१० दशमः सर्गः

दशमः सर्गः

दशमः सर्गः

विश्वास-प्रस्तुतिः - १

सपदि समस्कुरुत भृशं माधवगुणसाधकोऽथ मध्वरविः ।
भृगुकुलतिलकस्थानं तापकरः पापपान्थानाम् ॥ १ ॥

मूलम् - १

सपदि समस्कुरुत भृशं माधवगुणसाधकोऽथ मध्वरविः ।
भृगुकुलतिलकस्थानं तापकरः पापपान्थानाम् ॥ १ ॥

भावप्रकाशिका

समस्कुरुत ‘सम्परिभ्यां करोतौ भूषण’ इति सुडागमः । माधवः श्रीकान्तो वसन्तोत्तरभागश्च । भृगुकुलतिलकस्थानं परशुरामक्षेत्रं शुक्रक्षेत्रं वृषभराशिं च ॥ १ ॥

पदार्थदीपिकोद्बोधिका

सपदीति ॥ अथ माया लक्ष्म्या धवस्य भर्तुर् माधवस्य ये गुणा ज्ञानानन्दादयस् तेषां साधकः प्रतिपादकः । पापाः पापिष्ठाः ‘अर्शाद्यच्’ कुवादिनस् त एव पान्था अध्वगास् तेषां तापकरो वादेन सन्तापकारी मध्वरविर् मध्वाख्यभानुः । सपदि भृगोः कुलस्य गोत्रस्य तिलक इव श्रीपरशुरामस् तस्य स्थानं देशम् । परशुराम-सृष्टतौलवमण्डलम् इत्यर्थः । भृशं सम्यक् समस्कुरुत अलञ्चक्रे । सम्पूर्वात् कृञो लङ् सम्परिभ्याम् इति सुट् ।

माधवस्य वसन्तस्य गुणा धर्मभूता बकुलाशोकचम्पकादिविकासः कोकिलकूजितादयश्च तेषां साधकः स्वप्रकाशेन सम्पादकः । ‘चैत्रादिमासौ मधुमाधवौ द्वौ’ इति हलः । पापा उलूकादिक्रूरप्राणिनस् ते च पान्थाश्च तेषां तापकरो रविः । भृगुकुलतिलकस्य शुक्रस्य स्थानं वृषभराशिं यथा स्वावस्थानेन अलङ्कुर्यात् तद्वद् इति भावः । आर्यावृत्तम् । ‘यस्याः प्रथमे पादे द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्ये’त्युक्तेः ॥ १ ॥

**मन्दोपाकारिणी **

सपदीति ॥ अथ रजतपीठपुरं प्रति आगमनानन्तरं मध्वरविर् मध्वाख्यसूर्यः । ‘तपनः सविता रविः’ इत्यमरः । सपदि शीघ्रं ‘द्राङ्मंक्षु सपदि द्रुतं’ इत्यमरः । भृगुकुलतिलकस्थानं भृगोर् भृगुऋषेः कुलस्य तिलकस् तिलकसदृशः परशुरामस् तस्य स्थानं तत्सृष्टं चोलमण्डलाख्यं देशम् । भृशं सम्यक् समस्कुरुत अलञ्चक्रे । ‘सम्पर्युपेभ्यः करोतौ भूषणे’ इति सुडागमः । ‘डु कृञ् करणे’ इत्यतो लङात्मनेपदं समस्कुरुत समस्कुर्वातां समस्कुर्वत । कथंभूतः । माधवगुणसाधकः माया लक्ष्म्या धवस्य भर्तुर् नारायणस्य गुणानां ज्ञानानन्दादीनां साधकः प्रतिपादकः । ‘इन्दिरा लोकमाता मा’ इत्यमरः । ‘धवः प्रियः पतिर्भर्ता’ इति च । पुनः कथंभूतः । पापपान्थानां पापा मायावादिप्रभृतिपापिन एव पान्थाः पथिकास् तेषां ‘अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिकः’ इत्यमरः । तापकरस् तापं सन्तापं करोतीति तापकरः । श्रीमध्वाचार्यः बदरिकाश्रमाद् रजतपीठपुरं प्राप्य ततः शीघ्रमेव मार्गे विद्यमानमायावादिप्रभृतिदुर्वादिनः शास्त्रेण नारायणस्य ज्ञानानन्दाद्यनन्तगुणवत्वं प्रतिपादयन् पराजित्य चोलमण्डलं प्राप इति भावः । तत्र दृष्टान्तः रविः । कथम् ? माधवगुणसाधकः माधवः वसन्तर्तुभागः वैशाखमासः ‘मधुश्च माधवश्च वासन्तिकावृतू’ इति श्रुतेः । ‘वैशाखे माधवो राधः’ इत्यमरः । एकदेशेन समग्रः वसन्तर्तुर् गृह्यते । तस्य वसन्तर्तोर् गुणा बकुलचम्पकमल्लि-कादिनानाकुसुममनोहरत्वं कोकिलकूजितवत्ता चेत्यादयस् तेषां साधकः । सूर्यप्रकाशेन हि वसन्ते कुसुमोत्पत्यादिर् भवति । तापकरः मार्गस्थानां जनानां सन्तापकरश्च एतादृशः सूर्यः यथा भृगुकुलोत्पन्नस्य शुक्रस्य स्थानं वृषभराशिं स्वावस्थानेन अलङ्कुर्यात् तद्वद् इति भावः । आर्यावृत्तं ‘यस्याः प्रथमे पादे द्वादशमात्रास् तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थके पञ्चदश सार्या’ इत्युक्तेः ॥ १ ॥

विश्वास-प्रस्तुतिः - २

दशमतिशिष्यः कश्चित् शुभजनतायै कुतूहलनतायै ।
विविधसुवृत्तं वाक्यं काव्यमिवोचे सनायकस्तवकम् ॥ २ ॥

मूलम् - २

दशमतिशिष्यः कश्चित् शुभजनतायै कुतूहलनतायै ।
विविधसुवृत्तं वाक्यं काव्यमिवोचे सनायकस्तवकम् ॥ २ ॥

भावप्रकाशिका

सुवृत्तानि आर्यागीत्यादिकानि सुचरितानि च । नायकः काव्यप्रतिपाद्यगुणः स्वामी च ॥ २ ॥

पदार्थदीपिकोद्बोधिका

दशेति ॥ कश्चिद् दशमतेः श्रीपूर्णप्रज्ञस्य शिष्यः । कुतूहलेन बदरिकाश्रमगमनादिकं श्रुत्वा विस्तरेण श्रोतुं कुतूहलेन नतायै नम्रायै । जनानां समूहो जनता शुभा सती या जनता तस्यै । विविधानि नानाविधानि सुवृत्तानि श्रीमध्वचरित्राणि यस्मिन् प्रतिपादकत्वेन तत् । आर्यातोटकादिनानावृत्तयुक्तं सुवृत्तं काव्यमिव । नायकः स्वामी श्रीमध्वस् तस्य स्तवेन स्तुत्या सहितं सनायकस्तवकम् । स्वार्थे कः । काव्यमपि काव्यनायकस्तवसहितम् । वाक्यं, काव्यमिवोचे । वृत्तं गीतिः ‘आर्या प्रथमार्धसमं यस्या अपरार्धमाह तां गीतिम्’ इत्युक्तेः ॥ २ ॥

**मन्दोपाकारिणी**

— दशेति ॥ कश्चिद् दशमतिशिष्यः दशमतेः पूर्णप्रज्ञाचार्यस्य शिष्यः । कुतूहलनतायै कुतूहलेन सन्तोषातिशयेन नतायै नम्रीभूतायै । शुभजनतायै जनानां समूहः जनता शुभा च सा जनता च शुभजनता तस्यै । वाक्यम् ऊचे अवोचत् । कथंभूतं वाक्यम् । विविधसुवृत्तं विविधानि शोभनानि वृत्तानि चरित्राणि यस्मिन् तत् तथोक्तम् । श्रीमध्वस्य नानाचरित्रप्रतिपादकम् इत्यर्थः । पुनः कथंभूतम् । सनायकस्तवकं नायकस्य स्वामिनः मध्वाचार्यस्य स्तवकं स्तवमेव स्तवकं स्तोत्रम् । स्वार्थे कप्रत्ययः। नायकस्तवकेन सहितं सनायकस्तवकम् । कथमिव काव्यमिव गद्यपद्यात्मकप्रबन्धमिव । कथंभूतं काव्यम् । विविधसुवृत्तं विविधानि अनेकप्रकाराणि सुवृत्तानि आर्यागीतितोटकपृथिवीत्यादिपद्यानि यस्मिन् तत्तथोक्तम् । ‘वृत्तं पद्ये चरित्रे’ इत्यमरः । पुनः कथंभूतम् ? सनायकस्तवकं काव्यनायकस्तोत्रसहितम् । चोलमण्डले तद्देशस्था जना मध्वाचार्यस्य बदरिकाश्रमं प्रति गमनागमनादिमाहात्म्यं श्रुत्वा अत्यन्ताश्चर्ययुक्तास्सन्तस् तन्माहात्म्यं विस्तारेण श्रोतुकामाः केचन मध्वाचार्यशिष्यम् अपृच्छन् । स शिष्यो ऽत्यन्तौत्सुक्ययुक्तेभ्यस् तेभ्यो ऽनेकविधचरित्रप्रतिपादकं स्तुतिपरं वाक्यं प्रोवाच । यथा लोके काव्यं कथयन्ति तद्वद् इति भावः । ‘वच परिभाषण’ इत्यतो लिडात्मनेपदम् ऊचे ऊचाते ऊचिरे । वृत्तं तु गीतिः ‘आर्या प्रथमार्धसमं यस्या अपरार्धमीरिता गीतिः’ इत्युक्तेः ॥ २ ॥

विश्वास-प्रस्तुतिः - ३

भुवनाद्भुतमध्वचेष्टितं न वदेमापि सुरायुषा वयम् ।
सकलं खलु किन्तु किञ्चिदप्यथ शुश्रूषुजनाय वर्ण्यते ॥ ३ ॥

मूलम् - ३

भुवनाद्भुतमध्वचेष्टितं न वदेमापि सुरायुषा वयम् ।
सकलं खलु किन्तु किञ्चिदप्यथ शुश्रूषुजनाय वर्ण्यते ॥ ३ ॥

पदार्थदीपिकोद्बोधिका

भुवनेति ॥ वयं सुरायुषापि भुवनेषु अद्भुतम् आश्चर्यं यन्मध्वचेष्टितं श्रीमध्वाचार्यचरित्रं सकलं समस्तं न वदेम खलु । देवानाम् आयुषापि सर्वं वक्तुम् असमर्था इति भावः । तर्हि नोच्यताम् इत्याशङ्क्य परिहरति किन्त्विति । किन्त्वथापि शुश्रूषुजनाय श्रोतुमिच्छवे जनाय किञ्चिदपि अल्पं वा वर्ण्यते । सुन्दरीवृत्तम् । ‘अयुजोर्यदि सौ जगौ लगौ समयो स्भौ रलगाश्च सुन्दरी’त्युक्तेः ॥ ३ ॥

**मन्दोपाकारिणी**

किमवोचदित्यतः स्वाहंकारं तावत् परिहरति ॥ भुवनेति ॥ वयम् अहं च यूयं च अन्ये च इति वयं मदादयः सर्वेऽपीत्यर्थः । भुवनाद्भुतमध्वचेष्टितं सर्वलोकेषु अत्यद्भुतं मध्वस्य चेष्टितं चरित्रं सुरायुषापि देवानाम् आयुष्येणापि देवमानेन शतवत्सरकालेनापि इत्यर्थः । सकलं समस्तं न वदेम खलु वक्तुं न समर्था हि । मध्वाचार्यचरित्राणाम् अपरिमितत्वाद् बहुकालेनापि सर्वं वक्तुम् अशक्ता भवाम इति भावः । ‘वद व्यक्तायां वाचि’ लिङ् परस्मैपदं वदेयं वदेव वदेम । तर्हि नोच्यते किम् ? इत्याशङ्कां परिहरति ॥ किं त्वित्यादिना । अथ यद्यपि न शक्यं किं त्वित्यस्य तथापि इत्यर्थः । तथापि शुश्रूषुजनाय श्रोतुम् इच्छावान् शुश्रूषुः स चासौ जनस् तस्मै किंचिदपि अल्पं च ‘किं- चिदीषन्मनागल्पे’ इत्यमरः वर्ण्यते उच्यते । ‘वर्ण स्तुतौ’ लडात्मनेपदं वर्ण्यते वर्ण्येते वर्ण्यन्ते । वृत्तं तु ‘विषमे ससजा गुरुः समे सभरालोऽथ गुरुर्वियोगिनी (सुन्दरी)’ इत्युक्तेः सुन्दरीवृत्तम् ॥ ३ ॥

विश्वास-प्रस्तुतिः - ४

क्वचिदीश्वरदेवमेष भूपं खननं पान्थजनं विधापयन्तम् ।
स्वमपि प्रतिचोदयन्तमूचे क्रियया नोऽकुशलान् प्रबोधयेति ॥ ४ ॥

मूलम् - ४

क्वचिदीश्वरदेवमेष भूपं खननं पान्थजनं विधापयन्तम् ।
स्वमपि प्रतिचोदयन्तमूचे क्रियया नोऽकुशलान् प्रबोधयेति ॥ ४ ॥

पदार्थदीपिकोद्बोधिका

क्वचिदिति ॥ एषः क्वचित् कुत्रचिद् देशविशेषे पान्थजनैः पथिकैः खननं खननव्यापारं विधापयन्तं कारयन्तम् । स्वमपि आत्मानमपि प्रतिचोदयन्तं भवद्भिरपि खननं कर्तव्यमिति सपरिवारं प्रतिचोदयन्तम् ईश्वरदेवं तन्नामकं भूपम् । न कुशला अकुशलास् तान् । खननविषये चातुर्यरहितानित्यर्थः । नोऽस्मान् क्रियया प्रबोधय ज्ञापय । त्वमेव किञ्चित् खननं कृत्वैवं क्रियतामित्यस्मान् प्रदर्शय इत्यूचे । चन्द्रिकावृत्तम् । ‘विषमे ससजा गुरू यदि स्युः सभरा यश्च युजीह चन्द्रिका सा’ इत्युक्तेः ॥ ४ ॥

**मन्दोपाकारिणी**

इदानीं मध्वचरित्राणि क्रमेण अनुवदति यथामति ॥ क्वचिदिति ॥ एषः मध्वाचार्यः । क्वचिद् देशविशेषे पान्थजनं पान्थश्चासौ जनश्च तं मार्गस्थजनं खननं कुद्दालैः करणैर् भूमिविदारणं विधापयन्तं स्वमपि स्वात्मानमपि प्रतिचोदयन्तं भवद्भिरपि खननं क्रियताम् इति प्रेरयन्तम् ईश्वरदेवम् ईश्वरदेवनामानं भूपं प्रति ऊचे । किमिति ? हे राजन् त्वं, अकुशलान् खननविषये चातुर्यरहितान् नो ऽस्मान् क्रियया खननरूपक्रियया प्रबोधय ज्ञापय इति ऊचे इत्यन्वयः । ‘बुध अवगमे’ इत्यतो णिजन्ताद् लोट् बोधय बोधयतं बोधयत । बदरिकाश्रमगमनकाले कस्मिंश्चिद् देशे ईश्वरदेवाख्यो राजा मार्गस्थैर् विष्टिगृहीतैर् जनैर् भूमिं खनयित्वा तटाकादिकं कारयन् अभूत् । तन्मार्गे श्रीमध्वाचार्ये गतवति सति एवं मध्वाचार्यमपि विष्ट्या गृहीत्वा राजा त्वमपि खननं कुरु इति अब्रवीत् । एवं राज्ञोक्तो मध्वः खननप्रकारम् अजानतो ऽस्मान् कुद्दालं गृहीत्वा किञ्चित् खननं कृत्वा एवं भवद्भिरपि खननं क्रियताम् इति अस्माकं खननप्रकारं प्रदर्शय इति ऊचे इति भावः । चन्द्रिकावृत्तं ‘विषमे ससजा गुरू यदि स्युः सभरा यश्च युजीह चन्द्रिका सा’ इत्युक्तेः ॥ ४ ॥

विश्वास-प्रस्तुतिः - ५

प्रकारं प्रकटीकर्तुमारभ्य विरराम नो ।
महीयोमतिमाहात्म्याद्वैवश्येन खनन् खलः ॥ ५ ॥

मूलम् - ५

प्रकारं प्रकटीकर्तुमारभ्य विरराम नो ।
महीयोमतिमाहात्म्याद्वैवश्येन खनन् खलः ॥ ५ ॥

पदार्थदीपिकोद्बोधिका

प्रकारमिति ॥ खल ईश्वरदेवः प्रकारं खननप्रकारं प्रकटीकर्तुं स्वयं क्रियया स्पष्टीकर्तुमारभ्य । महीयसी अतिमहती मतिर् यस्य स श्रीपूर्णप्रज्ञस् तस्य माहात्म्यात् सामर्थ्यात् । विवशस्य परवशस्य भावो वैवश्यं तेन खनन् सन् न विरराम । रमु क्रीडायां लिट् । ‘व्याङ्परिभ्य’ इति परस्मैपदम् । पथ्यावक्त्रवृत्तम् । ‘युजश्चतुर्थतोजेन पथ्यावक्त्रं प्रकीर्तितमि’त्युक्तेः ॥ ५ ॥

**मन्दोपाकारिणी**

— प्रकारमिति ॥ खलः नीचः ‘क्रूरे नीचेऽधमे खले’ इत्यमर ईश्वरदेवः । प्रकारं खननप्रकारं प्रकटीकर्तुं क्रियया ज्ञापयितुम् आरभ्य आरम्भं कृत्वा । महीयोमतिमाहात्म्याद् अतिशयेन महती महीयसी पूर्णा मतिः प्रज्ञा यस्य तस्य माहात्म्यान् महिम्नः । वैवश्येन विवशस्य भावो वैवश्यं तेन परवशत्वेन इत्यर्थः । खनन् खननक्रियां कुर्वन् नो विरराम न समापितवान् । खननप्रकारं दर्शय इत्युक्तो राजा तत्प्रकारं ज्ञापयितुं स्वयं कुद्दालं गृहीत्वा खनन् मध्वाचार्यमहिम्ना परवशस्सन् सायंकालपर्यन्तं खननं न तत्याज इति भावः । विपूर्वात् ‘रमु क्रीडायां’ लिट् रराम रेमतुः रेमुः । पथ्यावक्त्रं वृत्तं ‘वक्त्रं नाद्यन्नसौ स्यातामब्धेर्योऽनुष्टुभि ख्यातम् । युजोर्जेन सरिद्भर्तुः पथ्यावक्त्रं’ इति तल्लक्षणात् ॥ ५ ॥

विश्वास-प्रस्तुतिः - ६

नानेनेनानेनानेनोनूनेन ननु नुन्नाः ।
नानाना नो नूनं नानेनानूननाऽनुन्नः ॥ ६ ॥

मूलम् - ६

नानेनेनानेनानेनोनूनेन ननु नुन्नाः ।
नानाना नो नूनं नानेनानूननाऽनुन्नः ॥ ६ ॥

भावप्रकाशिका

न । अनेनेन । अनेन । अनेनोनूनेन । ननु । नुन्नाः । नानानाः । नो । नूनम् । नानेनानूनना । अनुन्नः । इति पदच्छेदः । कथमिदं महीयोमतिमाहात्म्यात्सम्भवतीत्याशङ्क्योच्यते । अनेन ननु नानाना न नुन्ना नो । अनेन प्राणांशेन ननु नानाप्राणिनः न प्रेरिता नो । अनाः प्राणास्तत्सम्बन्धित्वादानाः प्राणिनः । कीदृग्भूतेन अनेनोनूनेन अनेनाश्चायमनूनश्चेति । नूनं प्रायः कुतः । नानेनानूनना नानेनेषु नानेश्वरेषु ब्रह्मरुद्रादिषु अनूनना । पूर्णपुरुषो ऽनेनाप्रेरितः ॥६॥

पदार्थदीपिकोद्बोधिका

महीयोमतिमहात्म्यमुपपादयति– नेत्यादिना ॥ न ।

अनेनेन । अनेन । अनेनोनूनेन । ननु । नुन्नाः । नानानाः । नो । नूनं नानेनानूनना । अनुन्नः । इति पदच्छेदः । अनेनोनूनेन, न विद्यते एनः पापं यस्य सोऽनेना निर्दोष इति यावत् । अनूनो गुणादिभिर् नूनो न भवति इति अनूनो ऽनेनाश्चासावनूनश्चेत्यनेनोनूनस् तेन । अनेनेन, अनानां प्राणानाम् इनः स्वामी तेन । अनेन श्रीमध्वरूपिणा मुख्यप्राणेन । नानाना अनाः प्राणास् तत्सम्बन्धित्वाद् आनाः प्राणिनः नानाविधाश्च ते आनाश्च नानानाः । यद्वा, अनाः प्राणा येषां सन्तीत्यनाः । अर्शादित्वान्मत्वर्थेऽच्, नानाविधाश्च तेऽनाः प्राणिनश्चेति नानाना इति वा । नूनं प्रायः न नुन्ना न प्रेरिता नो ननु न विद्यन्ते खलु । तर्हि भगवानप्यनेन प्रेरितः किमित्यत आह– नानेति ॥ नानेनानूनना, नानाविधाश्च ते इनाः स्वामिनश्च नानेनास् तारतम्येन नानाविधाः सर्वजीवानाम् ईश्वरा ब्रह्मादयस् तेष्वनूनः नूनो न भवति, पूर्णः स चासौ ना पुरुषश्च, अनूनना पूर्णपुरुषः श्रीनारायणः । अनुन्नोऽनेनाप्रेरितः । अत एव प्रायःशब्दार्थकं नूनमिति पदमुक्तमिति भावः । एकाक्षरमुपगीतिवृत्तम् ‘आर्यापरार्धतुल्ये दलद्वये प्राहुरुपगीतिमि’त्युक्तेः ॥ ६ ॥

**मन्दोपाकारिणी**

महीयोमतिमाहात्म्यादित्युक्तं मध्वमाहात्म्यमेव आह ॥ नेत्यादि-श्लोकाभ्याम् ॥ न । अनेन । अनेनेन । अनेनोनूनेन । ननु । नुन्नाः । नानानाः । नो । नूनं नानेनानूनना । अनुन्न इति पदच्छेदः । अन्वयस्तु अनेनोनूनेन अनेनेन नानाना न नुन्ना इति नो ननु । नानेनानूनना नूनम् अनुन्नः। अस्यार्थः । अनेनोनूनेन न विद्यते एनः पापं यस्य स अनेना निर्दोषः ‘कलुषं वृजिनैनोघं’ इत्यमर ऊनोऽधमो न भवतीति अनूनः सर्वजीवोत्तम इत्यर्थः । अनेनाश्चासौ अनूनश्च अनेनोनूनस् तेन । अनेनेन अनानां प्राणानाम् इन ईशिता तेन ‘भर्तेन्द्र इन ईशिता’ इति विश्वः । मुख्यप्राणावतारेण इत्यर्थः । अनेन मध्वाचार्येण नानाना अनस्य प्राणस्य इमे आनाः प्राणिनः नानाविधाश्च ते आनाश्च नानाना अनेकप्रकाराश् चेतना न नुन्ना इति न प्रेरिता इति । नो ननु नैव किन्तु प्रेरिता एव इति भावः । ‘प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु’ इत्यमरः । सर्वेऽपि चेतना वायुप्रेरिता इति । अस्य अपवादमाह नानेति ॥ नानेनानूनना नानाश्च ते इनाश्च नानेनास् तारतम्योपेताः सर्वजीवानाम् ईश्वरा ब्रह्मादयास् तेषु अनूनः पूर्णश्चासौ ना पुरुषश्च नानेनानूनना लक्ष्मीपतिः ‘ना नरौ नर इति रूपाणि’ वायुना नूनं निश्चयेन अनुन्नः प्रेरितो न भवतीति अर्थः । ‘नूनं तर्केऽर्थनिश्चये’ इत्यमरः । एकाक्षरमुपगीतिवृत्तं ‘आर्यापरार्धतुल्ये दलद्वये प्राहुरुपगीतिं’ इति तल्लक्षणात् ॥ ६ ॥

विश्वास-प्रस्तुतिः - ७

यमशेषभवप्रभवः स्मरतामसुखाब्धिरपैति न चित्रमिदम् ।
मरुतीदृशि भान्ति हि यत्स्तवने यमशेषभवप्रभवः स्म रताः ॥ ७ ॥

मूलम् - ७

यमशेषभवप्रभवः स्मरतामसुखाब्धिरपैति न चित्रमिदम् ।
मरुतीदृशि भान्ति हि यत्स्तवने यमशेषभवप्रभवः स्म रताः ॥ ७ ॥

भावप्रकाशिका

यं स्मरतामशेषसंसारप्रभवोऽसुखाब्धिरपैति । यत्स्तवने च रता यमानन्तरुद्रसमर्था भान्ति स्म ॥ ७ ॥

पदार्थदीपिकोद्बोधिका

यमिति ॥ यं श्रीमुख्यप्राणं स्मरतां सतां, भवे संसारे प्रभवतीति भवप्रभवः संसारे विद्यमान इत्यर्थः । अशेषश्चासौ भवप्रभवश्च । सुखविरुद्धम् असुखं दुःखं तदेव अब्धिर् अपैति अपगच्छति । इण् गतौ लट् । किञ्च यत्स्तवनं यस्य स्तुतिस् तस्मिन् रता निरताः, यमश्च शेषश्च भवो रुद्रः स च यमशेषभवास् ते च ते प्रभवा ईश्वराश्च । जगतामिति शेषः । भान्ति स्म । ईदृशि एतादृशमहागुणे मरुति श्रीमुख्यवायौ इदं ‘वैवश्येन खनन् खलो नोपररामे’तीदं चित्रम् आश्चर्यं न भवति । यमशेषभवादि जगत्प्रभूणामपि तदधीनत्वादिति भावः । तोटकवृत्तम् ‘यदि तोटकमब्धिसकारयुत’मिति तल्लक्षणात् ॥ ७ ॥

**मन्दोपाकारिणी**

यमिति ॥ यं मुख्यप्राणं स्मरतां सज्जनानाम् अशेषभवप्रभवः भवे संसारे प्रभवः प्रकर्षेण जायमानः भवप्रभवः ‘भवः संसारसम्प्राप्तिश्रेयःसंकरजन्मसु’ इति विश्वः । अशेषश्चासौ भवप्रभवश्च इति तथोक्तः । असुखाब्धिर् दुःखसमुद्रो ऽपैति अपगच्छति नश्यति इत्यर्थः । ‘अप पूर्वाद् इण् गतौ’ इत्यतो लट् परस्मैपदम् एति इतः यन्ति । किञ्च यमशेषभवप्रभवः यमः यमधर्मः शेषः सर्पराजः भवः रुद्रस् ते च ते प्रभवः जगदीश्वराश्च इति तथोक्ताः । यत्स्तवने यस्य वायोः स्तुतौ रता भान्ति स्म शोभन्ते हि । ‘भा दीप्तौ’ लट् परस्मैपदं भाति भातः भान्ति । ईदृशि एतादृशमाहात्म्यवति मरुति मुख्यप्राणांशभूते मध्वे इदं विवशत्वेन खननोपरमाभावश् चित्रं न आश्चर्यं न भवति । वायुरूपस्य यस्य मध्वस्य स्मरणेन अशेषसंसारदुःखनिवृत्तिः । जगन्नियामकाः शेषरुद्रादयः सर्वदा वायोः स्तोत्रं कुर्वन्ति । येन मुख्यप्राणेन रमाब्रह्माद्युत्तमं लक्ष्मीपतिं विना अनेकविधाः सर्वेऽपि चेतनाः प्रेरिता एव प्रवर्तन्ते । एवं महामहिमवतः मध्वस्य राज्ञो विवशत्वेन खननोपरत्यभावकरणम् आश्चर्यं न । जगत्प्रभूणां शेषरुद्रादीनामपि तदधीनत्वाद् इति श्लोकद्वयस्य अभिप्रायः । तोटकवृत्तं ‘वद तोटकमब्धिसकारयुतं’ इति तल्लक्षणात् ॥७॥

विश्वास-प्रस्तुतिः - ८

सञ्चरन्नञ्चनीयः कदाचिद्विभुर्विष्णुपद्यास्तटं वैष्णवाग्रेसरः ।
प्रापदाप्तैर्निजैरेष शिष्यैर्वृतस्त्यक्तविश्वप्लवं शात्रवातङ्कतः ॥ ८ ॥

मूलम् - ८

सञ्चरन्नञ्चनीयः कदाचिद्विभुर्विष्णुपद्यास्तटं वैष्णवाग्रेसरः ।
प्रापदाप्तैर्निजैरेष शिष्यैर्वृतस्त्यक्तविश्वप्लवं शात्रवातङ्कतः ॥ ८ ॥

पदार्थदीपिकोद्बोधिका

सञ्चरन्निति ॥ सञ्चरन् तत्र तत्र पर्यटन् अञ्चनीयः पूज्यः । विष्णोर् भक्ता वैष्णवास् तेषु अग्रेसरः श्रेष्ठः विभुः सर्वसमर्थः । आप्तैर् निजैः शिष्यैर् वृत एषः श्रीमध्वः । कदाचित् शात्रवाणां शत्रूणाम् आतङ्कतो भयात् त्यक्तास् त्याजिता विश्वप्लवाः समस्तनावो यस्मिन् तादृशं विष्णुपद्या गङ्गायास् तटं तीरं प्रापज् जगाम । स्रग्विणीवृत्तम् । ‘कीर्तितैषा चतूरेफिका स्रग्विणी’त्युक्तेः ॥ ८ ॥

**मन्दोपाकारिणी**

चरित्रान्तरं कथयतीत्याह ॥ सञ्चरन्निति ॥ सञ्चरन् उत्तरदिशं प्रति मार्गे गच्छन् अञ्चनीयः मार्गस्थैर् जनैः पूज्यः वैष्णवाग्रेसरः विष्णोर् इमे वैष्णवा विष्णुभक्तास् तेषाम् अग्रेसरः श्रेष्ठः विभुर् ज्ञानपूर्णः निजैर् आत्मीयैर् आप्तैः सहागतैः प्रियैर्वा शिष्यैश् छात्रैर् वृतः युक्त एषः मध्वः कदाचित् कस्मिंश्चिद्दिने विष्णुपद्या भागीरथ्याः ‘गङ्गा विष्णुपदी’ इत्यमरस् तटं तीरं प्रापत् प्राप्तवान् । किंभूतम् । शात्रवातङ्कतः शात्रवः शत्रवस् तेषाम् आतङ्कतः शङ्कया भयादिति यावत् । त्यक्तविश्वप्लवं विश्वे सर्वे च ते प्लवा नावश्च विश्वप्लवास् त्यक्ता विश्वप्लवा यस्मिन् तत् तथोक्तम् । ‘आप्लृ व्याप्तौ’ इत्यतो लुङ् परस्मैपदम् । ‘कीर्तितैषा चतूरेफिका स्रग्विणी’ इत्युक्तेः स्रग्विणीवृत्तम् ॥ ८ ॥

विश्वास-प्रस्तुतिः - ९

इमान्स्वस्वपूर्वाश्रयानात्मवाक्यात् सलीलं दयालुः स मूलाश्रयात्मा ।
निषेद्धॄननादृत्य चानन्यलंङ्घ्यां तदाऽत्याययत् तां नदीं संसृतिं वा ॥ ९ ॥

मूलम् - ९

इमान्स्वस्वपूर्वाश्रयानात्मवाक्यात् सलीलं दयालुः स मूलाश्रयात्मा ।
निषेद्धॄननादृत्य चानन्यलंङ्घ्यां तदाऽत्याययत् तां नदीं संसृतिं वा ॥ ९ ॥

पदार्थदीपिकोद्बोधिका

इमानिति ॥ दयालुर् दयाशीलो मूलाश्रयः सर्वेषां मूलाश्रयभूत आत्मा स्वरूपं यस्य तादृशः सः श्रीमध्वः । तदा, आत्मवाक्यात् स्ववाक्यात् स्वस्मात् स्वस्मात्पूर्वः स्वस्वपूर्वः स आश्रयो येषां तान् इमान् स्वशिष्यान् । अन्यङ्घ्या न भवतीति अनन्यङ्घ्या ताम् । नावा विना अन्येन लङ्घयितुम् अशक्यामित्यर्थः। तां नदीं गङ्गां निषेद्धॄन् ‘न गन्तव्यं न गन्तव्य’मिति निवारयतः पुरुषान् अनादृत्य अगणय्य संसृतिं वा संसारमिव लीलया सहितं यथा भवति तथा सलीलम् अत्याययत् तारयामास । ‘अय गतौ’ णिजन्ताल्लङ् । सर्वेषां मूलाश्रयत्वेन अग्रतो यान्तं श्रीमध्वं तद्वचनाद् एको जग्राह । तमपि अन्यस् तमपि अन्य इति स्वस्वपूर्वाश्रयात् शिष्यान् क्रमेण, स्वोत्तमभक्तियुक्तान्, स्वयं निषेद्धॄन् मोक्षविरोधिनः कामक्रोधादीन् अनादृत्य यथा संसारात् तारयति तद्वत् तारयामासेति भावः । भुजङ्गप्रयातं वृत्तम् । ‘भुजङ्गप्रयातं चतुर्भिर्यकारैः’ इत्युक्तेः ॥ ९ ॥

**मन्दोपाकारिणी**

इमानिति ॥ तदा प्लवरहितकाले दयालुः कृपावान् मूलाश्रयात्मा मूलः सर्वेषां शिष्याणां मूल आदिभूत आश्रयात्मा आश्रयभूतस्वरूपः सः श्रीमध्वाचार्यः । आत्मवाक्याद् आत्मनः स्वस्य वाक्याद् वचनतः स्वस्वपूर्वाश्रयान् स्वस्मात् स्वस्मात् पूर्वः पुरतो विद्यमानः पुरुष आश्रयो एषां ते तथोक्तास् तान् इमान् स्वशिष्यान् । अनन्यलङ्घ्याम् अन्यलङ्घ्या न भवतीति अनन्यलङ्घ्या तां नावा विना अन्येन पूरुषेण लङ्घितुम् अशक्यां तां नदीं गङ्गाम् । सलीलं लीलया सहितं यथा भवति तथा अनायासेन इत्यर्थः । अत्याययत् तारयामास । अति पूर्वात् ‘अय गतौ’ इत्यतो णिजंताद् लङ् परस्मैपदम् अत्याययद् अत्याययताम् अत्याययन् । किं कृत्वा निषेद्धॄन् न गन्तव्यमिति निवारयतः पुरुषान् अनादृत्य च अलक्षीकृत्य च श्रीमध्व उत्तरदिशं प्रति गच्छन् मार्गे कदाचित् शत्रुभयात् प्लवरहितगङ्गातीरं प्राप्य प्रथमतः नदीं प्रविश्य यान्तमात्मानम् एको गृह्णातु तं च अपरस् तमपि अन्य इति सर्वेऽपि पूर्वपूर्वगन्तुः पृष्ठभागम् आश्रयन्तु इत्येवं स्ववचनात् तम् एकः शिष्यो जग्राह तं च अन्यस् तमपि अपर इत्येवं स्वस्वपूर्वगन्त्राश्रितान् सर्वान् शिष्यान् अनन्यलङ्घ्यां नदीं तारयामास इति भावः । किम् इव संसृतिं वा संसारमिव । ‘वा विकल्पोपमानयोः’ इत्यमरः । स्वस्वपूर्वाश्रयान् क्रमेण स्वस्वोत्तमभक्तियुतान् इति यावत् । सज्जनान् स्वयं निषेद्धॄन् मोक्षविरोधिनः कामक्रोधादीन् अनादृत्य यथा तारयति तथेति भावः । ‘भुजङ्गप्रयातं चतुर्भिर्यकारैः’ इति तल्लक्षणाद् भुजङ्गप्रयातं वृत्तम् ॥ ९ ॥

विश्वास-प्रस्तुतिः - १०

वारयत वारयत वैरिसुहृदोऽमून् मारयत मारयत पारगमनात् प्राक् ।
आपतत आलपत इत्यवददुच्चैः स त्वरकराजपुरुषानुचितवाचा ॥ १० ॥

मूलम् - १०

वारयत वारयत वैरिसुहृदोऽमून् मारयत मारयत पारगमनात् प्राक् ।
आपतत आलपत इत्यवददुच्चैः स त्वरकराजपुरुषानुचितवाचा ॥ १० ॥

पदार्थदीपिकोद्बोधिका

वारयतेति ॥ सः श्रीमध्वः । वैरिसुहृदोऽस्मद्वैरिप्रियानमून् वारयत वारयत निवारयन्तु निवारयन्तु । पारगमनात् तीरगमनात् प्राक् मारयत मारयत । उभयत्रापि सम्भ्रमे द्विरुक्तिः । इत्यालपतो भाषमाणानापततोऽभित आपततस् त्वरकाणां तुरुष्काणां राजा त्वरकराजस् तस्य पुरुषान् भटान् उचितवाचा तान् प्रवक्तुमुचितया वाचा । तुरुष्कभाषयेत्यर्थः । उच्चैरित्यवदत् । इन्दुवदनावृत्तम् । ‘इन्दुवदना भजसनैः सगुरु-युग्मैरि’त्युक्तेः ॥ १० ॥

**मन्दोपाकारिणी**

वारयतेति ॥ सः मध्वः । त्वरकराजपुरुषान् त्वरकाणां तुरुष्काणां राजपुरुषान् प्रति उचितवाचा तुरुष्काणां योग्यभाषया इत्यर्थः । उच्चैर् उच्चध्वनिना इति वक्ष्यमाणरीत्या अवदद् अवोचत् । ‘वद व्यक्तायां वाचि’ लङ् परस्मै-पदम् । किंभूतान् वैरिसुहृदः वैरिणां शत्रूणां सुहृदः मित्राणि अमून् बाहुभ्यामेव गङ्गां तरतः पुरुषान् वारयत वारयत न गन्तव्यमिति निवारयत । एवम् उक्ते सत्यपि अविगणय्य निर्भयेन आगच्छमानान् मध्वादीन् पारगमनाद् अस्मत्तीरस्य प्राप्तेः प्राक् पूर्वमेव मारयत मारयत घातयत घातयत । उभयत्र संभ्रमाद् द्विरुक्तिः । इति इत्थम् आलपतः भाषमाणान् तथा आपततः स्वाभिमुखतः जले पततः । ‘वृञ् वरणे’ इत्यतो णिजन्ताद् लोट् परस्मैपदं वारय वारयतं वारयत । ‘मृञ् प्राणत्यागे’ इत्यतो णिजन्ताद् लोट् परस्मैपदं मारय मारयतं मारयत । इन्दुवदनावृत्तं ‘इन्दुवदना भजसनैः सगुरुयुग्मैः’ इति तल्लक्षणात् ॥ १० ॥

विश्वास-प्रस्तुतिः - ११

न जडा जले पतत साहसादहो न भयं हि वो बहुतयाऽबहोर्जनात् ।
भवतां पतिं क्षितिपतिं दिदृक्षवः प्रतियाम केन कलहं चिकीर्षथ ॥ ११ ॥

मूलम् - ११

न जडा जले पतत साहसादहो न भयं हि वो बहुतयाऽबहोर्जनात् ।
भवतां पतिं क्षितिपतिं दिदृक्षवः प्रतियाम केन कलहं चिकीर्षथ ॥ ११ ॥

पदार्थदीपिकोद्बोधिका

नेति ॥ हे जडा विवेकशून्या यूयं साहसाज् जले न पतत । अहो आश्चर्यम् । भवताम् अविवेकितेति भावः । कुत इत्यत आह— नेति । वो युष्माकं बहुतया अस्मदपेक्षया बहुत्वेन अबहोर् युष्मदपेक्षया अल्पसंख्याकाज् जनाद् भयं न हि । इतश्च जले न पततेत्याह— भवतामिति । वयं भवतां पतिं स्वामिनं क्षितिपतिं राजानं दिदृक्षवो द्रष्टुमिच्छवःसन्तः प्रतियाम प्रत्यागच्छाम । तस्मात्केन केन कारणेन कलहं चिकीर्षथ कर्तुमिच्छथ । इत्यवदद् इत्यन्वयः । मञ्जुभाषिणीवृत्तम् । ‘सजसा जगौ भवति मञ्जुभाषिणी’त्युक्तेः ॥ ११ ॥

**मन्दोपाकारिणी**

नेति ॥ हे जडा विवेकरहिता राजपुरुषा यूयं साहसाद् बलात्काराज् जले उदके न पतत न प्रविशत । अहो आश्चर्यं भवताम् अविवेकित्वम् । कुतः । हि यस्माद् वः युष्माकं बहुतया अस्मदपेक्षया भवतां बहुत्वाद् इत्यर्थः । अबहोर् युष्मदपेक्षया अल्पाज् जनाद् अस्मज्जनाद् भयं नास्ति अतो न पतत इत्यर्थः । इतश्च जले न पतत । वयं भवतां पतिं स्वामिनं क्षितिपतिं क्षितेः पतिं पालकं राजानं दिदृक्षवः द्रष्टुम् इच्छन्तः सन्तः प्रतियाम प्रत्यागच्छाम । तस्मात् केन प्रकारेण कलहं विरोधं चिकीर्षथ कर्तुमिच्छथ इति अवदद् इति अन्वयः । ‘या प्रापणे’ लोट् परस्मैपदं यानि याव याम । ‘डु कृञ् करणे’ सन्नन्ताद् लट् । ‘सजसा जगौ च यदि मञ्जुभाषिणी’ इति तल्लक्षणान् मञ्जुभाषिणी वृत्तम् ॥ ११ ॥

विश्वास-प्रस्तुतिः - १२

वचसेत्यनेन स परान् न्यरुणद् भुजगान्नरेन्द्र इव मन्त्रबलात् ।
उदतारयत्परिजनं मृतिभीसरितश्च देवसरितश्च समम् ॥ १२ ॥

मूलम् - १२

वचसेत्यनेन स परान् न्यरुणद् भुजगान्नरेन्द्र इव मन्त्रबलात् ।
उदतारयत्परिजनं मृतिभीसरितश्च देवसरितश्च समम् ॥ १२ ॥

पदार्थदीपिकोद्बोधिका

वचसेति ॥ सः श्रीमध्वः । इत्येवमुक्तेन अनेन वचसा परान् द्विषतः । नरेन्द्रः कश्चिद्गारुडिगः । नरेन्द्रो विषवैद्यश्चेत्यभिधानम् । मन्त्रबलान् मन्त्र-सामर्थ्याद् भुजगानिव सर्पानिव न्यरुणद् रुरोध । ‘रुधिर् आवरणे’ लङ् । परिजनं स्वसेवकजनं मृतिश्च भीश्च मृतिभियौ तुरुष्केभ्यो मरणभयौ त एव सरित्तस्याः । देवसरितः गङ्गायाश्च समं युगपद् उदतारयद् उत्तारयामास । प्रमिताक्षरावृत्तं ‘प्रमिताक्षरा सजससैः कथिता’ इत्युक्तेः ॥ १२ ॥

**मन्दोपाकारिणी**

वचसेति ॥ सः मध्वः । इति पूर्वोक्तेन अनेन वचसा परान् शत्रून् ‘परोऽरिः परमात्मा च केवले परमेऽव्ययः’ इति भास्करः । न्यरुणन् निरोधितवान् । कः कानिव ? नरेन्द्रः गारुडः पुरुषः ‘नरेन्द्रो विषवैद्यश्च’ इत्यभिधानम् । मन्त्रबलान् मन्त्रसामर्थ्याद् भुजगान् सर्पान् इव तथा परिजनं स्वसेवकजनं मृतिभीसरितः मरणभय-रूपनद्या देवसरितः भागीरथ्याश्च समं युगपद् उदतारयद् उत्तारयामास । जिघांसूनाम् आगच्छमाननां शत्रूणां मध्ववचनेन रोधे सति शिष्या भयं त्यक्त्वा नदीम् अतरन् इति भावः । ‘रुधिर् आवरणे’ लङ् परस्मैपदम् अरुणद् अरुन्धाम् अरुन्धन् । ‘तॄ प्लवन तरणयोः’ णिजन्ताद् लङ् अतारयद् अतारयताम् अतारयन् । ‘प्रमिताक्षरा सजससैः कथिता’ इति प्रमिताक्षरावृत्तम् ॥ १२ ॥

विश्वास-प्रस्तुतिः - १३

निर्विकारचरितोऽपि परीतः क्रूरकिङ्करसहस्रतयेन ।
स व्रजन्नुदलसज्जगदीशः सिंहराडिव सृगालसमूहे ॥ १३ ॥

मूलम् - १३

निर्विकारचरितोऽपि परीतः क्रूरकिङ्करसहस्रतयेन ।
स व्रजन्नुदलसज्जगदीशः सिंहराडिव सृगालसमूहे ॥ १३ ॥

पदार्थदीपिकोद्बोधिका

निर्विकारेति ॥ सः जगदीशः श्रीमध्वः । क्रूरं यत्किङ्करसहस्रतयं तुरुष्कराजभृत्यसहस्रं तेन परीतोऽपि परिवृतोऽपि निर्विकारं चरितं व्यापारो यस्य तादृशः सन् व्रजन् गच्छन् सन् । सृगालसमूहे सृगालवृन्दे सिंहराडिव उदलसत् शुशुभे । स्वागतावृत्तम् । ‘स्वागता रनभगैर्गुरुणा च’ इत्युक्तेः ॥ १३ ॥

**मन्दोपाकारिणी**

निर्विकारेति ॥ जगदीशः जगन्नियामकः सः मध्वः । क्रूरकिङ्करसहस्रतयेन किङ्कराणां राजभृत्यानां तुरुष्काणां सहस्रतयम् । क्रूरं भयंकरं च तत् किंकरसहस्रतयं च तेन । परीतोऽपि परित आवृतोऽपि निर्विकारचरितः निर्विकारं भयकम्पादिविकाररहितं चरितं कर्म यस्य स तथोक्तः सन् व्रजन् गच्छन् उदलसत् शुशुभे । ‘उत् पूर्वकाद् लस श्लेषणक्रीडनयोः’ इत्यतः लङ् परस्मैपदम् । क इव ? सृगालसमूहे सृगालानां जम्बुकानां समूहे मध्ये ‘सृगालवञ्चकक्रोष्टृ’ इत्यमरः सिंहराडिव मृगेन्द्रश्रेष्ठ इव । स्वागतावृत्तं ‘स्वागता रनभगैर्गुरुणा च’ इति ॥ १३ ॥

विश्वास-प्रस्तुतिः - १४

अप्रकम्प्यवपुषं सुरासुरैः सिंहसंहननमेनमुन्नतम् ।
प्राप्तमात्मनगरान्तिकं नृपः प्रेक्ष्य सौधशिखरे स्थितोऽब्रवीत् ॥ १४ ॥

मूलम् - १४

अप्रकम्प्यवपुषं सुरासुरैः सिंहसंहननमेनमुन्नतम् ।
प्राप्तमात्मनगरान्तिकं नृपः प्रेक्ष्य सौधशिखरे स्थितोऽब्रवीत् ॥ १४ ॥

पदार्थदीपिकोद्बोधिका

अप्रकम्प्येति ॥ सौधशिखरे सौधोपरिभागे स्थितो नृपस् तुरुष्कराजः । सुरासुरैर् अप्रकम्प्यम् अधृष्यं वपुर्यस्य तं सिंहसंहननं वराङ्गरूपोपेतम् । ‘वराङ्गरूपोपेतो यः सिंहसंहननो हि सः’ इत्यमरः । उन्नतं प्रांशुमेनं श्रीमध्वम् आत्मनो नगरान्तिकं नगरसमीपं प्राप्तं प्रेक्ष्य इत्यब्रवीत् । रथोद्धतावृत्तं ‘रात्परैर्नरलगै रथोद्धता’ इत्युक्तेः ॥ १४ ॥

**मन्दोपाकारिणी**

अप्रकम्प्येति ॥ सौधशिखरे सौधस्य राजसदनस्य ‘सौधोऽस्त्री राजसदनम्’ इत्यमरः शिखरे उपरिभागे स्थितः विद्यमानः नृपस् तुरुष्कराजः । सुरासुरैः सुराश्च असुराश्च तैः । अप्रकम्प्यवपुषम् अप्रकम्प्यं चालयितुम् अशक्यं वपुः शरीरं यस्य सस् तम् । सिंहसंहननं वराङ्गरूपयुक्तम् अतिसुन्दरम् इत्यर्थः । ‘वराङ्गरूपोपेतो यः सिंहसंहननो हि सः’ इत्यमरः । उन्नतं दीर्घदेहम् एनं मध्वम् आत्मनगरान्तिकम् आत्मनः स्वस्य नगरस्य पट्टणस्य अन्तिकं समीपं ‘उपकण्ठान्तिकाभ्यर्णः’ इत्यमरः । प्राप्तम् आगतं प्रेक्ष्य दृष्ट्वा अब्रवीत् । ‘ब्रूञ् व्यक्तायां वाचि’ लङ् परस्मैपदम् अब्रवीद् अब्रूताम् अब्रुवन् । ‘रान्नराविह रथोद्धता लगौ’ इति रथोद्धतावृत्तम् ॥ १४ ॥

विश्वास-प्रस्तुतिः - १५

रिपुनृपप्रणिधिप्रतिशङ्कया पथिकपाटनकर्मणि दीक्षितैः ।
सुमुख मे परुषैः पुरुषैः कथं यमभटैरिव नासि विहिंसितः ॥ १५ ॥

मूलम् - १५

रिपुनृपप्रणिधिप्रतिशङ्कया पथिकपाटनकर्मणि दीक्षितैः ।
सुमुख मे परुषैः पुरुषैः कथं यमभटैरिव नासि विहिंसितः ॥ १५ ॥

पदार्थदीपिकोद्बोधिका

रिपुनृपेति ॥ हे सुमुख रिपुश्चासौ नृपश्च तस्य प्रणिधयो गूढपुरुषा इति या प्रतिशङ्का अशङ्का तया । ‘प्रणिधिर्गूढपुरुष’ इत्यमरः । पथिकानां पान्थानां पाटनकर्मणि हिंसनकर्मणि दीक्षितैस् तदेकनिरतैर् यमभटैरिव परुषैः क्रूरैर् मे पुरुषैर् भटैः कथं विहिंसितः संहृतो नासि । द्रुतविलम्बितवृत्तं ‘द्रुतविलम्बितमाह नभौ भरावि’त्युक्तेः ॥ १५ ॥

**मन्दोपाकारिणी**

रिपुनृपेति ॥ हे सुमुख सु प्रसन्नं मुखं यस्य स तथोक्तस् तस्य सम्बुद्धिः । रिपुनृपप्रणिधिप्रतिशङ्कया रिपुश्चासौ नृपश्च तस्य प्रणिधियः गूढपुरुषा इति प्रतिशङ्कया । पथिकपाटनकर्मणि दीक्षितैः पथिकानां मार्गस्थजनानां पाटनं हिंसा तद्रूपं च तत् कर्म च तत्र दीक्षितैस् तदेकनिरतैः । यमभटैरिव यमदूतैरिव परुषैर् निर्दयैर् मे पुरुषैर् भृत्यैस् त्वं विहिंसितः हतः कथं नासि न भवसि । मम शत्रुभूतराज्ञः गूढपुरुषा एते इति शङ्कया मार्गे आगच्छमानजनवधनिरतैर् मम भृत्यैः कथं न हतोऽसीति भावः । ‘अस भुवि’ लट् परस्मैपदम् असि स्थः स्थ । ‘द्रुतविलम्बितमाह नभौ भरौ’ इति तल्लक्षणाद् द्रुतविलम्बितं वृत्तम् ॥ १५ ॥

विश्वास-प्रस्तुतिः - १६

अप्लवदेवनदीतरणं ते हन्त कथं च चिकीर्षसि किं त्वम् ।
तं निगदन्तमिति प्रभृतीह स्माह महापुरुषोत्तमदासः ॥ १६ ॥

मूलम् - १६

अप्लवदेवनदीतरणं ते हन्त कथं च चिकीर्षसि किं त्वम् ।
तं निगदन्तमिति प्रभृतीह स्माह महापुरुषोत्तमदासः ॥ १६ ॥

पदार्थदीपिकोद्बोधिका

अप्लवेति ॥ ते तव, न विद्यते प्लवो नावो यस्याः सा च सा देवनदी च तस्यास् तरणं लङ्घनं कथं केन प्रकारेण? हन्त प्लवरहितगङ्गातरणम् आश्चर्यमिति भावः । त्वं किञ्च किं वा चिकीर्षसि? इतः परं किं कर्तुमिच्छसि? इत्यब्रवीदिति पूर्वेणान्वयः । महांश्चासौ पुरुषोत्तमदासश्च स श्रीमध्वः । इह, इति प्रभृतिर् आदिर् यस्य तदितिप्रभृति इत्यादिवाक्यमित्यर्थः । निगदन्तं तं नृपतिं तद्भाषया इत्याद्यं चित्रं वाक्यम् आह स्म इत्युत्तरश्लोकेनान्वयः । दोधकवृत्तं ‘दोधकमिच्छति भत्रितयाद्गावित्युक्तेः ॥ १६ ॥

**मन्दोपाकारिणी**

अप्लवेति ॥ हे सुमुख प्रसन्नवदन ते तव अप्लवदेवनदीतरणं न विद्यन्ते प्लवः नावो यस्यां सा अप्लवा च सा देवनदी गङ्गा च तस्यास् तरणम् उल्लङ्घनं कथं केन प्रकारेण ? हन्त प्लवं विहाय गङ्गातरणम् आश्चर्यम् इति भावः । त्वं किञ्च किं वा चिकीर्षसि ? इतः किं वा कर्तुम् इच्छसि ? इत्यादि अब्रवीद् इति पूर्वेण अन्वयः । ‘डु कृञ् करणे’ सन्नन्ताद् लट् परस्मैपदं चिकीर्षसि चिकीर्षथश् चिकीर्षथ । महापुरुषोत्तमदासः महांश्चासौ पुरुषोत्तमस् तस्य हरेर् दासः श्रीमध्वाचार्यः । इतिप्रभृति एवम् आदिवाक्यं निगदन्तं ब्रुवन्तं तं तुरुष्कराजं प्रति इह तुरुष्कसभायां तद्भाषया तुरुष्कराजस्य भाषया इत्याद्यम् एवमाद्यं चित्रवाक्यम् आश्चर्यकरवाक्यम् आह स्म अब्रवीद् इति उत्तरश्लोकस्थेन अन्वयः । स्म अतीते । दोधकवृत्तं ‘दोधकमिच्छति भत्रितयाद्गौ’ ॥ १६ ॥

विश्वास-प्रस्तुतिः - १७

योऽसौ देवो विश्वदीपः प्रदीप्तः कुर्मः सर्वं तत्परानुग्रहेण ।
यामस्तावत् तूर्णमाशामुदीचीमित्याद्यं तद्भाषया चित्रवाक्यम् ॥ १७ ॥

मूलम् - १७

योऽसौ देवो विश्वदीपः प्रदीप्तः कुर्मः सर्वं तत्परानुग्रहेण ।
यामस्तावत् तूर्णमाशामुदीचीमित्याद्यं तद्भाषया चित्रवाक्यम् ॥ १७ ॥

भावप्रकाशिका

किं ललाटे इति पृष्टो राज्ञा करेण गदां भवन्तो बिभ्रन्ति वयं ललाटे इत्यूचे इत्याद्यशब्दार्थः ।

पदार्थदीपिकोद्बोधिका

य इति ॥ विश्वं दीपयति प्रकाशयति इति विश्वदीपः । विश्वप्रकाशको योऽसौ देवः प्रदीप्तः प्रकाशमानः । सर्वम् अशेषं कर्म तत्परानुग्रहस् तस्य परमानुग्रहस् तेन कुर्मः । कथम् अप्लवदेवनदीतरणम् इत्यादेरिदमुत्तरम् । तावत् तूर्णम् उदीचीम् आशाम् उत्तरां दिशं यामो गच्छामः । किं चिकीर्षसि इत्यस्योत्तरमेतत् । इति आद्यं यस्य तदित्याद्यं चित्रवाक्यं तद्भाषया आह स्म । शालिनीवृत्तम् । ‘मस्तौ गौ चेच्छालिनी वेद लोकै’रित्युक्तेः ॥ १७ ॥

**मन्दोपाकारिणी**

य इति ॥ यः विश्वदीपः जगतः प्रकाशको ऽसौ सूर्यस्थितः देवः नारायणः प्रदीप्तः प्रकाशमानो वर्तते । तत्परानुग्रहेण तस्य परमात्मनः परेण उत्तमेन अतिशयितेन अनुग्रहेण सर्वम् अन्यासाध्यनदीतरणादिसमस्तं कर्म वयं कुर्मः । ‘डु कृञ् करणे’ लट् परस्मैपदं करोमि कुर्वः कुर्मः । अप्लवदेवनदीतरणं ते कथम् इत्यस्य इदम् उत्तरम् उक्त्वा किं चिकीर्षसि इत्यस्य उत्तरमाह ॥ याम इति । वयं तावत् प्रथमं तूर्णं सत्वरं ‘सत्वरं चपलं तूर्णं’ इत्यमर उदीचीम् उत्तराम् आशां दिशं ‘आशा दिगभिलाषयोः’ इत्यमरः यामः गच्छामः । ‘या प्रापणे’ लट् परस्मैपदं यामि यावः यामः । इत्याद्यम् आह स्म इति पूर्वेणान्वयः । शालिनीवृत्तं ‘शालिन्युक्ता न्तौ तगौ गोऽब्धिलोकैः’ ॥ १७ ॥

विश्वास-प्रस्तुतिः - १८

गाम्भीर्यं धृतिमुरुवीर्यमार्यभावं तेजोऽग्रयं गिरमपि देशकालयुक्ताम् ।
राजाऽस्य स्फुटमुपलभ्य विस्मितोऽस्मै राज्यार्धं सपदि समर्पयाम्बभूव ॥ १८ ॥

मूलम् - १८

गाम्भीर्यं धृतिमुरुवीर्यमार्यभावं तेजोऽग्रयं गिरमपि देशकालयुक्ताम् ।
राजाऽस्य स्फुटमुपलभ्य विस्मितोऽस्मै राज्यार्धं सपदि समर्पयाम्बभूव ॥ १८ ॥

पदार्थदीपिकोद्बोधिका

गाम्भीर्यमिति ॥ राजा श्रीमध्वस्य गाम्भीर्यं धृतिं धैर्यं, उरुवीर्यम् उत्कृष्टसामर्थ्यं, आर्यभावं, पूज्यतां, विद्वत्तां वा, अग्रयं तेजः, देशश्च कालश्च ताभ्यां युक्तां योग्यामित्यर्थः । गिरमपि स्फुटं सम्यक् उपलभ्य प्राप्य श्रुत्वा दृष्ट्वा च इत्यर्थः । विस्मितः सन् सपदि अस्मै श्रीमध्वाय राज्यार्धं राज्यस्य अर्धभागं समर्पयाम्बभूव । प्रहर्षिणीवृत्तं ‘आशाभिर्मनजरगाः प्रहर्षिणीयमि’त्युक्तेः ॥ १८ ॥

**मन्दोपाकारिणी**

गाम्भीर्यमिति ॥ राजा तुरुष्कराजः । अस्य मध्वाचार्यस्य गाम्भीर्यं गम्भीरत्वं धृतिं धैर्यम् उरुवीर्यम् उत्कृष्टपौरुषं च आर्यभावं पूज्यत्वं विद्वत्तां वा अग्रयं श्रेष्ठं तेजः ब्रह्मवर्चः, देशकालयुक्तां देशश्च कालश्च तयोर् युक्ताम् उचितां गिरमपि वाक्यमपि ‘गीर्वाग्वाणी सरस्वती’ इत्यमरः । स्फुटं स्पष्टम् उपलभ्य प्राप्य दृष्ट्वा श्रुत्वा च इति भावः । विस्मित आश्चर्ययुक्तः सन् सपदि तत्क्षण एव ‘सद्यः सपदि तत्क्षणे’ इत्यमरो ऽस्मै श्रीमध्वाय राज्यार्धं राज्यस्य अर्धं ‘पुंस्यर्धोऽर्धं समेंऽशके’ इत्यमरः समर्पयांबभूव दत्तवान् । समर्पयाम् इत्येतद् आम् प्रत्ययान्तम् अव्ययम् । ‘त्र्याशाभिर्मनजरगाः प्रहर्षणीयम्’ ॥ १८ ॥

विश्वास-प्रस्तुतिः - १९

दण्डार्हबुद्धिविषयो नृपपूरुषाणां राज्यार्हबुद्धिविषयोऽभवदित्थमेषः ।
नीतिं प्रकाशयितुमेव विपत्सु कार्यां गन्तुं प्रभुः प्रसभतोऽपि तथा व्यधात्सः ॥१९॥

मूलम् - १९

दण्डार्हबुद्धिविषयो नृपपूरुषाणां राज्यार्हबुद्धिविषयोऽभवदित्थमेषः ।
नीतिं प्रकाशयितुमेव विपत्सु कार्यां गन्तुं प्रभुः प्रसभतोऽपि तथा व्यधात्सः ॥१९॥

पदार्थदीपिकोद्बोधिका

दण्डेति ॥ नृपपूरुषाणां नृपभटानां दण्डार्हो दण्डनयोग्य इति या बुद्धिस् तस्या विषय एष श्रीमध्वः । इत्थं नृपस्य राज्यार्ह इति बुद्धिस् तस्या विषयोऽभवत् । स प्रसभतो बलाद्गन्तुं प्रभुरपि समर्थोऽपि प्रसभतो गन्तुमशक्तानां विपत्सु आपत्सु कार्यां नीतिं तत्तद्देशकालात्मशक्तयाद्यनुसारेण प्रवृत्तिप्रकारं दर्शयितुमेव तथा व्यधाच् चकार । यथा राजा राजपुरुषाश्च परितुष्टा भवेयुस् तथा कृतवानिति भावः । वसन्ततिलकावृत्तं ‘उक्ता वसन्ततिलका तभजा जगौ गः’ इत्युक्तेः ॥ १९ ॥

**मन्दोपाकारिणी**

दण्डेति ॥ नृपपूरुषाणां नृपस्य भृत्यानां दण्डार्हबुद्धिविषयः दण्डस्य हिंसारूपस्य अर्हः योग्य इति बुद्धेर् विषयः गोचरः । ‘दण्डोऽस्त्री शासने राज्ञां हिंसायां लगुडे वने’ इति वैजयन्ती । एषः श्रीमध्वाचार्य इत्थं पूर्वोक्तप्रकारेण राज्यार्हबुद्धिविषयो ऽयं मध्वः राज्यस्य अर्हः योग्य इति बुद्धेर् विषयो ऽभवत् । ननु स्वस्य यतित्वाद् राजानं तृणीकृत्य गन्तुं समर्थत्वान् निषिद्धतुरुष्कभाषया राजसम्भाषणं कुतः कृतवान् मध्व इत्यत आह ॥ नीतिमिति ॥ सः मध्वाचार्यः प्रसभतः बलात्काराद् गन्तुं प्रभुरपि समर्थोऽपि असमर्थानां विपत्सु आपत्सु कार्यां कर्तुं योग्यां नीतिं तद्देशकालात्मशक्त्याद्यनुसारेण प्रवृत्तिप्रकारं प्रकाशयितुमेव तथा तुरुष्कभाषणादिप्रकारं व्यधाच् चक्रे । ‘वि पूर्वाड् डु धाञ् धातोः’ लुङ् परस्मैपदम् अधाद् अधाताम् अधुः । ‘उक्ता वसन्ततिलका तभजा जगौ गः’ इत्युक्तेर् वसन्ततिलकावृत्तम् ॥ १९ ॥

कदाचिच्चोराणां निकरमवलोक्याभिपतता-
मवस्थाप्य स्वीयान् करगपटपिण्डार्थमतिकृत् ।
विश्वास-प्रस्तुतिः - २०

चरन्नेतेष्वेतानथ मिथ इहाघातयदहो
विभुः सम्मोह्य प्राग्विजय इव संशप्तकगणान् ॥ २० ॥

मूलम् - २०

चरन्नेतेष्वेतानथ मिथ इहाघातयदहो
विभुः सम्मोह्य प्राग्विजय इव संशप्तकगणान् ॥ २० ॥

भावप्रकाशिका

करतलगतपटपिण्डं कनकमिति विचिन्त्य हन्तुकामा मध्वं, परस्परं जघ्नुः ॥ २० ॥

पदार्थदीपिकोद्बोधिका

कदाचिदिति ॥ विभुः श्रीमध्वः । कदाचिद् अभिपततां चोराणां निकरं समूहमवलोक्य स्वीयान् स्वकीयान् सर्वान् अवस्थाप्य एकत्र स्थापयित्वा । स्वयमेकं पटं पिण्डीकृत्य गृहीत्वा करं हस्तं गच्छतीति करगः स चासौ पटश्च तस्य पिण्डे या अर्थमतिर् धनमतिस् तां करोतीति तादृशः सन् । एतेषु चोरेषु मध्ये चरन्नितस्ततः पर्यटन् एतान् संमोह्य मोहयित्वा प्राक्पूर्वं भारतयुद्ध इत्यर्थः । विजयो ऽर्जुनः ‘बीभत्सुर्विजयः पार्थः सव्यसाची धनञ्जय’ इति भारतोक्तेः । संशप्तकगणानिव मिथः परस्परमघातयत् । ‘हन हिंसागत्योः’ णिजन्ताल्लङ् । शिखरिणीवृत्तं ‘रसै रुद्रैश् छिन्ना यमनसभलागः शिखरिणी’त्युक्तेः ॥ २० ॥

**मन्दोपाकारिणी**

इदानीं चरितान्तरं कथयतीत्याह ॥ कदाचिद् इति ॥ विभुः समर्थः मध्वः । कदाचिद् अभिपततां स्वात्मानं प्रति अभिमुखम् आगच्छमानानां चोराणां तस्कराणां निकरं समूहं ‘स्तोमौघनिकरव्रातवारसङ्घातसंचयाः’ इत्यमरः । अवलोक्य दृष्ट्वा स्वीयान् शिष्यान् एकत्र स्थले अवस्थाप्य । स्वयम् एकं काषायपटं पिण्डीकृत्य गृहीत्वा करगपटपिण्डार्थमतिकृत् करे पाणौ गच्छतीति करगः स चासौ पटः वस्त्रं च तस्मिन् पिण्डभूतपटे इति यावत् । अर्थ इति धनम् एतद् इति मतिं बुद्धिं करोतीति कृद् उत्पादयन् सन् । एतेषु चोरेषु तस्करनिकरमध्ये एव चरन् इतस्ततः संचरन् एतान् चोरान् संमोह्य मोहयित्वा मिथः परस्परम् अघातयद् घातयामास । कः कानिव प्राक् कौरवपाण्डवयुद्धकाले विजयो ऽर्जुनः संशप्तकगणान् दैत्यसमूहानिव । यथा अर्जुनस् तेषु संमोहनास्त्रं प्रयुज्य परस्परम् अर्जुनबुद्धिम् उत्पादयित्वा तान् अघातयत् तथा मध्वः प्रावरणकषायवस्त्रं पिण्डीकृत्य स्वहस्ते गृहीत्वा चोरमध्ये इतस्ततः पर्यटन् वस्त्रपिण्डे धनमेतद् इति बुद्धिं तेषाम् उत्पाद्य इदं धनम् अहमेव गृहीष्यामि इति धनाशया परस्परं सर्वांश्च चोरान् अघातयद् इति भावः । ‘हन हिंसागत्योः’ लङ् परस्मैपदम् अघातयद् अघातयताम् अघातयन् । ‘रसै रुद्रैश्च्छिन्ना यमनसभलागः शिखरिणी’ इति शिखरिणीवृत्तम् ॥ २० ॥

विश्वास-प्रस्तुतिः - २१

अन्यत्र च चोरान् धन्यप्रवरोऽसौ शूरान् शतसङ्ख्यान् प्राप्तान् स्वजिघांसून् ।
एकेन तु शिष्येणाकृष्टकुठारान् निस्ताडितयूथ्यानद्रावयत द्राक् ॥ २१ ॥

मूलम् - २१

अन्यत्र च चोरान् धन्यप्रवरोऽसौ शूरान् शतसङ्ख्यान् प्राप्तान् स्वजिघांसून् ।
एकेन तु शिष्येणाकृष्टकुठारान् निस्ताडितयूथ्यानद्रावयत द्राक् ॥ २१ ॥

भावप्रकाशिका

अन्यत्र ‘दस्यूनवाप्तानवलोक्य सोऽब्रवीत् को मेऽस्ति शिष्यो विभयो जवीत्यलम् । अभ्यासवांस्तूर्णमुपेन्द्रतीर्थस्तत्तेजसा क्रूरचमूं प्रभोऽभ्ययात् ॥ २१ ॥

पदार्थदीपिकोद्बोधिका

अन्यत्रेति ॥ असौ धन्यप्रवरः श्रीमध्वः । अन्यत्र च शतं संख्या येषां तान् शूरान् स्वस्य जिघांसून् प्राप्तान् आगतान् । एकेन शिष्येण उपेन्द्रतीर्थाख्येन आकृष्टा कुठाराः परशवो येभ्यस् तान् । तेनैव शिष्येण यूथे भवो यूथ्यः निस्ताडितो नितरां ताडितो यूथ्यो येषां तान् चोरान् द्राक् अद्रावयद् द्रावयामास । मणिमालावृत्तं ‘त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रैरि’त्युक्तेः ॥ २१ ॥

**मन्दोपाकारिणी**

अन्यत्रेति ॥ धन्यप्रवरः ‘निरपेक्ष्यगुणैः पूर्णो धन्य इत्यभीधीयते’ इत्युक्तेर् धन्यानां श्रेष्ठो ऽसौ मध्वः । अन्यत्र इतोऽन्यत्रापि स्थले च शतसङ्ख्यान् शतं सङ्ख्या येषां तान् शूरान् पराक्रमिणः स्वजिघांसून् स्वं स्वात्मानं हन्तुम् इच्छन्तीति स्वजिघांसवस् तान् प्राप्तान् आगतान् चोरान् द्राक् खटिति ‘द्राङ् मङ्क्षु सपदिद्रुते’ इत्यमरो ऽद्रावयत द्रावयामास । ‘द्रु गतौ ’ णिजन्ताल्लङ् आत्मनेपदम् । किं भूतान् एकेन तु एकेनैव शिष्येण उपेन्द्रतीर्थाख्येन इति संप्रदायः । आकृष्टकुठारान् आकृष्टः बलाद् अपहृतः कुठारः परशुर् येषां ते आकृष्टकुठारास् तान् । ‘द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः’ इत्यमरः । निस्ताडितयूथ्यान् तेनैव शिष्येण तेनैव कुठारेण नितरां ताडितो यूथ्यः यूथे भवः कश्चनचोरश्रेष्ठः येषां तान् । ‘त्यौ त्यौ मणिमाला छिन्ना गुहवक्त्रै’ इति मणिमालावृत्तम् ॥ २१ ॥

विश्वास-प्रस्तुतिः - २२

क्वचिच्छिलाच्छटाभ्रमादमुं ससङ्घमत्यजन् ।
अवेक्ष्य दस्यवः पुनः कुतूहलात् तमानमन् ॥ २२ ॥

मूलम् - २२

क्वचिच्छिलाच्छटाभ्रमादमुं ससङ्घमत्यजन् ।
अवेक्ष्य दस्यवः पुनः कुतूहलात् तमानमन् ॥ २२ ॥

भावप्रकाशिका

अपरत्र च ‘अचलास्तिष्ठतेत्युक्त्वा शिष्यान् दस्यूनवञ्चयत् । मध्वस्तेऽपि गताः पश्चात्तत्र नैक्षन्त कञ्चन ॥ २२ ॥

पदार्थदीपिकोद्बोधिका

क्वचिदिति ॥ क्वचिद् अन्यत्र दस्यवः, ससंघं शिष्यसमूहसहितम् अमुं मध्वं दृष्ट्वा शिलानां छटेति भ्रमात् । ‘सटाच्छटाभिन्नघनेन बिभ्रते’त्यादिप्रयोगाच् छटाशब्दः समूहार्थे प्रसिद्धः । एते शिलासमूहा न मनुष्या इति भ्रान्तेरित्यर्थः । ससङ्घममुमत्यजन् । पुनः पश्चाद् अवेक्ष्य कुतूहलात् कौतुकात् तं श्रीमध्वम् आनमन् । प्रमाणिकावृत्तं ‘प्रमाणिका जरौ लगौ’ इत्युक्तेः ॥ २२ ॥

**मन्दोपाकारिणी**

क्वचिदिति ॥ क्वचिद् अन्यत्र स्थले दस्यवश् चोराः पूर्वं सशिष्यं मध्वं दृष्ट्वा शिलाच्छटाभ्रमाद् एते शिलानां पाषाणानां छटा समूह एव न मनुष्यव्यूह इति भ्रमाद् भ्रान्त्या ‘छटा समूहपरयोः’ इति विश्वः ससंघं शिष्यसमूहेन सहितम् अमुं मध्वम् अत्यजन् परित्यक्तवन्तः । ‘त्यज विसर्गे ’ लङ् परस्मैपदम् । पुनः पश्चात् ससंघम् अमुं गच्छन्तम् अवेक्ष्य दृष्ट्वा कुतूहलाद् आश्चर्येण तं मध्वम् आनमन् । नमतेर् लङ् परस्मैपदम् । कुत्रचित् सशिष्यो मध्वः शिलासमूहत्वेन चोरदृष्टिविषयो भूत्वा पश्चान् मनुष्यत्वेन तैर् दृष्टस् तादृशमाहात्म्यं दृष्ट्वा ते नेमुर् इति भावः । ‘प्रमाणिका जरौ लगौ’ इति प्रमाणिकावृत्तम् ॥ २२ ॥

विश्वास-प्रस्तुतिः - २३

सत्योच्छेदे सेच्छायातं व्याघ्राकारं दैत्यव्याघ्रम् ।
प्रालेयाद्रेः प्रान्ते प्राज्ञः पाणेर्लीलालेशेनास्यत् ॥ २३ ॥

मूलम् - २३

सत्योच्छेदे सेच्छायातं व्याघ्राकारं दैत्यव्याघ्रम् ।
प्रालेयाद्रेः प्रान्ते प्राज्ञः पाणेर्लीलालेशेनास्यत् ॥ २३ ॥

भावप्रकाशिका

मध्वं दुर्विषहं मत्वा देवं सङ्गृह्य चाग्रतः । आयान्तं सत्यतीर्थार्यं जिघांसुर्व्याघ्र आपतत् ॥ २३ ॥

पदार्थदीपिकोद्बोधिका

सत्येति ॥ प्राज्ञः सर्वज्ञः श्रीमध्वः । प्रालेयाद्रेर् हिमाचलस्य । ‘अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् । प्रालेयं मिहिका चाथे’त्यमरः । प्रान्ते समीपे सत्यस्य सत्यतीर्थस्योच्छेदे संहारे । देवं सङ्गृह्याग्रतो गच्छतः सत्यतीर्थस्य हिंसायामिति यावत् । इच्छया सहितं सेच्छम् आयातम् आगमनं यस्य तम् । व्याघ्रस्याकार इवाकारो यस्य तं दैत्यव्याघ्रं दैत्यश्रेष्ठम् । ‘स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूल-नागाद्याः पुंसि श्रेष्ठार्थवाचका’ इत्यमरः । पाणेर्हस्तस्य लीलाया लेशेन एकदेशेन । पाणिना किञ्चित् ताडनमात्रेणेत्यर्थः । आस्यन् निराचक्रे । असु क्षेपणे लङ् । तथोक्तं – ‘मध्वं दुर्विषहं मत्वा देवं सङ्गृह्य चाग्रतः । प्रयान्तं सत्यतीर्थार्यं जिघांसुर् व्याघ्र आपतत्’ इति । विद्युन्मालावृत्तं ‘मो मो गो गो विद्युन्माले’त्युक्तेः ॥ २३ ॥

**मन्दोपाकारिणी**

सत्येति ॥ प्राज्ञः श्रीमध्वः । प्रालेयाद्रेर् हिमवत्पर्वतस्य प्रान्ते समीपे सत्योच्छेदे सत्यस्य सत्यतीर्थस्य उच्छेदे हिंसायां तादर्थ्ये सप्तमी हन्तुं सेच्छायातम् इच्छया सहितं सेच्छं तादृशम् आयातम् आगमनं यस्य सः । स्वेच्छायातमिति पाठे स्वस्य इच्छया आगमनवन्तम् इत्यर्थः । देवं गृहीत्वा पुरतो गच्छतः सत्यतीर्थस्य हिंसेच्छया आगतम् इति भावः । व्याघ्राकारं शार्दूलस्य आकारो देहो यस्य सस् तं ‘शार्दूलद्वीपिनौ व्याघ्रे’ इत्यमरः । दैत्यव्याघ्रं दैत्यश्रेष्ठं पाणेः करस्य लीलालेशेन लीलायाः ‘लीलाविलासक्रिययोः’ इत्यमरः लेशेन लवेन ‘लवलेशकणाणवः’ इत्यमरः । पाणिना किंचित् ताडनमात्रेणेति भावः । आस्यन् निराकरोत् । ‘असु क्षेपणे’ लङ् परस्मैपदम् आस्यद् आस्यताम् आस्यन् । ‘मध्वं दुर्विषहं मत्वा देवं सङ्गृह्य चाग्रतः । आयान्तं सत्यतीर्थार्यं जिघांसुर् व्याघ्र आपतत्’ इति ऐतिह्यम् । वृत्तं तु विद्युन्माला ‘मो मो गो गो विद्युन्माला’ इति ॥ २३ ॥

विश्वास-प्रस्तुतिः - २४

प्राप स नारायणतः शुद्धशिलात्मप्रतिमाः ।
यासु स पद्मासहितो दोष्यहितः सन्निहितः ॥ २४ ॥

मूलम् - २४

प्राप स नारायणतः शुद्धशिलात्मप्रतिमाः ।
यासु स पद्मासहितो दोष्यहितः सन्निहितः ॥ २४ ॥

भावप्रकाशिका

तीर्थं स्वपार्श्वभूमिं च मोक्तुं नेच्छति सन्मतौ । त्वत्स्नानाम्बुनि गङ्गा स्याच्छिलास्वास्वहमित्यदात् ॥ २४ ॥

पदार्थदीपिकोद्बोधिका

प्रापेति ॥ स श्रीमध्वः । बदरिकाश्रमं प्राप्य नारायणतः शुद्धाः पवित्रा याः शिलात्मप्रतिमाः शिला आत्मा स्वरूपं यासां ताः शिलात्मानस् ताश्च ताः प्रतिमाश्च ताः प्राप लेभे । यासु प्रतिमासु, दोषः भगवद्द्वेषादिदोष एषामस्तीति दोषिणस् तेषाम् अहितः स श्रीनारायण एव पद्मासहितः रमया सहितः सन्निहितः । माणवकवृत्तं ‘भात्तलगामाणवकमि’त्युक्तेः ॥ २४ ॥

मन्दोपाकारिणी

प्रापेति ॥ स एतादृशमहिमा मध्वः । शिष्यान् मनुष्यगोचरे बदरिकाश्रमे संस्थाप्य मनुष्यागोचरबदरिकाश्रमं प्राप्य तत्र नारायणतः धर्मपुत्रान् नारायणात् हरेः शुद्धशिलात्मप्रतिमाः शुद्धाः पवित्राः शिलाः सिकताख्यसूक्ष्मपाषाणाः शुद्धाश्च ताः शिलाश्च आत्मा स्वरूपं यासां ताः शुद्धशिलात्मानस् ताश्च ताः प्रतिमाश्च इति विग्रहः । तास् तथा च सैकतमुष्टित्वप्रसिद्धियुक्ता प्राप लब्धवान् । प्रपूर्वकात् ‘आप्लृ व्याप्तौ’ लिट् परस्मैपदम् । कीदृश्यः प्रतिमा यासु शिलामयप्रतिमासु पद्मासहितः लक्ष्म्या युक्तः स नारायण एव सन्निहितो वर्तते तादृशा इत्यर्थः । दोष्यहितः दोषिणां विष्णुवैष्णवद्वेष-विशेषवताम् अहितो ऽप्रियः । यद्यपि नारायणदत्ताः शिलाप्रतिमा लक्ष्मीनारायणेन सन्निहितत्वाद् लक्ष्मीनारायणसंज्ञका एव । तथापि वेदव्यासेन दापितत्वाद् वेदव्यासप्रतिमा इत्युच्यन्ते । अतः न विरोधः । ताश्च शिला अष्टसङ्ख्याका ज्ञेयास् तच्चोक्तं वायुपुराणे मध्वावतारे । ‘इष्ट्या व्यासाश्रमं गच्छन् मुख्यप्रेष्यो यतो मरुत् । प्रणिपत्य महान् मध्वो व्यासं निजगुरुं परम् ॥ विज्ञापयामास भूमौ स्वव्यापृतसुदुष्करम् । निशम्य तस्य वाक्यानि व्यासः सर्वान्तरात्मकः ॥ स्वाधिष्ठानान् परं चाष्टौ ग्रावाणः कृपया ददौ’ इति स्वाधिष्ठानान् स्वस्वरूपलक्ष्मीनारायणसन्निहितान् ग्रावाणः ग्राव्णः पाषाणान् ददौ दापितवान् इति प्रमाणार्थः । अथवा नारायणतः नारायणावताराद् वेदव्यासात् शुद्धशिलात्मप्रतिमाः प्राप । यासु दोष्यहितः नारायणरूपव्यास एव पद्मासहितः सन्निहितोऽस्तीति व्याख्येयम् । वेदव्यासस्य ऋषित्वप्रसिद्ध्या भगवदनवतारत्वभ्रान्तिं परिहर्तुं नारायणतः पद्मासहित इति वेदव्यासस्य विशेषणद्वयम् उक्तम् । एवं लोकप्रसिद्धिः प्रमाणं च अनुकूलं भवति । वृत्तं तु माणवकं ‘माणवकम् भात्तलगा’ इति ॥ २४ ॥

विश्वास-प्रस्तुतिः - २५

पाराशर्यः परतत्त्वप्रसिद्ध्यै तात्पर्यार्थं परमं भारतस्य ।
व्यक्तं वक्तुं नियुनक्ति स्म साक्षादेनं धन्यं भुवने मन्यमानः ॥ २५ ॥

मूलम् - २५

पाराशर्यः परतत्त्वप्रसिद्ध्यै तात्पर्यार्थं परमं भारतस्य ।
व्यक्तं वक्तुं नियुनक्ति स्म साक्षादेनं धन्यं भुवने मन्यमानः ॥ २५ ॥

पदार्थदीपिकोद्बोधिका

पाराशर्य इति ॥ पराशरस्य अपत्यं पुमान् श्रीव्यासः । भुवने जगत्येनं श्रीमध्वं साक्षान्मुख्यतो धन्यं मन्यमानः सन् जानन् सन्, परतत्त्वस्य भगवत्स्वरूपस्य प्रसिद्ध्यै सम्यग्ज्ञानाय । भारतस्य महाभारतस्य परमं तात्पर्यार्थं तात्पर्यसिद्धार्थं व्यक्तं स्पष्टं यथा भवति तथा वक्तुम् एनं श्रीमध्वं नियुनक्ति स्म न्ययोजयत् । युजिर् योगे लट् । वातोर्मीवृत्तं ‘वातोर्मीयं गदिता म्भौ तगौ ग’ इत्युक्तेः ॥ २५ ॥

मन्दोपाकारिणी

पाराशर्य इति ॥ एवम् अष्टशिलारूपप्रतिमादानानन्तरं पाराशर्यः पराशरर्षेर् अपत्यं वेदव्यासः । परतत्त्वप्रसिद्ध्यै परस्य परमात्मनस् तत्त्वस्य अबाधितस्वरूपस्य प्रसिद्ध्यै सम्यग्ज्ञापनाय मुक्तियोग्यानां भगवत्स्वरूपज्ञानार्थम् । भारतस्य महाभारतस्य परमं मुख्यं स्वाभिप्रेतं तात्पर्यार्थं तात्पर्यरूपम् अर्थम् अभिधेयं व्यक्तं स्पष्टं यथा भवति तथा वक्तुं कथयितुम् एनं मध्वाचार्यं नियुनक्ति स्म न्ययोजयद् आज्ञापितवान् । निपूर्वात् ‘युजिर् योगे’ लट् परस्मैपदं नियुनक्ति नियुङ्क्तः नियुञ्जन्ति’ । कथंभूतः भुवने एनं मध्वं साक्षान् मुख्यतः धन्यं निरपेक्षगुणपूर्णं मन्यमानः जानन् । ‘निरपेक्षगुणैः पूर्णो धन्य इत्यभिधीयते’ इत्युक्तेः । वृत्तं तु वातोर्मी ‘वातोर्मीयं गदिता म्भौ तगौ गः’ ॥ २५ ॥

विश्वास-प्रस्तुतिः - २६

तीर्थेषु तीर्थेषु च सौख्यतीर्थः क्षेत्रेषु च क्षेत्रविदां वरिष्ठः ।
गोविन्दमावन्द्य सहानुगोऽगाद् गङ्गां पुनस्तुङ्गतरङ्गमालाम् ॥ २६ ॥

मूलम् - २६

तीर्थेषु तीर्थेषु च सौख्यतीर्थः क्षेत्रेषु च क्षेत्रविदां वरिष्ठः ।
गोविन्दमावन्द्य सहानुगोऽगाद् गङ्गां पुनस्तुङ्गतरङ्गमालाम् ॥ २६ ॥

पदार्थदीपिकोद्बोधिका

तीर्थेष्विति ॥ क्षेत्राणि विदन्तीति क्षेत्रविदस् तेषां क्षेत्रपरिज्ञानवतां मध्ये वरिष्ठः । सुखमेव सौख्यं सौख्यकरं तीर्थं शास्त्रं यस्मात् सः श्रीमध्वः । तीर्थेषु पवित्रेषु । ‘तीर्थं मन्त्र्याद्युपाध्यायशास्त्रेष्वम्भसि पावने । पात्रापायावतारेष्वि’ति वैजयन्ती । तीर्थेषु च क्षेत्रेषु च गोविन्दं श्रीहरिम् आवन्द्य सहानुगः सशिष्यः सन् पुनः, तुङ्गा उन्नतास् तरङ्गमालास् तरङ्गपंक्तयो यस्याम् । तां गङ्गाम् अगात् । ‘इण् गतौ’ लुङ् । इन्द्रवज्रावृत्तम् ‘स्यादिन्द्रवज्रा यदि तौ जगौ गः’ इत्युक्तेः ॥ २६ ॥

मन्दोपाकारिणी

तीर्थेष्विति ॥ एवम् आज्ञप्तः सौख्यतीर्थ आनन्दतीर्थः पुन आगमनसमये तीर्थेषु पवित्रेषु तीर्थेषु ऋषिजुष्टजलाशयेषु । ‘निपानागमयोस् तीर्थमृषिजुष्टजले गुरौ’ इत्यमरः । क्षेत्रेषु च प्रसिद्धस्थानेषु कुरुक्षेत्रादिषु पुण्यस्थानेषु इत्यर्थः । ‘क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः’ इति विश्वः । विद्यमानं गोविन्दं नारायणम् आवन्द्य सम्यक् नत्वा स्तुत्वा च सहानुगो ऽनुगैः शिष्यैः सहितः सन् पुनः भूयस् तुङ्गतरङ्गमालां तुङ्गा उन्नताश्च ते तरङ्गा ऊर्मयश्च ‘भङ्गस्तरङ्ग ऊर्मिर्वा’ इत्यमरस् तेषां माला पङ्क्तिर् यस्यास् तथोक्ता तां ‘माला तून्नतभूर्माला पङ्क्तौ पुष्पादिदामनि’ इति भास्करः । गङ्गाम् अगात् प्राप्तवान् । ‘इण् गतौ’ लुङ् परस्मैपदम् अगाद् अगाताम् अगुः । किंभूतः क्षेत्रविदां क्षेत्रं विदन्ति जानन्तीति क्षेत्रविदः । क्षेत्रज्ञा जीवात्मानस् तेषां मध्ये वरिष्ठः श्रेष्ठः सर्वजीवोत्तम इति भावः । ‘क्षेत्रज्ञ आत्मा पुरुषः’ इत्यमरः । मध्वः वेदव्यासाज्ञां गृहीत्वा पुनः परावृत्तिकाले तत्र तीर्थेषु क्षेत्रेषु च विद्यमानं नारायणं सेवमानः सन् पुनः भागीरथीनदीं प्राप इति भावः । इन्द्रवज्रावृत्तं ‘स्यादिन्द्रवज्रा यदि तौ जगौ गः’ ॥ २६ ॥

विश्वास-प्रस्तुतिः - २७

प्लवैरपेतामवलोक्य सिन्धुं सरोजबन्धुं च तदाऽऽप्तसिन्धुम् ।
तटे निषण्णानधिकं विषण्णान् निरीक्ष्य शिष्यानतरत्स एताम् ॥ २७ ॥

मूलम् - २७

प्लवैरपेतामवलोक्य सिन्धुं सरोजबन्धुं च तदाऽऽप्तसिन्धुम् ।
तटे निषण्णानधिकं विषण्णान् निरीक्ष्य शिष्यानतरत्स एताम् ॥ २७ ॥

पदार्थदीपिकोद्बोधिका

प्लवैरिति ॥ सः श्रीमध्वः । तदा सिन्धुं गङ्गां प्लवैर् नौभिर् अपेतां रहिताम् अवलोक्य सरोजबन्धुं च पद्मबन्धुं सूर्यं च । आप्तः प्राप्तः सिन्धुः समुद्रो येन’ तम् । अस्तङ्गतमिति यावत् । ‘देशे नदविशेषेऽब्धौ सिन्धुर्ना सरित् स्त्रियामि’त्यमरः । अवलोक्य अधिकं यथा भवति तथा विषण्णान् भीतान् तटे गङ्गातीरे निषण्णान् शिष्यान् निरीक्ष्यैतां गङ्गाम् अतरत् । उपेन्द्रवज्रावृत्तं ‘उपेन्द्रवज्रा जतजास्ततो गौ’ इत्युक्तेः ॥ २७ ॥

मन्दोपाकारिणी

प्लवैरिति ॥ सः मध्वः । एतां गङ्गाम् अतरद् लङ्घितवान् । किं कृत्वा ? तदा स्वागमनकाले सिन्धुं भागीरथीनदीं ‘सिन्धुः समुद्रे नद्यां च’ इति विश्वः । प्लवैर् नौभिर् अपेतां रहिताम् अवलोक्य दृष्ट्वा । सरोजबन्धुं सरोजानां पद्मानां बन्धुः सुहृत् सूर्यस् तम् आप्तसिन्धुम् आप्तः प्राप्तः सिन्धुः समुद्रः येन स तथोक्तस् तम् अस्तंगतम् इत्यर्थो ऽवलोक्य दृष्ट्वा । अधिकं यथा भवति तथा विषण्णान् उद्वेगयुक्तान् तटे गङ्गातीरे निषण्णान् उपविष्टान् शिष्यान् निरीक्ष्य दृष्ट्वा तथा प्लवरहितां गङ्गां दृष्ट्वा सायंकाले जाते सति इतःपरं किं कुर्म इति विषादं प्राप्य तीरे उपविष्टान् शिष्यान् दृष्ट्वा स्वयम् एक एव जलस्तंभनं कृत्वा अनार्द्रवासाः सन् गङ्गां लङ्घितवान् इति भावः। जलस्तंभनं तु वारिसंस्तं- भयोगादिति अणुमध्वविजयोक्तं ज्ञेयम् । ‘तॄ प्लवनतरणयोः’ इत्यतो लङ् परस्मैपदम् । उपेन्द्रवज्रावृत्तं ‘उपेन्द्रवज्रा जतजास्ततो गौ’ इत्युक्तेः ॥ २७ ॥

विश्वास-प्रस्तुतिः - २८

न वानरेन्द्रस्य विलङ्घिताब्धेर् न वा नरेन्द्रस्य विहर्तुरस्याम् ।
इमेऽस्मरंस्तद्वपुषोऽन्यथाऽस्य शक्तस्य शङ्क्येत विपत् कथं तैः ॥ २८ ॥

मूलम् - २८

न वानरेन्द्रस्य विलङ्घिताब्धेर् न वा नरेन्द्रस्य विहर्तुरस्याम् ।
इमेऽस्मरंस्तद्वपुषोऽन्यथाऽस्य शक्तस्य शङ्क्येत विपत् कथं तैः ॥ २८ ॥

पदार्थदीपिकोद्बोधिका

नेति ॥ इमे श्रीमध्वशिष्याः । विलङ्घितोऽब्धिर् येन तस्य वानरेन्द्रस्य कपिश्रेष्ठस्य हनुमतो नास्मरन् । अधीगर्थदयेति कर्मणि षष्ठी । अस्यां गङ्गायां विहर्तुर् नरेन्द्रस्य राज्ञो भीमसेनस्य वा नास्मरन् । अन्यथा तीर्णाब्धिं हनुमन्तं वा कौमारे गङ्गायां विरहन्तं भीमसेनं वा अस्मरंश्चेत् । हनुमदादितनुरेव श्रीमुख्यप्राणो मध्वनामा प्रादुर्बभूवेति श्रुतम् अस्मरंश्चेदिति भावः । तर्हि तद्वपुषः पूर्वं हनुमदादिस्वरूपवतश्शक्तस्य गङ्गातरणे समर्थस्य अस्य श्रीमध्वस्य विपत् तैः शिष्यैः कथं शङ्क्येत । शकि शङ्कायां लिट् । तत्स्मरणाभावादस्य विपदमाशङ्किर इति भावः । उपजातिवृत्तं ‘अनन्तरोदीरित- लक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः’ इति लक्षणात् । इतः परं चतुर्दशश्लोकेषूप- जातिवृत्तम् ॥ २८ ॥

मन्दोपाकारिणी

ननु समुद्रादिलङ्घनसमर्थहनुमदादिस्वरूपे मध्वाचार्ये स्थिते सति शिष्याणां विषादः कथमित्यत आह ॥ नेति ॥ इमे मध्वाचार्यशिष्याः । विलङ्घिताब्धेस् तीर्णः समुद्रो येन तस्य वानरेन्द्रस्य मर्कटानाम् इन्द्रस्य ‘मर्कटो वानरः कीशः’ इत्यमरः हनूमतः हनुमन्तम् इत्यर्थः नास्मरन् न स्मृतवन्तः । अस्यां गङ्गायां विहर्तुः कौमारावस्थायां बाहुभ्यां परं पारं प्रति तरणरूपजलक्रीडां कुर्वतः नरेन्द्रस्य वा नराणां मनुष्याणां श्रेष्ठस्य भीमसेनस्य वा इत्यर्थः नास्मरन् । हनुमदादिरूप एव श्रीमुख्यप्राणः मध्वनामा प्रादुर्बभूव इति पूर्वं श्रुतं तदा नास्मरन् इति भावः । ‘स्मृ स्मरणे’ लङ् परस्मैपदम् । अन्यथा पूर्वश्रुतस्य स्मरणसत्वे तद्वपुषस् तस्य हनुमदादेर् वपुस् तद्वपुस् तस्य हनुमदादिस्वरूपस्य शक्तस्य गङ्गातरणे समर्थस्य अस्य श्रीमध्वस्य विपद् गङ्गातरणाशक्तिस् तैः शिष्यैः कथं शङ्क्येत संभाव्येत न कथमपीत्यर्थः । अतः स्मरणाभावादेव अस्य असमर्थत्वशङ्कया शिष्याणां विषाद इति भावः । ‘शकि शङ्कायां कर्मणि विधिलिङ् शङ्क्येत शङ्क्येयातां शङ्क्येरन् । वानरेन्द्रस्य नरेन्द्रस्य इत्यत्र अधीगर्थदयेशां कर्मणीति कर्मणि षष्ठी । इमं श्लोकमारभ्य चतुर्दशश्लोका इन्द्रोपेन्द्रवज्रावृत्तलक्षणोपेतपादवत्तया उपजातय इत्युच्यन्ते । ‘अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयौ उपजातयस्ताः’ इति लक्षणाद् इदम् आद्यपादेन्द्र-वज्रोपजातिवृत्तम् ॥ २८ ॥

विश्वास-प्रस्तुतिः - २९

जगत्प्रदीपायितगोगणाढ्ये दिवाकरे मध्वदिवाकरे च ।
अव्यक्तरूपे श्रियमत्यजन् द्राक् सहाम्बुजैस्तन्नयनाम्बुजानि ॥ २९ ॥

मूलम् - २९

जगत्प्रदीपायितगोगणाढ्ये दिवाकरे मध्वदिवाकरे च ।
अव्यक्तरूपे श्रियमत्यजन् द्राक् सहाम्बुजैस्तन्नयनाम्बुजानि ॥ २९ ॥

पदार्थदीपिकोद्बोधिका

जगदिति ॥ प्रदीपवद् आचरन्तीति प्रदीपायिता जगतां लोकानां प्रदीपायिता ये गोगणा रश्मिसमूहास् तैर् आढ्यः सम्पन्नस् तस्मिन् दिवाकरे सूर्येऽव्यक्तं रूपं यस्य तस्मिन् । अस्तमिते सतीत्यर्थः जगत्प्रदीपायितगोगणाढ्ये जगत्प्रदीपायितवाक्समूहसम्पन्ने मध्वदिवाकरे च मध्वाख्यसूर्ये च अव्यक्तरूपे सति चक्षुरविषये सति । तेषां शिष्याणां नयनानि अम्बुजानि इव तानि । अम्बुजैः पद्मैः सह द्राक्छ्रियं कान्तिम् अत्यजन् । त्यज हानौ लङ् । अयं भावः रवौ अस्तङ्गते सति मध्वम् अदृष्ट्वा विजने तटे बिभ्यतां शिष्याणां नेत्रकान्तिर् अपगमदिति ॥ २९ ॥

मन्दोपाकारिणी

जगदिति ॥ जगत्प्रदीपायितगोगणाढ्ये जगतां लोकानां प्रदीपायिताः प्रदीपवद् आचरन्तीति जगत्प्रकाशा इति यावत् ते च ते गावः रश्मयश्च तेषां गणः समूहस् तेन आढ्ये सम्पन्ने दिवाकरे सूर्ये ‘द्वादशात्मा दिवाकरः’ इत्यमरो ऽव्यक्तरूपे सति अव्यक्तम् आच्छादितं रूपं स्वरूपं यस्य तस्मिन् अस्तं गते सति इत्यर्थः । तथा जगत्प्रदीपायितगोगणाढ्ये जगतां लोकानां प्रदीपायिता गावो वाचश्च तासां गणस् तेन आढ्ये सतां परापरतत्त्वबोधकवाक्यसमूहयुक्ते इत्यर्थः । मध्वदिवाकरे च मध्वाख्यसूर्ये च अव्यक्तरूपे अदृश्यमाने सति । ‘गौर्नाके वृषभे चन्द्रे वाग्भूदिग्धेनुषु स्त्रियाम् । द्वयोस्तु रश्मिदृग्बाणस्वर्गवज्राम्बुलोमसु’ इति रत्नमाला । तन्नयनाम्बुजानि तेषां शिष्याणां नयनान्येव कमलानि । अम्बुजैः प्रसिद्धसरोजैः सह द्राक् शीघ्रं श्रियं शोभाम् अत्यजन् व्यसृजन् । अयं भावः सूर्येऽस्तं गते मध्वाचार्यम् अदृष्ट्वा जनरहिते तटे भयं प्राप्तवतां शिष्याणां नेत्रविकासोऽपगमत् । ‘त्यज विसर्गे लट् परस्मैपदम्’ । तृतीयपादेन्द्र-वज्रोपजातिः ॥ २९ ॥

विश्वास-प्रस्तुतिः - ३०

पदं पशोर्वा विनतातनूजस्तीर्त्वा नदीं तावददीनसत्वः ।
अनार्द्रवासाः सकुतूहलार्द्रैर्नृदेवभूदेवमुखैर्ववन्दे ॥ ३० ॥

मूलम् - ३०

पदं पशोर्वा विनतातनूजस्तीर्त्वा नदीं तावददीनसत्वः ।
अनार्द्रवासाः सकुतूहलार्द्रैर्नृदेवभूदेवमुखैर्ववन्दे ॥ ३० ॥

पदार्थदीपिकोद्बोधिका

पदमिति ॥ अदीनं सम्पूर्णं सत्वं बलं यस्य सः श्रीमध्वः । तां नदीं गङ्गां विनतातनूजो गरुडः पशोर् गोः पदं वा पदमिव तावत् शीघ्रं तीर्त्वा । अनार्द्रं वासो वस्त्रं यस्य तादृशः सन् । नावा विनापि तां महानदीं तीर्त्वा अनार्द्रवसनः सन् इत्यर्थः । अत एव कुतूहलार्द्रैः कुतूहलपूर्णैर् नृदेवा भूपा भूदेवा विप्रास् ते मुखा मुख्या येषां तैर् जनैर् ववन्दे वन्दितोऽभूत् ॥ ३० ॥

मन्दोपाकारिणी

पदमिति ॥ अदीनसत्वो ऽदीनं सम्पूर्णं सत्वं बलं यस्य सः मध्वः । नदीं गङ्गां विनतातनूजः विनतायाः कश्यपपत्न््नयास् तनूजः पुत्रः ‘गरुडस् तार्क्ष्यो वैनतेयः खगेश्वरः’ इत्यमरः । पशोर् गवादिपशोः पदं वा पदपरिमितविस्तृतं जलमिव तावद् आदौ तीर्त्वा उल्लङ्घ्य । अनेन आयासाभावः सूचितः । अनार्द्रवासा आर्द्रं न भवतीति अनार्द्रं वासः कौपीनादिवस्त्रं यस्य तथोक्तस्सन् ‘वस्त्रमाच्छादनं वासः’ इत्यमरः । कुतूहलार्द्रैर् आश्चर्येण आर्द्रैर् युक्तैर् नृदेवभूदेवमुखैर् नृदेवः राजा भूदेवा द्विजास् त एव मुखानि प्रधाना येषां तैः परतीरस्थैर् जनैर् ववन्दे नमस्कृतोऽभूत् । नावा विनापि नदीं तीर्त्वा अनार्द्रवस्त्रं मध्वं दृष्ट्वा परतीरस्थराजादयः महाश्चर्येण नमश्चक्रुर् इति भावः ॥३०॥

विश्वास-प्रस्तुतिः - ३१

भीतैररातेरतिमात्रमत्र नतारकैरप्यथ तारकैः सः ।
स्वतेजसा विस्मितभूपनुन्नैः प्लवेन शिष्यान् निरतारयत् ताम् ॥ ३१ ॥

मूलम् - ३१

भीतैररातेरतिमात्रमत्र नतारकैरप्यथ तारकैः सः ।
स्वतेजसा विस्मितभूपनुन्नैः प्लवेन शिष्यान् निरतारयत् ताम् ॥ ३१ ॥

पदार्थदीपिकोद्बोधिका

भीतैरिति ॥ अथ स श्रीमध्वः । अत्र गङ्गातटे अरातेः शत्रोर् अतिमात्रम् अत्यन्तं भीतैः । अत एव तारका न भवन्तीति नतारकास्तैः । नैकधेत्यादिवन्न समासोऽयम् । स्वतेजसा प्लवादिरहितनदीतरणेऽपि अनार्द्रवस्त्रत्वादि स्वसामर्थ्येन तद्दर्शनेनेत्यर्थः । विस्मितभूपनुन्नैर् विस्मितनृपप्रेरितैस् तारकैर् दाशैः । कर्तरि तृतीया । प्लवेन करणे तृतीया । शिष्यांस्तां गङ्गां निरतारयत् तारयामास ॥ ३१ ॥

मन्दोपाकारिणी

भीतैरिति ॥ अथ जननमस्कारग्रहणानन्तरं सः मध्वः । अत्र स्वाधिष्ठितगङ्गातीरे अरातेः शत्रोः ‘अभिघाति परारातिः’ इत्यमरो ऽतिमात्रम् अत्यन्तं भीतैर् भयं प्राप्तैर् अत एव नतारकैर् नञ् समासोऽयम् अतारकैः । जनान् नदीम् अनुत्तारयद्भिर् अपि तारकैः प्लवोपजीविभिर् दाशैः प्लवेन नावा शिष्यान् तां नदीं निरतारयत् तारयामास । किंभूतैः ? स्वतेजसा प्लवादिरहितनदीतरणेऽपि अनार्द्रवस्त्रत्वादि-सामर्थ्येन तद्दर्शनेनेति यावत् । विस्मितभूपनुन्नैर् आश्चर्ययुक्तराजप्रेरितैर् नावादि विना नदीतरणेऽपि अनार्द्रवस्त्रादिमहिमानं दृष्ट्वा विस्मितो राजा शत्रुभयात् कमपि अतारयद्भिर् दाशैर् मध्वशिष्यान् अतारयद् इति भावः । तारकैर् इति कर्तरि तृतीया । प्लवेनेति करणे तृतीयेति ज्ञेयम् । आद्यपादे इन्द्रवज्रोपजातिः ॥ ३१ ॥

विश्वास-प्रस्तुतिः - ३२

विशङ्कटं स्वस्तटनीतटं ते दीपप्रदीप्तं जनताभिपूर्णम् ।
सञ्चोदयत्पण्डितमण्डलाढ्यं नाथावलोकोत्कहृदोऽभ्यपश्यन् ॥ ३२ ॥

मूलम् - ३२

विशङ्कटं स्वस्तटनीतटं ते दीपप्रदीप्तं जनताभिपूर्णम् ।
सञ्चोदयत्पण्डितमण्डलाढ्यं नाथावलोकोत्कहृदोऽभ्यपश्यन् ॥ ३२ ॥

भावप्रकाशिका

जनता जनसमूहः । ‘ग्रामजनबन्धुभ्यस्तलि’ति तल् ॥ ३२ ॥

पदार्थदीपिकोद्बोधिका

विशङ्कटमिति ॥ नाथस्य श्रीमध्वस्य अवलोकेन दर्शनेन । दर्शने इति वा उत्कम् उत्कण्ठायुक्तं हृन् मनो येषां तादृशास् ते शिष्याः । विशङ्कटं विस्तीर्णं दीपप्रदीप्तं दीपेन प्रकाशमानं जनानां समूहो जनता तयाभिपूर्णं सञ्चोदयन्तो विप्रतिपन्नप्रमेयं वेदार्थं वा पृच्छन्तो ये पण्डिता विद्वांसस् तेषां यन्मण्डलं समूहस् तेन आढ्यं निबिडं स्वः स्वर्गस्य तटिनी नदी गङ्गा तस्यास् तटम् अभ्यपश्यन् ॥ ३२ ॥

मन्दोपाकारिणी

विशङ्कटमिति ॥ नाथावलोकोत्कहृदः नाथस्य स्वस्वामिनः मध्वाचार्यस्य अवलोके दर्शने उत्कम् उत्कण्ठायुक्तं हृन् मनो येषां ते । कदा नु अस्मत् स्वामिनं मध्वं चक्षुषा ईक्ष्याम इति औत्सुक्ययुक्ता इति भावः । ‘रागे त्वलब्धविषये वेदना महती तु या । संशोषणं तु गात्राणां ताम् उत्कण्ठां विदुर् बुधाः’ इत्यभिधानम् । एतादृशास् ते शिष्या नदीं तीर्त्वा विशङ्कटं विशालं ‘विशङ्कटं पृथु बृहद्विशालं’ इत्यमरः दीपप्रदीप्तं दीपेन प्रकाशमानम् । जनताभिपूर्णं जनसमूहेन सर्वत्र पूर्णं सङ्कुलम् । संचोदयत्पण्डि-तमण्डलाढ्यं संचोदयन्तः विप्रतिपन्नं प्रमेयं वा वेदाद्यर्थं वा पृच्छन्तस् ते च ते पण्डिताश्च तेषां मण्डलेन समूहेन आढ्यं स्वस्तटिनीतटं ‘स्वरव्ययं स्वर्गनाकत्रिदिवस्त्रिदशालयाः’ इत्यमरः स्वर्गस्य तटिनी नदी ‘तटिनी ह्रादिनी धुनी’ इत्यमरः स्वर्नदी गङ्गा तस्यास् तटम् अभ्यपश्यन् दृष्टवन्तः । अभिपूर्वो ‘दृशिर् प्रेक्षणे लङ्’ परस्मैपदम् । आद्यपादोपेन्द्र-वज्रोपजातिः ॥ ३२ ॥

विश्वास-प्रस्तुतिः - ३३

आम्नायमाम्नायविदां विदग्धं सभावभेदं प्रवदन्तमत्र ।
दैव्यां सभायामिव पद्मयोनिं प्रैक्षन्त साक्षात् सुखतीर्थमेते ॥ ३३ ॥

मूलम् - ३३

आम्नायमाम्नायविदां विदग्धं सभावभेदं प्रवदन्तमत्र ।
दैव्यां सभायामिव पद्मयोनिं प्रैक्षन्त साक्षात् सुखतीर्थमेते ॥ ३३ ॥

पदार्थदीपिकोद्बोधिका

आम्नायमिति ॥ एते श्रीमध्वशिष्या अत्र गङ्गातटे आम्नायविदां वेदविदां विदग्धं चतुरम् । भावभेदेन अभिप्रायविशेषेण सहितं यथा भवति तथा सभावभेदम् आम्नायं वेदं प्रवदन्तं व्याचक्षाणं सुखतीर्थं श्रीमध्वम् । देवानां सम्बन्धिनी दैवी तस्यां सभायां, पद्मं योनिः कारणं यस्य तम् इव साक्षात् प्रत्यक्षत ऐक्षन्त ददृशुः ॥ ३३ ॥

मन्दोपाकारिणी

आम्नायमिति ॥ एते शिष्या अत्र गङ्गातटस्थपण्डितमण्डले सुखतीर्थम् आनन्दतीर्थं साक्षात् प्रत्यक्षतः प्रैक्षन्त दृष्टवन्तः । ‘साक्षात्प्रत्यक्षतुल्ययोः’ इत्यमरः । किं भूतम् ? आम्नायविदां वेदार्थज्ञानिनां ‘श्रुतिः स्त्री वेद आम्नायः’ इत्यमरस् तेषां मध्ये विदग्धं निपुणम् । सभावभेदं भावोऽभिप्रायस् तस्य भेदेन विशेषेण सहितं यथा तथा ‘भावः सत्ता स्वभावे’ इत्यमर आम्नायं वेदं प्रवदन्तं व्याचक्षाणम् । कमिव ? दैव्यां देवसम्बन्धिन्यां सभायां पद्मयोनिम् इव विरिञ्चिमिव । धाताब्जयोनिर् इत्यमरः । प्रपूर्व ‘ईक्ष दर्शनाङ्कनयोः’ लङ् आत्मनेपदम् ऐक्षत ऐक्षेताम् ऐक्षन्त ॥ ३३ ॥

विश्वास-प्रस्तुतिः - ३४

प्राप्तस्ततो हस्तिनराजधानीं मासानुवासेह स वासयोग्यान् ।
मठान्तरेऽनन्तगुणान्तरः सन्नेकान्तदेशे सरितोऽसमीपे ॥ ३४ ॥

मूलम् - ३४

प्राप्तस्ततो हस्तिनराजधानीं मासानुवासेह स वासयोग्यान् ।
मठान्तरेऽनन्तगुणान्तरः सन्नेकान्तदेशे सरितोऽसमीपे ॥ ३४ ॥

पदार्थदीपिकोद्बोधिका

प्राप्त इति ॥ ततः हस्तिनाया च सा राजधानी नगरी तां प्राप्तः सः श्रीमध्वः । सरितः गङ्गायाः समीपो न भवतीत्यसमीपस्तस्मिन् एान्तश्चासौ देशश्च तस्मिन् । मठान्तरे मठान्तरस्तस्मिन् । अनन्तस्य तटतस्य श्रीहरेर् ये गुणास्

तेषु अन्तरं मनो यस्य तादृशः सन् वासयोग्यान् मासान् उवास । चातुर्मासानुवासेति

भावः ॥ ३४ ॥

मन्दोपाकारिणी

प्राप्त इति ॥ ततस् तस्माद् गङ्गातटात् हस्तिनराजधानीं तन्नामकपुरीं प्राप्तः गतः सः मध्वः सरितः गङ्गानद्या असमीपे किञ्चिद्दूरे एकान्तदेशे जनरहितप्रदेशे मठान्तरे कस्मिंश्चिन्मठविशेषे वासयोग्यान् चातुर्मास्यानुष्ठानवासस्य योग्यान् मासान् इह वर्षाकाले उवास । वर्षाकाले चातुर्मास्यव्रतसिद्ध्यर्थम् उवास इति भावः । कथं भूतस्सन् ? अनन्तगुणान्तरस्सन् अनन्तस्य विष्णोर् गुणेषु अन्तरं मनः यस्य । ‘वस निवासे’ लिट् परस्मैपदम् उवास ऊषतुर् ऊषुः ॥ ३४ ॥

विश्वास-प्रस्तुतिः - ३५

भित्त्वा भुवं देवनदी जगाम शाखाविशेषेण निषेवितुं तम् ।
वाणी च यत्प्रेष्यतया कृतार्था शिवादिवन्द्या न तदत्र चित्रम् ॥ ३५ ॥

मूलम् - ३५

भित्त्वा भुवं देवनदी जगाम शाखाविशेषेण निषेवितुं तम् ।
वाणी च यत्प्रेष्यतया कृतार्था शिवादिवन्द्या न तदत्र चित्रम् ॥ ३५ ॥

पदार्थदीपिकोद्बोधिका

भित्वेति ॥ देवनदी गङ्गा तं श्रीमध्वं निषेवितुं शाखाविशेषेण शाखाप्रभेदेन भुवं भित्वा जगाम । यस्माच्छिवादिवन्द्या वाणी सरस्वती च यत्प्रेष्यतया यस्य श्रीमध्वस्य प्रेष्यतया दासीत्वेन कृतोऽर्थः प्रयोजनं यया तादृशी कृतकृत्या । तस्मादत्र श्रीमध्वे तत्, गङ्गा तं सिषेव इत्येतच् चित्रम् आश्चर्यं न ॥ ३५ ॥

मन्दोपाकारिणी

भित्वेति ॥ देवनदी भागीरथी तं मध्वं निषेवितुं सेवितुं शाखाविशेषेण मध्वाधिष्ठितमठसमीपे कस्यचिद् वृक्षविशेषस्य शाखाविशेषेण उपलक्षितां भुवं भूमिं भित्वा विदार्य जगाम ययौ । ‘गम्लृ गतौ’ लिट् परस्मैपदं जगाम जग्मतुर् जग्मुः । अत्र मध्वाचार्ये तत् ‘‘गङ्गा सिषेवे इति एतत्’’ चित्रम् आश्चर्यं न न भवति । कुतः ? शिवादिवन्द्या शिवः रुद्र आदिर् येषां तैर् देवैर् वन्द्या नमस्कार्या । वाणी ब्रह्मणः स्त्री सरस्वती च यत्प्रेष्यतया यस्य मध्वस्य प्रेष्याया भावः प्रेष्यता तया परिचारकत्वेन ‘नियोज्यकिङ्करप्रेष्यभुजिष्यपरिचारकाः’ इत्यमरः कृतार्था कृतः सम्पादितो अर्थः पुरुषार्थो यया सा तथोक्ता सती वर्तते इति । गङ्गापेक्षया अत्युत्तमरुद्रादिसेव्या सरस्वती च यस्य मध्वरूपस्य वायोः सेवां कृत्वा कृतकृत्या आस्ते तस्य मध्वस्य सेवां कर्तुं गङ्गाया गमनं नाश्चर्यमिति भावः । अन्त्यपादोपेन्द्रवज्रोपजातिः ॥ ३५ ॥

विश्वास-प्रस्तुतिः - ३६

गुरुप्रबर्हस्य पदारविन्दं विदूरतः सा प्रणनाम मूर्ता ।
औदार्यसौन्दर्यतनुं तनुं तामालक्ष्य शिष्यैरतिविस्मितं तैः ॥ ३६ ॥

मूलम् - ३६

गुरुप्रबर्हस्य पदारविन्दं विदूरतः सा प्रणनाम मूर्ता ।
औदार्यसौन्दर्यतनुं तनुं तामालक्ष्य शिष्यैरतिविस्मितं तैः ॥ ३६ ॥

पदार्थदीपिकोद्बोधिका

गुर्विति ॥ मूर्ता प्राकृतदृष्टिगोचररूपा सा गङ्गा । गुरुप्रबर्हस्य गुरुश्रेष्ठस्य श्रीमध्वस्य पदारविन्दं विदूरतः प्रणनाम । तैः शिष्यैर् औदार्यञ्च सौन्दर्यञ्च तयोस् तनुं मूर्तिभूतां तां गङ्गासम्बन्धिनीं तनुं स्वरूपम् आलक्ष्य दृष्ट्वा अतिविस्मितम् अत्यन्तं विस्मयः प्राप्तः ॥ ३६ ॥

मन्दोपाकारिणी

गुरुप्रबर्हस्येति ॥ सा भागीरथी मूर्ता सती मनुष्यदृष्टिविषये स्त्रीरूपा सती । गुरुप्रबर्हस्य गुरुश्रेष्ठस्य ‘प्रबर्होऽनुत्तमोत्तमः’ इत्यमरः श्रीमध्वस्य पदारविन्दं चरणम् अरविन्दमिव विदूरतः किञ्चिद्दूरे प्रणनाम नमस्कृतवती । प्र पूर्वात् ‘णमु प्रह्वत्वे’ शब्दे चेत्यतः लिट् परस्मैपदम् । तदा तैः शिष्यैर् औदार्यसौन्दर्यतनुम् औदार्यम् उदारत्वं महत्वं ‘उदारो दातृमहतोः’ इत्यमरः सौन्दर्यं सुन्दरत्वं च औदार्यसौन्दर्ये तनुः स्वरूपं यस्यास् ताम् अतिसौन्दर्योपेताम् इति भावः । तनुं मूर्तां तां स्त्रियं विग्रहवतीं गङ्गामिति यावत् । आलक्ष्य दृष्ट्वा अतिविस्मितम् आश्चर्यं प्राप्तम् । पूर्वार्धोपेन्द्रवज्रोपजातिः ॥ ३६ ॥

विश्वास-प्रस्तुतिः - ३७

तेनोपयातेन कदाचनाथ वाराणसीं पापनिवारणेन ।
अवादि वाणी बलिनः स्वशिष्यान् विलोक्य लीलावसरेऽवलिप्तान् ॥ ३७ ॥

मूलम् - ३७

तेनोपयातेन कदाचनाथ वाराणसीं पापनिवारणेन ।
अवादि वाणी बलिनः स्वशिष्यान् विलोक्य लीलावसरेऽवलिप्तान् ॥ ३७ ॥

पदार्थदीपिकोद्बोधिका

तेनेति ॥ अथ चातुर्मास्यावसानानन्तरं कदाचिद् वारणासीं काशीम् उपयातेन पापानां निवारणं निवारकस्तेन । तेन श्रीमध्वेन लीलावसरे क्रीडासमयेऽवलिप्तान् दृप्तान् । बलमेषामस्तीति बलिनस् तान् स्वशिष्यान् विलोक्य इति वक्ष्यमाणप्रकारेण वाणी वाक् अवादि उक्ता ॥ ३७ ॥

मन्दोपाकारिणी

तेनेति ॥ अथ चातुर्मास्यव्रतसमाप्त्यनन्तरं कदाचन पापनिवारणेन पापानां निरासेन निमित्तेन वाराणशीं काशीपुरीम् उपयातेन प्राप्तेन पापानां निवारणं येन सस् तेन पापहारकेण इत्यर्थः । तेन श्रीमध्वेन वाणी वाक्यम् अवादि उक्ता । ‘वद व्यक्तायां वाचि’ इत्यतः कर्मणि लुङ् आत्मनेपदम् अवादि अवादिषाताम् अवादिषत । किं कृत्वा ? लीलावसरे लीलायाः क्रीडाया अवसरे काले अवलिप्तान् दृप्तान् बलिनः बलिष्ठान् स्वशिष्यान् विलोक्य । चातुर्मास्यसमाप्त्यनन्तरं काशीक्षेत्रं गत्वा तत्र क्रीडासमये वयं बलवन्त इति गर्वयुक्तशिष्यान् दृष्ट्वा तेषां गर्वपरिहाराय मध्वः वक्ष्यमाणवाक्यम् अवोचद् इति भावः । उत्तरार्धोपेन्द्रवज्रोपजातिः ॥ ३७ ॥

विश्वास-प्रस्तुतिः - ३८

नियुद्धसिद्ध्यै युगपद्धि वीरम्मन्या भवन्तोऽभिपतन्तु मां द्राक् ।
समस्तशक्तिं न युनक्ति यः स्वामत्रास्मदाज्ञां स निराकरोति ॥ ३८ ॥

मूलम् - ३८

नियुद्धसिद्ध्यै युगपद्धि वीरम्मन्या भवन्तोऽभिपतन्तु मां द्राक् ।
समस्तशक्तिं न युनक्ति यः स्वामत्रास्मदाज्ञां स निराकरोति ॥ ३८ ॥

भावप्रकाशिका

वीरम्मन्या ‘आत्ममाने खश्चे’ति खश् । ‘अरुर्द्विषदजन्तस्य मुमि’ति मुम् ॥ ३८ ॥

पदार्थदीपिकोद्बोधिका

नियुद्धेति ॥ आत्मनो वीरान् मन्यन्त इति वीरम्मन्याः । ‘आत्ममाने खश्चे’ति खश् । खित्वादरुर्द्विषदजन्तस्य मुमिति मुमागमः । भवन्तो नियुद्ध-सिद्ध्यै बाहुयुद्धसिद्ध्यै । ‘नियुद्धं बाहुयुद्धं स्यादि’त्यमरः । द्राक् माम् अभिपतन्तु । योऽत्र मया सह नियुद्धे स्वाम् आत्मीयां समस्तशक्तिं न युनक्ति न नियोजयति सोऽस्माकमाज्ञाम् अस्मदाज्ञां निराकरोति उल्लङ्घयति । नियुद्धे यो मयि समस्तां शक्तिं न नियोजयति तस्य मदाज्ञोल्लङ्घनदोषः स्यादिति भावः ॥ ३८ ॥

मन्दोपाकारिणी

किमवोचद् इत्यत आह ॥ नियुद्धेति ॥ हे वीरम्मन्याः स्वान् वीरान् मन्यमानाः । आत्ममाने खश् चेति खश् प्रत्ययः । अरुर्द्विषदजंतस्य मुमिति मुमागमः । भवन्तः युगपदि एकदा एव मिलिता एव इति भावः । नियुद्धसिद्ध्यै द्वन्द्वयुद्धस्य सिद्ध्यै साधनाय द्राक् शीघ्रं माम् अभि मां प्रति पतन्तु आयान्तु । यो ऽत्र मया सह नियुद्धे स्वां स्वात्मीयां समस्तशक्तिं न युनक्ति न प्रयोजयति सो ऽस्मदाज्ञां निराकरोति उल्लङ्घयति । हे शिष्या वयमेव बलवन्त इति गर्ववन्तो यूयं सर्वेऽपि युगपदेव मया सह द्वन्द्वयुद्धं कुरुत । तस्मिन् समये भवतां सर्वशक्तिं मयि प्रयोजयत । अन्यथा मदाज्ञोल्लङ्घनदोषो भवतां भवेदेव इति शिष्याणां शपथं स्थापितवान् इति भावः । ‘पत्लृ पतने’ लोट् परस्मैपदं पततु पततां पतन्तु । नियरोति निर् पूर्वात् ‘डु कृञ् करणे’ लट् परस्मैपदम् । प्रथमतृतीयपादोपेन्द्रवज्रोपजातिः ॥ ३८ ॥

विश्वास-प्रस्तुतिः - ३९

इतीरयन् पञ्चदशैष यूनः प्राप्तान् प्रयुद्धान् युगपन्निपात्य ।
उत्थीयतां यस्य समर्थता स्यादिति ब्रुवाणोऽशनकैर्जहास ॥ ३९ ॥

मूलम् - ३९

इतीरयन् पञ्चदशैष यूनः प्राप्तान् प्रयुद्धान् युगपन्निपात्य ।
उत्थीयतां यस्य समर्थता स्यादिति ब्रुवाणोऽशनकैर्जहास ॥ ३९ ॥

पदार्थदीपिकोद्बोधिका

इतीति ॥ एषः श्रीमध्वः । इति पूर्वोक्तप्रकारेण ईरयन् युगपत् प्राप्तान् प्रकर्षेण स्वसमस्तशक्तया युध्यन्तीति प्रयुद्धास्तान् । प्रकृष्टयुद्धं कुर्वत इत्यर्थः । ‘आदिकर्मणि क्तः कर्तरि चे’ति कर्तरि क्तः । ईषन् नियुद्धे गुर्वाज्ञोल्लङ्घनदोषभयात् स्वसमस्तशक्तया नियुद्धं कुर्वत इति भावः । पञ्चाधिका दश पञ्चदश तान् यूनो युगपन्निपात्य । यस्य समर्थता उत्थातुं सामर्थ्यं स्यात् तेन उत्थीयतामिति ब्रुवाणः सन् शनकैर् जहास । हस् हसने लिट् ॥ ३९ ॥

मन्दोपाकारिणी

इतीति ॥ एषः मध्वः । इति पूर्वोक्तप्रकारेण ईरयन् वदन् युगपत् प्राप्तान् प्रयुद्धान् प्रकर्षयुद्धान् युद्धं कुर्वतः । आदिकर्मणि क्तः कर्तरि च इति कर्तरि क्त प्रत्ययः । ईषद् युद्धकरणे गुर्वाज्ञोल्लङ्घनभयेन स्वसर्वशक्त्या नियुद्धं कुर्वत इति भावः । पञ्चदश पञ्चदशसङ्ख्यान् यूनस् तरुणान् ‘वयस्यस्तरुणो युवा’ इत्यमरः शिष्यान् निपात्य भूमौ पातयित्वा भवन्मध्ये यस्य समर्थता उत्थातुं सामर्थ्यं स्यात् तेन उत्थीयतां स उत्तिष्ठतु इति भावः । इति ब्रुवाणस्सन् अशनकैर् उच्चैर्ध्वनिना जहास हसितवान् । ‘उत्पूर्वकात् ष्ठा गति निवृत्तौ इत्यतः भावे लोट् आत्मनेपदम् अत्र प्रथमपुरुषैकवचनमेव । भावस्यैकत्वाद्

इति ज्ञेयम् । ‘हस हसने’ लिट् परस्मैपदं जहास जहसतुर् जहसुः । प्रथमतृतीय-पादोपेन्द्रवज्रोपजातिः ॥ ३९ ॥

विश्वास-प्रस्तुतिः - ४०

सौमेरवं गौरवमावहन्ति तवाङ्गमङ्गाङ्गुलयश्च नोऽङ्गे ।
पुरा विनश्याम इतो दयालो स्वामिन् विमुञ्चेत्यवदंस्तदा ते ॥ ४० ॥

मूलम् - ४०

सौमेरवं गौरवमावहन्ति तवाङ्गमङ्गाङ्गुलयश्च नोऽङ्गे ।
पुरा विनश्याम इतो दयालो स्वामिन् विमुञ्चेत्यवदंस्तदा ते ॥ ४० ॥

पदार्थदीपिकोद्बोधिका

सौमेरवमिति ॥ तदा ते शिष्याः । अङ्ग नाथ श्रीमध्व तवाङ्गं हस्तादिकम् अङ्गुलयश्च प्रत्येकं नोऽस्माकमङ्गे शरीरे । सुमेरोः सम्बन्धि सौमेरवं गौरवं गुरुत्वम् आवहन्ति । इतो ऽस्मात् कारणाद् विनश्यामः पुरा नष्टाः स्म । ‘नश् अदर्शने’ लट् । ‘यावत्पुरानिपातयोर्लडि’ति लट् प्रत्ययः । हे स्वामिन् विमुञ्च इति अवदन् ॥४०॥

मन्दोपाकारिणी

सौमेरवमिति ॥ तदा उत्थीयताम् इति मध्वोक्तिसमये ते शिष्या इति वक्ष्यमाणप्रकारेण अवदन् । कथम् ? हे अङ्ग ‘प्रियस्य सम्बोधनेऽङ्ग’ इत्यमरः । तवाङ्गं हस्ताद्यवयवो ऽङ्गुष्ठाद्यङ्गुलयश्च नो ऽस्माकम् ओ शरीरे ‘ओ शरीरे अङ्गमात्रान्तिकोपायप्रतीकेषु अप्रधानके’ इति विश्वः । सौमेरवं ‘मेरुस्सुमेरुर्हेमाद्रिः’ इत्यमरः सुमेरोः सम्बन्धि सौमेरवं मेरुपर्वतसदृशम् इत्यर्थः । गौरवं गुरुत्वम् आवहन्ति प्राप्नुवन्ति । इतो ऽस्मात् कारणाद् वयं विनश्यामः पुरा नष्टाः स्म । ‘यावत्पुरानिपातयोर् लट्’ इति लट् । हे दयालो कृपालो स्वामिन् अस्मान् विमुञ्च इति अवदन् इति सम्बन्धः । तव एकैको ऽङ्गुल्याद्यवयवः मेरुतुल्यभारस् तादृशावयवपातेन क्लेशितान् नः मुञ्च इति अवदन् इति भावः । आङ्पूर्वको ‘वह प्रापणे’ लट् परस्मैपदम् । ‘नश् अदर्शने’ लट् परस्मैपदं नश्यामि नश्यावः नश्यामः । ‘मुच्लृ मोक्षणे लोट् परस्मैपदं मुञ्च मुञ्चतं मुञ्चत । द्वितीय-तृतीयपादोपेन्द्रवज्रोपजातिः ॥ ४० ॥

विश्वास-प्रस्तुतिः - ४१

तेनाथ मुक्तैरतिविस्मयस्तैरवाप्यनालोच्य हि तत्स्वरूपम् ।
यद्भ्रूविजृम्भेण सशम्भुशक्रं जगत् समस्तं नियतं निकामम् ॥ ४१ ॥

मूलम् - ४१

तेनाथ मुक्तैरतिविस्मयस्तैरवाप्यनालोच्य हि तत्स्वरूपम् ।
यद्भ्रूविजृम्भेण सशम्भुशक्रं जगत् समस्तं नियतं निकामम् ॥ ४१ ॥

पदार्थदीपिकोद्बोधिका

तेनेति ॥ अथ स्वामिन् विमुञ्चेति प्रार्थनानन्तरं तेन श्रीमध्वेन मुक्तैस् तैः शिष्यैस् तत्स्वरूपं श्रीमध्वस्य स्वरूपम् अनालोच्य हि सम्यगविचार्यैव । ‘हिर्हेताववधारण’ इत्यमरः । अतिविस्मयो ऽवापि सम्प्राप्तः । सम्यक् तत् स्वरूपविचारे सति नैतावन्मात्रेण विस्मयो युज्यत इति भावः । तथा हि यद्भ्रूविजृम्भेण यस्य श्रीमध्वस्य भ्रूविलासेन सशम्भुशक्रं शम्भुशक्राभ्यां सहितं समस्तं जगन् नितरां कामो यथा भवति तथा । यथेच्छमित्यर्थः । नियतं हि प्रेरितं हि । एवंभूतस्य पञ्चदशयूनां निपातनं न चित्रमिति भावः ॥ ४१ ॥

मन्दोपाकारिणी

तेनेति ॥ अथ मुञ्च इति प्रार्थनानन्तरं तेन श्रीमध्वेन मुक्तैस् तैः शिष्यैर् अतिविस्मयो ऽत्याश्चर्यम् अवापि अवाप्तम् । किं कृत्वा तत्स्वरूपं तस्य मध्वस्य स्वरूपम् अनालोच्य हि सम्यक् अविचार्यैव ‘हिर्हेताववधारणे’ इत्यमरः । सम्यक् स्वरूपविचारे सति न एतावन्मात्रेण विस्मयो युज्यते इति भावः । तथा हि यद्भ्रूविजृम्भेण यस्य मध्वस्य भ्रुवोर् विजृम्भेण विलासेन सशर्वशक्रं शर्वेन्द्रसहितं समस्तं जगन् निकामं यथेच्छं नियतं प्रेरितम् । रुद्रादिसर्वजगन्नियामकस्य पञ्चदशपुरुषाणां नियमनं न चित्रम् इति भावः । अव पूर्वात् ‘आप्लृ व्याप्तौ’ कर्मणि लुङ् आत्मनेपदम् आपि आप्साताम् आप्सत । द्वितीयचतुर्थपादोपेन्द्रवज्रोपजातिः ॥ ४१ ॥

विश्वास-प्रस्तुतिः - ४२

सदाक्ष्यमाक्षिप्तसमस्तपक्षको यतिः प्रभुं कोऽप्यमरावतीपदः ।
जिगीषया ज्ञानसहायकर्मणः प्रसाध्यतां साधनतेत्युदाहरत् ॥ ४२ ॥

मूलम् - ४२

सदाक्ष्यमाक्षिप्तसमस्तपक्षको यतिः प्रभुं कोऽप्यमरावतीपदः ।
जिगीषया ज्ञानसहायकर्मणः प्रसाध्यतां साधनतेत्युदाहरत् ॥ ४२ ॥

पदार्थदीपिकोद्बोधिका

सदाक्ष्यमिति ॥ दक्षस्य चतुरस्य भावो दाक्ष्यं तेन सहितं यथा भवति तथा सदाक्ष्यम् । आक्षिप्ता निराकृताः समस्तपक्षाः सर्ववादिनां सिद्धान्ता येन तादृशः । अमरावतीत्यमरेन्द्रपुरीति यत्पदं नाम यस्य सोऽमरेन्द्रपुर्याख्य इत्यर्थः । कोऽपि कश्चन यतिः सन्यासी जिगीषया जेतुमिच्छया प्रभुं श्रीमध्वं प्रति ज्ञानं सहायो यस्य तच्च तत्कर्म च तस्य, साधनता पुरुषार्थसाधनत्वं प्रसाध्यताम् । ज्ञानिकृतमेव कर्माक्षय पुरुषार्थमोक्षसाधनम् इति प्रसङ्गादभिहिते सति तदेव सम्यग् प्रसाध्यतामित्युदाहरदिति भावः । राध साध संसिद्धौ कर्मणि लोट् ॥ ४२ ॥

मन्दोपाकारिणी

सदाक्ष्यमिति ॥ अमरावतीपदो ऽमरावती इन्द्रपुरी इति पदं नाम यस्य सः कोऽपि कश्चन यतिर् मायिसन्यासी जिगीषया जेतुम् इच्छया प्रभुं समर्थं श्रीमध्वं प्रति उदाहरद् अब्रवीत् । किमिति ? हे मध्वाचार्य त्वया ज्ञानसहायकर्मणः ज्ञानं सहायः सहकारी यस्य तत् तच्च तत्कर्म च इति तथोक्तं तस्य साधनता पुरुषार्थसाधनत्वं प्रसाध्यताम् उपपाद्यताम् इति । किंभूतः ? सदाक्ष्यं दक्षस्य भावो दाक्ष्यं तेन चातुर्येण सहितं यथा भवति तथा । आक्षिप्तसमस्तपक्षकः समस्ताश्च ते पक्षाश्च आक्षिप्ता निराकृताः समस्तसिद्धान्ता येन सश् चातुर्येण निरस्तसर्ववादिसिद्धान्त इति भावः । ‘प्र पूर्वात् साध संसिद्धौ इत्यतः कर्मणि लोट् आत्मनेपदं साध्यतां साध्येतां साध्यन्ताम्’ । उद् आङ् पूर्वात् ‘हृञ् हरणे’ इत्यतः लङ् परस्मैपदम् । वंशस्थवृत्तं ‘वदन्ति वंशस्थमिदं जतौ जरौ’ ॥ ४२ ॥

विश्वास-प्रस्तुतिः - ४३

संसाधितार्थे भगवत्ययुक्तिवित्पप्रच्छ स ज्ञानपदार्थमुग्रधीः ।
ज्ञातः स ते ज्ञान्यसि चेन्न चेन्न सः प्रश्नो घटेतेति निराकृतैष तम् ॥ ४३ ॥

मूलम् - ४३

संसाधितार्थे भगवत्ययुक्तिवित्पप्रच्छ स ज्ञानपदार्थमुग्रधीः ।
ज्ञातः स ते ज्ञान्यसि चेन्न चेन्न सः प्रश्नो घटेतेति निराकृतैष तम् ॥ ४३ ॥

भावप्रकाशिका

ज्ञानपदार्थं पृच्छन्तं प्रति भगवानूचे– त्वं येन केनचिज्ज्ञानेन सहितो न वा । ‘ज्ञान्यस्मि’ इति वदसि चेज्ज्ञानाङ्गीकारिणा त्वया स ज्ञानपदार्थो ज्ञात एव । नेति वदसि चेत् सर्वज्ञानरहितस्य तव प्रश्नशब्दानां तद्विषयाणां चार्थानामज्ञानात् प्रश्न एव न घटेत ॥ ४३ ॥

पदार्थदीपिकोद्बोधिका

समिति ॥ भगवति श्रीमध्वे संसाधितार्थे सति सम्यक्साधितः संसाधितोऽर्थो ज्ञानसहायकर्मणः पुरुषार्थसाधनत्वाख्यं तत्पृष्टं प्रमेयं येन तस्मिन्सति । युक्तिविन्न भवतीत्ययुक्तिवित्, श्रीमध्वसाधितार्थे निराकरणयुक्तिम् अजानन् उग्रधीः सः यतिः । ज्ञानपदार्थं ज्ञानमिति पदस्य वाच्यं पप्रच्छ । एष श्रीमध्वस् त्वं ज्ञान्यसि चेत्, स ज्ञानपदार्थस् ते त्वया ज्ञातः । न चेत्सः प्रश्नो ज्ञानपदार्थः क इति प्रश्नो न घटते न युज्यते । घट परिवर्तने लट् । इति तं यतिं निराकृत निराचक्रे । अयं भावः ज्ञानपदार्थं पृच्छंस्त्वं येन केनापि ज्ञानेन युक्तोऽसि न वा । आद्ये ज्ञानवता त्वया तत्पदार्थो ज्ञात एव, ततश्च सिद्धविषयोऽयं प्रश्नः स्यात् । एवञ्च तवोन्मत्तसाम्यं स्यात् । द्वितीये ज्ञानमात्र-रहितस्य प्रश्नः शब्दानां तद्विषयाणामर्थानाञ्च परिज्ञानाभावान्न घटते । ज्ञानमात्रा-भावाङ्गीकारस्य ज्ञानाविनाभूतप्रश्नस्य च परस्परविरुद्धत्वादिति ॥ ४३ ॥

मन्दोपाकारिणी

समिति ॥ भगवति ज्ञानादिपूर्णे श्रीमध्वे संसाधितार्थे सति सम्यक् साधितः युक्तिभिः प्रतिपादितो ऽर्थः प्रमेयविषयो येन तस्मिन् । ज्ञानसहकृतकर्मणः पुरुषार्थसाधनत्वरूपे स्वपृष्टे प्रमेये उपपादिते सतीति भावः । अयुक्तिविद् युक्तिं जानातीति युक्तिवित् स न भवतीति अयुक्तिवित् श्रीमध्वाचार्येण साधिते अर्थे निराकरण-युक्तिस्फूर्तिरहित उग्रधीः क्रूरबुद्धिः स इन्द्रपुर्याख्यः मायी ज्ञानपदार्थं ज्ञानमित्यस्य पदस्य अर्थम् अभिधेयं पप्रच्छ । ज्ञानम् इति एतत् पदस्य कोऽर्थ इति मध्वं प्रति प्रश्नं चकार इति भावः । ‘पृच्छ ज्ञीप्सायां’ वाचीत्यतो लिट् परस्मैपदम् । एष एवं पृष्टो मध्वस् तम् इन्द्रपुर्याख्यमायिनम् इति इत्थं निराकृत निराकरोत् । कथं हे वादिन् यदि ज्ञानी यत्किञ्चिज् ज्ञानवान् असि भवसि चेत् सः ज्ञानपदस्य अर्थस् ते त्वया ज्ञात एव । न चेद् यत्किञ्चिद् वस्तुज्ञानवान् न असि न भवसि चेत् सस् त्वया कृतः प्रश्नः न घटेत न सम्भवति इति । अयं भावः ज्ञानपदार्थः क इति पृच्छन् त्वं यत्किञ्चिज् ज्ञानेन युक्तोऽसि न वा । आद्ये जानतैव त्वया ज्ञानपदार्थस्य ज्ञातत्वात् प्रश्नस्य सिद्धार्थतालक्षणो दोषः प्रसज्येत । द्वितीयप्रश्ने शब्दस्य तदर्थस्य च ज्ञानाभावाज् ज्ञानमात्ररहितस्य तव प्रश्नो न घटते । ज्ञानमात्राभावाङ्गीकारस्य ज्ञानाविनाभूतप्रश्नस्य च परस्परविरुद्धत्वाद् इति । ‘अस भुवि’ लट् परस्मैपदम् असि स्थः स्थ । ‘घट चेष्टायां लिङ् आत्मनेपदं घटेत घटेयातां घटेरन्’ । निर् आङ् पूर्वात् ‘डु कृञ् करणे’ लुङ् आत्मनेपदम् अकृत अकृषाताम् अकृषत । इन्द्रवंशावृत्तं ‘स्यादिन्द्रवंशा यदि ततजैरसंयुतैः’ ॥ ४३ ॥

वितततमतमोऽन्तं साधयन्त्या नितान्तं
सदसि सदसि रेजे व्याख्यया व्यासशिष्यः ।
विश्वास-प्रस्तुतिः - ४४

सकलसमयिहस्ताम्भोजबन्धाभिनन्दी
शरदि शरदि चन्द्रश्चन्द्रिकासम्पदेव ॥ ४४ ॥

मूलम् - ४४

सकलसमयिहस्ताम्भोजबन्धाभिनन्दी
शरदि शरदि चन्द्रश्चन्द्रिकासम्पदेव ॥ ४४ ॥

पदार्थदीपिकोद्बोधिका

विततेति ॥ व्यासशिष्यः श्रीमध्वः । सदसि सदसि सर्वसभासु । अत्यन्तं विततं वितततमं तादृशं यत्तमोऽज्ञानं तस्यान्तं नाशं नितान्तमत्यन्तं साधयन्त्या व्याख्यया । चन्द्रः शरदि शरदि, वितततमतमोऽन्तम् अतितरां व्याप्तान्धकारनाशं साधयन्त्या चन्द्रिकासम्पदेव कौमुदीसम्पदेव समयाः सिद्धान्ता येषां सन्तीति समयिनः, सकलाः समस्ता ये समयिनः सर्वशास्त्राभिज्ञास् तेषां हस्ताम्भोजबन्धः हस्ता अम्भोजानीव तेषां बन्धोऽञ्जलिबन्धस् तमभिनन्दतीति तादृशः । तेन अभिनन्दितुं शीलमस्यास्तीति वा । चन्द्रोऽपि स्वोदयेनाम्भोजमुकुलीभावाभिनन्दी । रेजे । मालिनीवृत्तं ‘ननमयययुतेयं मालिनी भोगिलोकैरि’त्युक्तेः ॥ ४४ ॥

मन्दोपाकारिणी

विततेति ॥ व्यासशिष्यः मध्वः । सदसि सदसि वीप्सायां द्विर्भावः सर्वविद्वत्सभासु व्याख्यया वेदव्याख्यानेन रेजे शुशुभे । किंभूतया वितततमतमोन्तम् अतिशयेन विततं व्याप्तं वितततमं तच्च तत् तमो ऽज्ञानं तस्य अन्तं नाशं ‘अन्तो नाशो द्वयोर्मृत्युः’ इत्यमरः नितान्तम् अत्यन्तं साधयन्त्या कुर्वन्त्या । कथंभूतः सकलसमयि-हस्ताम्भोजबन्धाभिनन्दी सकलाश्च ते समयिनः सिद्धान्ताभिज्ञाश्च तेषां हस्ताम्भोजबन्धः हस्ता एव अम्भोजानि तेषां बन्धो ऽञ्जलिबन्धस् तम् अभिनन्दति अनुमोदति इति तथोक्तः । सकलपण्डितमण्डले मध्वेन व्याख्याते सति व्याख्यानकौशलं दृष्ट्वा सर्वे विद्वांसो ऽञ्जलिं बबन्धुर् इति भावः । कः कयेव रेजे । चन्द्रः शरदि शरदि सर्वशरदृतुषु चन्द्रिकासम्पदेव कौमुदीलक्षणसम्पदेव । चन्द्रिकापि वितततमसो ऽन्धकारस्य अन्तं साधयन्ती । चन्द्रोऽपि स्वोदयेन अम्भोजमुकुलीभावम् अभिनन्दति अनुमोदति इति । ‘राजृ दीप्तौ’ लिट् आत्मनेपदं रेजे रेजाते रेजिरे । मालिनीवृत्तं ‘ननमयययुतेयं मालिनी भोगिलोकैः’ ॥ ४४ ॥

विश्वास-प्रस्तुतिः - ४५

जननं समये समये जगतः प्रथिते समये समयेदमिते ।
सनिरासमयेऽसमये स्थितियुक्स्ववभासमयेऽसमयेष्टधिया ॥ ४५ ॥

मूलम् - ४५

जननं समये समये जगतः प्रथिते समये समयेदमिते ।
सनिरासमयेऽसमये स्थितियुक्स्ववभासमयेऽसमयेष्टधिया ॥ ४५ ॥

भावप्रकाशिका

असमये अये इष्टधिया जगतो जननं वर्तते । अये दैवे ब्रह्मणि वर्तमानया स्वेच्छाविषयया बुद्ध्या जगतो जननं न तु मायया । समये समये काले काले । समये वेदान्तशास्त्रे प्रथिते न त्ववाच्ये । इदं समया इते अस्य चेतनजातस्य समीपे गते न त्वनेनैक्यवति । ‘अभितः परित’ इत्यादिना द्वितीया न केवलं जननं सनिरासं

ससंहारं स्थितियुक् च । स्ववभासमये स्वच्छज्ञानमये न त्वशुद्धे ब्रह्मणि । असमया असदृशया ॥ ४५ ॥

पदार्थदीपिकोद्बोधिका

जननमिति ॥ जननं समये समये जगतः प्रथिते समये समया इदम् इते सनिरासम् अये असमये स्थितियुक् स्ववभासमये असमया इष्टधिया इति पदच्छेदः । सा व्याख्या इत्यादीन् परमान् उत्तमानर्थान् प्रकामं सम्यक् प्रकाशयामासेति तृतीयश्लोकेन वक्ष्यमाणेनान्वयः । सा व्याख्या समये वेदान्तशास्त्रे प्रथिते मुख्यतया सर्वशब्दवाच्यतया प्रसिद्धे । न तु अवाच्यतयेति भावः । इदं चेतनजातं समया समीपे । ‘अभितः परितः’ इत्यादिना द्वितीया । इते प्राप्ते । न तु तेन एैक्यमापन्न इति भावः । न विद्यते समयः कालो यस्य सोऽसमयस्तस्मिन् । कालकृतविनाशादिविकाररहित इत्यर्थः । शोभनश्चासौ अवभासः ज्ञानञ्च स्ववभासः स्वच्छज्ञानं तद्रूपः स्ववभासमयस्तस्मिन् ताद्रूप्यार्थे मयट् स्वच्छज्ञानस्वरूपे । न त्वशुद्धे शबलब्रह्मणीति भावः । अये दैवे परब्रह्मणि । ‘अयः शुभावहो विधिरि’त्यमरः । असमया एवंभूते परब्रह्मणि वर्तमानयाऽसमयाऽसदृशया इष्टधिया स्वेच्छाविषयया बुद्ध्या न तु माययेत्यर्थः । समये समये काले काले, निरासेन संहारेण सहितं सनिरासं, स्थित्या पालनेन युक् स्थितियुक् जगतो लोकस्य सृष्टिः प्रवर्तते । इत्यादीन् परमानुत्तमानर्थान् प्रकामं सम्यक् प्रकाशयामास इति उत्तरेणान्वयः । तोटकवृत्तं लक्षणं तूक्तम् ॥ ४५ ॥

मन्दोपाकारिणी

व्याख्यायकमर्थं प्रतिपादयामास इत्याह जननमित्यादिभिस् त्रिभिः श्लोकैः । जननं समये समये जगतः प्रथिते समये समया इदम् इते सनिरासम् अये असमये स्थितियुक् स्ववभासमये असमया इष्टधिया इति पदच्छेदः । समये प्रथिते इदं समया इते असमये स्ववभासमये अये विद्यमानया इति शेषः । असमया इष्टधिया समये समये जगतः सनिरासं स्थितियुक् जननं भवति इत्यन्वयः । अर्थस्तु समये वेदान्तशास्त्रे प्रथिते मुख्यतः सर्वशब्दवाच्यतया प्रसिद्धे न तु अवाच्ये इति भावः । ‘समयाः शपथाचारकालसिद्धान्त संविदः’ इत्यमरः । इदं प्रमाणप्रसिद्धं चेतनजातं समया समीपे इते प्राप्ते ‘अभितः परितः समयानिकषाहाप्रतियोगेऽपि’ इत्यादिना इदमिति द्वितीया । एवं च अस्य चेतनसमुदायस्य समीपे विद्यमाने न तु तेन ऐक्यमापन्ने इति भावः । असमये समयः कालस् तेन तत्कृतविकारो लक्ष्यते कालकृतविकाररहिते इत्यर्थः । विनाशरहिते इति भावः । स्ववभासमये सु स्वच्छो ऽवभासः ज्ञानं मयः स्वरूपं यस्य सस् तस्मिन् केवलज्ञानरूपे अये दैवे परब्रह्मणि ‘अयः शुभावहो विधिः’ इत्यमर एतादृशे ब्रह्मणि विद्यमानया असमया असदृशया इष्टधिया स्वेच्छाविषयया बुद्ध्या न तु माययेति भावः । समये समये काले काले जगतः सनिरासं संहारेण सहितं, स्थितियुक् स्थित्या पालनेन युक्तं जननं सृष्टिर् भवतीति शेषः । वेदादिसर्वशब्दमुख्यवाच्यस्य सकलचेतनसमुदायाद् अत्यन्तभिन्नस्य कदापि नाश-रहितस्य ज्ञानरूपस्य परब्रह्मणः सकाशाज् जगतस् तत्तत्कालविशेषे सृष्टिस्थितिसंहारादिर् भवतीति भावः । तोटकवृत्तम् ॥ ४५ ॥

विश्वास-प्रस्तुतिः - ४६

वर्तस्वाध्यधि सर्वं दीव्येदं सोऽनिशं स्वतन्त्रो विष्णुः ।
उज्जासय दुष्टानां संस्कुरु साधून् गुणाभिपूर्णोऽप्यगुणः ॥ ४६ ॥

मूलम् - ४६

वर्तस्वाध्यधि सर्वं दीव्येदं सोऽनिशं स्वतन्त्रो विष्णुः ।
उज्जासय दुष्टानां संस्कुरु साधून् गुणाभिपूर्णोऽप्यगुणः ॥ ४६ ॥

भावप्रकाशिका

वर्तस्वेत्यादौ ‘समुच्चयेऽन्यतरस्यामि’ति हिस्वयोः समुच्चयार्थत्वम् । अध्यधीत्यत्र ‘उपर्यध्यधसः सामीप्य’ इति द्विर्वचनम् । द्वितीया च ‘उभसर्वतसोः कार्याधिगुपर्यादिषु त्रिषु । द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते’ इति । अनेन जगता दीव्यति च । ‘दिवः कर्म चे’ति कर्मत्वं करणस्य । ‘जासिनिप्रहणनाटक्राथपिषां हिंसाया’मिति कर्मणि षष्ठी च । दुष्टानुज्जासयति च ॥ ४६ ॥

पदार्थदीपिकोद्बोधिका

वर्तस्वेति ॥ सा व्याख्या । स्वतन्त्रः स विष्णुः सर्वं सर्वस्य जगतोऽध्यधि, अत्यन्तसमीपे हृदयगुहायां वर्तस्व वर्तते । अत्र समुच्चयेऽन्यतरस्याम् इति लोट् । ‘उपर्यध्यधसः सामीप्य’ इति सामीप्यार्थेऽधिशब्दस्य द्विरुक्तिः । तद्योगे ‘उभसर्वतसोः कार्याधिगुपर्यादिषु त्रिष्वित्यादिना सर्वशब्दस्य द्वितीया । इदम् अनेन जगता अनिशं सदा दीव्य दीव्यति क्रीडत इत्यर्थः । अत्र ‘दिवः कर्म चे’ति करणस्य कर्मत्वम् । दुष्टानां दुष्टान् असुरान् उज्जासय । उज्जासयति हन्तीत्यर्थः । जसु हिंसायाम् इति धातुः । तेषां हननञ्च तमसि प्रक्षेपणमेव । अत्र ‘जासिनिप्रहणननाट’ इत्यादिना दुष्टानाम् इति कर्मणि षष्ठी । साधून् मोक्षयोग्यान् संस्कुरु संस्कुरुते निर्दुष्टान् करोतीत्यर्थः । गुणाभि-पूर्णोऽपि आनन्दादिगुणसम्पूर्णोऽपि अगुणः न विद्यन्ते गुणाः सत्वरजस्तमांसि यस्य तादृशः । इत्याद्यर्थान् प्रकाशयामासेति सम्बन्धः । अत्र विरोधाभासालङ्कारः ॥४६॥

मन्दोपाकारिणी

वर्तस्वेति ॥ स्वतन्त्रः सः विष्णुः । इदं सर्वम् अस्य सर्वस्य जगतो ऽध्यधि अत्यन्तसमीपे हृदयगुहायामिति यावद् अनिशं वर्तस्व वर्तते । अत्र समुच्चयेऽन्य-तरस्याम् इति क्रियासमुच्चये लोट् । ‘उपर्यध्यधसः सामीप्य इति सामीप्यार्थे अधिशब्दस्य द्विरुक्तिः’ द्विरुक्ताधिशब्दसम्बन्धादेव च इदं सर्वमिति द्वितीयान्तप्रयोग उभसर्वतसोरिति द्वितीया । ‘वृतु वर्तने मध्यमपुरुषैकवचने लोट् परस्मैपदं वर्तस्व वर्तेथां वर्तध्वम्’ । इदम् अनेन जगता दीव्य दीव्यति क्रीडते इत्यर्थः । ‘दिवु क्रीडेत्यादि लोट् परस्मैपदं दीव्य दीव्यतं दीव्यत’ । अत्र च दिवः कर्म च इति सूत्रेण करणस्य कर्मत्वम् । दुष्टानां दुष्टान् संकरादीन् उज्जासय उज्जासयति हन्तीत्यर्थः । उत्पूर्वकात् ‘जसु हिंसायां’ स्वार्थे णिजन्ताद् लोट् परस्मैपदं जासय जासयतं जासयत’ । ‘दुष्टानां हननं नाम तमसि प्रवेश एव’ इति जासिनिप्रहणेत्यादिना दुष्टानाम् इति कर्मणि षष्ठी । साधून् मोक्षयोग्यान् संस्कुरु संस्कुरुते निर्दुष्टान् करोतीत्यर्थः । अविद्याबन्धरहितान् करोतीति भावः । ‘सम्पूर्वाड् डु कृञ् करणे लोट् परस्मैपदं कुरु कुरुतं कुरुत’ । गुणाभिपूर्णोऽपि अगुणः सत्वादिगुणरहितः । आर्यावृत्तं ‘आर्या प्राग्दलमन्तेऽधिकगुरुतादृग्परार्धमार्या गीतिः’ ॥ ४६ ॥

विश्वास-प्रस्तुतिः - ४७

असमोत्तमो मतोऽसौ श्रियःपतिर्विश्वतो विभिन्नात्मा ।
परमान् प्रकाममर्थान् प्रकाशयामास सेत्यादीन् ॥ ४७ ॥

मूलम् - ४७

असमोत्तमो मतोऽसौ श्रियःपतिर्विश्वतो विभिन्नात्मा ।
परमान् प्रकाममर्थान् प्रकाशयामास सेत्यादीन् ॥ ४७ ॥

भावप्रकाशिका

सा व्याख्या प्रकाशयामास ॥ ४७ ॥

पदार्थदीपिकोद्बोधिका

असमोत्तम इति ॥ सा व्याख्या । असौ श्रियःपतिः समश्च उत्तमश्च समोत्तमौ न विद्येते समोत्तमौ यस्य तादृशः समाधिकरहित इत्यर्थः । विश्वतः सर्वस्माद् विभिन्नात्मा विभिन्नो ऽत्यन्तविलक्षण आत्मा स्वरूपं यस्य तादृशो । मतो ज्ञातः । सर्वदा सदागमैर् इति भावः । इति आदिर् येषां तान् परमान् उत्तमान् अर्थान् प्रकामं सम्यग्यथा भवति तथा प्रकाशयामास । कासृ दीप्तौ लिट् । चपलावृत्तं ‘दलयोर्द्वितीयतुल्यौ गुणौ जतारौ तु अत्र चपला’ इत्युक्तेः ॥ ४७ ॥

मन्दोपाकारिणी

असमेति ॥ असौ श्रियःपतिर् हरिर् असमोत्तमः न विद्यते समः सदृश उत्तमो ऽधिकश्च यस्मात् । विश्वतः सर्वस्माज् जगतः विभिन्नात्मा विभिन्नो ऽत्यन्तविलक्षण आत्मा स्वभावो यस्य सः । ‘आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि’ इति भास्करः । मतः सर्वदा सदागमैर् ज्ञात इत्यर्थः । इत्यादीन् एवमादीन् परमान् उत्तमान् अर्थान् प्रतिपाद्यान् प्रकामम् अत्यन्तं सा व्याख्या प्रकाशयामास प्रकटीचकार । ‘अस भुवि’ लिट् परस्मैपदं चपलावृत्तम् । उभयार्धयोर्जकारौ द्वितीयतुर्यौ गमध्यगौ यस्याश् चपलेति नाम तस्याः प्रकीर्तितं नागराजेन ॥ ४७ ॥

विश्वास-प्रस्तुतिः - ४८

समानया यानमास मायया ततयाऽयमा ।
नयासना नास या न यातनाललनाऽतया ॥ ४८ ॥

मूलम् - ४८

समानया यानमास मायया ततयाऽयमा ।
नयासना नास या न यातनाललनाऽतया ॥ ४८ ॥

भावप्रकाशिका

या मायया अनमा आस मायावाद्यभिमतया मायया जगन्मिथ्यात्वसाधिकया नमनरहिताऽभूत् । गुणगुण्यादीनां भेदे सम्बन्धापेक्षयाऽनवस्था । अभेदे गुणादिमात्रं गुण्यादिमात्रं वा । भेदाभेदे स्वव्याहतिरिति तेषां खण्डने परेषामनुयोग एव । तस्मान्मायामय एवेति तत्पक्षे मायापालिते नमन्ति ह्यपरे । समानया ‘इन्द्रो मायाभिः पुरुरूप ईयते’ इति मानाभाससहितया । इयं व्याख्या गुणगुण्यादिभावं विशेषाङ्गीकारेणैवाभेदेन घटयित्वा मायाशब्दस्य च ‘मायेति भगवत्प्रज्ञे’त्यादिना विषयान्तरं प्रदर्श्य तन्मायां वन्ध्याकुमारीसमानां करोति । ततया व्याप्तया अयमा अद्वन्द्वा । नयासना नास न । ‘विषयस्तद्विचारश्च हेतूदाहृतिसंशयाः । पक्षौ प्रयोजनं चैव नयोऽष्टाङ्गः प्रकीर्तित’ इति प्रसिद्धो नय आसनं यस्यास्सा नयासना नास न न बभूवेति न । सा व्याख्या अर्थान् प्रकाशयामास । अतया तद्विरुद्धया दुःशास्त्रव्याख्यया यातना भवति । अललना ललनं विलासः सुखं तद्रहिता । नियमेनान्धतमसक्लेश इत्यर्थः । अथवा माययाङ्गीक्रियमाणया यातना ॥ ४८ ॥

पदार्थदीपिकोद्बोधिका

समानयेति ॥ समानया या अनमा आस मायया ततया अयमा नयासना न आस या न यातना अललना अतया इति पदच्छेदः । या व्याख्या समानया मानैः प्रमाणैः सहिता समाना तया । ‘इन्द्रो मायाभिः पुरुरूप ईयते । मायामात्रमिदं द्वैतम् औतं परमार्थत’ इत्यादिमानाभाससहितयेत्यर्थः । ततया व्याप्तया मायया जगन्मिथ्यात्वसाधिकया मायिशास्त्रात्मिकया मायया । अनमा न विद्यते नमो नम्रता यस्याः सा अनमा । निराकर्तुमशक्या आसेति भावः । इत्थं हि मायिनो माया । गुणादीनां गुण्यादिभिर्भेदोऽभेदो भेदाभेदो वा । आद्ये भेदपरम्परयाऽनवस्था स्यात् । द्वितीये गुण्यादिमात्रं वा गुणादिमात्रं वा विशिष्यते । तृतीये पूर्वोक्तदूषणं व्याहतिश्चाधिकेति । किञ्च ‘मायामात्रम् इन्द्रो मायाभिरि’त्यादिवचनैश्च सर्वस्यापि भेदादिप्रपञ्चस्य मायामयत्वमेव न कस्यापि वास्तवत्वम् इत्यादिमानाभास असहितया मायया नमा आसेत्यर्थः । तथा हि न- तावद्गुणगुण्यादीनां वास्तवत्वे भेदादिविकल्पदोषावकाशः । गुणादीनां गुण्यादिभिर् अभेदाङ्गीकारेण अनवस्थाभावात् । न चैवम् अन्यतरमात्रावशेषप्रसङ्गः । अयं गुणी । अयमस्य गुणोऽयमवयवी । अयमस्यावयव ‘इत्यादिभेदव्यवहारस्य च विशेषबलेनाङ्गीकाराद् अयावद्द्रव्यभाविगुणानुसारेण भेदाभेदयोरप्यङ्गीकारादिति । ‘मायामात्रमि’त्यादिषु मायाशब्दस्य भगवत्प्रज्ञावाचकत्वेन तदभिमतसदसद्विलक्षणार्थत्वाभावादिति । पुनः कथंभूता व्याख्येत्यत आह– अयमेति । अयमा न विद्यते यमं द्वन्द्वं यस्या सा अयमा । ‘द्वन्द्वं द्वितयं यमं यमलमि’ति हलः । असदृशेत्यर्थः । या व्याख्या नयासना नये न्यायः । युक्तिरित्यर्थः । आसनमाश्रयो यस्याः सा नयासना नासेति न बभूवेति न । आसैवेत्यर्थः । ‘विषयस्तद्विचारश्च हेतूदाहृतिसंशयाः। पक्षौ प्रयोजनश्चेति नयोऽष्टाङ्गप्रकीर्तित’ इत्यष्टाङ्गो नयः । इयं व्याख्या तु तदाश्रिता बभूवेत्यर्थः । अतया तद्विरुद्धा असा तया अतया व्याख्यया अललना न विद्यते ललनं विलासो यस्याः साऽललना । ‘लल विलास’ इति धातोर्नियमेन सुखरहितेति यावत् । यातना अन्धन्तमः क्लेशो भवतीति सम्बन्धः । ‘यातना तीव्रवेदने’त्यमरः । अथवा तयेति पदच्छेदः । तया माययाङ्गीकृतया यातना तीव्रवेदना भवति । अन्धन्तमसि यद्दुःखं तद्भवतीत्यर्थः । विपुलावृत्तम् । ‘यस्यां लः सप्तमे युग्मे सा युग्मा विपुला मते’त्युक्तेः ॥ ४८ ॥

मन्दोपाकारिणी

इदानीं मध्वकृतव्याख्यानं स्तौति ॥ समानयेति ॥ समानया या अनमा आस मायया ततया अयमा नयासना न आस या न यातना अललना अतया इति पदच्छेदः । या समानया ततया मायया अनमा आस अयमा या च नयासना नासेति न अतया अललना यातना भवति इति अन्वयः । अर्थस्तु या व्याख्या समानया मानैः ‘इन्द्रो मायाभिः’ ‘मायामात्रमिदं द्वैतं’ इत्यादि मानाभासैः सहितया ततया व्याप्तया मायया जगन्मिथ्यात्वसाधिकया मायिशास्त्रात्मिकया मायया मायिशास्त्रेणेति भावः । अनमा नमः नमनं निराकरणं तेन रहिता निराकर्तुम् अशक्येति यावद् आस बभूव । अयमा युग्मजरहिता असदृशेति भावः । ‘यमो दण्डधरे ध्वांक्षे समये युग्मजेऽपि च’ इति विश्वः । या च व्याख्या नयासना नयो ऽष्टाङ्गनयः ‘नयोऽष्टाङ्गः प्रकीर्तिते’ इत्युक्तेर् आसनं पीठं यस्या इयं व्याख्या अष्टाङ्गनयोपेतेति भावः । नासेति न न बभूव इति न किन्तु बभूव इति भावः । अतया तद्विरुद्धया व्याख्यया तद्विरुद्धा असा तया अतयेति विग्रहः । असा अते अता इति रूपाणि । अललना ललनं विकासः हर्ष इति यावत् ‘लल विकासे इति धातोः’ तेन रहिता सर्वथा सुखरहितेति भावः । यातना अन्धंतमः क्लेशो भवति । अनेन मध्वकृतव्याख्यानस्य सुखसाधनत्वम् उक्तं भवति । सर्वतो भद्रयुग्मं विपुलावृत्तं ‘यस्यां लःसप्तमे युग्मे सा युग्मविपुला मतेति लक्षणात्’ ॥ ४८ ॥

प्राज्ञो राज्ञां त्रिदिवपदवीं कौरवं क्षेत्रमाप्तः
सस्माराथ स्वविहृतिपतद्धस्तियुद्धोत्सवानाम् ।
विश्वास-प्रस्तुतिः - ४९

सत्यात्माद्यैरिह परिवृतो भाविमारीचदृग्भिः
विस्मेरैः स्वैर्निजनृपतनूहेतिदृष्ट्याऽतितुष्टैः ॥ ४९ ॥

मूलम् - ४९

सत्यात्माद्यैरिह परिवृतो भाविमारीचदृग्भिः
विस्मेरैः स्वैर्निजनृपतनूहेतिदृष्ट्याऽतितुष्टैः ॥ ४९ ॥

भावप्रकाशिका

‘तपस्विवत्स्थितं डांभं ज्ञात्वा मारीचमभ्यधात् । मध्वः परीक्षया चैनं ते विष्णुद्वेषिणं विदुः । यौधोऽत्र राजाहमितीरितो गुरुं तवायुधं क्वेति जगाद सत्यवाक् । खातेऽमुनोक्ते कुतले महागदां दृष्ट्वाऽऽप्तवाचं श्रदधुर्गुरुं हि ते । (यौधोऽत्र राजा त्वमितीरितेऽमुना ममायुधं क्वेति जगाद सत्यवागि’ति) पूर्वार्धे पाठान्तरम् ॥ ४९ ॥

पदार्थदीपिकोद्बोधिका

प्राज्ञ इति ॥ अथ राज्ञां भारतयुद्धे हतानां राज्ञां त्रिदिवपदवीं त्रिदिवस्य पदवी मार्गस्तां स्वर्गमार्गभूतमित्यर्थः । कुरुणा कुर्वाख्यभूपेन कृतं कौरवं क्षेत्रम् आप्तः प्राप्तः । निजा स्वकीया या नृपतनूर् नृपशरीरं भीमशरीरं तस्य हेतिर् आयुधं गदा तस्या दृष्टिर्दर्शनं तया अतितुष्टैः । अत एव विस्मेरैर् विस्मयशीलैर् भाविमारीचं भविष्यन्मारीचं दृष्टवन्त इति भाविमारीचदृशस्तैः । सत्यात्मा सत्यतीर्थ आद्यो येषां तैः स्वैः स्वशिष्यैः परिवृतः प्राज्ञः श्रीमध्वः । इह कुरुक्षेत्रे स्वस्य या विहृतिर्युद्धक्रीडा तया पतन्तो ये हस्तिनो गजास्तैर्यानि युद्धानि तान्येवोत्सवास्तेषां स्वविहृतिपदद्धस्तियुद्धोत्सवानां सस्मार । ‘अधीगर्थयदेशां कर्मणी’ति षष्ठी । अहम् अस्मिंस्थले गजैः सह युद्धविनोदमन्व-भूवमित्यस्मरदिति भावः । तपस्विवत् स्थितं डाम्भं ज्ञात्वा मारीचमभ्यधात् । मध्वः परीक्षया च एनं ते विष्णुद्वेषिणं विदुर् इति वचनात् । योधोऽत्र राजाहमितीरितेऽमुना तवायुधं क्वेति जगाद सत्यवाक् । खातेऽमुनोक्ते कुतले महागदां दृष्ट्वा च वाचं श्रदधुर्गुरुं हि त’इति चोक्तमैतिह्यम् । अत्र सत्यवाक्सत्यतीर्थः । कुतले भूतल इत्यर्थः । मन्दाक्रान्तावृत्तं ‘मन्दाक्रान्ता जलधिषडगैम्भौ नतौ ताद्गुरू चे’दित्युक्तेः ॥ ४९ ॥

मन्दोपाकारिणी

प्राज्ञ इति ॥ अथ कदाचिद् राज्ञां नृपाणां त्रिदिवपदवीं स्वर्गमार्गभूतं कुरुक्षेत्रे कौरवपाण्डवयुद्धे हतानां स्वर्गस्य जातत्वाद् इति भावः । ‘पन्थानः पदवी सृतिः’ इत्यमरः । एतादृशं कौरवं कुरुसम्बन्धि क्षेत्रं पुण्यस्थानम् आप्तः प्राप्तः प्राज्ञः मध्व इह कुरुक्षेत्रे स्वविहृतिपतद्धस्तियुद्धोत्सवानां युद्धे स्वस्य भीमरूपस्य विहृत्या क्रीडया पतन्तश्च ते हस्तिनः गजाश्च तैस्सह युद्धोत्सवानां युद्धाख्यविनोदान् सस्मार स्मृतवान् । भीमावतारे अस्मिन् स्थले अहं गजैस्सह युद्धलक्षणलीलाम् अन्वभूवम् इति । किंभूतः सत्यात्माद्यैः सत्यतीर्थ आद्यो येषां तैः स्वैः शिष्यैः परिवृतः । कथंभूतैर् निजनृपतनूहेति-दृष्ट्या नृपस्य तनूः शरीरं ‘स्त्रियां मूर्तिस्तनुस्तनूः’ इत्यमरः निजा स्वकीया च सा नृपतनूश्च तस्या हेतिः स्वकीयगदारूपम् आयुधं तस्य दृष्ट्या दर्शनेन अतितुष्टैः सन्तुष्टैर् अत एव विस्मेरैर् आश्चर्ययुक्तैश्च अस्मिंस्थले भीमजन्मनि मया गदायुद्धं कृतं मदीया गदा इयम् इत्युक्त्वा भूतले विद्यमानां प्रदर्शितवान् । तेन सत्यतीर्थादयो ऽतिसन्तुष्टास्सन्त आश्चर्यं चक्रुरिति ऐतिह्यम् । पुनः किंभूतैर् भाविमारीचदृग्भिर् भावी चासौ मारीचस् तन्नामकराक्षसस् तं पश्यन्तीति तैः । तत्रैव स्थले दम्भेन तपः कुर्वन्तं कञ्चन दृष्ट्वा श्रीमध्वः शिष्यान् प्रति अयं भविष्यत्काले जायमानो मारीच इत्यवोचत् । ततस् ते तं परीक्ष्य विष्णुद्वेषित्वेन निश्चितवन्तः । अनेन मध्वस्य त्रिकालदर्शित्वरूपमाहत्म्यं प्रकटितम् । तदुक्तं तपस्वी-वत्स्थितं डाम्भं ज्ञात्वा मारीचमभ्ययात् । मध्वः परीक्षया चैनं तद्विष्णुद्वेषिणं विदुरिति । अधीगर्थदयेशां कर्मणीत्यनेन युद्धोत्सवानाम् इति कर्मणि षष्ठी । ‘मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ तौ गयुग्मं’ इत्युक्तेः ॥ ४९ ॥

विप्रात्मेशः क्षणार्थं कृतनतिरशितिश्रीहृषीकेशदेशे
स्पष्टं दृष्टोऽप्यदृष्टः सपदि विहितवान् विस्मयं देहभाजाम् ।
विश्वास-प्रस्तुतिः - ५०

स्वप्ने स्वप्रेरितान्यस्थलगनिजनरोपाहृतैर्भक्ष्यभोज्यैः
प्राज्यैः प्राभोजयत् स्वं गुरुमखिलगुरुं वेदयन् वेदबन्धुम् ॥ ५० ॥

मूलम् - ५०

स्वप्ने स्वप्रेरितान्यस्थलगनिजनरोपाहृतैर्भक्ष्यभोज्यैः
प्राज्यैः प्राभोजयत् स्वं गुरुमखिलगुरुं वेदयन् वेदबन्धुम् ॥ ५० ॥

भावप्रकाशिका

अन्यत्र ‘ततोऽयमायाति तमर्चयेति स्थानाधिकारी जटिनं त्रिशूलिनम् । स्वप्ने ब्रुवाणं त्रिरवेक्ष्य दूरतः प्रायादुदन्तं च जगाद विस्मितः’ ॥ स० ॥

पदार्थदीपिकोद्बोधिका

विप्रेति ॥ हृषीकेशदेशस् तन्नामकक्षेत्रं तस्मिन् । विप्रस्यात्मा स्वरूपं यस्य स विप्रात्मा ब्राह्मणस्वरूपः सन् क्षणार्थं भिक्षाक्षणार्थं कृता नतिर् नमस्कारो येन सः । शितिर् नीला न भवतीत्यशितिः शुभ्रा श्रीः कान्तिर्यस्य सः । ‘शितिर्धवल-मेचकौ’ इत्यभिधानम् । ईशो रुद्रः स्पष्टं सम्यग्दृष्टोऽपि सपदि तत्क्षणाद् अदृष्टः सन् । देहभाजां प्राणिनां विस्मयम् आश्चर्यं विहितवान् कृतवान् सन् । स्वप्ने स्वप्नावस्थायां स्वप्रेरितः स्वेन प्रेरितः स चासावन्यस्थलगश्च अन्यस्थलं हृषीकेशक्षेत्रादन्यत् किञ्चित् शैवस्थानं तद्गः स चासौ निजश्शैवस्थानाधिकारी स्वभक्तः स चासौ नरश्च स्वप्रेरितान्यस्थलगनिजनरस् तेन उपाहृतानि हृषीकेशक्षेत्रं प्रत्यनीतानि तैः प्राज्यैर् बहुलैर् भक्ष्याणि च भोज्यानि च तैः । अखिलगुरुम् अत एव वेदबन्धुं श्रीमध्वाचार्यं स्वमात्मीयं ‘स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धन’ इत्यमरः । गुरुं वेदयन् सन् तं श्रीमध्वं प्राभोजयत् । ‘ततोऽयमायाति तमर्चयेति स्थानाधिकारी जटिनं त्रिशूलिनम् । स्वप्ने ब्रुवाणं त्रिरवेक्ष्य दूरतः प्रायादुदन्तञ्च जगाद विस्मित’ इति च उक्तम् एैतिह्यम् । अत्र स्रग्धरावृत्तं ‘म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयमि’त्युक्तेः ॥ ५० ॥

मन्दोपाकारिणी

विप्रेति ॥ हृषीकेशदेशे तन्नामकक्षेत्रे विप्रात्मा ब्राह्मणरूपस्सन् क्षणार्थं भिक्षादानलक्षणसेवार्थम् । ‘कालविशेषोत्सवयोः क्षणः’ इत्यमरः । कृतनतिः कृता नतिर् येन सो ऽशितिश्रीः शितिः श्यामा न भवतीति धवलेत्यर्थः श्रीः शरीरकान्तिर्

यस्य सः ‘शितिर्धवलमेचकौ’ इत्यमरः, ईशः रुद्रः ‘शम्भुरीशः पशुपतिः’ इत्यमरः । स्पष्टं दृष्टोऽपि जनैः सपदि तत्क्षण एव अदृष्टो ऽदर्शनं गतः सन् देहभाजां देहं भजन्तीति तेषां जनानां विस्मयम् आश्चर्यं विहितवान् कृतवान् सन् । स्वप्ने स्वप्नावस्थायां स्वप्रेरितान्यस्थलगनिजनरोपाहृतैः स्वेन रुद्रेण प्रेरितो ऽन्यच्च तत्स्थलं च तस्मिन् तिष्ठतीति अन्यस्थलगः निजः स्वभक्तश्चासौ नरः पुरुषश्च निजनरो ऽन्यस्थलगश्चासौ निजनरश्च स्वप्रेरितश्चासौ अन्यस्थलगनिजनरश्च तेन उपाहृतैर् आनीतैः प्राज्यैर् बहुलैर् भक्ष्यभोज्यैर् भक्ष्यैर् विशेषैर् भोज्यैर् अन्नाद्यैश्चेत्यर्थस् तं मध्वं प्राभोजयद् भोजयामास । किं कुर्वन् अखिलगुरुम् अखिलजीवानां गुरुं वेदबन्धुम् अभिप्रेतार्थवर्णनेन सुहृदं श्रीमध्वं स्वम् आत्मीयं ‘आत्मीये स्वो धनेऽस्त्रियां’ इत्यमरः गुरुं वेदयन् ज्ञापयन् । अयं भावः कदाचिन् मध्वः हृषीकेशक्षेत्रं प्राप्तवान् । तत्र महादेवः शुभ्रवर्णः ब्राह्मणरूपी भूत्वा स्पष्टं जनैः प्रत्यक्षतया दृष्टस्सन् मध्वं प्राप्य नमस्कृत्वा, हे मध्वाचार्य श्वो ऽहं तुभ्यं भिक्षां दास्यामि । भवता सा भिक्षा स्वीकार्या । भवान् मयि भिक्षास्वीकरणविषये अनुग्रहं करोतु । तुभ्यं नमस्करोमि । इत्येवं सर्वजनसमक्षं नमस्कारपूर्वकं भिक्षार्थं निमन्त्र्य तत्क्षण एव सर्वेषाम् अदृश्यो बभूव । तेन जनानाम् आश्चर्यं बभूव । अनन्तरं स रुद्रः हृषीकेशक्षेत्राद् अन्यत्र स्थले स्थितशेषदेवालयाधिकारिणं कञ्चन शिवभक्तं रात्रौ स्वप्नावस्थायां जटाधारी त्रिशूली सन् अखिलगुरुर् विशेषतो मम गुरुः श्रीमध्वः हृषीकेशक्षेत्रे अस्ति । तं भिक्षादानाद्यैर् अर्चय इति प्रेरयामास । एवं रुद्रप्रेरितः रुद्रभक्तः देवालयाधिकारी प्रचुरं भक्ष्यभोज्यादिकं कारयित्वा हृषीकेशदेशं प्रति उपाहृत्य तैः श्रीमध्वं प्राभोजयद् भोजयामास इति । इदं रुद्रकारितम् इत्येतत् स्वप्नद्रष्टुर् देवालयाधिकारिणः वचनेन प्रतीयते । ‘भुज पालनाभ्यवहारयोः’ णिजन्ताद् लङ् परस्मैपदम् । स्रग्धरावृत्तम् ‘म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्’॥ ५० ॥

विश्वास-प्रस्तुतिः - ५१

अवाप्तवान् पुनरिषुपातमस्मरद्रमापतिं स परशुराममादरात् ।
स राजकेल्युरुकदलीसहस्रकं तदाऽऽददभ्यवहृतिदत्तमुत्तमम् ॥ ५१ ॥

मूलम् - ५१

अवाप्तवान् पुनरिषुपातमस्मरद्रमापतिं स परशुराममादरात् ।
स राजकेल्युरुकदलीसहस्रकं तदाऽऽददभ्यवहृतिदत्तमुत्तमम् ॥ ५१ ॥

पदार्थदीपिकोद्बोधिका

अवाप्तवानिति ॥ स श्रीमध्वः पुनःइषुपातं तन्नामकक्षेत्रम् अवाप्तवान् तत्क्षेत्राधिपतिं रमापतिं श्रीपतिं परशुरामम् आदराद् अस्मरत् । स श्रीमध्वस् तदा तत्क्षेत्रस्थितिकालेऽत्तेर्भिक्षाया अवसितिर् अवसानम् अत्त्यवसितिस् तस्यां दत्तमुत्तमं राजकेल्यो राजकेल्याख्या उरुकदल्य उत्कृष्टकदलीफलपक्वानि तेषां सहस्रकम् । यद्वा राज्ञा इषुपाताधिपतिना केल्या क्रीडया परीक्षार्थं दत्तमुरुकदलीसहस्रकं राजकेल्युरुकदलीसहस्रकं, अस्मिन्पक्षे दत्तमिति मध्यमपदलोपीसमासः । आदज् जघास । रुचिरावृत्तं ‘जभौ सजौ ग्विति रुचिरा चतुराग्रहैरि’त्युक्तैः ॥ ५१ ॥

मन्दोपाकारिणी

अवाप्तवानिति ॥ सः मध्वः पुनो ऽनन्तरम् इषुपातं तन्नामकक्षेत्रम् अवाप्तवान् सन् तत्क्षेत्राधिपतिं रमापतिं परशुरामम् आदराद् भक्त्या अस्मरत् स्मृतवान् । ‘स्मृ स्मरणे’ लङ् परस्मैपदम्’ । तदा तत्क्षेत्रस्थितिकाले सः मध्वो ऽभ्यवहृतिदत्तम् अभ्यवहृतये भक्षणार्थं दत्तम् उत्तमम् अतिस्वादुरसं राजकेल्युरुकदलीसहस्रकं राजकेल्याख्या उर्व्यश्च स्थूलाश्च ताः कदल्यः रम्भाफलानि च तासां सहस्रकम् आदज् जघास । इषुपात-क्षेत्राधिपतिना भिक्षार्थं निमन्त्र्य भोजनकाले परीक्षार्थं राजकदलीनामकस्थूलरम्भाफल-सहस्रं दत्तं च तन् मध्वाचार्यः भक्षितवान् इति भावः । ‘अद भक्षणे’ लङ् परस्मैपदम् आदद् आत्ताम् आदन्’ । जभौ सजौ गिति रुचिरा चतुर्ग्रहैः’ इति रुचिरावृत्तम् ॥ ५१ ॥

स शङ्करपदद्विजोपहृतमाप्य गोवाख्यगां गरिष्ठकदलीलसद्दशशतीचतुष्कं चरन् ।

पयः कलशपञ्चकत्रिकयुगाभिपूर्णं पपावदृष्टगतिरप्यभून्नृपनृमण्डलैरुद्यतैः ॥ ५२ ॥

भावप्रकाशिका

पञ्चकत्रिकं पञ्चदशकं तद्युगं त्रिंशत् । ‘देवैः समं रहसि देवगृहे प्रवृत्तो राज्ञा कवाटविवृतौ प्रसभोदितोऽसौ । ऊचेऽधुना व्रजसि चेदिह नश्यसीति राजाथ विस्मितमना व्यवृणोत्कवाटम् । रक्तेक्षणं पुरुषसिंहमवेक्षमाणः सद्यो भयान्निजपुरोहित-माह्वयत्सः । क्षन्तव्यमित्यसकृदानमति द्विजोऽसौ षण्मासमायुरददान्नृपतेर्दयालुः । राज्ञार्थि-तोऽत्र वसतावखिलांश्च शिष्यान् प्रस्थाप्य वायुवदभूदखिलैरदृश्यः । षष्ठेऽथ मासि परचक्रपराक्रमेण राजा सराज्यनगरो विवशो ननाश’ ॥ ५२ ॥

पदार्थदीपिकोद्बोधिका

स इति ॥ स श्रीमध्वः गोवेत्याख्या यस्याः सा गोवाख्या सा च सा गौर् भूमिश्च तामाप । तत्र शङ्कर इति पदं नाम यस्य स शङ्करपदस्तादृशो यो द्विजस्तेनोपहृतं दत्तं, गरिष्ठातिस्थूला याः कदल्यः कदलीफलपक्वानि तेषां लसन्ती या दशशती दशानां शतानां समाहारो दशशती तस्याः सहस्रं तस्याश्चतुष्कम् । चतुः सहस्रमित्यर्थः । चरन् भक्षयन् सन् । चरगतिभक्षणयोरिति धातुः । कलशानां घटानां पञ्चकानि तेषां त्रिकं पञ्चदशेत्यर्थः । तस्य युगं युगलं त्रिंशदित्यर्थः । तस्मिन्नभिपूर्णं परिपूर्णं पयः क्षीरं पपौ । उद्यतैर् युक्तैर् नृपनृमण्डलैर् नृपभटसमूहैर् अदृष्टा गतिर्यस्य तदृशः सन्नप्यभूत् । एवमस्य सामर्थ्यं श्रुत्वानेनात्रैवस्थातव्यमिति मन्वानो राजा गमननिरोधार्थं भटान् आदिशत् । तदा तैरदृष्टोऽयं जगामेति भावः । इदमत्रैतिह्यम्– ‘देवैः समं रहसि देवगृहे प्रवृत्तो राज्ञा कवाटविवृतौ प्रसभोदितोऽसौ । ऊचेऽधुना व्रजसि चेदिह नश्यसीति राजाथ विस्मितमना व्यृणोत्कवाटम् ॥ रक्तेक्षणं पुरुषसिंहमवेक्षमाणः सद्यो भयान्निजपुरोहितमाह्वयत्सः । क्षन्तव्यमित्यसकृदानमति द्विजेन्द्रे षण्मासमायुरददन्न-पतेर्दयालुः ॥ राज्ञां स्थितोऽत्र वसतावखिलांश्च शिष्यान् प्रस्थाप्य वायुवदगादखिलैरदृष्टः ॥ षष्ठे च मासि परचक्रपराक्रमेण राजा सराज्यनगरो विवशो ननाश’ इति । पृथ्वीवृत्तम् ‘जसौ जसयलावसुग्रहयतिश्च पृथ्वी गुरुरि’त्युक्तेः ॥ ५२ ॥

मन्दोपाकारिणी

स इति ॥ सः मध्वः गोवाख्यगां गोवा इत्याख्या यस्याः सा च सा गौर् भूश्च तां ‘भूवाग्वारिषु गौर्मता’ इति विश्व आप्य प्राप्य । तत्र देशे शङ्करपद-द्विजोपहृतं शङ्कर इति पदं नाम यस्य स चासौ द्विजश्च तेन उपहृतं दत्तं गरिष्ठकदलील-सद्दशशतीचतुष्कं दशानां शतानां समाहारः दशशती सहस्रम् इत्यर्थः । लसती च सा दशशती च । गरिष्ठाश्च ताः कदल्यश्च तासां लसद्दशशती तस्याश् चतुष्कम् इति विग्रहः । गरिष्ठानां कदलीफलानां लसत्याः स्वादुरसोपेताया दशशत्याः सहस्रस्य चतुष्कं चतुष्टयम् अतिस्थूलस्वादुरसोपेतचतुस्सहस्रसङ्ख्याककदलीफलानि इति भावः । चरन् भक्षयन् सन् कलशपञ्चकत्रिकयुगाभिपूर्णं पञ्चकानां त्रिकं तस्य युगं पञ्चकत्रिकयुगं कलशानां पञ्चकत्रिकयुगं तस्मिन् अभिपूर्णं कुम्भपञ्चकत्रिकस्य पञ्चदशस्य युगं युग्मं त्रिंशत्

तस्मिन् परिपूर्णम् इत्यर्थस् त्रिंशत्सङ्ख्याककुम्भपूर्णम् इति भावः । ‘युग्मं कृतादिषु’ इत्यमरः । पयः दुग्धं ‘क्षीरं पयः समं’ इत्यमरः पपौ । ‘पा पाने’ लिट् परस्मैपदं पपौ पपतुः पपुः’ । तत उद्यतैर् ग्रामाद्बहिर्गमननिरोधार्थं सन्नद्धैर् नृपनृमण्डलैर् नृपस्य तद्देशस्थराज्ञः नरः पुरुषाः ‘ना नरौ नरः’ इति रूपाणि तेषां मण्डलैः समूहैर् अदृष्टगतिरपि अदृष्टा गतिर् गमनं यस्य सस् तथा अभूत् । अयं भावः-तद्देशस्थो राजा श्रीमध्वाचार्यस्य सहस्रचतुष्ट-यकदलीफलभक्षणं त्रिंशद् घटपूर्णक्षीरपानरूपसामर्थ्यं श्रुत्वा एतादृशेन अनेन मध्वेन अत्रैव स्थातव्यमिति बुद्ध्या गमननिरोधार्थं तत्रस्थभटान् आज्ञापयामास । तदा तैः

राजभटैर् अदृष्टस्सन्नेव जगाम इति भावः । जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः’ पृथ्वीवृत्तम् ॥ ५२ ॥

विश्वास-प्रस्तुतिः - ५३

अयमेव गोविषयतोऽपि कुत्रचित् सदसि जनतार्थितो जवात् ।
पुष्पमुत फलमहो विदधे जनसुप्तिदानुपमगानसम्पदा ॥ ५३ ॥

मूलम् - ५३

अयमेव गोविषयतोऽपि कुत्रचित् सदसि जनतार्थितो जवात् ।
पुष्पमुत फलमहो विदधे जनसुप्तिदानुपमगानसम्पदा ॥ ५३ ॥

भावप्रकाशिका

गोविषयस्य पशुपे इत्यपभ्रष्टभाषा । ‘दिव्यगेयविदग्धोऽसौ सर्वज्ञ इति याचितः । विद्वद्भिरत्र कृतवान् गानशास्त्रं सुदुर्लभम्’ ॥ ५३ ॥

पदार्थदीपिकोद्बोधिका

अयमिति ॥ अयं श्रीमध्वाचार्यः गोविषयतोऽपि गोविषयेऽपि । सार्वविभक्तिकत्वात्तसेरत्र सप्तम्यर्थः । गोविषयस्य ‘पशुपे’ इत्यपभ्रष्टभाषा । तत्र कुत्रचित् सदसि जनतार्थितो गानं कर्तव्यमिति जनसमूहेन अर्थितः सन् । जनानां सुप्तिः सुषुप्तिस् तां ददातीति जनसुप्तिदा जनसुखदेति यावत् । तादृशी या अनुपमगान-सम्पदासदृशगानमेव सम्पत्तया जवात् शीघ्रात् पुष्पमुत फलञ्च विदधे । अनुपमगानेन पूगादौ आशु पुष्पफले विदध इति भावः । अहो आश्चर्यम् । उद्गतावृत्तं ‘चरमयोः सजसजगा द्वितीये नसजगास्तृतीये भनजलगाश्चेदुद्गते’त्युक्तेः ॥ ५३ ॥

मन्दोपाकारिणी

अयमिति ॥ अयमेव श्रीमध्वाचार्यः गोविषयतः सप्तम्यर्थे तसिर् गोविषये तन्नामकग्रामेऽपि कुत्रचित् सदसि सभायां जनतार्थितः जनसमूहेन अर्थितस्सन् । जनसुप्तिदानुपमगानसम्पदा जनानां नृणां सुप्तिं निद्रां ददातीति । अनुपमा न विद्यते उपमा दृष्टान्तः यस्याः सा । गानं गायनमेव सम्पत् । जनसुप्तिदा च सा गानसम्पच्च इति तथोक्ता । तया जवात् शीघ्रं पुष्पं फलम् उत फलमपि ‘उताप्यर्थविकल्पयोः’ इति विश्वः विदधे अकरोत् । अहो आश्चर्यम् । ‘वि पूर्वो डु धाञ्’ धारणपोषणयोर् लिट् आत्मनेपदं दधे दधाते दधिरे । अयं भावः कस्मिंश्चिद् ग्रामविशेषे मध्वाचार्यमाहात्म्यं श्रुत्वा ग्रामस्थ-जनसमूहैः सर्वथापि अजातपुष्पफलेषु पूगादिवृक्षेषु फलपुष्पजननार्थं प्रार्थितस्सन् मध्वः जनानां निद्राजनकगायनं कृत्वा पूगादिवृक्षेषु पुष्पाणि फलानि च उत्पादयामास । तेन तत्रत्यजनानाम् आश्चर्यमभूद् इति भावः । उद्गतावृत्तं ‘प्रथमे सजौ यदि सजौ च नसजगुरु-काण्यनन्तरम् । यद्यथा भनजलगाः स्युरथो सजसा जगौ च भवतीयमुद्गता’ ॥ ५३ ॥

धन्योऽमह्यत नाकिनामहितहृद्बाणस्समोऽजस्य यो
मध्वो ध्वस्तदुरागमोऽग्रयहिमगुश्रीः काममायामहृत् ।
विश्वास-प्रस्तुतिः - ५४

विष्णुं विश्वजयप्रदं स हि नमन् सेव्यं सुसौख्यं मुदा
दाक्ष्याच्छ्रीधरमामयादिविरही योगी सुहृत् सर्वदा ॥ ५४ ॥

मूलम् - ५४

विष्णुं विश्वजयप्रदं स हि नमन् सेव्यं सुसौख्यं मुदा
दाक्ष्याच्छ्रीधरमामयादिविरही योगी सुहृत् सर्वदा ॥ ५४ ॥

पदार्थदीपिकोद्बोधिका

धन्य इति ॥ धन्यो निरपेक्षस्सर्वगुणसम्पूर्णः । ‘निरपेक्षो गुणैः पूर्णो धन्य इत्यभिधीयत’ इत्यभिधानम् । नाकिनां देवानाम् अहिताः शत्रवोऽसुरास्तेषां हृत् हृदयं तस्य बाणः शल्यः । अजस्य ब्रह्मणः समः । ‘निर्विशेषो ब्रह्मा वे’ति वचनात् । ध्वस्तो निराकृतो दुरागमो दुष्टशास्त्रं येन तादृशः । हिमाश्शीता गावः किरणा यस्य स हिमगुर् अग्रयः पूर्णो हिमगुश्चन्द्रस्तस्य श्रीरिव श्रीः कान्तिर् यस्य तादृशः । विश्वजयप्रदं सर्वेषां जयप्रदं सेव्यं सेवनीयम् । शोभनं सौख्यं सुखं यस्य तं श्रीधरं लक्ष्मीकान्तमिति यावत् । विष्णुं मुदा प्रीत्या भक्तयेति यावत् । दक्षस्य चतुरस्य भावो दाक्ष्यं तस्मात् । अष्टाङ्गविशिष्टत्वाख्यचातुर्येणेति भावः । साक्षादिति पाठे साक्षात्प्रत्यक्ष-मित्यर्थः । नमन् । सर्वतीर्थक्षेत्रेषु विष्णुमेव नमन्निति भावः । आमयो रोग आदिर्यस्य क्लेशस्य आमयादिस् तस्य विरहो वियोगोऽस्यास्तीति तादृशः । योगो भक्तयादि-योगोऽस्यास्तीति योगी । सर्वदा सुहृद्भगवतः सुहृत् । काममिच्छा यथा भवति तथा कामम् अत्यन्तमित्यर्थः । आयामो विस्तारोऽस्यास्तीत्यायामि हृच्चित्तं यस्य स आयामिहृत् । सर्वज्ञेति यावत् । यो मध्वः सोऽमह्यत अपूज्यत । मह पूजायां कर्मणि लङ् । शार्दूलविक्रीडितवृत्तम् । लक्षणं तूक्तम् ॥ ५४ ॥

मन्दोपाकारिणी

धन्य इति ॥ धन्यः निरपेक्षगुणपूर्णः । नाकिनां नाकः स्वर्गो एषाम् अस्तीति ‘स्वरव्ययं स्वर्गनाकः’ इत्यमरस् तेषाम् अहितहृद्बाणः द्वेषिणां दैत्यानां हृदः हृदयस्य बाणः शत्रुहृदयशल्य इति भावः । ‘द्विट्विपक्षाहितामित्रः’ इत्यमरः । अजस्य चतुर्मुखस्य समः । न विशेषो ब्रह्मवाय्वोरिति वचनात् । ध्वस्तदुरागमः । निराकृतं दुःशास्त्रं येन सः । अग्रया हिमगुश्रीर् हिमा गावः किरणा यस्य सः हिमगुर् अग्रयः श्रेष्ठः षोडशकलापरिपूर्ण इत्यर्थः । स चासौ हिमगुश् चन्द्रस् तस्य श्रीः कान्तिरिव कान्तिर् यस्य सश् चन्द्रवत्सौम्यकान्तिरित्यर्थः । कामम् अतितराम् । आयामहृद् विशालं चित्तं यस्य सः सर्वज्ञ इति यावत् । ‘दैर्घ्यमायाम आरोहः परिणाहो विशालता’ इत्यमरः । यः मध्व इत्यादिगुणविशिष्टो ऽस्ति स लोके अमह्यत हि अपूज्यत खलु । ‘मह पूजायां’ कर्मणि लङ् आत्मनेपदम् अमह्यत अमह्येताम् अमह्यन्त । किंभूतः विश्वजयप्रदं सर्वेषां जयम् उत्कर्षं प्रददातीति तम् । सेव्यं सेवितुं योग्यम् । सुसौख्यम् अत्युत्कृष्टं सुखं यस्य सस् तम् । श्रीधरं लक्ष्म्या धरम् आधारं लक्ष्मीकान्तम् । एवंभूतं विष्णुं मुदा प्रीत्या भक्त्या इति यावत् । दाक्ष्याद् दक्षस्य भावश् चातुर्यं तस्माद् अष्टाङ्गविशिष्टचातुर्येण इति भावः । नमन् सर्वतीर्थेषु क्षेत्रेषु च विद्यमानं विष्णुमेव नमस्कुर्वन् इति भावः । आमयादिविरही ‘रोगव्याधिगदामयाः’ इत्यमर आमया एव आदिर् यस्य सः नानाक्लेशस् तस्य विरहो ऽभावो अस्यास्तीति । योगी योगः ध्यानम् अस्यास्तीति योगी । सर्वदा विष्णुध्यानवान् इति भावः । ‘योगः संनहनोपायध्यानसंगतियुक्तिषु’ इत्यमरः । सुहृद् भगवतो विष्णोर् अतिप्रीतिविषयः । अयं भावः यः मध्वः धन्यः दैत्यानां हृदयशल्यश् चतुर्मुखसमः सर्वदुश्शास्त्रनिरासकश् चन्द्रवत् शान्तरूपः सर्वज्ञः सर्वक्लेशरहितः सर्वदा विष्णुध्यानवान् भगवतो ऽतिप्रियश्च स एतादृशगुणवान् मध्वाचार्यः सुखरूपं सर्वसेव्यं सर्वेषां हितकरं लक्ष्मीकान्तं परमप्रीत्या सर्वतीर्थक्षेत्रादिपुण्यस्थलेषु साष्टाङ्गं नमस्कुर्वन् सर्वदेशे सर्वजनैः सम्यक् पूजितोऽभूद् इति । ‘सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितम्’ ॥ ५४ ॥

विश्वास-प्रस्तुतिः - ५५

इति भुवनविभूषणस्य भूयांस्यविगणितानि कृतान्तराणि हन्त ।
श्रवणमननकीर्तनैरभीष्टं प्रतिददतीत्यमराः प्रकीर्तयन्ति ॥ ५५ ॥

मूलम् - ५५

इति भुवनविभूषणस्य भूयांस्यविगणितानि कृतान्तराणि हन्त ।
श्रवणमननकीर्तनैरभीष्टं प्रतिददतीत्यमराः प्रकीर्तयन्ति ॥ ५५ ॥

पदार्थदीपिकोद्बोधिका

एवं ‘भुवनाद्भुतमध्वचेष्टितमि’ति श्लोके, ‘अथ शुश्रूषुजनाय वर्ण्यत’ इति श्रीमध्वकथावर्णनं प्रतिज्ञाय ‘क्वचिदीश्वरदेवमेष भूपं’ इत्यादिश्लोकैर् अनुवर्ण्येदानीं दशमतिशिष्य उपसंहरति–

इतीति ॥ भुवनस्य लोकस्य विभूषणम् अलङ्कारभूतस् तस्य श्रीमध्वस्य, इति एवं-विधानि । इतिशब्दः प्रकारवाचकः । ‘इति हेतुप्रकारणप्रकरादिसमाप्तिष्वि’त्यमरः । भूयांसि भूरीणि अविगणितानि असंख्यातानि । अन्यानि कृतानि कृतान्तराणि । नपुंसके भावे क्त इति क्तः । अस्माभिर् इदानीम् उक्तेभ्योऽप्यन्यानि कर्मान्तराणीत्यर्थः । श्रवणं गुरुमुखाच्छास्त्रतः श्रवणं तस्य मननं मनसा ध्यानं तच्च कीर्तनं वाचाकथनं तच्च, तैरभीष्टं प्रतिददति । प्रयच्छन्तीत्यमरा देवाः प्रकीर्तयन्ति । हन्त हर्षे । पुष्पिताग्रावृत्तं ‘अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रे’त्युक्तेः ॥ ५५ ॥

मन्दोपाकारिणी

एवं ‘भुवनाद्भुतमध्वचेष्टितमि’त्यादिना श्रीमध्वाचार्यकथावर्णनं प्रतिज्ञाय ‘क्वचिदीश्वरदेवमेष भूपं’ इत्यादिश्लोकैः श्रीमध्वचरित्राणि यथाशक्ति यथामति किंचिद् अनुवर्ण्य योग्यानां श्रोतॄणां मध्वचरितश्रवणादौ रुचिं जनयन् उपसंहरति दशमति शिष्यः ॥ इतीति ॥ भुवनविभूषणस्य भुवनस्य जगतो ऽलङ्कारभूतस्य श्रीमध्वाचार्यस्य । इति एवं प्रकाराणि । इतिशब्दः प्रकारवचनः । अविगणितानि केनापि न सङ्ख्यातानि भूयांसि भूरीणि कृतान्तराणि इदानीं मदुक्तेभ्यश् चरित्रेभ्यो ऽन्यानि चरित्राणि । श्रवणमननकीर्तनैः श्रवणं श्रोत्रेणाकर्णनं मननं मनसा चिन्तनं कीर्तनं वाचा उच्चारणम् एभिस् त्रिभिः साधनैर् अधिकारिणाम् अभीष्टम् ऐहिकामुष्मिकफलं प्रतिददति प्रयच्छन्ति । इति इत्थम् अमरा देवाः प्रकीर्तयन्ति कथयन्ति । हन्त हर्षे । प्रति पूर्वक ‘डु दाञ् दाने’ लट् परस्मैपदं ददाति दत्तः ददति । ‘कीर्त संकीर्तने’ लट् परस्मैपदम् । अयुजिनयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा’ इति पुष्पिताग्रावृत्तम् ॥ ५५ ॥

इति विविधगोधारावारैर्विशारदवारिदो हरिपदरतो विद्याविद्युत्प्रदीपितदिद्गुखः ।

भवभयमहाघर्मोत्तप्तं सदङ्घ्रिपमण्डलं सफलसुमनः सान्द्रानन्दं व्यधादविपल्लवम् ॥५६॥

॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते सुमध्वविजये महाकाव्ये आनन्दाङ्के दशमः सर्गः ॥

भावप्रकाशिका

सफलमसुमनः सफलसुचित्तं फलपुष्पसहितं च । अविपल्लवं विपदो लवेनापि रहितमविगतपल्लवं च ॥ ५६ ॥

इति नारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य

भावप्रकाशिकाख्यटीकायां दशमः सर्गः ॥ १० ॥

पदार्थदीपिकोद्बोधिका

दशमतिशिष्य इत्यादिनोक्तम् उपसंहरति काव्यकारः —

इतीति ॥ हरेः पदं पादस्तस्मिन् रतो निरतः । विद्या एव विद्युतस्तटितस्ताभिः प्रदीपितानि प्रकाशितानि दिङ्मुखानि येन तादृशः । विशारदो विद्वानेव वारिदो विशारदवारिदो विद्वन्मेघः मध्वाख्यमेघ इत्यर्थः । भवस्य संसारस्य भयं तदेव महाघर्मो महोष्णं तेनोत्तप्तं सन्तप्तं भवभयमहाघर्मोत्तप्तम् । सन्तः सज्जना एवांघ्रिपा वृक्षास्तेषां मण्डलं समूहं सदङ्घ्रिपमण्डलम् । विविधा नानाविधा ये गोधारावारा वचनधारा समूहास्तैः । सन्तोषयित्वेति शेषः । फलं ज्ञानविशेषादिरूपं फलं तच्च, सुमनश्शोभनमनस्तच्च फलसुमनसी ताभ्यां सहितं सफलसुमनः । अत एव सान्द्रः सम्पूर्ण आनन्दो यस्य तादृशं विपदो लव एकदेशो विपल्लवः । न विद्यते विपल्लवो यस्य तादृशं व्यधाच्चाकार । वारिदो विष्णुपदरतो विद्युत्प्रदीपितदिद्गुखः सन्, धर्मोत्तप्तमंघ्रिपमण्डलं जलधारावारैरभिषिच्य पुष्पफलयुक्तमविपल्लवमविगतपल्लवम् । सपल्लवमित्यर्थः । यथा कुर्यात्तद्वदिति भावः ।

अत्र श्लेषानुप्राणितो रूपकालङ्कारः । हरिणीवृत्तं ‘नसमरसलगैः षड्वेदैर्हयैर्हरिणी मते’त्युक्तेः ॥ ५६ ॥

इति श्रीमद्वेदाङ्गमुनिविरचितश्रीसुमध्वविजयटीकाविवृतौ श्रीविश्वपतितीर्थकृतौ पदार्थदीपिकोद्बोधिकायां दशमः सर्गः ॥

मन्दोपाकारिणी

इदानीं ‘‘दशमतिशिष्यः कश्चित्’’ इत्यादिना उक्तम् उपसंहरति नारायणपण्डिताचार्य इतीति ॥ विशारदवारिदः विशारदः विद्वान् दशमतिशिष्यः स एव वारिदः मेघः । ‘तटित्वान्वारिदोऽम्बुभृत्’ इत्यमरः । सदङ्घ्रिपमण्डलं सन्तः सज्जना एव अङ्घ्रिपा वृक्षास् तेषां मण्डलं समूहम् । ‘विटपी पादपस्तरुः’ इत्यमरः सज्जनाख्यवृक्षसमूहम् इत्यर्थः । इति पूर्वोक्तप्रकारेण विविधगोधारावारैर् विविधाश्च ता गावश्च नानाप्रकार-वचनलक्षणजलानि इत्यर्थस् तासां धारा आसाराः ‘धारासम्पात आसारः’ इत्यमरस् तासां वारैः समूहैः ‘वारसङ्घातसञ्चयाः’ इत्यमरः वचनलक्षणजलवर्षेण इत्यर्थः । सन्तोषयित्वा इति शेषः । सफलसुमनः फलेन ज्ञानभक्त्यादिविशेषफलेन सहितं सफलं सुमनः शोभनं मनश् चित्तं यस्य तत् । सफलं सुमनो यस्य तत् । सान्द्रानन्दं सान्द्रः घनः पूर्ण आनन्दः सन्तोषो यस्य तत् तथोक्तं सम्पूर्णसुखमित्यर्थः । अविपल्लवं विपदः विपत्तयस् तासां लवः लेशः विपल्लवः न विद्यते विपल्लवो यस्य तत् । व्यधाद् अकरोत् । वृक्षपक्षे सफलसुमनः फलैः सुमनोभिः पुष्पैश्च सहितम् इत्यर्थः ‘स्त्रियः सुमनसः पुष्पं’ इत्यमरः । अविपल्लवं विगताः पल्लवाः किसलया यस्य तद् विपल्लवं न भवतीत्यपल्लवमिति यावत् ‘द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः’ इति न्यायात् । किंभूतः विशारदवारिदः हरिपदरतः हरेर् विष्णोः पदे चरणे रतः। मेघस्तु हरिपदे आकाशे रतः विद्यमानः ‘वियद्विष्णुपदं’ इत्यमरः । पुनः विद्याविद्युत्प्रदीपितदिद्गुखः विद्यैव वेदादिविद्यैव विद्युत् तडित् ‘तडित्सौदामिनी विद्युत्’ इत्यमरः विद्याविद्युता प्रदीपितं प्रकाशितं दिशां मुखं येन सः यथा तडिता दिशः प्रकाशन्ते तथा विद्ययापि प्रकाशन्ते इति ज्ञेयम् । कथंभूतं सदङ्घ्रिपमण्डलं भवभयमहाघर्मोत्तप्तं भवः संसारस् तस्य भयं भवभयम् । ‘भवः संसारसम्प्राप्तिश्रेयःशङ्करजन्मसु’ इति विश्वः । महान् बहुलश्चासौ घर्म आतप उष्णो वा भवभयमेव महाघर्मस् तेन उत्तप्तं संतप्तं ‘घर्मः स्यादातपे ग्रीष्मे उष्णस्वेदांभसोरपि’ इति विश्वः । यथा कश्चिन्मेघ आकाशाश्रितस्सन् तडिद्भिर् दिशः प्रकाशयन् आतपतप्तं वृक्षसमूहं जलधाराभिर् अभिवर्ष्य पल्लवयुक्तं पुष्पफलयुक्तं च करोति तद्वद् अयं दशमतिशिष्यः हरिचरणारविन्दम् आश्रितः स्वविद्यया सर्वा दिशः शोभयन् । संसारक्लेशसंतप्तं सज्जनससूहं श्रीमध्वाचार्यचरित्रवर्णनेन सन्तोषयित्वा शोभन-चित्तयुक्तं ज्ञानभक्त्यादिविशेषयुक्तं तथा क्लेशलेशेनापि रहितं पूर्णसुखयुक्तं च व्यधाद् इति भावः । ‘वि पूर्वाड् डु धाञ्’ धातोर् लुङ् परस्मैपदम् अधाद् अधाताम् अधुः । हरिणीवृत्तं ‘नसमरसलागः षड्वेदैर्हयैर्हरिणी मता’ इति तल्लक्षणात् ॥ ५६ ॥

इति श्रीमध्वविजयटीकायां श्रीमच्छलारिनरसिंहाचार्याणां शिष्येण शेषेण विरचितायां मन्दोपकारिण्यां दशमः सर्गः ॥ १० ॥