नवमः सर्गः
श्रीमत्कविकुलतिलकनारायणपण्डिताचार्यविरचितः
सुमध्वविजयः
नवमः सर्गः
विश्वास-प्रस्तुतिः - १
चोदयन्तमथ गन्तुमादरात्तत्र धर्मजमजं प्रणम्य सः ।
सौख्यतीर्थकविलोकनायको वेदनायकपुरस्सरो ययौ ॥ १ ॥
मूलम् - १
चोदयन्तमथ गन्तुमादरात्तत्र धर्मजमजं प्रणम्य सः ।
सौख्यतीर्थकविलोकनायको वेदनायकपुरस्सरो ययौ ॥ १ ॥
श्रीविश्वपतितीथंविरचिता
**पदार्थदीपिकोद्बोधिका**
चोदयन्तमिति ॥ अथ सः । सुखमेव सौख्यं तत्करं तीर्थं शास्त्रं यस्मात् तादृशो यः कविलोकनायकः कवीनां ज्ञानिनां ये लोका जनास्तेषां नायकः स्वामी श्रीमध्वाचार्यः । गन्तुं चोदयन्तं प्रेरयन्तम् अजं धर्मजं यमात्मकधर्मप्रजेश्वरजं नारायणम् आदराद् भक्तेः ‘आदरं भजनं भक्तिरि’त्युक्तेः प्रणम्य । वेदनायकः श्रीवेदव्यासः पुरस्सरो ऽग्रगामी यस्य तादृशःसन् ययौ । नारायणाश्रमाद् व्यासाश्रमं ययौ ॥ १ ॥
**श्रीछलारिशेषाचार्यविरचिता मन्दोपाकारिणी**
श्रीगुरुभ्यो नमः ॥ चोदयन्तमिति । वेदव्यासनारायणयोर् आज्ञास्वीकारानन्तरम् । नारायणाश्रमे । सः सौख्यतीर्थकविलोकनायकः कवयः पण्डिताश्च ते लोका जनाश्च कविलोकाः ‘लोकस्तु भुवने जने’ इत्यमरः कविलोकानां नायको ऽधिपः कविलोक-नायकः । ‘अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः’ इत्यमरः, सौख्यतीर्थ आनन्द-तीर्थश्चासौ कविलोकनायकश्च इति तथोक्तः । गन्तुं भूमिं प्रतियातुं चोदयन्तं प्रेरयन्तं धर्मजं धर्माज् जायते इति धर्मजस् तं यमपुत्रम् अजं श्रीनारायणम् आदराद् भक्त्या प्रणम्य । वेदनायकपुरस्सरः वेदानां नायकः नेता वेदव्यासः स एव पुरस्सरो ऽग्रणीर् यस्य स तथोक्तः वेदव्यासं पुरस्कृत्य इति भावः । ‘पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरस्सराः’ इत्यमरः । ययौ नारायणाश्रमाद् वेदव्यासाश्रमं प्रति जगाम । ‘या प्रापणे’ इत्यतो लिट् परस्मैपदम् । सर्गसमाप्तिपर्यन्तं प्रायः रथोद्धतावृत्तं ‘रात्परैर्नरलगै रथोद्धता’ इत्युक्तेः ॥ १ ॥
विश्वास-प्रस्तुतिः - २
आश्रमान्तरमवाप्य कृष्णतः श्राव्यमेष सकलं च शुश्रुवान् ।
चित्तवृत्तिमनुवृत्तिमान् गुरोः साध्ववेत्य गमनोन्मुखोऽभवत् ॥ २ ॥
मूलम् - २
आश्रमान्तरमवाप्य कृष्णतः श्राव्यमेष सकलं च शुश्रुवान् ।
चित्तवृत्तिमनुवृत्तिमान् गुरोः साध्ववेत्य गमनोन्मुखोऽभवत् ॥ २ ॥
पदार्थदीपिकोद्बोधिका
आश्रमान्तरमिति । एष श्रीमध्वः । अन्य आश्रम आश्रमान्तरं श्रीवेदव्यासाश्रममवाप्य गुरोः श्रीव्यासस्य चित्तवृत्तिं साधु सम्यक् यथा भवति तथा अवेत्य ज्ञात्वा । अनुवृत्तिर् अस्य अस्ति इति अनुवृत्तिमान् । अनुवृत्तिं कुर्वन् सन् इत्यर्थः । कृष्णतः श्रीव्यासात् सकलं च श्राव्यं श्रोतव्यभागं शुश्रुवान् श्रुतवान् सन् । गमने परावृत्य दक्षिणबदरीं प्रत्यागमने उन्मुखं यस्य तादृशोऽभवत् ॥ २ ॥
मन्दोपाकारिणी
आश्रमान्तरमिति ॥ एषः श्रीमध्वः । आश्रमान्तरम् अन्य आश्रम आश्रमान्तरं तद् वेदव्यासाश्रमम् अवाप्य प्राप्य । गुरोः श्रीवेदव्यासस्य चित्तवृत्तिं चित्तस्य मनसः वृत्तिं प्रवृत्तिं साधु सम्यक् अवेत्य ज्ञात्वा । अनुवृत्तिमान् चित्तानुकूलशुश्रूषां कुर्वन् । कृष्णतः वेदव्यासात् ‘व्यासार्जुनाग्निहरिकोकिलकाकशूद्रतामिस्रयक्षकलिनीलगुणेषु कृष्णः’ इति भास्करः सकलं समस्तं श्राव्यं श्रोतुं योग्यं प्रमेयविशेषं शुश्रुवान् श्रुतवान् सन् गमनोन्मुखः गमने भूमिं प्रति प्रयाणविषये उन्मुख उद्युक्तो ऽभवत् ॥ २ ॥
विश्वास-प्रस्तुतिः - ३
मन्दहासमृदुसुन्दराननं वन्दनीयमभिवन्द्य सत्पतिम् ।
प्राज्ञमौलिमणिरभ्यनुज्ञया तस्य तावदगमन्महामतिः ॥ ३ ॥
मूलम् - ३
मन्दहासमृदुसुन्दराननं वन्दनीयमभिवन्द्य सत्पतिम् ।
प्राज्ञमौलिमणिरभ्यनुज्ञया तस्य तावदगमन्महामतिः ॥ ३ ॥
पदार्थदीपिकोद्बोधिका
मन्दहास इति ॥ प्राज्ञानां मौलिमणिरिव शिरोमणिरिव, ज्ञानिश्रेष्ठ इत्यर्थः । महती मतिर् यस्य तादृशः स श्रीपूर्णप्रज्ञः । मन्दो हासो यस्मिन् तादृशं मृदु सुन्दरम् आननं यस्य तं वन्दनीयं ब्रह्मादिभिर् वन्दितुम् अर्हं सत्पतिं श्रीवेदव्यासम् अभिवन्द्य तस्य अभ्यनुज्ञया तावदगमत् । गमेर्लुङ् ॥ ३ ॥
मन्दोपाकारिणी
मन्दहासेति ॥ प्राज्ञमौलिमणिः प्राज्ञानां मौलिमणिः शिरोमणिः श्रेष्ठः । महामतिः पूर्णा प्रज्ञा यस्य सः श्रीमध्वः । मन्दहासमृदुसुन्दराननं मन्द ईषत् हासः हसनं यस्मिन् तत् । मृदु कोमलं च तत् सुन्दरं च तद् आननं मुखं च मन्दहासं मृदुसुन्दराननं यस्य स तथोक्तस् तम् । वन्दनीयं नमस्कर्तुं स्तोतुं च योग्यम् । सत्पतिं सुधियां पतिम् ईश्वरं वेदव्यासं ‘सन्सुधीः कोविदः’ इत्यमरो ऽभिवन्द्य नमस्कृत्य । तस्य वेदव्यासस्य अभ्यनुज्ञया आज्ञया तावद् अङ्गीकारेणैव ‘यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे’ इत्यमरः । अगमन् निर्जगाम । ‘गम्लृ गतौ’ इत्यतः लुङ् परस्मैपदम् अगमद् अगमताम् अगमन् ॥ ३ ॥
विश्वास-प्रस्तुतिः - ४
तस्य वल्लभतमाऽऽस वासभूर्मानसात्पृथुलमानसस्य नो ।
नात्यजत्क्षणमपि ह्यसाविदं नैष नाथविरही ततोऽभवत् ॥ ४ ॥
मूलम् - ४
तस्य वल्लभतमाऽऽस वासभूर्मानसात्पृथुलमानसस्य नो ।
नात्यजत्क्षणमपि ह्यसाविदं नैष नाथविरही ततोऽभवत् ॥ ४ ॥
पदार्थदीपिकोद्बोधिका
तस्येति ॥ तस्य श्रीव्यासस्य । पृथुलं बृहन्मानसं यस्य तस्य श्रीपूर्णप्रज्ञस्य मानसान् मनसोऽन्या वल्लभतमा अतिप्रिया वासभूर् आवासस्थानं नो आस । हि यस्मात् तस्माद् असौ श्रीवेदव्यास इदं श्रीमध्वमानसं क्षणं क्षणकालमपि नात्यजत् । तत एष श्रीमध्वः नाथविरहोऽस्यास्तीति नाथविरही नाथवियोगवान् न अभवत् ॥ ४ ॥
मन्दोपाकारिणी
तस्येति ॥ तस्य वेदव्यासस्य । हि यस्मात् कारणात् पृथुल-मानसस्य पूर्णप्रज्ञाचार्यस्य मानसाद् अन्तःकरणाद् अन्येति शेषः । वल्लभतमा अतिशयेन प्रिया वल्लभतमा वासभूर् वासस्य आवासस्य भूः स्थानं नो आस न बभूव । ततस् तस्माद् असौ श्रीवेदव्यास इदं श्रीमध्वमानसं क्षणमपि नात्यजन् न त्यक्तवान् । यतो नात्यजत् । तत एषः श्रीमध्वः नाथविरही नाथस्य स्वस्वामिनः वेदव्यासस्य विरही वियोगवान् न अभवत् । मध्वहृदयापेक्षया अतिप्रियस्य अन्यस्य आवासयोग्यस्थलस्य अभावाद् वेदव्यासः मध्वहृदये एव सदा तिष्ठति । अतः मध्वस्य वेदव्यासस्य च वियोगो नास्तीति उक्त्या मध्वः वेदव्यासं ध्यायन्नेव जगाम इति उक्तं भवति ॥ ४ ॥
विश्वास-प्रस्तुतिः - ५
वीरदृष्टिकृतसिंहविभ्रमः शान्तदृष्टिकृतशान्तसम्मदः ।
तत्र तत्र पथि पथ्यविभ्रमः पर्वतादवततार सर्वधीः ॥ ५ ॥
मूलम् - ५
वीरदृष्टिकृतसिंहविभ्रमः शान्तदृष्टिकृतशान्तसम्मदः ।
तत्र तत्र पथि पथ्यविभ्रमः पर्वतादवततार सर्वधीः ॥ ५ ॥
पदार्थदीपिकोद्बोधिका
वीरेति ॥ वीराणां क्रूरप्राणिनां या दृष्टयस् तासां कृतः सिंहविभ्रमो सिंहविलासो येन तादृशः । शान्तया प्रसन्नया दृष्ट्या कृतः शान्तसम्मदः शान्तप्राणिसन्तोषो येन तादृशः । व्याघ्रादिक्रूरप्राणिनां सिंहवद्भयङ्करः, हरिणादिशान्त-प्राणिनां सन्तोषकर इत्यर्थः । एवं तत्र तत्र पथि मार्गे पथ्यस्तत्तदुचितो विभ्रमो विलासो यस्य तादृशः । सर्वा पूर्णा धीर्यस्य तादृशः श्रीपूर्णप्रज्ञः पर्वतात् हिमवतो अवततार ॥ ५ ॥
मन्दोपाकारिणी
वीरेति ॥ वीरदृष्टिकृतसिंहविभ्रमः वीराणां क्रूरप्राणिनां दृष्टयः वीरदृष्टीनां कृतः सिंहस्य विभ्रमः विलासो येन स तथोक्तः । क्रूरजन्तूनां सिंहवद्भयङ्कर इति भावः । शान्तदृष्टिकृतशान्तसम्मदः शान्तानां सात्त्विकप्राणिनां दृष्टीनां कृतशान्तसम्मदः साधुप्राणिनां प्रसन्नदर्शनेन सन्तोषकर इति भावः । एवं पथि मार्गे । तत्र तत्र तस्मिन् तस्मिन् स्थलविशेषे । पथ्यविभ्रमः पथ्य उचितः विभ्रमः विलासो यस्य स तथोक्तः । सर्वधीः सर्वा पूर्णा धीः प्रज्ञा यस्य सस् तथोक्तः मध्वः । ‘सर्वः पूर्णमिहोच्यते’ इत्युक्तेः । पर्वतात् हिमवत्पर्वतात् । अवततार अधो ऽवारुहत् । ‘तॄ प्लवनतरणयोः’ इति धातोर् लिट् परस्मैपदं ततार तेरतुस् तेरुः ॥ ५ ॥
विश्वास-प्रस्तुतिः - ६
वानरेन्द्र इव तीर्णवारिधिर्वासुदेव इव रत्नराजवान् ।
भीमसेन इव सूनवर्यहृन्निर्वृतिं स्वजनमानिनाय सः ॥ ६ ॥
मूलम् - ६
वानरेन्द्र इव तीर्णवारिधिर्वासुदेव इव रत्नराजवान् ।
भीमसेन इव सूनवर्यहृन्निर्वृतिं स्वजनमानिनाय सः ॥ ६ ॥
पदार्थदीपिकोद्बोधिका
वानरेन्द्र इति ॥ स श्रीमध्वः । तीर्णः सीतां दृष्ट्वा पुनरुत्तीर्णो वारिधिर् येन स वानरेन्द्रो हनूमान् कपीनिव । अङ्गदादिवानरानिवेत्यर्थः । रत्नराजो रत्नश्रेष्ठोऽस्यास्तीति तादृशः । जाम्बवन्तं जित्वाऽनीतस्यमन्तकाख्य-रत्नश्रेष्ठवानित्यर्थः । वासुदेवः श्रीकृष्णो वसुदेवादियादवानिव । सूनवर्याणि पुष्पश्रेष्ठानि हरतीति तादृशः सौगन्धिकावनात् कुसुमश्रेष्ठहृद् भीमसेनो धर्मजादीनिव । स्वजनमनन्तमठवर्तिनं स्वकीयजनं निर्वृतिं सन्तोषम् आनिनाय प्रापयामास ॥ ६ ॥
मन्दोपाकारिणी
वानरेन्द्र इति ॥ सः मध्वः । स्वजनं स्वः स्वकीयश्चासौ जनश्च स्वजनस् तं मनुष्ययोग्यबदरिकाश्रमे अनन्तमठवर्तिनं निजशिष्यजनं निर्वृतिं सुखम् आनिनाय प्रापयामास । ‘णीञ् (नी) प्रापणे’ इत्यतो लिट् परस्मैपदं निनाय निन्यतुर् निन्युः । मध्वो ऽनन्तमठे सत्यतीर्थादिशिष्यान् संस्थाप्य वेदव्यासाश्रमं प्राप्य कृतकार्यस्सन् पुनरागत्य तान् अतोषयद् इति भावः । कः कानिव ? तीर्णवारिधिस् तीर्णः लङ्घितः वारिधिः समुद्रः येन स तथोक्तः । अङ्कदादिकपीन् तीरे संस्थाप्य सीतादर्शनार्थं समुद्रम् उल्लङ्घ्य गत्वा सीतां दृष्ट्वा पुनः लङ्घितसमुद्र इत्यर्थः वानरेन्द्रः वानराणां कपीनाम् इन्द्रः स्वामी हनुमान् स्वजनं कपीन् इव । पुनः कः कानिव ? रत्नराजवान् रत्नानां राजा श्रेष्ठः स्यमन्तकमणिः सो ऽस्ति इति । रत्नराजवान् श्रीकृष्णः यादवान्, जाम्बवतः गुहामुखे संस्थाप्य रत्नार्थं गुहायां स्वयं प्रविश्य जाम्बवन्तं जित्वा तद्दत्तश्यमन्तकमणियुक्त इत्यर्थः । वासुदेवः वसुदेवस्य अपत्यं पुमान् वासुदेवः श्रीकृष्णः स्वजनं यादवान् इव । पुनः कः कानिव ? सूनवर्यहृत् सूनवर्यं पुष्पश्रेष्ठं हरति आनयति इति सूनवर्यहृत् ‘सूनं प्रसवपुष्पयोः’ इति विश्वः धर्मादीन् विहाय सौगन्धिकापुष्पार्थं गत्वा सौगन्धिकापुष्पम् आनीतवन् इत्यर्थः । भीमसेनः स्वजनं युधिष्ठिरादीन् इव ॥ ६ ॥
विश्वास-प्रस्तुतिः - ७
अग्निशर्ममुखपञ्चषैर्द्विजैरन्नमाहृतमलं पृथक् समम् ।
कृत्स्नमाददयमित्यविस्मयः कृत्स्नमत्तुमलमेष हि क्षये ॥ ७ ॥
मूलम् - ७
अग्निशर्ममुखपञ्चषैर्द्विजैरन्नमाहृतमलं पृथक् समम् ।
कृत्स्नमाददयमित्यविस्मयः कृत्स्नमत्तुमलमेष हि क्षये ॥ ७ ॥
श्रीनारायणपण्डिताचार्यविरचिता
भावप्रकाशिका
सर्वेषामपि भक्तानामनुल्लङ्घ्यं क्षणं स्मरन् ।
गमनत्वरितो मध्वः सर्वेभ्योऽपि क्षणं ददौ ॥ ७ ॥
पदार्थदीपिकोद्बोधिका
अग्नीति ॥ अयं श्रीमध्वः । अग्निशर्मनामा कश्चिद्विजो मुखं पुरःसरो येषां तादृशाः । पञ्च वा षड् वा पञ्चषास् तैः । ‘तस्य पूरण’ इति डट् । द्विजैः समं युगपदाहृतं भिक्षार्थम् अमरालयं प्रत्यानीतम् । पृथक् प्रत्येकम् आहृतमप्यलं सपरिवारस्य स्वस्य पर्याप्तमन्नं कृत्स्नं सर्वम् आदद् बुभुजे । इति विस्मयो न भवति इति अविस्मयो ऽद्भुतं न भवति । कुत इत्यत आह – कृत्स्नमिति । एष श्रीमध्वः क्षये प्रलये कृत्स्नं सचराचरं सर्वम् अत्तुम् अलं हि समर्थो हि ।
शीघ्रं जिगमिषुं मध्वं ज्ञात्वा सर्वे समाश्रयन् । औवाहं करिष्यामीत्येतच्छ्र ु त्वा दयापरः ।
सर्वेषामपि भक्तानाम् अनुल्लङ्घ्यं क्षणं स्मरन् । गमनं त्वरितो मध्वः सर्वेभ्योऽपि क्षणं ददौ ।
ते च प्रत्येकमाजह्रुरन्नं सोपस्करं बहु । यथा ‘सपरिवारस्य पर्याप्तं स्यादयं पुनः ।
तत्सर्वं बुभुजे मध्वो नैतच्चित्रं समीरणे’ ॥ इति श्लोकैः प्रसिद्धोऽयमर्थः ॥ ७ ॥
मन्दोपाकारिणी
अग्निशर्मेति ॥ अयं श्रीमध्वः । अग्निशर्ममुखपञ्चषैः पञ्च वा षड् वा पञ्चषा अग्निशर्माख्यः कश्चिद् द्विजः स एव मुखं प्रधानं येषां ते अग्निशर्ममुखास् ते च ते पञ्चषाश्चेति तथोक्तास् तैर् द्विजैर् विप्रैः पृथक् प्रत्येकं समं युगपद् आहृतं भिक्षार्थं देवालयं प्रत्यानीतम् अलं सपरिवारस्य पर्याप्तं ‘अलं भूषणपर्याप्तशक्तिवारणवाचकं’ इत्यमरो ऽन्नं कृत्स्नमपि अशेषमपि ‘विश्वम् अशेषं कृत्स्नं’ इत्यमर आदद् भुक्तवान् । ‘अद भक्षण’ इत्यतो लङ् परस्मैपदम् आदद् आत्ताम् आदन् इति प्रथमपुरुषैकवचनम् । इति एवं बह्वन्नभोजनम् अविस्मय आश्चर्यं न भवति । कुतः हि यस्माद् एषः मध्वः क्षये प्रलयकाले ‘संवर्त्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि’ इत्यमरः कृत्स्नं सर्वं चराचरं जगद् अत्तुं भक्षितुम् अलं समर्थस् तस्मादिति । अयं भावः-मध्वाचार्यगमनानन्तरं शीघ्रं जिगमिषुं मध्वाचार्यं ज्ञात्वा तत्समीपम् आगत्य तद्ग्रामस्था ब्राह्मणाः सर्वेऽपि भोः स्वामिन् औव अहं भिक्षां दास्यामीति श्रीमध्वस्य एकस्मिन्नेव काले भिक्षार्थं निमन्त्रणं चक्रुः । तच्छ्र ु त्वा श्रीमध्वः सर्वेषामपि भक्तानाम् अनुल्लङ्घ्यत्वाद् गमने त्वरावान् तदङ्गीचकार । ततश्च सर्वेऽपि प्रत्येकं प्रत्येकं सपरिवारस्य पर्याप्तं सोपस्करम् अन्नं युगपदानीतवन्तः । श्रीमध्वस्तु तत्सर्वं बुभुजे । इदं सर्वं जगद्रक्षके वायौ अद्भुतं न भवतीति भावः ॥ ७ ॥
विश्वास-प्रस्तुतिः - ८
व्यासदेवहृदयातिवल्लभं वासुदेवमगणेयसद्गुणम् ।
साधयत् सकलदोषवर्जितं ज्ञानभक्तिदमनन्तसौख्यदम् ॥ ८ ॥
मूलम् - ८
व्यासदेवहृदयातिवल्लभं वासुदेवमगणेयसद्गुणम् ।
साधयत् सकलदोषवर्जितं ज्ञानभक्तिदमनन्तसौख्यदम् ॥ ८ ॥
पदार्थदीपिकोद्बोधिका
व्यासेति ॥ अनन्तधीः श्रीपूर्णप्रज्ञः । व्यासश्चासौ देवश्च तस्य हृदयस्य मनसो ऽतिवल्लभम् अतिप्रियम् । व्यासेन स्वसूत्रेषु अभिप्रेतस्य अभिप्रायस्य अनुकूलमिति वा । श्रीमध्वप्रणीतभाष्ये हि सूत्राभिप्रायः सम्यग्विवृतः । आत्मनो रूपञ्च व्यासदेवहृदयातिवल्लभम् । वासुदेवं श्रीहरिम् । अगणय्या गणयितुमशक्याः सद्गुणा यस्य तम् । सकला ये दोषास् तैर् वर्जितं, साधयत् । अगणितसाधुगुणः सकलदोषवर्जितो हि भगवान् भाष्ये प्रतिपाद्यते । आत्मनस्स्वरूपमपि एतादृक् इति भावः । ज्ञानञ्च भक्तिञ्च ददातीति तथोक्तं श्रीमध्वस्वरूपमपि तथा । सुखमेव सौख्यम् । अनन्तं नित्यं यत्सौख्यं तद्ददातीति तथोक्तम् । मोक्षदमित्यर्थः । स्वयमप्यनन्तसौख्यमोक्षदः । ‘विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया’ इति वचनात् । अद्भुतं ब्रह्मसूत्रगणभाष्यम् आत्मनः स्वस्य अन्यद्रूपमिव देहमिव अतनोच् चक्रे । अन्त्यकुलकमेतत् ॥ ८ ॥
मन्दोपाकारिणी
व्यासदेवेति ॥ अनन्तधीर् अनन्ता पूर्णा धीः प्रज्ञा यस्य सः श्रीमध्वः । अद्भुतम् आश्चर्यकरं ब्रह्मसूत्रगणभाष्यं ब्रह्मसूत्राणां गणः समूहस् तस्य भाष्यं व्याख्यानरूपं ग्रन्थम् अतनोच् चक्रे । ‘तनु विस्तारे’ इत्यतो लङ् परस्मैपदम् अतनोद् अतनुताम् अतन्वन् इति । अन्त्यकुलकमेतत् । किमिव धन्यं गुणपूर्णम् आत्मनः स्वस्य अन्यद्रूपमपि देहमिव । कथंभूतं भाष्यं व्यासदेवहृदयातिवल्लभं व्यासदेवस्य वेदव्यासस्य हृदयस्य मनसो ऽतिवल्लभम् अतिप्रियम् । यद्वा व्यासदेवस्य हृदयस्य आकूतस्य अभिप्रायस्य अत्यन्तानुकूलं ‘आकूतं हृदये चित्ते’ इत्यमरः। वेदव्यासाभिप्रेतसूत्रार्थप्रतिपादकम् इति भावः। पुनः कथंभूतं वासुदेवं श्रीनारायणम् अगणेयसद्गूणं गणितुं सङ्ख्यातुं शक्या गणेयाः ‘गणनीये तु गणेयं सङ्ख्याते गणितं’ इत्यमरः न गणेया अगणेयाः सन्तः दोषरहिताश्च ते गुणा आनन्दादिगुणाश्च सद्गुणा अगणेयाः सद्गुणा यस्य स तथोक्तस् तम् । सकलदोषवर्जितं सकलाश्च ते दोषा दुःखाज्ञानादयश्च सकलदोषास् तैर् वर्जितं रहितम् । साधयद् भगवन्नारायणो ऽनन्तगुणपूर्णः सर्वदोषदूरश्चेति प्रतिपादकम् इत्यर्थः । पुनः कथंभूतं ज्ञानभक्तिदं श्रीमध्वभाष्यश्रवणव्याख्यानादिना विष्णौ ज्ञानभक्ती भवत इति भावः । पुनः कथंभूतम् अनन्तसौख्यदम् अनन्तं नाशरहितं सौख्यं मोक्षं ददातीति अनन्तसौख्यदं श्रीमध्वभाष्यश्रवणादिना जनितहर्यपरोक्षज्ञानेन मोक्षो भवतीति भावः । कथंभूतम् आत्मनः रूपं व्यासदेवहृदयस्यातिवल्लभं वेदव्यासस्य आवासयोग्यत्वात्, वासुदेवम् अगणेयसद्गुणं सकलदोषवर्जितं साधयत् । मध्वरूपेण भगवतो ऽनन्तगुणत्वेन निर्दोषत्वेन प्रतिपादनाज् ज्ञानभक्तिदम् । मध्वरूपेण शास्त्रोपदेशस्य क्रियमाणत्वाद् अनन्तसौख्यदम् । ‘विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया’ इति वचनान् मोक्षप्रदं च ॥ ८ ॥
विश्वास-प्रस्तुतिः - ९
उक्तमुक्तमभिधेयमुत्तमं वेदवाक्यमनुवादयन् मुहुः ।
व्यञ्जयत् स्मृतिवचोभिरञ्जसा तस्य चार्थमतियुक्तयुक्तिमत्॥ ९ ॥
मूलम् - ९
उक्तमुक्तमभिधेयमुत्तमं वेदवाक्यमनुवादयन् मुहुः ।
व्यञ्जयत् स्मृतिवचोभिरञ्जसा तस्य चार्थमतियुक्तयुक्तिमत्॥ ९ ॥
पदार्थदीपिकोद्बोधिका
उक्तमिति ॥ श्रीमध्वः । उक्तमुक्तमभिधेयमर्थं प्रति मुहुः पुनः पुनर्वेदवाक्यमनुवादयत् । तस्य वेदवाक्यस्य अर्थं च स्मृतिवचोभिः पौरुषेयवाक्यैर् अञ्जसा व्यञ्जयत् प्रकटीकुर्वत् । न केवलं स्वोक्तार्थे श्रुतिस्मृत्युदाहरणोपेतं किन्तु, अतियुक्तयुक्तिमत् । अतियुक्ता अत्यन्तमुपपन्ना या युक्तयस् ता अस्य सन्तीति तथोक्तम् । उत्तमं भाष्यमात्मनोऽन्यद्रूपमिवातनोदित्यन्वयः । अत्र कुलके सर्वाणि विशेषणानि श्रीमध्वस्वरूपपरतयापि योज्यानि ॥ ९ ॥
मन्दोपाकारिणी
उक्तमिति ॥ कथंभूतं भाष्यम् । उक्तम् उक्तं स्वेन प्रतिपादितम् उत्तमम् अभिधेयं सूत्राणाम् अर्थं प्रति मुहुः पुनः पुनः वेदवाक्यम् अनुवादयत् । भाष्यं स्वयम् उक्तम् उक्तं सूत्रार्थं वेदवाक्येन अनुवादयति । स्वोक्तार्थे वेदं प्रमाणयति इति भावः । पुनः किं भूतं तस्य च स्वोदाहृतस्य वेदवाक्यस्यापि अर्थं स्मृतिवचोभिः स्मृतिरूपाणि च तानि वचांसि च स्मृतिवचांसि तैर् अञ्जसा सम्यक् व्यञ्जयत् प्रकटीकुर्वत् । पुनः कीदृशम् अतियुक्तयुक्तिमद् अतियुक्ता अत्यन्तम् उपपन्ना युक्तयो ऽस्य सन्तीति अतियुक्तयुक्तिमत् । न केवलं स्वोक्तार्थे श्रुतिस्मृती उदाहृते किं तु युक्तयोऽपि दर्शिता इति भावः । मध्वरूपमपि यम् अर्थं ब्रूयात् स्वयं तमर्थं श्रुतिस्मृतियुक्तिभिः साधयद् इति ज्ञेयम् ॥ ९ ॥
विश्वास-प्रस्तुतिः - १०
बालसङ्घमपि बोधयद्भृशं दुर्निरूपवचनं च पण्डितैः ।
अप्रमेयहृदयं प्रसादवत् सौम्यकान्ति च विपक्षभीषणम् ॥ १० ॥
मूलम् - १०
बालसङ्घमपि बोधयद्भृशं दुर्निरूपवचनं च पण्डितैः ।
अप्रमेयहृदयं प्रसादवत् सौम्यकान्ति च विपक्षभीषणम् ॥ १० ॥
पदार्थदीपिकोद्बोधिका
बालेति ॥ श्रीमध्वः । बालसङ्घमपि मन्दबुद्धिमत्समूहमपि । अत्र बालशब्देन न स्तनन्धया उच्यन्ते किन्तु स्थूलबुद्धिमन्तः । बोधयद् भगवत्स्वरूपं बोधयत् । स्वरूपमप्येतादृशम् । तथा पण्डितैश्च विद्वद्भिरपि दुर्निरूपाणि अस्य वाक्यस्यायमर्थ इति दुर्विज्ञेयानि वचनानि वाक्यानि यस्मिंस्तत् । सममेतत्स्वरूपेऽपि । अप्रमेयं हृदयमभिप्रायो यस्य तत् । प्रसादवत्प्रसन्नशब्दोपेतम् । स्वरूपमप्येतादृशं सर्वजनेष्वनुग्रहकरणात् । सौम्या कान्तिर्यस्य तत् । विपक्षाणां प्रतिवादिनां भीषणं भयङ्करम् । अतिदृढयुक्तियुक्तत्वात् प्रतिवादिभयङ्करमित्यर्थः । स्वरूपमप्येतादृशम् । भाष्यमात्मनोऽन्यद्रूपमिवातनोत् ॥ १० ॥
मन्दोपाकारिणी
बालेति ॥ पुनः किंभूतम् । बालसङ्घमपि बालानां जिज्ञासेच्छूनां स्थूलबुद्धीनां सङ्घमपि भृशं सम्यक् बोधयत् । ‘गणौघसङ्घसङ्घातव्रातवारकुलोत्कराः’ इति हलायुधः । मध्वरूपमपि मन्दमतीन् अपि बोधयति । पण्डितैश्च विद्वद्भिरपि दुर्निरूपवचनं दुर्निरूपाणि ज्ञातुम् अशक्यार्थानि वचनानि यस्मिन् तत् तथोक्तम् । भाष्यस्थवचनानाम् अयम् अस्य वचनस्य अर्थ इति विदुषामपि शीघ्रं दुर्ज्ञेयत्वाद् इति भावः । मध्वरूपमपि एतादृशं मध्वोक्तवचनानां विद्वद्भिरपि दुर्ज्ञेयार्थत्वात् । पुनः किंभूतम् अप्रमेयहृदयम् अप्रमेयं ज्ञातुमशक्यं गम्भीरं हृदयम् अभिप्रायः यस्य तत् तथोक्तम् । प्रसादवत् प्रसन्नतायुक्तं मृदुशब्दोपेतम् इत्यर्थः । ‘प्रसादस्तु प्रसन्नता’ इत्यमरः । मध्वरूपमपि अप्रमेयहृदयं गम्भीराभिप्रायं प्रसादवन् मृदुभाषणं सर्वसज्जनेषु अनुग्रहवत् । सौम्यकान्ति सौम्यानां साधूनां कान्तिर् इच्छा यस्मिन् तत् तथोक्तम् । कमु कान्ताविति धातुव्याख्याने कान्तेर् इच्छार्थत्वस्य प्रसिद्धार्थत्वात् सज्जनापेक्षणीयम् इति भावः । यद्वा सौम्या आपाततः शान्ता कान्तिर् आकारो यस्य तत् तथोक्तं तादृशमपि । विपक्षभीषणं विपक्षाणां कुवादिनां भीषणं भयंकरम् आपाततः सौलभ्येन प्रतीयमानस्वरूपमपि अतिदृढयुक्तियुक्तत्वेन दुर्वादिनां भयंकरम् इति भावः । मध्वरूपमपि एतादृशमेव ॥ १० ॥
विश्वास-प्रस्तुतिः - ११
अस्तदूषणमवन्ध्यभाषणं लक्षितं सकललक्षणैः समम् ।
माननीयमपि नाकिनायकैः रूपमन्यदिव धन्यमात्मनः ॥ ११ ॥
मूलम् - ११
अस्तदूषणमवन्ध्यभाषणं लक्षितं सकललक्षणैः समम् ।
माननीयमपि नाकिनायकैः रूपमन्यदिव धन्यमात्मनः ॥ ११ ॥
पदार्थदीपिकोद्बोधिका
अस्तेति ॥ श्रीमध्वः । अस्तानि निरस्तानि दूषणानि अपशब्दादिदोषा यस्मात् तत् । स्वरूपञ्च कामादिदोषरहितम् । अवन्ध्यानि अनिष्फलानि भाषणानि यस्मिंस्तत् । स्वरूपञ्च सत्यभाषणम् । सकललक्षणानि समस्तलक्षणानि तैः । ‘सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः’ इत्युक्तभाष्यलक्षणैस्समं सह लक्षितं लक्षणवत्तया वर्णितम् । स्वरूपञ्च द्वात्रिंशल्लक्षणोपेतम् । नाकिनायकैरपि देवश्रेष्ठैरपि माननीयम् । स्वरूपमप्येतादृशम् । धन्यं पुण्यवद्भाष्य-मात्मनोऽन्यद्रूपमिवातनोत् ॥ ११ ॥
मन्दोपाकारिणी
अस्तेति ॥ अस्तदूषणम् अस्तानि निरस्तानि दूषणानि अपशब्दादीनि यस्य तत् तथोक्तम् । मध्वरूपमपि सकलदूषणरहितम् । अवन्ध्यभाषणम् अवन्ध्यम् अनिष्प्रयोजनं भाषणं वचनं यस्य तत् तथोक्तम् । भाष्ये यद्यदुच्यते तत्सर्वमपि आवश्यकत्वेन सार्थकमेव इति भावः । मध्वरूपमपि अवन्ध्यभाषणं सत्यभाषणम् । सकललक्षणैः सकलानि च तानि लक्षणानि च सकललक्षणानि तैः । ‘सूत्रार्थो वर्ण्यते यत्र पदैः सूत्रानुकारिभिः । स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः’ इत्युक्तभाष्यलक्षणैर् इत्यर्थः । समं लक्षितं युक्तम् एकेनापि लक्षणेन न्यूनं न भवतीति भावः । मध्वरूपमपि सकलैर् द्वात्रिंशल्लक्षणैः समं लक्षितम् । नाकिनायकैरपि नाकिनां देवानां नायकैः श्रेष्ठैर् अपि माननीयं बहुमानं कर्तुं योग्यम् । मध्वरूपमपि एतादृशम् ॥ ११ ॥
विश्वास-प्रस्तुतिः - १२
एकविंशतिकुभाष्यदूषकं ब्रह्मसूत्रगणभाष्यमद्भुतम् ।
अप्यदूष्यमतनोदनन्तधीर् भूतभाविभवदात्मभिः क्वचित् ॥ १२ ॥
मूलम् - १२
एकविंशतिकुभाष्यदूषकं ब्रह्मसूत्रगणभाष्यमद्भुतम् ।
अप्यदूष्यमतनोदनन्तधीर् भूतभाविभवदात्मभिः क्वचित् ॥ १२ ॥
भावप्रकाशिका
भारतीविजय-संविदानन्द-ब्रह्मघोष-शतानन्द-उद्वर्त-विजय-रुद्रभट्ट-वामन-यादवप्रकाश-रामानुज-भर्तृप्रपञ्च-द्रविड-ब्रह्मदत्त-भास्कर-पिशाच-वृत्तिकार-विजयभट्ट-विष्णुक्रान्त-वादीन्द्र-माध्वदास-सङ्करकृतान्येकविंशतिकुभाष्याणि ॥ १२ ॥
पदार्थदीपिकोद्बोधिका
एकेति ॥ अनन्ता धीर् ज्ञानं यस्य स श्रीपूर्णप्रज्ञः । एकाधिका विंशतिर् एकविंशतिस् तावत्संख्याकानि यानि कुभाष्याणि अन्यवादिभिः कृतकुत्सितभाष्याणि तेषां दूषकम् । तानि च ‘भारतीविजयश्चैव संविदानन्द एव च । ब्रह्मघोषः शतानन्द उद्वर्तश्चैव पञ्चमः । विजयो रुद्रभट्टश्च वामनाख्यस्तथाष्टमः । सयादव-प्रकाशश्च नवमस्तत्र कीर्तितः । रामानुजस्तथा भर्तृप्रपञ्चो द्रविडस्तथा । ब्रह्मदत्तो भास्करश्च पिशाचो वृत्तिकारकः । तथा विजयभट्टश्च विष्णुक्रान्तस्तथैव च । वादीन्द्रस्तु ततः पश्चात्तत्तो माधवदासकः । ततः पश्चात्सङ्करश्चेत्येकविंशतिवादिभिः । प्रणीतानि निराचक्रे कुभाष्याणि महामतिः’ ॥ इति प्रसिद्धानि । भूता अतीता, भाविनो भविष्यन्तः, भवन्तो वर्तमानास् ते च ते आत्मानो जीवास्तैः क्वचिदपि अदूष्यम् अद्भुतं ब्रह्मसूत्रगणभाष्यम् अतनोच् चक्रे ॥ १२ ॥
मन्दोपाकारिणी
एकविंशतीति ॥ पुनः कथंभूतम् । एकविंशतिकुभाष्यदूषकम् एकविंशतिसङ्ख्याकानि च तानि कुभाष्याणि कुत्सितभाष्याणि एकविंशतिकुभाष्याणि दूषयति निराकारोतीति तत् तथोक्तम् । ब्रह्मवादिभिर् ब्रह्मसूत्राणां यानि भाष्याणि कृतानि सन्ति तानि सर्वाणि मध्वभाष्ये निराकृतानि भवन्तीति भावः । मध्वरूपमपि एतादृशमेव । एकविंशतिभाष्याणि च उच्यन्ते– ‘भारतीविजयश्चैव संविदानन्द एव च । ब्रह्मघोषः शतानन्द उद्वर्तश्चैव पञ्चमः । विजयो रुद्रभट्टश्च वामनाख्यस्तथाष्टमः । सयादवप्रकाशश्च नवमस्तत्र कीर्तितः । रामानुजस्तथा भर्तृप्रपञ्चो द्रविडस्तथा । ब्रह्मदत्तो भास्करश्च पिशाचो वृत्तिकारकः । तथा विजयभट्टश्च विष्णुक्रान्तस्तथैव च । वादीन्द्रश्च तथा पश्चात् ततो माधवदासकः । ततश्च सङ्करश्च स्यादेकविंशतिवादिभिः । प्रणीतानि निराचक्रे कुभाष्याणि महामतिः ॥’ पुनः कथंभूतम् । भूतभाविभवदात्मभिर् भूता अतीता भाविनः भविष्यन्तः भवन्तः वर्तमाना भूताश्च भाविनश्च भवन्तश्च इति भूतभाविभवन्तस् ते च ते आत्मानः जीवाश्च भूतभाविभवदात्मानस् तैः । ‘आत्मा जीवे धृतौ देहे’ इति विश्वः । क्वचिदपि भाष्योक्तेर् यस्मिन्नपि प्रमेये अदूष्यं दूषयितुम् अशक्यं केनापि पुरुषेण कदापि क्वाचिदपि दूषयितुम् अशक्यमिति भावः ॥ १२ ॥
विश्वास-प्रस्तुतिः - १३
गाङ्गमङ्गलतरङ्गभङ्गदप्रान्तसुश्रिहरिवेश्मकृत्समः ।
यद्गतैकतमवर्णलेखकः सत्यतीर्थ इह भाष्यमालिखत् ॥ १३ ॥
मूलम् - १३
गाङ्गमङ्गलतरङ्गभङ्गदप्रान्तसुश्रिहरिवेश्मकृत्समः ।
यद्गतैकतमवर्णलेखकः सत्यतीर्थ इह भाष्यमालिखत् ॥ १३ ॥
पदार्थदीपिकोद्बोधिका
गाङ्गेति ॥ इह श्रीमद्भाष्यनिर्माणसमये । सत्यतीर्थयतिः ॥ यद् भाष्यं, तत्र गतो यद्गतः, य एकतमवर्ण एकोऽपि वर्णस्तस्य लेखकः पुरुषः । गङ्गायाः सम्बन्धिनो गाङ्गास् तादृशा ये मङ्गलतरङ्गाः शोभनतरङ्गास् तेषां भङ्गं नाशं ददातीति तादृशो यः प्रान्तस् तीरं तस्मिन् शोभना श्रीर्यस्य तत् सुश्रि । ‘ह्रस्वो नपुंसके प्रातिपदिकस्ये’ति ह्रस्वः । तादृशं यद्धरिवेश्म तत्करोतीति तादृशस्तस्य समः सदृशः । गङ्गातीरे शोभनहरि-मन्दिरनिर्माणेन यत्सुकृतं, तद्भाष्यगतैकतमाक्षरलेखनेन भवेदिति भावः । एतादृशं भाष्यम् आदौ सत्यतीर्थ आलिखत् ॥ १३ ॥
मन्दोपाकारिणी
गाङ्गेति ॥ यद्गतैकतमवर्णलेखकः यस्मिन् गता यद्गतास् तेषु एकतमो ऽन्यतमश्चासौ वर्णो ऽक्षरं च तस्य लेखकः पुरुषः । भाष्यगताक्षरमध्ये यस्य कस्यचिद् एकस्यापि अक्षरस्य लेखनं कुर्वन् इत्यर्थः । गाङ्गमङ्गलतरङ्गभङ्गद-प्रान्तसुश्रिहरिवेश्मकृत्समः गङ्गाया भागीरथ्या इमे गाङ्गा मङ्गलाः पुण्यकरा मङ्गलाश्च ते तरङ्गाश्च मङ्गलतरङ्गा गाङ्गाश्च ते मङ्गलतरङ्गाश्च गाङ्गमङ्गलतरङ्गास् तेषां भङ्गं नाशं ददातीति भङ्गदः स चासौ प्रान्तश्च भङ्गदप्रान्तस् तस्मिन् तीरे इत्यर्थः । सु शोभना श्रीः कान्तिर् यस्य तत् । ‘ह्रस्वो नपुंसके प्रातिपदिकस्येति ह्रस्वः’ । सुश्रि च तत् हरेर् वेश्म च तत्करोतीति कृत् तस्य समः । भागीरथीतीरे विष्णुदेवालयकर्तुः पुरुषस्य यत्पुण्यं भवेत् तत्पुण्यं ब्रह्मसूत्रमहाभाष्यगतैकाक्षरलेखकस्य भवेत् । एतादृशपुण्यप्रदं भाष्यं मध्वकृतसूत्रभाष्यं सम्पूर्णमपि इह भाष्यनिर्माणकाले आदौ सत्यतीर्थ आलिखद् लेखनमकरोत् । ‘लिख अक्षरविन्यासे’ इत्यतो लङ् परस्मैपदम् ॥ १३ ॥
विश्वास-प्रस्तुतिः - १४
तत्र देवमभिवन्द्य यातवान् स्वामिनो वचनगौरवाद् द्रुतम् ।
सानुगो विविधभूरतीत्य गोदावरीतटमगादलेशधीः ॥ १४ ॥
मूलम् - १४
तत्र देवमभिवन्द्य यातवान् स्वामिनो वचनगौरवाद् द्रुतम् ।
सानुगो विविधभूरतीत्य गोदावरीतटमगादलेशधीः ॥ १४ ॥
पदार्थदीपिकोद्बोधिका
तत्रेति ॥ तत्रानन्तमठे देवं श्रीनारायणमभिवन्द्य स्वामिनो नारायणस्य वचनगौरवाद् वचने बहुमानात् । ‘अविलम्बितं व्रजे’रिति नारायणवचन-गौरवादित्यर्थः । द्रुतं यातवान् । ओशा पूर्णा धीर्यस्य स श्रीपूर्णप्रज्ञः । सानुगः सपरिवारः सन् विविधभूर् नानादेशान् अतीत्य गोदावरीतटम् अगात् प्राप्तः । अत्र विविधभूरिति महाकविप्रयोगत्वात्साधुः । मितद्वादित्वात्कर्तरि डुप्रत्ययान्तो वा । भूरित्यव्ययं वा ॥ १४ ॥
मन्दोपाकारिणी
तत्रेति ॥ तत्र बदरिकाश्रमस्थाने मठे नरनारायणम् अभिवन्द्य नत्वा । स्वामिनः प्रभोः श्रीनारायणस्य वचनगौरवाद् वचने ‘अवलम्बितं व्रजेः, इति वचने गौरवाद् बहुमानाद् द्रुतं शीघ्रं यातवान् । तस्माद् देशान् निर्गतः सन् ओशधीर् अल्पा न भवतीति ओशा ओशा धीः प्रज्ञा यस्य स तथोक्तः मध्वाचार्यः सानुगो ऽनुगैः परिवारैः शिष्यैः सहितः सन् विविधभूर् विविधाश्च ता भुवश्च विविधभुवस् ता विविधभूर् नानादेशान् अतीत्य अतिक्रम्य गोदावर्या नद्यास् तटं तीरम् अगाद् गतवान् । ‘गम्लृ गतावित्यतो लुङ् परस्मैपदम् अगाद् अगाताम् अगुः । ननु विविधभूर् इति कथम् अचिश्नुधातु-भ्रुवां य्वोरियङुवङाविति उवङि विविधभुव इति स्याद् इति चेन् न नायं धातूकारः येन उवङि भुव इति स्यात् किन्तु भूधातोर् औणादिके ऊ प्रत्यये टिलोपेन धातूकारस्य लोपात् प्रत्ययोकारस्योवङादेशप्राप्त्यभावाद् भूधातोरौणादिक ऊ प्रत्ययः । तथा च भूं, भ्वौ, भूर् इति वधूशब्दवद् रूपं ज्ञेयम् । न भूसुधियोरिति यण्निषेधस्तु एरनेकाच इत्यस्यैव न तु इको यणचीत्यस्येति ज्ञेयम् ॥ १४ ॥
विश्वास-प्रस्तुतिः - १५
प्राज्ञवित्तमयमाप्तुमागतैः पण्डितैर्द्विनवशाखिभिः श्रुतीः ।
प्रस्तुता अभिदधौ परीक्षकैः षट् च तत्र समयानखण्डयत् ॥ १५ ॥
मूलम् - १५
प्राज्ञवित्तमयमाप्तुमागतैः पण्डितैर्द्विनवशाखिभिः श्रुतीः ।
प्रस्तुता अभिदधौ परीक्षकैः षट् च तत्र समयानखण्डयत् ॥ १५ ॥
पदार्थदीपिकोद्बोधिका
प्राज्ञेति ॥ अयं श्रीपूर्णप्रज्ञाचार्यः । तत्र गोदावरीतटे प्राज्ञैर् लभ्यं वित्तं प्राज्ञवित्तम् । विद्याधिक्यतारतम्येन लभ्यमित्यर्थः । आप्तुमागतैः, द्वे च ते नव च द्विनव शाखा येषां सन्तीति तैः । द्विनवशाखाभिज्ञैरित्यर्थः । परीक्षकैः पण्डितैर्विद्वद्भिः प्रस्तुता सूक्तखण्डादिमूलोच्चारणादिना प्रस्तुताः श्रुतीर् अभिदधौ । पाठतोऽर्थतश्चाभिदधौ । षट् षट्संख्याकान् समयान्, भाट्ट-प्राभाकर-वैशेषिक-नैयायिक-बौद्ध-चार्वाक-सिद्धान्तान् । ‘समयाः शपथाचारकालसिद्धान्तसंविद’ इत्यमरः । अखण्डयन् निराचक्रे ॥ १५ ॥
मन्दोपाकारिणी
प्राज्ञेति ॥ अयं श्रीमध्वस् तत्र गोदावरीतीरे प्राज्ञवित्तं प्राज्ञानां पण्डितानां वित्तं धनं विदुषां वादे सति विद्याधिक्यतारतम्येन लभ्यं द्रव्यम् इत्यर्थः । ‘वित्तं वस्तु वसु द्रव्यं स्वार्थं राद्रविणं धनं’ इति धनञ्जयः । आप्तुं लब्धुम् आगतैर् द्विनवशाखिभिर् द्वौ च ते नव च द्विनव अष्टादश इत्यर्थः । द्विनवशाखा ऋगादिशाखा येषां सन्तीति द्विनवशाखिनस् तैः पाठतो ऽर्थतश्च अष्टादशशाखाभिज्ञैर् इति यावत् । परीक्षकैः स्वात्मानं परीक्षयद्भिः पण्डितैर् विद्वद्भिः प्रस्तुताः श्रुतीर् वेदान् अभिदधौ अब्रवीत् । ‘डु धाञ् धारणपोषणयोः’ इति धातोर् लिट् परस्मैपदं दधौ दधतुर् दधुः । स्वात्मानं परीक्षणार्थे विद्वद्भिर् यद्यत् सूक्तं खण्डं वा पठितं तत्सर्वं तैः सह स्वयमपि पपाठ । अथवा उच्चारणादिविषये यद्यत्पृष्टं तत्सर्वम् अवोचद् इति भावः । तथा षट्सङ्ख्यान् समयान् सिद्धान्तांश्च अखण्डयन् निराचक्रे । ‘खडि भेदने’ इत्यतो लङ् परस्मैपदम् । ‘समयाः शपथाचारकालसिद्धान्तसंविदः’ इत्यमरः । षण्मतानि तु भाट्टप्राभाकरवैशेषिक- नैयायिकबौद्धचार्वाकसम्बन्धीनि इति ज्ञेयम् ॥ १५ ॥
विश्वास-प्रस्तुतिः - १६
ते पृथक् पृथगमुं स्वशाखया दर्शनेन च परीक्ष्य निर्जिताः ।
सर्ववित् त्वमसि मुख्यतः कवे नास्ति ते सदृश इत्यथाब्रुवन् ॥ १६ ॥
मूलम् - १६
ते पृथक् पृथगमुं स्वशाखया दर्शनेन च परीक्ष्य निर्जिताः ।
सर्ववित् त्वमसि मुख्यतः कवे नास्ति ते सदृश इत्यथाब्रुवन् ॥ १६ ॥
पदार्थदीपिकोद्बोधिका
त इति ॥ ते द्विजाः । अमुं श्रीमध्वं पृथक् पृथक् प्रत्येकं स्वशाखया स्वस्वशाखयेत्यर्थः । दर्शनेन स्वस्वसिद्धान्तेन परीक्ष्य निर्जिताः पराजिताः सन्तः । अथ कवे ज्ञानिन् श्रीमध्व त्वं मुख्यतः सर्ववित् सर्वज्ञोऽसि । ते सदृशो नास्तीत्यब्रुवन् ॥ १६ ॥
मन्दोपाकारिणी
त इति ॥ ते विद्वांसो ऽमुं मध्वाचार्यं पृथक् पृथक् प्रत्येकं स्वेषां शाखया येन येन या याः शाखा अधीतास् तेन तेन तास्ता शाखाः । दर्शनेन च स्वस्वशास्त्रेण च येन येन यद्यत् शास्त्रम् अधीतं तेन तेन पुरुषेण तेन तेन शास्त्रेण इत्यर्थः । परीक्ष्य परीक्षां कृत्वा निर्जिताः सन्तः । अथ सर्वेऽपि ते, हे कवे पण्डित त्वं मुख्यत उपचारं विना सर्ववित् सर्वं वेत्तीति सर्ववित् सर्वज्ञो ऽसि भवसि । ‘अस भुवि’ इत्यतो लट् परस्मैपदम् असि स्थः स्थ । ते तव सदृशः समानः नास्ति इति अब्रुवन् । ‘ब्रूञ् व्यक्तायां वाची’त्यतो लङ् परस्मैपदम् अब्रवीद् अब्रूताम् अब्रुवन् ॥ १६ ॥
विश्वास-प्रस्तुतिः - १७
यस्त्रयीसकलपक्षशिक्षकस्तत्र संसदि वरिष्ठसम्मतः ।
शोभनोपपदभट्टनामकः पूर्णसंख्यमनमन्मुहुर्मुदा ॥ १७ ॥
मूलम् - १७
यस्त्रयीसकलपक्षशिक्षकस्तत्र संसदि वरिष्ठसम्मतः ।
शोभनोपपदभट्टनामकः पूर्णसंख्यमनमन्मुहुर्मुदा ॥ १७ ॥
पदार्थदीपिकोद्बोधिका
य इति ॥ त्रय्या वेदस्य सकलपक्षाणां सकलदर्शनानां शिक्षकः । वैदिकसिद्धान्तानां विप्रतिपत्तौ सत्याम् इदमेव इति निर्णेतेत्यर्थः । तत्र संसदि तस्यां सभायां वरिष्ठ इत्ययमेव श्रेष्ठ इति सम्मतः सर्वेषां सम्मतः । यद्वा वरिष्ठस्य श्रीमध्वस्य सम्मतः, प्रियो यः शोभनोपपदभट्टनामकः, शोभनोपपदं भट्ट इति नाम यस्य तादृशः । पूर्णा संख्या ज्ञानं यस्य तं श्रीमध्वं मुदा मुहुरनमत् ॥ १७ ॥
मन्दोपाकारिणी
शास्त्रिषट्कपराजयानन्तरं पद्मनाभतीर्थागमने उपोद्घातं वक्ति ॥ य इति ॥ शोभनोपपदभट्टनामकः शोभन इति उपपदं यस्य तद् भट्ट इति नाम शोभनोपपदं भट्टनाम यस्य सः । स्वार्थे ‘क’ प्रत्ययः । पूर्णसङ्ख्यं पूर्णा सङ्ख्या प्रज्ञा यस्य स तथोक्तः । ‘चर्चा सङ्ख्या विचारणा’ इत्यमरः । मुहुर् भृशं मुदा हर्षेण बहुसन्तोषेण इत्यर्थः । मुहुः सद्यस् तदैवेति यावत् । मुहुः पुनः पुन आदरेण इत्यर्थः । एवम् अर्थत्रयपरत्वेन मुहुःपदम् आवृत्य व्याख्येयम् । ‘पौनःपुन्ये भृशार्थे च सद्योर्थे च मुहुःपदं’ इति भास्करः । अनमन् नमस्कृतवान् । ‘णमु प्रह्वत्वे शब्दे च’ इति धातोर् लङ् परस्मैपदम् । स कः यः शोभनभट्टस् त्रयीसकलपक्षशिक्षकः सकलाः समस्ताश्च ते पक्षाश्च सकलपक्षास् त्रय्या वेदस्य सकलपक्षाणां लक्षणानां सिद्धान्तानां च शिक्षकः विप्रतिपत्तौ सत्याम् इत्थमेवेति निर्णयकर्त्तेत्यर्थः । ‘श्रुतिः स्त्री वेद आम्नायस्त्रयी’त्यमरः । तत्र तस्यां सदसि सभायां तदा मिलितविद्वत्समूहे इत्यर्थः । वरिष्ठसंमतः पण्डितानां मध्ये अयमेव वरिष्ठः श्रेष्ठ इति सर्वैः संमतः निश्चितो ऽभूत् स इत्यर्थः । तत्र मिलितविद्वत्सभामध्ये श्रेष्ठत्वेन संमतः शोभनभट्टः वेदशास्त्रेषु सम्यक् मध्वाचार्यं परीक्ष्य पराभूतः सन् अयमेव विचारपूर्वकं निर्णयकर्तृषु सर्वज्ञो ऽस्माद् विशेषं ज्ञास्यामीति भावेन महासन्तोषेण आदरेण ननाम इति भावः ॥ १७ ॥
विश्वास-प्रस्तुतिः - १८
यस्तु तार्किकशिखामणिः सुधीर्वर्तमानसमयान् निराकरोत् ।
वेदभारतपुराणनिष्ठितो भाष्यमेतदशृणोत् स मध्वतः ॥ १८ ॥
मूलम् - १८
यस्तु तार्किकशिखामणिः सुधीर्वर्तमानसमयान् निराकरोत् ।
वेदभारतपुराणनिष्ठितो भाष्यमेतदशृणोत् स मध्वतः ॥ १८ ॥
पदार्थदीपिकोद्बोधिका
य इति ॥ तार्किकशिखामणिस् तार्किकोत्तमः सुधीः शोभनबुद्धिर्यः शोभनभट्टः । वर्तमानसमयान् तत्काले विद्यमानभाट्टादिसिद्धान्तान् निराकरोन् निराचक्रे । वेदाश्च भारतञ्च पुराणानि च तेषु निष्ठितो निरतः । वर्तमानसमयेषु अन्यतमपक्षपातं विहाय वेदभारतपुराणोक्ताचारोपासनेषु निरत इत्यर्थः । स शोभनभट्ट एतत् श्रीमध्वकृतं भाष्यं ब्रह्मसूत्रगणभाष्यं मध्वतः श्रीमध्वाचार्याद् अृणोत् ॥ १८ ॥
मन्दोपाकारिणी
यस्त्विति ॥ तार्किकशिखामणिस् तार्किकाणां युक्तियुक्त-विचारपूर्वकनिर्णयकर्तॄणां शिखामणिः श्रेष्ठः सुधीः पण्डितः यः शोभनभट्टः वर्तमानसमयान् तस्मिन् काले विद्यमानान् सर्वसिद्धान्तान् निराकरोत् । ‘डु कृञ् करणे’ इत्यतो लङ् परस्मैपदम् अकरोद् अकुरुताम् अकुर्वन् । तर्हि स्वसिद्धान्तः क इत्यत आह वेदेति । वेदभारतपुराणनिष्ठितः वेदाश्च भारतं च पुराणानि च तेषु तदुक्ताचारेषु तदुक्तोपासनेषु च निष्ठितः निरतो ऽभूत् । मध्वशास्त्रोत्पत्तेः पूर्वं विद्यमानभाट्टादिसर्वमतानि तत्र पक्षपातं विहाय स्वबुद्ध्या विचार्य युक्तिभिर् निराकृत्य स्वयं वेदाद्युक्तप्रकारेण अनुष्ठाननिरत इति भावः । एवं सः शोभनभट्टः मध्वतः श्रीमध्वाचार्याद् एतत् श्रीमध्वाचार्यकृतं भाष्यं ब्रह्मसूत्रभाष्यम् अृणोत् शुश्राव । ‘श्रु श्रवणे’ इत्यतो लङ् परस्मैपदम् अृणोद् अृणुताम् अृण्वन् । शोभनभट्टः मध्वशिष्यो भूत्वा ब्रह्मसूत्रभाष्यम् अधीतवान् इति भावः ॥ १८ ॥
विश्वास-प्रस्तुतिः - १९
नापरेषु रतिमाययौ क्वचिद्भाष्यमद्भुतमिदं स शुश्रुवान् ।
नारविन्दमकरन्दमाप्तवानच्छपिच्छ इव वाञ्छतीतरत् ॥ १९ ॥
मूलम् - १९
नापरेषु रतिमाययौ क्वचिद्भाष्यमद्भुतमिदं स शुश्रुवान् ।
नारविन्दमकरन्दमाप्तवानच्छपिच्छ इव वाञ्छतीतरत् ॥ १९ ॥
पदार्थदीपिकोद्बोधिका
नेति ॥ स शोभनभट्टः । अद्भुतमिदं भाष्यं शुश्रुवान् श्रुतवान् सन्, अरविन्दस्य मकरन्दं पुष्परसं ‘मकरन्दः पुष्परस’ इत्यमर आप्तवान् प्राप्तवान्, अच्छौ श्वेतौ पिच्छौ छदौ यस्य तादृशः हंस इत्यर्थः । इतरद् अन्यत् पुष्पमधु न वाञ्छति नेच्छतीव । ‘वाञ्छ इच्छायां लट्’ । अपरेषु इतरेषु शास्त्रेषु क्वचिद्रतिं सुखं नाययौ । हंसोऽरविन्दमकरन्दमास्वाद्य मधु यथा न वाञ्छति तद्वद् अयं श्रीमध्वभाष्यादन्यत्र शास्त्रे रतिं न जगामेति भावः ॥ १९ ॥
मन्दोपाकारिणी
नापरेष्विति ॥ सः शोभनभट्टः । एतादृशस्य अन्यस्य अभावाद् अद्भुतम् अत्याश्चर्यं मनस्तुष्टिकरमिति यावत् । इदं भाष्यं शुश्रुवान् श्रुतवान् सन् क्वचित् केष्वपि अपरेषु अन्येषु शास्त्रेषु रतिं सुखं नाययौ न लेभे । ‘या प्रापणे’ लिट् परस्मैपदम् । अत्र दृष्टान्तमाह ॥ नारविन्देति ॥ अरविन्दमकरन्दं पुष्परसं ‘मकरन्दः पुष्परसः’ इत्यमरः । आप्तवान् अनुभूतवान् । अच्छपिच्छो ऽच्छं श्वेतं पिच्छं पक्षः यस्य स तथोक्तः । ‘पिच्छबर्हे नपुंसकः’ इत्यमरः हंसपक्षी इत्यर्थः । इतरद् अन्यपुष्पमधु यथा न वाञ्छति तद्वद् इति भावः । ‘वाञ्छ इच्छायामि’त्यतो लट् परस्मैपदम् ॥ १९ ॥
विश्वास-प्रस्तुतिः - २०
तत्र तत्र स सभासु भासुरो नन्दितीर्थसमयोक्तयुक्तिभिः ।
वादिनो विशकलय्य तान् समाक्रम्य वाचमुचितामुदाहरत्॥ २० ॥
मूलम् - २०
तत्र तत्र स सभासु भासुरो नन्दितीर्थसमयोक्तयुक्तिभिः ।
वादिनो विशकलय्य तान् समाक्रम्य वाचमुचितामुदाहरत्॥ २० ॥
पदार्थदीपिकोद्बोधिका
तत्रेति ॥ भासुरः शोभमानः स शोभनभट्टस् तत्र तत्र सभासु वादिनः कुवादिनः । नन्दयतीति नन्दि आनन्दकारणं तीर्थं शास्त्रं यस्य तस्य समये शास्त्रे उक्ताभिर् युक्तिभिर् विशकलय्य निराकृत्य तान् स्वनिराकृतान् वादिनः समाक्रम्य अगणय्य उचितां सभायोग्यां वाचमुदाहरत् ॥ २० ॥
मन्दोपाकारिणी
तत्रेति ॥ तत्र तत्र तासु तासु सभासु विद्वत्सभासु भासुरः शोभनः सः शोभनभट्टः वादिनः कुवादिनः नन्दतीर्थसमयोक्तयुक्तिभिर् नन्दतीर्थस्य श्रीमदानन्द-तीर्थस्य समये शास्त्रे उक्ताभिर् युक्तिभिर् विशकलय्य निराकृत्य तान् निराकृतान् वादिनः समाक्रम्य अविगणय्य उचितां सभानुकूलां वाचम् उदाहरद् अब्रवीत् । उत्, आङ्, पूर्वात् ‘हृञ् हरणे’ इत्यतो धातोर्लङ् परस्मैपदम् अहरद् अहरताम् अहरन् ॥ २० ॥
विश्वास-प्रस्तुतिः - २१
चूर्णकृद्विविधशङ्खचूर्णकश्चूर्णनाय बहुधाऽप्यशक्नुवान् ।
अत्यजद्विफलधीः प्रदक्षिणावर्तवारिजमनर्घ्यमप्यहो ॥ २१ ॥
मूलम् - २१
चूर्णकृद्विविधशङ्खचूर्णकश्चूर्णनाय बहुधाऽप्यशक्नुवान् ।
अत्यजद्विफलधीः प्रदक्षिणावर्तवारिजमनर्घ्यमप्यहो ॥ २१ ॥
पदार्थदीपिकोद्बोधिका
वक्ष्यमाणार्थे दृष्टान्तमाह–चूर्णकृदिति ॥ विविधा उच्चावचत्वेन नानाविधा ये शङ्खास् तेषां चूर्णं करोतीति तादृशश् चूर्णकृत् ताम्बूलचर्वणाङ्ग-चूर्णकृत् कश्चित्पुरुषः । न विद्यतेऽर्घो मूल्यं यस्य तदनर्घमपि । प्रदक्षिण आवर्तो यस्य तत्प्रदक्षिणावर्तं यद्वारिजं शङ्खः । बहुधापि मूषाग्निनिक्षेपादिनानाविधप्रयत्नेनापि चूर्णनाय चूर्णीकरणाय अशक्नुवन् सन् असमर्थः सन् अत एव विगतं फलं चूर्णलक्षणं प्रयोजनं यस्य तद्विफलम् । विफलमिति धीर्बुद्धिर्यस्य तादृशः सन् अत्यजत् परित्यक्तवान् । अहो सर्वैश्वर्यकारणं प्रदक्षिणावर्तशङ्खं परित्यजतोऽस्य मौढ्यम् अत्याश्चर्यमिति भावः ॥ २१ ॥
मन्दोपाकारिणी
चूर्णेति ॥ विविधशङ्खचूर्णकः विविधा नानाप्रकाराः स्थूलसूक्ष्मा इत्यर्थः विविधाश्च ते शङ्खाश्च विविधशङ्खास् तान् चूणर्यतीति चूर्णकः । चूर्णकृच् चूर्णं ताम्बूलचर्वणाङ्गं चूर्णं करोतीति चूर्णकृत् कश्चित् पुरुषः । अनर्घ्यमपि न अर्घः मूल्यं यस्य सो ऽनर्घो ऽनर्घस्य अयम् अनर्घ्यः ‘मूल्ये पूजाविधावर्घः’ इत्यमरः । तादृशमपि प्रदक्षिणावर्तवारिजं प्रदक्षिणावर्तनामकश्चासौ वारिजश्च प्रदक्षिणावर्तवारिजः ‘अब्जौ शङ्खशशाङ्कौ च’ इति अमरोक्तेः । अब्जवारिजशब्दयोर् एकार्थत्वाद् वारिजशब्दस्य शङ्खोऽर्थः दक्षिणावर्तशङ्खमित्यर्थः । अत्यजत् परित्यक्तवान् । ‘त्यज विसर्गे’ इत्यतो लङ् परस्मैपदम् अत्यजद् अत्यजताम् अत्यजन् । कथंभूतः सन् बहुधापि अग्नौ स्थाप्य अग्निदाहादिनानाविधप्रयत्नेनापि चूर्णनाय पिष्टं कर्तुम् अशक्नुवन् असमर्थः सन् । अत एव विफलधीर् विफला निष्फलत्वविषयिणी बुद्धिर् यस्य स तथोक्तः निष्फलमेतद् इति बुद्धिर् इत्यर्थः । अहो आश्चर्यम् एतस्य मौढ्यम् इति भावः ॥ २१ ॥
विश्वास-प्रस्तुतिः - २२
अप्रमेयमतिशास्त्रमीदृशं यस्त्यजत्युपनतं सुदुर्लभम् ।
तस्य तुल्यमतिरेष दुर्जनो नाथवाऽस्य सुदृशोऽस्ति नीचधीः ॥ २२ ॥
मूलम् - २२
अप्रमेयमतिशास्त्रमीदृशं यस्त्यजत्युपनतं सुदुर्लभम् ।
तस्य तुल्यमतिरेष दुर्जनो नाथवाऽस्य सुदृशोऽस्ति नीचधीः ॥ २२ ॥
एवं दृष्टान्तमभिधाय दार्ष्टन्तिकमाह-
पदार्थदीपिकोद्बोधिका
अप्रमेयमिति । यः पुरुष उपनतं सत्संसर्गादिवशात् प्राप्तं सुदुर्लभं भाग्यरहितानाम् अतिदुर्लभम् ईदृशं प्रदक्षिणावर्तशङ्खसदृशम् । अप्रमेया मतिर्यस्य तस्य श्रीपूर्णप्रज्ञस्य शास्त्रं त्यजति पुरुषार्थप्रदं न भवतीति बुद्ध्या परित्यजति एषः दुर्जनस् तस्य शङ्खं त्यक्तवतः, तुल्यमतिः सदृशबुद्धिः । अथवा इति पक्षान्तरसूचकम् । अस्य श्रीमध्वशास्त्रं त्यजतः सदृशो नीचधीर् निकृष्टबुद्धिर् नास्ति ॥ २२ ॥
मन्दोपाकारिणी
एवं वक्ष्यमाणार्थे दृष्टान्तम् उक्तवा दार्ष्टान्तिकमाह अप्रमेयमिति ॥ यः पुरुष उपनतं सत्सङ्गवशाद् लब्धं सुदुर्लभं पुण्यरहितानां सु अत्यन्तं सर्वथा प्राप्तुमशक्यम् ईदृशम् अमूल्यदक्षिणावर्तशङ्खसदृशम् अप्रमेयमतिशास्त्रम् अप्रमेया अपरिमिता मतिर् ज्ञानं यस्य स तथोक्तः पूर्णप्रज्ञाचार्य इत्यर्थः । तस्य शास्त्रं ब्रह्मसूत्रभाष्यादिकं त्यजति इदं शास्त्रं निष्फलमिति ज्ञात्वा विसृजति एषः मध्वशास्त्रत्यागी दुर्जनः । तस्य दक्षिणावर्तशङ्खं त्यक्तवतः पुरुषस्य तुल्यमतिस् तुल्या सदृशा मतिर् बुद्धिर् यस्य स तथोक्तः स्यात् । अथवा इत्यत्र अथशब्दस् तुशब्दार्थः । वाशब्दस्तु निश्चयार्थः । तथा च अस्य तु शास्त्रं त्यजतः पुरुषस्य तु सदृशः नीचधीर् नीचा मन्दा धीर् यस्य स तथोक्तः नास्ति वा नास्त्येव । ‘वा अव्ययं स्यात् समुच्चये उपमायां विकल्पे च निश्चये च निगद्यते’ इति एकाक्षररत्नमाला । मध्वशास्त्रत्यागी एव अत्यधम इति भावः॥ २२ ॥
विश्वास-प्रस्तुतिः - २३
कोऽपि तं गुणविशेषविच्च विक्रीय भूरिधनमाप पूरुषः ।
न ह्यनर्घ्यगुणमूल्यमाप्यते भाग्यदैवमिह योग्यतानुगम् ॥ २३ ॥
मूलम् - २३
कोऽपि तं गुणविशेषविच्च विक्रीय भूरिधनमाप पूरुषः ।
न ह्यनर्घ्यगुणमूल्यमाप्यते भाग्यदैवमिह योग्यतानुगम् ॥ २३ ॥
पदार्थदीपिकोद्बोधिका
क इति ॥ हि यस्मात्, न विद्यतेऽर्घो मौल्यं यस्य सोऽनर्घस् तादृशो गुणो यस्य पदार्थस्यासौऽनर्घ्यगुणः प्रदक्षिणावर्तशङ्खादिस् तस्य मौल्यं केनापि पुरुषेण नाप्यते, तस्मात्, गुणस्य प्रदक्षिणावर्तशङ्खगुणस्य विशेषं दाहेऽपि अचूर्णभाव- लक्षणविशेषं वेत्तीति तादृशः कोऽपि कश्चित्पुरुषस् तम् अनर्घ्यशङ्खं विक्रीय भूरिधनम् अपरिमितधनम् आप । तथा हि । इह लोके भाग्यस्य अदृष्टविशेषस्य नियामकं दैवं भाग्यदैवं योग्यतानुगं पुरुषयोग्यतानुसारि पुरुषस्य योग्यतामनुसृत्य फलं ददातीति भावः ॥ २३ ॥
मन्दोपाकारिणी
क इति ॥ गुणविशेषविद् दक्षिणावर्तशङ्खस्य गुणविशेषं भाग्यप्रदत्वादिरूपगुणातिशयं वेत्ति जानातीति गुणविशेषवित् । इदं वस्तु सत्फलमिति ज्ञानीति भावः । कोऽपि कश्चित् पुरुषस् तं दक्षिणावर्तशङ्खं सम्पाद्य तं विक्रीय अन्यस्मै धनापेक्षया विक्रयं कृत्वा भूरि बहुधनं द्रव्यम् आप लब्धवान् । ‘आप्लृ व्याप्तौ’ इत्यतो लिट् परस्मैपदम् आप आपतुर् आपुः । यद्यपि बह्वेव धनमाप तथापि अपरिमितं नाप इति भावः । तत्कुतः, हि यस्मात् केनापि पुरुषेण अनर्घ्यगुणमूल्यं न विद्यते अर्घो मूल्यं यस्य सो ऽनर्घस् तस्य अयम् अनर्घ्यः स चासौ गुणश्च तस्य मूल्यं नाप्यते न लभ्यते । तस्मात् तं विक्रीय स्वलभ्यानुसारेण बहुधनम् आप तद्युक्तमेव इत्याह भाग्येति ॥ इह लोके भाग्यदैवं भाग्यस्य अदृष्टविशेषस्य दैवं प्रेरकं दैवतं योग्यतानुगं पुरुषस्य योग्यताम् अनुसृत्य
गच्छति फलदाने प्रवर्तते इति योग्यतानुगम् अदृष्टप्रेरकः नारायणः पुरुषयोग्यतानुसारेणैव फलं ददाति । अतः दक्षिणावर्तशङ्खविक्रेता स्वयोग्यं बह्वेव धनमाप किन्तु न अपरिमितम् इति भावः ॥ २३ ॥
विश्वास-प्रस्तुतिः - २४
व्यक्तमुन्नतिमितोऽप्ययं जनस्तस्य यन्न लभतेऽखिलं फलम् ।
स्तोकमानसतया ततो व्रजेत् तस्य हन्त पुरुषस्य तुल्यताम् ॥ २४ ॥
मूलम् - २४
व्यक्तमुन्नतिमितोऽप्ययं जनस्तस्य यन्न लभतेऽखिलं फलम् ।
स्तोकमानसतया ततो व्रजेत् तस्य हन्त पुरुषस्य तुल्यताम् ॥ २४ ॥
पदार्थदीपिकोद्बोधिका
व्यक्तमिति ॥ अयं जनः । आत्मन एव परोक्षतया निर्देशः। अहमिति यावत् । व्यक्तं सम्यग्स्वयोग्यतानुसारेणेत्यर्थः । उन्नतिं ज्ञानभक्तयादिगुणैर् आधिक्यम् इतोऽपि प्राप्तवान् अपि सन् । स्तोकं स्वल्पं मानसं ज्ञानं यस्य तस्य भावस्तत्ता तया स्वल्पबुद्धितयेत्यर्थः । तस्य श्रीमध्वशास्त्रस्याखिलं सम्पूर्णं फलं ज्ञानलक्षणफलं न लभते न प्राप्नोति इति यत् । ततस्तस्मात् तस्य शङ्खविक्रयणेन भूरिधनमाप्तवतः पुरुषस्य तुल्यतां व्रजेत् । हन्त हर्षे ॥ २४ ॥
मन्दोपाकारिणी
एवं दृष्टान्तम् उक्त्वा दार्ष्टान्तिकमाह ॥ व्यक्तमिति ॥ अयं वर्तमानकालीनः जनः व्यक्तं स्पष्टं यथा भवति तथा सम्यक् इत्यर्थः । उन्नतिं स्वयोग्य- ज्ञानभक्त्यादिगुणैर् आधिक्यम् इतोऽपि प्राप्तोऽपि सन् । यद् यस्मात् स्तोकमानसतया स्तोकं स्वल्पविषयं मानसम् अन्तःकरणं यस्य सः स्तोकमानसः स्तोकमानसस्य भावः स्तोकमानसता तया मन्दबुद्धित्वेन इत्यर्थः । ‘स्तोकाल्पक्षुल्लकाः श्लक्ष्णं सूक्ष्मं’ इत्यमरः । तस्य श्रीमध्वशास्त्रस्य अखिलं फलं न लभते न प्राप्नोति । ‘डु लभष् प्राप्तौ’ इत्यतो लडात्मनेपदं लभते लभेते लभन्ते । ततस् तस्मात् । तस्य दक्षिणावर्तशङ्खं विक्रीय भूरिधनं प्राप्तवतः पुरुषस्य तुल्यतां साम्यं व्रजेत् प्राप्नुयात् । हन्त हर्षे । स्वयोग्यतानुसारेण बहुफलस्य लाभात् । ‘व्रज गतौ’ इत्यतो लिङ् परस्मैपदं व्रजेद् व्रजेतां व्रजेयुः । यद्यपि मध्वशास्त्राभ्यासवतो ऽधिकारिणः बहुफलं भवति । तथापि तत्साध्यं सम्पूर्णफलं न भवति तादृशयोग्यताया अभावाद् इति भावः ॥ २४ ॥
विश्वास-प्रस्तुतिः - २५
क्रीतवान् नरपतिर्महादरं सादरं पुनरुदारचेष्टितः ।
अर्चयन् सततमाप सम्पदो या न ता वचनचित्तगोचराः॥ २५ ॥
मूलम् - २५
क्रीतवान् नरपतिर्महादरं सादरं पुनरुदारचेष्टितः ।
अर्चयन् सततमाप सम्पदो या न ता वचनचित्तगोचराः॥ २५ ॥
पदार्थदीपिकोद्बोधिका
क्रीतवानिति ॥ महान् पूज्यो यो दरः शङ्खस् तम् । प्रदक्षिणावर्तशङ्खमित्यर्थः । क्रीतवान् धनं दत्वा स्वीकृतवान् । उदारमुत्तमं चेष्टितं व्यापारो यस्य तादृशो नरपती राजा पुनः सादरं बहुमानेन सहितं यथा तथा सततम् अर्चयन्
पूजयन् सन् याः सम्पद आप ताः सम्पदः वचनचित्तयोर् वाङ्मनसयोर् गोचरा
विषया न ॥ २५ ॥
मन्दोपाकारिणी
क्रीतवानिति ॥ उदारचेष्टित उदाराणि महान्ति उत्तमानीति यावच् चेष्टितानि कर्माणि यस्य स तथोक्तः विष्णुवैष्णवप्रीतिजनककर्मकर्ता इत्यर्थः । ‘उदारो दातृमहतोः’ इत्यमरः । नरपतिर् नराणां पतिः पालकः राजा महादरं महान् उत्तमश्चासौ दरः शङ्खश्च महादरः दक्षिणावर्तशङ्खस् तं क्रीतवान् धनं दत्वा स्वीकृतवान् सन् अनन्तरं सादरम् आदरेण भक्त्या सहितं यथा भवति तथा ‘आदरो भाजनं भक्तिः’ इत्यभिधानम् । सततं निरन्तरम् अर्चयन् पूजयन् याः सम्पदः सकलदेशाधिपत्याद्यैश्वर्याणि आप लब्धवान् ताः सम्पदः वचनचित्तगोचरा वचनानि च चित्तानि मनांसि च तेषां गोचरा विषया न भवन्ति । कश्चन राजा दक्षिणावर्तशङ्खम् आदरेण सम्पाद्य सर्वदा पूजयन् सप्तद्वीपाधिपत्यादिमहाफलं लब्धवानिति भावः ॥ २५ ॥
विश्वास-प्रस्तुतिः - २६
शास्त्रकल्पकतरोरमुष्य कः प्राप्नुयात् सकलमप्यहो फलम् ।
यस्तमुत्तमगुणं विडम्बयेदित्युदीर्य स जनानरञ्जयत् ॥ २६ ॥
मूलम् - २६
शास्त्रकल्पकतरोरमुष्य कः प्राप्नुयात् सकलमप्यहो फलम् ।
यस्तमुत्तमगुणं विडम्बयेदित्युदीर्य स जनानरञ्जयत् ॥ २६ ॥
भावप्रकाशिका
कः प्राप्नुयाद्ब्रह्मा च ॥ २६ ॥
पदार्थदीपिकोद्बोधिका
शास्त्रेति ॥ अमुष्य श्रीमध्वप्रणीतस्य शास्त्रकल्पकतरोः शास्त्राख्यकल्पवृक्षस्य सकलं फलं ज्ञानलक्षणं मोक्षलक्षणं वा फलं कः प्राप्नुयात् । न कोऽपि प्राप्नुयात् । अहो आश्चर्यम् । अपि तथापि यश् चतुर्मुख उत्तमगुणं तं शङ्खं विक्रीय अर्चयन्तं राजानं विडम्बयेद् अनुकुर्यात् । डलयोरभेदः । ‘लबि अवस्रंसने’ । सः को ब्रह्मा प्राप्नुयात्, सकलं फलं प्राप्नुयादेव । ब्रह्मैव हि सर्वशास्त्रोक्तफलप्राप्तियोग्यः । शङ्खं क्रीत्वा सादरमर्चयतो नरपतेः सम्पदो यथा न वचनचित्तगोचराः, एवमेव एतच्छास्त्रकल्पतरोर् अखिलं फलं प्राप्तवतो विरिञ्चस्य सम्पदोऽपीति भावः । स शोभनभट्ट इत्युदीर्य जनान् अरञ्जयद् अतोषयत् । ‘रञ्ज रागे’ लङ् ॥ २६ ॥
मन्दोपाकारिणी
अत्रापि दार्ष्टान्तिकमाह ॥ शास्त्रेति ॥ यः कः यः कोऽपि पुरुषो ऽमुष्य मध्वाचार्यप्रणीतस्य शास्त्रकल्पकतरोः शास्त्रं कल्पकतरुः कल्पवृक्ष इव शास्त्रकल्पकतरुस् तस्य अपेक्षिताशेषपुरुषार्थप्रदत्वान् मध्वशास्त्रस्य कल्पवृक्षसाम्योक्तिः सकलमपि सम्पूर्णमपि फलं प्राप्नुयात् । भक्तिपूर्वकश्रवणादिना इति शेषः । स उत्तमगुणम् उत्तमा गुणा ज्ञानभक्त्यादयः यस्य स तथा तम् उत्तमगुणवन्तं तं राजानं विडम्बयेद् अनुकुर्यात् । महाप्रयत्नेन सम्पादितदक्षिणावर्तशङ्खपूजनेन प्राप्तापरिमितसम्पदो राज्ञः सदृशो भवेद् इति भावः । ‘आप्लृ व्याप्तौ’ इत्यतो लिङ् परस्मैपदम् आप्नुयाद् आप्नुयाताम् आप्नुयुः । विपूर्वात् ‘डबि अनुकरणे’ इत्यतो लिङ् परस्मैपदं विडम्बयेद् विडम्बयेतां विडम्बयेयुः । अहो आश्चर्यम् । मध्वशास्त्रमाहात्म्यम् । अयं समुदायाभिप्रायः । यस्तु सत्सङ्गवशात् प्राप्तमपि मध्वशास्त्रं निष्फलमिति बुद्ध्या त्यजति स तु अत्यन्तं नीच एव । सफलम् एतद् इति मत्वा भक्त्या भजतामपि केषाञ्चित् स्वस्वयोग्यतानुसारेण बह्वेव फलं ददाति मध्वशास्त्रं किन्तु न सम्पूर्णम् । अत्युत्तमानां केषाञ्चिदेव सम्पूर्णफलं ददाति । अत इदं मध्वशास्त्रं भक्त्या सेव्यमेव । इति एवं प्रकारेण सः शोभनभट्ट उदीर्य अभिधाय जनान् अरञ्जयद् अतोषयत् । मध्वशास्त्रे रुचिम् उत्पादयामास इति भावः । ‘रञ्ज रागे’ इत्यस्माद् लङ् परस्मैपदम् अरञ्जयद् अरञ्जयताम् अरञ्जयन् ॥ २६ ॥
विश्वास-प्रस्तुतिः - २७
नेदृशैः कविभिरेव केवलं हन्त पूज्यचरणोऽभ्यपूज्यत ।
शर्वशक्रगुरुपूर्वदैवतैरप्यलं सुसमयोद्गमोत्सवे ॥ २७ ॥
मूलम् - २७
नेदृशैः कविभिरेव केवलं हन्त पूज्यचरणोऽभ्यपूज्यत ।
शर्वशक्रगुरुपूर्वदैवतैरप्यलं सुसमयोद्गमोत्सवे ॥ २७ ॥
पदार्थदीपिकोद्बोधिका
नेति ॥ पूज्यौ चरणौ यस्य तादृशः पूज्याचारो वा । अयं श्रीमध्वः । सुसमयस्य शोभनशास्त्रस्य उद्गमोत्सवे निर्माणोत्सवे केवलम् ईदृशैः शोभन-भट्टसदृशैः कविभिर् विद्वद्भिर् एव न अभ्यपूज्यत । किन्तु, शर्वो रुद्रः शक्र इन्द्रो गुरुर्बृहस्पतिः, ते पूर्वे येषां तानि दैवतानि देवास् तैर् अपि अलम् अभ्यपूज्यत । हन्त हर्षे । ‘पूज पूजायां’ कर्मणि लङ् ॥ २७ ॥
मन्दोपाकारिणी
नेदृशैरिति ॥ पूज्यचरणः पूज्यं पूजार्हं चरणं स्वरूपं यस्य सस् तथोक्तः । ‘उत्तमानां स्वरूपन्तु पादशब्देन भण्यते’ इत्युक्तेः । चरणशब्दस्य पादपर्यायत्वात् । पूज्यौ चरणौ अंघ्री यस्येति वा । सुसमयोद्गमोत्सवे सु पूज्यश्चासौ समयः शास्त्रं च सुसमयस् तस्य उद्गमो निर्माणं स चासै उत्सवश्च तस्मिन् मध्वशास्त्रनिर्माणोत्सवे इत्यर्थः । केवलम् अत्यन्तम् ईदृशैः शोभनभट्टसदृशैः कविभिरेव विद्वद्भिरेव अभ्यपूज्यत इतीति शेषः । अभ्यपूज्यत इति पूजित इति न किन्तु शर्वशक्रगुरुपूर्वदैवतैरपि शर्वः शिवः ‘शर्वस्स्थाणुः’ इत्यमरः शक्र इन्द्रः गुरुर् बृहस्पतिः ‘बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः’ इत्यमरः शर्वश्च शक्रश्च गुरुश्च शर्वशक्रगुरव एते पूर्वे आदयो येषां तानि शर्वशक्रगुरुपूर्वाणि तानि च तानि दैवतानि देवताश्च ‘वृन्दारका दैवतानि पुंसि वा देवता स्त्रियां’ इत्यमरस् तैर् अलम् अत्यन्तम् अभ्यपूज्यत । ‘पूज पूजायाम्’ इत्यतः कर्मणि लङ् आत्मनेपदम् अपूज्यत अपूज्येताम् अपूज्यन्त ॥ २७ ॥
विश्वास-प्रस्तुतिः - २८
निम्नभूरिव सतीः प्रजा व्रजन् वारिदर्तुरशनैरपूरि सः ।
प्राज्यतापहरदर्शनाम्बुना तुङ्गदेशमिव दुर्जनं तु नो ॥ २८ ॥
मूलम् - २८
निम्नभूरिव सतीः प्रजा व्रजन् वारिदर्तुरशनैरपूरि सः ।
प्राज्यतापहरदर्शनाम्बुना तुङ्गदेशमिव दुर्जनं तु नो ॥ २८ ॥
पदार्थदीपिकोद्बोधिका
निम्नेति ॥ व्रजन् गोदावरीतटाद्रूप्यपीठपुरं गच्छन् सः श्रीमध्वः । प्राज्यं बहुलं तापं संसारक्लेशं हरतीति तादृशं यद्दर्शनं स्वसिद्धान्तशास्त्रं तदेवाम्बु जलं तेन । ‘दर्शनं दर्पणे धर्मोपलब्ध्योर्बुद्धिशास्त्रयोरि’ति हेमचन्द्रः । सतीस् तत्त्वज्ञानयोग्याः प्रजा अशनैः क्षिप्रं वारि ददातीति वारिदः । स चासौ ऋतुश्च वारिदर्तुः प्रावृट्कालः । निम्नभूरिव निम्नप्रदेशानिव अपूरि पूरयामास । दुष्टश्चासौ जनश्च दुर्जनस् तं तत्त्वज्ञानायोग्यजनमित्यर्थः । वारिदर्तुस्तुङ्गप्रदेशमिव नो अपूरि न पूरयामास ॥ २८ ॥
मन्दोपाकारिणी
निम्नेति ॥ सः मध्वाचार्यः व्रजन् तत्र तत्र संचरन् सतीस् तत्त्वज्ञानयोग्याः प्रजाः ‘प्रजा स्यात् सन्ततौ जने’ इत्यमरः । प्राज्यतापहरदर्शनाम्बुना प्राज्यः प्रचुरश्चासौ तापश्च प्राज्यतापः संसारक्लेशस् तं हरति परिहरतीति प्राज्यतापहरं ‘प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु’ इत्यमरस् तच्च तद् दर्शनं शास्त्रं च तदेवांबु उदकं तेन अशनैः शीघ्रम् अपूरि पूरयामास । कः का इव वारिदर्तुर् वारि उदकं ददातीति वारिदः वारिदश्चासौ ऋतुश्च वारिदर्तुर् वर्षाकालः निम्नभूरिव निम्ना नताश्च ता भुवश्च ता निम्नभूर् निम्नप्रदेशानि दुर्जनम् अयोग्यजनं तु नो अपूरि । कमिव तुङ्गदेशमिव तुङ्गश्चासौ देशः प्रदेशश्च तम् उन्नतस्थलमिव । यथा वर्षाकाल उदकेन निम्नस्थलं पूरयति न तु उन्नतस्थलं तथा मध्वाचार्यस् तत्र देशे विद्यमानान् मुक्तियोग्यान् जनान् प्रति एव स्वशास्त्रम् उपदिदेश न अयोग्यजनान् इति भावः । ‘पूरी आप्यायने’ इत्यतः कर्तरि लुङ् आत्मनेपदम् अपूरि अपूरिषाताम् अपूरिषत ॥ २८ ॥
विश्वास-प्रस्तुतिः - २९
कर्मभिः सकललोककौतुकैर्मानितः पथि जनैः समागतः ।
सन्ननाम शिवनामकीर्तनं राजतासनपुरे विराजितम् ॥ २९ ॥
मूलम् - २९
कर्मभिः सकललोककौतुकैर्मानितः पथि जनैः समागतः ।
सन्ननाम शिवनामकीर्तनं राजतासनपुरे विराजितम् ॥ २९ ॥
पदार्थदीपिकोद्बोधिका
कर्मभिरिति ॥ पथि सकललोकानां समस्तजनानां कौतुकं कुतूहलं यैस् तैः कर्मभिर् निमित्तैर् जनैर् मानितः पूजितः सन् समागतः । रजतासनस्य सम्बन्धि राजतासनं यत्पुरं तस्मिन् विराजितं शिव इति नाम शिवनाम । कीर्त्यते अनेनेति कीर्तनं वाचकं यस्य तं श्रीहरिं सन्ननाम ॥ २९ ॥
मन्दोपाकारिणी
कर्मभिर् इति ॥ पथि मार्गे सकललोककौतुकैः सकलाश्च ते लोकाश्च तेषां कौतुकानि कुतूहलकारीणि तैः । ‘कौतूहलं कौतुकं च कुतुकं च कुतूहलं’ इत्यमरः । कर्मभिश् चरितैर् निमित्तैर् जनैः कर्तृभिर् मानितः पूजितः । मार्गे गमनकाले जना अत्याश्चर्यचरित्राणि दृष्ट्वा मध्वाचार्यं पूजितवन्त इति भावः । तादृशः सन् समागतः रजतपीठपुरं प्राप्तवान् सन् । राजतासनपुरे रजतासनमेव राजतासनं रजतपीठं तच्च तत् पुरं च तस्मिन् विराजितं शोभमानं शिवनामकीर्तनं शिवस्य रुद्रस्य नाम्ना शिव इति पदेन कीर्तनम् उक्तिर् यस्य सः शिवनामकीर्तनस् तम् अनन्तेश्वरनामकम् इत्यर्थः । देवं सन्ननाम नमस्कृतवान् ॥ २९ ॥
विश्वास-प्रस्तुतिः - ३०
अच्युतप्रमतिरच्युतप्रियं तं दशप्रमतिमागतं तदा ।
वन्दमानमवलोक्य यां मुदं प्राप्तवांस्तदवधिर्न विद्यते ॥ ३० ॥
मूलम् - ३०
अच्युतप्रमतिरच्युतप्रियं तं दशप्रमतिमागतं तदा ।
वन्दमानमवलोक्य यां मुदं प्राप्तवांस्तदवधिर्न विद्यते ॥ ३० ॥
पदार्थदीपिकोद्बोधिका
अच्युतेति ॥ तदा अच्युतस्य प्रमतिर् ज्ञानं यस्य सोऽच्युतप्रज्ञ इत्यर्थः । अच्युतप्रियं वन्दमानं तं, दश प्रमतयो यस्य तं पूर्णप्रज्ञम् आगतम् अवलोक्य यां मुदं सन्तोषं प्राप्तवान् तस्या अवधिस् तदवधिर् इयत्ता न विद्यते ॥ ३० ॥
मन्दोपाकारिणी
अच्युतेति ॥ अच्युतप्रमतिर् अच्युतस्य प्रमतिर् ज्ञानं यस्य सो ऽच्युतप्रेक्षः । अच्युतप्रियम् अच्युतस्य नारायणस्य प्रियं प्रीतिविषयम् आगतं स्वसमीपं प्राप्तवन्तं वन्दमानं नमस्कुर्वन्तं दशप्रमतिं दश पूर्णा प्रमतिः प्रज्ञा यस्य स तथोक्तस् तं पूर्णप्रज्ञाचार्यम् । ‘दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते । प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस् ततः स्मृतः’ इति वचनात् । अवलोक्य दृष्ट्वा तदा तस्मिन् काले यां मुदं प्राप्तवान् लब्धवान् तदवधिस् तस्या मुदो ऽवधिर् इयत्ता न विद्यते नास्ति । ‘विद सत्तायाम्’ इत्यतो लडात्मनेपदं विद्यते विद्येते विद्यन्ते । ‘अवधिस्त्ववदाने स्यात्सीमि्न काले वनेऽपि च’ इति विश्वः । अच्युतप्रेक्ष आगतं नमस्कुर्वाणं मध्वाचार्यं दृष्ट्वा अपरिमितं सन्तोषं लेभे इति भावः ॥ ३० ॥
विश्वास-प्रस्तुतिः - ३१
प्रीतिमार्ययतिरुत्तमां पुरा प्रेषिताप्रतिमभाष्यदृग्ययौ ।
अप्यतोऽतिशयिनीं शुचिस्मितं तं विलोक्य सुचिराद्दिदृक्षितम् ॥ ३१ ॥
मूलम् - ३१
प्रीतिमार्ययतिरुत्तमां पुरा प्रेषिताप्रतिमभाष्यदृग्ययौ ।
अप्यतोऽतिशयिनीं शुचिस्मितं तं विलोक्य सुचिराद्दिदृक्षितम् ॥ ३१ ॥
पदार्थदीपिकोद्बोधिका
प्रीतिमिति ॥ पुरा एतदागमनात् पूर्वमेव प्रेषितं श्रीमध्वाचार्येण प्रेषितं यद् अप्रतिमभाष्यम् असदृशभाष्यं तत् पश्यति इति प्रेषिताप्रति-मभाष्यदृक् आर्ययतिर् ज्येष्ठयतिः । लिकुचान्वयजेत्यर्थः । उत्तमां प्रीतिं सन्तोषं ययौ । इदानीं पुनः सुचिरात् सुचिरकाले द्रष्टुम् इष्टं दिदृक्षितं शुचिस्मितं मन्दहासोपेतं तं श्रीमध्वाचार्यं विलोक्य अतोऽपि भाष्यदर्शनजातप्रीतेरप्यरतिशयिनीं प्रीतिं ययौ ॥ ३१ ॥
मन्दोपाकारिणी
प्रीतिमिति ॥ पुरा मध्वाचार्यागमनात्प्रागेव प्रेषिताप्रतिमभाष्यदृक् प्रेषितं मध्वाचार्येण शिष्यहस्तेन दापितम् अप्रतिमम् असदृशं भाष्यं ब्रह्मसूत्रभाष्यं तत् पश्यतीति प्रेषिताप्रतिमभाष्यदृक् । आर्ययतिः श्रेष्ठयतिर् उत्तमाम् उत्कृष्टां प्रीतिं हर्षं ययौ प्राप्तवान् । इदानीं सः श्रेष्ठयतिः सुचिराद् बहुकालाद् आरभ्य दिदृक्षितं द्रष्टुम् अपेक्षितं शुचिस्मितं शुचि शुभ्रं स्मितं मन्दहासः यस्य स तथोक्तः । तं मध्वाचार्यं विलोक्य दृष्ट्वा अतोऽपि मध्वप्रेषिततत्कृतभाष्यदर्शनजातायाः प्रीतेरपि अतिशयिनीम् अत्युत्कृष्टां प्रीतिं ययौ प्राप्तवान् । ‘या प्रापण’ इत्यतो लिट् परस्मैपदं ययौ ययतुर् ययुः ॥ ३१ ॥
विश्वास-प्रस्तुतिः - ३२
पूर्णदृष्टिजलधेर्गृहीतवान् भाष्यसंज्ञममृतं सुखावहम् ।
चित्रमेष यतिराड् घनाघनो ग्राहयंश्च मनुजान् मुमोच नो॥ ३२ ॥
मूलम् - ३२
पूर्णदृष्टिजलधेर्गृहीतवान् भाष्यसंज्ञममृतं सुखावहम् ।
चित्रमेष यतिराड् घनाघनो ग्राहयंश्च मनुजान् मुमोच नो॥ ३२ ॥
पदार्थदीपिकोद्बोधिका
पूर्ण इति ॥ पूर्णा दृष्टिर् ज्ञानं यस्य स एव जलधिः समुद्रस् तस्मात् । ‘दृष्टिर्ज्ञानेऽक्ष्णिदर्शन’ इत्यमरः । भाष्यमिति संज्ञा यस्य तत्सुखावहं सुखकरम् अमृतं जलम् ‘पयः कीलालममृतं जीवनं भुवनं वनं’ इत्यमरः । गृहीतवान् एष यतिराड् यतिश्रेष्ठः स एव घनाघनो वर्षुकमेघः ‘वर्षुकाब्दो घनाघनः’ इत्यमरः । मनुजान् ग्राहयंश्च स्वयं नो मुमोच । चित्रम् आश्चर्यम् । अयं भावः वर्षुकमेघो जलधेर् जलं संगृह्य देशान्तरे वर्षन् स्वयं मुञ्चति रिक्तो भवति । अयं यतिश्रेष्ठस्तु मध्वाचार्याद् भाष्यं श्रुत्वा शिष्येभ्यो व्याकुर्वंश्च नो मुमोच । अतितरां तन्निरतोऽभूदिति ॥ ३२ ॥
मन्दोपाकारिणी
पूर्णेति ॥ पूर्णदृष्टिजलधेः पूर्णा दृष्टिर् ज्ञानं यस्य सः पूर्णप्रज्ञः ‘दृष्टिर्ज्ञानेऽक्ष्णिदर्शने’ इत्यमरः पूर्णदृष्टिरेव जलधिः समुद्रस् तस्मात् । भाष्यसंज्ञं भाष्यमिति संज्ञा नाम यस्य तद् भाष्यसंज्ञम् । सुखावहं सुखम् आवहति करोति इति सुखावहम् । अमृतं जलं ‘पयः कीलालममृतं’ इत्यमरः गृहीतवान् संगृहीतवान् एषः यतिराड् घनाघनः यतीनां राट् राजा श्रेष्ठः ज्येष्ठयतिराडेव घनाघनः वर्षुकमेघः ‘वर्षुकाब्दे घनाघनः’ इत्यमरः मनुजांश्च मर्त्यांश्च ग्राहयन् स्वीकारयन् सन् नो मुमोच न तत्याज । चित्रम् एतद् आश्चर्यम् । ‘मुच्लृ मोक्षणे’ इत्यतो लिट् परस्मैपदं मुमोच मुमुचतुर् मुमुचुः । ‘मनुजा मानवा नराः’ इत्यमरः । अयं भावः यथा वर्षाकालमेघः समुद्राद् उदकं सङ्गृह्य देशान्तरे वर्षयन् स्वयं जलं त्यजति रिक्तो भवति । तथा अयं ज्येष्ठयतिः श्रीमध्वाचार्याद् भाष्यं श्रुत्वा शिष्येभ्यो व्याकुर्वंश्च तद्भाष्यं न तत्याज तत्रैव नितरां निरतोऽभूत् ॥ ३२ ॥
विश्वास-प्रस्तुतिः - ३३
सानुनीतिरथ नीतिमानयं भाष्यसद्गुणगणानवर्णयत् ।
शोभनाय गुरवे स्वभावतः कालतः कुमतलीनबुद्धये ॥ ३३ ॥
मूलम् - ३३
सानुनीतिरथ नीतिमानयं भाष्यसद्गुणगणानवर्णयत् ।
शोभनाय गुरवे स्वभावतः कालतः कुमतलीनबुद्धये ॥ ३३ ॥
पदार्थदीपिकोद्बोधिका
सानुनीतिरिति ॥ अथ कस्मिंश्चित्समये सानुनीतिर् अनुनयसहितो नीतिमान् अयं श्रीमध्वः । स्वभावतः स्वरूपतः शोभनाय सज्जीवाय कालतः कलिकालवशात्, कुत्सितञ्च तन् मतञ्च कुमतं मायिमतं तेन लीना निगूढा बुद्धिर्
यस्य तस्मै गुरवे अच्युतप्रज्ञाय भाष्यस्य सद्गुणानां गणान् समूहान् अवर्णयत् । ‘वर्ण
वर्णने’ लङ् ॥ ३३ ॥
मन्दोपाकारिणी
सानुनीतिरिति ॥ अथ आगमनानन्तरं सानुनीतिर् अनुनीत्या अनुनयेन सहितः सानुनीतिर् अनुवृत्तिमान् इत्यर्थः । नीतिमान् तत्तत्कालोचितप्रकारवान् अयं श्रीमध्वाचार्यः । स्वभावतः ‘स्वरूपं च स्वभावश्च’ इत्यमरः शोभनाय सज्जीवाय कालतः कलिकालवशात् कुमतलीनबुद्धये कुमतेन कुत्सितमतेन मायिसिद्धान्तेन लीना निगूढा आच्छादिता बुद्धिर् मतिर् यस्य सस् तथोक्तस् तस्मै गुरवे अच्युतप्रेक्षाय भाष्यसद्गुणगणान् भाष्यस्य सूत्रभाष्यस्य सन्तः विद्यमानाश्च ते गुणाश्च तेषां गणान् समूहान् । ‘सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते’ इत्युक्तेः । सच्छब्दो विद्यमानार्थकः । अवर्णयद् अकथयत् । ‘वर्ण स्तुतावित्यतो लङ् परस्मैपदम् अवर्णयद् अवर्णयताम् अवर्णयन्’ । भाष्यगुणा विशिष्टार्थप्रतिपादकत्व-एकविंशतिकुभाष्यदूषकत्वादयः व्यासदेव-हृदयातिवल्लभम् इत्यादिना पूर्वोक्ता ज्ञेयाः ॥ ३३ ॥
विश्वास-प्रस्तुतिः - ३४
उक्तिभिस्तमसकृत् सुयुक्तिभिर्बोधयन् बहुलधीः प्रसङ्गतः ।
स्थेयसो भिषगिवास्य हृद्गतं मूलदोषमरुचेरचिन्तयत् ॥ ३४ ॥
मूलम् - ३४
उक्तिभिस्तमसकृत् सुयुक्तिभिर्बोधयन् बहुलधीः प्रसङ्गतः ।
स्थेयसो भिषगिवास्य हृद्गतं मूलदोषमरुचेरचिन्तयत् ॥ ३४ ॥
पदार्थदीपिकोद्बोधिका
उक्तिभिरिति ॥ बहुला धीर् यस्य स श्रीपूर्णप्रज्ञः । प्रसङ्गतः शोभना युक्तयो यासां ताभिर् उक्तिभिर् वचनैस् तं स्वगुरुम् असकृद् बहुवारं बोधयन् सन् । स्थेयसः स्थिरबुद्धेः । ‘स्थास्नु स्थिरतरः स्थेयानेकरूपतया तु यः’ इत्यमरः । बहुयुक्ति-भिर्बोधनेऽपि मायिशास्त्रप्रवणैकबुद्धेरिति भावः । अस्य स्वगुरोर् अच्युतप्रज्ञस्य हृद्गतम् अरुचेः स्वशास्त्रे रुचिहीनस्य मूलदोषं कारणीभूतदोषं भिषगिव अचिन्तयत् । तस्य चिद्रोगचिकित्सां कुर्वन् भिषग्यथा यथा रोगिणोऽरुचिनिदानं दोषं चिन्तयेद् आधिर्व्याधिर्वेत्यादि, तद्वद् अस्यापि शास्त्रेऽरुचिः किं निबन्धना स्वभावतो दुष्टबुद्धित्वाद्वा उतोपाधितोऽस्य सच्छास्त्रेऽरुचिनिदानभूतं दोषं चिन्तयामासेति भावः । अत्र स्थेयस इति नारुचिविशेषणम् । तथात्वे स्थेयश्शब्दस्योगित्वेन ङीपि कृते स्थेयस्या इति भवेत् ॥ ३४ ॥
मन्दोपाकारिणी
उक्तिभिरिति ॥ बहुलधीर् बहुला धीः प्रज्ञा यस्य सः श्रीमध्वः । प्रसङ्गतस् तत्तत्सूत्रार्थविचारप्रसङ्गे सुयुक्तिभिः सुदृढा युक्तयः यासां ताः सुयुक्तयस् ताभिर् उक्तिभिः स्ववचनैस् तं स्वगुरुम् असकृद् बहुवारं बोधयन् सन् स्थेयसः स्थिरतरस्य बहुयुक्तिभिर् बोधने कृतेऽपि मायिशास्त्रप्रवणैकप्रकारबुद्धेर् इति भावः । ‘स्थास्नुः स्थिरतरः स्थेयान्’ इत्यमरः । अस्य स्वगुरोर् हृद्गतं हृदि अन्तःकरणे निरूढम् अरुचेः स्वशास्त्रे रुच्यभावस्य मूलदोषं कारणभूतं दोषम् अचिन्तयत् । अस्य सच्छास्त्रे रुच्यनुत्पादे निदानभूतो दोषः क इति स्वमनसि विचारितवान् । ‘चिति स्मृत्यां’ इत्यतो लङ् परस्मैपदम् । क इव भिषगिव । ‘भिषग्वैद्यश्चिकित्सकः’ इत्यमरः । यथा कस्यचित् पुरुषस्य रोगचिकित्सां कुर्वन् वैद्यः रोगिणो ऽन्नादौ अरुचिहेतुं दोषं विचारयेद् आधिर्वा व्याध्यादिर्वा इति तद्वद् अस्यापि सच्छास्त्रे अरुचिः किं निबन्धना स्वभावतो दुष्टबुद्धित्वाद्वा उपाधितो वा इति अचिन्तयद् इति भावः । स्थेयस इति पदस्य अरुचेर् इत्यस्य विशेषणत्वे स्थेयस्या इति स्यात् । अरुचेर् इत्यस्य स्त्रीलिङ्गत्वात् । अत उक्त एव प्रकारो युक्त इति ॥ ३४ ॥
विश्वास-प्रस्तुतिः - ३५
दक्षपक्षविहृतेन ताडयन् भीषयन् समधिकस्वरश्रिया ।
हंसराट् कलिमलं निराकरोदेकदृष्टिमिव मानसाद्वुरोः ॥ ३५ ॥
मूलम् - ३५
दक्षपक्षविहृतेन ताडयन् भीषयन् समधिकस्वरश्रिया ।
हंसराट् कलिमलं निराकरोदेकदृष्टिमिव मानसाद्वुरोः ॥ ३५ ॥
भावप्रकाशिका
एकदृष्टिमिव काकमिव रूपिणमैक्यज्ञानमिव च । मानसान्मनसः सरश्श्रेष्ठाच्च ॥ ३५ ॥
पदार्थदीपिकोद्बोधिका
दक्षेति ॥ दक्षपक्षस्य शोभनसिद्धान्तस्य विहृतेन युक्तिकथनात्मकलीलया ताडयन् निराकुर्वन् । समधिको यः स्वरो व्याख्यास्वरस् तस्य श्रिया भीषयन् । हंसराट् परमहंसश्रेष्ठः श्रीमध्वो गुरोर् अच्युतप्रज्ञस्य मानसान् मनसः । ‘हृन्मानसं मन’ इत्यमरः । कलिमलं कलिदोषम् । कल्यावेशनिमित्तकं सच्छास्त्रारुचिकारणीभूतं बुद्धिदोषमित्यर्थः । दक्षपक्षविहृतेन शोभनपतत्रविहारेण ताडयन्, समधिकस्वरया भीषयन् हंसराट् राजहंसाख्यपक्षिविशेषः गुरोर् महतो मानसान् मानससरसः । एका दृष्टिर् यस्य तं काकमिव निराकरोन् निराचक्रे ॥ ३५ ॥
मन्दोपाकारिणी
दक्षेति ॥ हंसराट् हंसानां परमहंसानां राट् श्रेष्ठः श्रीमध्वाचार्यः । गुरोर् अच्युतप्रेक्षस्य मानसान् मनसः कलिमलं कलेर् मलं कल्यावेशनिमित्तं सच्छास्त्रे रुच्यभावहेतुं बुद्धिदोषं निराकरोन् निष्कासितवान् । किं कुर्वन् । दक्षपक्षविहृतेन दक्षश्चासौ पक्षश्च दृढसिद्धान्तस् तस्य विहृतेन विहारेण लीलया सिद्धान्तोक्तयुक्तिकथनेन इत्यर्थः । ताडयन् तदुक्तं खण्डयन् समधिकस्वरश्रिया समधिको ऽत्यन्तम् अधिको ऽच्युतप्रेक्षशब्दापेक्षया अत्युत्तमश्चासौ स्वरः शब्दश्च स एव श्रीः सम्पत् तया अत्युच्चध्वनिना इत्यर्थः । भीषयन् विपक्षे बाधकभयं प्रदर्शयन् दृढसदुक्तिभिस् तदुक्तपक्षं खण्डयित्वा विपक्षे बाधकं प्रदर्श्य गुरुमनसि विद्यमानं सच्छास्त्रारुचिं परिहृतवान् इति भावः । कः कमिव । हंसराट् हंसपक्षी एकदृष्टिम् एका दृष्टिश् चक्षुर् यस्य स तथोक्तस् तं काकाख्यपक्षिणं दक्षपक्षविहृतेन दक्षयोः पक्षयोः पत्रयोर् विहरणेन ताडयन् ताडनं कुर्वन् समाधिकस्वरश्रिया काकापेक्षया अधिकशब्देन भीषयन् भयं जनयन् मानसान् मानसाख्य-सरोवराद् इव यथा निर्गमयेत् तद्वद् इति भावः । ‘काके तु करटारिष्टबलिपुष्टसकृत्प्रजाश् चिरजीवी चैकदृष्टिः’ इत्यमरः ॥ ३५ ॥
विश्वास-प्रस्तुतिः - ३६
निष्कलङ्कमिव चन्द्रमण्डलं पुण्डरीकमिव फुल्लतां गतम् ।
वारि शारदमिव प्रसादवच्चित्तमच्युतमतेर्भृशं बभौ ॥ ३६ ॥
मूलम् - ३६
निष्कलङ्कमिव चन्द्रमण्डलं पुण्डरीकमिव फुल्लतां गतम् ।
वारि शारदमिव प्रसादवच्चित्तमच्युतमतेर्भृशं बभौ ॥ ३६ ॥
पदार्थदीपिकोद्बोधिका
निष्कलङ्कमिति ॥ अच्युतमतेर् अच्युतप्रज्ञस्य चित्तम् । निर्गतः कलङ्को यस्मात् तादृशं चन्द्रमण्डलमिव फुल्लतां विकासभावं गतं पुण्डरीकमिव कमलमिव । ‘पुण्डरीकं सिताम्भोज’मित्यमरः । प्रसादवन् नैर्मल्ययुक्तं शारदं शरदि भवं वारीव भृशम् अत्यर्थं बभौ ॥ ३६ ॥
मन्दोपाकारिणी
निष्कलङ्कमिति ॥ अच्युतमतेर् अच्युतप्रेक्षस्य चित्तं मनः भृशम् अत्यन्तं बभौ उल्ललास । ‘भा दीप्तौ’ इत्यतो लिट् परस्मैपदं बभौ बभतुर् बभुः । किमिव निष्कलङ्कं निर्गतः कलङ्कः श्यामरूपदोषः यस्मात् तत् ‘कलङ्कोऽङ्कापवादयोः’ इत्यमरः । चन्द्रमण्डलमिव चन्द्रस्य मण्डलं बिम्बमिव ‘बिम्बोऽस्त्री मण्डलं त्रिषु’ इत्यमरः । पुनः किमिव फुल्लतां फुल्लस्य भावः फुल्लता तां विकासतां गतं प्राप्तं विकसितम् इत्यर्थः । पुण्डरीकमिव कमलमिव । ‘पुण्डरीकं सिताम्भोजं’ इत्यमरः । पुनः किमिव प्रसादवत् प्रसादः प्रसन्नता निर्मलत्वम् इत्यर्थो ऽस्यास्तीति प्रसादवत् शारदं शरद ऋतोः सम्बन्धि शारदं वारि उदकमिव । मध्वाचार्योपदेशेन अच्युतप्रेक्षबुद्धिः शुद्धा बभूव इति भावः ॥३६॥
विश्वास-प्रस्तुतिः - ३७
आननन्द स हि मध्वशास्त्रमाकर्णयन्कुसमयाग्रही पुरा ।
मोहपीतलवणोदको मुहुः प्राक् पिपासुरमृतं पिबन्निव ॥ ३७ ॥
मूलम् - ३७
आननन्द स हि मध्वशास्त्रमाकर्णयन्कुसमयाग्रही पुरा ।
मोहपीतलवणोदको मुहुः प्राक् पिपासुरमृतं पिबन्निव ॥ ३७ ॥
पदार्थदीपिकोद्बोधिका
आननन्देति ॥ पुरा कुसमये मायिनः कुत्सितसिद्धान्ते य आग्रहः, अयं सत्सिद्धान्त इति पक्षपातः सोऽस्यास्तीति तादृशः । पश्चान् मध्वशास्त्र-माकर्णयन् सोऽच्युतप्रज्ञः पिपासुः प्राक्पिपासित अत एव मुहुर्मोहेनाज्ञानेन पीतं लवणोदकं येन तादृशः । लवणोदकमित्यविज्ञाय पीतलवणजल इत्यर्थः । पश्चादमृतं पिबन्निवाननन्द । पुरा तत्त्वबुभुत्सुः सन् मायिसमय एव तत्त्वावेदक इति मत्वा तच्छ्रवणादिना प्रवृद्धमिथ्याज्ञानः पश्चात् तन्निवर्तकं मध्वशास्त्रमाकर्णयन् सन् अच्युतप्रज्ञः पिपासुः पीतलवणजलः पश्चादमृतं पिबन्निव आननन्देति भावः ॥ ३७ ॥
मन्दोपाकारिणी
आननन्देति ॥ पुरा मध्वशास्त्रश्रवणात्पूर्वं कुसमयाग्रही कुत्सितश्चासौ समयः मायिसिद्धान्तस् तस्मिन् आग्रहः पक्षपातो ऽस्यास्तीति । अनन्तरं मध्वशास्त्रं मध्वसिद्धान्तम् आकर्णयन् ृण्वन् सो ऽच्युतप्रेक्ष आननन्द सन्तुतोष । ‘टु नदि समृद्धौ’ लिट् परस्मैपदं ननन्द ननन्दतुर् ननन्दुः । क इव ? पिपासुः पातुमिच्छावान् पिपासितः प्राक् मुहुर् भृशं मोहपीतलवणोदकः मोहेन अज्ञानेन इदं लवणोदकम् इति अविज्ञाय पीतं लवणं क्षारम् उदकं जलं येन सः पश्चाद् अमृतं मधुरोदकं पिबन् पुरुष इव । यथा कश्चित् पूर्वं पिपासितः सन् लवणोदकम् इति अविज्ञाय लवणोदकं पीतवान् पश्चान् मधुरोदकं पीत्वा सन्तुष्यति तद्वद् अच्युतप्रेक्षः पुरा तत्त्वं बुभुत्सुर् मायिशस्त्रमेव तत्त्वावगमकं ज्ञात्वा तच्छास्त्रं श्रुत्वा व्याख्याय च प्रवृद्धमिथ्याज्ञानः सन् पश्चात् सर्वमिथ्याज्ञाननिवर्तक- मध्वशास्त्रं ृण्वन् सन्तुतोष इति भावः ॥ ३७ ॥
विश्वास-प्रस्तुतिः - ३८
विस्तृतान्तरवियत्पदौ यती आस्यतां सुसमयप्रकाशनात् ।
तौ यथा विधुरवी अहो अहोरात्रमप्युरुतमो नृमोहकम् ॥ ३८ ॥
मूलम् - ३८
विस्तृतान्तरवियत्पदौ यती आस्यतां सुसमयप्रकाशनात् ।
तौ यथा विधुरवी अहो अहोरात्रमप्युरुतमो नृमोहकम् ॥ ३८ ॥
भावप्रकाशिका
सुसमयप्रकाशनात् सुशास्त्र्रव्याख्यानात् सुकालोदयाच्च ॥ ३८ ॥
पदार्थदीपिकोद्बोधिका
विस्तृतेति ॥ विस्तृतमन्तरं ज्ञानं यस्य स पूर्णप्रज्ञः । स एव वियद्गगनं तदेव पदम् आश्रयो ययोस् तौ यती लिकुचाह्वयजाच्युतप्रज्ञाख्यौ यती । अहश्च रात्रिश्च अहोरात्रं निरन्तरमहोरात्रेऽपीत्यर्थः । शोभनश्चासौ समयश्च सुसमयः श्रीमध्वशास्त्रं तस्य प्रकाशनं प्रकटनं तस्मात् । तद्य्वाख्यानादिति यावत् । नॄणां मोहकम् उरुतमो महदज्ञानम् । वियत्पदौ वियदाश्रयौ विधुरवी सुकाले प्रकाशनाद् अहोरात्रम् उर्वन्धकारं यथा, तथा आस्यतां निराकुरुताम् । अहो आश्चर्यम् । अनयोर् भाग्यम् इति भावः ॥ ३८ ॥
मन्दोपाकारिणी
विस्तृतेति ॥ यती ज्येष्ठयत्यच्युतप्रेक्षश्चेत्युभौ सन्यासिनौ । विस्तृतान्तरवियत्पदौ विस्तृतं बहुविषयकम् आन्तरम् अन्तरेण मनसा जन्यं ज्ञानं यस्य सः पूर्णप्रज्ञाचार्यः स एव वियद् आकाशः स एव पदं स्थानम् आश्रयः ययोस् तौ विस्तृतान्तरवियत्पदौ ‘वियद्विष्णुपदं’ इत्यमरः । मध्वाकाशमाश्रितौ सन्तौ अहोरात्रमपि सुसमयप्रकाशनात् शोभनमध्वशास्त्रस्य विचारान् नृमोहकं पुरुषमोहकं तत्त्वज्ञानप्रतिबन्धकम् उरु बहुलं तमः मिथ्याज्ञानम् आस्यतां निराकुरुताम् । ‘अस निरसने’ लङ् परस्मैपदम् आस्यद् आस्यताम् आस्यन् । कौ इव विधुरवी यथा चन्द्रसूर्यौ आकाशम् आश्रित्य सुसमयप्रकाशनात् सुसमये शोभनशरदादिकाले प्रकाशनाद् अहोरात्रम् अहोरात्रसम्बन्धि नृमोहकं नृणां प्रवृत्तिप्रतिबन्धकम् उरुतमः गाढान्धकारं निराकुरुतां तद्वज् ज्येष्ठयत्यच्युतप्रेक्षौ मध्वाचार्यम् आश्रित्य अहोरात्रमपि मध्वशास्त्रविचारं कृत्वा स्वाज्ञानं परिहृतवन्तौ इति भावः । अहो आश्चर्यं मध्वभाष्यमाहात्म्यम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः - ३९
सज्जनान् सह महादरेण नॄन् पापिनां प्रकृतितोऽप्रियाकृति ।
दारुणाघगणदारणं स्म स ग्राहयत्यपि सुदर्शनद्वयम् ॥ ३९ ॥
मूलम् - ३९
सज्जनान् सह महादरेण नॄन् पापिनां प्रकृतितोऽप्रियाकृति ।
दारुणाघगणदारणं स्म स ग्राहयत्यपि सुदर्शनद्वयम् ॥ ३९ ॥
भावप्रकाशिका
महादरेण महाबहुमानेन शङ्खेन च । सुदर्शनं सच्छास्त्रं चक्रं च ॥ ३९ ॥
पदार्थदीपिकोद्बोधिका
सज्जनानिति ॥ स श्रीमध्वः । सज्जनान् तत्त्वज्ञानयोग्यान् नॄन् पुरुषान् । पापमेषामस्तीति तेषां प्रकृतितः स्वभावतोऽप्रियाऽऽकृतिः स्वरूपं यस्य तादृशम् । पापिनाम् एतत् शास्त्रं, सुदर्शनचक्रं चेति द्वयमपि स्वभावतो दुःसहं हि । दारुणानि यानि अघानि पापानि तेषां गणस्य समूहस्य दारणं विदारकं सुदर्शनद्वयमपि । शोभनं दर्शनं शास्त्रं, सुदर्शनचक्रं च इति तयोर्द्वयमपि महादरेण महाशङ्खेन च ग्राहयति स्म ग्राहयामास ॥ ३९ ॥
मन्दोपाकारिणी
सज्जनानिति ॥ स श्रीमध्वाचार्यः सज्जनान् तत्त्वज्ञानयोग्यान् नॄन् पुरुषान् । सुदर्शनद्वयमपि शोभनं च तद् दर्शनं च इति व्युत्पत्त्या सुदर्शनशब्देन शास्त्रं चक्रं चोच्यते । सुदर्शनं च सुदर्शनं च सुदर्शने तयोर् द्वयं स्वशास्त्रं चक्रं च इत्युभयमपि ग्राहयति स्म अग्राहयत् । स्म अतीते । ‘गतिबुद्धी’त्यादिना द्विकर्मकत्वम् । कथं महादरेण सह महान् पूज्यश्चासौ दरः शङ्खश्च महादरस् तेन साकम् । कथंभूतं सुदर्शनद्वयं पापिनां पापिष्ठानां प्रकृतितः स्वभावाद् अप्रियाकृति प्रिया प्रीतिविषया न भवतीति अप्रिया अप्रिया आकृतिः स्वरूपं यस्य तत् । तथोक्तं तद् दुर्जनानां सच्छास्त्रं सुदर्शनचक्रं च इति द्वयं स्वभावतो दुःसहं हि । पुनः कीदृशं दारुणाघगणदारणं दारुणानि भयङ्कराणि च तानि अघानि दुष्कृतानि च दारुणाघानि दारुणाघानां गणः समूहस् तं दारयतीति नाशयतीति दारुणाघगणदारणम् । अयं भावस् तत्त्वज्ञानयोग्यानां जनानां भुजयोस् तप्ताभ्यां शङ्खचक्राभ्यां चिन्हं कृत्वा विष्णुदीक्षां कारयित्वा तेभ्य आदरेण सह स्वशास्त्रम् उपदिदेश इति भावः । अनेन तप्तचक्रशङ्खधारणरूपविष्णुदीक्षारहितानां स्वशास्त्रोपदेशो न कार्य इति सूच्यते ॥ ३९ ॥
विश्वास-प्रस्तुतिः - ४०
नन्वनन्यशरणात्मनां सतां सिद्धिविघ्नमुखदोषभेषजम् ।
ऐच्छदच्छलदयोदयादयं रूप्यपीठपुरगः कदाचन ॥ ४० ॥
मूलम् - ४०
नन्वनन्यशरणात्मनां सतां सिद्धिविघ्नमुखदोषभेषजम् ।
ऐच्छदच्छलदयोदयादयं रूप्यपीठपुरगः कदाचन ॥ ४० ॥
पदार्थदीपिकोद्बोधिका
नन्विति ॥ अयं श्रीमध्वः कदाचन रूप्यपीठपुरगः सन् । न विद्यते छलं व्याजं यस्याः सा अच्छला निर्व्याजा या दया सज्जनविषयकृपा तस्य उदयात् प्रादुर्भावात् । अन्यच्च तत् शरणं च, न विद्यतेऽन्यशरणमन्यरक्षको यस्य तादृश आत्मा मनो येषां तेषाम् । न विद्यतेऽन्यशरणं येषां तेऽनन्यशरणाः, अनन्यशरणा इत्यात्मा मनो येषां तेषामिति वा । श्रीमध्वाचार्य एव शरणं न अन्य इति मनसा युक्तानामित्यर्थः । सतां सत्पुरुषाणां, सिद्धेर् मोक्षसिद्धेर् यो विघ्नः स एव मुखं मुख्यं येषां ते तादृशा ये दोषास् तेषां भेषजम् औषधम् ऐच्छत् । सतां मोक्षविघ्नादिदोषप्रतीकारत्वेन श्रीकृष्णप्रतिष्ठां करिष्यामीत्यैच्छदिति भावः ॥ ४० ॥
मन्दोपाकारिणी
नन्विति ॥ रूप्यपीठपुरगः रूप्यपीठाख्ये पुरे गच्छति तिष्ठतीति रूप्यपीठपुरगो ऽयं श्रीमध्वाचार्यः । कदाचन कस्मिंश्चित्काले अनन्यशरणात्मनां शरणं चासौ आत्मा च शरणात्मा रक्षकजीव इत्यर्थः ‘शरणं गृहरक्षित्रोः’ इत्यमरः । न विद्यते अन्यो ऽपरः शरणात्मा येषां ते अनन्यशरणात्मानस् तेषां स्वात्मानं विना रक्षकर-हितानाम् । सतां मुक्तियोग्यानां विषये अच्छलदयोदयाद् अच्छला व्याजरहिता च सा दया च तस्या उदयात् प्रादुर्भावात् । सिद्धिविघ्नमुखदोषभेषजं सिद्धेर् मुक्तेर् विघ्नः प्रतिबन्धकम् अज्ञानं तदेव मुखम् आदिर् येषां ते सिद्धिविघ्नमुखास् ते च ते दोषाः कामकर्मादयस् तेषां भेषजम् औषधम् ऐच्छद् अपेक्षितवान् । ‘इषु इच्छायाम्’ इत्यतो लङ् परस्मैपदम् ऐच्छद् ऐच्छताम् ऐच्छन् । रजतपीठपुरे विद्यमानः श्रीमध्वाचार्यः कदाचिन् मुक्तियोग्यान् जनान् मुक्तिप्रतिबन्धकाविद्याकामकर्मादिना सच्छास्त्रे विमुखान् दृष्ट्वा तदुपरि दयां कृत्वा तत्प्रति-बन्धकनिवर्तनाय श्रीकृष्णप्रतिमाप्रतिष्ठां करिष्यामि इति ऐच्छद् इति भावः । अनेन मुक्तियोग्यानां कलौ युगे सच्छास्त्रश्रवणादिविषये विघ्ननिवृत्तिद्वारा मोक्षसाधनसिद्ध्यर्थं रजतपीठपुरगतश्रीकृष्णप्रतिमासन्दर्शनम् आवश्यकम् इति उक्तं भवति ॥ ४० ॥
विश्वास-प्रस्तुतिः - ४१
गोपिकाप्रणयिनः श्रियः पतेराकृतिं दशमतिः शिलामयीम् ।
शिष्यकैस्त्रिचतुरैर्जलाशये शोधयन्निह ततो व्यगाहयत् ॥ ४१ ॥
मूलम् - ४१
गोपिकाप्रणयिनः श्रियः पतेराकृतिं दशमतिः शिलामयीम् ।
शिष्यकैस्त्रिचतुरैर्जलाशये शोधयन्निह ततो व्यगाहयत् ॥ ४१ ॥
पदार्थदीपिकोद्बोधिका
गोपिकेति ॥ दश पूर्णा मतिर् ज्ञानं यस्य स श्रीपूर्णप्रज्ञः । गोपिकाप्रणयिनः गोपिकानां वल्लभस्य श्रियः पतेर् भर्तुः श्रीकृष्णस्य शिलामयीं शिलात्मिकाम् आकृतिं प्रतिकृतिं जलाशये तटाके त्रयश्च चत्वारश्च त्रिचतुरास्तैः शिष्यकैः शोधयन् मलक्षालनं कुर्वन् कारयंश्च । ततः शोधनानन्तरम् इह तटाके व्यगाहयत् । अवगाहयामास । ‘गाहू विलोडने’ लङ् । अभ्यषिञ्चदिति भावः ॥ ४१ ॥
मन्दोपाकारिणी
गोपिकेति ॥ दशमतिः पूर्णप्रज्ञाचार्यः । गोपिकाप्रणयिनः गोपिकानां गोपस्त्रीणां प्रणयी वल्लभस् तस्य । श्रियः पतेर् अलुक् समासोऽयं समासाभावे पत्युरिति स्याद् लक्ष्मीपतेर् इत्यर्थः । श्रीकृष्णस्य शिलामयीं शिलाया इयं शिलामयी तां शिलानिर्मिताम् आकृतिं प्रतिमां जलाशये जलाधारे मध्वसरोवरनामतटाके इत्यर्थः । ‘जलाशयो जलाधारः’ इत्यमरः । त्रिचतुरैस् त्रयो वा चत्वारो वा त्रिचतुरास् तैः शिष्यकैश् छात्रैः शोधयन् प्रतिमां प्रक्षालयन् ततः शोधनानन्तरम् इह मध्वसरोवरे व्यगाहयत् स्नापितवान् अभ्यषिञ्चद् इति भावः । ‘गाहू विलोडने’ इत्यतः लङ् परस्मैपदम् अगाहयद् अगाहयताम् अगाहयन् । अत्र किल कथां कथयन्ति । ‘भूतभविष्यद्वर्तमानज्ञानी श्रीमध्वाचार्यः श्रीकृष्णप्रतिमां रजतपीठपुरे प्रतिष्ठापयिष्यामीति विचिन्त्य कदाचित् समुद्रे स्नात्वा तत्तीरे जपादि कुर्वन् आसीत् । तस्मिन् समये द्वीपान्तरात् काचन नौर् आगत्य तीरम् अप्राप्यैव किञ्चिद् दूरे जले एव स्थिता नैव चचाल । ततो महता प्रयत्नेनापि नावि अचालितायां सत्यां तैः कर्णधारादिभिः प्रार्थितः मध्वः स्वाभिमुखतः स्ववस्त्रवायुना नावं तीरं प्रापयामास । ततः सन्तुष्टैर् नाविकादिभिर् हे भिक्षो त्वम् अपेक्षितं गृहाण इति प्रार्थितः सन् नावि स्थितां गोपीचन्दनगोलिकां गृहीत्वा रजतपीठपुरम् एत्य मध्वसरोवरे गोपीचन्द-नगोलिकामध्यस्थां श्रीकृष्णप्रतिमां शिष्यैः क्षालयित्वा स्वयम् अभ्यषिञ्चत्’ इति ॥ ४१ ॥
विश्वास-प्रस्तुतिः - ४२
स्पर्शनाद्भगवतोऽतिपावनात् सन्निधानपदतां गतां हरेः ।
त्रिंशदुद्यतनरैः सुदुर्धरां लीलयाऽनयदिमामसौ मठम् ॥ ४२ ॥
मूलम् - ४२
स्पर्शनाद्भगवतोऽतिपावनात् सन्निधानपदतां गतां हरेः ।
त्रिंशदुद्यतनरैः सुदुर्धरां लीलयाऽनयदिमामसौ मठम् ॥ ४२ ॥
पदार्थदीपिकोद्बोधिका
स्पर्शनादिति ॥ अतिपावनाद् अतिपवित्रात् स्पर्शनाद् अवगाहनसमये स्वकरस्पर्शाद् भगवतो हरेः श्रीकृष्णस्य सन्निधानस्य पदमास्पदं तस्य भावस् तत्ता तां गताम् । अत एव त्रिंशत् त्रिंशत्संख्याका य उद्यतनराः प्रतिमाम् उद्धर्तुम् उद्यताः पुरुषास् तैः सुदुर्धरां सुतरां धर्तुम् अशक्याम् इमां प्रतिमां स्वयमेव लीलया अनायासेन मठम् अनयत् । ‘मठश्छात्रादिनिलयः’ इत्यमरः ॥ ४२ ॥
मन्दोपाकारिणी
स्पर्शनादिति ॥ असौ श्रीमध्वाचार्यः । भगवतः भगः माहात्म्यम् अस्यास्तीति भगवान् ‘भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु’ इत्यमरस् तस्य महात्मनः स्वस्य । अतिपावनाद् अत्यन्तपवित्रात् स्पर्शनात् स्नापनसमये स्वकरस्पर्शात् हरेः श्रीकृष्णस्य सन्निधानपदतां सन्निधानस्य पदं विषयस् तस्य भावस् तत्ता तां सन्निधानविषयत्वं गतां प्राप्ताम् । महत्तममध्वाचार्यकरस्पर्शेन तस्यां प्रतिमायां श्रीकृष्णसान्निध्यमभूत् । ‘अर्चकस्य तपोयोगात्’ इत्युक्तेर् इति भावः । सन्निधानं नाम स्वसामर्थ्यव्यञ्जनम् । विश्वंभरस्य कृष्णस्य तत्र सन्निहितत्वादेव त्रिंशदुद्यतनरैर् उद्धर्तुं यत्नवन्त उद्यता उद्युक्तास् ते च ते नराश्च त्रिंशत्सङ्ख्याकाश्च ते उद्यतनराश्च इति तथोक्ताः । तैः सुदुर्धराम् उद्धर्तुम् अशक्याम् इमां श्रीकृष्णप्रतिमां स्वयम् एक एव लीलया अनायासेन मठं स्ववासस्थानं प्रति अनयन् नीतवान् । ‘णीञ् प्रापणे’ लङ् परस्मैपदम् अनयद् अनयताम् अनयन् ॥ ४२ ॥
विश्वास-प्रस्तुतिः - ४३
मन्दहासमृदुसुन्दराननं नन्दनन्दनमतीन्द्रियाकृतिम् ।
सुन्दरं स इह सन्न्यधापयद्वन्द्यमाकृतिशुचिप्रतिष्ठया ॥ ४३ ॥
मूलम् - ४३
मन्दहासमृदुसुन्दराननं नन्दनन्दनमतीन्द्रियाकृतिम् ।
सुन्दरं स इह सन्न्यधापयद्वन्द्यमाकृतिशुचिप्रतिष्ठया ॥ ४३ ॥
पदार्थदीपिकोद्बोधिका
मन्दहासेति ॥ स श्रीमध्वः । मन्दो हासो यस्मिन् तत् । मृदु सुन्दराननं यस्य तम् । ‘मन्दहासहसितेन्दु’मिति क्वचित्पाठः । अतीन्द्रिया प्राकृतेन्द्रियागोचरा आकृतिः स्वरूपं यस्य तम् । सुन्दरं वन्द्यं ब्रह्मादिस्तुत्यं नन्दनन्दनं नन्दगोपपुत्रं श्रीकृष्णम् । आकृतेः प्रतिमाया या शुचिप्रतिष्ठा शोभनप्रतिष्ठाविधानं तया इह अस्यां प्रतिमायां सन्यधापयत् सन्निहितं कारयामास ॥ ४३ ॥
मन्दोपाकारिणी
मन्दहासेति ॥ स श्रीमध्वाचार्यः । मन्दहासमृदुसुन्दराननं मन्द ईषत् हासः हसनं यस्मिन् तन् मन्दहासं मृदु कोमलं च तत् सुन्दरं च तद् आननं मुखं च मृदुसुन्दराननम् । मन्दहासं मृदसुन्दराननं यस्य स तथोक्तस् तम् । अतीन्द्रियाकृतिम् अतीन्द्रिया प्राकृतेन्द्रियागोचरा आकृतिः स्वरूपं यस्य स तथोक्तस् तम् । सुन्दरं मनोहरं वन्द्यं नम्यं स्तुत्यं च नन्दनन्दनं नन्दगोपस्य पुत्रं श्रीकृष्णम् । आकृतिशुचिप्रतिष्ठया आकृतेः प्रतिमायाः शुचिः साङ्गत्वेन निर्मला प्रतिष्ठा स्थापनाविधानं तया सह श्रीकृष्णप्रतिमायां सन्यधापयत् सन्निहितं कारितवान् । ‘डु धाञ् धारणपोषणयोः’ इति णिजन्ताद् धातोर् लङ् परस्मैपदम् अधापयद् अधापयताम् अधापयन् ॥ ४३ ॥
विश्वास-प्रस्तुतिः - ४४
मानिनोऽपि हि वशीचकार यो दैवतप्रतिभयाऽऽत्मनः खलः ।
यायजूकगुणमात्मनः स्मरन् यो जराघटितगोत्र उच्यते ॥ ४४ ॥
मूलम् - ४४
मानिनोऽपि हि वशीचकार यो दैवतप्रतिभयाऽऽत्मनः खलः ।
यायजूकगुणमात्मनः स्मरन् यो जराघटितगोत्र उच्यते ॥ ४४ ॥
भावप्रकाशिका
दैवतप्रतिभया दैवतलब्धप्रज्ञया रुद्राख्यदेववरजप्रज्ञया च । जराघटि-तगोत्रो जरासम्बद्धगोत्रो मरडित्ताय इत्यपभ्रष्टभाषा जरासन्धश्च ॥ ४४ ॥
पदार्थदीपिकोद्बोधिका
मानिन इति ॥ कलापकमिदम् । ‘कलापकं चतुर्भिः स्या’दित्युक्तेः । स्वतेजसा स्वसामर्थ्येन विश्वस्य समस्तजगतः विस्मयम् आश्चर्यं करोतीति तादृशः । अत एव जनैः पुनर्मुहुर्वन्द्यमानौ चरणौ पादौ यस्य तादृशः । चित्रो यो दिग्विजयः सर्वदेशस्थवादिविजयस् तेन कीर्त्या प्रशस्या कीर्तिरस्यास्तीति तादृशः । निजा आत्मीयाः प्रजा अनुदिनं प्रतिदिनं मोदयन् तत्त्वोपदेशादिना सन्तोषयन् । वासुदेवदयितः श्रीकृष्णप्रियो महिष्ठा महती धीर् यस्य स श्रीपूर्णप्रज्ञः । यः खल आत्मनः स्वस्य दैवताद् लब्धा प्रतिभा प्रज्ञा दैवतप्रतिभा तया । मान एषामस्तीति मानिनस् तान् अपि इत्यर्थः । वशीचकार । यायजूकगुणं यष्ट्रत्वाख्यगुणमात्मनः स्वस्य स्मरन् । अस्मिन्नधिवासहोमे स्वस्यैव योग्यतामन्यस्य तदभावञ्च स्मरन्नित्यर्थः । जराघटित इति गोत्रं नाम यस्य तादृशः। ‘गोत्रं क्षेत्रेऽन्वये चित्रे सम्भाव्ये बोधवर्त्मनोः । वने नामि्न च गोत्रोऽद्रौ गोत्राभुवि गवां गणे’ इति हेमचन्द्रः । उच्यते । जराघटितगोत्र इत्यस्य मोरडित्ताय इत्यपभ्रष्टसंज्ञा ॥ ४४ ॥
मन्दोपाकारिणी
मानिन इति ॥ अमुं, कं यः खलः ‘क्रूरे नीचेऽधमे खले’ इति विश्वः । आत्मनः स्वस्य दैवतप्रतिभया देवताया इयं दैवता दैवता च सा प्रतिभा च तया स्वोपास्यदेवताप्रसादलब्धप्रज्ञया । मानिनोऽपि मानो ऽभिमानः येषाम् अस्तीति मानिनः । प्रबलानपि वशीचकार जित्वा स्ववशीचकार । यश्च यायजूकगुणं यायजूक इज्याशीलः समर्पकयज्ञकर्ता इत्यर्थः । तस्य गुणस् तं यष्ट्रत्वाख्यं गुणम् आत्मन एव स्वस्यैव स्मरन् अहमेव सम्यक् यष्टा नान्य इति अनुसन्धानवान् । यश्च जराघटितगोत्रः जराघटितं गोत्रं नाम यस्य स तथोक्त उच्यते अभिधीयते तं निरस्य इति अन्वयः ॥ ४४ ॥
विश्वास-प्रस्तुतिः - ४५
आत्मनः प्रियतमक्रतोरमुं पापपूरुषमवेक्ष्य घातुकम् ।
तं निरस्य जनमप्यथाहितं सर्वभूधरसमर्थपूर्वकम् ॥ ४५ ॥
मूलम् - ४५
आत्मनः प्रियतमक्रतोरमुं पापपूरुषमवेक्ष्य घातुकम् ।
तं निरस्य जनमप्यथाहितं सर्वभूधरसमर्थपूर्वकम् ॥ ४५ ॥
भावप्रकाशिका
प्रियतम उपाध्यायसुतः युधिष्ठिरश्च । भूधरो राजा । समर्थौ पूर्वपश्चिमपक्षाधिपौ । भूधरसमर्था राजश्रेष्ठाश्च ॥ ४५ ॥
पदार्थदीपिकोद्बोधिका
आत्मन इति ॥ अमुं पापपुरुषम् आत्मनः स्वस्य प्रियतमस्य पूर्वाश्रमे स्ववेदपाठकसुतस्य यः क्रतुस्तस्य घातुकं विघ्नकर्तारम् । अहमेव कुलश्रेष्ठत्वाद् यजनकर्मणि योग्यः । अयं तु अकुलीनत्वाद् याजनीयो न भवति इत्यादि कथनपूर्वकं स्वोपाध्यायसुतेन क्रियमाणयज्ञस्य विघ्नकर्तारमित्यर्थः । अवेत्य ज्ञात्वा तं जराघटितगोत्रजं, अथ ततोऽन्यमहितममित्रं जनं तत्पक्षीयजनमपि । भूधरो राजा बालकन्यापुराधिपः, स च समर्थौ पूर्वपक्षाधिप, पश्चिमपक्षाधिपौ तौ च सर्वे समस्तजनाश्च । सर्वभूधरसमर्थाः पूर्वका यथा भवति तथा सर्वसमक्षमित्यर्थः । निरस्य निरुत्तरं कृत्वा अयाजयद् इति उत्तरत्रान्वयः ॥ ४५ ॥
मन्दोपाकारिणी
आत्मन इति ॥ किं कृत्वा अमुं पापपूरुषं पापमस्यास्तीति पापः ‘अर्शादिभ्योऽच्’ पापश्चासौ पूरुषश्च कश्चनवादी तम् । आत्मनः स्वस्य प्रियतमक्रतोः प्रियतमस्य प्रीतिविषयस्य उपाध्यायपुत्रस्य क्रतोर् यज्ञस्य घातुकं विघ्नकर्तारम् अवेक्ष्य दृष्ट्वा । सर्वभूधरसमर्थपूर्वकं भूधरो राजा समर्थः कश्चन समर्थनामा पुरुषः भूधरश्च समर्थश्च भूधरसमर्थौ सर्वे समस्तजनाश्च भूधरसमर्थौ च सर्वभूधरसमर्थास् ते एव पूर्वे यथा स्युस् तथा क्रियाविशेषणम् इदं भूधरादिसर्वजनतासमक्षम् इति यावत् । तं वादिनं निरस्य निरुत्तरीकृत्य इत्यर्थः । यद्वा सर्वश्च भूधरश्च सर्वभूधरौ तन्नामानौ समर्थौ यज्ञादिकर्मकाण्डनिपुणौ वादिनौ पूर्वौ यस्य स तथोक्तः । तम् इति जनविशेषणम् अहितं शत्रुभूतं ततोऽन्यं जनमपि अथ तथा निरस्य । ‘द्विड्विपक्षाहितामित्रः’ इत्यमरः ॥ ४५ ॥
विश्वास-प्रस्तुतिः - ४६
विश्वविस्मयकरः स्वतेजसा वन्द्यमानचरणः पुनर्जनैः ।
चित्रदिग्विजयकीर्त्यकीर्तिमान् मोदयन्ननुदिनं निजाः प्रजाः ॥ ४६ ॥
मूलम् - ४६
विश्वविस्मयकरः स्वतेजसा वन्द्यमानचरणः पुनर्जनैः ।
चित्रदिग्विजयकीर्त्यकीर्तिमान् मोदयन्ननुदिनं निजाः प्रजाः ॥ ४६ ॥
पदार्थदीपिकोद्बोधिका
४४ श्लोकार्थेन सह व्याख्यातम् इदम् ॥ ४६ ॥
मन्दोपाकारिणी
विश्वेति ॥ कथंभूतः महिष्ठधीः । स्वतेजसा स्वस्य सामर्थ्येन विश्वविस्मयकरः विश्वेषां सर्वेषां जनानां विस्मयम् आश्चर्यं करोतीति तथोक्तः । पुनस् तथा जनैर् वन्द्यमानचरणः वन्द्यमानौ नम्यमानौ चरणौ पादौ यस्य स तथोक्तः । पुनः कथंभूतः? चित्रदिग्विजयकीर्त्यकीर्तिमान् चित्रा विविधाश्च ता दिशश्च चित्रदिशां विजयस् तेन निमित्तेन कीर्त्या कीर्तनीया कीर्तिर् यशो ऽस्यास्तीति तथोक्तः । सकलदिक्पण्डितान् पराभूय सम्पादितकीर्तियुक्तो ऽनुदिनं प्रतिदिनं निजाः प्रजाः स्वीयजनान् मोदयन् सुखयन् ॥ ४६ ॥
विश्वास-प्रस्तुतिः - ४७
वासुदेवदयितो महिष्ठधीर्वासुदेवमथ साध्वयाजयत् ।
धर्मसूनुमिव धार्मिकं पुरा भीममूर्तिरयमेव भूसुरम् ॥ ४७ ॥
मूलम् - ४७
वासुदेवदयितो महिष्ठधीर्वासुदेवमथ साध्वयाजयत् ।
धर्मसूनुमिव धार्मिकं पुरा भीममूर्तिरयमेव भूसुरम् ॥ ४७ ॥
पदार्थदीपिकोद्बोधिका
वासुदेव इति ॥ वासुदेवदयितो महिष्ठधीः श्रीपूर्णप्रज्ञः । वासुदेवं तन्नामकं स्वोपाध्यायसुतं धार्मिकं भूसुरं ब्राह्मणम् । स्वतेजसा स्वबलेन विश्वविस्मयकरः । अत एव जनैर् वन्द्यमानचरणश् चित्रदिग्विजयकीर्त्यकीर्तिमान् अनुदिनं निजाः प्रजा मोदयन् वासुदेवदयितः श्रीकृष्णप्रियो भीम इति मूर्तिः स्वरूपं यस्य स भीममूर्तिर् अयमेव श्रीमध्व एव । यः खल आत्मनो यायजूकगुणं शिवप्रीत्यर्थं नरमेधेन यष्ट्रत्वाख्यगुणं स्मरन् सन् राज्ञो विहिंस्य शिवमिष्ट्वा तेन यष्ट्रत्वं स्वस्यार्थयन् सन्निति भावः । आत्मनो दैवतप्रतिभया रुद्रादिदेवानां वरदाननिमित्तया प्रज्ञया मानिनोऽपि प्रबलानपि राज्ञो वशीचकार । यः खलो जराघटितगोत्रो जरासन्धनामा उच्यते । पापपूरुषममुं जरासन्धमात्मनः स्वस्य प्रियतमो यः क्रतू राजसूययागस्तस्य घातकमवेत्य तं निरस्य संहृत्य । अथ सर्वभूधरसमर्थपूर्वकं सर्वराजश्रेष्ठपूर्वकमहितं जनमपि निरस्य विजित्य पुरा धर्मसूनुमिव युधिष्ठिरमिव साधु सम्यक् यथा भवति तथा अयाजयद् इति श्लोकचतुष्टयस्यैकान्वयः ॥ ४७ ॥
मन्दोपाकारिणी
वासुदेव इति ॥ चतुर्णां कुलकमिदम् । अथ श्रीकृष्ण-प्रतिष्ठापनानन्तरं वासुदेवदयितः श्रीकृष्णस्य प्रियः महिष्ठधीर् अतिशयेन महती महिष्ठा पूर्णा धीः प्रज्ञा यस्य स तथोक्तः मध्वः । वासुदेवं तन्नामानं स्वोपाध्यायपुत्रं धार्मिकं धर्मिष्ठं भूसुरं ब्राह्मणं साधु सम्यक् पुरा अयाजयद् यज्ञकर्तारम् अकरोत् । गतिबुद्धीत्यादिना वासुदेवस्य कर्मत्वम् । कः कमिव भीममूर्तिर् भीमस्वरूपो ऽयमेव मध्वः धर्मसूनुमिव युधिष्ठिरमिव धर्मराजपक्षे तु यः खलोऽऽत्मनः दैवतप्रतिभया रुद्रादिवरदाननिमित्तया प्रज्ञया मानिनोऽपि प्रबलानपि राज्ञः वशीचकार आत्मनः यायजूकगुणं स्मरन् पूर्व एवार्थः यः जराघटितगोत्रः जरासन्धनामा उच्यते व्यवह्रियते ‘गोत्रं तु नाम च’ इत्यमरः । अमुं पापपुरुषम् आत्मनः प्रियतमक्रतोः प्रियतमस्य धर्मराजस्य क्रतोः राजसूययागस्य घातुकं प्रतिबन्धकम् अवेक्ष्य ज्ञात्वा तं निरस्य हत्वा तदनन्तरं सर्वभूधरसमर्थपूर्वकं सर्वेषां भूधराणां भूपालानां समर्थाः श्रेष्ठाः सर्वभूधरसमर्थास् ते पूर्वे आदयो यस्य स तथोक्तस् तम् । अहितं शत्रुभूतं जरासन्धव्यतिरिक्तम् अन्यं जनं च निरस्य इत्यर्थः । अन्यपदानि स्पष्टार्थानि भीमसेनपरतया पूर्ववद् योज्यानि ॥ ४४-४७ ॥
विश्वास-प्रस्तुतिः - ४८
याज्यया समुचितानुवाक्यया सप्रवर्ग्यविभवैरभिष्टवैः ।
विश्ववेत्तुरनुजोऽत्र होतृतां प्राप्य दैवतततीरतोषयत् ॥ ४८ ॥
मूलम् - ४८
याज्यया समुचितानुवाक्यया सप्रवर्ग्यविभवैरभिष्टवैः ।
विश्ववेत्तुरनुजोऽत्र होतृतां प्राप्य दैवतततीरतोषयत् ॥ ४८ ॥
भावप्रकाशिका
अध्वर्युप्रैषानन्तरा प्रणवान्ता याज्या । पूर्वभाविनी ऋगनुवाक्या । वषट्कारान्ता याज्यमहावीरप्रस्तोतृसामादयः प्रवर्ग्यविभवाः । अनवरतमुच्यमानाः प्रणवान्ता ‘‘ब्रह्मजज्ञानं प्रथमं पुरुस्तादि’’याद्या ऋचोऽभिष्टवाः ॥ ४८ ॥
पदार्थदीपिकोद्बोधिका
याज्ययेति ॥ विश्ववेत्तुः श्रीपूर्णप्रज्ञस्यानुजोऽत्र यज्ञे होतृतां प्राप्य । समुचितानुवाक्या पूर्वभाविनी ऋग्यस्यास्तया समुचितानुवाक्ययुतयेत्यर्थः । याज्यया, अध्वर्युप्रैषानन्तरा प्रणवान्ता याज्या तथा । सप्रवर्ग्यविभवैर् वषट्कारान्तैः, याज्यमहावीरप्रस्तोतृसामादिभिः सहितैः, अभिष्टवैश् च अनवरतमुच्यमानप्रणवान्तैः । ‘ब्रह्मजज्ञान’मित्याद्या ऋचोऽभीष्टवास् तैश् च दैवतततीर् देवसमूहान् अतोषयत् ॥ ४८ ॥
मन्दोपाकारिणी
याज्ययेति ॥ विश्ववेत्तुर् विश्वं यज्ञादिकर्मकलापं वेत्ति जानातीति विश्ववेत्ता तस्य सर्वज्ञस्य पूर्णप्रज्ञाचार्यस्य । अनुजः कनिष्ठभ्राता ‘जयन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः’ इत्यमरः । अत्र अस्मिन् यज्ञे होतृतां होतुर्भावः होतृता तां होतृनामकऋत्विक्तव• प्राप्य । समुचितानुवाक्यया समुचितं योग्यम् अनुवाक्यम् अनुसंज्ञिका वाक् यस्याः सा समुचितानुवाक्या तया याज्यया याज्यनाम्नया वाचा । अनुब्रूहीति अध्वर्युप्रेषणानन्तरं होत्रा पठ्यमाना प्रणवान्ता ऋक् याज्या यजेत्यनन्तरं वौषडित्यन्तं पठ््यमाना ऋक् अनुवाक् । सप्रवर्ग्यविभवैः प्रवर्ग्यशब्देन निरन्तरम् उच्यमानाः प्रणवान्ता ऋच उच्यन्ते तेषां विभवेन विविधप्रकारेण सहितैर् अभिष्टवैर् ऋग्विशेषैश्च दैवतततीर् दैवतानां देवानां ततीः समूहान् ‘वृन्दारका दैवतानि पुंसि वा देवतास्त्रियां’ इत्यमरो ऽतोषयत् सन्तोषयामास । ‘तुष प्रीतौ’ इत्यतो लङ् परस्मैपदम् ॥ ४८ ॥
विश्वास-प्रस्तुतिः - ४९
स प्रयुज्य निशिता निशातधीर्वैश्वदेववरशास्त्रसन्ततीः ।
राक्षसासुरनिरासकृत् सुरान् वीरवर्य इव भागमापयत् ॥ ४९ ॥
मूलम् - ४९
स प्रयुज्य निशिता निशातधीर्वैश्वदेववरशास्त्रसन्ततीः ।
राक्षसासुरनिरासकृत् सुरान् वीरवर्य इव भागमापयत् ॥ ४९ ॥
भावप्रकाशिका
विश्वदेवाग्निमारुतमरुत्वतीयश्रेष्ठा विश्वदेवसम्बन्धिनीस्तत्तन्मन्त्र सम्बन्धेनास्त्ररूपा आयुधसन्ततीश्च ॥ ४९ ॥
पदार्थदीपिकोद्बोधिका
स प्रयुज्येति ॥ निशाता निशिता शिक्षितेति यावद् धीर् यस्य स श्रीमध्वानुजः । निशिता वीर्यवतीः । विश्वे च देवाश्च अग्निमारुतमरुत्वन्तस्तेषां सम्बन्धीनि वैश्वदेवानि तानि च तानि वरशास्त्राणि च तत्तन्मन्त्रसम्बन्धेनोत्तमास्त्ररूपा ऋचश्च तेषां सन्ततीः समूहान् प्रयुज्य । राक्षसाश्च असुराश्च तेषां निरासं करोतीति तादृशः सन् । यज्ञविघ्नकरराक्षसासुरनिरासकरस्सन्नित्यर्थः । सुरान् देवान् भागं हविर्भागं वीरवर्य इव वीर्यश्रेष्ठ इव आपयत् प्रापयामास । यथा कश्चिद्वीरश्रेष्ठः न्यायमार्गे स्थितः शस्त्रसन्ततीः प्रयुज्य अन्यायेन धनादिभागमिच्छतो दुष्टान् निरस्य तद्भागार्हान् भागम् आपयेत् तद्वद् इति भावः ॥ ४९ ॥
मन्दोपाकारिणी
स इति ॥ निशाता धीर् बुद्धिर् यस्य स तथोक्तः सः मध्वानुजः निशिता वीर्यवतीर् वैश्वदेववरशस्त्रसन्ततीर् विश्वेषां देवानां सम्बन्धीनि वैश्वदेवानि वराणि च तानि शस्त्राणि च यज्ञे शंसनीयऋगात्मकमन्त्रविशेषाश्च वरशस्त्राणि वैश्वदेवानि च तानि वरशस्त्राणि च तेषां सन्ततीः समूहान् प्रयुज्य जप्त्वा । राक्षसासुरनिरासकृद् राक्षसा रात्रिचराश्च असुरा दैत्याश्च राक्षसासुरास् तेषां निरासं निवारणं करोतीति राक्षसासुर-निरासकृत् ‘असुरा दैत्यदैतेयाः’ इत्यमरः । सुरान् देवान् भागं हविर्भागम् आपयत् प्रापयामास । ‘आप्लृ व्याप्तौ’ इत्यतो णिजन्ताद् लङ् परस्मैपदम् । क इव वीरवर्य इव कश्चिद्वीरश्रेष्ठः यथा शस्त्रसन्ततीः प्रयुज्य अन्यायेन भागमिच्छतो दुष्टान् निरस्य न्यायमार्गस्थितान् पुरुषान् तद्भागान् प्रापयेत् तद्वन् मध्वानुजोऽपि स्वायोग्यहविर्भागम् आहर्तुम् आगतान् राक्षसादीन् ऋङ्मन्त्रजपेन दूरीकृत्य स्वयोग्यहविर्भागं स्वीकर्तुम् आगतान् देवान् तद्भागं प्रापयामास इति भावः ॥ ४९ ॥
विश्वास-प्रस्तुतिः - ५०
वायुना त्रिरपि पूर्वपायिना सर्वदैवतजिता तरस्विना ।
योऽपरोक्षवपुषाऽप्यपेक्षितः कोऽत्र वर्णयति तं महाक्रतुम् ॥ ५० ॥
मूलम् - ५०
वायुना त्रिरपि पूर्वपायिना सर्वदैवतजिता तरस्विना ।
योऽपरोक्षवपुषाऽप्यपेक्षितः कोऽत्र वर्णयति तं महाक्रतुम् ॥ ५० ॥
भावप्रकाशिका
‘‘देवा वै सोमस्य राज्ञोग्रवेगे(वेये) न समपादयन्नहं प्रथमं पिबेयमहं प्रथमं पिबेयमित्येवाकामयन्त ते सम्पादयंस्ततोऽब्रुवन् । हन्ताहिमया समयो न उज्जेष्यति स प्रथमः सोमस्य पास्यतीति तथेति आजिमयुस्तेषामाजिं यातानामभिसृष्टानां वायुर्मुखं प्रथमः प्रत्यपद्यताथेन्द्रो मित्रावरुणावथाश्विनौ सोऽवेदिन्द्रो वायुमुद्वेजयमिति तमनु । परापतत् सह नावथोज्जेयावेति स नेत्यब्रवीदहमेवोज्जेष्यामीति तृतीयमथोज्जायावेति नेति हैवाब्रवीदह-मेवोज्जेष्यामीति तुरीयमथोज्जायावेति तथेति तं तुरीयेत्यार्जतत्तुरीयभागिन्द्रोऽभवत्त्रि-भाग्वायुरित्यैतरेयब्राह्मणे । अग्रं पिबा मधूनां सुतं वायो दिविष्टिषु । त्वं हि पूर्वपा असि । देवा दिधिषे पूर्वपेयमि’’त्यादिश्रुतिसिद्धं तत् ॥ ५० ॥
पदार्थदीपिकोद्बोधिका
वायुनेति ॥ त्रिरपि त्रिवारमपि । पूर्वं पातुं शीलमस्येति पूर्वपायी तेन । वेगेन सर्वान् देवान् विजित्य प्रथमत एव सोमं पीतवतेत्यर्थः । सर्वाणि दैवतानि जयतीति तेन । वेगेन सर्वदेवान् जितवेत्यर्थः । तरो वेगोऽस्यास्तीति तेन । ‘तरसी बलरंहसी’ति वैजयन्ती । वायुना यः क्रतुः, अपरोक्षं सर्वप्रत्यक्षगोचरं वपुः शरीरं यस्य तेनापि श्रीमध्वरूपेणापीत्यर्थः । अपेक्षितो निष्पन्नो भवेदित्यपेक्षितः । अत्र भुवि तं महाक्रतुं को वर्णयति? न कोऽपि तद्वर्णनसमर्थ इत्यर्थः । वायोस् त्रिरपि पूर्वपायित्वञ्च– ‘देवा वै सोमस्य राज्ञो देवा दिधिषे पूर्वपेय’मित्यादिश्रुतिसिद्धम् ॥ ५० ॥
मन्दोपाकारिणी
वायुनेति ॥ तरस्विना वेगवता सर्वदैवतजिता सर्वाणि च तानि दैवतानि च सर्वदैवतानि जितवता । त्रिरपि त्रिवारमपि पूर्वपायिना सर्वदेवापेक्षया प्रथमं पीतवता वायुना । यः क्रतुर् यज्ञो ऽपरोक्षवपुषाऽपि अपरोक्षं चक्षुगोचरं च तद् वपुः शरीरं च तेनापि अपेक्षितो ऽयं यज्ञः सम्पूर्णो भवेदिति अपेक्षितः । तं महाक्रतुम् अत्र इह लोके कः वर्णयति वर्णयेत् । न कोऽपि स्तोतुं समर्थ इत्यर्थः । पूर्वं देवा अहं सोमं प्रथमं पिबेयम् अहं सोमं प्रथमं पिबेयम् इति एवं विवादं कृत्वा ततः युद्धेऽस्मान् यः जेष्यति सः प्रथमं सोमं पास्यतीति निश्चित्य युद्धमकुर्वन् । तदा वायुर् वेगेन सर्वान् देवान् पराभूय स्वयमेव त्रिवार-मपि प्रथममेव सोमम् अपिबत् । य एतादृशमहिमा सः वायुर् मध्वरूपेण सर्वप्रत्यक्षगोचरः सन् य यज्ञं साङ्गं निष्पादितवान् तं साक्षाद् वायुनिष्पन्नयज्ञम् इह लोके कः स्तोतुं समर्थ इति भावः । वायोस् त्रिवारं पूर्वपायित्वं च देवा वै सोमस्य राज्ञ इत्यादि ऐतरेयब्राह्मणे अग्रं पिबाम मधूनां सुतं वायो दिविष्टिष्वित्यादिमन्त्रवर्णे च प्रसिद्धम् ॥ ५० ॥
विश्वास-प्रस्तुतिः - ५१
ब्रह्मवेदननिविष्टचेतसां कर्म तत्र करणान्तरं भवेत् ।
ज्ञापयन्निति परात्मवेदकः कर्म धर्ममपि स ह्यचीकरत् ॥ ५१ ॥
मूलम् - ५१
ब्रह्मवेदननिविष्टचेतसां कर्म तत्र करणान्तरं भवेत् ।
ज्ञापयन्निति परात्मवेदकः कर्म धर्ममपि स ह्यचीकरत् ॥ ५१ ॥
पदार्थदीपिकोद्बोधिका
ब्रह्मेति ॥ ब्रह्मणो गुणपूर्णस्य श्रीहरेर् वेदने ज्ञाने निविष्टं निरतं चेतश्चित्तं येषां तेषां ब्रह्मजिज्ञासूनामिति भावः । तत्र ब्रह्मज्ञाने कर्म, अन्यत्करणं करणान्तरं साधनान्तरमित्यर्थः । भवेत् । जिज्ञासुनानु ष्ठितं श्रवणादिकं यथा ज्ञानसाधनं भवेत्तद्वदेव जिज्ञासुना स्वर्गादिफलकामवर्जितेन अनुष्ठितं कर्मापि ज्ञानसाधनं भवेदिति ज्ञापयन् परात्मनः श्रीहरेर्वेदको बोधकः परमात्मज्ञापने प्रवृत्त इति भावः । सः श्रीमध्वाचार्यः कर्मापि भगवद्विषयकं यज्ञादिकर्मापि धर्मं मुमुक्षुधर्मम् अचीकरत् कारयामास
हि ॥ ५१ ॥
मन्दोपाकारिणी
ब्रह्मेति ॥ ब्रह्मवेदननिविष्टचेतसां ब्रह्मणः परब्रह्मणः वेदने ज्ञाने निविष्टानि निरतानि चेतांसि चित्तानि येषां ते ब्रह्मवेदननिविष्टचेतसस् तेषां ब्रह्मजिज्ञासूनाम् इत्यर्थः । तत्र ब्रह्मज्ञाने कर्म यज्ञादिकर्म करणान्तरं साधनान्तरं भवेत् । यथा ब्रह्मजिज्ञासूनां श्रवणादिकं ज्ञानसाधनं भवेत् तथा तेषां स्वर्गादिफलकामनावर्जितं श्रीविष्णुप्रीत्यर्थमेव अनुष्ठितं यज्ञादिकर्मापि ज्ञानसाधनं भवेद् इति ज्ञापयन् अधिकारिणाम् आदेशयन् सः मध्वाचार्यः स्वयं परमात्मवेदकः परमात्मनः विष्णोर् वेदकः बोधकः परतत्त्वज्ञापनरूपधर्मार्थप्रवृत्तोऽपि इति भावः । कर्मधर्ममपि भगवद्विषयं यज्ञादिकर्माख्यं धर्ममपि अचीकरत् कारयामास । ‘डु कृञ् करणे’ इत्यतः णिजंताल्लुङ् परस्मैपदम् अचीकरद् अचीकरताम् अचीकरन् । यद्यपि मध्वः ज्ञानोपदेशायैव अवतीर्णस् तथापि ब्रह्मज्ञानार्थिनां निष्कामं यज्ञादिकर्मापि ब्रह्मज्ञानसाधनम् अतो ऽवश्यं कर्म कर्तव्यमिति ज्ञापनाय यज्ञं कारयामास इति भावः ॥ ५१ ॥
विश्वास-प्रस्तुतिः - ५२
यानि यानि चरितानि यानि यानीरितानि च मनोहराण्यहो ।
तानि तानि च वितानचेतसो विश्वविस्मयकराणि भान्ति हि ॥ ५२ ॥
मूलम् - ५२
यानि यानि चरितानि यानि यानीरितानि च मनोहराण्यहो ।
तानि तानि च वितानचेतसो विश्वविस्मयकराणि भान्ति हि ॥ ५२ ॥
पदार्थदीपिकोद्बोधिका
यानीति ॥ वितानं विस्तृतं चेतो यस्य तस्य पूर्णप्रज्ञस्य । यानि यानि चरितानि कर्माणि मनोहराणि यानि यानीरितानि च वचनानि च, तानि तानि विश्वविस्मयकराणि विश्वस्य समस्तजगतो विस्मयकराणि आश्चर्यकराणि सन्ति, भान्ति हि शोभन्ते हि । अहो ॥ ५२ ॥
मन्दोपाकारिणी
यानीति ॥ वितानचेतसः वितानं विस्तृतं चेतः हृदयं यस्य सः वितानचेताः ‘क्रतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके’ इत्यमरस् तस्य श्रीपूर्णप्रज्ञाचार्यस्य । यानि यानि चरितानि कर्माणि तथा मनोहराणि सुखजनकानि यानि यानि ईरितानि अभिलपनरूपवचनानि अभूवन् तानि तानि चरितानि ईरितानि च । विश्वविस्मयकराणि विश्वस्य सर्वजनस्य विस्मयम् आश्चर्यं कुर्वन्तीति विश्वविस्मयकराणि एतादृशानि भान्ति शोभन्ते । हि प्रसिद्धम् । अहो वाचा कर्मणा च विश्वरञ्जनम् आश्चर्यम् । ‘भा दीप्तौ’ इत्यतो लट् परस्मैपदं भाति भातः भान्ति ॥ ५२ ॥
विश्वास-प्रस्तुतिः - ५३
सरस्वतीर्वृत्तिकरीः शरीरिणामतीत्य बह्वीः समतीतगोत्रकः ।
पुरेव कृष्णप्रियमापदश्रमं पृथुप्रबोधः पुनरुत्तमाश्रमम् ॥ ५३ ॥
मूलम् - ५३
सरस्वतीर्वृत्तिकरीः शरीरिणामतीत्य बह्वीः समतीतगोत्रकः ।
पुरेव कृष्णप्रियमापदश्रमं पृथुप्रबोधः पुनरुत्तमाश्रमम् ॥ ५३ ॥
भावप्रकाशिका
सरस्वतीर् गोदावर्यादिनदीः स्नानपानादिना वृत्तिकरीः स्वर्गादि-दानेन प्रवृत्तिकरीर्वाचोऽप्यतीत्य तासां सर्वासां विष्णुविषयत्वसाधनेन मोक्षप्रतिपादनेन । समतीतगोत्रकः समतीतविन्ध्यादिः समतीतवैश्वामित्रादिगोत्रकर्मा च ॥ ५३ ॥
इति नाराणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य
भावप्रकाशिाख्यटीकायां नवमः सर्गः ॥ ९ ॥
पदार्थदीपिकोद्बोधिका
सरस्वतीरिति ॥ पृथुः पूर्णः प्रबोधो यस्य स श्रीमध्वः । शरीरमेषामस्तीति तेषां पुरुषाणां वृत्तिं स्नानपानादिना जीवनं कुर्वन्तीति वृत्तिकर्यस्ताः । ‘वृत्तिर्वर्तनजीवने’ इति वैजयन्ती । बह्वीः सरस्वतीर्गोदावर्यादिनदीरतीत्य । समतीता गोत्राः सह्यविन्ध्यादिपर्वता येन तादृशः सन् पुरेव पूर्वमिव कृष्णप्रियं श्रीवेदव्यासप्रियमुत्तमाश्रमं श्रेष्ठबदरिकाश्रमं न, विद्यते श्रमो यथा भवति तथाऽश्रमं पुनरापत् प्राप । यद्वा पृथुप्रबोधः । शरीरिणां वृत्तिकरीः स्वर्गादिदानेन प्रवृत्तिकरीः सरस्वतीर्वाचोऽतीत्य । ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादीनामापाततः स्वर्गादिविषयकप्रतीतिमुत्पाद्य तत्र प्रवृत्तिकारिणां वचसां विष्णुविषयत्वसमर्थनेन मोक्षपरतां प्रतिपाद्येति भावः । समतीतं गोत्रं विश्वामित्रादि गोत्रविहिताचारविशेषो येन तादृशः सन् । कृष्णप्रियं भगवतःप्रियम् । ‘यत्याश्रमे तुरीये वै प्रीतिर्मम गरीयसी’ इति वचनान् । उत्तमाश्रमं यत्याश्रमं पुरा ब्रह्मचर्याश्रमानन्तरं यथा प्राप तद्वद् बदरिकाश्रमं प्रापेति भावः । अत्र वंशस्थवृत्तम् । ‘जतौ तु वंशस्थमुदीरितं जरा’विति लक्षणात् ॥ ५३ ॥
मन्दोपाकारिणी
सरस्वतीरिति ॥ पृथुप्रबोधः पृथु बृहन् प्रबोधः ज्ञानं यस्य स तथोक्तः मध्वाचार्यः । पुनः द्वितीयवारमपि कृष्णप्रियं वेदव्यासस्य प्रीतिविषयम् उत्तमाश्रमम् उत्तमश्चासौ आश्रमश्च उत्तमाश्रमः सर्वपुण्याश्रमाधिकं बदरिकाश्रमम् अश्रमं श्रमरहितं यथा भवति तथा आयासाभावेनेति यावद् आपद् आप । ‘आप्लृ व्याप्तौ’ इत्यतो लङ् परस्मैपदम् आपद् आपताम् आपन् । किं कृत्वा शरीरिणां प्राणिनां ‘प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः’ इत्यमरः । वृत्तिकरीः स्नानपानादिना वृत्तिं शरीरस्थितिं कुर्वन्तीति वृत्तिकर्यस् ता वह्नीर् बहुलाः सरस्वतीः कृष्णवेणीगोदावर्यादिनदीर् अतीत्य अतिक्रम्य । ‘कूलंकषा निर्खरिणी रोधो वक्रा सरस्वती’ इत्यमरः । कथंभूतः समतीतगोत्रकः समतीता लङ्घिता गोत्राः सह्यविन्ध्यादिपर्वता येन स तथोक्तः । ‘अद्रिगोत्रगिरिग्रावाचल-शैलशिलोच्चयाः’ इत्यमरः । कथमिव । पुरेव भाष्यादिकरणात्पूर्वं यथा बदरिकाश्रमं प्राप तद्वद् इति भावः । पुनः कथमिव । पुरेव यथा ब्रह्मचर्याश्रमानन्तरम् उत्तमाश्रमं यत्याश्रमं प्राप तद्वत् । किं कृत्वा । शरीरिणां पुरुषाणां वृत्तिकरीः स्वर्गादिप्रतिपादनेन कर्मणि प्रवृत्तिकरीः सरस्वतीर् वाचः । ‘गीर्वाग्वाणी सरस्वती’ इत्यमरः । अतीत्य अतिक्रम्य । ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादीनाम् आपाततः स्वर्गादिविषयत्वप्रतीतिम् उत्पाद्य यज्ञादिकर्मणि प्रवृत्तिजनकानां वचसां विष्णुविषयत्वसमर्थनेन मोक्षपरत्वं प्रतिपाद्येति भावः । कथंभूतः । समतीतगोत्रकः समतीतं वर्जितं गोत्रकं स्वकुलाचारविशेषः येन स तथोक्तः यतेः स्वकुलाचारस्य अकर्तव्यत्वाद् इति भावः । कथंभूतम् । उत्तमाश्रमं कृष्णप्रियं वसुदेवसुतस्य श्रीकृष्णस्य प्रियं ‘यत्याश्रमे तुरीये वै प्रीतिर् मम गरीयसी’ इति भगवद्वचनात् । यत्याश्रमः श्रीकृष्णप्रिय इति प्रसिद्धमेव । ‘वदन्ति वंशस्थविलं जतौ जरौ’ इत्युक्तेर् वंशस्थविलं वृत्तम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः - ५४
सहभोगमनन्यलभ्यमस्मै हनुमद्रूपवते ददौ पुरा हि ।
अनवेक्ष्य परं स्वभीष्टकर्त्रे प्रतिदातुं हरिरैधयत्तमेव ॥ ५४ ॥
मूलम् - ५४
सहभोगमनन्यलभ्यमस्मै हनुमद्रूपवते ददौ पुरा हि ।
अनवेक्ष्य परं स्वभीष्टकर्त्रे प्रतिदातुं हरिरैधयत्तमेव ॥ ५४ ॥
पदार्थदीपिकोद्बोधिका
सहभोगमिति ॥ हरिः पुरा रामावतारे हनूमद्रूपमस्यास्तीति तस्मै । अस्मै श्रीमध्वाय अन्येन लभ्यो न भवतीत्यनन्यलभ्यस्तम् । सह भुज्यतेऽत्रेति सहभोगस् तं सहभोगनामकं विरिञ्चिलोकस्वामिभावं ददौ हि । इदानीं पुनः सुष्ठु यदभीष्टं वेदान्तशास्त्रभाष्यकरणेन विवरणाद्यात्मकाभीष्टं तस्य कर्त्रे । प्रतिदातुम् अन्यद् अनवेक्ष्य अदृष्ट्वा तमेव पूर्वदत्तं सहभोगमेवैधयद्वर्धयामास । सातिशयमकरोदिति भावः । अत्र ‘विषमे ससजा गुरू यदि स्युः सभरायश्च युजीह चन्द्रिका से’ति लक्षणाच्चन्द्रिकावृत्तम् ॥ ५४ ॥
मन्दोपाकारिणी
सहभोगमिति ॥ हरिर् वेदव्यासः । हि यस्मात् पुरा रामावतारे हनुमद्रूपवते अस्मै श्रीमध्वाय अनन्यलभ्यम् अन्येन लब्धुं शक्यो ऽन्यलभ्यः न अन्यलभ्यो ऽनन्यलभ्यस् तं सहभोगं तन्नामकं विरिंचिपदं ददौ दत्तवान् । अतः कारणाद् इदानीं पुनः स्वभीष्टकर्ते सुष्टु सम्यक् अभीष्टस्य वेदान्तशास्त्रविचारणात्मकाभीष्टस्य कर्त्रे अस्मै श्रीमध्वाय प्रतिदातुं परं सहभोगाद् अन्यद्वस्तु अनवेक्ष्य अदृष्ट्वा तमेव पूर्वं दत्तसहभोगमेव ऐधयद् अभिवर्धितवान् सातिशयमकरोत् । श्रीमध्वाचार्यः वेदव्यासाज्ञया वेदादिनिर्णायकब्रह्म-सूत्रादिव्याख्यानरूपं ग्रन्थं कृत्वा पुनः बदरिकाश्रमं प्राप्य वेदव्यासं प्रति स्वकृतभाष्य-करणरूपसेवां समर्पयामास । ततः सन्तुष्टो भगवान् वेदव्यासो ऽन्यासाध्यस्वकार्यकर्त्रे श्रीमध्वाय फलत्वेन रामावतारे हनुमद्रूपाय अस्मै दत्तमेव सहभोगम् अतिशयितभोगयुक्तं चकार । तदतिरिक्तस्य फलस्य तद्योग्यस्य अभावाद् इति भावः । ‘एध वृद्धौ’ इत्यतो णिजन्ताद् लङ् परस्मैपदम् ऐधयद् ऐधयताम् ऐधयन् । ‘विषमे ससजागुरू यदि स्युः सभरायश्च युजीह चन्द्रिका सा’ इत्युक्तेश् चन्द्रिकावृत्तं मालभारिणी इति उच्यते ॥ ५४ ॥
प्रणम्य गुरुमादरादथ नियोगतो योग्यतः स तस्य जगतां हितं विदधतो गतः सानुगः ।
महिष्ठहृदयो महामहिमसिन्धुरानन्दतो निजैरभिगतोऽनमद्रजतपीठवासं हरिम् ॥५५॥
॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीसुमध्वविजये महाकाव्ये आनन्दाङ्के नवमः सर्गः ॥
पदार्थदीपिकोद्बोधिका
प्रणम्येति ॥ महिष्टं महत् हृदयं ज्ञानं यस्य स श्रीमध्वः । महान् यो महिमा तेन सिन्धुरिव सिन्धुः पूर्ण इत्यर्थः । गुरुं श्रीवेदव्यासम् आदरात् प्रणम्य । अथ जगतां हितं विदधतः कुर्वतस् तस्य श्रीवेदव्यासस्य । योग्यतः स्वेन कर्तुं योग्यान्नियोगतः नियोगाद् आज्ञया इत्यर्थः । सानुगः सपरिवारः सन् गतः बदरिकाश्रमे श्रीव्यासं नत्वा तदाज्ञया ततो निवृत्तः सपरिवारः पुनरपि रजतपीठपुरं गतः सन् इति भावः । आनन्दतः सन्तोषान् निजैः स्वभक्तैर् अभिगतः सन् रजतपीठे वासो
यस्य तं श्रीहरिम् अनमत् । ‘जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुरि’ति वचनात् पृथ्वीवृत्तम् ॥ ५५ ॥
इति श्रीमद्वेदाङ्गमुनिविरचितश्रीसुमध्वविजयटीकाविवृतौ श्रीविश्वपतितीर्थकृतौ पदार्थदीपिकोद्बोधिकायां नवमः सर्गः ॥
मन्दोपाकारिणी
प्रणम्येति ॥ महामहिमसिन्धुर् महान्तश्च ते महिमानश्च महामहिमानस् तैः सिन्धुः सर्वपूज्यमाहात्म्यसागरः । महिष्ठहृदयः महिष्ठम् अतिशयेन महत् सर्वविषयकं हृदयं मनः यस्य स तथोक्तः सः मध्वः । अथ पुनरपि जगतां हितं विदधतः कुर्वतः । तस्य वेदव्यासस्य योग्यतः स्वेन कर्तुं योग्यान् नियोगतः ‘त्वं पुनः भूमिं गत्वा सच्छास्त्रोपदेशेन सज्जनान् उद्धर’ इत्येवंरूपान् नियोगाद् आज्ञाया इत्यर्थः । गुरुं वेदव्यासम् आदरात् प्रणम्य बदरिकाश्रमाद् गतः निर्गतः सानुगो ऽनुगैः परिवारैः शिष्यैः सहितस्सन् रजतपीठपुरं गतः प्राप्तवान् सन् निजैः रजतपीठस्थैः स्वभक्तैर् आनन्दतः सन्तेषाद् अभिगत आभिमुख्येन प्राप्तस्सन् रजतपीठवासं रजतपीठे वासो यस्य सस् तं हरिम् अनन्तेश्वरम् अनमन् नमस्कृतवान् । ‘णमु प्रह्वत्वे’ शब्दे चेत्यतो लङ् परस्मैपदम् अनमद् अनमताम् अनमन् । ‘जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः’ इत्युक्तेः पृथ्वीवृत्तम् ॥ ५५ ॥
इति श्रीमध्वविजयटीकायां श्रीमच्छलारिनरसिंहाचार्याणां शिष्येण शेषेण विरचितायां मन्दोपकारिण्यां नवमः सर्गः ॥ ९ ॥