स्नेह एषाम् अस्तीति तेषां भर्तॄणाम् । मृद्वी कम्रशय्या मनोहरशय्या यस्मिंस्तं, मणिमयो मञ्चस् तम् अवसरे सुरतक्रीडार्थं मञ्चारोहणावसरे प्राप्तेपतिचोदिता मञ्चारोहणाय स्वरमणैः प्रेरिताः सत्यः शनैर् अधिरुहन्ति । शनैरिति विनयो दर्शितः । स चाधिकगुण इत्याह– विनयो हीति । हि यतो विनयः

ृङ्गारादिसर्वरसं भूषयति । ृङ्गारादिसर्वरसानां विनय एव भूषणमिति भावः । अर्थान्तरन्यासालङ्कारः ॥ ५४ ॥

मन्दोपाकारिणी

मृद्विति ॥ अञ्चितदृशो ऽञ्चिताः कज्जलेन अलङ्कृता दृशः नेत्राणि यासां तास् तथोक्ता नार्यो ऽनुरागवताम् अनुरागः सुखेच्छा येषाम् अस्तीति अनुरागवन्तस् तेषां भर्तॄणां मृदुकम्रशय्यं मृद्वी कोमला कम्रा मनोहरा शय्या कशिपुर् आस्तरणम् इति यावत्, यस्मिन् सः मृदुकम्रशय्यस् तं ‘कान्तं च कमनं कम्रं कमनीयं मनोरमं’ इति धनञ्जयः । मणिमञ्चं मणिमयश्चासौ मञ्चश्च तं शयनं ‘मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः’ इत्यमरः । अवसरे सम्भोगावसरे पतिचोदिता मञ्चारोहणाय पतिभिः स्वरमणैश् चोदितास् त्वं मञ्चम् अधिरोह इति प्रेरिता अपि शनैर् मन्दम् अधिरुहन्ति उपरि गच्छन्ति । ‘अधि पूर्वाद् रुह बीजजन्मनि प्रादुर्भावे च इत्यस्माद् लट् परस्मैपदम् । रोहति रुहतः रुहन्ति’ । शनैर् इत्यनेन नयो दर्शितः स च सर्वाधिकगुण एव इत्याह विनय इति ॥ विनयो हि सर्वरसं सर्वश्चासौ रसः ृङ्गारादिरसश्च तं ‘ृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः’ इत्यमरः । भूषयति अलङ्करोति सर्वृङ्गारादिरसानां विनय एव भूषणम् इति भावः । ‘भूष अलङ्करणे इत्यतो लट् परस्मैपदम्’ ॥ ५४ ॥

विश्वास-प्रस्तुतिः - ५५

अभिकान्तमुन्नमितकान्तकुचा किल बध्नती सकुसुमां कबरीम् ।
सुमुखी सुलक्ष्यभुजमूलवलिः परिरभ्यते प्रणयिनाऽतिरसात् ॥ ५५ ॥

मूलम् - ५५

अभिकान्तमुन्नमितकान्तकुचा किल बध्नती सकुसुमां कबरीम् ।
सुमुखी सुलक्ष्यभुजमूलवलिः परिरभ्यते प्रणयिनाऽतिरसात् ॥ ५५ ॥

पदार्थदीपिकोद्बोधिका

अभीति ॥ कान्तम् अभि अभिकान्तं कान्ताभिमुख्येनेत्यर्थः । स्थिता, उन्नमितौ उर्ध्वीकृतौ कान्तकुचौ मनोहरस्तनौ यया तादृशी, शोभनानि कुसुमानि यस्यां तां कबरीं केशपाशं बध्नती बन्धनं कुर्वन्ती किल । किल इत्यपरमार्थे । पुष्पैः सह, कबरीबन्धव्याजेन अभिकान्तं कुचोन्नमनं भुजमूलवलिप्रदर्शनञ्च गूढाभिप्रायः । भुजयोर् मूले भुजमूले तयोर् वलयः, सुलक्ष्याः सम्यक् परिदृश्यमाना भुजमूलवलयो यस्यास् तादृशी भुजाभ्यां स्वकबरीबन्धनसमये स्पष्टतया परिदृश्यमानकक्षमूलरेखा सतीत्यर्थः । सुमुखी नारी प्रणयिना भर्त्राऽतिरसाद् अतिरागात् । ‘रसो रागे विषे वीर्य’ इति वैजयन्ती । परिरभ्यते आलिङ्ग्यते ॥ ५५ ॥

मन्दोपाकारिणी

अभीति ॥ सकुसुमां कुसुमैः प्रसूनैः सहितां ‘प्रसूनं कुसुमं सुमं’ इत्यमरः कबरीं केशवेशं बध्नती किल बन्धनव्याजवतीति भावः । अभिकान्तं कान्तम् अभि अभिकान्तं पत्युर् अभिमुखेन स्थिता सती उन्नमितकान्तकुचा उन्नमितौ ऊर्ध्वमुखीकृतौ कान्तौ मनोहरौ कुचौ स्तनौ यया सा तथोक्ता । सुलक्ष्यभुजमूलवलिः कराभ्यां स्वकबरीबन्धनसमये सु स्पष्टं लक्ष्या पत्या दृश्यमाना भुजयोर् बाह्वोर् मूले कक्षौ तयोर् वलिः रेखा यस्याः सा तथोक्ता ‘बाहुमूले उभे कक्षौ’ इत्यमरः । परिरभ्यते आश्लिष्यते । ‘परि पूर्वाद् रभ राभस्ये इत्यतः कर्मणि लडात्मनेपदम्’ । किल इत्यनेन नार्याः कबरीबन्धने तात्पर्यं नास्ति किन्तु पुष्पमालया सह कबरीबन्धनव्याजेन पत्युरभिमुखेन उन्नमितमनोहरकुचप्रदर्शने कक्षमूलरेखाप्रदर्शने च तात्पर्यं सूचितं भवति । तत्प्रदर्शनस्य पत्युः कामोद्रेककारणत्वाद् अत एव अतिरागादालिङ्गनम् ॥ ५५ ॥

विश्वास-प्रस्तुतिः - ५६

पृथुवृत्ततुङ्गकठिनोरसिजद्वयवारितायतनिजान्तरयोः ।
भुजयोर्युगेन रमणो रमणीं परिरभ्य कोऽत्र रमयेन्न सुखी॥ ५६ ॥

मूलम् - ५६

पृथुवृत्ततुङ्गकठिनोरसिजद्वयवारितायतनिजान्तरयोः ।
भुजयोर्युगेन रमणो रमणीं परिरभ्य कोऽत्र रमयेन्न सुखी॥ ५६ ॥

पदार्थदीपिकोद्बोधिका

पृथ्विति । अत्र भगवल्लोके । सुखी रमणो भर्ता पृथू स्थूलौ, वृतौ वर्तुलौ, तुङ्गौ उन्नतौ, कठिनौ च उरसिजौ स्तनौ तयोर् द्वयं तेन वारितं पूरितम् आयतं निजान्तरं विस्तीर्णस्वकीयमध्यं ययोस् तयोर् भुजयोर् हस्तयोर् युगेन परिरभ्य रमणीं भार्यां को न सुखयेन् न रमयेत् । सर्वोऽपि रमयत्येवेत्यर्थः । ययोर् भुजयोर् आयतम् अन्तरं मध्यं वक्षः पृथुवृत्ततुङ्गकठिनस्तनद्वयेन पूरितं ताभ्यां भुजाभ्यां परिरभ्य सर्वोऽपि रमणो रमणीं रमयेदिति भावः ॥ ५६ ॥

मन्दोपाकारिणी

पृथ्विति ॥ अत्र भगवल्लोके सुखी सुखमस्यास्तीति सुखी, कः को वा रमणः पतिः रमणीं भार्यां न रमयेन् न सुखयेत् सर्वोऽपि रमयेदेव । किं कृत्वा पृथुवृत्ततुङ्गकठिणोरसिजद्वयवारितायतनिजान्तरयोः पृथु स्थूलौ वृत्तौ वर्तुलौ ‘वर्तुलं निस्तुलं वृत्तं’ इत्यमरः, तुङ्गौ उन्नतौ कठिनौ निबिडौ उरसिजौ वक्षोजौ स्तनौ । पृथू च तौ वृत्तौ च तौ तुङ्गौ च तौ कठिणौ च तौ उरसिजौ च इति कर्मधारयः, तयोर् द्वयं तेन वारितं निवारितं निजं च तद् अन्तरं भुजयोर् मध्यं च निजान्तरम् । आयतं विस्तीर्णं च तन् निजान्तरं च आयतनिजान्तरं विस्तीर्णवक्ष इत्यर्थः, द्वयवारितम् आयतनिजान्तरं ययोस् तौ तथोक्तौ तयोः ‘अन्तरन्तु परीधाने भेदे रन्ध्रावकाशयोर् आत्मान्तर्धिविनात्मीयबहिर्मध्याव-धिष्वपि’ इति विश्वः । भुजयोर् युगेन परिरभ्य आलिङ्ग्येति भुजाभ्यां स्त्रिय आलिङ्गने कृते स्तनयोः स्थूलत्वाद् उन्नतत्वात् कठिनत्वात् पतिवक्षसः स्त्रीवक्षसश्च सम्यक् संश्लेषो न भवतीति भावः । स्तनसौन्दर्यं वर्णितं भवति । ‘रमु क्रीडायां लिङ् परस्मैपदम्’ ॥ ५६ ॥

विश्वास-प्रस्तुतिः - ५७

स्मितफुल्लमुल्लसितचिल्लिलसन्मणिकुण्डलं मृदुकटाक्षपटु ।
निभृतो निरीक्ष्य सुचिरं सुतनोः प्रतिचुम्बति प्रियतमो वदनम्॥ ५७ ॥

मूलम् - ५७

स्मितफुल्लमुल्लसितचिल्लिलसन्मणिकुण्डलं मृदुकटाक्षपटु ।
निभृतो निरीक्ष्य सुचिरं सुतनोः प्रतिचुम्बति प्रियतमो वदनम्॥ ५७ ॥

पदार्थदीपिकोद्बोधिका

स्मितेति ॥ प्रियतमः पतिः । स्मितफुल्लं स्मितेन विकसितम् । उल्लसितौ चिल्लिनावस्य स्त इत्युल्लसितचिल्लि । उल्लसितगण्डस्थल-युक्तमित्यर्थः । लसती मणिकुण्डले ताटङ्के यस्य तद् लसन्मणिकुण्डलं, मृदुः कोमलो यः कटाक्षस् तेन पटु चतुरं, सुतनोः प्रियाया वदनं निभृत एकाग्रचित्तः सन् सुचिरं निरीक्ष्य प्रतिचुम्बति । चुबि वक्त्रसंयोगे लट् ॥ ५७ ॥

मन्दोपाकारिणी

स्मितेति ॥ प्रियतमो ऽतिशयेन प्रियः प्रियतमः पतिः स्मितफुल्लं स्मितेन मन्दहासेन फुल्लं विकसितम् उल्लसितचिल्लि उल्लसितौ प्रकाशमानौ चिल्ली कपोलौ यस्मिन् तथोक्तम् । लसन्मणिकुण्डलं लसती देदीप्यमाने मणिकुण्डले मणिखचितकुण्डले यस्मिन् तत् तथोक्तम् । मृदुकटाक्षपटु मृदुः कोमलः शान्त इत्यर्थः, कटाक्षो ऽपाङ्गदर्शनं मृदुश्चासौ कटाक्षश्च तस्मिन् पटु चतुरं ‘अपाङ्को नेत्रयोर् अन्तः कटाक्षोऽपाङ्गदर्शने’ इत्यमरः । सुतनोः प्रियाया वदनं निभृत एकाग्रचित्तस्सन् सुचिरं बहुकालं निरीक्ष्य अवलोक्य प्रतिचुम्बति ‘चुबि वक्त्रसंयोगे इत्यतो लट् परस्मैपदम्’ ॥ ५७ ॥

विश्वास-प्रस्तुतिः - ५८

नतमुन्नमय्य मुखचन्द्रमसं परिरम्भसम्भृतमुदा सुदृशः ।
उपरम्यते न तरुणेन चिरं मधुराधरामृतरसं पिबता ॥ ५८ ॥

मूलम् - ५८

नतमुन्नमय्य मुखचन्द्रमसं परिरम्भसम्भृतमुदा सुदृशः ।
उपरम्यते न तरुणेन चिरं मधुराधरामृतरसं पिबता ॥ ५८ ॥

पदार्थदीपिकोद्बोधिका

नतमिति ॥ शोभने दृशौ यस्यास् तस्याः परिरम्भेण आलिङ्गनेन सम्भृता सम्पूर्णा मुत् सन्तोषो यस्य तेन तरुणेन नतं ह्रियाऽवनतं मुखचन्द्रमसम् उन्नमय्य उद्धृत्य । मधुरो योऽधरामृतरसो ऽधरोष्ठामृतरसस् तम् । ‘ओष्ठाधरौ तु रदनच्छदावि’त्यमरः । पिबता सता चिरं नोपरम्यते न विरम्यते ॥ ५८ ॥

मन्दोपाकारिणी

नतमिति ॥ सुदृशः सुलोचनायाः स्त्रियाः परिरम्भसम्भृतमुदा परिरम्भेण आलिङ्गनेन संभृता पूर्णा मुत् सन्तोषः यस्य सः परिरम्भसम्भृतमुत् तेन ‘परिरम्भः परिष्वङ्गः संश्लेष उपगूहनं’ इत्यमरः । तरुणेन रमणेन नतं लज्जया किञ्चिद् अवाङ्मुखं मुखचन्द्रमसं मुखमेव चन्द्रमाश् चन्द्रस् तं ‘हिमांशुश्चन्द्रमाश्चन्द्रः’ इत्यमरः । उन्नमय्य स्वकरेण उद्धृत्य मधुराधरामृतरसम् अधरो ऽधरोष्ठः ‘ओष्ठाधरौ तु रदनच्छदौ दशनवाससी’ इत्यमरः, तस्मिन् विद्यमानश्चासौ अमृतरसश्च मधुरः स्वादुश्चासौ अधरामृतरसश्च इति तथोक्तस् तम् । मधुररसवत् स्वादु प्रियम् इत्यर्थः । पिबता पानं कुर्वता चिरं बहुकालं नोपरम्यते न विरम्यते । ‘उपपूर्वाद् रमु क्रीडायाम् इत्यतो भावे लट्’ ॥५८॥

विश्वास-प्रस्तुतिः - ५९

सुरतोत्सवोत्सुकतया त्वरयन् करपल्लवं निवसनग्रहणे ।
कररुद्दमायतदृशः सहसा त्वरयत्यथ द्विगुणमिष्टतमः ॥ ५९ ॥

मूलम् - ५९

सुरतोत्सवोत्सुकतया त्वरयन् करपल्लवं निवसनग्रहणे ।
कररुद्दमायतदृशः सहसा त्वरयत्यथ द्विगुणमिष्टतमः ॥ ५९ ॥

पदार्थदीपिकोद्बोधिका

अस्य व्याख्या लिखितपुस्तके न दृश्यते ॥ ५९ ॥

मन्दोपाकारिणी

सुरतेति ॥ अथ सुरतकाले इष्टतमो ऽतिशयेन इष्ट इष्टतमः पतिः सुरतोत्सवोत्सुकतया सुरतोत्सवे रतिलक्षणोत्सवे उत्सुक उत्कण्ठावान् उत्सुकस्य भाव उत्सुकता तया । औत्सुक्येन इत्यर्थः । निवसनग्रहणे निवसनस्य भार्याया नितम्बपरिवीतवस्त्रस्य ग्रहणे नितम्बाद् अपसारयितुं स्वीकारे करपल्लवं पाणिलक्षणकिसलयं त्वरयन् वेगयुक्तं कुर्वन् सन् । आयतदृश आयते विशाले दृशौ नेत्रे यस्याः सा आयतदृक् तस्याः । कररुद्धं करेण निरुद्धं करपल्लवं सहसा बलेन ‘सहो बले ज्योतिषि मार्गशीर्षे’ इति विश्वः । द्विगुणं द्वौ गुणौ यस्मिन् कर्मणि यथा स्यात् तथेति क्रियाविशेषणम् । पूर्ववेगापेक्षया द्विगुणितवेगेन इत्यर्थः । त्वरयति वेगयुक्तं करोति । ‘ञि त्वरा सम्भ्रमे णिजन्ताद् लट् परस्मैपदम्’ ॥ ५९ ॥

विश्वास-प्रस्तुतिः - ६०

रभसावपातितपृथूरसिजः परिरभ्य तत्क्षणवियाततरः ।
मणितादिसौरतवितानपटू रमयत्यमून् युवतिसङ्घ उत॥ ६० ॥

मूलम् - ६०

रभसावपातितपृथूरसिजः परिरभ्य तत्क्षणवियाततरः ।
मणितादिसौरतवितानपटू रमयत्यमून् युवतिसङ्घ उत॥ ६० ॥

पदार्थदीपिकोद्बोधिका

रभसेति ॥ रभसा सम्भ्रमेण अवपातितौ अवनामितौ पृथूरसिजौ बृहत्कुचौ येन तादृशः । स चासौ क्षणश्च तत्क्षणस् तस्मिन् वियाततरो ऽतिधृष्टः ‘वियातो धृष्ट उच्यत’ इति हलः । रतिकालेऽतिधृष्ट इत्यर्थः । ‘पराक्रमः परिभवे वैयात्यं सुरतेष्वपि’ इत्युक्तेः । सुरते वैयात्यं गुण एव । मणितं रतिकालिकध्वनिविशेषः । ‘मणितं रतिकूजितम् इत्यमरः । तदादिर्यस्य स मणितादिस् तादृशो यः सौरतः सुरतसम्बन्धी व्यापारस् तस्य वितानो विस्तारस् तस्मिन् पटुश् चतुरः युवतिसङ्घ उत नारीसमूहोऽपि अमून् रमणान् परिरभ्य आलिङ्ग्य रमयति । अनेन रमणीकर्तृकम् उपरिसुरतं वेदितव्यम् ॥ ६० ॥

मन्दोपाकारिणी

रभसेति ॥ रभसा संरम्भेण रागोद्रेकेण इति यावत् । यद्वा रभसा हर्षेण ‘रभसो वेगहर्षयोः’ इति विश्वः । अवपातितपृथूरसिजो ऽवपातितौ अधोमुखीकृतौ पृथू स्थूलौ उरसिजौ स्तनौ येन स तथोक्तः । परिरभ्य आश्लिष्य । तत्क्षणवियाततरो ऽतिशयेन वियातः वियाततरो ऽतिधृष्टः ‘धृष्टे धृष्णुर्वियातश्च’ इत्यमरः, तत्क्षणे स्वकर्तृकक्रीडाकाले वियाततरस् तत्क्षणवियाततरः । मणितादिसौरतवितानपटुः रतिकाले जायमानः ध्वनिविशेषः मणितशब्देन उच्यते ‘मणितं रतिकूजितं’ इत्यमरः । मणितम् आदिर् यस्य सः मणितादिः सुरतस्य क्रीडायाः सम्बन्धी व्यापारः सौरतः मणितादिश्चासौ सौरतश्च मणितादिसौरतस् तस्य विताने विस्तारे पटुश् चतुरः ‘क्रतुविस्तारयोरस्त्री

वितानं त्रिषु तुच्छके’ इत्यमरः । एवंभूतः युवितिसङ्घ उत तरुणीगणोऽपि अमून् स्वरमणान् रमयति क्रीडयति । अनेन श्लोकेन रमणीकर्तृक उपरिसुरतलक्षणक्रीडाविशेषो वर्णित

इति ज्ञातव्यम् ॥ ६० ॥

विश्वास-प्रस्तुतिः - ६१

अतिलौकिकान् रमयतो रमणान् रमयन्त्यलौकिकगुणा ललनाः ।
अनुरूपरूपमतिलोकसुखं तदलौकिकं निधुवनं लसति ॥ ६१ ॥

मूलम् - ६१

अतिलौकिकान् रमयतो रमणान् रमयन्त्यलौकिकगुणा ललनाः ।
अनुरूपरूपमतिलोकसुखं तदलौकिकं निधुवनं लसति ॥ ६१ ॥

पदार्थदीपिकोद्बोधिका

अतीति ॥ अलौकिका इतरलोकविलक्षणा गुणा यासां ता ललना नार्यः । लोकेषु इतरलोकेषु वर्तमाना लौकिकाः पुरुषास् तान् अतिक्रम्य वर्तमाना अतिलौकिकास् तान् रमयत आत्मनं रमयतः रमणान् पतीन् रमयन्ति । अनुरूपं परस्परमनुकूलं रूपं स्वरूपं यस्य तादृशम् । लोकानाम् इतरलोकानां सुखं तदतिक्रम्य वर्तमानम् अतिलोकसुखम् । अलौकिकं स्वयञ्च लोकविलक्षणं निधुवनं रतिक्रीडा ‘संवेशनं निधुवनं सम्प्रयोगो रहो रतिरि’ति हलः । लसति शोभते ॥ ६१ ॥

मन्दोपाकारिणी

अतीति ॥ अलौकिकगुणा अलौकिका इतरलोकविलक्षणा गुणा यासां तास् तथोक्ता ललना नार्यः, अतिलौकिकान् भगवदितरलोके विद्यमाना लौकिकास् तद्भिन्ना अतिलौकिकास् तान् रमयतः स्वा रमयतः रमणान् पतीन् रमयन्ति । स्त्रीपुरुषा अन्योन्यं रमयन्तीति भावः । अनुरूपरूपं परस्परम् अनुकूलभूतम् । अतिलोक-सुखम् अतिलोकं वैकुण्ठेतरलोकसुखम् अतिक्रम्य विद्यमानं सुखं यस्मिन् तत् तथोक्तम् अलौकिकं स्वयं च लोकविलक्षणं तन् निधुवनं मैथुनमित्यर्थः लसति शोभते ‘लस श्लेषणक्रीडनयोः, दीप्तौ इत्यतो लट् परस्मैपदं’ ‘मैथुनं निधुवनं रतं’ इत्यमरः ॥ ६१ ॥

विश्वास-प्रस्तुतिः - ६२

न रतिः श्रमादिखचिता नियमाद्विरहव्यथाऽपि न वधूवरयोः ।
प्रतिकामिनीप्रणयतः कलहो न समस्तदोषरहिते हि पदे ॥ ६२ ॥

मूलम् - ६२

न रतिः श्रमादिखचिता नियमाद्विरहव्यथाऽपि न वधूवरयोः ।
प्रतिकामिनीप्रणयतः कलहो न समस्तदोषरहिते हि पदे ॥ ६२ ॥

पदार्थदीपिकोद्बोधिका

अलौकिकत्वमेव स्पष्टयति – ॥ नेति ॥ समस्तदोषरहिते पदे भगवल्लोके, रती रमणम् । श्रम आदिर् यस्य तेन खचिता सम्बद्धा सहचरिता, श्रमेण तज्जन्यस्वेददौर्गन्ध्याशुद्ध्यादिना युक्तेत्यर्थः । नियमान् नियतेर् न नास्ति । तत्र रतेः श्रमादिरहितत्वाभावो नियमादेव इति भावः । वधूवरयोर् दम्पत्योर् विरहव्यथापि परस्परवियोगनिमित्तक्लेशोऽपि न । प्रतिकामिनीप्रणयतः सपत्नीस्नेहात् पतिः सपत्नीप्रणयवान् वर्तत इति कोपेन प्रेमकलहोऽपि न न सम्भवति । एवम् उक्तलक्षणदोषराहित्यमेवालौकिकत्वे कारणं हीत्यनेन सिद्धम् ॥ ६२ ॥

मन्दोपाकारिणी

अलौकिकत्वमेव स्पष्टयति ॥ नेति ॥ समस्तदोषरहिते समस्ताश्च ते दोषाश्च तैः रहिते पदे स्थाने भगवल्लोके इत्यर्थः ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु’ इत्यमरः रतिः सुरतरूपक्रीडा श्रमादिखचिता श्रम आयास आदिर् येषां ते श्रमादय आदिपदात्तज्जन्यस्वेददौर्गन्ध्यादि ग्राह्यम् । श्रमादिभिर् दोषैः खचिता सम्बद्धा नियमात् सर्वथा न भवति । वधूवरयोर् वधू भार्या च वरः पतिश्च वधूवरौ तयोर् दम्पत्योः ‘क्षेत्रं कलत्रं च वधूः’ इत्यमरः विरहव्यथापि न । प्रतिकामिनीप्रणयतः प्रतिकामिन्यां सपत्न््नयां प्रणयतः पत्युः पक्षपातात् कलहः पतिः सपत्नीस्नेहं करोतीति कोपेन कलहोऽपि न भवति । इदमुक्तं प्रमेयं श्रुत्यादिसिद्धम् इत्याह हिशब्देन ॥ ६२ ॥

विश्वास-प्रस्तुतिः - ६३

सुखसंविदात्मकतया वपुषां सुरभित्वमेव बहिरन्तरपि ।
हरिधामि्न दम्पतिगणस्य ततो ननु मान्यतेऽपि मुनिभिः सुरतम् ॥ ६३ ॥

मूलम् - ६३

सुखसंविदात्मकतया वपुषां सुरभित्वमेव बहिरन्तरपि ।
हरिधामि्न दम्पतिगणस्य ततो ननु मान्यतेऽपि मुनिभिः सुरतम् ॥ ६३ ॥

पदार्थदीपिकोद्बोधिका

दोषराहित्यं श्रुत्यादिप्रसिद्धमित्याह–सुखेति ॥ हरिधामि्न हरिलोके दम्पतिगणस्य वधूवरसमूहस्य वपुषां, सुखञ्च संविज् ज्ञानञ्च, त आत्मा स्वरूपं यस्य तस्य भावस्तत्ता तया । अप्राकृतत्वादिति भावः । बहिरन्तरपि सुरभित्वमेव सुगन्धित्वमेव ततो ननु तस्माद्धि । सुरतं मुक्तसुरतं मुनिभिर् अपि मान्यते श्लाघ्यते ॥६३॥

मन्दोपाकारिणी

सुखेति ॥ हरिधामि्न हरेर् धामि्न स्थाने वैकुण्ठे ‘धाम देहे गृहे रश्मौ स्थाने जन्मप्रभावयोः’ इति विश्वः । दम्पतिगणस्य जाया च पतिश्च दम्पती ‘दम्पती जम्पती जायापती भार्यापती च तौ’ इत्यमरः दम्पत्योर् गणः समूहस् तस्य वपुषां शरीराणां बहिरन्तरपि सुरभित्वमेव सुगन्धित्वमेव ‘सुरभिर्घ्राणतर्पणः’ इत्यमरः । कुतः सुखसंविदात्म-कतया सुखं च संविज् ज्ञानं च ‘प्रेक्षोपलब्धिश्चित्संवित्’ इत्यमरः सुखसंविदोर् आत्मा स्वरूपं येषां तानि तथोक्तानि तेषां भावः सुखसंविदात्मकता तया अप्राकृतस्वरूपत्वाद् इति भावः । ततस् तस्मात्कारणात् सुरतं मुक्तरतिर् मुनिभिरपि ज्ञानिभिर् ब्रह्मादिभिरपि मान्यते ननु श्लाघ्यते हि ‘मान पूजायाम् इत्यतः कर्मणि लट् आत्मनेपदम्’ ॥ ६३ ॥

विश्वास-प्रस्तुतिः - ६४

श्रुणुताप्यलोकविषयं विषयं सकलस्य मुक्तनिकरस्य दृशाम् ।
वपुरिन्दिरापतिरमन्दरसं ननु सुन्दरं प्रकटयत्यनिशम् ॥ ६४ ॥

मूलम् - ६४

श्रुणुताप्यलोकविषयं विषयं सकलस्य मुक्तनिकरस्य दृशाम् ।
वपुरिन्दिरापतिरमन्दरसं ननु सुन्दरं प्रकटयत्यनिशम् ॥ ६४ ॥

पदार्थदीपिकोद्बोधिका

ृणुतेति ॥ सकलस्य समस्तस्य मुक्तनिकरस्य मुक्तसमूहस्य दृशां, लोकानाम् इतरलोकानां विषयो गोचरो न भवति इति अलोकविषयस् तम् । भगवल्लोकेतरलोकस्थजनानामगोचरम् इत्यर्थः । विषयमपि गोचरमपि आदरेण ृणुत । कोऽसौ सकलमुक्तनिकरदृशां गोचरः पदार्थ इत्यत आह– इन्दिरापतिरिति । इन्दिरापतिः, अमन्दः परिपूर्णो रसो बलवीर्याद्यनन्तगुणनिकरो यस्य तादृशं सुन्दरं मनोहरं वपुर् अनिशं सदा प्रकटयति ननु । कटे वर्षावरणयोर् लट् । ‘ृङ्गारादौ बले वीर्ये गुणे रागे द्रवे रस’ इत्यमरः ॥ ६४ ॥

मन्दोपाकारिणी

ृणुतेति ॥ सकलस्य सर्वस्य मुक्तनिकरस्य मुक्तानां वृन्दस्य दृशां नयनानां विषयमपि गोचरमपि ृणुत आकर्णयत ‘श्रु श्रवणे इत्यतः लोट् परस्मैपदं ृणु ृणुतं ृणुत’ कथंभूतम् । अलोकविषयं लोकानाम् इतरलोकानां विषयश् चक्षुरिन्द्रियगोचरः स न भवतीति अलोकविषयस् तं ‘विषयः स्यादिन्द्रियार्थे देशे जनपदेऽपि च’ इति विश्वः संसारिणां नयनागोचरं मुक्तनिकरस्यैव चक्षुर्विषयम् आदरेण ृणुत इति भावः मुक्तनिकर-दृग्विषयभूतं किमित्यपेक्षेयामाह इन्दिराया लक्ष्म्याः पतिर् नारायणो ऽमन्दरसम् अमन्दः परिपूर्णः रसः ृङ्गारबलवीर्याद्यनन्तगुणसमुदायो यस्य तत् तथोक्तं ‘ृङ्गारादौ बले वीर्ये गुणे रागे द्रवे रसः’ इत्यमरः सुन्दरं दर्शनीयं वपुः स्वदेहम् अनिशं सततं प्रकटयति ननु स्पष्टं दर्शयत्येव ‘प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु’ इत्यमरः । अनेन भगवद्रूपमेव सदा मुक्तनिकरचक्षुविषयभूतं वस्तु इत्युक्तं भवति । प्रपूर्वकात् कटी गतौ इत्यतो णिजन्ताल्लट् परस्मैपदम्’ ॥ ६४ ॥

विश्वास-प्रस्तुतिः - ६५

मणिराजिराजितमहामुकुटं शितिकान्तकुन्तलसहस्रतयम् ।
अलिकार्धचन्द्रविलसत्तिलकं श्रवणोल्लसन्मकरकुण्डलयुक् ॥ ६५ ॥

मूलम् - ६५

मणिराजिराजितमहामुकुटं शितिकान्तकुन्तलसहस्रतयम् ।
अलिकार्धचन्द्रविलसत्तिलकं श्रवणोल्लसन्मकरकुण्डलयुक् ॥ ६५ ॥

पदार्थदीपिकोद्बोधिका

कीदृशं तद्वपुरित्यतो ‘नवभानुभा’ इत्यतः प्राक्तनैः श्लोकैर्वर्णयति — मणिराजीत्यादिना ॥ मणीनां रत्नानां राजिभिः समूहै राजितं प्रकाशितं महामुकुटं महाकिरीटं यस्य तादृशम् । शितयो नीला ये कान्तकुन्तला मनोहरालकास् तेषां सहस्रतयं सहस्रं यस्य तादृशम् । ‘संख्याया अवयवे तयबि’ति सहस्रशब्दात्तयप् प्रत्ययः । अलिकं ललाटमेवार्धचन्द्रस् तस्मिन् विलसत् तिलकं यस्य तादृशम् । श्रवणयोः कर्णयोर् उल्लसती मकरकुण्डले मकराकारकुण्डले ताभ्यां युनक्तीति युक् युक्तमित्यर्थः । तादृशं वपुः प्रकटयतीति सर्वत्र पूर्वेणान्वयः ॥ ६५ ॥

मन्दोपाकारिणी

मणीति ॥ कथंभूतं भगवद्रूपम् इत्यत आह ॥ मणिराजीत्यादिना ॥ नवभानुभेत्यन्तेन श्लोकसमुदायेन । मणिराजिराजितमहामुकुटं मणीनां रत्नानां राजिः पङ्क्तिस् तया राजितं शोभितं महद् अनर्घ्यं मुकुटं किरीटं यस्य तत् तथोक्तं ‘मण्डनं चाथ मुकुटं किरीटं पुन्नपुंसकं’ इत्यमरः शितिकान्तकुन्तलसहस्रतयं शित्या नीलकान्त्या ‘शिती धवलमेचकः’ इति ‘कालश्यामलमेचकाः’ इति च अमरः । कान्तं मनोहरं कुन्तलानां शिरोरुहाणां सहस्रं यस्य तत्तथोक्तं ‘चिकुरः कुन्तलो वालः’ इत्यमरो ऽलिकार्धचन्द्र-विलसत्तिलकम् अलिकं ललाटमेव अर्धचन्द्रो ऽर्धचन्द्राकारललाटम् इत्यर्थः ‘ललाटमलिकं गोधिः’ इत्यमरस् तस्मिन् विलसत् शोभमानं तिलकं रक्तद्रवद्रव्यकृतः पुण्ड्रः यस्य तत् तथोक्तम् । श्रवणोल्लसन्मकरकुण्डलयुक् श्रवणयोः श्रोत्रयोः ‘श्रुतिः स्त्री श्रवणं श्रव’ इत्यमर उल्लसती विराजिते च ते मकरकुण्डले च ताभ्यां युक् युक्तम् ॥ ६५ ॥

विश्वास-प्रस्तुतिः - ६६

परिपूर्णचन्द्रपरिहासिमुखं जलजायताक्षमरुणोष्टपुटम् ।
हसितावलोकललितैरतुलैरभिनन्दयत्प्रणतमात्मजनम् ॥ ६६ ॥

मूलम् - ६६

परिपूर्णचन्द्रपरिहासिमुखं जलजायताक्षमरुणोष्टपुटम् ।
हसितावलोकललितैरतुलैरभिनन्दयत्प्रणतमात्मजनम् ॥ ६६ ॥

पदार्थदीपिकोद्बोधिका

परीति ॥ परिपूर्णो यश्चन्द्रस्तं परिहसितुम् अपहसितुं शीलम् अस्येति तादृशं मुखं यस्य तादृशम् । परिपूर्णचन्द्रादपि अतिकान्तिमद् इत्यर्थः । जलजवत् पद्मवद् आयते अक्षिणी यस्य तादृशम् । ‘बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षजि’ति षच् । अरुणमोष्ठपुटं यस्य तादृशम् । न विद्यते तुला उपमा येषां तैः । हसितेन मन्दहासेन युक्ता अवलोका निरीक्षणानि हसितावलोकास् त एव तेषामिति वा ललितानि विलासास् तैः प्रणतमात्मनो जनं भक्तजनम् इत्यर्थः । अभिनन्दयत् सन्तोषयद् वपुरित्यादि पूर्ववत् ॥६६॥

मन्दोपाकारिणी

परीति ॥ पुनः कथंभूतं, परिपूर्णचन्द्रपरिहासिमुखं परिपूर्णः षोडशकलापूर्णश्चासौ चन्द्रश्च तं परिहसति अपहसतीति परिहासि तादृशं मुखं यस्य तत् तथोक्तम् । जलजायताक्षं जलजवत् कमलवद् आयते विस्तृते अक्षिणी यस्य तत् तथोक्तम् । अरुणोष्ठपुटम् अरुणं लोहितम् ओष्ठयोः रदनच्छदयोः पुटं यस्य तत् तथोक्तम् । अतुलैर् न विद्यते तुला उपमा येषां तानि अतुलानि असदृशानि इत्यर्थस् तैः । हसितावलोकललितैर् हसितेन मन्दहासेन युक्ताश्च ते अवलोका अवलोकनानि च त एव ललितानि विलासास् तैः । प्रणतं स्वस्मिन् नम्रम् आत्मजनम् आत्मनः स्वस्य जनं भक्तजनम् अभिनन्दयत् सुखयत् ॥ ६६ ॥

विश्वास-प्रस्तुतिः - ६७

नवकम्बुकण्ठमहिमांशुमहोमहिमोपलेन्द्रवरहारधरम् ।
रमणीयरत्नगणविद्धलसद्वलयाङ्गुलीयकवराङ्गदवत् ॥ ६७ ॥

मूलम् - ६७

नवकम्बुकण्ठमहिमांशुमहोमहिमोपलेन्द्रवरहारधरम् ।
रमणीयरत्नगणविद्धलसद्वलयाङ्गुलीयकवराङ्गदवत् ॥ ६७ ॥

पदार्थदीपिकोद्बोधिका

नवेति ॥ नवो नूतनो यः कम्बुः शङ्खस् तद्वत् कण्ठो यस्य तादृशम् । तद्वद् रेखात्रययुक्तमित्यर्थः । अहिमा उष्णा अंशवः यस्य सो ऽहिमांशुर् आदित्यस् तस्य महस्तेजस् तद्वन् महिमा तेजः यस्य सो ऽहिमांशुमहोमहिमा, स चासौ उपलेन्द्रो रत्नराजः कौस्तुभः स च वरहारश्च तौ धारयतीति तादृशम् । रमणीयानां रत्नानां गणेन विद्धानि खचितानि लसन्ति च तानि वलयांगुलीयकवराङ्गदानि वलयाश्च अङ्गुलीयकानि च वराङ्गदानि च अस्य सन्तीति तादृशं वपुर् इत्यादि पूर्ववदन्वयः ॥ ६७ ॥

मन्दोपाकारिणी

नवेति ॥ पुनः कथंभूतं, नवकम्बुकण्ठं नवः नूतनः ‘नवीनो नूतनो नवः’ इत्यमरः कम्बुः शङ्कः ‘कम्बुर्ना वलये शङ्खे’ इत्यमरः कण्ठो गलः ‘कण्ठो गलोऽथ ग्रीवायां’ इत्यमरः नवश्चासौ कम्बुश्च नवकम्बुर् नवकम्बुवत् कण्ठो यस्य तत् तथोक्तं ‘कम्बुग्रीवा त्रिरेखा सा’ इत्यमरः शङ्खवत् त्रिरेखोपेतकण्ठयुतम् इति भावः । अहिमांशुमहोमहिमोपलेन्द्रवरहारधरं हिमाः शीता न भवन्तीति अहिमा अंशवः किरणा यस्य सो ऽहिमांशुः सूर्यः ‘किरणोऽस्रमयूखांशुः’ इत्यमरस् तस्य महः कान्तिः ‘कान्त्युत्सवौ तु महसि’ इति रत्नमाला अहिमांशुमहोवन् महिमा कान्तिर् यस्य स तथा । उपलेन्द्रः रत्नशिलानाम् इन्द्रः श्रेष्ठः कौस्तुभमणिर् अहिमांशुभहोमहिमा च असौ उपलेन्द्रश्च इति तथोक्तः स च वरहार उत्तममुक्तावली च धरतीति धरं तयोर् धरं धारकं कौस्तुभरत्नोत्तमहारौ दधद् इत्यर्थः ‘हारो मुक्तावली’ इत्यमरः रमणीयरत्नगणविद्वलसद्वल-याङ्गुलीयकवराङ्गदवद् रमणीयानि मनोहराणि च तानि रत्नानि च तेषां गणस् तेन विद्धानि खचितानि लसद्वलयं शोभमानकरभूषणं ‘कटकं वलयोऽस्त्रियां’ इत्यमरो ऽङ्गुलीयकम् अङ्गलीभूषणं वराङ्गदम् उत्तमकेयूरं बाहुभूषणं ‘केयूरमङ्गदं तुल्ये’ इत्यमरः लसद्वलये च अङ्गुलीयकानि च वराङ्गदे च लसद्वलयाङ्गुलीयकवराङ्गदानि विद्धानि च तानि वराङ्गदानि च । तानि अस्य सन्तीति तथोक्तम् ॥ ६७ ॥

विश्वास-प्रस्तुतिः - ६८

रविचक्ररुक्प्रकरचक्रकरं विधुबिम्बकम्बु मधुराम्बुरुहम् ।
ज्वलनज्वलद्गदमुदारधनुः पृथुवृत्तहस्तमतिताम्रतलम् ॥ ६८ ॥

मूलम् - ६८

रविचक्ररुक्प्रकरचक्रकरं विधुबिम्बकम्बु मधुराम्बुरुहम् ।
ज्वलनज्वलद्गदमुदारधनुः पृथुवृत्तहस्तमतिताम्रतलम् ॥ ६८ ॥

पदार्थदीपिकोद्बोधिका

रवीति ॥ रविचक्रं रविसमूहस् तद्वद् रुक्प्रकरस् तेजःसमूहः यस्य तद् रविचक्ररुक्प्रकरं तादृशं चक्रं सुदर्शनं करे यस्य तादृशम् । रविनिकरतेजोवत् तेजोयुक्तचक्रधरमित्यर्थः । विधुबिम्बवत् कम्बुः शङ्खो यस्य तादृशम् । चन्द्रमण्डलवद् धवल पाञ्चजन्यधरमित्यर्थः । ‘कम्बुर्ना वलये शङ्ख’ इत्यमरः । मधुरं मनोहरम् अम्बुरुहं पद्मं यस्य तादृशम् । ज्वलनवद् अग्निवज् ज्वलन्ती गदा कौमोदकी यस्य तादृशम् । उदारम् उत्तमं धनुः शार्ङ्गं यस्य तादृशम् । पृथवो दीर्घा पुष्टा इत्यर्थः वृत्ता वर्तुला हस्ता यस्य तादृशम् । अतिताम्राणि तलानि हस्ततलानि यस्य तादृशं वपुर् इत्यादि पूर्ववदन्वयः ॥ ६८ ॥

मन्दोपाकारिणी

रवीति ॥ पुनः कथंभूतं, रविचक्ररुक्प्रकरचक्रकरं रवीणां सूर्याणां चक्रः समूहः ‘चक्रो गणे चक्रवाके चक्रं सैन्यरथाङ्गयोः’ इति विश्वः रुचां कान्तीनां प्रकरः समूहः रुक्प्रकरः ‘पूगो वितानं प्रकरः’ इत्यमरः रविचक्रवद् रुक्प्रकरो यस्य तद् रविचक्ररुक्प्रकरं तच्च तच् चक्रं सुदर्शनवक्रं च तत् करे हस्ते यस्य तत् तथोक्तम् अनेकसूर्यकान्तिसदृशकान्तियुक्तचक्रधारिणम् । विधुबिम्बकम्बु विधोश् चन्द्रस्य बिम्बवन् मण्डलवद् विद्यमानः कम्बुः शङ्खः यस्य तच् चन्द्रमण्डलवद् धवलपाञ्चजन्यशङ्खधरम् इत्यर्थः ‘शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनं’ इत्यमरः । मधुराम्बुरुहं मधुरं सुन्दरम् अम्बुरुहं पद्मं यस्य तत् । ज्वलनज्वलद्गदं ज्वलनवद् अग्निवज् ज्वलन्ती प्रकाशमाना गदा कौमोदकी यस्य तत् तथोक्तं ‘कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात्’ इत्यमरः ‘कौमोदकी गदा खड्गः’ इत्यमरः । उदारधनुर् उदारं महद्धनुः शार्ङ्गाख्यचापः यस्य तत् तथोक्तम् । पृथुवृत्तहस्तं पृथू स्थूलौ पुष्टौ इति यावद् वृत्तौ वर्तुलौ हस्तौ यस्य तत् तथोक्तम् । कथंभूतं हस्तम् अतिताम्रतलम् अतिताम्रे अतिरक्ते तले यस्य तत् तथोक्तं ‘ताम्रं शुल्बेऽरुणेऽन्यवत्’ इति विश्वः । अनेन चक्रशङ्खगदापद्मयुक्तचतुर्भुजयुक्तरूपम् इदमुक्तं भवति ॥ ६८ ॥

विश्वास-प्रस्तुतिः - ६९

वरपीवरांसमधिराजदुरोमणिमण्टपाग्रयविलसत्कमलम् ।
सजगद्द्विसप्तकतनूदरकं शुभनाभिकञ्जगतकालिनुतम् ॥ ६९ ॥

मूलम् - ६९

वरपीवरांसमधिराजदुरोमणिमण्टपाग्रयविलसत्कमलम् ।
सजगद्द्विसप्तकतनूदरकं शुभनाभिकञ्जगतकालिनुतम् ॥ ६९ ॥

पदार्थदीपिकोद्बोधिका

वरेति ॥ वरौ श्रेष्ठौ पीवरांसौ पुष्टस्कन्धौ यस्य तादृशम् । ‘स्कन्धो भुजशिरोंऽसोऽस्त्री’त्यमरः । अधिकं राजद्विराजमानम् अधिराजत् तच् च तदुरश्च तदेव मणिमण्टपाग्रयो रत्नमयमण्टपश्रेष्ठस् तस्मिन् विलसन्ती कमला रमा यस्य तादृशम् । जगतां लोकानां यद्द्विसप्तकं चतुर्दश तेन सहितं सजगद्द्विसप्तकं तादृशं तनूदरं सूक्ष्मजठरं यस्य तादृशम् । बहुव्रीहौ कः । शुभो यो नाभिस् तस्य यत्कञ्जं कमलं, तद् गतः प्राप्तः कश् चतुर्मुखः स एव अलिर् भ्रमरस् तेन नुतं स्तुतं वपुर् इत्यादि पूर्ववदन्वयः ॥ ६९ ॥

मन्दोपाकारिणी

वरेति ॥ पुनः कथंभूतं, वरपीवरांसं वरौ पीवरौ पुष्टौ अंसौ स्कन्धौ यस्य तत् तथोक्तं ‘पीने तु स्थूलपीवरौ’ इत्यमरः । ‘स्कन्धो भुजशिरोंऽसोऽस्त्री’ इत्यमरः । अधिराजदुरोमणिमण्टपाग्रयविलसत्कमलम् अधिराजत् शोभमानं च तद् उरो वक्षश्च ‘उरो वत्सं च वक्षश्च’ इत्यमरः मण्टपेषु अग्रयं श्रेष्ठं मण्टपाग्रयं मणिखचितं च तन् मण्टपाग्रयं च मणिमण्टपाग्रयम् अधिराजदुर एव मणिमण्टपाग्रयं तस्मिन् विलसन्ती कमला लक्ष्मीर् यस्मिन् तत् । सजगद्विसप्तकतनूदरकं जगतः द्विसप्तकं जगद्द्विसप्तकेन सहितं सजगद्द्विसप्तकं तनु सूक्ष्मं च तद् उदरं जठरं च तनूदरं सजगद्द्विसप्तकं तनूदरं यस्य तत् तथोक्तम् । शुभनाभिकञ्जगतकालिनुतं नाभिरेव कञ्जं पद्मं शुभं च तन् नाभिकञ्जं च तस्मिन् गतः विद्यमानश्चासौ कः ब्रह्मा च ‘कः प्रजापतिरुद्दिष्टः’ क एव अलिर् भ्रमरस् तेन नुतं स्तुतं ‘षट्पदभ्रमरालयः’ इत्यमरः ॥ ६९ ॥

विश्वास-प्रस्तुतिः - ७०

अतिकान्तकाञ्चिपदकाञ्चिमिलत्तपनीयभङ्गरुचिपिङ्गपटम् ।
वरहस्तिहस्तसदृशोरुयुगं क्रमवृत्तचारुतरजङ्घमुत ॥ ७० ॥

मूलम् - ७०

अतिकान्तकाञ्चिपदकाञ्चिमिलत्तपनीयभङ्गरुचिपिङ्गपटम् ।
वरहस्तिहस्तसदृशोरुयुगं क्रमवृत्तचारुतरजङ्घमुत ॥ ७० ॥

पदार्थदीपिकोद्बोधिका

अतीति ॥ अतिकान्तम् अतिमनोहरं काञ्चिपदं काञ्चिस्थानं कटिप्रदेशस् तस्य या कान्तिस् तया मिलन् सम्बध्यमानस् तपनीयभङ्गरुचिपिङ्गपटस् तपनीयभङ्गस्य स्वर्णच्छेदस्य रुचिवत् कान्तिवत् पिङ्गः पीतः पटो यस्य तादृशम् । ‘ङ््यापोः संज्ञा छन्दसोर्बहुलमिति संज्ञायां विकल्पेन पुंवद्भावविधाना‘त्काञ्चिपद’मित्यत्र पुंवद्भावः । ‘काञ्चीपदं कलत्रं जघनं श्रोणी’ति हलः । वर उत्तमो यो हस्तिहस्तस् तस्य सदृशौ उरू तयोर् युगं युगलं यस्य तादृशम् । क्रमेण वृत्ते वर्तुले ईषत्कृश इति यावत् । तादृशे चारुतरजङ्घे यस्य तादृशं चारुतरजङ्घम् । उत वपुर् इत्यादि पूर्ववदन्वयः ॥ ७० ॥

मन्दोपाकारिणी

अतीति ॥ पुनः कथंभूतं, अतिकान्तकाञ्चिपदकाञ्चि- मिलत्तपनीयभङ्गरुचिपिङ्गपटम् अतिकान्ते अतिमनोहरे कांच्या मेखलायाः पदे स्थाने कटिप्रदेशे विद्यमानया कांच्या मिलत् संयुक्तम् । तपनीयस्य सुवर्णस्य भङ्गश् छेदश् छिन्नखण्डस् तस्य रुचिवत् कान्तिवत् पिङ्गः पीतवर्णः पटः वस्त्रं यस्य तत् तथोक्तं कटिप्रदेशे पीताम्बरं तदुपरि काञ्ची वर्तते इति ज्ञेयं ‘हिरण्यं हेमहाटकं तपनीयं शातकुम्भं’ इत्यमरः । वरहस्तिहस्तसदृशोरुयुगं वरहस्तिन उत्तमगजस्य ‘दन्तीवलो हस्ती’ इत्यमरः हस्तः शुण्डादण्डस् तेन सदृशम् ऊर्वोः सक्थ्नोर् युगं युगलं यस्य तत् तथोक्तं ‘सक्थि क्लीबे पुमानूरुः’ इत्यमर ऊरुर्नाम जानूपरितनः कटेर् अधस्थभागः गजशुण्डावत् क्रमात् पीनवृत्तोरुद्वययुक्तम् इति भावः । क्रमवृत्तचारुतरजङ्घमुत अतिशयेन चारुणी चारुतरे अतिसुन्दरे ते च ते जङ्घे च क्रमेण वृत्ते वर्तुले चारुतरजङ्घे यस्य तत्तथोक्तं च ॥ ७० ॥

विश्वास-प्रस्तुतिः - ७१

वरनूपुरं परमरुक्प्रपदं नवविद्रुमद्युतिनखावलिमत् ।
अरिवारिजध्वजकलङ्कलसत्पदपांसुपावितजगत्त्रितयम् ॥ ७१ ॥

मूलम् - ७१

वरनूपुरं परमरुक्प्रपदं नवविद्रुमद्युतिनखावलिमत् ।
अरिवारिजध्वजकलङ्कलसत्पदपांसुपावितजगत्त्रितयम् ॥ ७१ ॥

पदार्थदीपिकोद्बोधिका

वरेति ॥ वरे नूपुरे पादभूषणे यस्य तादृशम् । परमा रुक् कान्तिर् ययोस्ते परमरुची तादृशे प्रपदे पादाग्रे यस्य तादृशं ‘पादाग्रं प्रपदमि’त्यमरः । नवो यो विद्रुमस् तस्य द्युतिरिव द्युतिः कान्तिर् येषां तादृशा नखा यासां ता अङ्गुलयस् ता अस्मिन् सन्तीति तादृशम् । अरिश् चक्रं वारिजं पद्मं ध्वजश्च तेषां ये कलङ्का लाञ्छनानि तैर् लसती शोभमाने पदे पादौ तयोः पांसवस् तैः पावितं पवित्रीकृतं जगत्रितयं त्रैलोक्यं येन तादृशम् । ‘कलङ्काङ्कौ लाञ्छनं च’ इत्यमरः । वपुरित्यादि पूर्ववत् ॥ ७१ ॥

मन्दोपाकारिणी

वरेति ॥ पुनः कथं भूतं वरनूपुरं वर उत्तमः नूपुरः पादभूषणं यस्य तत् तथोक्तम् । परमरुक्प्रपदं परमा रुक् कान्तिर् ययोः परमरुची प्रपदे पादाग्रे यस्य तत् तथोक्तम् । नवविद्रुमद्युतिनखावलिमन् नवाश्च ते विद्रुमाः प्रवालाश्च नवविद्रुमवद् द्युतिर् लोहितकान्तिर् येषां ते नवविद्रुमद्युतयस् ते च ते नखाः कररुहाश्च नखानाम् आवलिः पङ्क्तिर् अस्यास्तीति तत्तथोक्तम् । अरिवारिजध्वजकलङ्कलसत्पदपांसुपावितजगत्त्रितयम् अरिश् चक्रं च वारिजं पद्मं च ध्वजश्च अरिवारिजध्वजास् तेषां कलङ्का रेखारूपलांछनानि ‘कलङ्काङ्कौ लांछनं च’ इत्यमरः, तैर् लसती शोभमाने च ते पदे चरणे च तयोः पांसुभिर् धूलिभिः पावितं पवित्रीकृतं जगतां त्रितयं येन तत् तथोक्तम् । ‘रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयोरजः’ इत्यमरः ॥ ७१ ॥

विश्वास-प्रस्तुतिः - ७२

निखिलागमावगमितैरमितैः सुखसंविदादिभिरनन्तगुणैः ।
प्रपदादिकान्तसकलावयवाकृतिभिः सदैक्यवददोषलवम् ॥ ७२ ॥

मूलम् - ७२

निखिलागमावगमितैरमितैः सुखसंविदादिभिरनन्तगुणैः ।
प्रपदादिकान्तसकलावयवाकृतिभिः सदैक्यवददोषलवम् ॥ ७२ ॥

भावप्रकाशिका

सुखबोधावेव सौरभसुरूपगुणाश्चास्य । ‘सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रम’ सति श्रुतेः ॥ ७२ ॥

पदार्थदीपिकोद्बोधिका

निखिलेति ॥ निखिला य आगमा वेदास् तैर् अवगमिता ज्ञाता उदिता इति यावत् तैः । अमितैः प्रत्येकम् अपरिमितैः । सुखं च संविच् च त आदी येषां तैर् अनन्तगुणैः । प्रपदं पादाग्रम् आदिर् येषां ते प्रपदादयः । कं शिरो ऽन्तम् अवसानं येषां ते कान्तास् ते च ते सकलावयवाश्च प्रपदादिकान्तसकलावयवास् ते च आकृतयः सकलजीवगतसकलप्रादुर्भावगतस्वरूपाणि ताश्च ताभिः । सदा ऐक्यम् अस्यास्तीति ऐक्यवत् । ज्ञानानन्दाद्यनन्तगुणैः करचरणादिसकलावयवैः प्रादुर्भावादिगतस्वरूपैश्च सदा भेदरहितमिति भावः । ‘देहदेहीविभागश्च न क्वचित्परमेश्वरे । गुणैस्तद्वद्विभागो वा नेहनाने’ति स्मृतिश्रुतिसिद्धमेतत् । न विद्यते दोषलवः दौषैकदेशो यस्य तादृशम् । दोषैकदेशेनापि रहितमित्यर्थः । वपुरित्यादि पूर्ववदन्वयः ॥ ७२ ॥

मन्दोपाकारिणी

निखिलेति ॥ पुनः कथंभूतं निखिलागमावगमितैर् निखिला अशेषाश्च ते आगमा वेदादिसच्छास्त्राणि च ‘आगमस्त्वागते शास्त्रे’ इत्यमरः, तैर् अवगमितैः प्रतिपादितैः । अमितैः प्रत्येकम् अनन्तैः । सुखसंविदादिभिः सुखं च संविज् ज्ञानं च सुखसंविदौ ते आदी येषां ते सुखसंविदादयस् तैः । अनन्तगुणैर् अनन्ताश्च ते गुणश्च तैः । प्रपदादिकान्तसकलावयवाकृतिभिः प्रपदं पादाग्रम् आदिर् येषां ते प्रपदादयः कं शिरो ऽन्तं चरमं येषां ते कान्ताः प्रपदादयश्च ते कान्ताश्च प्रपदादिकान्ताः ‘मारुते वेधसि ब्रध्ने पुंसि कः कं शिरोम्बुनोः’ इत्यमरः, सकलाश्च ते अवयवाश्च तथोक्ताः प्रपदादि-कान्ताश्च ते सकलावयवाश्च तथोक्तास् तैः पादाग्रमारभ्य शिरःपर्यन्तैः सर्वावयवैश्च प्रपदादिभिः कान्तैर् मनोहरैः सकलावयवैर् इति वा आकृतिभिर् अवतारैश्च सदा ऐक्यवद् ऐक्यम् अस्यास्तीति ऐक्यवद् अत्यन्ताभिन्नं सकलवेदोक्तैर् ज्ञानानन्दाद्यनन्तगुणैर् हस्तपादाद्यवयवैर् अनन्तावतारैश्च सदा अत्यन्ताभिन्नं, इति भावः । अदोषलवं दोषाणाम् अज्ञानपारतन्त्र्यादिदोषाणां लवः लेशः दोषलवः । न विद्यते दोषलवोऽपि यस्य तत् तथोक्तम् । ‘लवलेशकणाणवः’ इत्यमरः ॥ ७२ ॥

विश्वास-प्रस्तुतिः - ७३

अधिकारिणां गुणविशेषवशाद्द्विपदाद्यनन्तचरणान्ततया ।
अतिभासितं घनगुणापघनैरितरैश्च तत्तदुचितै रुचिरैः ॥ ७३ ॥

मूलम् - ७३

अधिकारिणां गुणविशेषवशाद्द्विपदाद्यनन्तचरणान्ततया ।
अतिभासितं घनगुणापघनैरितरैश्च तत्तदुचितै रुचिरैः ॥ ७३ ॥

पदार्थदीपिकोद्बोधिका

अधिकारिणामिति ॥ अधिकारिणां मनुष्यादिब्रह्मान्तानां भगवदुपासनाधिकारिणां गुणेषु ज्ञानभक्तयादिगुणेषु विशेषवशात् तारतम्यविशेषवशात् , द्वे पदे, यस्य तद्द्विपदं रूपं तदादिर्यस्य तद्द्विपदादि । अनन्ताश्चरणा यस्य तदनन्तचरणं रूपं, तदन्ते यस्य तदनन्तचरणान्तम् । द्विपदादि च तद् अनन्तचरणान्तञ्च तस्य भावस् तत्ता तया । द्विपदं रूपमारभ्यानन्तचरणरूपावसानतयेत्यर्थः । ये द्विपदरूपदर्शनाधिकारिणस् तान् प्रति द्विपदतयाऽतिभासितं, एवमुत्तरोत्तरं ये ये यद्यद्रूपदर्शनाधिकारिणस् तान् तान् प्रति तथा तथावभासितम् । न केवलं द्विपदादित्वमेव रूपाणां किन्त्वितरैः पादातिरिक्तैः, घनाः प्रत्येकं परिपूर्णा गुणा ज्ञानानन्दाद्यनन्तगुणास्तदात्मका अपघनाः शिरोनयनाद्यवयवास् तैर् अपि तस्य तस्योदितास्तत्तदुदितास्तैर् द्विपदादितत्तद्रूपाणामुदितैः रुचिरैर्मनोहरैरव-यवैरवभासितम् । अत्र तत्तदुचितैरिति तारतम्यस्थितानां तत्तदधिकारिणां द्रष्टुमुचितैरेक-शिराद्यवयवैश्च अवभासितम् इति वा । एतादृशं वपुरित्यादि पूर्ववदन्वयः ॥ ७३ ॥

मन्दोपाकारिणी

अधिकारिणामिति ॥ पुनः कथंभूतम् अधिकारिणां मनुष्यादिब्रह्मान्तानां भगवद्रूपोपासकानां गुणविशेषवशाद् गुणा ज्ञानभक्त्यादयस् तेषु विशेषस् तारतम्यं तस्य वशाद् योग्यतातारतम्यवशाद् वा द्विपदाद्यनन्तचरणान्ततया द्वे पदे चरणे यस्य तद् द्विपदं तद् आदि येषां तानि । द्विपदादीनि अनन्तचरणान्तानि अनन्तचरणम् अन्ते येषां तानि अनन्तचरणान्तानि । द्विपदादीनि अनन्तचरणान्तानि रूपाणि यस्य वपुषस् तद् द्विपाद्यनन्तचरणान्तं तस्य भावस् तत्ता तया । अतिभासितं प्रतिभातम् । तथा तत्तदुचितैस् तानि च तानि च तत्तानि तेषां द्विपदाद्यनन्तपादान्तरूपाणाम् उचितैर् योग्यैः रुचिरैः सुन्दरैर् द्विपदाद्यनन्तपादावसानरूपेषु यद्यद्रूपे यावद् यावद् अवयवैः सौन्दर्यं भवति तावत् तावद्भिर् इति भावः । इतरैः पादातिरिक्तैर् घनगुणापघनैर् घनाः परिपूर्णा गुणा ज्ञानानन्दादयः घनगुणात्मकाश्च ते अपघनाः शिरोनयनाद्यववास् तैरपि अतिभासितं प्रतीतं ‘अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरं’ इत्यमरः । अयं भावः । ये द्विपादरूपदर्शनाधिकारिणस् तान् प्रति द्विपादतया तथा तद्रूपोचितैर् एकशीर्षद्विहस्ताद्य-वयवैश्च प्रतिभासितम् । एवम् उत्तरोत्तरं ये ये यावद् यावत् पादयुक्तरूपदर्शनाधिकारिणस् तान् तान् प्रति तावत् तावत् पादैस् तादृशरूपोचितशिरःपाण्याद्यवयवैश्च प्रतिभासितम् एवम् अनन्तचरणरूपदर्शनाधिकारिणः प्रति अनन्तचरणैर् अनन्तशिरःपाण्याद्यवयवैश्च

प्रतीयमानम् इति ॥ ७३ ॥

विश्वास-प्रस्तुतिः - ७४

नवभानुभाः कनककान्ति परं वरहारहारि हरिनीलहरित् ।
शबलप्रभादिविविधद्युतिमत्सुखबोधसौरभसुरूपगुणम् ॥ ७४ ॥

मूलम् - ७४

नवभानुभाः कनककान्ति परं वरहारहारि हरिनीलहरित् ।
शबलप्रभादिविविधद्युतिमत्सुखबोधसौरभसुरूपगुणम् ॥ ७४ ॥

पदार्थदीपिकोद्बोधिका

नवेति ॥ नवभानोर् उद्यद्भानोर् भास इव भासः दीप्तयो यस्य तन् नवभानुभाः । परम् अन्यत् । ‘परं रूपान्यमुख्येषु परोऽरिपरमात्मनोरि’ त्यभिधानम् । कनकवत् सुवर्णवत् कान्तिर् यस्य तत् कनककान्ति । वरहार उत्तमहारस् तद्वत् हारि मनोहरम् । ‘हृद्यं हारि मनोहरञ्च रुचिरमि’ति हलः । अन्यत् हरिनील इन्द्रनीलमणिस् तद्वत् हरिन् नीलम् । अपरं, शबला च सा प्रभा च सा आदिर् यासां ता शबलप्रभादयस् तादृशा या विविधद्युतयो नानाकान्तयस् ता अस्य सन्तीति । अन्यत् सुखञ्च बोधश्च सुखबोधौ तदात्मकाः सौरभसुरूपगुणाः सौरभं परिमलस् तच्च, सुरूपं गुणाश्च यस्य तादृशं रूपमिह वैकुण्ठे मोक्षिणो मुक्तानानन्दयतीत्युत्तरश्लोकेन सम्बन्धः । एतादृशं वपुः प्रकटयतीति पूर्ववद्वाऽन्वयः ॥ ७४ ॥

मन्दोपाकारिणी

नवेति ॥ पुनः कथंभूतं, नवभानुभा नवः नूतनश्चासौ भानुः सूर्यश्च नवभानुर् उद्यदादित्यः स इव भा दीप्तिर् यस्य तत् तथोक्तं ‘भाश्छविद्युतिदीप्तयः’ इत्यमरः । भानुभा भानुभासी भानुभांसी इति रूपाणि । परम् अन्यद् रूपं ‘परं दूरान्यपरमं’ इति हलायुधः । कनककान्ति सुवर्णवत् कान्तिः पीतवर्णो यस्य तत् तथोक्तम् । परम् अन्यद् रूपं वरहारहारि वरहारवन् मुक्ताहारवत् हारि मनोहारि शुभ्रवर्णम् इत्यर्थः । परम् अन्यद् रूपं हरिनीलहरिद् इन्द्रनीलवत् हरिन् नीलकान्ति । अपरं रूपं शबलप्रभादिविविधद्युतिमत् शबला कर्बुरा च सा प्रभा च शबलप्रभा वर्णान्तरमिश्रकान्तिर् इत्यर्थः ‘चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे’ इत्यमरः शबलप्रभा आदिर् यासां ताः शबलप्रभादय आदिपदेन कपिलहरितौ ग्राह्यौ । विविधाश्च ता द्युतयः कान्तयश्च । शबलप्रभादयः विविधयद्युतयो ऽस्य सन्तीति तत् तथोक्तम् । सुखबोधसौरभसुरूपगुणं सुरूपं शोभनदेहश्च गुणास् तद्धर्माश्च सुरूपगुणाः सुखबोधा आनन्दज्ञानात्मकाः सौरभाः परिमलात्मकाः सुरूपगुणा यस्य तत् तथोक्तं तादृशम् अतिसुन्दरं वपुर् मुक्तानां नित्यं दर्शयतीति पूर्वश्लोकेनान्वयः । आदिकुलकमेतत् ॥ ७४ ॥

विश्वास-प्रस्तुतिः - ७५

आश्चर्यरत्नेष्वधिकं जगत्त्रयेऽप्याश्चर्यमाश्चर्यमहो मुहुर्मुहुः ।
सौन्दर्यसारैकरसं रमापते रूपं सदानन्दयतीह मोक्षिणः ॥ ७५ ॥

मूलम् - ७५

आश्चर्यरत्नेष्वधिकं जगत्त्रयेऽप्याश्चर्यमाश्चर्यमहो मुहुर्मुहुः ।
सौन्दर्यसारैकरसं रमापते रूपं सदानन्दयतीह मोक्षिणः ॥ ७५ ॥

पदार्थदीपिकोद्बोधिका

आश्चर्येति ॥ जगतां त्रयं जगत्त्त्रयं तस्मिन् । आश्चर्येषु अद्भुतेषु वस्तुषु रत्नानि श्रेष्ठानि तेषु । ‘रत्नं स्वजातिश्रेष्ठेऽपी’त्यमरः । अधिकम् अत्यन्तम् आश्चर्यम् अद्भुतम् । मुहुर्मुहुः पुनःपुनः दर्शनेऽप्याश्चर्यं महदाश्चर्यम् । सौन्दर्येण साराः श्रेष्ठास्तेष्वेकरसं परमसुन्दरं रमापते रूपं स्वरूपमिह मोक्षे मोक्षिणः समानन्दयति । अहो अद्भुतम् । यद्वा जगत्त्त्रय आश्चर्यरत्नेष्वपि अधिकमाश्चर्यम् । आश्चर्यं महस् तेजो यस्य तदाश्चर्यमहः सौन्दर्यसारैकरसं रमापते रूपं मोक्षिण आनन्दयतीति । इन्द्रवशावृत्तम् । ‘स्याच्चेन्द्रवंशा यदि तौजरौ तदा’ इत्युक्तेः ॥ ७५ ॥

मन्दोपाकारिणी

आश्चर्येति ॥ जगत्त्रये लोकत्रये आश्चर्यरत्नेष्वपि अद्भतश्रेष्ठेष्वपि मध्ये ‘रत्नं श्रेष्ठे मणिष्वपि’ इति विश्वः । अधिकम् अत्यन्तम् आश्चर्यं मुहुर्मुहुः पुनःपुनः दर्शनेऽपि अहो आश्चर्यमाश्चर्यं महदाश्चर्यकरम् । पुनःपुनः दर्शनेऽपि प्रतिक्षणम् अभिनवत्वेन प्रतीयमानत्वाद् इति भावः । सौन्दर्यसारैकरसं सौन्दर्येण सारेषु उत्तमेषु मध्येऽपि एकरसम् एकः केवलः रसः सौन्दर्यरसः यस्य तत् परमसुन्दरं तत् । पूर्वोक्तगुणोपेतं रमापतेर् लक्ष्मीपतेः रूपं रह वैकुण्ठे मोक्षिणः मोक्षो येषाम् अस्तीति मोक्षिणस् तान् मुक्तान् जनान् सदा आनन्दयति सुखयति । इन्द्रवंशावृत्तम् ‘स्याचेन्द्रवंशा यदि तौ जरौ तदा’ ॥ ७५ ॥

विश्वास-प्रस्तुतिः - ७६

इज्यते यज्ञशीलैः स यज्ञः प्राज्ञमध्ये परः प्रोच्यतेऽन्यैः ।
गीयते गेयकीर्तिः सुगीतैर्विध्यबद्धैः सदाऽऽनन्दसान्द्रैः ॥ ७६ ॥

मूलम् - ७६

इज्यते यज्ञशीलैः स यज्ञः प्राज्ञमध्ये परः प्रोच्यतेऽन्यैः ।
गीयते गेयकीर्तिः सुगीतैर्विध्यबद्धैः सदाऽऽनन्दसान्द्रैः ॥ ७६ ॥

पदार्थदीपिकोद्बोधिका

इज्यत इति ॥ इज्यत इति । याति जानातीति वा यज्ञः, तन्नामकः स भगवान् विधिना विधिनिषेधशास्त्रेण अबद्धा विध्यबद्धास् तैः सदानन्दो निर्दुष्टानन्दस्तेन सान्द्रैः पूर्णैः । यज्ञेषु शीलमेषां ते यज्ञशीलास् तैः । पूर्वं यज्ञकर्माणि प्राचुर्येण कृतवद्भिर् इत्यर्थः । यज्ञा राजसूयाश्वमेधादयः । इज्यते । अन्यैः पूर्वं प्रवचननिरतैः पुरुषैः प्राज्ञमध्ये विद्वन्मध्ये परः सर्वोत्तमः प्रोच्यते । व्याख्यां कुर्वद्भिः सर्वोत्तमत्वेन समर्थ्यत इति भावः । गेया कीर्तिर् यस्य स श्रीहरिः । सु शोभनं गीतं गानविद्या येषां तैर् गीयते । किमेते प्रत्यवायपरिहारार्थमेवं कुर्वन्ति, आनन्दातिशयार्थं वेत्याशङ्कायां क्रमेणोभयमपि परिहर्तुं ‘विध्यबद्धैः’ ‘सदानन्दसान्द्रै’रित्युक्तम् । विधिबद्धत्वाभावान् न प्रत्यवाय-परिहारार्थम् । आनन्दपूर्णत्वान् न आनन्दातिशयार्थं च इति भावः ॥ ७६ ॥

मन्दोपाकारिणी

इज्यत इति ॥ यज्ञशीलैर् ये मुक्तेः पूर्वं यज्ञकर्माधिकारिणः कर्माणि प्राचुर्येण अनुष्ठितवन्तस् तैर् यज्ञानुष्ठानस्वभावैर् मुक्तैः पुरुषैर् यज्ञः विष्णुः ‘यज्ञो विष्णुर्देवता’ इति श्रुतिः । इज्यते यशः पूज्यते ‘यज देवपूजासङ्गतिकरणदानेषु इति धातोः कर्मणि लट् आत्मनेपदम्’ । अन्यैः कैश्चन पुरुषैर् ये प्राक् व्याख्यानरतास् तैः प्रवचनशीलैर् मुक्तैः प्राज्ञमध्ये प्राज्ञानां विदुषां मध्ये सः विष्णुः परः सर्वोत्तमः प्रोच्यते व्याख्यायते । व्याख्यातृभिः सर्वोत्तमत्वेन समर्थ्यते इति भावः । ‘प्र पूर्वाद् वच परिभाषणे इत्यतः कर्मणि लट् आत्मनेपदम्’ । सुगीतैः शोभनं गीतं गानं येषां ते सुगीताः ‘गीतं गानम् इमे समे’ इत्यमरः । पूर्वं ये गायनशीलास् तैर् मुक्तैर् गेयकीर्तिर् गेये गातुं योग्या कीर्तिर् यस्य सः विष्णुर् गीयते गायनेन स्तूयते । ‘गै शब्द इत्यतः कर्मणि लट् आत्मनेपदम्’ । कथंभूतैर् मुक्तैर् विध्यबद्धैः कर्मानुष्ठाननियमेन अबद्धैः रहितैः प्रत्यवायपरिहारार्थत्वेन अवश्यं कर्म कर्तव्यमेव इत्येवंरूपविधिबन्धरहितैर् इति भावः । पुनः कथंभूतैः सदानन्दसान्द्रैः सता निर्दोषेण वृद्धिह्रासरहितेन आनन्देन सान्द्रैः पूर्णैर् इति । एतेन मुक्तानां यज्ञादिकर्मकरणं प्रत्यवायपरिहारार्थमिति न विधिबन्धशून्यत्वात् किन्तु आनन्दोद्रेकादेव । नापि आनन्दातिशयार्थम् आनन्दपरिपूर्णत्वाद् इत्युक्तं भवति ॥ ७६ ॥

विश्वास-प्रस्तुतिः - ७७

वैकुण्ठे ते श्रीविशेषा जनानामत्याश्चर्यं चित्तवाचामभूमिः ।
वैकुण्ठेते श्रीविशेषाजनानामुक्तश्लाघ्ये युक्तमेतादृशत्वम्॥ ७७ ॥

मूलम् - ७७

वैकुण्ठे ते श्रीविशेषा जनानामत्याश्चर्यं चित्तवाचामभूमिः ।
वैकुण्ठेते श्रीविशेषाजनानामुक्तश्लाघ्ये युक्तमेतादृशत्वम्॥ ७७ ॥

भावप्रकाशिका

वैकुण्ठे वर्तमानानां जनानां श्रीविशेषाश्चित्तवाचामगोचराः । वैकुण्ठेन प्राप्ते । लक्ष्मीगरुडानन्तब्रह्मादिभिः शक्रादिनानाविशिष्टजनैश्च श्लाघ्ये तत्र युक्तमेवं विधत्वम् ॥ ७७ ॥

पदार्थदीपिकोद्बोधिका

वैकुण्ठ इति ॥ वैकुण्ठे जनानामुक्ता श्रीविशेषाः शोभाविशेषा ऐश्वर्यविशेषा वा अत्याश्चर्यम् अतिचित्रं चित्तानि च वाचश्च तासां, इतरेषां चित्तवाचां च अभूमिर् आस्पदं न भवति । ‘भूमिः क्षितौ स्थानमात्र’ इत्यभिधानम् । तथा हि वैकुण्ठेन श्रीहरिणा इते प्राप्ते तत्सन्निहित इति यावत् । ‘वैकुण्ठा-विन्द्रकेशवा’वित्यभिधानम् । श्रीर् लक्ष्मीर् विः पक्षी गरुडः शेषो ऽजश् चतुर्मुखः श्रीविशेषाजास् ते च ते नानामुक्ताश् च तैः श्लाध्ये श्लाघनीये वैकुण्ठलोक एतादृशत्वम् एवं विधत्वं युक्तम् उपपन्नम् । असम्भावितं न भवतीति भावः । शालिनीवृत्तम् । ‘मस्तौ गौ चेच्छालिनी वेद लोकैरि’त्युक्तेः ॥ ७७ ॥

मन्दोपाकारिणी

वैकुण्ठ इति ॥ वैकुण्ठे वैकुण्ठलोके जनानां ते पूर्वोक्ताः श्रीविशेषाः श्रियः शोभाया विशेषाः ‘श्रीर्वेषरचना शोभा’ इति विश्वः, संपद्विशेषा वा ‘सम्पत्तिः श्रीश्च लक्ष्मीश्च’ इत्यमरः । अत्याश्चर्यम् अतिचित्रं चित्तवाचां चित्तानि मनांसि वाचः वागिन्द्रियाणि च तासाम् अभूमिर् भूमिः स्थानं न भवतीति अभूमिर् मनसा स्मर्तुं वाचा व्याहर्तुं च गोचरा न भवन्तीति भावः । ‘भूमिः क्षितौ स्थानमात्रे’ इति हलायुधः । वैकुण्ठे एतादृशमाहात्म्यं युक्तमेव इत्याह- ॥ वैकुण्ठेति ॥ वैकुण्ठेते श्रीविशेषा-जनानामुक्तश्लाध्य इति पदच्छेदः । वैकुण्ठेते वैकुण्ठो नारायणः ‘वैकुण्ठो विष्टरश्रवाः’ इत्यमरस् तेन प्रत्यक्षभूतेन इते युक्तेन सन्निहिते श्रीविशेषाजनानामुक्तश्लाघ्ये श्रीर् लक्ष्मीश्च विः पक्षी गरुडश्च ‘विः पक्षिपरमात्मनोः’ इत्यमरः शेषः शेषदेवश्च अजो ब्रह्मा च श्रीविशेषाजा नानाविधाश्च ते मुक्ताश्च श्रीविशेषाजाश्च ते नानामुक्ताश्च तैः श्लाघ्ये प्रशंसनीये अस्मिन् भगवल्लोके एतादृशत्वं पूर्वोक्तगुणवत्वं युक्तमेव न असम्भावितम् इति भावः । ‘मस्तौ गौ चेच्छालिनी वेद लोकैः’ इत्युक्तेः शालिनीवृत्तम् ॥ ७७ ॥

विश्वास-प्रस्तुतिः - ७८

यं यं सुखी कामयतेऽर्थमत्र सङ्कल्पमात्रात् सकलोऽपि स स्यात् ।
इत्येव वेदा अपि वेदयन्ति मुक्तिं ततः को विभवातिरेकः॥ ७८ ॥

मूलम् - ७८

यं यं सुखी कामयतेऽर्थमत्र सङ्कल्पमात्रात् सकलोऽपि स स्यात् ।
इत्येव वेदा अपि वेदयन्ति मुक्तिं ततः को विभवातिरेकः॥ ७८ ॥

भावप्रकाशिका

‘‘स यदि पितृलोककामो भवति सङ्कल्पादेव पितरः समुत्तिष्ठन्ती’’ ति । स यदि स्त्रीलोककाम इत्याद्युक्तवा ‘यं यमर्थमभिकामो भवति । सोऽस्य सङ्कल्पादेव भवति यं यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठती’त्यादयो वेदाः ॥ ७८ ॥

इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायामेकादशः सर्गः ॥ ११ ॥

पदार्थदीपिकोद्बोधिका

यं यमिति ॥ सुखम् अस्यास्तीति सुखी मुक्तः । स हि निर्दुःखपरमानन्दत्वात्सुखीत्युच्यते । अत्र वैकुण्ठे यं यम् अर्थ्यत इत्यर्थः, तं विषयादिकं कामयते इच्छति । सः सः सकलो विषयः केवलं सङ्कल्पः सङ्कल्पमात्रं तस्मात् स्यात् । वेदा अपि ‘स यदि पितृलोककामो भवति सङ्कल्पादेव अस्य पितरः समुत्तिष्ठंति । स यदि मातृलोककामो भवति सङ्कल्पादेव अस्य मातरः समुत्तिष्ठन्ति । स यदि स्त्रीलोककामो भवति सङ्कल्पादेव अस्य स्त्रियः समुत्तिष्ठन्ति’ । इत्याद्युक्तया मुक्तिं मोक्षं वेदयन्ति ज्ञापयन्ति प्रतिपादयन्तीत्यर्थः । ततः सङ्कल्पमात्रसुलभार्थयुक्तमुक्तेर् अन्यः विभवातिरेको विभवातिशयः कः? न कोऽपीत्यर्थः । इन्द्रवज्रावृत्तम् ॥ ७८ ॥

मन्दोपाकारिणी

यं यमिति ॥ सुखी सुखम् अस्यास्तीति सुखी निर्दुःखपरमानन्द-स्वरूपत्वात् सुखीत्युच्यते । अत्र वैकुण्ठे यं यम् अर्थम् अर्थ्यमानत्वाद् अपेक्षणीयविषयं कामयते इच्छति । ‘कमु कान्तौ इत्यतः लट् आत्मनेपदम्’ । सः सकलः सर्वोऽपि विषयः संकल्पमात्राद् इदम् अनुभविष्यामीति केवलं सङ्कल्पादेव न तु प्रयत्नादिति भावः । स्यात् सिध्येत् ‘अस् भुवीत्यतो लिङ् परस्मैपदं स्यात् स्यातां स्युः’ । वेदा अपि स यदि पितृलोककामो भवति सङ्कल्पादेव अस्य पितरः समुत्तिष्ठन्ति इत्यादयो वेदा अपि मुक्तिं मोक्षम् इत्येव एवमेव सङ्कल्पमात्रसुलभार्थं मुक्तानामेव वेदयन्ति । ‘विद ज्ञाने इत्यतो णिजंताल्लट् परस्मैपदम्’ । ततस् तस्याः सङ्कल्पमात्रसुलभार्थयुक्ताया मुक्तेर् अन्यः विभवातिरेक ऐश्वर्यस्य अतिशयः कः न कोऽपीत्यर्थो ऽनायासलभ्यदुःखासम्भिन्न-सुखानुभवस्यैव पुरुषार्थत्वाद् वैकुण्ठे तदतिरिक्तस्य अभावात् तस्य च सत्वाद् इति भावः ‘स्यादिन्द्रवज्रा यदि तौ जगौ गः’ इति वचनाद् इन्द्रवज्रावृत्तम् ॥ ७८ ॥

विश्वास-प्रस्तुतिः - ७९

महानन्दतीर्थस्य ये भाष्यभावं मनोवाग्भिरावर्तयन्ते स्वशक्त्या ।
सुराद्या नरान्ता मुकुन्दप्रसादादिमं मोक्षमेते भजन्ते सदेति॥ ७९ ॥

मूलम् - ७९

महानन्दतीर्थस्य ये भाष्यभावं मनोवाग्भिरावर्तयन्ते स्वशक्त्या ।
सुराद्या नरान्ता मुकुन्दप्रसादादिमं मोक्षमेते भजन्ते सदेति॥ ७९ ॥

॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते सुमध्वविजये महाकाव्ये आनन्दाङ्के एकादशः सर्गः ॥

पदार्थदीपिकोद्बोधिका

महानन्देति ॥ सुरा आद्या येषां तादृशा । नरा अन्तेऽवसाने येषां तादृशा येऽधिकारिणस् ते महान् य आनन्दतीर्थस् तस्य भाष्यभावं भाष्यार्थं, मनांसि च वाचश्च ताभिः स्वशक्तया आवर्तयन्ते श्रवणमननव्याख्यारूपाम् आवृत्तिं कुर्वन्ति । एते मुकुन्दप्रसादाद् भगवदनुग्रहाद् इमं मोक्षं सदा भजन्ते प्राप्नुवन्ति । सदा इत्यपुनरावृत्तिर् उच्यते । इतिशब्देन ‘इति तैरुदीरितमुदारमतिरि’त्यादिशेषवाक्यपरि-समाप्तिर्द्योत्यते । इति हेतुप्रकरणप्रकारादिसमाप्तिष्वि’त्यमरः । भुजङ्गप्रयातं वृत्तम् । ‘भुजङ्गप्रयातं चतुर्भिर्यकारैः’ इत्युक्तेः ॥ ७९ ॥

इति श्रीमद्वेदाङ्गमुनिविरचितश्रीसुमध्वविजयटीकाविवृतौ श्रीविश्वपतितीर्थकृतौ पदार्थदीपिकोद्बोधिकायाम् एकादशः सर्गः ॥

मन्दोपाकारिणी

महानन्देति ॥ सुराद्याः सुरा आदयो येषां ते सुराद्याः । नरान्ता नरा मनुष्या अन्ताश् चरमा येषां ते नरान्ताः ‘पुंस्यादिपूर्वपौरस्त्यप्रथमाद्याग्रिमास्त्रिषु’ इत्यमरः । ‘अन्तो जघन्यं चरममंत्यपाश्चात्यपश्चिमम्’ इत्यमरः । ये अधिकारिणः महानन्दतीर्थस्य महान् सर्वजीवोत्तमश्चासौ आनन्दतीर्थश्च तस्य भाष्यभावं भाष्यस्य मध्वकृतश्रीमद्ब्र्रह्मसूत्रभाष्यस्य भावम् अभिप्रायम् अभिप्रेतार्थम् इत्यर्थः । ‘भावोऽभिप्राय आशयः’ इत्यभिधानम् । मनोवाग्भिर् मनांसि च वाचः वागिन्द्रियाणि च तैर् मनोवाग्भिः स्वशक्त्या स्वेषां शक्त्या सामर्थ्येन आवर्तयन्ते श्रवणमननव्याख्यानरूपाम् आवृत्तिं कुर्वन्ति श्रवणाधिकारिणः गुरूणां समीपे असकृत् श्रवणम् । श्रुतस्य युक्तायुक्तचिन्तन-रूपविमर्शाधिकारिणो ऽसकृन् मननम् । सच्छिष्येषु उपदेशरूपव्याख्यानशक्तिमन्तो ऽसकृद् व्याख्यानं कुर्वन्तीति भावः । एते मुकुन्दप्रसादान् मुकुन्दस्य मोक्षप्रदस्य वासुदेवस्य अनुग्रहाद् इमं पूर्वोक्तप्रकारेण उपपादितलक्षणं मोक्षं सदा सर्वदा भजन्ते सेवन्ते । सदेत्यनेन अपुनरावृत्तिर् उच्यते ‘भज सेवायाम् इत्यतो लट् आत्मनेपदम्’ । ‘आङ् पूर्वाद् वृतु वर्तते इत्यतो णिजन्ताद् लट् आत्मनेपदम्’ । ‘इति तैरुदीरितमुदारमतिर्वचनं निशम्य स जगाद गिरं’ इत्यनेन अन्वयः । इति गिरं शेषदेवः जगाद इति योजना ‘भुजङ्गप्रयातं चतर्भिर्यकारैः’ इति वचनाद् भुजङ्गप्रयातं वृत्तम् ॥ ७९ ॥

इति श्रीमध्वविजयटीकायां श्रीमच्छलारिनरसिंहाचार्याणां शिष्येण शेषेण विरचितायां मन्दोपकारिण्याम् एकादशः सर्गः ॥ ११ ॥