अष्टमः सर्गः
अष्टमः सर्गः
विश्वास-प्रस्तुतिः - १
प्रतिभाप्रभाप्रमुखसद्गुणैर्निजैरतिविस्मयं नियमिनां मनो नयन् ।
पुरुधीः कदाचिदथ वेदनायकं विजने शनैरुपससाद तं वने ॥ १ ॥
मूलम् - १
प्रतिभाप्रभाप्रमुखसद्गुणैर्निजैरतिविस्मयं नियमिनां मनो नयन् ।
पुरुधीः कदाचिदथ वेदनायकं विजने शनैरुपससाद तं वने ॥ १ ॥
पदार्थदीपिकोद्भोधिका – प्रतिभेति ॥ अथ श्रीवेदव्यासदर्शनानन्तरं प्रतिभा ज्ञानं प्रभा तेजः, ते प्रमुखे मुख्यौ येषां, ते च ते सद्गुणाश्च तैर्नियमिनां मुनीनां मनोऽतिविस्मय-मत्याश्चर्यं नयन् प्रापयन् पुरुधीः पूर्णप्रज्ञः । कदाचित् तं वेदनायकं वने तत्रापि विगता जना यस्मात्स विजन एकान्तप्रदेशस् तस्मिन् शनैर् उपससाद उपसत्तिमकरोत् । श्रोतव्यं श्रोतुं रहसि गुरूपसत्तिमकरोदिति भावः । अस्मिन्सर्गे मञ्जुभाषिणीवृत्तम् । ‘सजसा जगौ च यदि मञ्जुभाषिणी’ति लक्षणात् ॥ १ ॥
मन्दोपाकारिणी
श्रीगुरुभ्यो नमः ॥ प्रतिभेति ॥ अथ बदरिकाश्रमवासानन्तरं निजैः स्वाभाविकैः ‘स्वके नित्ये निजं त्रिषु’ इत्यमरः । प्रतिभाप्रभाप्रमुखसद्गुणैः प्रतिभा ज्ञानं प्रभा तेजः ब्रह्मवर्च इति यावत् ते प्रमुखे आदी येषां ते तथोक्ताः, ते च ते सन्त उत्तमाश्च ते गुणाश्च ‘सच्छब्द उत्तमं ब्रूयात्’ इत्युक्तेस् तैः । नियमिनां मुनीनां मनो ऽतिविस्मयम् अत्यन्ताश्चर्यं नयन् प्रापयन् पुरुधीः पूर्णप्रज्ञः ‘पुरुभूः पुरु भूयिष्ठं’ इत्यमरः, कदाचित् कस्मिंश्चित्काले वेदनायकं वेदानां नेतारं ‘अधिभूर्नायको नेता’ इत्यमरः, वेदव्यासं वने कानने विजने रहसि ‘विविक्तविजनच्छन्ननिश्शलाकास्तथा रहः’ इत्यमरः, शनैर् मन्दम् उपससाद उपसत्तिम् अकरोत् । श्रोतव्यप्रमेयांशं श्रोतुम् एकान्ते गुरुसमीपं प्राप इति भावः । ‘षदलृ विशरणगत्यवसादनेषु लिट् ससाद सेदतुः सेदुः’ । सर्गपर्यन्तं प्रायः मञ्जुभाषिणी-वृत्तम् । ‘सजसा जगौ च यदि मञ्जुभाषिणी’ इति लक्षणात् ॥ १ ॥
विश्वास-प्रस्तुतिः - २
सुविशेषशेषवदशेषवर्णितप्रतिबोद्धुरस्य ननु शिष्यतोचिता ।
गुरुमानसस्य गुरुताऽपि सत्पतेरिति सोपसत्तिरमरैरमान्यत॥ २ ॥
मूलम् - २
सुविशेषशेषवदशेषवर्णितप्रतिबोद्धुरस्य ननु शिष्यतोचिता ।
गुरुमानसस्य गुरुताऽपि सत्पतेरिति सोपसत्तिरमरैरमान्यत॥ २ ॥
पदार्थदीपिकोद्बोधिका
सुविशेष इति ॥ शोभना ये विशेषा गोप्यतत्त्वविशेषास्तेषां शेषः, सोऽस्यास्तीति सुविशेषशेषवत्तादृशं यदशेषवर्णितं साकल्येन वर्णितप्रमेयं तस्य प्रतिबोद्धुः, गुरु मानसं यस्य तस्य श्रीपूर्णपज्ञस्य, सत्पतेः श्रीव्यासस्य शिष्यता, उचिता ननु । अस्य श्रीव्यासस्य गुरुतापि श्रीमध्वगुरुताप्युचिता इति सा उपसत्तिः शिष्यभावेन गुरुनिकटप्राप्तिर् अमरैरमान्यत अपूज्यत । अयं भावः । यद्यपि ब्रह्मादीनां सर्वेषामपि भगवानेव परतत्त्वं वर्णयति तथापि ब्रह्मवाय्वोर्यथा वर्णयति न तथा रुद्रादीनां किन्तु कांश्चन रहस्यविशेषानवशेषयित्वैव वर्णयति । तेषां योग्यतायास्तथात्वात् । तस्माद्रुद्रादीनां तत्त्वकथनावसरे भगवता ये शोभनतत्त्वविशेषा अवशेषिताः, तानेव ब्रह्मवाय्वोर्वर्णयतीति स्थितिः । ततश्चायं मध्वोऽपि वायुत्वाच्छोभनविशेषयुक्तस्याशेषवर्णितस्य प्रतिबोद्धा । तस्मादेवंभूतस्यास्य व्यासशिष्यता, व्यासस्यैतदगुरुता चोचितेति सा गुरूपसत्तिर-मरैरमान्यत । ‘मान पूजायां कर्मणि लङ्’ ॥ २ ॥
मन्दोपाकारिणी
सुविशेषेति ॥ सुविशेषशेषवदशेषवर्णितप्रतिबोद्धुः शोभनाश्च ते विशेषा रहस्यविशेषाश्च तेषां शेषा अवशेषा अस्य सन्तीति सुविशेषशेषवत् । अशेषं निःशेषं च तद्वर्णितम् उपदिष्टं च सुविशेषशेषवच्च तदशेषवर्णितं च तस्य प्रतिबोद्धा सम्यक् ज्ञाता तस्य । गुरुमानसस्य गुरु महद् बहुविषयकारि मानसं चेतो यस्य, गुरु पूर्णं मानसं मनोजन्यं ज्ञानं यस्येति वा, अस्य पूर्णप्रज्ञस्य, शिष्यता वेदव्यासस्य शिष्यता उचिता ननु योग्या एव ‘नन्वनुज्ञेतिहापृच्छानुनयेष्ववधारणे’ इति रत्नमाला । सत्पतेः सतां सज्जनानां पतिर् व्यासस् तस्य गुरुतापि मध्वगुरुतापि उचितैव इत्येवं सा उपसत्तिर् गुर्वनुवृत्तिर् अमरैर् देवैर् अमान्यत अपूज्यत मानिता । ‘मनु अवबोधने कर्मणि लङ् आत्मनेपदम् अमान्यत अमान्येताम् अमान्यन्त’ । अयं भावः । यद्यपि ब्रह्मादीनां सर्वेषामपि भगवान् अशेषं तत्त्वं वर्णयति तथापि रुद्रादीनां ब्रह्मवायुवन् न वर्णयति किन्तु कांश्चन विशेषरहस्यान् अवशेषेयित्वैव । तेषां योग्यतायास्तथात्वात् । तथा च रुद्रादीनां तत्त्वोपदेशकाले भगवता ये रुद्राद्ययोग्यास् तत्त्वविशेषा अवर्णयित्वैव अवशेषितास् तैः रुद्राद्युपदिष्टावशेषतदयोग्य-तत्त्वविशेषैः सहैव अशेषं वर्णयति ब्रह्मवाय्वोरिति स्थितिः । तथा च वाय्वंशो मध्वोऽपि भगवदवतारव्यासेन वर्णितस्य रुद्राद्ययोग्यस्य अशेषतत्त्वविशेषस्य ग्रहणधारणयोस्समर्थ इति हेतोर् मध्वस्य व्यासशिष्यता उचितैव । व्यासस्यापि मध्वगुरुता योग्यैवेति इत्थं सा गुरुप्राप्तिर् देवैर् आदृता इति ॥ २ ॥
विश्वास-प्रस्तुतिः - ३
पुर एव पूरितमपूरयत् पुनर्ननु कृष्ण एष परमार्थसङ्ख्यया ।
भगवन्मनः पुरमिवायतं पुरा निजधाम तां च जगृहे तदद्भुतम् ॥ ३ ॥
मूलम् - ३
पुर एव पूरितमपूरयत् पुनर्ननु कृष्ण एष परमार्थसङ्ख्यया ।
भगवन्मनः पुरमिवायतं पुरा निजधाम तां च जगृहे तदद्भुतम् ॥ ३ ॥
भावप्रकाशिका
कृष्णो देवकीपुत्रश्च । परमार्थसङ्ख्यया परमार्थज्ञानेन भार-कोट्यादिरूपया च ॥ ३ ॥
पदार्थदीपिकोद्बोधिका
पुर इति ॥ एष कृष्णः श्रीवेदव्यासः । निजमात्मीयञ्च तद्धाम च । स्वावासस्थानभूतमित्यर्थः । आयतं विस्तीर्णं भगवन्मनः श्रीमध्वमनः पुरः पूर्वमेव ‘स्यात्पुरः पुरतोऽग्रतः’ इत्यमरः । परमार्था यथार्था सङ्ख्या ज्ञानं तया पूरितं पूर्णमपि । पुरा कृष्णो वसुदेवसुतः सन्निजधाम स्वमन्दिरं द्वारकापुरमित्यर्थः । परमार्थ-सङ्ख्ययेव, मागधभौमादीन् विजित्यापहृतयोत्तमधनस्य कोट्यादिसङ्ख्ययेव पुनरपूरयत् । पूर्वमेव सम्पूर्णज्ञानस्यापि पुनरपि ज्ञानमुपदिदेशेति भावः । तत्, भगवन्मनो द्वारकापुरञ्च परमार्थसङ्ख्यां जगृह इति यत्, तदद्भुतम् । परिपूर्णमपि पुनरानीय निहितं जगृहे स्वान्तर्गतं चक्र इत्येतदाश्चर्यमिति भावः ॥ ३ ॥
मन्दोपाकारिणी
पुर इति ॥ एषः कृष्णः व्यासः ‘व्यासार्जुनाग्निहरिकोकिल काकशूद्रतामिस्रपक्षकलिनीलगुणेषु कृष्णः’ इति भास्करः । निजधाम निजम् आत्मीयं च तद् धाम स्थानभूतं च ‘धाम देहे गृहे रश्मौ स्थाने जन्मप्रभावयोः’ इति विश्वः । स्ववासस्थान-मित्यर्थः । आयतं विस्तीर्णं बहुविषयकम् इत्यर्थः । भगवन्मनः भगवतः मध्वस्य मनो ऽन्तःकरणं पुर एव उपदेशात्पूर्वमेव परमार्थसङ्ख्यया परमार्था यथार्था च सा सङ्ख्या ज्ञानं च परमार्थसङ्ख्या तया पूरितं पूर्णं निपुणः ‘संख्यावान् पण्डितः कविः’ इत्यमरः । पूरितमपि पुनो ऽपूरयत् पूरितवान् । ‘पूरी आप्यायने लङ् परस्मैपदम्’ । पूर्वमेव संपूर्णज्ञानस्य पुनरपि ज्ञेयविशेषम् उपदिदेश इति भावः । कथमिव, एषः वेदव्यासः पुरा पूर्वजन्मनि कृष्णः वसुदेवसुतस्सन् निजधाम स्वकीयमन्दिरभूतं पुरं द्वारावती-पुरं परमार्थसंख्यया परमा अतिशयिता बहवो ऽर्था धनानि च तेषां संख्ययेव भारकोट्यादिरूपया संख्ययेव यादवकृष्णः कालयवनजरासन्धनरकादीन् विजित्य अपहृत्य आनीतया धनसंख्यया द्वारकां यथा अपूरयत् तद्वदिति भावः । तद् भगवन्मनस् तद्वारकापुरं च । तां परमार्थसङ्ख्यां यथार्थज्ञानं बहुधनं च जगृहे स्वीचक्रे । तत् स्वीकरणम् अद्भुतम् अहो । पूर्वं पूर्णमपि पुनरानीतं स्वान्तर्गतं चक्र इत्येतद् आश्चर्यमिति भावः । ‘ग्रह उपादाने लिट् आत्मनेपदम्’ ॥ ३ ॥
विश्वास-प्रस्तुतिः - ४
इतिहाससुन्दरपुराणसूत्रसत्प्रियपञ्चरात्रनिजभावसंयुतम् ।
अशृणोदनन्तहृदनन्ततोऽचिरात्परमार्थमप्यगणितागमावलेः ॥ ४ ॥
मूलम् - ४
इतिहाससुन्दरपुराणसूत्रसत्प्रियपञ्चरात्रनिजभावसंयुतम् ।
अशृणोदनन्तहृदनन्ततोऽचिरात्परमार्थमप्यगणितागमावलेः ॥ ४ ॥
पदार्थदीपिकोद्बोधिका
इतिहासेति ॥ अनन्तं हृद्यस्य स पूर्णप्रज्ञः । अनन्ततः श्रीव्यासादगणिता ये आगमा वेदास्तेषामावलेः समूहस्य । इतिहासो महाभारतं, सुन्दर-पुराणानि शोभनपुराणानि, सूत्रं ब्रह्मसूत्रं, सत्प्रियं यत्पञ्चरात्रं, तेषां निजभावेन स्वाभाविकाभिप्रायेण संयुतं परमार्थमप्युत्तमार्थमप्यचिरात् शीघ्रमृणोत् ॥ ४ ॥
मन्दोपाकारिणी
इतिहासेति ॥ अनन्तहृद् अपरिमितज्ञानः मध्वः । अनन्ततः वेदव्यासात् । अगणितागमावलेर् असङ्ख्यवेदानाम् आवलेः समूहस्य परमार्थमपि परम उत्तमश्चासौ अर्थः प्रतिपाद्यस् तं च अचिरात् स्वल्पकालेनैव अृणोत् श्रुतवान् । ‘श्रु श्रवणे लङ् परस्मैपदम् अृणोद् अृणताम् अृण्वन्’ । किंभूतं, इतिहाससुन्दरपुराणसूत्रसत्प्रि-यपञ्चरात्रनिजभावसंयुतम् इतिहासौ भारतमूलरामायणे, सुन्दराणि सात्विकानि च तानि पुराणानि च, सूत्राणि ब्रह्मसूत्राणि च, सतां विष्णुभक्तानां प्रियं च तत् पञ्चरात्रं पञ्चरात्रा-गमश्च तेषां निजः स्वकीयः मुख्यः भावो ऽभिप्रायस् तेन संयुतं समन्वितम् ॥ ४ ॥
विश्वास-प्रस्तुतिः - ५
ऋजुपुङ्गवस्य परिजानतः स्वयं सकलं तदप्यलमनन्तजन्मसु ।
स्वकृतोर्वनुग्रहबलादमुष्य तां विशिशेष शेषशयनः पुनर्धियम् ॥ ५ ॥
मूलम् - ५
ऋजुपुङ्गवस्य परिजानतः स्वयं सकलं तदप्यलमनन्तजन्मसु ।
स्वकृतोर्वनुग्रहबलादमुष्य तां विशिशेष शेषशयनः पुनर्धियम् ॥ ५ ॥
पदार्थदीपिकोद्बोधिका
ऋज्विति ॥ शेषः शयनं पर्यङ्को यस्य स श्रीव्यासः । अनन्तजन्मसु अतीतानन्तजन्मसु स्वकृतो य उर्वनुग्रहो महानुग्रहः स एव बलं तस्मात् । तदपि उपदिष्टं सकलमपि श्रूयमाणं सर्वमपि स्वयमात्मना परिजानतः स्वप्रतिभाबलेन सम्यग्जानतः सतोऽमुष्य ऋजुपुङ्गवस्य ऋजुश्चासौ पुङ्गवो रुद्रादिभ्यः श्रेष्ठश्च तस्य श्रीमध्वस्य तां धियं पुनरलं सम्यग्विशिशेष विशेषयामास । ‘शिष् अतिशये लिट्’ । ऋजुपुङ्गवस्येत्यत्र, ऋजूनां पुङ्गव इति न षष्ठीतत्पुरुष ऋजूनां सर्वेषामपि समत्वेन एकस्मादेकस्योत्तम-त्वाभावात् । किन्तूक्तरीत्या कर्मधारय एव । अथवा ऋजुशब्दस्य सज्जनवाचित्वमभ्युपेत्य तत्पुरुषो वा । वायुर्हि सर्वाधिकार्युत्तमः ॥ ५ ॥
मन्दोपाकारिणी
ऋज्विति ॥ शेषशयनः शेषः शयनं मञ्चो यस्य सः ‘शयनं मञ्चपर्यङ्कपल्यङ्काः’ इत्यमरः, व्यासः, ऋजुपुङ्गवस्य ऋजूनां मनोवाक्कायकर्मभिर् हरौ प्रतीपरहितानां सज्जनानां पुङ्गवस्य उत्तमस्य ऋजुगणस्थानां सर्वेषामपि साम्येन तदुत्तमत्वा-योगाद् एवं व्याख्यातम् । यद्वा स्वरूपोत्तमत्वाभावेऽपि अप्राप्तवायुपदानां मध्ये पुङ्गवस्य प्राप्तवायुपदत्वेन श्रेष्ठस्येति पदापेक्षया श्रैष्ठ्याङ्गीकारे न दोष इति भाति । अथवा ऋजुश्चासौ पुङ्गवश्च तस्येति व्याख्येयम् । अमुष्य मध्वस्य तां पूर्वं विद्यमानां धियं मतिं पुनः विशिशेष विशेषयुक्ताम् अकरोत् । ‘शिष्लृ विशेषणे लिट् परस्मैपदं शिशेष शिशिषतुः शिशिषुः’ । किंभूतस्य सतो ऽनन्तजन्मसु सर्वकालेष्विति भावः । स्वकृतोर्वनुग्रहबलात् स्वेन आत्मना कृतश्चासौ उरु उत्कृष्टश्चासौ अनुग्रहः स्नेहविशेषश्च तस्य बलात् सामर्थ्यात् । तद्
इदानीं श्रूयमाणं सकलमपि रहस्यं स्वयं स्वप्रतिभाबलेनैव अलं परिजानतः सम्यक्
ज्ञातवतः सतः ॥ ५ ॥
विश्वास-प्रस्तुतिः - ६
अथ बादरायणसहायसम्पदा प्रययौ प्रणन्तुममितान्तरो युतः ।
अपि नादिरायणपदोदितं हरेर्वपुरन्तरं लसितमाश्रमान्तरे ॥ ६ ॥
मूलम् - ६
अथ बादरायणसहायसम्पदा प्रययौ प्रणन्तुममितान्तरो युतः ।
अपि नादिरायणपदोदितं हरेर्वपुरन्तरं लसितमाश्रमान्तरे ॥ ६ ॥
पदार्थदीपिकोद्बोधिका
अथेति ॥ बादरायणस्य सहाय एव सम्पत्तया युतो युक्तः । अमितं पूर्णमान्तरं यस्य स श्रीपूर्णप्रज्ञः । आश्रमान्तरेऽन्याश्रमे लसितं विराजितं नो नकार आदिर्यस्य तन्नादि तादृशं यद्रायणपदं तेनोदितमभिहितम् । नारायणाभिहितमिति यावत् । अन्यद्वपुर्वपुरन्तरं भगवद्रूपान्तरमपीत्यर्थः । प्रणन्तुं नमस्कर्तुं प्रययौ । आश्रमान्त-रस्थं नारायणाख्यं भगवद्रूपं प्रणन्तुं श्रीवेदव्यासेन सह प्रययाविति भावः ॥ ६ ॥
मन्दोपाकारिणी
अथेति ॥ अथ सर्वशास्त्रश्रवणानन्तरं बादरायणसहायसम्पदा सहाय एव संपद् बादरायणश्चासौ सहायसम्पच् च तया युतः संयुक्तः । अमितान्तरः पूर्णमना मध्वः । आश्रमान्तरे बदरिकाश्रम एव वेदव्यासस्थलाद् अन्यस्मिन् स्थले लसितं विराजितं नादिरायणपदोदितमपि नकार आदिः पूर्वभावी यस्य तन् नादि, रायण इति पदं शब्दः ‘पदं शब्दे च वाक्ये च’ इति विश्वः, नादि च तद् रायणपदं च तेन उदितम् अभिहितं नारायणाख्यमिति यावत् । तदपि हरेर् वपुरन्तरम् अन्यद्वपुर् भगवद्रूपान्तरं प्रणन्तुं नमस्कर्तुं प्रययौ जगाम । ‘या प्रापणे लिट्’ । बदरिकाश्रम एव स्थलान्तरे विद्यमानं नारायणाख्यं विष्ण्ववतारं नमस्कर्तुं श्रीवेदव्यासेन सह प्रययौ इति भावः ॥ ६ ॥
विश्वास-प्रस्तुतिः - ७
तमपश्यदाश्रमवरे प्रभूतधीर्ज्वलनं ज्वलन्तमिव धूमवर्जितम् ।
वरवल्कलाकलितमौञ्जिमेखलं विलसज्जटावलयमादिपूरुषम्॥ ७ ॥
मूलम् - ७
तमपश्यदाश्रमवरे प्रभूतधीर्ज्वलनं ज्वलन्तमिव धूमवर्जितम् ।
वरवल्कलाकलितमौञ्जिमेखलं विलसज्जटावलयमादिपूरुषम्॥ ७ ॥
पदार्थदीपिकोद्बोधिका
तमिति ॥ प्रभूता धीर्यस्य स पूर्णप्रज्ञः । आश्रमवरे आश्रमोत्तमे । वरमुत्तमं यद्वल्कलं तेनाकलिता सम्बद्धा मौञ्जिमेखला मौञ्जीमयी रशना यस्य तं ‘वल्कं वल्कलमस्त्रियामि’त्यमरः । विलसन्विराजमानो जटावलयो जटामण्डलं यस्य तमादिपूरुषं तं नारायणं, धूमवर्जितं धूमरहितं ज्वलन्तं ज्वलनमिवाग्निमिवापश्यत् ॥ ७ ॥
मन्दोपाकारिणी
तमिति ॥ प्रभूतधीः पूर्णबोधः । आश्रमवरे तं नारायणम् अपश्यद् दृष्टवान् । ‘दृशिर् प्रेक्षणे लङ् परस्मैपदम्’ । कीदृशं, धूमवर्जितं धूमरहितं ज्वलनम् अग्निमिव ‘कृपीठयोनिर्ज्वलनः’ इत्यमरः । ज्वलन्तं प्रकाशमानं, पुनः वरवल्कलाकलितमौञ्जिमेखलं वरं च तद् वल्कलं वृक्षत्वक्च ‘वल्कं वल्कलमस्त्रियां’ इत्यमरः, तेन कौपीनरूपवल्कलेन आकलिता सम्बद्धा मौञ्जिरेव मेखला काञ्ची यस्य सस् तम् । तृणविशेषनिर्मितरज्जुर् मौञ्जिः सा च नारायणकटौ बद्धास्ति तत्र हि हस्तदीर्घवितस्तिविस्तारं वृक्षत्वगात्मकं कौपीनमग्रतः पृष्ठतश्च सम्बद्धमस्तीति भावः । एतेन मौञ्जीधारणेन नारायणस्य ब्रह्मचारित्वम् अवगम्यते । विलसज्जटावलयं विराजमानजटायाः सटाया वलयं मण्डलं यस्य सस् तं ‘व्रतिनस्तु सटाजटा’ इत्यमरः । आदिपूरुषम् आदिश्चासौ पूरुषश्च तं ‘पूरुषा नरः’ इत्यमरः, पुराणपुरुषम् इत्यर्थः ॥ ७ ॥
विश्वास-प्रस्तुतिः - ८
अतिदुर्जयेन्द्रियजयादिरूपिणा तपसा वसन्तमिव सन्ततं वने ।
निजरूपभूतनिरपेक्षनिर्मलप्रचुरात्मसौख्यरतमप्यनारतम् ॥ ८ ॥
मूलम् - ८
अतिदुर्जयेन्द्रियजयादिरूपिणा तपसा वसन्तमिव सन्ततं वने ।
निजरूपभूतनिरपेक्षनिर्मलप्रचुरात्मसौख्यरतमप्यनारतम् ॥ ८ ॥
पदार्थदीपिकोद्बोधिका
पुनरपि कथंभूतमित्यपेक्षायामाह अतीत्यादिना ॥ सन्ततं निरन्तरं जेतुमशक्यानि दुर्जयानि अत्यन्तं दुर्जयान्यतिदुर्जयानि यानीन्द्रियाणि तेषां यो जयः स आदिर्यस्य तादृशं रूपमस्यास्तीति तेन । इन्द्रियजयाद्यात्मकेनेत्यर्थः । तपसा वने वसन्तमिव ब्रह्मचर्यादितपक्लेशमनुभवतीत्यज्ञप्रतीतिरेवेति वसन्तमिवेत्युक्तम् । तर्हि वस्तुतः कथंभूतोऽयमित्यपेक्षयामाह ॥ निजरूपेत्यादिना । अनारतं निरन्तरं निजं नित्यं ‘निजमात्मीयनित्ययो’रिति वैजयन्ती । तादृशं यद्रूपभूतं स्वरूपभूतं, तथा निर्गताऽपेक्षा विषयापेक्षा यस्मात्तन्निरपेक्षं, तादृशं यन्निर्गतं मलं परिमितत्त्वादिदोषो यस्मात्तन्निर्मलं, तादृशञ्च यत्प्रचुरं परिपूर्णमात्मसौख्यं स्वरूपभूतसुखं, तस्मिन् रतमपि तं श्रीनारायणम् अपश्यदिति सम्बन्धः ॥ ८ ॥
मन्दोपाकारिणी
अतीति ॥ पुनः सन्ततं नित्यम् । अतिदुर्जयेन्द्रियजयादिरूपिणा अति अत्यन्तं दुर्जयानि दुर्न विद्यते जयो येषां तानि ‘दुः स्यात्कष्टनिषेधयोः’ इति विश्वः, निग्रहं कर्तुम् अशक्यानि च तानि इन्द्रियाणि मनोजिह्वादीनि च तेषां जयः निग्रह आदिर् यस्य स्थण्डिलशायित्वादेस् तद् इन्द्रियजयादि तद् रूपम् अस्यास्तीति रूपी ‘रूपं स्वभावे सौन्दर्ये’ इति विश्वः, तेन तपसा वने अरण्ये वसन्तमिव इन्द्रियनिग्रहाधश्शयनादि-रूपतपोनिमित्तकक्लेशम् अनुभवति नारायण इति अज्ञजनं प्रति भ्रान्तिं ज्ञापयतुम् इव इत्युक्तम् । वस्तुतः कीदृश इत्यत आह ॥ निजेति । अनारतं सततम् । ‘सततेऽनारता-श्रान्तम्’ इत्यमरः । निजरूपभूतनिरपेक्षनिर्मलप्रचुरात्मसौख्यरतमपि निजरूपे स्वरूपे भूते सर्वदा विद्यमाने निरपेक्षे बौद्धविषयापेक्षारहिते निर्मले दुःखमिश्रत्वादिदोषरहिते प्रचुरे पूर्णे आत्मनः स्वस्य सौख्ये सुखमेव सौख्यं तस्मिन् रतमपि सर्वदा स्वरूपभूतापरिमितानन्दम् अनुभवन्तम् इत्यर्थः । निजरूपं च तद् भूतं च निरपेक्षं च निर्मलं च तत्प्रचुरं च तद् आत्मसौख्यं च इति तस्मिन् रतस् तम् इति विग्रहः । एवंभूतम् अपश्यद् इति पूर्वश्लोकेनान्वयः ॥ ८ ॥
विश्वास-प्रस्तुतिः - ९
नयनद्वयेन नलिनप्रभामुषा परिफुल्लताविलसितेन विस्मयात् ।
तमवेक्ष्य धर्मजमधर्मदुर्लभं मनसेति भूरितरमानसोऽस्मरत् ॥ ९ ॥
मूलम् - ९
नयनद्वयेन नलिनप्रभामुषा परिफुल्लताविलसितेन विस्मयात् ।
तमवेक्ष्य धर्मजमधर्मदुर्लभं मनसेति भूरितरमानसोऽस्मरत् ॥ ९ ॥
पदार्थदीपिकोद्बोधिका
नयनेति ॥ भूरितरं परिपूर्णं मानसं मनो यस्य स श्रीपूर्णप्रज्ञः । परिफुल्लतया विकसिततया विलसितेन शोभमानेन अत एव नलिनस्य पद्मस्य या प्रभा कान्तिस् तां मुष्णात्यपहरतीति तेन नयनद्वयेन । अधर्मेण दुर्लभं प्राप्तुमशक्य । धर्मजं यमसूनुं तं श्रीनारायणमवेक्ष्य मनसा विस्मयादाश्चर्यादिति वक्ष्यमाण-रीत्याऽस्मरत् ॥ ९ ॥
मन्दोपाकारिणी
नयनेति ॥ भूरितरमानसः भूरितरं पूर्णं मानसं यस्य सः मध्वस् तं नारायणं मनसा हृदा, इति वक्ष्यमाणप्रकारेण अस्मरद् ध्यातवान् । ‘स्मृ स्मरणे लङ् परस्मैपदम्’ । किं कृत्वा, विस्मयाद् आश्चर्यात् परिफुल्लताविलसितेन परिफुल्लयोर् भावः परिफुल्लता अत्यन्तविकासस् तया विलसितेन शोभमानेन ‘फुल्लश्चैते विकसिते’ इत्यमरः । दर्शनजन्यहर्षेण विशालेन इत्यर्थः । नलिनप्रभामुषा नलिनयोः पद्मयोः शोभां मुष्णाति तिरस्करोतीति मुट् तेन कमलदलापेक्षया अतिसुन्दरेण इत्यर्थः । नयनद्वयेन नेत्रयुगलेन । धर्मजं धर्माज् जायते इति तं यमसूनुं ‘धर्माः पुण्ययमन्यायाः’ इत्यमरस् तं नारायणम् अवेक्ष्य दृष्ट्वा, किंभूतं नारायणं, अधर्मदुर्लभं न विद्यते धर्मः पुण्यं यस्य सस् तेन पुण्यरहितेन पुरुषेण दुर्लभं प्राप्तुम् अशक्यम् । अधर्मेण पापेन इति वा ॥ ९ ॥
विश्वास-प्रस्तुतिः - १०
जगतां चतुर्दशतयं चतुर्मुखप्रमुखैर्युतं प्रलयमानिनाय यः ।
सममुल्लसन् कमलयैव केवलं परमः स एष हि पुराणपूरुषः॥ १० ॥
मूलम् - १०
जगतां चतुर्दशतयं चतुर्मुखप्रमुखैर्युतं प्रलयमानिनाय यः ।
सममुल्लसन् कमलयैव केवलं परमः स एष हि पुराणपूरुषः॥ १० ॥
पदार्थदीपिकोद्बोधिका
जगतामिति ॥ केवलं कमलयैव श्रियैव समं स उल्लसद् यः श्रीनारायणः, चतुर्मुखः प्रमुखः प्रधानो येषां तैर्युतं युक्तं, जगतां लोकानां, चतुर्दशावयवा यस्य तच्चतुर्दशतयं चतुर्दशभुवनाश्रयजगत्, द्विसप्तकमित्यर्थः । ‘सङ्ख्याया अवयवे तयप्’ इति तयप् । प्रलयं विनाशमानिनाय प्रापयामास । परम उत्तमः पुराण-पूरुषोऽनादिपूरुषः स सर्वसंहारकर्ता एष हि पुरोवर्ती यमसूनुतयावतीर्णो हि ॥ १० ॥
मन्दोपाकारिणी
ध्यानप्रकारमेवाह । जगतामिति ॥ कमलयैव श्रियैव समं सह ‘साकं सत्रा समं सह’ इत्यमरः । केवलम् अतिशयेन उल्लसन् रममाणः परमः सर्वोत्तमः पुराणपुरुषो ऽनादिपूरुषः यः हरिश् चतुर्मुखप्रमुखैर् विरिञ्चप्रधानैर् देवैः ‘क्लीबे प्रधानं प्रमुखः’ इत्यमरः, युतं सहितं जगतां भवनानां चतुर्दशतयं चतुर्दश ‘सङ्ख्याया अवयवे तयप्’ इति तयप् प्रत्ययः । चतुर्दशभुवनानीति यावत् । प्रलयं संहारम् आनिनाय प्रापयामास । ‘आङ् पूर्वकान् नीञ् प्रापणे द्विकर्मकधातोर् लिट्’ । सः सर्वसंहारकर्ता एषः पुरोवर्ती यमसूनुतया अवतीर्णो हि ॥ १० ॥
विश्वास-प्रस्तुतिः - ११
त्रिगुणाकृतिप्रकृतितो गुरुं ततस्त्रिविधामहङ्कृतिममर्त्यखान्यतः ।
अपि भूतपञ्चकमितोऽण्डमण्डलं भगवानसाविह जगन्ति चासृजत् ॥ ११ ॥
मूलम् - ११
त्रिगुणाकृतिप्रकृतितो गुरुं ततस्त्रिविधामहङ्कृतिममर्त्यखान्यतः ।
अपि भूतपञ्चकमितोऽण्डमण्डलं भगवानसाविह जगन्ति चासृजत् ॥ ११ ॥
पदार्थदीपिकोद्बोधिका
न केवलं संहर्ता किन्तु स्रष्टापीत्याह । त्रिगुणेति ॥ भगवान् षड्गुणसम्पन्नोऽसौ पुराणपूरुषः । त्रयो ये गुणाः सत्वादयस्त आकृतयो रूपाणि यस्यास्तादृशी या प्रकृतिः प्रधानं तस्या इति ततः । महन् महत्तत्वाभिमानिनं ब्रह्माणं, ततस्त्रिविधां वैकारिकतैजसतामसभेदेन त्रिविधामहङ्कृतिमहङ्कारतत्त्वाभिमानिनं रुद्रञ्च, अतस्त्रिविधाहङ्कारादमर्त्या देवास्ते च खानीन्द्रियाणि च भूतानां पृथिव्यादीनां पञ्चकमप्यसृजत् । तत्रायं विभागः । वैकारिकादहङ्काराद्दशेन्द्रियाभिमानिदेवान्, तैजसा-हङ्काराद्दशेन्द्रियाणि, तामसाहङ्काराच्छब्दादितत्तद्गुणैः सहाकाशादिपञ्चभूतान्यसृजदिति । इतो मिलितेभ्यस्तत्त्वेभ्योऽण्डमण्डलं ब्रह्माण्डं, इहास्मिन्ब्रह्माण्डे जगन्ति च द्विसप्तकलोकाल्लो-किनश्चासृजत् ॥ ११ ॥
मन्दोपाकारिणी
न केवलम् अयं संहारकर्ता किन्तु स्रष्टापीत्याह । त्रिगुणेत्यादिना ॥ भगवान् पूर्णैश्वर्यवान् असौ नारायणस् त्रिगुणाकृतिप्रकृतितस् त्रयश्च ते गुणाश्च सत्वादयस् त एव आकृतिः स्वरूपं यस्याः, सा च सा प्रकृतिर् जडप्रकृतिश्च तस्या इति त्रिगुणाकृतिप्रकृतितः । गुरुं महत्तत्वाभिमानिनं ब्रह्माणम् असृजद् उत्पादितवान् । ‘प्रज्ञाज्ञानं महागुरुः’ इत्युक्तेर् गुरुर्विरिञ्च इति प्रसिद्धमेव । ततस् तस्मान् महत्तत्वाभि-मानिविरिञ्चात् । त्रिविधां त्रिस्रो विधाः प्रकारा यस्याः सा त्रिविधा तां वैकारिकतैजसतामसभेदेन त्रिविधां ‘विधाविधौ प्रकारे च’ इत्यमरः, अहङ्कृतिम् अहङ्कार-तत्त्वाभिमानिनं रुद्रं च असृजत् । अतो ऽस्माद् अहङ्कारत्रयाद् अमर्त्यखानि अमर्त्या देवाश्च खानि इन्द्रियाणि च ‘इन्द्रियेऽपि खं’ इत्यमरः । भूतपञ्चकमपि भूतानाम् आकाशवाय्वग्निजलमृत्संज्ञानां पञ्चकमपि असृजत् । तत्र अयं विभागः, वैकारिकाहङ्काराद् दशेन्द्रियाभिमानिदेवान् , तैजसाहङ्काराद् घ्राणादिवागादिदशेन्द्रियाणि, तामसाहङ्कारात् शब्दादितत्तद्गुणैः सह आकाशादिपञ्चभूतानि असृजद् इति । इत उत्पादितेभ्यः मिलितेभ्यस् तत्त्वेभ्यो ऽण्डमण्डलं ब्रह्माण्डमण्डलम् असृजत् । इह अस्मिन् ब्रह्माण्डे जगन्ति चतुर्दशलोकान् असृजत् । ‘सृज विसर्गे लङ् परस्मैपदम्’ ॥ ११ ॥
विश्वास-प्रस्तुतिः - १२
विधिवायुवीन्द्रशिवकौशिकेशकानमरामरानुगनरासुरादिकान् ।
सृजति प्रपालयति हन्ति सन्ततं स्वगतिं प्रयापयति चैष लीलया ॥ १२ ॥
मूलम् - १२
विधिवायुवीन्द्रशिवकौशिकेशकानमरामरानुगनरासुरादिकान् ।
सृजति प्रपालयति हन्ति सन्ततं स्वगतिं प्रयापयति चैष लीलया ॥ १२ ॥
पदार्थदीपिकोद्बोधिका
विधीति ॥ एष भगवान् । विधिवायुवीन्द्रशिवकौशिकाः, ब्रह्म वायु गरुड रुद्र पुरन्दरा ईशकाः स्वामिनो येषाममरादीनां ते तथोक्तास्तान् । ‘स्वार्थे कः’ । भगवत एव सर्वस्वामित्वादीषत्स्वामिन इत्यर्थे वा । अमरा देवा अमरानुगा देवभृत्या गन्धर्वा, नरा मनुष्या, असुराश्चादयो येषां तान् । सततं प्रवाहरूपेणाखण्डितं यथा भवति तथा लीलया सृजति, प्रपालयति, हन्ति च । तत्रोत्तमजीवान् स्वगतिं मोक्षं प्रयापयति प्रापयति । चशब्दादसुरान् तमश्च प्रापयति । नित्यसंसारिणश्चात्रैव वर्तयति । एतत्सर्वञ्च लीलयैव न तु क्लेशेनेति भावेन लीलयेत्युक्तम् ॥ १२ ॥
मन्दोपाकारिणी
विधीति ॥ एषः भगवान् । विधिवायुवीन्द्रशिवकौशिकेशकान् विधिर् ब्रह्मा वायुर् मुख्यप्राणः वीन्द्रो गरुडः ‘विष्पक्षिपरमात्मनोः’ इति विश्वः, शिवः रुद्रः कौशिक इन्द्रः ‘महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः’ इत्यमरः । एते ईशाः स्वामिनः येषां तान् स्वार्थे कप्रत्ययः । अमरामरानुगनरासुरादिकान् अमराश्च अमरानुगा गन्धर्वाश्च नराश्च असुरा दैत्याश्च एते आदिकाः पूर्वे येषां तान् । सन्ततम् अखण्डितं लीलया सृजति उत्पादयति, प्रपालयति रक्षति, हन्ति संहरति । स्वगतिं स्वीयां तत्तद्योग्यां गतिं स्थानं प्रयापयति प्रापयति । ‘स्वोज्ञातावात्मनि स्वं त्रिष्वात्मीयेसोऽस्त्रियां धने’ इत्यमरः । क्रमेण सृष्टिस्थितिसंहारकालेषु भगवता क्रियमाणानाम् उत्पत्तिपालननाशादीनां प्रवाहस्य कदापि विच्छेदो नास्तीति भावः । ‘सृज विसर्गे’ इत्यतः लट् परस्मैपदम् । ‘प्रपूर्वकात् पाल रक्षण इत्यस्माद् लट् परस्मैपदम्’ । ‘हन हिंसागत्योर् इति धातोर् लट् हन्ति हतः घ्नन्ति । ‘प्रपूर्वकाद् या प्रापण इति धातोर् णिजन्ताद् लट्’ ॥ १२ ॥
विश्वास-प्रस्तुतिः - १३
अगणेयसद्गुणगणो विदूषणः स्ववशाखिलोऽप्यनुपचारतः स्वयम् ।
स्मृतिकीर्तनप्रणतिभिर्विमुक्तये स्वजनस्य यात्ययमनेकरूपताम् ॥ १३ ॥
मूलम् - १३
अगणेयसद्गुणगणो विदूषणः स्ववशाखिलोऽप्यनुपचारतः स्वयम् ।
स्मृतिकीर्तनप्रणतिभिर्विमुक्तये स्वजनस्य यात्ययमनेकरूपताम् ॥ १३ ॥
पदार्थदीपिकोद्बोधिका
अगणय्येति ॥ अगणय्या गणयितुमशक्या ये सद्गुणा उत्तमगुणास्तेषां गणः समूहो यस्य तादृशः । विगतं दूषणं दोषो यस्मात्तादृशः निर्दोष इत्यर्थः । अनुपचारतो मुख्यतः स्वयमात्मना स्वसामर्थेनैवेत्यर्थः, स्ववशः स्वाधीनोऽखिलः समस्तलोको यस्य तादृशोऽपि । स्मृतिः स्मरणं कीर्तनं भगवन्नामकीर्तनं प्रणतिर्न-मस्कारस्ताभिः स्वावताररूपगुणस्मरणादिभिरित्यर्थः । स्वजनस्य भक्तजनस्य विमुक्तये मोक्षार्थमनेकानि बहूनि रूपाणि वासुदेवादिरूपाणि यस्य तस्य भावस्तत्ता तां याति । न त्वेकेनैव रूपेण सर्वकार्याणां कर्तुमक्षमत्वादित्यर्थः ॥ १३ ॥
मन्दोपाकारिणी
अगणयेति ॥ अगणेयसद्गुणगणः गणयितुम् अशक्या अगणेयाः ‘गणनीये तु गणेयं सङ्ख्याते गणितम्’ इत्यमरः, ते च ते सन्तः निर्दोषाश्च ते गुणा ज्ञानानन्दादयस् तेषां गणः यस्य सः । विदूषणः विगतानि दूषणानि दोषा यस्माद् विदूषणः । अयं पुरोवर्ती नारायणो ऽनुपचारतः मुख्यतः स्वयं स्वसामर्थ्येनैव । स्ववशाखिलोऽपि स्वस्य वशो ऽधीनो ऽखिलः समस्तलोकः यस्य स तथोक्तस् तादृशोऽपि अनेकरूपताम् अनेकानि रूपाणि अवतारा यस्य तस्य भावो ऽनेकरूपता तां बहुरूपत्वं याति प्राप्नोति । कस्मै प्रयोजनाय, स्मृतिकीर्तनप्रणतिभिः स्मृतिश्च कीर्तनं च प्रणतिश्च ताभिः स्वावताररूपाणां गुणानां कर्मणां च स्मृतिर् मनसा ध्यानं कीर्तनं वाचा उच्चारणं प्रणतिः प्रणाम एभिः साधनैः स्वजनस्य भक्तजनस्य विमुक्तये मोक्षाय । यद्यपि एकेनैव रूपेण सर्वकार्यकरणे समर्थस् तथापि स्वभक्तानां तत्तद्योग्यतानुसारेण अवताररूपाणाम् अवतारकृतचरित्रादीनां ध्यानादिसाधनैर् मुक्तिर्भवेद् इत्याशयेनैव अनन्तरूपवान् भवति न तु एकेन रूपेण कार्यकरणे असमर्थत्वाद् इति भावः ॥ १३ ॥
विश्वास-प्रस्तुतिः - १४
चतुराननाय चतुरः पुराऽऽगमान् प्रददावसावनिमिषेश्वरः प्रभुः ।
विनिहत्य हि श्रुतिमुषं पुरातनं वपुषोद्धतं हयमुखेन सद्रिपुम् ॥ १४ ॥
मूलम् - १४
चतुराननाय चतुरः पुराऽऽगमान् प्रददावसावनिमिषेश्वरः प्रभुः ।
विनिहत्य हि श्रुतिमुषं पुरातनं वपुषोद्धतं हयमुखेन सद्रिपुम् ॥ १४ ॥
भावप्रकाशिका
अनिमिषेश्वरो मत्स्येश्वरः । हयमुखेन वपुषा उद्धतमसुरं निहत्य । सुरेश्वरो हयग्रीवेण वपुषा मधुम् ॥ १४ ॥
पदार्थदीपिकोद्बोधिका
चतुराननायेति ॥ असौ प्रभुः श्रीनारायणः । पुरा अनिमिषेश्वरो मत्स्येश्वरः सन्हयस्य मुखमिव मुखं यस्य तेन वपुषोद्धतं प्रवृद्धं श्रुतिमुषं श्रुतीनामपहर्तारं, चतुर्मुखाद्वेदाञ्चोरयित्वा हृतवन्तमित्यर्थः पुरातनं सद्रिपुं सतां रिपुं हयग्रीवासुरं विनिहत्य, चत्वार्याननानि यस्य तस्मै ब्रह्मणे चतुरश्चतुःसङ्ख्याकानागमान्वेदान् प्रददौ हि । इतःपरं ‘परमात्मने’ इत्येतच्छ्लोकपर्यन्तं श्लोकानामर्थद्वयं योजनीयम् । प्रभुरसौ अनिमिषेश्वरो देवानामीश्वरो नारायणः ‘सुरमत्स्यावनिमिषौ’ इत्यमरः, हयमुखेन वपुषा हयग्रीवरूपेणावतीर्णः सन् श्रुतिमुषमुद्धतं पुरातनं सद्रिपुं निहत्य चतुराननाय चतुरो
वेदान् ददौ ॥ १४ ॥
मन्दोपाकारिणी
एवं सामान्यतः मध्वाचार्यैः स्मृतं हरिं तच्चरितं च अनूद्य इदानीं विशेषतः ध्यातानाम् अवताराणां तत्कृतचरित्राणाम् अनन्तत्त्वेऽपि मध्वाचार्यस्मृतेषु कांश्चिद् अवतारान् तत्कृतचरित्राणि च अनुवदति चतुराननायेत्याद्युदपादीत्यन्तैः सप्तविंशतिश्लोकैः । तथा हि प्रभुः समर्थो ऽसौ नारायणः पुरा प्रथमम् अनिमिषेश्वरो ऽनिमिषाणां मत्स्यानाम् ईश्वरः मत्स्यावतारस्सन् इति भावः । ‘सुरमत्स्यावनिमिषौ’ इति विश्वः । हयमुखेन हयस्य अश्वस्य मुखमिव तेन वपुषा शरीरेण उद्धतं प्रवृद्धं श्रुतिमुषं श्रुतीर् वेदान् मुष्णाति चोरयतीति तं वेदान् अपहृतवन्तं पुरातनम् आदिदैत्यं सद्रिपुं सतां रिपुं शत्रुं हयग्रीवासुरं विनिहत्य संहृत्य, चतुराननाय चत्वारि आननानि मुखानि यस्य सस् तस्मै ब्रह्मणे ‘स्वयम्भूश्चतुराननः’ इत्यमरः, चतुरश् चतुःसङ्ख्याकान् आगमान् वेदान् आदाय आनीय प्रददौ । अनेन मस्यावतारे ब्रह्मणः सकाशाद् वेदानपहृतवन्तं हयग्रीवासुरं निहत्य पुनश् चतुर्मुखाय वेददानरूपम् अवतारप्रयोजनं च उक्तं भवति । द्वितीययोजना तु , अनिमिषेश्वरः देवेशः प्रभुर् असौ हरिर् हयमुखेन वपुषा हयग्रीवरूपेण अवतीर्णस्सन् श्रुतिमुषं वेदान् अपहृतवन्तम् उद्धतं दृप्तं पुरातनं सद्रिपुं मधुनामकदैत्यं विनिहत्य चतुराननाय चतुरो वेदान् प्रददौ इति । अनेन हयग्रीवावतारस् तत्कृतं पूर्ववदेव मधुनामकं दैत्यं हत्वा ब्रह्मणे वेददानरूपम् अवतारकृत्यं च उक्तं भवति ॥ १४ ॥
विश्वास-प्रस्तुतिः - १५
अमरेन्द्रवैरिभुजदण्डमण्डलप्रतिकर्षपुष्करपतद्धरोद्धृतिः ।
विदधे वराहवपुषाऽमुनोर्मिमत्सृतिसिन्धुकच्छपतयाऽऽप्तरक्षिणा ॥ १५ ॥
मूलम् - १५
अमरेन्द्रवैरिभुजदण्डमण्डलप्रतिकर्षपुष्करपतद्धरोद्धृतिः ।
विदधे वराहवपुषाऽमुनोर्मिमत्सृतिसिन्धुकच्छपतयाऽऽप्तरक्षिणा ॥ १५ ॥
भावप्रकाशिका
अमराणामिन्द्रवैरिणां च अमरेन्द्रवैरिणो हिरण्याक्षस्य च । धरस्य गिरेर्धराया भुवश्च । वराहवान् पुष्णातीति स्वभावकथनम् । वराहो वपुश्चास्य । वीचिमद्य्वाप्तिके समुद्रे कूर्मतया गर्भीभावजननवृद्धिपरिणामापक्षयविनाशाख्योर्मिमत्संसृति-समुद्रस्य कच्छं मोक्षं च पाति ॥ १५ ॥
पदार्थदीपिकोद्बोधिका
अमरेति ॥ वरश्चासावाहवश्चेति वराहव उत्तमयुद्धस् तं पुष्णातीति तेन । स्वरूपकथनमेतत् । अर्थान्तरघटनार्थं च । आप्ताञ्छरणागतान् रक्षितुं शीलमस्येति तेनामुना नारायणेन । ऊर्मयस्तरङ्गा अस्याः सन्तीत्यूर्मिमती तादृशी सृतिर्व्याप्तिर्यस्य स चासौ सिन्धुश्च तस्मिन् क्षीरसागरे । कच्छपः कूर्मस्तस्य भावस्तया ‘कूर्मे कमठकच्छपौ’ इत्यमरः । अमरा देवाः, इन्द्रवैरिणोऽसुराः, तेषां ये भुजास्त एव दण्डास्तेषां मण्डलानि समूहास्तैः । प्रतिकर्ष आकर्षणं, तेन पुष्करे जले पतन्यो धरो मन्दरपर्वतस्त-स्योद्धृतिरुद्धरणं ‘पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले । व्योमि्न खड्गफले पद्मे तीर्थौषधिविशेषयोरि’त्यमरः । विदधे अकारि । अर्थान्तरं तु ऊर्मयो गर्भीभावजन्म- वृद्धि परिणामक्षयविनाशाख्यषडूर्मयोऽस्यां सन्तीत्यूर्मिमती तादृशी या सृतिः संसारः स एव सिन्धुः समुद्रस्तस्य कच्छस्तीरं तस्य मोक्षस्येति यावत्, पातीति पः पालकस्तस्य भावस्तया ‘तीरं कुलं तटं कच्छ’ इति हलः । आप्तरक्षिणा शरणागतानां मोक्षदानेन रक्षिणाऽमुना श्रीनारायणेन वराहस्य वपुः स्वरूपं यस्य तेन सता, अमरेन्द्राणां देवश्रेष्ठानां वैरी हिरण्याक्षस्तस्य यानि भुजदण्डमण्डलानि दोर्दण्डसमूहास्तैः प्रतिकर्षेण विकर्षणेन पुष्करे पतन्ती जले पतन्ती या धरा भूमिस्तस्या उद्धृतिरुद्धारः ‘धरः कूर्माधिपे गिरौ धराभूमि-जरायुषि’ इति च हेमचन्द्रः, विदधे । हिरण्याक्षस्य सहस्रबाहुत्वं भारते प्रसिद्धम् ॥ १५ ॥
मन्दोपाकारिणी
अमरेन्द्रेति ॥ वराहवपुषा वर उत्तमश्चासौ आहवः सङ्ग्रामश्च वराहवः ‘सङ्ग्रामाभ्यागमाहवाः’ इत्यमरस् तं पुष्णाति पोषयतीति वराहवपुट् सम्यक् युद्धकोविद इत्यर्थः, तेन वराहवपुषा । स्वरूपकथनार्थम् एतत् । यद्वा वराणाम् उत्तमानां देवानाम् आहवं प्रार्थनारूपम् आह्वानं पुष्णाति अङ्गीकरोतीति वराहवपुट् तेन समुद्रमथनकाले मन्दरपर्वते जले मग्ने सति देवैः प्रार्थनया आहूतेन इत्यर्थः । आप्तरक्षिणा आप्तानां शरणं प्राप्तानां रक्षिणा पालकेन अमुना नारायणेन । ऊर्मिमत्सृतिसिन्धुकच्छपतया ऊर्मयस् तरङ्गा अस्याः सन्तीति ऊर्मिमती ‘भङ्गस्तरङ्ग ऊर्मिर्वा’ इत्यमरः सृतिर्व्याप्तिर् यस्य स ऊर्मिमत्सृतिर् ऊर्मिमत्सृतिश्चासौ सिन्धुः समुद्रश्च ऊर्मिमत्सृतिसिन्धुस् तरङ्गयुक्तविस्तृतसमुद्र इत्यर्थः, तस्मिन् कच्छपतया कच्छपस्य भावः कच्छपता तया कूर्मत्वेन ‘कूर्मे कमठकच्छपौ’ इत्यमरः । अमरेन्द्रवैरिभुजदण्डमण्डलप्रतिकर्षपुष्करपतद्धरोद्धृतिर् अमरा देवा इन्द्रस्य वैरिणो ऽसुराः ‘दनुजेन्द्रारिदानवाः’ इत्यमरः, तेषां भुजा बाहव एव दण्डास् तेषां मण्डलानि समूहास् तैः प्रतिकर्षेण मथनेन पुष्करे उदके ‘कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्’ इत्यमरः । पततः मग्नस्य धरस्य मन्दरपर्वतस्य ‘अहार्यधरपर्वताः’ इत्यमर उद्धृतिर् उद्धरणम् अमराश्च इन्द्रवैरिणश्च अमरेन्द्रवैरिणस् तेषां भुजदण्डस् तेषां मण्डलानि तैः प्रतिकर्षस् तेन पुष्करे पतंश्चासौ धरश्च तस्य उद्धृतिरिति विग्रहः । विदधे अकारि । ‘वि पूर्वकाड् डु धाञ् धातोः कर्मणि लिट् आत्मनेपदं ‘दधे दधाते दधिरे’ । अमृतार्थं देवासुरैर् मथनकाले मन्दरपर्वते जले मग्ने सति तदा देवैः प्रार्थनयाऽहूतो भगवान् गम्भीरे समुद्रे कूर्मरूपो भूत्वा मन्दरपर्वतम् उद्दधार इति भावः । कूर्मावतारः मन्दरोद्धरणम् अवतारप्रयोजनं च उक्तं भवति । द्वितीययोजना तु ऊर्मिमत्सृतिसिन्धुकच्छपतया उर्मयः भावजन्मवृद्धि-परिणामक्षयविनाशाख्यषडूर्मयो ऽस्याः सन्तीति ऊर्मिमती सा च सा सृतिः संसारश्च सैव सिन्धुस् तस्य कच्छं पारः मोक्ष इति यावत् तस्य पातीति पः पालकः कच्छपस् तस्य भावः कच्छपता तया संसारसिन्धुपारभूतमोक्षरक्षकतया इत्यर्थः । मुक्तिदानेन इति यावत् । आप्तरक्षिणा शरणागतपालकेन स्मरणादिना भक्तानां संसारमोचकेन इति भावः । अमुना श्रीनारायणेन वराहवपुषा वराहस्य सूकरस्य वपुरिव वपुर् यस्य सः वराहवपुस् तेन वराहरूपेण सता ‘वराहः सूकरो घृष्टिः’ इत्यमरः । अमरेन्द्राणां देवश्रेष्ठानां वैरिणः हिरण्याक्षस्य भुजदण्डयोर् मण्डलेन प्रतिकर्षेण आकर्षणेन पुष्करे जले पतती मज्जती धरा धरित्री च ‘धरा धरित्री धरणी’ इत्यमरस् तस्या उद्धृतिर् जलोपरिस्थापनं विदधे अकारि । अमरेन्द्राणां वैरी अमरेन्द्रवैरिणः भुजदण्डयोर् मण्डलं तेन प्रतिकर्षस् तेन पुष्करे पतन्ती च सा धरा च तस्या उद्धृतिर् इति विग्रहः । भगवान् वराहावतारं कृत्वा हिरण्याक्षनामकदैत्येन जले निमज्जितभूमेर् जलाद् बहिर् उद्धरणं कृतवान् इति भावः । अनेन वराहावतारः भूम्युद्धरणम् अवतारप्रयोजनं च उक्तं भवति ॥ १५ ॥
विश्वास-प्रस्तुतिः - १६
नरसिंह एष विददार दारुणं प्रतिघोदये नखरचक्रतेजसा ।
स्वरिपुं क्षणेन सरसः स्फुरत्तनुं पृथुसत्वमिष्टजनभीतिभञ्जनः॥१६॥
मूलम् - १६
नरसिंह एष विददार दारुणं प्रतिघोदये नखरचक्रतेजसा ।
स्वरिपुं क्षणेन सरसः स्फुरत्तनुं पृथुसत्वमिष्टजनभीतिभञ्जनः॥१६॥
भावप्रकाशिका
नरसिंहः पुरुषोत्तमश्च । कोपोदये सति नखरमण्डलपराक्रमेण । कोपोदयेन खरचक्रतेजसा च । सरसः सवीर्यः कासाराच्च । पृथु स्थैर्ये स्वस्य रिपुं दैत्यं च । पृथुभूतं सत्वं स्वकीयस्य रिपुं नक्रं च ॥ १६ ॥
पदार्थदीपिकोद्बोधिका
नरसिंह इति ॥ एष श्रीनारायणः । नरश्चासौ सिंहश्च नृसिंहरूपःसन्निष्टजनानां भक्तजनानां भीतेर्भञ्जनो नाशकः सन् सरसः सवीर्यः सन् ‘ृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रस’ इत्यमरः । प्रतिघोदये कोपोदये सति ‘रोषः प्रतिघ उच्यते’ इति हलः । नखरचक्रस्य नखरसमूहस्य तेजसा सामर्थ्येन ‘पटलं पेटलं चक्रं’ इति हलः । स्फुरन्ती तनुर्यस्य तं शोभमानदेहम् । पृथु महत्सत्वं बलं यस्य तं, दारुणं क्रूरं, स्वरिपुं हिरण्यकशिपुं क्षणेन विददार । अर्थान्तरं तु नरेषु सिंहः श्रेष्ठः पुरुषोत्तमः । इष्टजनभीतिभञ्जनः श्रीनारायणो दारुणं क्रूरं स्वरिपुं स्वः स्वकीयो गजेन्द्रस्तस्य रिपुं, स्फुरत्तनुं, पृथुर्महान्यः सत्वः प्राणिविशेषस्तं नक्रमित्यर्थः । ‘द्रव्यासु व्यवसायेषु सत्वमस्त्री तु जन्तुषु’ इत्यमरः । प्रतिघोदयेन स्वरिपुरयमिति कोपोदयेन निमित्तेन सरसो हृदादाकृष्येति यावत् । खरं क्रूरं यच्चक्रं सुदर्शनं तस्य तेजसा विददार ॥ १६ ॥
मन्दोपाकारिणी
नरसिंह इति ॥ एषः नारायणः । सरसः रसेन वीर्येण सहितः सरसः ‘ृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः’ इत्यमरः । नरसिंहः सिंहमुखपुरुषदेहस्सन् प्रतिघोदये प्रतिघस्य कोपस्य उदये उद्भवे सति ‘कोपक्रोधामर्षरोषप्रतिघारुट् क्रुधौ स्त्रियां’ इत्यमरः । नखरचक्रतेजसा नखराणां नखानां ‘नखोऽस्त्री नखरोऽस्त्रियाम्’ इत्यमरः । चक्रस्य समूहस्य ‘चक्रो गणे चक्रवाके’ इति विश्वः, तेजसा सामर्थ्येन स्फुरत्तनुं स्फुरन्ती लसन्ती तनुः कायो यस्य स तथोक्तस् तम् । पृथुसत्वं पृथु बहु सत्वं बलं यस्य स तथोक्तस् तम् । दारुणं क्रूररूपं स्वरिपुं स्वस्य स्वकीयस्य ‘आत्मीये स्वोऽस्त्रियां धने’ इत्यमरः प्रह्लादस्य रिपुं वैरिणं हिरण्यकशिपुनामकं दैत्यं क्षणेन स्वल्पकालेनैव शीघ्रमिति यावत् । विददार विपाटितवान् । ‘दॄ विदारण इत्यस्माद् लिट् परस्मैपदं ददार दद्रतुर् दद्रुः’ । कथंभूतः, इष्टजनभीतिभञ्जन इष्टा भक्ताश्च ते जनाश्च इष्टजनास् तेषां भीतिः ‘भयं भीतिर्भीः साध्वसं भयम्’ इत्यमरः, तस्या भञ्जनः परिहारकः । अनेन नरसिंहावतारस्य हिरण्यक-शिपुहननं प्रयोजनम् उक्तं भवति । द्वितीययोजना तु इष्टजनभीतिभञ्जनः पूर्व एवार्थः । नरसिंहः नराणां पुरुषाणां सिंहः श्रेष्ठः । ‘सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः’ इत्यमरः । एषः नारायणः दारुणं क्रूरं स्वरिपुं स्वस्य स्वकीयस्य गजेन्द्रस्य रिपुं शत्रुं पृथुसत्वं पृथुर् अतिस्थूलदेहश्चासौ सत्वः जन्तुश्च पृथुसत्वस् तं जलजन्तुविशेषं नक्राख्यग्रहम् इत्यर्थः । ‘सत्वमस्त्री तु जन्तुषु’ इत्यमरः । अत्र प्रतिघोदयेन इति तृतीयान्तपदच्छेदः । प्रतिघोदयेन कोपोद्भवेन कोपाद् इत्यर्थः । सरसः कासारात् ह्रदादिति यावत् । ‘कासारः सरसी सरः’ इत्यमरः । बहिराकृष्येति शेषः । खरनक्रतेजसा खरं तीक्ष्णाग्रं ‘खरः स्याद् गर्दभे देवताले तीक्ष्णाग्रकेऽपि च’ इति विश्वः, तच्च तच् चक्रं सुदर्शनायुधञ्च खरचक्रं ‘चक्रं सैन्यरथाङ्गयोः’ इति विश्वः, तस्य तेजसा सामर्थ्येन अनायासेनेति भावः । विददार अदीदलत् । अनेन हरिस् तापसनामा भूत्वा नक्रं हत्वा गजेन्द्रं मोचयामास इति भावः । अनेन तापसनामावतारस्य गजेन्द्रमोचनं प्रयोजनम् उक्तं भवति ॥ १६ ॥
विश्वास-प्रस्तुतिः - १७
अपि वामनो ललितबाल्यवानयं प्रतिभाबलेन कृतदैत्यकौतुकः ।
उपधेरधः कृतबलीन्द्रशात्रवः स्वजनाय केवलमदात्परं पदम्॥१७॥
मूलम् - १७
अपि वामनो ललितबाल्यवानयं प्रतिभाबलेन कृतदैत्यकौतुकः ।
उपधेरधः कृतबलीन्द्रशात्रवः स्वजनाय केवलमदात्परं पदम्॥१७॥
भावप्रकाशिका
वामनरूपकोऽपि अधःकृतबलिनामकासुरः स्वजनाय इन्द्राय पदमदात् । बुद्धरूपो वामनोऽल्पशरीरो भूत्वा जिनस्य पुत्रतां प्रकाश्याधःकृतबलवदसुरः स्वजनायैव मोक्षमदात् ॥ १७ ॥
पदार्थदीपिकोद्बोधिका
अपीति ॥ अयं श्रीनारायणो ललितं मनोहरं यद्बाल्यं तदस्यास्तीति तादृशो वामनोऽपि सन् वामनाख्यावतारोऽपि सन् प्रतिभाबलेन बुद्धिबलेन कृतमुत्पादितं दैत्यकौतुकं दैत्यानां विस्मयो येन तादृशः । उपधेस्त्रिपदच्छलादधःकृत- स्त्रैलोक्याधिपत्याद्विमोच्य पाताले स्थापितो बलीन्द्रशात्रवो बल्याख्येन्द्रशत्रुर्येन तथा सन् ‘द्वेष्टा वैरी च शात्रवः’ इति हलः, स्वजनाय स्वभक्तजनायेन्द्राय केवलं मुख्यं परमुत्तमं पदं त्रैलोक्याधिपत्याख्यमिन्द्रपदमदात् । अर्थान्तरं तु अयं श्रीनारायणः वामनो बालरूपः सन् जिनस्य पुत्रमुत्पन्नं दूरे निक्षिप्य स्वयं तदाकारस्वरूपग्रहणेन तत्पुत्रभावं प्रदर्श्येति भावः । ललितं श्लाघ्यं यद्बाल्यं तदस्यास्तीति तादृशः सन्प्रतिभाबलेन बुद्धिबलेन कृतं दैत्यकौतुकं जिनादिदैत्यविस्मयो येन तादृशः सन् उपधेर्व्याजात् ‘विश्वमसत्, क्षणिकं, विज्ञानं, शून्यम् अभावं’ इत्याद्युक्त्या तान्मोहयित्वेति भावः । अधःकृता निरये निपातिता बलीन्द्रशात्रवाः, बलमेषामस्तीति बलिनस्तादृशा इन्द्रशात्रवो जिनादयो येन तथा सन् स्वजनाय स्वभक्तजनाय केवलं परं पदमदात् । विश्वमसत्क्षणिकमज्ञानमित्यादिशब्दानां स्वाभिमतार्थ-मुक्त्वा सर्वस्य स्वाधीनत्वबुद्धिं, स्वस्य सर्वस्मादुत्तमत्वबुद्धिञ्चोत्पाद्य देवानां मोक्ष-
मदादिति भावः ॥ १७ ॥
मन्दोपाकारिणी
अपीति ॥ अयं श्रीनारायण एव ललितबाल्यवान् ललितम् ईप्सितं सुन्दरमिति यावत्, ‘ललितं हारभेदे स्यादीप्सिते लगुडेऽपि च’ इति विश्वः, बाल्यं शिशुत्वम् अस्यास्तीति ललितबाल्यवान् ‘शिशुत्वं शैशवं बाल्यं’ इत्यमरः वामनोऽपि वामनावतारोऽपि सन् प्रतिभाबलेन प्रतिभाया बुद्धेर् बलेन सामर्थ्येन कृतदैत्यकौतुकः कृतम् उत्पादितं दैत्यानां बलिचक्रवर्तिभृत्यानां कौतुकम् आश्चर्यं येन स तथा । अतिह्रस्वाकारं वामनं दृष्ट्वा सर्वे दैत्या आश्चर्ययुक्ता बभूवुर् इति भावः । तादृशस्सन् उपधेस् त्रिपादव्याजात् ‘कपटोऽस्त्रीव्याजदम्भोपधयश्छद्मकैतवे’ इत्यमरः । अधःकृतबलीन्द्रशात्रवो ऽधः भूमेर् अधःस्थितरसातले कृतः स्थापितः बलिर् बलिनामक इन्द्रशात्रव इन्द्रस्य देवेन्द्रस्य शात्रवः शत्रुर् येन स तथोक्तः । ‘दस्युशात्रव शत्रवः’ इत्यमरः । तादृशस्सन् स्वजनाय केवलं स्वकीयश्चासौ जनश्च स्वजनस् तस्मै इन्द्रायैव परम् उत्तमं ‘परः स्यादुत्तमानात्मे’ इत्यमरः, मुख्यमिति यावत् । साङ्कल्पिकस्वर्गव्यावृत्यर्थम् इदं पदं स्वर्गाख्यस्थानं तदाधिपत्यमिति यावत् । ‘पदं व्याजाङ्घ्रितच्चिन्हस्थानत्राणांशलक्ष्मसु’ इति भास्करः । अदाद् दत्तवान् । वामनरूपस्सन् बलिचक्रवर्तिनं भूमेर् अधः कृत्वा इन्द्राय त्रैलोक्याधिपत्यं दत्तवान् इति भावः । अनेन वामनावतारस्य इन्द्राय बलिचक्रवर्त्यपहृतस्वर्गलोकाधिपत्यदानं प्रयोजनम् उक्तं भवति । द्वितीययोजना तु अयं नारायणः वामनः ह्रस्वाकारः बालरूपः सन्निति यावत् । खर्वो ह्रस्वश्च वामनः’ इत्यभिधानम् । जिननामकपुत्रत्वं स्वस्य प्रदर्श्य ललितबाल्यवान् तैर् जिनादिभिर् आदृतबाल्यवान् सन् प्रतिभाबलेन बुद्धिसामर्थ्येन कृतदैत्यकौतुक उत्पादितजिनादिदैत्यविस्मयः सन् उपधेः कपटात् ‘विश्वम् असत् क्षणिकं विज्ञानं शून्यम् अभावनं’ इत्यादिवचनेन तान् जिनादीन् मोहयित्वा इति भावः । अधःकृतबलीन्द्रशात्रवो ऽधो ऽन्धे तमसि कृताः पातिता बलिनः बलवन्त इन्द्रशात्रवः जिनादिदैत्या येन स तथोक्तः सन् । स्वजनाय केवलं देवादिस्वभक्तजनायैव परं पदम् अत्युत्तमं स्थानं वैकुण्ठमपि अदात् । विश्वम् असत् क्षणिकम् इत्यादिशब्दानां स्वाभिप्रेतार्थम् उक्त्वा सर्वस्य स्वाधीनत्वबुद्धिं च उत्पादयित्वा देवानां मोक्षमदाद् इति भावः । अनेन बुद्धावतारस्य जिनादिमोहनम् अवतारप्रयोजनम् उक्तं भवति । ‘डुदाञ् दाने इत्यतः लुङ् परस्मैपदम् अदाद् अदाताम् अदुः’ ॥ १७ ॥
विश्वास-प्रस्तुतिः - १८
कथयन्त्यमुं परशुभासमानगोहतमर्त्यदेवतमसं मुहुर्मुहुः ।
जगतां हितं हरिमिवापरं हरिं गुरुशक्तितापसवरान्वयोद्भवम् ॥ १८ ॥
मूलम् - १८
कथयन्त्यमुं परशुभासमानगोहतमर्त्यदेवतमसं मुहुर्मुहुः ।
जगतां हितं हरिमिवापरं हरिं गुरुशक्तितापसवरान्वयोद्भवम् ॥ १८ ॥
भावप्रकाशिका
अमुं महाशक्तेस्तापसवरस्य भृगोरन्वयोद्भवं श्रीरामं कथयन्ति । त्रिलोकगुरोः शक्तितापसवरस्य च श्रीवेदव्यासं हरिमिवार्कमिव । परशुरेव भासमानरश्मिरस्य मर्त्यदेवा राजान एव तमः । पराः शुभाश्चासमानाश्च गावो वाचः । मर्त्यानां देवानां तमस्त्वज्ञानम् ॥ १८ ॥
पदार्थदीपिकोद्बोधिका
कथयन्तीति ॥ ज्ञानिनोऽमुं श्रीनारायणं मुहुर्मुहुस्त्रिः सप्तकृत्व इति यावत् । परशौ कुठारे भासमाना या गावस्तेजांसि ताभिर्हतानि संहृतानि मर्त्यदेवतमांसि क्षत्रियाख्यान्धकारा येन तादृशं जगतां हितम् । गुरुर्महती शक्तिर्यस्य तादृशो यस्तापसवरो मुनिवरो भृगुस्तस्यान्वयो वंशस्तस्मिन्नुद्भवोऽवतारो यस्य तं श्रीपर-शुरामम् । कथमिव, मुहुर्मुहुः परा उत्तमा शुभाः शोभना असमाना असदृशा गावो वाचश्च, ताभिर्हतं निहतं मर्त्यदेवतमः मर्त्याश्च देवाश्च तेषां तमोऽज्ञानं येन तम् । अत एव जगतां हितम् । गुरुर् महर्षीणां गुरुः, स चासौ शक्तिः शक्तिनामा च असौ तापसवरो मुनिवरश्च, तस्यान्वये वंशे उद्भवोऽवतारो यस्य तम् अपरमन्यं हरिमिव वेदव्यासमिव । पुनः कथमिव, पर, शुभ, असमान, गोभिस्तेजोभिर्हतं मर्त्यदेवतमः मर्त्यदेवान्धकारो येन तम् । अत एवान्धकारनिरसनाज्जगतां हितम् । गुरुर्महती शक्तिर्यस्य तादृशो यस्तापसवरः काश्यपस्त-स्यान्वय उद्भवो यस्य तमपरं हरिमिव सूर्यमिव कथयन्ति ॥ १८ ॥
मन्दोपाकारिणी
कथयन्तीति ॥ सन्तः हरिम् अमुं श्रीनारायणम् । गुरुशक्तिताप-सवरान्वयोद्भवं गुर्वी महती शक्तिः शापानुग्रहसामर्थ्यं यस्य सः गुरुशक्तिर् गुरुशक्तिश्चासौ तापसवरः मुनिश्रेष्ठश्च ‘तपस्वी तापसः पारिकांक्षी वाचंयमो मुनिः’ इत्यमरः, जमदग्निनामकऋषिर् इत्यर्थस् तस्यान्वये वंशे उद्भवः प्रादुर्भावः यस्य स तथा तं परशुरामं कथयन्ति वदन्ति । कथंभूतं, मुहुर्मुहुस् त्रिःसप्तकृत्व इति यावत् । परशुभासमानगोहतमर्त्यदेवतमसं परशौ कुठारे ‘द्वयोः कुठारः स्वधितिः परशुश्च परश्वधः’ इत्यमरः, भासमानाश्च ता गावो रश्मयश्च परशुभासमानगावः मर्त्यदेवा एव क्षत्रिया एव तमांसि अन्धकाराः परशुभासमानगोभिर् हतानि संहृतानि मर्त्यदेवतमांसि येन स तथोक्तस् तम् । पुनः कथंभूतं, जगतां स्वभक्तजनानां हितं सुखकरं कमिव, गुरुशक्तितापसवरान्वयोद्भवं गुरुर् महर्षीणां गुरुः शक्तिनामकः गुरुश्चासौ शक्तिश्चासौ तापसवरश्च तस्य अन्वये अवतीर्णम् अपरं हरिमिव वेदव्यासमिव । कथंभूतं वेदव्यासं, परशुभासमानगोभिर्हतमर्त्यदेवतमसं परा उत्तमाः शुभाः शोभना असमाना असदृशा गावः स्ववाचः हतं नाशितं मर्त्या मनुष्या देवाश्च तेषां तम अज्ञानं परशुभासमानगोभिर्हतं मर्त्यदेवतमः येन स तथोक्तस् तम् । अत एव जगतां हितम् । पुनः कमिव, गुरुशक्तितापसवरान्वयोद्भवं गुर्वी महती शक्तिः सामर्थ्यं यस्य सः स चासौ तापसवरः कश्यपमुनिर् इत्यर्थस् तस्य अन्वये उद्भवम् अपरम् अन्यं हरिं सूर्यमिव ‘चन्द्रे सूर्ये यमे विष्णौ वासवे दर्दुरे हये । मृगेन्द्रे वानरे वायौ दशस्वपि हरिः स्मृतः’ इति धनञ्जयः । कथंभूतं सूर्यं, परशुभासमानगोहतमर्त्यदेवतमसं पराभिर् उत्कृष्टाभिः शुभाभिः प्रकाशमानाभिर् असमानाभिर् गोभिः किरणैर् हतं मर्त्यानां देवानां तमो ऽन्धकारो येन स तथोक्तस् तम् । अत एव जगतां हितम् । ‘गौर्नाके वृषभे रश्मौ वाग्भूदिग्धेनुषु स्त्रियां’ इति रत्नमाला । अत्र पूर्वयोजनयां परशुरामावतार एकविंशतिवारं क्षत्रियसंहारश्च अवतारप्रयोजनम् उक्तं भवति । द्वितीययोजनायां तु वेदव्यासावतारः देवादिसज्जनानाम् अज्ञाननाशनेन ज्ञानदानं च अवतारप्रयोजनम् उक्तं भवति । दृष्टान्तत्त्वेन सूर्यपरतया तृतीययोजना इति ज्ञेयम् ॥ १८ ॥
विश्वास-प्रस्तुतिः - १९
करुणाकरः स वसुदेवमोददो भगवान् पुरा हिमकरान्वयेऽभवत् ।
जितवान् दिशो दशरथोऽग्रयसम्पदो जनको बभूव भुवि यस्य वैरिहा ॥ १९ ॥
मूलम् - १९
करुणाकरः स वसुदेवमोददो भगवान् पुरा हिमकरान्वयेऽभवत् ।
जितवान् दिशो दशरथोऽग्रयसम्पदो जनको बभूव भुवि यस्य वैरिहा ॥ १९ ॥
भावप्रकाशिका
सवसूनां देवानां मोददः पूर्वमहिमकरान्वयेऽभवत् श्रीरामः । यस्य जनको दशरथः । स हिमकरान्वयेऽभवच्छ्रीकृष्णः । यस्य रथो दश दिशो जितवान् अग्रयाणां सम्पदां जनको बभूव ॥ १९ ॥
पदार्थदीपिकोद्बोधिका
करुणेति ॥ वसुभिः सहिताः सवसवस्तादृशा ये देवास्तेषां मोदं सन्तोषं ददातीति तादृशः । करुणाकरो भगवान् श्रीनारायणः, पुरा भुवि, हिमाः शीता न भवतीत्यहिमा उष्णाः कराः किरणा यस्य सूर्यस्यान्वये वंशे ‘हिमं तुषारे शीते चे’ति हेमचन्द्रः, अभवत् । यस्य सूर्यवंशावतीर्णस्य हरेः, अग्रयाः सम्पदो यासु ता दिशो जितवान्वैरिणो हन्तीति वैरिहा दशरथो जनकः पिता बभूव । अर्थान्तरं तु करुणाकरः स भगवान्नारायणो वसुदेवस्य मोदं सन्तोषं ददातीति तादृशः । पुरा भुवि हिमकरान्वये चन्द्रवंशेऽभवत् । यस्य श्रीकृष्णस्य दश दिशो जितवान्वैरिहा शत्रुहा रथः, अग्रयसम्पदः श्रेष्ठैश्वर्यस्य जनक उत्पादको बभूव । एतच्च ‘न केशवरथे कश्चित् स्थितो याति पराभवं’ इति वचनात् सिद्धम् ॥ १९ ॥
मन्दोपाकारिणी
इतः परं महिदासेत्यतः प्राक्तनेषु षोडशश्लोकेषु रामकृष्णयोर् अवतारं तच्चरितानि च मध्वाचार्यध्यातानि सहैव वर्णयति ॥ करुणाकर इत्यादिना ॥ करुणाकरः करुणाया आकर उत्पत्तिस्थानं कृपासमूहात्मको वा भगवान् नारायणः पुरा पूर्वं त्रेतायुगे अहिमकरान्वये हिमाः शीतला न भवन्तीति अहिमा उष्णा इत्यर्थो ऽहिमाः करा मरीचयो यस्य सो ऽहिमकरः सूर्यस् तस्य अन्वये कुले अभवत् प्रादुरभूत् । कथंभूतः, सवसुदेवमोददः वसुभिः सहिताः सवसवः सवसवश्च ते देवाश्च तेषां मोदं सन्तोषं ददातीति सवसुदेवमोददः । यद्वा वसवः मयूखास् तैः सहितः सवसुः स चासौ देवः सूर्यश्च तस्य मोददः । तद्वंशे अवतीर्णत्वात् । ‘वसुर्मयूखाग्निधनाधिकेषु’ इति विश्वः । अथवा वसुभिः रत्नैर् धनैर्वा सहिता सवसुर् वसुन्धरा तस्या देवाः सवसुदेवा भूदेवा विश्वामित्रादयस् तेषां मोददः । यस्य सूर्यवंशोद्भवस्य हरेर् दशरथस्य दशरथनामा राजा जनकः पिता बभूव । कथंभूतः, भुवि धरायाम् अग्रयसम्पदो ऽग्रया उत्तमा सम्पद् लक्ष्मीर् यासु ता दिशः जितवान् । पुनः किंभूतः, वैरिहा शत्रून् हन्तीति वैरिहा । इयं रामपक्षे योजना । कृष्णपक्षे तु स वसुदेवमोदद इत्यत्र स इति भिन्नपदम् । दशरथ इत्यत्र दशेति रथेति पदद्वयम् । पुराऽहिमकरेत्यत्र अकारप्रश्लेषं विहाय हिमकरेति च पदम् । करुणाकरः सः भगवान् नारायणः पुरा द्वापरान्ते हिमकरान्वये हिमकरस्य चन्द्रस्य अन्वये वंशे अभवत् । किंभूतः, वसुदेवमोददः वसुदेवस्य मोदप्रदः । चन्द्रवंशे उत्पन्नस्य यादवविशेषस्य वसुदेवस्य पुत्रोऽभवदिति भावः । सवसुदेव इत्येकपदत्वे सवसोर् भूमेर् देवानां च मोदत इति ज्ञेयम् । अवतारात् पूर्वं गौर् भूत्वा अश्रुमुखी खिन्ना इत्युक्तेर् अवतारेण भूभारहरणाद् भूमेः सुखदत्वं ज्ञेयम् । यस्य वसुदेवसुतस्य अग्रयसम्पदः । अत्र षष्ठ्यन्तम् इदं पदम् । अग्रया उत्कृष्टा च सा सम्पदैश्वर्यं च तस्या जनक उत्पादक ऐश्वर्यहेतुः रथः, स्यन्दनः बभूव । किंभूतो रथः, दश दिशो जितवान् दिग्विजयी वैरिहा च, यस्मिन् रथे स्थितः सर्वान् नृपान् पराजयति वैरिणश्च हन्ति तादृश इति भावः । तच्च ‘न केशवरथे कश्चित्स्थितो याति पराभवं’ इति वचनात् सिद्धम् ॥ १९ ॥
विश्वास-प्रस्तुतिः - २०
भुजगेश्वरोऽपि भुवनेश्वरप्रियः समजन्यथारिदरजन्मभुव्यभूत् ।
तममुष्य कान्तिविजितेन्दुमग्रजं रमणीयमाहुरिह रामनामकम् ॥ २० ॥
मूलम् - २०
भुजगेश्वरोऽपि भुवनेश्वरप्रियः समजन्यथारिदरजन्मभुव्यभूत् ।
तममुष्य कान्तिविजितेन्दुमग्रजं रमणीयमाहुरिह रामनामकम् ॥ २० ॥
भावप्रकाशिका
अथ शंखचक्रजन्मभरतशत्रुघ्नत्वेन अरीणां भयजन्म च । तममुष्य लक्ष्मणस्याग्रजं श्रीराममाहुः । अमुष्य कृष्णस्य च ॥ २० ॥
पदार्थदीपिकोद्बोधिका
भुजगेति ॥ भुवनेश्वरप्रियः श्रीनारायणप्रियो भुजगेश्वरोऽपि शेषोऽपि भुवि समजनि लक्ष्मणनाम्ना जज्ञे । अथ तदनन्तरमरिश्चक्रं, दरः शङ्खः, तयोर्जन्मोत्पत्तिः, चक्रशङ्खाभिमानिनोः कामतत्पुत्रयोर्भरतशत्रुघ्नत्वेन जन्माभूत् । इहैतेषां मध्येऽमुष्य लक्ष्मणस्याग्रजं ज्येष्ठम् । कान्त्या मुखकान्त्या विजित इन्दुर्येन तम् अत एव रमणीयं तं भगवन्तं दाशरथिं राम इति नाम यस्य तं रामनामकमाहुः । अर्थान्तरन्तु भुवनेश्वरप्रियो भुजगेश्वरोऽपि भुवि बलभद्रत्वेन समजनि । अथ हरिशेषयोरवतारा-नन्तरमरीणां शत्रूणां दरस्य भयस्य जन्मोत्पत्तिः ‘दरः स्याद्भयशङ्खयोः’ इति हेमचन्द्रः, अभूत् । कान्तिविजितेन्दुं कान्त्या शरीरकान्त्या विजित इन्दुर्येन स तथा तं, शुभ्राङ्गमिति यावत् । रमणीयं दर्शनीयममुष्य श्रीकृष्णस्याग्रजं तं बलभद्रमिह रामनामकं बलरामनामकमाहुः ॥ २० ॥
मन्दोपाकारिणी
भुजगेति ॥ भुवनेश्वरप्रियः लोकानाम् ईश्वरः स्वामी तस्य हरेः प्रियः प्रीतिविषयः भुजगेश्वरोऽपि भुजगानां सर्पाणां ‘सर्पःपृदाकुर्भुजगः’ इत्यमरः, ईश्वर ईशिता शेषोऽपि समजनि लक्ष्मणनाम्ना जज्ञे । ‘जनि प्रादुर्भावे लुङ् आत्मनेपदम्’ । अथ लक्ष्मणोत्पत्त्यनन्तरं भुवि भूमौ अरिदरजन्माभूद् अरिः सुदर्शनं चक्रं तदभिमानी काम इत्यर्थः । दरः पाञ्चजन्यः शङ्खस् तदभिमानी कामपुत्रोऽनिरुद्ध इत्यर्थः, अरिश्च अरिदरौ तयोः कामानिरुद्धयोर् जन्मोत्पत्तिर् अभूत् । कामः भरतो ऽनिरुद्धः शत्रुघ्नो ऽभवद् इति भावः । इह चतुर्षु मध्ये अमुष्य लक्ष्मणस्य अग्रजं पूर्वजं तं भगवन्तं रामनामकं राम इति नाम आख्या यस्य स तथोक्तम् आहुर् वदन्ति । कथंभूतं, कान्तिविजितेन्दुं कान्त्या मुखकान्त्या विजितः पराभूत इन्दुश् चन्द्रः येन स तथोक्तस् तम् । अत एव रमणीयं सुन्दरम् । कृष्णपक्षे तु भुवनेश्वरप्रियः भुजगेश्वरः शेषोऽपि समजनि बलभद्रत्वेन जज्ञे । अथ हरिशेषयोरवतारानन्तरं भुवि अरिदरजन्म अरीणां भगवद्वेषिणां दरस्य भयस्य ‘दरः साध्वसगर्तयोः’ इति विश्वः, जन्मोत्पत्तिर् अभूत् । भुवि कृष्णावतारे सति असुराणां मनसि भयमुत्पन्नमिति भावः । अमुष्य कृष्णस्य अग्रजं प्रथममुत्पन्नं शेषावतारं रामनामकम्
आहुः । किंभूतं कान्तिविजितेन्दुं कान्त्या शरीरकान्त्या विजितेन्दुं रमणीयं दर्शनीयम्
इति योजना ॥ २० ॥
विश्वास-प्रस्तुतिः - २१
जनकेन सोऽथ विरहासहिष्णुना मुहुरीक्षितो वनमनीयत प्रभुः ।
चकितेन दुष्टजनतस्तपस्विना तत आसुरीं निशिचरीं जघान सः ॥२१॥
मूलम् - २१
जनकेन सोऽथ विरहासहिष्णुना मुहुरीक्षितो वनमनीयत प्रभुः ।
चकितेन दुष्टजनतस्तपस्विना तत आसुरीं निशिचरीं जघान सः ॥२१॥
भावप्रकाशिका
तपस्विना विश्वामित्रेण वनमनीयत । जनकेन मुहुरादृतः । जनकेनानीयत । दुष्टजनो मारीचादिः कंसश्च । निशाचरीं ताटकां पूतनां च ॥ २१ ॥
पदार्थदीपिकोद्बोधिका
जनकेनेति ॥ अथ विरहं पुत्रवियोगं सोढुं शील-मस्यास्तीति सहिष्णुः स न भवतीत्यसहिष्णुस् तेन जनकेन पित्रा दशरथेन मुहुरीक्षितो दृष्टः प्रभुः स रामः दुष्टजनतो राक्षसजनाच्चकितेन भीतेन, तप अस्यास्तीति तपस्वी तेन विश्वामित्रेण वनमनीयत नीतः । ततः श्रीरामः, आसुरीमसुरवंशजां निशि चरतीति तां राक्षसीं ताटकां जघान । अर्थान्तरे तु विरहासहिष्णुना जनकेन पित्रा वसुदेवेन मुहुरीक्षितः प्रभुः श्रीकृष्णः दुष्टजनतो दुर्जनात्कंसाच्चकितेन भीतेन तपस्विना भगवद्ध्यानवता वसुदेवेन वनं नन्दगोपावासभूतं बृहद्वनं प्रति अनीयत । ततः स श्रीकृष्ण आसुरीमसुरस्वभावां निशिचरीं पूतनां जघान ॥ २१ ॥
मन्दोपाकारिणी
जनकेनेति ॥ अथ कतिचिद्दिनानन्तरं प्रभुर् दुष्टशिक्षणसमर्थः रामचन्द्रः दुष्टजनतः दुष्टश्चासौ जनः सुबाहुमारीचादिदुष्टजन इत्यर्थः, तस्माद् इति ततश् चकितेन भीतेन तपस्विना विश्वामित्रमुनिना वनम् अरण्यम् अनीयत नीतः । ‘णीञ् प्रापण इत्यतः कर्मणि लङ् आत्मनेपदम् अनीयत अनीयेताम् अनीयन्त’ । किंभूतः विरहासहिष्णुना विरहं पुत्रवियोगम् असहिष्णुना सोढुम् अशक्तेन जनकेन पित्रा दशरथेन ‘जनकः पिता’ इत्यमरः, मुहुर् असकृत् ‘मुहुः पुनः पुनः शश्वद्वभीक्ष्णमसकृत्समाः’ इत्यमरः । ईक्षितः दृष्टः । ततः वनं प्रति गमनानन्तरं स राम आसुरीं सुरविरुद्धां निशिचरीं ताटकां नाम राक्षसीं जघान । कृष्णपक्षे तु अयं प्रभुः स कृष्णः । दुष्टजनतः दुष्टजनात् कंसाच् चकितेन तपस्विना तपोवता जनकेन पित्रा वसुदेवेन वनं नन्दगोपस्थानं बृहद्वनम् अनीयत । किंभूतः, विरहासहिष्णुना जनकेन मुहुर् ईक्षितः नतः सः कृष्णः निशिचरीं रात्रौ सञ्चारिणीम् आसुरीम् असुरस्वभावां पूतनां कंसस्य उपमातरं जघान हतवान् । ‘हन हिंसागत्योर् लिट् परस्मैपदं जघान जघ्नतुर् जघ्नुः’ ॥ २१ ॥
विश्वास-प्रस्तुतिः - २२
मुनिसप्ततन्तुकृतवैरबन्धनं कटुकेश्यरिष्टपदमुख्यदुर्जनम् ।
क्षपयन्तमुद्यतसुबाहुमाहवे तमथाभ्यनन्ददमरादिसद्गणः ॥ २२ ॥
मूलम् - २२
मुनिसप्ततन्तुकृतवैरबन्धनं कटुकेश्यरिष्टपदमुख्यदुर्जनम् ।
क्षपयन्तमुद्यतसुबाहुमाहवे तमथाभ्यनन्ददमरादिसद्गणः ॥ २२ ॥
भावप्रकाशिका
मुनीनां सप्ततन्तुर्यागः सजटासन्ततिश्च । क्रूरकेशवन्तमशुभस्थानं मुख्यं दुर्जनम् । उद्यतं सुबाह्वाख्यं राक्षसम् । केश्यरिष्टनामादिदुर्जनं क्षपयन्तम् । उद्यतसुन्दरहस्तम् ॥ २२ ॥
पदार्थदीपिकोद्बोधिका
मुनीति ॥ अथ अमरादिसद्गणो देवादिसज्जनसमूहः । मुनेर्विश्वामित्रस्य सप्ततंतौ यज्ञे कृतं वैरबन्धनं वैरानुसन्धानं येन तं ‘सप्ततन्तुर्मखोऽध्वर’ इति हलः, मुनियज्ञविरोधिनमिति यावत् । कटवः क्रूरा ये केशास्तेऽस्य सन्तीति तादृशं, यदरिष्टपदमरिष्टास्पदीभूतं मुख्यदुर्जनमतिदुर्जनमित्यर्थः । उद्यतो योद्धुं सन्नद्धो यः सुबाहुस्तं राक्षसमाहवे युद्धे क्षपयन्तं नाशयन्तं श्रीराममभ्यनन्दत् । अर्थान्तरे तु अथामरादिसद्गणः प्तया जटया सहितः सप्तः स चासौ तन्तुः सन्ततिश्च सप्ततन्तुर् मुनीनां यस्सप्ततन्तुस्तस्मिन् कृतं वैरबन्धनं येन तं ‘चेरुश्च ते बालवधे सदोद्यता’ इत्याद्युक्तरीत्या बालघातिनमित्यर्थः । केशी च अरिष्टश्च केश्यारिष्टौ केश्यरिष्टविति पदे नामनी ययोस्तौ मुख्यौ यस्य कंसपरिवारभूतदुर्जनस्य स तादृशः स चासौ दुर्जनश्च, कटुः क्रूरो यः केश्यरिष्टपद-मुख्यदुर्जनस्तं क्षपयन्तं नाशयन्तम् । आहवे युद्धे उद्यतौ सुबाहू शोभनहस्तौ यस्य तं श्रीकृष्णमभ्यनन्दत् ॥ २२ ॥
मन्दोपाकारिणी
मुनीति ॥ अथ ताटकासंहारानन्तरम् अमरादिसद्गणो ऽमरा देवा आदयो येषां ते मुन्यादयस् तेषां सद्गणः सत्समूहस् तं श्रीरामचन्द्रम् अभि उद्दिश्य अनन्दद् रामं दृष्ट्वा सन्तुतोष । ‘टु नदि समृद्धौ लङ् परस्मैपदम्’ । किम्भूतं, आहवे युद्धे उद्यतसुबाहुम् उद्यत आत्मना सह योद्धुम् उद्युक्तः सुबाहुः सुबाहुनामकराक्षस उद्यतश्चासौ सुबाहुश्च इति विग्रहस् तम् । क्षपयन्तं नाशयन्तम् । कथंभूतं सुबाहुं, मुनिसप्ततन्तुकृतवैरबन्धनं मुनेर् विश्वामित्रस्य सप्ततन्तुर् यज्ञः ‘सप्ततन्तुर्मखः क्रतुः’ इत्यमरः, तस्मिन् कृतं वैरस्य बन्धनं येन स तथोक्तस् तम् । ‘वैरं विरोधो विद्वेषः’ इत्यमरः मुनियज्ञविरोधिमित्यर्थः । पुनः किंभूतं सुबाहुं, कटुकेश्यरिष्टपदमुख्यदुर्जनं कटवः क्रूराः ‘कटुः सुगन्धे तीक्ष्णे स्यात्’ इति विश्वः, केशाः शिरोरुहा अस्य सन्तीति कटुकेशि ‘कचः केशः शिरोरुहः’ इत्यमरो ऽरिष्टानाम् अशुभानां पदम् आश्रयः ‘रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे’ इत्यमरः मुख्यदुर्जनः राक्षसश्रेष्ठः कटुकेशी चासौ मुख्यदुर्जनश्च इति विग्रहस् तम् । कृष्णपक्षे तु अथ पूतनासंहारनन्तरम् अमरादिसद्गणस् तं कृष्णम् अभ्यनन्दत् । किंभूतं कृष्णं, मुनिसप्ततन्तु-कृतवैरबन्धनं प्ताभिर् जटाभिः सहिताः सप्तास् ते च ते मुनयश्च मुनिसप्ताः परनिपातोऽयं तेषां तन्तुः सन्ततिः ‘तन्तुनक्रे तथोर्णायां सूत्रसङ्घे च सन्ततौ’ इत्यभिधानं, मुनीनां प्रजा इत्यर्थस् तस्मिन् । कृतवैरिबन्धनम् उपलक्षणमेतत् । बालमात्रहनने उद्युक्तम् इत्यर्थः । ‘चेरुश्च ते बालवधे सदोद्यता’ इति वचनात् । प्ताशब्दस्य जटार्थत्वं तु सप्तमसर्गे ‘अपि सप्ततया विराजितान्’ इत्यस्मिन् श्लोके उक्तम् । कटुकेश्यरिष्टपदमुख्यदुर्जनं केश्यरिष्टौ इति पदे नामनी ययोस् तौ केशिनामकारिष्टनामकदैत्यौ मुख्यौ श्रेष्ठौ यस्य स तथोक्तः ‘मुख्यवर्य-वरेण्याश्च’ इत्यमरः, स चासौ दुर्जनश्च कटुः क्रूरः निर्दयश्चासौ केश्यरिष्टपदमुख्यदुर्जनश्च तम् । बालवधाय ऋष्याश्रमादिस्थानेषु सञ्चरन्तम् अरिष्टकेशिप्रमुखकंसपरिवारजनम् इति यावत् । क्षपयन्तं नाशयन्तम् पुनः किंभूतं कृष्णं, आहवे युद्धे उद्यतसुबाहुम् उद्यतौ उन्नमितौ सु शोभनौ बाहू भुजौ यस्य स तथोक्तस् तम् । युद्धे कुशलमित्यर्थः ॥ २२ ॥
विश्वास-प्रस्तुतिः - २३
सवने विकस्वरगुणस्वरद्विजे स्फुरिते चरन् सकलगोकुलप्रियः ।
इतकामतापसरसार्द्रधीगिरः प्रतिलालयन्नरमतैष सुन्दरीः॥ २३ ॥
मूलम् - २३
सवने विकस्वरगुणस्वरद्विजे स्फुरिते चरन् सकलगोकुलप्रियः ।
इतकामतापसरसार्द्रधीगिरः प्रतिलालयन्नरमतैष सुन्दरीः॥ २३ ॥
भावप्रकाशिका
सवने यज्ञे स कृष्णो वने । गावो नयनानि च । प्राप्त-
कामानां तापसानां स्नेहार्द्रधीगिरो रमणीर्भद्राः । प्राप्तकामतापाः सरसा आर्द्रधीगिरो गोपिकाश्च ॥ २३ ॥
पदार्थदीपिकोद्बोधिका
स इति ॥ सकलं समस्तं यद्गोकुलं वेदसमूहस्तत्प्रियं यस्य । यद्वा सकलं गोकुलं वेदसमूहो येषां विश्वामित्रादिमुनीनां ते सकलगोकुलास्तेषां प्रिय एष श्रीरामः । गुणा भक्त्यादिगुणास् ते च स्वरा उदात्तादिस्वराश्च गुणस्वरा विकस्वरा-श्शोभमाना गुणस्वरा येषां, तादृशा द्विजा ब्राह्मणा यस्मिन् तस्मिन् स्फुरिते विराजमाने सवने विश्वामित्रयज्ञे चरन् विघ्नविघाताय तत्र तत्र सञ्चरन् सुन्दरीः रमणीयाः श्रोत्रप्रिया इति यावत् । इतः यज्ञनिष्पत्या प्राप्तः, कामोऽभीष्टो यस्य तादृशो यस्तापसो विश्वामित्रस्तस्य सार्द्रा स्नेहार्द्रा या धीस्तया कृता गिरो वचनानि । ‘त्वत्प्रसादादस्मद्यज्ञनिष्पत्तिरभूत्, विदेहेषु च जानकीस्वयंवरो घोष्यते तत्र याम’ इत्यादि विश्वामित्रवचनानीत्यर्थः । प्रतिलाल-यन्मानयन् सन्नरमत रेमे । अर्थान्तरे तु सकलगोकुलप्रियः समस्तगोसमूहप्रियः । अथवा गोकुलं नन्दादिगोपावासस्थानं तस्य प्रियः । इतः प्राप्तः कामतापः स्मरनिमित्तसन्तापो याभिस्तादृशा याः, सरसार्द्रधीगिरः, रसेनार्द्रा रसार्द्रा धियश्च गिरश्च धीगिरः । रसार्द्रा धीगिरो बुद्धिवचनानि, ताभिः सहिताः सरसार्द्रधीगिरः । इतकामतापाश्चताः सरसार्द्रधीगिरश्च तास्सुन्दरीर् मनोहरा गोपाङ्गना लालयन्मानयन् रमयन्निति भावः । स एष श्रीकृष्णो विकस्वरश्शोभमानो गुणो माधुर्याख्यगुणो यस्य सतथोक्तः स्वरः कूजितं येषां
तादृशा द्विजाः पक्षिणो यस्मिन् तस्मिन् स्फुरिते चन्द्रिकया विराजमाने वने
वृन्दावने चरन्नरमत ॥ २३ ॥
मन्दोपाकारिणी
स इति । सकलगोकुलप्रियः सकलाश्च ता गावः वेदादिरूपवाचस् तासां कुलस्य समूहस्य प्रियः प्रीतिविषयः मुख्यप्रतिपाद्य इति यावत् । एषः रामः । विकस्वरगुणस्वरद्विजे विकस्वराः शोभना गुणा भक्त्यादयः स्वरा वेदोच्चारणाङ्गभूता उदात्तादिस्वराः । गुणाश्च स्वराश्च, विकस्वरा गुणस्वरा येषां ते द्विजा यस्मिन् तत् तस्मिन् । स्फुरिते विराजमाने सवने विश्वामित्रयज्ञे चरन् आसक्तः विघ्ननिरासाय तत्र तत्र सञ्चरन् सन् सुन्दरीः रमणीयाः श्रोत्रप्रिया इतकामतापसरसार्द्रधीगिर इतः प्राप्तः कामः निर्विघ्नेन यज्ञनिष्पत्तिरूपो मनोरथो येन स इतकाम इतकामश्चासौ तापसः विश्वामित्रस् तस्य रसेन रागेण अनुरागेण स्नेहेनेति यावत् । ‘गुणे रागे द्रवे रसः’ इत्यमरः । ‘रागोऽनुरागे मात्सर्ये’ इति रत्नमाला च । आर्द्रा क्लिन्ना च सा धीश्च तथोक्ता गिरः वचनानि त्वत्प्रसादाद् अस्मद् यज्ञनिष्पत्तिर् अभूद् इत्यादिस्नेहपूर्वकवचनानि प्रतिलालयन् आदरं कुर्वन् अरमत । ‘रमु क्रीडायां लङ् आत्मनेपदम् अरमत अरमेताम् अरमन्त’ । कृष्णपक्षे तु सवने इत्यत्र भिन्नं पदम् । सः कृष्णः विकस्वरगुणस्वरद्विजे विकस्वरः शोभमानः गुणः माधुर्याख्यः यस्य सः विकस्वरगुणः स्वरः ध्वनिर्येषां ते विकस्वरगुणस्वरा द्विजाः पक्षिणः यस्मिन् तस्मिन् ‘दन्तविप्राण्डजा द्विजाः’ इत्यमरः । स्फुरिते चन्द्रचन्द्रिकया विराजिते वने वृन्दावने चरन् अरमत कथंभूतः, सकलगोकुलप्रियः सकलानां गवां धेनूनां कुलस्य प्रियः । यद्वा गोकुलशब्देन नन्दगोपावासस्थानम् उच्यते तेन च तद्गतजन्तवो ऽभिप्रेतास् ततश्च गोकुलानां प्रिय इत्यर्थः । पुनः किंभूतः, इतकामतापसरसार्द्रधीगिर इतः प्राप्तः कामतापः याभिस् ताः । रसेन स्नेहेन आर्द्रा क्लिन्ना च सा धीश्च तया स्नेहबुद्ध्या गीर्भिर् नर्मवचनैश्च सहिताः सरसार्द्रधीगिरः । इतकामतापाश्च ताः सरसार्द्रधीगिरश्च इति ताः । एवंभूताः सुन्दरीर् गोपाङ्गनाः ‘सुन्दरी रमणी रामा’ इत्यमरः, प्रतिलालयन् सुखयन् अरमत इति योजना ॥ २३ ॥
विश्वास-प्रस्तुतिः - २४
सहजान्वितः सकलमित्रसंयुतो मधुरां पुरीं जनकवल्लभां गतः ।
प्रविशन्निमां स जगदेकसुन्दरो नरनार्युदारनयनोत्सवोऽभवत् ॥२४॥
मूलम् - २४
सहजान्वितः सकलमित्रसंयुतो मधुरां पुरीं जनकवल्लभां गतः ।
प्रविशन्निमां स जगदेकसुन्दरो नरनार्युदारनयनोत्सवोऽभवत् ॥२४॥
भावप्रकाशिका
सकलमित्रसंयुतो विश्वामित्रयुतो गोपयुतश्च । भद्रां जनकरा-जवल्लभां मधुरां पितृप्रियाम् ॥ २४ ॥
पदार्थदीपिकोद्बोधिका
सहजेति ॥ सह, एकोदरे जातः सहजो लक्ष्मणस् तेनान्वितो युक्तः । सकलमित्रेण विश्वामित्रेण संयुतः । मधुरां रम्यां जनकवल्लभां विदेहराजप्रियां पुरीं मिथिलां गतः । इमां पुरीं प्रविशन् जगदेकसुन्दरः स रामो नरनारीणां, तत्पुरगतानामुदारनयनानामुत्कृष्टनयनानामुत्सव इव उत्सवो हर्षजनकोऽभवत् । अर्थान्तरं तु सहजान्वितो बलभद्रसंयुतः सकलमित्रैर्गौपैः संयुतो जनकस्य पितुर्वसुदेवस्य वल्लभां प्रियां मथुरां पुरीं गतः । इमां पुरीं प्रविशन् जगदेकसुन्दरः श्रीकृष्णो नरनार्युदारनय-नोत्सवोऽभवत् ॥ २४ ॥
मन्दोपाकारिणी
सहजेति ॥ सहजान्वितः लक्ष्मणेन युक्तः सकलमित्रसंयुतः सकलं विश्वं मित्रं सुहृद् यस्य स विश्वामित्रमुनिस् तेन संयुतः सहितः मधुरां मनोहरां जनकवल्लभां विदेहराजस्य प्रियां पुरीं मिथिलानगरीं ‘पूःस्त्रीपुरीनगर्यौ वा पत्तनं’ इत्यमरः, गतः प्राप्तः । इमां पुरीं प्रविशन् पुरमध्ये गच्छन् जगदेकसुन्दरः जगत्सु लोकेषु एकः मुख्यः सुन्दरः मनोहरः सः रामचन्द्रः नरनार्युदारनयनोत्सवः नरा नार्यश्च तासां मिथिलापुरगतानां जनानाम् उदाराणाम् उत्कृष्टानां नयनानां नेत्राणाम् उत्सवः हर्षजनको ऽभवत् । कृष्णपक्षे तु सहजेन बलरामेण अन्वितः सकलैर् मित्रैर् नन्दगोपादिभिः संयुतः जनकवल्लभां जनकस्य वसुदेवस्य प्रियां मधुरां तत्संज्ञां पुरीं ‘गोदा गोदावरी नद्यां मधुरा मथुरा पुरी’ इति विश्वः, गतः प्राप्तः । इमां प्रविशन् मधुरापुर्याम् अन्तर्गच्छन् जगदेकसुन्दरः सः श्रीकृष्णः नरनार्युदार-नयनोत्सवः मधुरागतनरनारीणाम् उदारनयनोत्सवो ऽभवत् ॥ २४ ॥
विश्वास-प्रस्तुतिः - २५
अथ खण्डितेश्वरधनुः स लीलया क्षपितोग्रसेननृपपुत्रपौरुषः ।
समुपास्य विप्रगुरुमब्जभूगुरुः स्वजनानमोदयदमेयतेजसा॥ २५ ॥
मूलम् - २५
अथ खण्डितेश्वरधनुः स लीलया क्षपितोग्रसेननृपपुत्रपौरुषः ।
समुपास्य विप्रगुरुमब्जभूगुरुः स्वजनानमोदयदमेयतेजसा॥ २५ ॥
भावप्रकाशिका
ईश्वरधनुः स्वयंवरानीतं कंसेन पूज्यमानं क्षपितमुग्रसेनानां नृपपुत्राणां पौरुषमनेन धनुर्भंगेन । क्षपित उग्रसेननृपपुत्रोऽपि येन तत्पौरुषमस्य कृष्णस्य । विप्रगुरुर्विश्वामित्रः सान्दीपनिश्च । अमेयेन च रूपतेजसा जरासन्धविजयादिना पराक्रमेण च ॥ २५ ॥
पदार्थदीपिकोद्बोधिका
अथेति ॥ अथ पुरप्रवेशानन्तरं लीलया खण्डितं भग्नम् ईश्वरधनुः, विदेहेन स्वयंवरार्थमानीतं शिवधनुर्येन तादृशः । अत एव उग्रा क्रूरा सेना येषां तादृशा ये नृपपुत्रास्तेषां पौरुषं पराक्रमः क्षपितं धनुर्भङ्गेन निरस्तमुग्रसेननृपपुत्रपौरुषं येन तादृशः । अब्जभूगुरुर्ब्रह्मगुरुः स श्रीरामो विप्रगुरुं विश्वामित्रं समुपास्य समीपे स्थित्वा, अमेयतेजसा अपरिमितसामर्थ्येन स्वजनान् लक्ष्मणादीनमोदयद् अतोषयत् । अर्थान्तरं तु अथ मधुराप्रवेशानन्तरं लीलया खण्डितमीश्वरधनुश्शिवेन कंसाय दत्तं धनुर्येन तादृशः । क्षपितमुग्रसेननृपपुत्रस्य पौरुषं येन तादृशः । निहतकंस इति यावत् । अब्जभूगुरुः श्रीकृष्णो विप्रगुरुं सान्दीपनिं समुपास्य, अमेयतेजसा जरासन्धादिजयरूपेणापरिमितसामर्थ्येन ‘तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु’ इत्यमरः, स्वजनान् वसुदेवादीन् अमोदयत् ॥ २५ ॥
मन्दोपाकारिणी
अथेति ॥ अथ पुरप्रवेशानन्तरं लीलया अलक्षीकृत्य इति यावत् । अनायासेनेति वा । खण्डितेश्वरधनुः खण्डितं द्वेधाकृतम् ईश्वरधनुर् ईश्वरस्य रुद्रस्य ‘ईश्वरः शर्व ईशानः’ इत्यमरः धनुश् चापः येन स तथोक्तः । विदेहराजेन राज्ञां बलपरीक्षार्थं स्वयंवराय अनीतं रुद्रधनुः रामेण भग्नम् इत्यर्थः । अत एव हेतोः क्षपितोग्रसेननृपपुत्रपौरुष उग्रा क्रूरा सेना चमूर् येषां ते उग्रसेनाः । नृपाणां राज्ञां पुत्राः कुमारा नृपपुत्राः । उग्रसेनाश्च नृपपुत्राश्च तेषां पौरुषं पुंस्त्वं ‘पुंभावे तत्क्रियायां च पौरुषं’ इत्यमरः, अहंकार इति यावत्, क्षपितं खण्डितम् उग्रसेननृपपुत्रपौरुषं येन स तथोक्तः । नृपपुत्रासाध्यधनुर्भङ्गकरणेन नृपपुत्राणाम् अहङ्कारो रामेण खण्डित इति भावः । अब्जभूगुरुर् अब्जात् कमलाद् भवति उत्पद्यते अब्जभूर् विरिञ्चस् तस्य गुरुः पिता ‘गुर्गीष्पति पित्राद्यौ’ इत्यमरः, सः रामः विप्रगुरुं विप्राणां ब्राह्मणानां गुरुम् उपदेशकर्तारं विश्वामित्रं समुपास्य संयोज्य विश्वामित्राज्ञाम् अङ्गीकृत्य, धनुर्भङ्गस्य कृतत्त्वेन विश्वामित्रसेवाकृता इति भावः । अमेयतेजसा अमेयम् अपरिमितं च तत् तेजः प्रभावश्च बलं वा अमेयतेजस् तेन । ‘तेजः प्रभावे दीप्तौ च बले शुक्रेऽपि’ इत्यमरः । अपरिमितेन शरीरबलेन इत्यर्थः । स्वजनान् स्वकीयजनान् लक्ष्मणादीन् अमोदयत् सन्तोषयामास । कृष्णपक्षे तु अथ मधुरप्रवेशानन्तरं लीलया अनायासेन खण्डितेश्वरधनुः कंसाय दत्तं रुद्रधनुः कृष्णेन भग्नमिति प्रसिद्धमेवेति भावः । क्षपितोग्रसेननृपपुत्रपौरुष उग्रसेननामकश्चासौ नृपश्च उग्रसेननृपस् तस्य पुत्र आत्मजः कंसस् तस्य पौरुषं पराक्रमः क्षपितं नाशितम् उग्रसेननृपपुत्रपौरुषं येन स तथोक्तः । निहतकंस इति यावत् । सः श्रीकृष्णो ऽब्जभूगुरुः सन्नपि विप्रगुरुं सान्दीपम् उपाध्यायं समुपास्य संसेव्य वेदादिकम् अधीत्य इति यावत् । अमेयतेजसा जरासन्धविजयादिरूपेण सामर्थ्येन । स्वजनान् वसुदेवादीन् । अमोदयत् । ‘मुद हर्षे इत्यतो ण्यन्ताद् लङ् परस्मैपदम्’ ॥ २५ ॥
विश्वास-प्रस्तुतिः - २६
कमलामयं कमलपत्रलोचनां भुवमागतां नृपसुतां गृहीतवान् ।
निजलीलया विजितराजशात्रवो मुदमापदाप्य पुरमब्धिदुर्गमम् ॥ २६ ॥
मूलम् - २६
कमलामयं कमलपत्रलोचनां भुवमागतां नृपसुतां गृहीतवान् ।
निजलीलया विजितराजशात्रवो मुदमापदाप्य पुरमब्धिदुर्गमम् ॥ २६ ॥
भावप्रकाशिका
नृपसुतां सीतां रुक्मिणीं च । राजशात्रवः परशुरामो राजान एव शात्रवाश्च । अब्धिवद्दुर्गममब्धिना दुर्गमं च ॥ २६ ॥
पदार्थदीपिकोद्बोधिका
कमलामिति ॥ अयं श्रीरामः कमलपत्रवल्लोचने यस्यास् तां नृपसुतां विदेहराजसुतां भुवमागतां भुव्यवतीर्णां कमलां रमारूपां सीतां गृहीतवान् विवाह-विधिनाऽङ्गीकृतवान् । ततः निजपुरं गच्छन्मार्गे निजलीलया आत्मलीलया विजितोऽज्ञ-दृष्ट्यपेक्षया पराजितो राज्ञां शात्रवः परशुरामो येन सः ‘द्वेष्टा वैरी च शात्रवः’ इति हलः । अब्धिवद्दुर्गमं गन्तुमशक्यं पुरम् अयोध्यापुरम् आप्य मुदमापत् प्राप । अर्थान्तरन्तु अयं श्रीकृष्णोऽपि कमलपत्रलोचनां नृपसुतां भीष्मकसुतां भुवमागतां कमलां रमारूपां रुक्मिणीं गृहीतवान् बलादपहृत्य स्वीकृतवान् । ततः स्वपुरं गच्छन्मार्गे निजलीलया विजिता राजाख्या रुग्मिजरासन्धादयश्शात्रवा येन तादृशस्सन् अब्धिदुर्गम् अब्धिना दुर्गमं पुरं द्वारकापुरम् आप्य मुदमापत् ॥ २६ ॥
मन्दोपाकारिणी
कमलामिति ॥ अयं रामः । कमलपत्रलोचनां कमलस्य पद्मस्य पत्रमिव लोचने यस्याः सा तथोक्ता तां नृपसुतां नृपस्य जनकस्य सुतां दुहितरं भुवम् आगतां प्राप्तां भूमौ अवतीर्णाम् इति यावत् । कमलां श्रियं ‘कमला श्रीर् हरिप्रिया’, इत्यमरः, गृहीतवान् उद्वाहितवान् सन् ततः स्वपुरम् आगच्छन् मार्गे निजलीलया स्वाभाविकक्रीडया विजितराजशात्रवः राज्ञां क्षत्रियाणां शात्रवः शत्रुः राजशात्रवः परशुरामः ‘दस्युशात्रवशत्रवः’ इत्यमरः, विजितो ऽज्ञदृष्ट्या पराभूतो राजशात्रवो येन स तथा सन् अब्धिदुर्गमम् अब्धिवत् समुद्रवद् दुर्गमं शत्रुभिः प्राप्तुम् अशक्यं पुरम् अयोध्यानगरं ‘अगारे नगरे पुरम्’ इत्यमरः, आप्य प्राप्य मुदं सन्तोषम् आपद् आप । ‘आप्लृ व्याप्तवित्यतो लुङ् परस्मैपदम् आपद् अपताम् आपन्’ । कृष्णपक्षे तु, अयं कृष्णः कमलपत्रलोचनां नृपसुतां भीष्मकराजसुतां भुवमागतां कमलां गृहीतवान् बलात्कारेण अपहृतवान् सन् निजलीलया विजितराजशात्रवः विजिता राजानः जरासन्धादिराजाख्याः शात्रवा येन स तथोक्तस्सन् अब्धिदुर्गमम् अब्धिना दुर्गमं पुरं द्वारकापुरम् आपद् इति योजना ॥ २६ ॥
विश्वास-प्रस्तुतिः - २७
स जगाम मातृजनतुष्टये किल त्वरितो(ऽ)वनं विदधदीप्सितं सताम् ।
सह भार्ययाऽपि शुभया महाजयध्वजलक्ष्मणाग्रयसुहृदा विना(ऽ)मुदा ॥ २७ ॥
मूलम् - २७
स जगाम मातृजनतुष्टये किल त्वरितो(ऽ)वनं विदधदीप्सितं सताम् ।
सह भार्ययाऽपि शुभया महाजयध्वजलक्ष्मणाग्रयसुहृदा विना(ऽ)मुदा ॥ २७ ॥
भावप्रकाशिका
स जगाम वनं स कृष्णः सतामवनं विदधत् । मातृजनः कैकेयी अदितिश्च । महाजयध्वजेन लक्ष्मणाख्येन अग्रयसुहृदा । अमुदा विना । महाविजयेन ध्वजचिह्नेन विना गरुडेन च ॥ २७ ॥
पदार्थदीपिकोद्बोधिका
स इति ॥ सताम् ऋष्यादीनामीप्सितं वाञ्छितं रावणनिग्रहादिकं विदधत्कुर्वन् स रामः मातृजनस्य तुष्टये सन्तोषाय कैकयीसन्तोषायेत्यर्थः । किलेत्यपरमार्थे । त्वरितो वेगवान् सन् शुभया भार्यया सीतया सह । महतो जयस्य ध्वज इव ध्वजः स चासौ लक्ष्मणश्च स चासौ अग्रयसुहृद् उत्तमसुहृत्तेनापि सह अत्रामुदेति पदच्छेदः । मुदो विरुद्धा अमुत्तया दुःखेनेत्यर्थः विना, राज्याभिषेकं विहाय वनं गच्छतोऽप्यस्य न दुःखमिति भावः । वनं जगाम । अर्थान्तरन्तु ईप्सितमात्मनोऽभीष्टं, सतामृष्यादीनामवनं रक्षणं विदधत्कुर्वन् स श्रीकृष्णः मातृजनतुष्टये नरकासुरहृतकुण्डलाया अदित्यास्तुष्टये शुभया शोभनया भार्यया सत्यभामयापि अग्रयसुहृदा उत्तमसुहृदा महा-जयार्थो ध्वजो महाध्वजस्तस्य लक्ष्मचिह्नभूतस्तेन ‘चिह्नं लक्ष्म च लक्ष्मणं’ इत्यमरः, विना पक्षिणा गरुडेन ‘विः पक्षिपरमात्मनोः’ इत्यमरः मुदा सन्तोषेण जगाम किल । नरकासुरेणोपद्रुतानां बदरिकाश्रमनिवासिनां मुनीनां रक्षां कर्तुमदितितुष्टये नरकवधार्थञ्च जगामेति भावः ॥ २७ ॥
मन्दोपाकारिणी
स इति ॥ सः रामः । मातृजनतृष्टये किल माता सापत्नजननी कैकेयी सैव जनः मातृजनस् तस्य तुष्टये प्रीत्यर्थं किल । त्वरितः वेगवान् सन् वनम् अरण्यं प्रति जगाम । किल इत्यनेन कैकयीप्रीतिर् वनं प्रति गमने मुख्यं प्रयोजनं न भवतीति सूच्यते । तर्हि मुख्यं प्रयोजनं किमित्यत आह ॥ विदधदिति ॥ सताम् ऋष्यादीनाम् ईप्सितम् अपेक्षितं रावणादिराक्षससंहारं विदधत् कुर्वन् चिकीर्षुस्सन् इति यावत् । अनेन राक्षसनिग्रह एव मुख्यं प्रयोजनं वनप्रवेशे इत्युक्तं भवति । कथं जगाम, शुभया पतिव्रतया भार्यया पत्न््नया सीतया सह । तथा महाजयध्वजलक्ष्मणाग्रयसुहृदापि महाजयः शत्रुविजयः यस्मात् स महाजयस् तादृशः ध्वजः केतनं यस्य सः महाजयध्वजः ‘केतनं ध्वजमस्त्रियां’ इत्यमरः । जयसंपादकध्वजस्तंभवान् इति यावत् । पादयोर् महाजयप्रदध्वजरेखावानिति वा । महाजय-ध्वजश्चासौ लक्ष्मणश्च महाजयध्वजलक्ष्मणः । अग्रय उत्तमश्चासौ सुहृत् सखा च अग्रयसुहृत् । महाजयध्वजलक्ष्मणाख्यश्चासौ अग्रयसुहृच्च इति तथोक्तः । तेन सह सार्धम् अत्र अमुदेति पदच्छेदः । अमुदा दुःखेन विना, राज्याभिषेकविषयकदुःखं विहाय सीतालक्ष्मणाभ्यां सह वनं जगाम इति भावः । कृष्णपक्षे तु त्वरितो वनमित्यत्र अवनम् इति पदच्छेदः । विना मुदेत्यत्र मुदेत्येव पदम् । इप्सितं स्वाभीष्टं सताम् ऋष्यादीनाम् अवनं रक्षणं विदधत् कुर्वन् सः कृष्णः मातृजनतुष्टये माता देवमाता अदितिः सैव जनः मातृजनस् तस्य तुष्टये प्रीतये मुदा सन्तोषेण जगाम किल प्रतस्थे खलु । बदरिकाश्रमवासिनां मुनीनां नरकासुरेण उपद्रुतानां रक्षां कर्तुं नरकासुरेण अपहृतकुण्डलाया अदित्याः प्रीतये च नरकवधार्थं जगाम इति भावः । कथं शुभया साध्व्या भार्यया सत्यभामयापि सह अग्रयसुहृदा उत्तममित्रेण महाजयध्वजलक्ष्मणा महाजयस्य महाजयवतः ध्वजस्य रथमध्यस्तंभस्य लक्ष्म चिह्नं तेन श्रीकृष्णस्य रथध्वजभूतेन इत्यर्थः । विना पक्षिणा गरुडेन सह सत्यभामया सह गरुडम् आरुह्य प्रायादिति भावः ॥ २७ ॥
विश्वास-प्रस्तुतिः - २८
समतीतपर्वतपुरोगदुर्गमः खरदूषणादिसुजनद्विषो बहून् ।
स निहत्य विश्वभयदं सुदुस्सहं नरकं महातम उपानयत्क्रमात् ॥ २८ ॥
मूलम् - २८
समतीतपर्वतपुरोगदुर्गमः खरदूषणादिसुजनद्विषो बहून् ।
स निहत्य विश्वभयदं सुदुस्सहं नरकं महातम उपानयत्क्रमात् ॥ २८ ॥
भावप्रकाशिका
पर्वतादिदुर्गमस्थानानि गिरिदुर्गादीनि च । खरदूषणादीन् राक्षसान् विनिहत्य महातमो नरकमनयत् । क्रूरदोषानादिदैत्यान् मुरादीन्निहत्य नरकदैत्यं च महातमोऽनयत् ॥ २८ ॥
पदार्थदीपिकोद्बोधिका
समतीतेति ॥ स श्रीरामः पर्वताश् चित्रकूटादयः पुरोगा मुख्या येषां तादृशा दुर्गमा दुर्गमप्रदेशाः । समतीता अतिक्रान्ताः पर्वतपुरोगदुर्गमा येन तादृशः सन् बहून्, खरश्च दूषणश्च तावादी येषां तादृशा ये सुजनद्विषः सज्जनद्वेषिणस्तान्निहत्य क्रमात् प्रारब्धभोगानन्तरमिति भावः । विश्वस्य समस्तजगतो भयदं श्रवणमात्रेण भयप्रदं सुदुःसहं नित्यं दुःखरूपत्वादतिदुःसहं महातमस् तत्सञ्ज्ञकं नरकं नित्यनरकं ‘नरकौ दैत्यनिरयावि’ति हेमचन्द्रः, उपानयत् प्रापयामास । अर्थान्तरन्तु–पर्वताः पुरोगा ये दुर्गमा नरकासुरपुरावरणभूतजलमौरपाशादिभिरावृतत्त्वेन गन्तुमशक्याः समतीताः पर्वतपुरोगदुर्गमा येन स श्रीकृष्णः बहून् , खराणि क्रूराणि दूषणानि दोषा येषां तादृशा य आदिसुजनाः, आदौ पूर्वं सु जननं येषां तादृशा ये द्विषो देवद्विषो मुरादिदैत्यास्तान्निहत्य क्रमान्नरकासुरमपि निहत्य विश्वभयदं सुदुःसहं महातमोऽन्धंतमोऽनयत् ॥ २८ ॥
मन्दोपाकारिणी
समतीतेति ॥ सः रामः समतीतपर्वतपुरोगदुर्गमः पर्वतश् चित्रकूटपर्वतः पुरोग आदिर् यस्य तत् पर्वतपुरोगं तच्च तद् दुर्गमं गन्तुमशक्यं स्थानं च समतीतं सम्यक् अतिक्रान्तं पर्वतपुरोगदुर्गमं येन स तथोक्तः सन्, बहून् खरदूषणादिसुजनद्विषः खरः खरनामकश्च दूषणः दूषणनामकश्च खरदूषणौ तौ आदी पूर्वौ येषां ते खरदूषणादयः सुजनानाम् ऋष्यादिसज्जनानां द्विषः द्वेषिणः खरदूषणादयश्च ते सुजनद्विषश्च तान् निहत्य क्रमात् प्रारब्धकर्मभोगानन्तरम् इति भावः । महातमः महातमनामकं नरकं दुर्गतिं ‘स्यान्नारकस्तु नरको निरयो दुर्गतिस्त्रियाम्’ इत्यमरः, उपानयत् प्रापयामास । ‘उप पूर्वात् णीञ् प्रापण इत्यस्माद् लङ् परस्मैपदम् अनयद् अनयताम् अनयन्’ । कथंभूतं नरकं, विश्वभयदं विश्वेषां सर्वेषां श्रवणमात्रेण भयं ददातीति विश्वभयदस् तम् । सुदुस्सहम् अतिदुःखरूपत्वात् सर्वथा सोढुमशक्यम् । कृष्णपक्षे तु समतीतपर्वतपुरोगदुर्गमः नरकपुरस्य आवरणानि पर्वतजलपाशात्मकानि दुर्गाणि अतीत्य इत्यर्थः, सः कृष्णः खरदूषणादि-सुजनद्विषः क्रूराणि दूषणानि विष्णुवैष्णवद्वेषादिदोषा येषां ते आदय आदिकालीनाश्च ते सुजनद्विषः मुरादिदैत्याश्च तान् नरकमपि क्रमान् निहत्य विश्वभयदं सुदुःसहं महातमो ऽन्धंतम उपानयद् अन्धंतमःसाधनविष्णुद्वेषादिदोषत्वादेव नरकादीन् अन्धंतमः प्रापयामास इति भावः ॥ २८ ॥
विश्वास-प्रस्तुतिः - २९
रुचिराश्रमाजिरचिताग्रयतेजसा प्रियया प्रियो भुवनमान्यया समम् ।
भृशमाकुलीकृतमदप्रमादवत्सुरपारिजातहृदवाप धाम सः॥ २९ ॥
मूलम् - २९
रुचिराश्रमाजिरचिताग्रयतेजसा प्रियया प्रियो भुवनमान्यया समम् ।
भृशमाकुलीकृतमदप्रमादवत्सुरपारिजातहृदवाप धाम सः॥ २९ ॥
भावप्रकाशिका
सुन्दराश्रमप्राङ्गणसंबद्धतेजसा सीतया । आश्रमाजौ रचितो-रुपराक्रमया सत्यया च । आकुलीकृतसुरपालकारिसमूहहृत् । सुराणां पारिजातहृत् । धाम तेजो गृहं च ॥ २९ ॥
पदार्थदीपिकोद्बोधिका
रुचिरेति ॥ भृशम् अतितराम् आकुलीकृतं युद्धे स्वात्मना व्याकुलीकृतम् मदश्च प्रमादो विस्मरणं स च तौ अस्य स्त इति मदप्रमादवत्तादृशं यत्, सुरान् पातीति सुरपः पुरन्दरस्तस्यारिजातं शत्रुसमूह आकुलीकृतं मदप्रमादवत्सुरपारिजातं हरतीति तादृशः । प्रियः स्वभक्तप्रियः स श्रीरामः रुचिराश्रमस्य शोभनाश्रमस्य अजिरे प्राङ्गणे चितं सम्बद्धम् अग्रयतेज उत्तमतेजो यस्याः ‘अङ्गणं चत्वराजिरे’ इत्यमरः, तया भुवनमान्यया प्रियया सीतया समं धाम तेजः ‘धामनी गृह तेजसी’त्यमरो ऽवाप । अर्थान्तरं तु भृशं मद ऐश्वर्यादिमदः, प्रमादो ऽयं ‘श्रीकृष्णोऽस्मत्स्वामी नारायण’ इत्येतद्विस्मरणं, तावेषां स्त इति मदप्रमादवन्तस् ते च ते सुराश्च । आकुलीकृताः पारिजातोद्धारेणात्मना व्याकुलीकृता मदप्रमादवत्सुराश्च तेषां पारिजातं हरतीति तादृशः । प्रियः स्वभक्तप्रियो ऽसुराविष्टान् इन्द्रादीन् विबोध्य तेषां प्रियो भूत्वेति भावः । स श्रीकृष्णः रुचिरा शोभमानाऽऽश्रमा श्रमरहिता आजिर् युद्धं तस्यां पारिजातापहरणसमये देवैः सह क्रियमाणयुद्धे रचितं प्रकटितम् अग्रयतेज उत्तमसामर्थ्यं यस्यास्तया भुवनमान्यया प्रियया सत्यभामया समं साकं धाम द्वारकाख्यं गृहमवाप ॥ २९ ॥
मन्दोपाकारिणी
रुचिरेति ॥ भृशम् अत्यर्थम् आकुलीकृतमदप्रमादवत्सुरपारिजातहृद् आकुलीकृतं व्याकुलीकृतं मद ऐश्वर्यादिना जातः गर्वः ‘मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः’ इति विश्वः, प्रमादो ऽनवधानता कर्तव्यविषये विस्मरणम् इति यावत्, ‘प्रमादोऽनवधानता’ इत्यमरः मदप्रमादौ अस्य स्त इति मदप्रमादवत् तादृशं यत्सुरपारिजातं सुरान् पातीति सुरपः देवेन्द्रस् तस्य अरयः शत्रवः ‘दनुजेन्द्रारिदानवाः’ इत्यमरः खरदूषणादिराक्षसास् तेषां जातं समूहः ‘जातं जात्योघजन्मसु’ इति विश्वः, आकुलीकृतं च तन् मदप्रमादवच् च तत् सुरपारिजातं च इति तत्तथोक्तं तत् हृत् संहृतवानिति । प्रियः भक्तप्रीतिविषयः श्रीरामः रुचिराश्रमाजिरचिताग्रयतेजसा रुचिरश् चारुश्चासौ आश्रमश्च पञ्चवट््याख्यस्थलमित्यर्थः, तस्य अजिरे अङ्गणे ‘अङ्गणञ्चत्वराजिरे’ इत्यमरः, चितं सम्बद्धम् अग्रयं बहुलं तेजः कान्तिर् यस्यास् तया भुवनमान्यया भुवनेषु पूज्यया प्रियया भार्यया सीतया समं साकं धाम शोभाम् अवाप प्राप्तवान् । ‘गृह देह त्विट् प्रभावा धामानि’ इत्यमरः । रामचन्द्रः खरदूषणादिराक्षसान् निहत्य पञ्चवट्याख्याश्रमे विराजमानया सीतया शुशुभे इति भावः । कृष्णपक्षे तु आकुलीकृतमदप्रमादवत्सुरपारिजातहृद् आकुलीकृताश्च ते मदप्रमादवन्तः नारायणविस्मरणरूपप्रमादवन्तश्च ते सुराश्च तेषां पारिजातं वृक्षं हृतवान् अपहृतवान् इति हृत् । स कृष्णः प्रियः देवानां स्वस्वरूपज्ञापनेन प्रीतिविषय-स्सन् रुचिराश्रमाजिरचिताग्रयतेजसा न विद्यते श्रम आयासः यस्यां सा आश्रमा सा च सा आजिर् युद्धं रुचिरा मनोहरा च सा अश्रमाजिश्च ‘समित्याजिसमिद्युधः’ इत्यमरः, तस्यां रचितम् अग्रयम् अतिशयितं तेजः सामर्थ्यं यया सा तथोक्ता तया । पारिजातहरणसमये देवैः सह अश्रमेणैव युद्धं कृत्वा स्वसामर्थ्यं प्रकटितवत्या इत्यर्थः, भुवनमान्यया प्रियया सत्यभामया समं धाम गृहं द्वारकापुरम् अवाप । नरकासुरं हत्वा स्वर्गं गत्वा पारिजातवृक्षहरणसमये स्वस्वरूपाज्ञानेन युद्धं कुर्वाणानां देवानां स्वस्वरूपं ज्ञापयित्वा तेषां प्रीतिविषयस्सन् कृष्णः सत्यभामया सह द्वारवतीं पुरीं प्राप इति भावः ॥ २९ ॥
विश्वास-प्रस्तुतिः - ३०
हरितामधीशनरदेवमण्डलं दशकं विजित्य परभीषणं मुहुः ।
स्फुरितामिह प्रियतमां निजश्रियं भगवानुपैक्षत हरन्तमप्रियम् ॥ ३० ॥
मूलम् - ३०
हरितामधीशनरदेवमण्डलं दशकं विजित्य परभीषणं मुहुः ।
स्फुरितामिह प्रियतमां निजश्रियं भगवानुपैक्षत हरन्तमप्रियम् ॥ ३० ॥
भावप्रकाशिका
निजां श्रियं सीतां हरन्तं दशकं दशाननं हरितामधीशानां नराणां मण्डलं विजित्य परभीषणम् अन्यभयङ्करम् । निजानां पाण्डवानां श्रियं हरन्तं सुयोधनम् । हरितां दशकम् । अधिकेशनरदेवसमूहं विजित्य स्फुरिताम् ॥ ३० ॥
पदार्थदीपिकोद्बोधिका
हरितामिति ॥ भगवान् श्रीराम इहाश्रमे स्फुरितां विलसितां निजश्रियं स्वकीयश्रीरूपां सीतां हरन्तमप्रियं शत्रुं हरितां दिशाम् अधीशा ये नराश्च देवाश्च तेषां मण्डलं समूहं मुहुर्विजित्य परेषामन्येषां शत्रूणां वा भीषणं भयङ्करं दश कानि शिरांसि यस्य तं रावणमुपैक्षत न निरुद्धवान् । अर्थान्तरन्तु— भगवान् श्रीकृष्णो हरितां दिशां दशकं दश विजित्य परेषां शत्रूणां भीषणम् अधीशा अधिकैश्वर्यवन्तो ये नरदेवा राजानस्तेषां मण्डलं समूहं विजित्य, इह इन्द्रप्रस्थे स्फुरितां प्रियतमाम् अतिशयेन प्रियां निजश्रियं स्वकीयपाण्डवसम्पदं ‘स्वभक्तानामधिकैश्वर्यं हि भगवत्प्रियं, तद्भोगोऽप्यतीव हरितोषणं’ इति वचनात् । हरन्तं द्यूतेनापहरन्तम् अत एव अप्रियं सुयोधनमुपैक्षत ॥ ३० ॥
मन्दोपाकारिणी
हरितामिति ॥ भगवान् राम इह पञ्चवट्याख्यस्ववासस्थले स्फुरितां विलसितां प्रियतमाम् अतिशयेन प्रियां प्रीतिविषयां निजश्रियं निजा च सा श्रीर् लक्ष्मीरूपा सीता च ताम् । हरन्तं नीतवन्तम् अप्रियम् अहितं शत्रुम् इत्यर्थः, ‘द्विडि्वपक्षाहि-तामित्रदस्युशात्रवशत्रवः’ इत्यमरः दशकं दशसङ्ख्याकानि शिरांसि यस्य सस् तं रावणं ‘कं शिरो जलमाख्यातं’ इति वररुचिर् उपैक्षत न निरोधं कृतवान् । ‘उप पूर्वाद् ईक्ष दर्शने लङ् आमनेपदम् ऐक्षत ऐक्षेताम् ऐक्षन्त’ । किम्भूतं, हरितां दिशाम् अधीशनरदेवमण्डलम् अधीशाः स्वामिनश्च ते नरदेवा राजानश्च हरितामधीशा दिक्पालकाः । नरदेवा नृपाश्च इति द्वन्दो वा तेषां मण्डलं समूहं ‘पूगो वितानं प्रकरो मण्डलं चक्रवालकं’ इत्यमरः, मुहुः पुनः विजित्य पराभूय परभीषणम् अन्येषां भयङ्करम् । कृष्णपक्षे तु भगवान् श्रीकृष्णः निजश्रियं निजानाम् आत्मीयानां पाण्डवानां ‘निजमात्मीयनित्ययोः’ इति विश्वः, श्रियं राज्यसंपत्तिं ‘संपत्तिः श्रीश्च लक्ष्मीश्च’ इत्यमरः, हरन्तं द्यूतव्याजेन अपहरन्तम् अप्रियम् अप्रीतिविषयं दुर्योधनम् उपैक्षत । कथंभूतां श्रियं, हरितां दिशां दशकं दशदिश इति यावद् विजित्य स्ववशीकृत्य परभीषणं शत्रूणां भीषणं भयङ्करं ‘परोरिपरमात्मनोः’ इति विश्वः । अधीशनर-देवमण्डलम् अधीशा अधिकैश्वर्ययुक्तास् ते च ते नरदेवाश्च तेषां मण्डलं च विजित्य आनी-ताम् । इह इन्द्रप्रस्थाख्ये पाण्डवानां पुरे स्फुरिताम् अत्यन्तं विलसितां प्रियतमाम् आत्मनः प्रियां ‘स्वभक्तानाम् ऐश्वर्यं हि भगवत्प्रियं तद्भोगोऽपि अतीव हरितोषणं’ इत्युक्तेः ॥ ३० ॥
विश्वास-प्रस्तुतिः - ३१
अभिवन्दितः पवननन्दनादिभिः स कदाचिदिन्द्रसुतवर्धको गवा ।
निजराज्यमात्मदयिताय दत्तवान् हरिसूनवे हतविपक्षमुत्तमम् ॥ ३१ ॥
मूलम् - ३१
अभिवन्दितः पवननन्दनादिभिः स कदाचिदिन्द्रसुतवर्धको गवा ।
निजराज्यमात्मदयिताय दत्तवान् हरिसूनवे हतविपक्षमुत्तमम् ॥ ३१ ॥
भावप्रकाशिका
पवननन्दनो हनुमान् भीमश्च । गवा इन्द्रसुतवर्धकः शरेण वालिच्छेदकः । वाचाऽर्जुनाप्ययकश्च । हरिसूनवे सुग्रीवाय युधिष्ठिराय च । दयिताया दयितानां च ॥ ३१ ॥
पदार्थदीपिकोद्बोधिका
अभीति ॥ पवननन्दनादिभिर् हनुमदादिवानरैर् ऋष्य-मूकेऽभिनन्दितः स श्रीरामः कदाचिद् गवा बाणेन ‘वज्रवाग्बाणवारिषु भूमौ पशौ च गोशब्दः’ इति हलः । इन्द्रसुतवर्धको वालिच्छेदकः सन्नात्मदयिताय स्वप्रियाय हरिसूनवे सूर्यपुत्राय ‘अर्कमर्कटमण्डूकविष्णुवासववायवः । तुरङ्गसिंहशीतांशुयमाश्च हरयो दश’ इति हलः, सुग्रीवाय । हतो विपक्षः शत्रुर्यस्मिंस्तदुत्तमं निजं सुग्रीवस्य विद्यमानं राज्यं दत्तवान् । अर्थान्तरन्तु — पवननन्दनादिभिर् भीमार्जुनादिभिरभिनन्दितो ऽज्ञातवासमतीत्य उपप्लाव्ये दृष्ट्वा सन्तोषितः स श्रीकृष्णः कदाचिद् गवा गीतावाचा, इन्द्रसुतवर्धकोऽर्जुनस्याप्यायकः सन् पापबुद्ध्या युद्धान्निवृत्तमपि गीतात्मिकया वाचा विबोध्य युद्धोन्मुखं कुर्वन् सन्निति भावः । आत्मदयिताय हरिसूनवे यमपुत्राय युधिष्ठिराय । हता विपक्षा धार्तराष्ट्रादिशत्रवो यस्मिन् तदुत्तमं निजं राज्यं दत्तवान् ॥ ३१ ॥
मन्दोपाकारिणी
अभीति ॥ पवननन्दनादिभिः पवनस्य वायोर् नन्दनः सुतः हनुमान् आदिः पूर्वो येषां ते तथोक्ताः कपयस् तैर् हनुमदादिवानरैर् अभिवन्दित ऋष्यमूकपर्वते नमस्कृतः सः रामः कदाचित् कालविशेषे गवा बाणेन । ‘अर्जुनीनेत्रदि-ग्बाणभूवाग्वारिषु गौर्मता’ इति विश्वः । इन्द्रसुतवर्धकः वालिच्छेदकः सन् । ‘वर्धनं छेदनेऽथ द्वे’ इत्यमरः । आत्मदयिताय स्वस्य दयिताय सख्ये । हरिसूनवे हरेः सूर्यस्य ‘यमानि-लेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु’ इत्यमरः सूनवे सुग्रीवाय । हतविपक्षं हतः विपक्षः शत्रुर् वाली यस्मिन् तत् । उत्तमं समृद्धं निजराज्यं निजानां स्वकीयानां कपीनां राज्यं राजत्वं दत्तवान् । सीताहरणानन्तरं राम ऋष्यमूकपर्वते हनुमदादीन् दृष्ट्वा सुग्रीवसख्यं संपाद्य सुग्रीवशत्रुं वालिनं हत्वा सुग्रीवाय कपिराज्यं प्रददौ इति भावः । कृष्णपक्षे तु पवननन्दनादिभिर् भीमसेन एव आदिर् येषां धर्मादीनां ते तथोक्तास् तैः पाण्डवैर् अभिवन्दितः सः कृष्णः कदाचिद् युद्धकाले गवा भगवद्गीतारूपया वाचा । इन्द्रसुतवर्धको ऽर्जुनस्य वर्धकः प्रबोधं कुर्वन् सन् । ‘वर्ध छेदनपूरणयोः’ इति धातोः । आत्मदयिताय आत्मनः प्रियाय । हरिसूनवे यमपुत्राय युधिष्ठिराय । हतविपक्षं हतः दुर्योधनादिर् विपक्षः यस्मिन् तत् । निजराज्यं दत्तवान् दुर्योधनेन पाण्डवराज्यापहरणानन्तरम् उपप्लाव्यनगरं प्राप्तैः पाण्डवैः स्वयं तत्र गत्वा वन्दितः सन् पापबुद्ध्या युद्धान् निवर्तितम् अर्जुनं गीतारूपवाचा प्रबोध्य युद्धोन्मुखं कृत्वा तद्धस्तेन दुर्योधनादीन् निहत्य धर्मराजाय राज्यं ददौ इति भावः ॥ ३१ ॥
विश्वास-प्रस्तुतिः - ३२
मुदमाप्य तत्र दयितोरुवार्तया मधुहा मरुत्सुतमुखप्रवृत्तया ।
हरितिग्मचक्रलसितोऽब्धिमध्यगं प्रययौ स पुण्यजनसेवितं पुरम् ॥ ३२ ॥
मूलम् - ३२
मुदमाप्य तत्र दयितोरुवार्तया मधुहा मरुत्सुतमुखप्रवृत्तया ।
हरितिग्मचक्रलसितोऽब्धिमध्यगं प्रययौ स पुण्यजनसेवितं पुरम् ॥ ३२ ॥
भावप्रकाशिका
उरुवार्तया मरुत्सुतमुखेन प्रवृत्तया मरुत्सुतादिप्रवृत्तया च । हरि-तिग्मचक्रं वानरतीक्ष्णसैन्यं रविवत्तीक्ष्णचक्रं सुदर्शनं च । राक्षसाः पुण्यजनाश्च ॥ ३२ ॥
पदार्थदीपिकोद्बोधिका
मुदमिति ॥ तत्र, ऋष्यमूकपर्वते स्थित एव मधुहा स श्रीरामः । मरुत्सुतस्य हनुमतो मुखेन प्रवृत्तया उक्तयेत्यर्थः । दयितायाः सीताया उरुवार्तया मुदमाप्य हरीणां कपीनां तिग्मचक्रेण तीक्ष्णसैन्येन लसितः शोभितस्सन् । ‘चक्रं सैन्ये जलावर्ते रथाङ्गे चयराष्ट्रयोः । संसारे मण्डले वृत्ते छद्मवेदास्त्रभेदयोरि’ति यादवः । अब्धिमध्यं समुद्रमध्यं गच्छतीति तादृशं पुण्यजनसेवितं राक्षससेवितं ‘रक्षःसन्तौ पुण्यजनावि’त्युक्तेः पुरं लङ्कां प्रययौ । अर्थान्तरं तु मधुहा श्रीकृष्णस् तत्र उपप्लाव्ये मरुत्सुतमुखप्रवृत्तया भीममुखप्रोक्तया युधिष्ठिरभीमार्जुनादिभिर् अज्ञातवासे प्रवृत्तयेति भावः । दयितोरुवार्तया प्रियपाण्डवानां कीचकनिग्रहाद्युदन्तेन ‘वार्ताप्रवृत्तिवृत्तान्त उदन्तः स्यादथाह्वयः’ इत्यमरः मुदं सन्तोषं प्राप्य हरितिग्मचक्रलसितः, सूर्यवत्तीक्ष्णसुदर्शनेन लसितोऽब्धिमध्यगं पुण्यजनसेवितं पवित्रजनसेवितं पुरं द्वारकं प्रययौ । पार्थान् उपप्लाव्ये संस्थाप्य स्वयं द्वारकां प्रययौ इति भावः ॥ ३२ ॥
मन्दोपाकारिणी
मुदमिति ॥ मधुहा तन्नामकदैत्यं हन्तीति । ‘चैत्रवसन्त-मधुद्रुमदैत्यविशेषेषु पुंसि मधुशब्दः’ इति रत्नमाला । सः रामस् तत्र ऋष्यमूकपर्वते स्थित एव । मरुत्सुतमुखप्रवृत्तया मरुतः वायोः सुतस्य हनुमतः मुखेन वदनेन प्रवृत्तया उक्तया । दयितोरुवार्तया दयितायाः प्रियायाः सीताया उरुवार्तया उर्वी च सा वार्ता वृत्तान्तश्च तया । मुदं सन्तोषम् आप्य लब्ध्वा । हरितिग्मचक्रलसितः हरीणां वानराणां तिग्मं तीक्ष्णं चक्रं सैन्यं तेन लसितः शोभमानः परिवृत इति यावत् । ‘चक्रं सैन्यरथाङ्गयोः’ इति विश्वः । अब्धिमध्यगम् अब्धेः समुद्रस्य मध्ये गच्छतीति अब्धिमध्यगं पुण्यजनसेवितं पुण्यजनैः राक्षसैः सेवितम् आश्रितं ‘यातुधानः पुण्यजनो नैरुतो यातुरक्षसी’ इत्यमरः पुरं लङ्कानामकं नगरं प्रययौ । सुग्रीवराज्यदानानन्तरं सीतान्वेषणं कृत्वा आगतहनुमदुक्तं सीताया लङ्कापुरिस्थि-तस्वरूपवृत्तान्तं श्रुत्वा कपिसैन्ययुतः रामः लङ्कां जगाम इति भावः । कृष्णपक्षे तु, तत्र उपप्लाव्यनगरे स्थितः । मरुत्सुतमुखप्रवृत्तया मरुत्सुतः भीमसेनः स एव मुखम् आदिर् येषां ते मरुत्सुतमुखा अर्जुनादयस् तैः प्रवृत्तया अज्ञातवासे कृतया । दयितोरुवार्तया दयितानां स्वप्रियाणां पाण्डवानाम् उर्व्या अद्भुतया वार्तया कीचकनिग्रहादिरूपवृत्तान्तेन । ‘वार्ताप्रवृत्तिर्वृत्तान्तः’ इत्यमरः मुदं सन्तोषम् आप्य । मधुहा सः कृष्णः । हरितिग्मचक्रलसितः हरिवत् सूर्यवत् तिग्मेन तीक्ष्णेन चक्रेण सुदर्शनायुधेन लसितः विराजमानः सन् । अब्धिमध्यगं समुद्रमध्यस्थितं पुण्यजनसेवितं पुण्याः पवित्राश्च ते जनाश्च ऋष्यादयस् तैः सेवितं पुरं द्वारावतीपत्तनं प्रययौ ॥ ३२ ॥
विश्वास-प्रस्तुतिः - ३३
पृथुकुम्भकर्णगजराजमुद्धतं ससहोदरं सविबुधेन्द्रशात्रवम् ।
धरणीभरं पृथुलचक्रमक्षिणोन्निशितेषुचक्रकृतविक्रमः प्रभुः॥ ३३ ॥
मूलम् - ३३
पृथुकुम्भकर्णगजराजमुद्धतं ससहोदरं सविबुधेन्द्रशात्रवम् ।
धरणीभरं पृथुलचक्रमक्षिणोन्निशितेषुचक्रकृतविक्रमः प्रभुः॥ ३३ ॥
भावप्रकाशिका
कुंभकर्णाख्यगजराजमक्षिणोत् । ससहोदरं सरावणं सेन्द्रजितं पृथुसैन्यं भुवो भारायितं धरणीभरं पुथुसैन्यं च कृष्णः पुथुमस्तककर्णगजराजं ससहः सौजस्कम् । अदरं निर्भयं सदैत्यम् । इषूणां चक्रेण इषुभिश्चक्रेण च ॥ ३३ ॥
पदार्थदीपिकोद्बोधिका
पृथ्विति ॥ निशिता इषवः शरास्तेषां चक्रेण समूहेन कृतो विक्रमः पराक्रमो येन तादृशः प्रभुः स श्रीरामः । उद्धतं बलादिमदोद्धतम् । सहोदरेण ज्येष्ठेन रावणेन सहितं ससहोदरम् । विबुधेन्द्रस्य पुरन्दरस्य शात्रवश्शत्रुरिन्द्रजित् तेन सहितं सविबुधेन्द्रशात्रवम् । धरणीभरं भूभारायितम् । पृथुलं बहु चक्रं सैन्यं यस्य तम् । पृथुः स्थूलो यः कुम्भकर्णः स एव गजराजो गजश्रेष्ठस् तम् अक्षिणोज् जघान । अर्थान्तरन्तु निशितेषवो निशितशरास् ते च, चक्रं सुदर्शनं तच्च, निशितेषुचक्राणि तैः कृतो विक्रमो येन तादृशः । अर्जुनादिषु स्थितेन रूपेण इषुभिः कृतविक्रमः, स्वयं तु भीष्मं प्रति चक्रेण कृतविक्रम इति भावः । प्रभुः स श्रीकृष्णः । कुम्भाः कुम्भस्थलानि कर्णाश्च, पृथवोऽतिस्थूलाः कुम्भकर्णा येषां तादृशा गजराजा यस्मिंस्तद् उद्धतम् । सहसा सहितं ससहः । न विद्यते दरो भयं यस्य तद् अदरं, अभ्यापततः शत्रून् दृष्ट्वापि भयरहितमित्यर्थः । ‘दरस्त्रासश्च साध्वसं’ इति हलः । भुवि नृपादिरूपेण जातैर्विबुधेन्द्राणां शात्रवैः शत्रुभिर्दैत्यैः सहितं सविबुधेन्द्रशात्रवम् । अत एव धरणीभरं भूभारभूतं पृथुलचक्रं महत्कौरवसैन्यमक्षिणोज् जघान ॥ ३३ ॥
मन्दोपाकारिणी
पृथ्विति ॥ प्रभुः समर्थो रामः । निशितेषुचक्रकृतविक्रमः सन् निशितास् तेजिताश्च ते इषवः शराश्च ‘रुक्णं भुग्नेऽथ निशितक्ष्णुतशातानितेजिते’ इत्यमरः निशितेषूणां चक्रेण गणेन ‘चक्रो गणे चक्रवाके चक्रं सैन्यरथाङ्गयोः’ इति विश्वः । कृतः व्यक्तीकृतः विक्रमः पराक्रमः येन स तथोक्तः । ‘शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता’ इत्यमरः । धरिणीभरं धरिण्या धरित्र्या भरं भारायमाणं ‘भरोऽतिशयभारयोः’ इति विश्वः पृथुलचक्रं बहुलराक्षससैन्यं ‘वरूथिनी बलं सैन्यं चक्रं चानीकमस्त्रियां’ इत्यमरो ऽक्षिणोत् संहृतवान् । कथंभूतं, पृथुकुम्भकर्णगजराजं पृथुः स्थूलकायः स चासौ कुम्भकर्णश्च स एव गजराजः कुञ्जरश्रेष्ठः यस्मिन् तत् । उद्धतं दृप्तं ससहोदरं सहोदरेण कुम्भकर्णभ्रात्रा रावणेन सहितम् । सविबुधेन्द्रशात्रवं विबुधानाम् इन्द्रस् तस्य शात्रव इन्द्रजित् तेन सहितम् । कृष्णपक्षे तु प्रभुः कृष्णः । निशितेषुचक्रकृतविक्रमः निशितेषुभिश् चक्रेण सुदर्शनेन च कृतविक्रमस्सन् धरणीभरं भूभारं पृथुलचक्रं बहुसैन्यम् । अक्षिणोत् संहृतवान् । कथंभूतं चक्रम् । पृथुकुम्भकर्णगजराजं कुम्भवद् घटवत् कर्णौ येषां ते कुम्भकर्णास् ते च ते गजराजाश्च पृथवः कुंभकर्णगजराजा यस्मिन् तत् । कुंभः कुंभस्थलं कर्णः श्रोत्रं च पृथू कुम्भकर्णौ येषां ते पृथुकुंभकर्णास् तादृशा गजराजा यस्मिन् तदिति वा । ‘कुंभौ घटेभ मूर्धांशौ’ इत्यमरः । उद्धतं ससहोदरं सहोदरैः स्वभ्रातृभिः सहितम् । सविबुधेन्द्रशात्रवं दैत्यैः सहितम् । क्षिणु हिंसायामित्यतो लङ् परस्मैपदम् अक्षिणोद् अक्षिणुताम् अक्षिण्वन्’ ॥ ३३ ॥
विश्वास-प्रस्तुतिः - ३४
अथ भार्यया हुतवहं प्रविष्टया सहितः सहोदरपुरःसरैरपि ।
अयमाप्य धाम चिरमिष्टदः सतां निजमूलरूपपरमैक्यमेयिवान् ॥ ३४ ॥
मूलम् - ३४
अथ भार्यया हुतवहं प्रविष्टया सहितः सहोदरपुरःसरैरपि ।
अयमाप्य धाम चिरमिष्टदः सतां निजमूलरूपपरमैक्यमेयिवान् ॥ ३४ ॥
भावप्रकाशिका
हुतवहं प्रविष्टया शपथरूपेण स्वर्गारोहणकाले रुक्मिण्या च । धाम अयोध्यां वैकुण्ठं च ॥ ३४ ॥
पदार्थदीपिकोद्बोधिका
अथेति ॥ कुम्भकर्णादिवधानन्तरं हुतवहं वह्निं प्रविष्टया शपथार्थं प्रविष्टया भार्यया सीतया । सहोदरो लक्ष्मणः पुरःसरो मुख्यो येषां सुग्रीवादीनां तैर् अपि सहितः धाम अयोध्यामाप्य चिरं सतामिष्टदोऽभीष्टदोऽयं श्रीरामः निजेन मूलरूपेण परमैक्यमुत्तमैक्यमेयिवान् प्राप । अर्थान्तरं तु अथ पृथुलसैन्यक्षपणानन्तरं चिरं सतामिष्टदोऽयं श्रीकृष्णः स्वर्गारोहणकाले हुतवहम् अग्निं प्रविष्टया भार्यया रुक्मिण्या सहोदरपुरस्सरैरपि बलभद्रपूर्वकैरपि सहितः सन् । धाम वैकुण्ठमाप्य निजमूलरूपपरमैक्यमेयिवान् ॥ ३४ ॥
मन्दोपाकारिणी
अथेति ॥ अथ राक्षससंहारानन्तरं हुतवहं प्रविष्टया अग्निं प्रविष्टया शपथार्थम् अग्निं प्रविश्य पातिव्रत्यं प्रकटितवत्या इति यावद् भार्यया पत्न््नया सीतया । सहोदरपुरस्सरैरपि सहोदरः सहजः लक्ष्मणः स एव पुरस्सरो येषां तैर् हनुमदादिभिः सहितो ऽयं रामः धाम गृहम् अयोध्यानगरम् आप्य प्राप्य । चिरं बहुकालं सताम् इष्टदः सुखदः सन् धर्मेण बहुकालं राज्यं प्रपालयित्वा सर्वेषां सुखं दत्वा इति यावत् । निजमूलरूपपरमैक्यं निजेन मूलरूपेण परमम् अत्यन्तम् ऐक्यं संश्लेषम् एयिवान् प्राप्तवान् । रामः राक्षससंहारं कृत्वा बहुकालं धर्मेण भूमिं परिपाल्य सताम् अभीष्टं दत्वा परं धाम जगाम इति भावः । कृष्णपक्षे तु सतां चिरम् इष्टदो ऽयं कृष्णः । अथ भूभारहणानन्तरं हुतवहं प्रविष्टया अज्ञदृष्ट्या अग्नौ देहं त्यक्त्वा इति यावद् भार्यया रुक्मिण्या सहितः । सहोदरपुरस्सरैरपि सहोदरः बलरामः स एव पुरःसर आदिर् येषां ते तथोक्ता यादवास् तैश्च सहितस्सन् धाम मन्दिरं वैकुण्ठम् आप्य निजमूलरूपपरमैक्यम् एयिवान् प्राप्तवान् ॥ ३४ ॥
विश्वास-प्रस्तुतिः - ३५
महिदासपूज्यचरणो द्विजादभूद्विदितात्स विष्णुयशसोऽमलात्मनः ।
इह यो दधे जगति पापशान्तये बहुधामहेतिमतिदीप्तगोस्थितिम् ॥ ३५ ॥
मूलम् - ३५
महिदासपूज्यचरणो द्विजादभूद्विदितात्स विष्णुयशसोऽमलात्मनः ।
इह यो दधे जगति पापशान्तये बहुधामहेतिमतिदीप्तगोस्थितिम् ॥ ३५ ॥
भावप्रकाशिका
विदिताद् विष्णुयशोनिमित्तादमलात्मनो द्विजान्महिदासनामा पूज्यचरणोऽभूत् । महिभिर्दासैः पूज्यचरणः कल्की विष्णुयशसोऽभूत् । बहुधा प्रकारेण महोपद्रववति जगति स्फुटवाक्यस्थितिं वैष्णवतन्त्रशास्त्रविरचनया बहुधामहेतिं बहुतेज-स्कमायुधम् । अतिदीप्तवज्रवत्स्थितिम् ॥ ३५ ॥
पदार्थदीपिकोद्बोधिका
महिदासेति ॥ स भगवान् । विष्णोर्यशसः निमित्त-पञ्चमीयम् । विष्णुयशसः श्रवणकीर्तनादिनिमित्तादित्यर्थः । अमलो निर्मल आत्मा मनो यस्य तस्माद्विदितात् प्रसिद्धाद्द्विजादितरादेव्यां महिदासनामा च असौ पूज्यचरणः पूज्यपादश्च महिदासभगवत्पादाचार्यस्सन्नित्यर्थः । अभूद् अवततार । यो महिदासाभिधः, महती ईतिरुपद्रवोऽस्यास्तीति तस्मिन् महेतिमति इह जगति पापशान्तये पापक्षयाय बहुधा बहुप्रकारेण दीप्ता अतिस्पष्टा या गावो वैष्णवतन्त्रशास्त्ररूपा वाचस्तासां स्थितिमवस्थितिं दधे विदधे । ‘महिदासाभिधो जज्ञे इतरायास् तपोबलात् । साक्षात् स भगवान् विष्णुर् यस्तन्त्रं वैष्णवं व्यधात्’ इति ब्रह्माण्डे । अर्थान्तरन्तु स भगवान् विदिताद् अमलात्मनो विष्णुयश-सस्तन्नामकाद्द्विजाद् अभूत् । कल्किनामाऽवततार । मह उत्सवो येषामस्तीति महिनस् ते च ते दासाश्च ब्रह्मादयस्तैः पूज्यौ चरणौ यस्य तादृशो यः कल्की इह जगति पापानां दस्यूनां शान्तये क्षयायातिदीप्तो यो गौर् वज्रं तस्य स्थितिर्यस्यां ताम् । बहु धाम तेजो यस्याः सा बहुधामा । ‘अनो बहुव्रीहेः’ इति ङीबभावः । सा च सा हेतिरायुधं तां दधे निदधे प्रयुयोजेति भावः ॥ ३५ ॥
मन्दोपाकारिणी
महिदासेति ॥ सः भगवान् नारायणः । विष्णुयशसः विष्णोर् यशसः कीर्तेर् भगवत्कथायाः श्रवणादिना इति शेषः । अमलात्मनः निर्मलमनसः । ‘आत्मा देहो मनो ब्रह्मा’ इति विश्वः । विदितात् प्रसिद्धाद् द्विजाद् इतरानामकदेव्यां महिदासपूज्यचरणः महिदासनामा पूज्यपाद आचार्यो ऽभूत् प्रादुरासीत् । यः महिदासा-भिधः हरिः । महेतिमति महत्यः बह्व्य ईतय उपद्रवा अस्मिन् सन्तीति महेतिमत् तस्मिन् इह जगति । पापशान्तये अघनाशाय । बहुधा बहुप्रकारेण । दीप्तगोस्थितिं दीप्तानाम् अतिस्पष्टानां गवां वैष्णवशास्त्ररूपाणां वाचां स्थितिं निर्माणरूपप्रतिष्ठां दधे विदधे । विष्णुर् इतरादेव्यां महिदासनामा सन् अवतारं कृत्वा वैष्णवशास्त्रं चकार इति भावः । अनेन महिदासावतारः विष्णुप्रतिपादकशास्त्रनिर्माणम् अवतारप्रयोजनं च उक्तं भवति । तदुक्तं ‘महिदासाभिधो जज्ञे इतरायास् तपोबलात् । साक्षात् स भगवान् विष्णुर् यस्तन्त्रं वैष्णवं व्यधात्’ इति । द्वितीययोजना तु अत्र बहुधामहेतिम् अतिदीप्तगोस्थितिमिति पदच्छेदः । सः भगवान् विदितात् प्रसिद्धाद् अमलात्मनः शुद्धचित्ताद् विष्णुयशसस् तन्नामकद्विजाद् अभूत् । कल्किनामावततार । कथंभूतः महिदासपूज्यचरणः मह उत्सवो येषाम् अस्तीति महिन उत्सववन्तः । ‘मह उद्धव उत्सवः’ इत्यमरस् ते च ते दासा भृत्याश्च तैर् देवैः पूज्यौ चरणौ अङ्घ्री यस्य सः दासभूतब्रह्मादिदेवैर् उत्सवेन पूजितपाद इत्यर्थः यः कल्किनामा हरिर् इह जगति । पापशान्तये पापिष्ठानां दस्यूनां नाशाय । अतिदीप्तगोस्थितिम् अत्यन्तं प्रकाशमाना च सा गौश्च वज्रं तद्वत् स्थितिर् यस्याः सा ताम् । बहुधामहेतिं बहु बहुलं धाम तेजः यस्या बहुधाम्नी सा च सा हेतिः शस्त्रं च ताम् । ‘रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः’ इत्यमरः । वज्रसदृशकान्तियुक्तं खड्गं दधे दधार प्रयुयोज इति भावः । ‘डु धाञ् धारणपोषणयोर् इत्यस्माद् लिडात्मनेपदं दधे दधाते दधिरे’ । अनेन कल्क्यवतारः दस्युवधप्रयोजनं च उक्तं भवति ॥ ३५ ॥
विश्वास-प्रस्तुतिः - ३६
सुतपोरुचेरयमपापकर्दमान्ननु मानवीतनयतामुपेयिवान् ।
समयेन भूरिनिजभक्तिपूरितान् समजीजनत् सुमनसः स देवराट् ॥ ३६ ॥
मूलम् - ३६
सुतपोरुचेरयमपापकर्दमान्ननु मानवीतनयतामुपेयिवान् ।
समयेन भूरिनिजभक्तिपूरितान् समजीजनत् सुमनसः स देवराट् ॥ ३६ ॥
भावप्रकाशिका
सुतपसो रुचिप्रजापतेः पापपङ्करहिताद् अपापात् कर्दमप्रजापतेः सुतपोवाञ्छात् । मानवी आकूतिर् देवहूतिश्च । देवराट् इन्द्रः कालेन देवानजीजनत् । स देवश्रेष्ठः सुमनसः सज्जनान् सुभक्तिपूर्णान् अकरोत् साङ्ख्यसमयेन कृतेन ॥ ३६ ॥
पदार्थदीपिकोद्बोधिका
‘सुतपो’ इति ॥ अयं भगवान् । न विद्यते पापकर्दमः पापाख्यः पङ्को यस्य तस्मात् । शोभनं तपो यस्य स चासौ रुची रुचिप्रजापतिस्तस्मात् । मनोः स्वायम्भुवमनोस्सुता मानवी आकूत्याख्या तस्यास्तनयः पुत्रस्तस्य भावस्तत्ता तामुपेयिवान् ननु अवाप खलु । स मानवीतनयो यज्ञनामा समयेन कालान्तरेण देवराडिन्द्रः सन् । भूरिर् भूयसी या निजभक्तिस्स्वविषयिणी भक्तिस् तया पूरिताः पूर्णास्तान्सुमनसो देवान् समजीजनद् दक्षिणाख्यरमायामुत्पादयामास । अर्थान्तरं तु अयं भगवान् । सुतपसि शोभनतपसि रुचिरिच्छा यस्य तस्मात् । ‘कामनेच्छा रुचिस्तथा’ इति हलः । न विद्यते पापकर्दमो यस्य तस्मात् । अपापश्चासौ कर्दमश्च तस्मादिति वा । कर्दम प्रजापतेः । मनोः सुता मानवी देवहूतिः, तस्यास्तनयस्तस्य भावस्तत्ता तामुपेयिवान्ननु अवाप । देवराड् सर्वदेवोत्तमः स कपिलवासुदेवनामा सन् सुमनसः सुचित्तान् देवमुनिपूर्वकान् सज्जनान् समयेन स्वकृतसाङ्ख्ययोगशास्त्रेण भूरिनिजभक्तिपूरितान् समजीजनत् । तेषामात्मनि निज-भक्तिमुत्पादयामासेति भावः ॥ ३६ ॥
मन्दोपाकारिणी
‘सुतपो’ इति ॥ अयं नारायणः । अपापकर्दमात् पापमेव कर्दमः पङ्कः ‘पङ्कोस्त्रीशादकर्दमौ’ इत्यमरः, न विद्यते पापकर्दमो यस्य सस् तस्मात् । सुतपोरुचेः शोभनं तपो यस्य सः सुतपः स चासौ रुचिश्च सुतपोयुक्तरुचिप्रजापतेः । मानवीतनयतां मनोर् अपत्यं स्त्री मानवी स्वायम्भुवमनुसुता आकूतिस् तस्यास् तनयतां पुत्रताम् उपेयिवान् ननु आप खलु । रुचिप्रजापतेः सकाशात् स्वायम्भुवपुत्र्याम् आकूत्यां यज्ञनामा अवततार सः यज्ञनामा समयेन कालान्तरेण देवराट् देवराजः ‘राज्ञिराट्पार्थिवक्ष्माभृत्’ इत्यमरः देवेन्द्रपदे स्थितस्सन् । भूरिनिजभक्तिपूरितान् भूरिर् बह्वी ‘भूरि स्वर्णे बहौ त्रिषु’ इति भास्करः निजा नित्या स्वाभाविकी ‘निजमात्मीयविश्वयोर् इति विश्वः भक्तिस् तया पूरितान् पूर्णान् सुमनसः देवान् ‘मालायां पण्डिते पुष्पे देवे सुमनसोऽभिधा’ इति विश्वप्रकाशे । समजीजनद् दक्षिणाख्यायां रमायाम् उत्पादयामास । अनेन यज्ञनामावतार इन्द्रपदस्थितेन तेन दक्षिणायां देवसृष्टिः प्रयोजनं च उक्तं भवति । द्वितीययोजना तु अयं भगवान् । सुतपोरुचेः शोभनतपसि रुचिः रतिर् वाञ्छा यस्य सस् तस्मात् । अपापकर्दमान् न विद्यन्ते पापानि यस्य सो ऽपापः स चासौ कर्दमप्रजेश्वरश्च तस्मात् । मानवीतनयतां मानव्याः स्वायम्भुवमनुपुत्र्या देवहूतेस् तनयताम् उपेयिवान् ननु । कर्दमप्रजापतेः सकाशात् स्वायम्भुवमनुपुत्र्यां देवहूत्यां कपिलनामाऽवततार । देवराट् देवस्वामी सः कपिलनामा हरिः सुमनसः शोभनमनस्कान् शुद्धान्तःकरणान् देवमुनिपूर्वकान् सज्जनान् । समयेन स्वकृतसाङ्ख्ययोगशास्त्रसिद्धान्तेन तदुपदेशेन इति यावत् । ‘समयाः शपथाचार-कालसिद्धान्तसंविदः’ इत्यमरः । भूरिनिजभक्तिपूरितान् भूरिणा बह्व्या निजे स्वस्मिन् भक्त्या पूरितान् । समजीजनत् स्वस्मिन् भक्तिम् उत्पादयामास इति भावः । अनेन कपिलावतारः साङ्ख्ययोगशास्त्रनिर्माणं च देवादीनां च स्वस्मिन् बहुभक्तिजननम् अवतारप्रयोजनम् उक्तं भवति । ‘जनी प्रादुर्भावे णिजन्ताद् लुङ् परस्मैपदम्’ ॥ ३६ ॥
विश्वास-प्रस्तुतिः - ३७
सुबृहत्पयोधरमिथःप्रसंहतिप्रकटीभवत्परमयौवनाकृतिः ।
असुराहितां वरविलासिनीतनुः प्रददावमुष्य सुरराशये सुधाम् ॥ ३७ ॥
मूलम् - ३७
सुबृहत्पयोधरमिथःप्रसंहतिप्रकटीभवत्परमयौवनाकृतिः ।
असुराहितां वरविलासिनीतनुः प्रददावमुष्य सुरराशये सुधाम् ॥ ३७ ॥
भावप्रकाशिका
वरस्मितादिविलासवती धन्वन्तरितनुः पयसां धरस्य च परस्पर-घट्टनात् प्रकटीभवन्ती नवयौवनाकृतिर् विलासिनीतनुर् वरस्त्रीमूर्तिः स्तनपरस्परसंहत्या स्पष्टयौवनवती आकृतिरस्याः । असुराणामहितामसुरेष्वाहिताम् ॥ ३७ ॥
पदार्थदीपिकोद्बोधिका
सुबृहदिति ॥ अमुष्य भगवतः । पयः सागरजलम् । धरो मन्दरगिरिः । सुबृहन्तौ अतिमहान्तौ यौ पयोधरौ तयोर्मिथः परस्परं प्रसंहतिः सङ्घटनं तया प्रकटीभवन्ती आविर्भवन्ती परमं यौवनं यस्यास् तादृशी या आकृतिः स्वरूपं सुबृहत्पयोधरमिथःप्रसंहतिप्रकटीभवन्ती परमयौवनाकृतिर्यस्यास्तादृशी । वर उत्तमो विलासः स्मितादिरस्यास्तीति तादृशी तनुर् धन्वन्तरिरूपम् । असुराहितामसुराणामयोग्यां सुधां सुरराशये सुरसमूहाय प्रददौ । अर्थान्तरन्तु सुबृहन्तौ यौ पयोधरौ कुचौ तयोर्मिथः प्रसंहतिः परस्परं घट्टनं तया प्रकटीभवन्ती परमयौवनाकृतिर्यस्यास्तादृशी । अमुष्य भगवतो वरविलासिनी तनुरुत्तमस्त्रीतनुः । असुराहितामसुरेष्वाहितां धन्वन्तरिरूपेणात्मनासुरवशे निहितां सुधां तेभ्योऽपहृत्य सुरराशये प्रददौ । अपाययदिति भावः ॥ ३७ ॥
मन्दोपाकारिणी
सुबृहदिति ॥ अमुष्य नारायणस्य । तनुर् मूर्तिः । ‘स्त्रियां मूर्तिस्तनुस्तनूः’ इत्यमरः । धन्वन्तरिरूपमित्यर्थः । सुरराशये सुराणां देवानां राशये समूहाय । असुराहिताम् असुराणां दैत्यानाम् अहिताम् अयोग्यां सुधाम् अमृतं प्रददौ दत्तवान् । कथंभूता तनुः । सुबृहत्पयोधरमिथःप्रसंहतिप्रकटीभवत्परमयौवनाकृतिः पयः समुद्रजलं ‘पयः पानीयदुग्धयोः’ भास्करः । धरः मन्दरपर्वतः पयश्च धरश्च पयोधरौ । ‘अहार्यधरपर्वताः’ इत्यमरः । सुबृहन्तौ अतिपृथू च तौ पयोधरौ च तयोर् मिथो ऽन्योन्यं प्रसंहतिः सङ्घट्टनम् । परमम् अत्यन्तं यौवनं तारुण्यं यस्याः सा परमयौवना । ‘तारुण्यं यौवनं समे’ इत्यमरः । परमयौवनोपेता च सा आकृतिश्च सुबृहत्पयोधरमिथः प्रसंहत्या प्रकटीभवन्ती आविर्भवन्ती परमयौवनोपेताकृतिर् यस्यास् तथोक्ता । वरविलासिनी वर उत्तमः विलासः मन्दहासादि-क्रियाविशेषः यस्याः सा । अमृतार्थं मन्दरपर्वतेन समुद्रमथने कृते सति तारुण्यविशिष्ट एव प्रादुर्भूतो धन्वन्तरिनामा हरिर् अमृतकलशं देवहस्ते ददौ इति भावः । अनेन धन्वन्तर्यवतारः देवहस्ते अमृतदानं च प्रयोजनम् उक्तं भवति । द्वितीययोजना अमुष्य श्रीनारायणस्य । वरविलासिनीतनुर् उत्तमस्त्रीरूपा तनुर् अवतारः । असुराहिताम् असुरेषु दैत्येषु आहितां निहितां धन्वन्तरीरूपेण स्वेनैव असुरवशे स्थापितां सुधां सुरराशये । प्रददौ पानार्थं दत्तवान् इति भावः । कथंभूता तनुः । सुबृहत्पयोधरमिथःप्रसंहतिप्रकटी-भवत्परमयौवनाकृतिः सुबृहतोर् अतिस्थूलयोः पयोधरयोः स्तनयोः । ‘वक्षोजौ च पयोधरौ’ इत्यमरः । मिथः संहत्या सम्बन्धेन प्रकटीभवन्ती स्पष्टं प्रतीयमाना परमयौवनवती आकृतिर् यस्याः सा धन्वन्तरीरूपेण आनीतां देवेभ्यः दत्तां स्वानुमत्यैव देत्यैर् अपहृतां सुधां स्वयं स्त्रीरूपस्सन् असुरान् वञ्चयित्वा देवान् पाययामास इति भावः । अनेन भगवतः स्त्रीरूपावतारः देवानाम् अमृतपानकरणं प्रयोजनं च उक्तं भवति ॥ ३७ ॥
विश्वास-प्रस्तुतिः - ३८
सुजनाय दत्तपद आत्मशुद्धिदः सुकुमाररूप्यभवदेष शाश्वतः ।
अनसूयया शुचिमनीषया धृतः परमादरेण मुनिपुङ्गवोढया॥ ३८ ॥
मूलम् - ३८
सुजनाय दत्तपद आत्मशुद्धिदः सुकुमाररूप्यभवदेष शाश्वतः ।
अनसूयया शुचिमनीषया धृतः परमादरेण मुनिपुङ्गवोढया॥ ३८ ॥
भावप्रकाशिका
दत्तनामा सुजनायात्मशुद्धिदः सुकुमाररूपी भद्रः सुजनाय दत्तं पदं पुनर्येन कुमाररूपी अत्रिणा ऊढया अनसूयया धृतो मृनिश्रेष्ठैर्धृतया असूयारहितया शुद्धमनीषया ध्यातश्च ॥ ३८ ॥
पदार्थदीपिकोद्बोधिका
सुजनायेति ॥ सुजनाय सज्जनाय । आत्मशुद्धिदश् चित्तशुद्धिद एषः शाश्वतो नित्यो भगवान्मुनिपुङ्गवेन अत्रिणा ऊढयोदूढया शुचिः शुद्धा मनीषा ज्ञानं यस्यास्तया अनसूयया तन्नामिकदेव्या परमादरेण अत्यादरेण धृतो गर्भे धृतः । सुकुमारं कोमलं रूपम् अस्यास्तीति तादृशः । दत्त इति पदं यस्य तादृशो दत्तात्रेय-नामाऽभवत् । अर्थान्तरं तु एष शाश्वतो भगवान् । न विद्यतेऽसूया यस्यास्तया । मुनिपुङ्गवैर् मुनिश्रेष्ठैर् ऊढया धृतया शुचिमनीषया शुद्धज्ञानेन परमादरेण परमभक्त्या धृतः । ‘अस्माकं ज्ञानमुपदेष्टुमायाहि भगवन्नि’ति ध्यातः । सुजनाय शोभनजनाय दत्तपदः प्रदत्तस्थानः । आत्मशुद्धिदः कुमार इति रूपमस्यास्तीति कुमाररूपी शोभनश्चासौ कुमाररूपी च सनत्कुमाराभिधेय इत्यर्थो ऽभवत् ॥ ३८ ॥
मन्दोपाकारिणी
सुजनायेति ॥ सुजनाय । आत्मशुद्धिदः मनोनैर्मल्यप्रदस् तत्त्वोपदेशस्य कृतत्त्वादिति भावः । शाश्वतः सनातनः । ‘शाश्वतस्तु ध्रुवो नित्यः सदातनसनातनाः’ इत्यमरः । एषः नारायणः । मुनिपुङ्गवोढया मुनिपुङ्गवेन अत्रिणा ऊढया पाणिगृहीतया । शुचिमनीषया शुचिः शुद्धा मनीषा बुद्धिर् यस्यास् तया । ‘शुचिः शुद्धेऽनुपहते’ इति विश्वः । अनसूयया तन्नामिकया अत्रिपत्न््नया । परमादरेण । धृतः गर्भे धृतः । सुकुमाररूपी सुकुमारं कोमलं च तद्रूपं शरीरं च तद् अस्यास्तीति । दत्तपदः सन् दत्त इति पदं नाम यस्य सो ऽभवद् अवततार । अनेन दत्तात्रेयावतारः सज्जनानां तत्त्वोपदेशश्च प्रयोजनम् उक्तं भवति । द्विचीययोजना तु शाश्वत एषः भगवान् । अनसूयया न विद्यते असूया गुणेषु दोषारोपः यस्यास् तया असूयाख्यदोषरहितया । मुनिपुङ्गवोढया मुनिश्रेष्ठैर् ऊढया धृतया । शुचिमनीषया शुचिः शुद्धा च सा मनीषा च तया शुद्धज्ञानेन । परमादरेण अत्यन्तभक्त्या । धृतः ध्यातस्सन् ‘हे भगवान् अस्माकं ज्ञानम् उपदेष्टुम् आयाहि’ इति मुनिभिः शुद्धान्तःकरणेन भक्त्या ध्यात इति भावः । सुकुमाररूपी शोभनं कुमारनामकं रूपम् अस्यास्तीति अभवत् । मुनीनां पुरस्तात् प्रादुरभूत् । किंभूतः सुजनाय शोभनजनाय । दत्तपदः दत्तमुक्तिस्थानः । ‘पदं व्याजाङ्घ्रि तच्चिह्नस्थाने’ इति भास्करः । आत्मशुद्धिदो ऽनेन कुमारावतारः मुनीनां ज्ञानोपदेशः प्रयोजनं च उक्तं भवति ॥ ३८ ॥
विश्वास-प्रस्तुतिः - ३९
दयितः सतामृषभ एष भूधरो वपुरुद्वहन् परमहंसलक्षणम् ।
व्यहरद्वलक्षतमपक्षशोभनं परतत्त्वलिप्सुसनकादिवन्दितः॥ ३९ ॥
मूलम् - ३९
दयितः सतामृषभ एष भूधरो वपुरुद्वहन् परमहंसलक्षणम् ।
व्यहरद्वलक्षतमपक्षशोभनं परतत्त्वलिप्सुसनकादिवन्दितः॥ ३९ ॥
भावप्रकाशिका
ऋषभो नाम राजा भूत्वा यतीन्द्रलक्षणं वपुरुद्वहन् एष सतां दयित ऋषभः प्रियः स्वामी धरणीधरः श्रेष्ठश्वेतच्छदलक्षणवपुरुद्वहन् ॥ ३९ ॥
पदार्थदीपिकोद्बोधिका
दयित इति ॥ सतां दयितः प्रिय एष नारायणः । ऋषभनामा, भुवं धरति पोषयतीति भूधरो भूपो भूत्वा, वलक्षतमोऽतिशुभ्रो यः पक्षः सिद्धान्तस्तेन शोभनम् । परमहंसानां यतीनां लक्षणं चिह्नं यस्य तादृशं वपुः शरीरमुद्वहन् दधत्सन् परम् उत्तमं यत्तत्त्वं परापरवस्तुयाथार्थ्यं तल्लब्धुमिच्छन्तीति परतत्त्वलिप्सवो ये सनकादयस्तैर्वन्दितः स्तुतः नतो वा । ‘वदि अभिवादनस्तुत्योरि’ति धातोः । व्यहरद् विजहार । अर्थान्तरं तु सतां दयित ऋषभः स्वामी भूधरो धरणीधर एष नारायणः । परतत्त्वलिप्सुसनकादिवन्दितः, परतत्त्वं प्रदेष्टुं प्रार्थित इत्यर्थः । वलक्षतमावतिधवलौ यौ पक्षौ पतत्रौ ताभ्यां शोभनं ‘वलक्षो धवलोऽर्जुनः’ इत्यमरः । परमहंसस्योत्तमहंसपक्षिणो लक्षणं चिह्नं यस्य तद्वपुरुद्वहन् । व्यहरत् तेषां मुनीनां परतत्त्वमुपदिशन्विजहार ॥ ३९ ॥
मन्दोपाकारिणी
दयित इति ॥ सतां दयित एष नारायणः । ऋषभ ऋषभनामा । भूधरः राजा सन् । परमहंसलक्षणं परमहंसानां योगिनां लक्षणं चिह्नं यस्य तद् वपुर् आश्रमम् उद्वहन् भजन् व्यहरद् विजहार । ‘वि पूर्वात् हृञ् हरणे लङ् परस्मैपदम्’ । किंभूतं वपुः, वलक्षतमपक्षशोभनं वलक्षतमो ऽत्यन्तधवलः निर्मलश्चासौ पक्षः सिद्धान्तश्च तेन शोभनं विराजमानम् । स्वयं नारायणः कीदृशः, परतत्त्वलिप्सुसनकादिवन्दितः परतत्त्वम् उत्तमतत्त्वं ब्रह्म लिप्सवः लब्धुं ज्ञातुमिच्छन्तः सनकस् तन्नामकमुनिः स एव आदिर् येषां ते परतत्त्वलिप्सवश्च ते सनकादयश्च तैर् वन्दितः स्तुतः नतश्च । अयम् ऋषभनामा राजा भूत्वा ततः परमहंसो भूत्वा सनकादिभ्यस् तत्त्वम् उपदिदेश इति भावः । अनेन ऋषभावतारः ज्ञानोपदेशः प्रयोजनं च उक्तं भवति । द्वितीययोजना तु । सतां सज्जनानां दयितः प्रिय ऋषभः स्वामी भूधरः धरणीधर एषः नारायणः । परतत्त्वलिप्सुसनकादिवन्दितः परतत्त्वम् उपदेष्टुं सनकादिभिः प्रार्थितस्सन् इत्यर्थः । वलक्षतमपक्षशोभनं वलक्षतमौ अतिधवलौ च तौ पक्षौ च । ‘गरुत्पक्षच्छदाः पत्रं’ इत्यमरस् ताभ्यां शोभनं दीप्यमानं परमहंसलक्षणं परम उत्तमश्चासौ हंसः पक्षी च ‘हंसास्तु श्वेतगरुतः’ इत्यमरस् तस्य लक्षणं चिह्नं यस्य तद् वपुः रूपं च उद्वहन् दधन् । व्यहरद् विजहार । अयं नारायणः ज्ञानार्थं सनकादिप्रार्थितः सन् हंसपक्षिरूपो भूत्वा तेषां तत्त्वम् उपदिशन् विजहार इति भावः । अनेन हंसावतारः सनकादीनां ज्ञानोपदेशनं प्रयोजनं च उक्तं भवति ॥ ३९ ॥
विश्वास-प्रस्तुतिः - ४०
उदपादि धर्मतनयो ह्ययं हरिर्नरदेवसोदर उदारविक्रमः ।
अपि कृष्ण इत्यभिहितो मुदे सतां स्वयमेव यस्य सहजो व्यजायत॥४०॥
मूलम् - ४०
उदपादि धर्मतनयो ह्ययं हरिर्नरदेवसोदर उदारविक्रमः ।
अपि कृष्ण इत्यभिहितो मुदे सतां स्वयमेव यस्य सहजो व्यजायत॥४०॥
भावप्रकाशिका
अयं हरिनामा उदपादि हरिर्ह्ययं धर्मतनयो नारायणो नाम ॥ ४० ॥
पदार्थदीपिकोद्बोधिका
उदपादीति ॥ उदारो महान्विक्रमः पराक्रमो यस्य तादृशः । ‘उदारो महति ख्याते दक्षिणे दानशौण्डके’ इति वैजयन्ती । अयं भगवान् । नरश्चासौ देवश्च तस्य सोदरो भ्राता । शेषावतारभूतस्य नरस्य भ्रातेत्यर्थः । सतां मुदे कृष्णेत्यभिहितोऽपि स्वयमेव स्वात्मनैव यस्य हरिनाम्नः सहजो भ्राता व्यजायत । कृष्णनामापि स्वयं यस्य हरेः सहोदरत्वेन धर्मतनयो व्यजायतेति भावः । स हरिर् हरिनामा धर्मतनयो धर्मप्रजेश्वरतनयः सन्नुदपादि । अर्थान्तरन्तु नरदेवसोदरः, उदारविक्रमः स्वयमेव सतां मुदे कृष्ण इत्यभिहितोऽपि यस्य नारायणस्य सहजो व्यजायत । अयं पुरोवर्ती, आश्रमे विराजमानो नारायणनामा हरिरपि धर्मतनयो यमतनयः सन्नुदपादि । पद निष्पत्तौ लुङ् । न केवलं हरिकृष्णौ धर्मतनयौ किन्त्वयं नारायणोऽपि धर्मतनयः । अयं भावः । नरनारायणहरिकृष्णाश्चत्वारो धर्मतनयाः । तत्र नरः शेषः । अन्ये त्रयो भगवदवतारा इति ॥ ४० ॥
पदार्थदीपिकोद्बोधिका
उदपादीति ॥ उदारविक्रम उदारः महान् विक्रमः कान्तिः शक्तिश्च यस्य सः । ‘विक्रमः कान्तिमात्रे स्याद् विक्रमः शक्तिसंपदोः’ इति विश्वः । नरदेवसोदरः नरः शेषावतारश्चासौ देवश्च तस्य सोदरः भ्राता शेषावतारभूतनरस्य भ्राता इत्यर्थः । अयं नारायणः हरिर् हरिनामा सन् धर्मतनयः यमपुत्रः । ‘धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः’ इत्यमरः । उदपादि अजायत । ‘उत् पूर्वकात् पद गतौ इत्यतो लुङ् आत्मनेपदम् अपादि अपत्साताम् अपत्सत’ । अयं नारायणः स्वयमेव सतां मुदे सन्तोषाय कृष्ण इत्यभिहितोऽपि सन् कृष्णनामा सन् यस्य हरिनाम्नः सहजः भ्राता व्यजायत । अनेन हरिकृष्णावतारौ उक्तौ भवतः । द्वितीययोजना तु उदारविक्रमो ऽयं पुरोवर्ती हरिरपि । नरदेवसोदरः नरः शेषावतारश्चासौ देवश्च नरदेवस् तस्य सोदरः भ्राता सन् नारायणनामा धर्मतनयः यमस्य तनय उदपादि । स्वयमेव कृष्ण इति अभिहितोऽपि सन् यस्य नारायणस्य सहजः भ्राता व्यजायत । अनेन नरनारायणावतारौ उक्तौ भवतः । ततश्च नरनारायणहरिकृष्णनामानश् चत्वारोऽपि यमधर्मस्य पुत्रा भगवदवताराः । तत्र नरः शेषावतारः भगवत आवेशावतारः । अन्ये त्रयः भगवतः साक्षाद् अवतारा इति ज्ञेयम् ॥ ४० ॥
विश्वास-प्रस्तुतिः - ४१
परमात्मने सततमेकरूपिणे दशरूपिणे शतसहस्ररूपिणे ।
अविकारिणे स्फुटमनन्तरूपिणे सुखचित्समस्ततनवे नमो नमः ॥४१॥
मूलम् - ४१
परमात्मने सततमेकरूपिणे दशरूपिणे शतसहस्ररूपिणे ।
अविकारिणे स्फुटमनन्तरूपिणे सुखचित्समस्ततनवे नमो नमः ॥४१॥
पदार्थदीपिकोद्बोधिका
परमात्मन इति ॥ परमश्चासावात्मा च तस्मै मुख्यत आत्मशब्दवाच्याय । सततं सर्वदा । एकं प्रधानं यद्रूपं तदस्यास्तीति तस्मै । एकं स्वगतगुणक्रियादिभिर्भेदवर्जितं रूपमस्यास्तीति तस्मा इति वा । दश च तानि रूपाणि मत्स्यादीन्यस्य सन्तीति तस्मै । शतानि सहस्राणि रूपाण्यस्य सन्तीति तस्मै नारायणादिशतरूपिणे विश्वादिसहस्ररूपिणे चेत्यर्थः । विकाराभावोऽविकारः सोऽस्यास्तीति तस्मै सर्वरूपेष्वपि जननमरणादिविकाररहितायेत्यर्थः । स्फुटं स्पष्टं यथा भवति तथा । न विद्यतेऽन्तः पर्यवसानं येषां तानि रूपाण्यस्य सन्तीति तस्मै । स्फुटमित्यनेनोक्तरूपवत्वे ‘अयं वै हरयोऽयं वै दश च सहस्राणि च बहूनि चानन्तानि चे’त्यादिश्रुतिः सूचिता । सुखं, चिज्ज्ञानञ्च सुखचितौ । तदात्मकास्समस्ततनवो यस्य तस्मै नमो नमः ।
तात्पर्येण द्विरुक्तिः ॥ ४१ ॥
मन्दोपाकारिणी
एवं कांश्चिद् अवतारान् ध्यात्वा इदानीं व्यूहभेदेन स्थिताय नारायणाय सामान्याकारेण नमस्करोति इत्याह परमात्मन इति ॥ सततं सर्वदा । स्फुटं स्पष्टं श्रुतिसिद्धं यथा स्यात् तथेति यावत् । दशरूपिणे मत्स्यादीनि दशरूपाणि अस्य सन्तीति तस्मै । शतसहस्ररूपिणे शतञ्च सहस्रञ्च रूपाणि अस्य सन्तीति तस्मै नारायणादिशतरूपाणि विश्वादिसहस्ररूपाणीति ज्ञेयम् । अनन्तरूपिणे अनन्तानि अमितानि रूपाणि अस्य सन्तीति । अविकारिणे विकारः परिणामः । ‘परिणामो विकारो द्वे समे विकृतिविक्रिये’ इत्यमरः । अविकारः विकारोपलक्षितदोषाभावः । विकारोऽस्या-स्तीति विकारी स न भवतीति अविकारी तस्मै निर्दोषाय इत्यर्थः । सुखचित्समस्ततनवे सुखं च चिच्च सुखचितौ । ‘प्रेक्षोपलब्धिश्चित्संवित्’ इत्यमरः । सुखचिदात्मकाः समस्ततनवो यस्य सस् तस्मै ज्ञानानन्दस्वरूपाखिलावतारवते । एकरूपिणे एकं स्वगतभेदवर्जितं च तद् रूपं स्वरूपं च तदस्तीति तस्मै प्रधानस्वरूपाय मूलरूपाय इति यावत् । परमात्मने परमः सर्वोत्तमश्चासौ आत्मा परब्रह्म च तस्मै सर्वोत्तमाय परब्रह्मणे नमो नमः । आदराद् द्विरुक्तिः । सततं स्फुटमिति पदद्वयेन दशशतसहस्रादिव्यूहरूपेण स्थितानन्तरूपाणामिति सर्वदा विद्यमानत्वं श्रुतिसिद्धमिति ज्ञापयति । सा च श्रुतिः ‘अयं हरयोयं वै दश च शतानि सहस्राणि च बहूनि च अनन्तानि च’ इत्यादिका । तथा श्रुतिसिद्धानेकरूपाय नमो नम इत्युक्तं भवति ॥ ४१ ॥
विश्वास-प्रस्तुतिः - ४२
इति चिन्तयन्नविरलान्तरो हरिं प्रणनाम सप्रणयमादृतोऽमुना ।
अजितौ परस्परसभाजितौ स तौ निकषा निषीदति पुरोपवेशिनौ ॥४२॥
मूलम् - ४२
इति चिन्तयन्नविरलान्तरो हरिं प्रणनाम सप्रणयमादृतोऽमुना ।
अजितौ परस्परसभाजितौ स तौ निकषा निषीदति पुरोपवेशिनौ ॥४२॥
पदार्थदीपिकोद्बोधिका
इतीति ॥ इति जगतां चतुर्दशतयमित्यारभ्योक्तप्रकारेण चिन्तयन्नविरलं पूर्णम् आन्तरं ज्ञानं यस्य स श्रीमध्वो हरिं नारायणाख्यं भगवन्तं प्रणनाम । अमुना नारायणेन सप्रणयं सस्नेहमादृतो मानितः स श्रीमध्वः । परस्परम् अन्योन्यं सभाजितौ कृतसम्भावनावुपवेशिनौ निषण्णावजितौ श्रीव्यासनारायणौ निकषा समीपे । ‘अभितः परितः’ इत्यदिना द्वितीया । परस्परं कृतसम्भावनयोर्निषण्णयोस्तयोः समीप इत्यर्थः । निषीदति पुरा न्यषीदत् । ‘यावत्पुरानिपातयोर्लडिति लट् ॥ ४२ ॥
मन्दोपाकारिणी
इतीति ॥ इति पूर्वोक्तप्रकारेण । चिन्तयन् ध्यायन् । अविरलान्तरः विरलं न भवतीति अविरलं पूर्णमिति यावद् अन्तरम् अन्तःकरणं यस्य सः । ‘पेलवं विरलं तनु’ इत्यमरः । श्रीमध्वः हरिं नारायणं प्रणनाम नमस्कृतवान् । ‘णमु प्रह्वत्वे शब्दे च इत्यतो लिट् परस्मैपदं ननाम नेमतुर् नेमुः’ । अमुना नारायणेन सप्रणयं प्रणयेन स्नेहेन सहितं यथा भवति तथा आदृतः लालितः सः मध्वः परस्परसभाजितौ परस्परम् अन्योन्यं सभाजितौ आनन्दितौ । ‘आनन्दनसभाजने’ इत्यमरः । उपवेशिनौ आसने निषण्णौ । अजितौ विष्ण्ववतारौ नारायणवेदव्यासौ । निकषा समीपे । ‘अभितः परितः समया निकषा हा प्रतियोगेऽपि’ इति द्वितीया तयोः समीप इत्यर्थः । निषीदति पुरा न्यषीदत् । ‘षदलृ विशरणगत्यवसादनेषु’ इत्यतो लट् परस्मैपदं सीदति सीदतः सीदन्ति’ । ‘यावत् पुरा निपातयोर् लट्’ इति पुराशब्दयोगे अतीतार्थे लट् । पूर्वोक्तप्रकारेण ध्यात्वा नारायणं प्रणम्य तेन आदृतस्सन् परस्परम् आलिङ्गनादिरूपेण सभाजितयोर् वेदव्यास-नारायणयोर् उपवेशानन्तरं स्वयं तत्समीपे उपविष्टवान् मध्व इति भावः ॥ ४२ ॥
विश्वास-प्रस्तुतिः - ४३
विविधा विधाय किल तत्र सङ्कथा वदनं मुनीन्द्रतनयस्य सुन्दरम् ।
अवलोक्य लोकपतिरानतं महासुखतीर्थमाह रहसि स्म गामिमाम् ॥ ४३ ॥
मूलम् - ४३
विविधा विधाय किल तत्र सङ्कथा वदनं मुनीन्द्रतनयस्य सुन्दरम् ।
अवलोक्य लोकपतिरानतं महासुखतीर्थमाह रहसि स्म गामिमाम् ॥ ४३ ॥
पदार्थदीपिकोद्बोधिका
विविधा इति ॥ लोकपतिः श्रीनारायणस् तत्राश्रमे । विविधाः सङ्कथाः परस्परभाषणानि । ‘सङ्कथान्योन्यसंवादः’ इति हलः । विधाय । मुनीन्द्र-तनयस्य पराशरसुतस्य श्रीव्यासस्य सुन्दरं वदनं मुखम् अवलोक्य आनतं भक्तिनम्रं महासुखहेतुस् तीर्थं शास्त्रं यस्मात्तं ‘तीर्थं शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः’ इति हेमचन्द्रः रहसि इमां वक्ष्यमाणां गां वाचमाह स्म अब्रवीत्किल ॥ ४३ ॥
मन्दोपाकारिणी
विविधा इति ॥ लोकपतिः सकललोकानां स्वामी श्रीनारायणः । तत्र तस्मिन् आश्रमे । विविधा नानाविधाः सत्कथाः संभाषणानि विधाय कृत्वा । मुनीन्द्रतनयस्य मुनीन्द्रस्य मुनिश्रेष्ठस्य पराशरमुनेस् तनयस्य पुत्रस्य वेदव्यासस्य सुन्दरं मनोहरं वदनं मुखम् अवलोक्य दृष्ट्वा आनतं भक्त्या नम्रं महासुखतीर्थं महान् अधिकार्युत्तमश्चासौ सुखतीर्थ आनन्दतीर्थश्च स तथोक्तस् तम् । रहसि एकान्ते इमां वक्ष्यमाणप्रकारां गां वाचम् आह स्म किल अब्रवीत् खलु । ‘ब्रूञ् व्यक्तायां वाचीत्यतो लट् परस्मैपदम् आह आहतुर् आहुः’ । स्म अतीते ॥ ४३ ॥
विश्वास-प्रस्तुतिः - ४४
श्रुणु देवकार्यमवधार्य धैर्यवान् मदुदीर्यमाणमिदमार्यसम्मतम् ।
भविताऽन्यदुष्करतरं विधाय यत्तरुणं तवावतरणं महाफलम् ॥ ४४ ॥
मूलम् - ४४
श्रुणु देवकार्यमवधार्य धैर्यवान् मदुदीर्यमाणमिदमार्यसम्मतम् ।
भविताऽन्यदुष्करतरं विधाय यत्तरुणं तवावतरणं महाफलम् ॥ ४४ ॥
पदार्थदीपिकोद्बोधिका
श्रुण्विति ॥ धैर्यमस्यास्तीति धैर्यवत् तद्यथा भवति तथा । सुस्थिरमित्यर्थः । उदीर्यमाणं मया प्रोच्यमानमार्यसम्मतं श्रीव्यासप्रियं यदिदं देवकार्यं तच्छृणु । अन्यस्यातिदुःखेन कर्तुं शक्यमन्यदुष्करतरं देवकार्यमवधार्य श्रुत्वा विधाय कृत्वा तरुणं नूतनं तवावतरणमवतारो, महत्फलं यस्य तादृशं भविता भविष्यति । भू सत्तायां लुट् ॥ ४४ ॥
मन्दोपाकारिणी
श्रुण्विति ॥ हे मध्व त्वं धैर्यवान् धैर्यम् अचाञ्चल्यम् अस्यास्तीति धैर्यवान् सावधानमनास्सन् । अवधार्य निर्णयं कृत्वा मदुदीर्यमाणं मया उच्यमानम् आर्यसंमतम् आर्यस्य श्रेष्ठस्य वेदव्यासस्य ‘मुख्यवर्यवरेण्यार्याः’ इत्यमरः संमतम् अनुमतं प्रियम् इदं देवकार्यं देवानां कार्यं प्रयोजनं श्रुणु आकर्णय । ‘श्रु श्रवण इत्यतः लोट् परस्मैपदं ृणु, ृणुतात्, ृणुत’ । इदं किं, अन्यदुष्करतरम् अन्येन त्वदन्येन दुष्करतरं सर्वथा कर्तुमशक्यं यद् देवकार्यं विधाय कृत्वा स्थितस्य तव तरुणं नूतनम् अवतरणम् अवतारः महाफलं महत् फलं यस्य तन् महाफलं भविता भवेत् । ‘भू सत्तायाम् इत्यतो लुट् परस्मैपदम्’ । यस्मिन् देवकार्ये कृते सति तवावतारः सफलः स्यात् तादृशं देवकार्यं निर्धार्य मया उच्यमानं श्रुणु तव भूमौ अवतारप्रयोजनं वक्ष्यामि इति भावः ॥ ४४ ॥
विश्वास-प्रस्तुतिः - ४५
अपिधाय सूत्रहृदयं सतां प्रियं प्रविधाय भाष्यमधुना निजेच्छया ।
अपरैः श्रुतिस्मृतिनिजार्थदूषकैः सुतरां तिरोभवति संविदाहता ॥ ४५ ॥
मूलम् - ४५
अपिधाय सूत्रहृदयं सतां प्रियं प्रविधाय भाष्यमधुना निजेच्छया ।
अपरैः श्रुतिस्मृतिनिजार्थदूषकैः सुतरां तिरोभवति संविदाहता ॥ ४५ ॥
पदार्थदीपिकोद्बोधिका
अपिधायेति ॥ अधुना इदानीम् । श्रुतिस्मृतीनां निजार्थानां साक्षाद्विवक्षितार्थानां दूषकैर् अपरैः सज्जनेभ्योऽन्यैर् भुवि जातैरसुरैरिति यावत् । सतां सज्जनानां प्रियं सूत्रहृदयं ब्रह्मसूत्राभिप्रायम् अपिधाय छादयित्वा । ‘अपिधानति-रोधानपिधानाच्छादनानि चे’त्यमरः । निजेच्छया स्वेच्छया स्वाभिमतजगन्मिथ्यात्वादि-प्रतिपादकत्वेनेत्यर्थः । भाष्यम् ऋक्सूत्रोपनिषदादिभाष्यं प्रविधाय, आहता नाशिता संवित् तत्त्वज्ञानं सुतराम् अतितराम् अधुना तिरोभवति निलीना भवति ॥ ४५ ॥
मन्दोपाकारिणी
अपिधायेति ॥ अधुना इदानीम् । श्रुतिस्मृतिनिजार्थदूषकैः श्रुतयश्च स्मृतयश्च श्रुतिस्मृतयस् तासां निजं स्वाभाविकम् अभिप्रेतम् अर्थम् अभिधेयं दूषयन्ति निराकुर्वन्ति इति तथोक्तास् तैः । अपरैः सद्भ्यो ऽन्यैर् भुवि जातैर् असुरैर् इति यावत् । आहता नाशिता संवित् तत्त्वज्ञानं सुतराम् अत्यन्तं तिरोभवति लीना भवति । किं कृत्वा आहता, सतां सज्जनानां प्रियं संमतं सूत्रहृदयं सूत्राणां ब्रह्मसूत्राणां हृदयम् आकूतम् अभिप्रायं ‘आकूते हृदयं भवेत्’ इत्यभिधानं, अपिधाय आच्छादयित्वा । ‘अपिधान तिरोधानपि-धानाच्छादनानि च’ इत्यमरः । निजेच्छया स्वकीयेच्छया स्वाभिप्रेतजगन्मिथ्यात्वादि-प्रतिपादकत्वेन इति भावः । भाष्यम् ऋक्सूत्रोपनिषदादिभाष्यं प्रविधाय निर्माय आहता संवित् तिरोभवतीति संबन्धः ॥ ४५ ॥
विश्वास-प्रस्तुतिः - ४६
अपनेतुमेनमनयं कृतं खलैः प्रतिनेतुमात्मजनतां शुभां गतिम् ।
कुरु सूत्रभाष्यमविलम्बितं व्रजेः सुमतेन योजय कवे श्रुतिस्मृतीः ॥४६॥
मूलम् - ४६
अपनेतुमेनमनयं कृतं खलैः प्रतिनेतुमात्मजनतां शुभां गतिम् ।
कुरु सूत्रभाष्यमविलम्बितं व्रजेः सुमतेन योजय कवे श्रुतिस्मृतीः ॥४६॥
(कवेः) (पाठान्तर)
पदार्थदीपिकोद्बोधिका
अपनेतुमिति ॥ खलैर् दुर्जनैः कृतमेनं निजेच्छया भाष्यनिर्माणादिरूपम् । नयो न्यायः सच्छास्त्रन्यायस्तद्विरुद्धोऽनयस्तं कुयुक्तिमच्छास्त्रा-भासमित्यर्थः । अपनेतुं निराकर्तुम् आत्मनः जनानां समूहो जनता तां स्वकीयजन-समूहमित्यर्थः । शुभां गतिं मोक्षं प्रति नेतुं प्रापयितुं सूत्रभाष्यं ब्रह्मसूत्रभाष्यं कुरु अविलम्बितं शीघ्रं यथा भवति तथा व्रजेर् गच्छ । कवे ज्ञानिन् श्रुतिस्मृतीः सुमतेन सत्सिद्धान्तेन योजय सत्सिद्धान्तपरत्वेन व्याकुर्वित्यर्थः ॥ ४६ ॥
मन्दोपाकारिणी
अपनेतुमिति ॥ खलैर् नीचैः ‘क्रूरे नीचेऽधमे खले’ इति विश्वः दुर्जनैः कृतम् एनं निजेच्छया भाष्यनिर्माणादिरूपम् अनयं सच्छास्त्रन्यायविरुद्धम् अन्यायम् अपनेतुं निराकर्तुम् आत्मजनताम् आत्मनः स्वस्य जनास् तेषां समूह आत्मजनता ताम् । शुभां शोभनां गतिं मुक्तिं ज्ञानं वा प्रतिनेतुं प्रापयितुं सूत्रभाष्यं ब्रह्मसूत्रव्याख्यानरूपं भाष्यं कुरु विरचय । ‘डु कृञ् करण इत्यतो लोट् परस्मैपदं कुरु, कुरुतात्, कुरुतं कुरुत’ । कवेः पण्डितस्य वेदव्यासस्य । ‘सङ्ख्यावान्पण्डितः कविः’ इत्यमरः । सुमतेन सत्सिद्धान्तेन श्रुतिस्मृतीर् योजय संयोजय भाष्यं कृत्वा सर्वाः श्रुतीः सत्सिद्धान्ततपरत्वेन व्याकुरु इति भावः । ‘युजिर् योग इत्यतो लोट् परस्मैपदं योजय योजयतं योजयत’ । अत एतदर्थम् अविलम्बितम् आशु ‘अविलम्बितमाशु च’ इत्यमरः । व्रजेर् भूमिं प्रति गच्छ । ‘व्रज गतौ इत्यतो विधिलिङ् परस्मैपदं व्रजेर् व्रजेतं व्रजेत’ ॥ ४६ ॥
विश्वास-प्रस्तुतिः - ४७
अमितां मितामपि गिरं जगद्गुरोरिति तां निशम्य विरलेतरान्तरः ।
वदतां वरस्तमवदत् तदा तयोर्विरहाक्षमः खलु चराचरेशयोः ॥ ४७ ॥
मूलम् - ४७
अमितां मितामपि गिरं जगद्गुरोरिति तां निशम्य विरलेतरान्तरः ।
वदतां वरस्तमवदत् तदा तयोर्विरहाक्षमः खलु चराचरेशयोः ॥ ४७ ॥
पदार्थदीपिकोद्बोधिका
अमितामिति ॥ वदतां वाग्मिनां वरः श्रेष्ठः । विरलात्कृ-शादितरद् विरलेतरत् पूर्णमित्यर्थस् तादृशमान्तरं ज्ञानं यस्य तादृशः श्रीमध्वः । इति ‘ृणु देवकार्यमि’त्याद्युक्तप्रकारां मितामपि शब्दतोऽल्पामप्यमितामर्थतोऽनल्पां बह्वर्थगर्भामिति यावज् जगद्गुरोः श्रीनारायणस्य तां गिरं निशम्य तं श्रीनारायणमवदत् ‘भवतोरित’ इति वक्षमाणरीत्योवाच । भवतोरित्यारभ्येतो न गच्छामीत्यर्थप्रतिपादकं वचनं ब्रुवतः कोऽभिप्राय इत्यपेक्षायामाह तयोरित्यादि । चराचरेशयोः स्थावरजङ्गमस्वामिनोस्तयोः श्रीव्यास-नारायणयोर् विरहाक्षमः खलु वियोगेऽसमर्थः खलु वियोगं सोढुम् असमर्थ एव, ननु सर्वथा इतो न गमिष्यामीत्यभिप्रायवानिति भावः ॥ ४७ ॥
मन्दोपाकारिणी
अमितामिति ॥ तदा नारायणोक्तिकाले । वदतां गुरूणां समीपे मर्यादया वक्तॄणां मध्ये । वरो ऽतिविनयपूर्वकवचनचतुरः । विरलेतरान्तरः विरलाद् अल्पादितरद् आन्तरं मनः यस्य सः मध्वः । इति ‘श्रुणु देवकार्यमित्यादिपूर्वोक्तप्रकारेण’ मितामपि शब्दतोऽल्पामपि अमिताम् अर्थतोऽनल्पां बह्वर्थगर्भां जगद्गुरोर् जगत्पितुः ‘गुरूगीष्पति पित्राद्यौ’ इत्यमरः श्रीनारायणस्य ताम् उक्तां गिरं निशम्य तं श्रीहरिम् अवदत् । किंभूतः, चराचरेशयोश् चेतनाचेतनजगदीशयोर् व्यासनारायणयोर् विरहाक्षमः खलु वियोगा-शक्तः किल । ‘क्षमः शक्ते हिते त्रिषु’ इत्यमरः । वियोगं सोढुम् असमर्थ एव सन् न तु सर्वथा इतो गमिष्यामीति भाववान् इत्याशयः ॥ ४७ ॥
विश्वास-प्रस्तुतिः - ४८
भवतोरितः सततसेवनामृते मम मंत्त्कुमस्तु भगवन्ननुग्रहः ।
न लभेय वल्लभतमेदृशं सुखं जगतां त्रयेऽपि जगदेकमङ्गलम् ॥ ४८ ॥
मूलम् - ४८
भवतोरितः सततसेवनामृते मम मंत्त्कुमस्तु भगवन्ननुग्रहः ।
न लभेय वल्लभतमेदृशं सुखं जगतां त्रयेऽपि जगदेकमङ्गलम् ॥ ४८ ॥
पदार्थदीपिकोद्बोधिका
वचनप्रकारमेव दर्शयति भवतोरिति ॥ हे भगवन् इतोऽत्रैव । सार्वविभक्तिकस्तसिः । भवतोर् युवयोः सततसेवनं निरन्तरसेवा तदेवामृतं तस्मि-न्मम मुंक्तुं निमज्जनाय अनुग्रहोऽस्तु । वल्लभतम प्रियतम जगदेकमङ्गलं जगति मुख्यमङ्गलम् ईदृशं सततभगवत्सेवनामृतसदृशं सुखं जगतां त्रयेऽपि न लभेय न प्राप्नुयाम् ॥ ४८ ॥
मन्दोपाकारिणी
भवतोरिति ॥ भगवन् पूर्णैश्वर्यादिषड्गुण मम इतो ऽत्रैव । सार्वविभक्तिकस्तसिः । भवतोर् युवयोः सततसेवनामृते निरन्तरसेवैव अमृतं तस्मिन् मंक्तुं मज्जनाय अनुग्रहो ऽस्तु । ‘अस भुवि लोट् परस्मैपदम् अस्तु स्तां सन्तु’ । कुतः, हे वल्लभतम अतिप्रिय जगदेकमङ्गलं लोके मुख्यमङ्गलं पुरुषार्थरूपम् ईदृशं भवत्सेवामृत-मज्जनसदृशं सुखं जगतां लोकानां त्रयेऽपि न लभेय न प्राप्नुयाम् । ‘डु लभष् प्राप्तौ विधिलिङ् आत्मनेपदं लभेय लभेवहि लभेमहि’ ॥ ४८ ॥
विश्वास-प्रस्तुतिः - ४९
कलिकालकालितगुणे धरातले सुजनो न नूनमधुनाऽस्ति योग्यधीः ।
परतत्त्ववर्णनमयोग्यतावते ननु हव्यदानमिव निन्द्यते शुने॥ ४९ ॥
मूलम् - ४९
कलिकालकालितगुणे धरातले सुजनो न नूनमधुनाऽस्ति योग्यधीः ।
परतत्त्ववर्णनमयोग्यतावते ननु हव्यदानमिव निन्द्यते शुने॥ ४९ ॥
पदार्थदीपिकोद्बोधिका
कलीति ॥ अधुना कलिकालेन कलिसामर्थ्येनेत्यर्थः कालिता नाशिता गुणा ज्ञानभक्तिवैराग्यादयो यस्मिन् तस्मिन् धरातले योग्या तत्त्वज्ञान-योग्या धीर्बुद्धिर्यस्य स सुजनो नूनं प्रायो नास्ति । अयोग्यतावते योग्यताभाववते योग्यतारहितायेत्यर्थः जनाय परतत्त्ववर्णनं परब्रह्मोपदेशः शुनकाय हव्यदानमिव हविर्दानमिव निन्द्यते ननु । निदि कुत्सायां कर्मणि लट् ॥ ४९ ॥
मन्दोपाकारिणी
कलीति ॥ अधुना इदानीं कलिकालकालितगुणे कलिनामक-कालेन तत्सामर्थ्येन इति भावः । कालिता नाशिता गुणा भक्तिवैराग्यादयो यस्मिन् तद् धरातले भूतले । योग्यधीस् तत्त्वज्ञानयोग्यबुद्धिः सुजनः सच्चेतनः नूनं प्रायः नास्ति । अयोग्यतावते अयोग्याय अनधिकारिणे परतत्त्ववर्णनं परब्रह्मोपदेशः निन्द्यते ननु गर्हितो हि । ‘णिदि कुत्सायां कर्मणि लडात्मनेपदम्’ । किमिव, शुने हव्यदानमिव हव्यस्य देवयोग्यान्नस्य दानमिव । कलियुगे प्रायस् तत्त्वज्ञानयोग्या न सन्ति । अयोग्योपदेशो निषिद्धस् तस्मात् तत्र प्रयोजनं नास्ति अतः भवत्समीप एव स्थित्वा सेवां करिष्यामि । भवान् तथैव अनुग्रहं करोतु भवत्सन्निधिसुखस्य अन्यत्राभावाद् इति मध्वो ऽवादीद् इति श्लोकद्वयार्थः ॥ ४९ ॥
विश्वास-प्रस्तुतिः - ५०
इति तं ब्रुवाणमयमब्रवीद्विभुर्भुवि सन्ति सौम्य पुरुषा गुणोचिताः ।
विमलान्मणीनिव गुणोज्खितानिमान् दयया विशोधय विशुद्धगोगणैः ॥ ५० ॥
मूलम् - ५०
इति तं ब्रुवाणमयमब्रवीद्विभुर्भुवि सन्ति सौम्य पुरुषा गुणोचिताः ।
विमलान्मणीनिव गुणोज्खितानिमान् दयया विशोधय विशुद्धगोगणैः ॥ ५० ॥
पदार्थदीपिकोद्बोधिका
इतीति ॥ अयं विभुः श्रीनारायणः । इति ब्रुवाणं तं श्रीमध्वं हे सौम्य भुवि गुणोचिता ज्ञानभक्त्यादिगुणानामुचिताः पुरुषाः सन्ति । विमलानिमान् पुरुषान् गुणोज्खितान् केवलं सत्संसर्गाद्यभावाद् भक्त्यादिगुणवर्जितान् । दयया कृपया विशुद्धानां गवां वाचां गणैस्समूहैः । गुणोज्खितान् सुषिरवत्वेन सूत्रोज्खितान् सूत्रच्युतान् विमलान् मणीन् विशुद्धगोगणैर् निर्मलजलसमूहैर् इव विशोधय विगता-ज्ञानादिदोषान् कुरु । शुध शौचे लोट् ॥ ५० ॥
मन्दोपाकारिणी
इतीति ॥ विभुर् अयं नारायणः । इति ब्रुवाणं भाषमाणं तं मध्वं प्रति, अब्रवीत् हे सौम्य सुन्दर ‘सौम्यं तु सुन्दरः’ इत्यमरः मध्व, भुवि धरायाम् । गुणोचिता ज्ञानादिगुणयोग्याः पुरुषाः सन्ति । विमलान् शुद्धान् गुणोज्खितान् केवलं सत्सङ्गाद्यभावाद् भक्यादिगुणवर्जितान् गुणोचितपुरुषान् दयया विशुद्धगोगणैर् विशुद्धा वाक्यदोषरहिता गावः वाचस् तासां गणैः सङ्घातैर् विशोधय विगताज्ञानादिदोषान्
कुरु इत्यर्थः । कान् कैरिव, कश्चित् परीक्षकः गुणोचितान् सूत्रोचितान् छिद्रवत्वेन प्रवेशयितुं योग्यान् गुणोज्खितान् सूत्रच्युतान् विमलान् स्वतस् त्रासादिदोषरहितान् मणीन् विशुद्धगोगणैर् विशुद्धैर् निर्मलैर् गोगणैर् जलसमूहैरिव यथा जलेन शोधयति प्रक्षाल्य पङ्करहितान् करोति, तथा त्वमपि शोधय इति भावः । ‘इव यद्वा यथा शब्दा उपमानस्य वाचकाः’ इत्यभिधानम् । ‘भूवाग्वारिषु गौः’ स्मृत इति विश्वः । ‘शुध शौच इत्यतः णिजन्ताद् लोट् परस्मैपदं शोधय शोधयतं शोधयत’ ॥ ५० ॥
विश्वास-प्रस्तुतिः - ५१
तव कीर्तिरार्तिमतिमात्रमानयेदशुभान् प्रभाकरविभेव कौशिकान् ।
कमलाकरानिव शुभान्प्रबोधयेत्परमाज्ञया मम विशेषतोऽनिशम् ॥ ५१ ॥
मूलम् - ५१
तव कीर्तिरार्तिमतिमात्रमानयेदशुभान् प्रभाकरविभेव कौशिकान् ।
कमलाकरानिव शुभान्प्रबोधयेत्परमाज्ञया मम विशेषतोऽनिशम् ॥ ५१ ॥
पदार्थदीपिकोद्बोधिका
तवेति ॥ हे मध्व तव कीर्तिः, अशुभान् दुष्टान् अनिशं निरन्तरम् अतिमात्रम् अतितराम् आर्तिं दुःखं, प्रभाकरविभा सूर्यप्रभा कौशिकानिव दिवान्धसञ्ज्ञकान्पक्षिविशेषानिव । ‘दिवान्धः कौशिको धूकः’ इत्यमरः । कौशिका हि सूर्यप्रकाशेऽन्धा भवन्ति । आनयेत् प्रापयेत् । तव कीर्तिः शुभान् सज्जनान् प्रभाकरविभा कमलाकरानिव पद्माकरानिव प्रबोधयेद् विकासमानयेत् । बुध अवगमने लिङ् । तव कीर्तिसामर्थ्यमेवेत्थंभूतं, मम परमाज्ञया उत्तमाज्ञया विशेषतोऽशुभान् आर्तिमानयेत्, शुभान् प्रबोधयेच्च । अत्रोपमालङ्कारः ॥ ५१ ॥
मन्दोपाकारिणी
तवेति ॥ हे मध्व तव कीर्तिर् यशो ऽशुभान् असज्जनान् अनिशम् अतिमात्रम् अत्यर्थम् आर्तिं दुःखं ‘आर्तिः पीडा धनुष्कोट्योः’ इत्यमर आनयेत् प्रापयेत् । ‘आङ्पूर्वात् णीञ् प्रापणे विधिलिङ् नयेन् नयेतां नयेयुः’ । का कानिव, प्रभाकरविभा सूर्यतेजः ‘तेजोधाममहोविभा’ इत्यमरः कौशिकानिव पक्षिविशेषानिव ‘दिवान्धः कौशिको धूकः’ इत्यमर उलूका हि सूर्यप्रकाशे अन्धा भवन्ति । तव कीर्तिः शुभान् सज्जनान् प्रबोधयेद् विकासम् आनयेत् सन्तोषयेत् । ‘बुध अवगमे विधिलिङ् परस्मैपदं बोधयेद् बोधयेतां बोधयेयुः’ । का कानिव, प्रभाकरविभा कमलाकरानिव तटाकानिव । ‘पद्माकरस्तटाकोऽस्त्री’ इत्यमरः । तव कीर्तेः स्वत एव तादृशं सामर्थ्यम् । मम परमाज्ञया विशेषतो ऽशुभान् दुःखयेत् शुभान् सन्तोषयेच्च ॥ ५१ ॥
विश्वास-प्रस्तुतिः - ५२
इति सा महीधरमुखाद्विनिःसृता जगतां सुखाय विशदा सरस्वती ।
द्विजराजगोविषयतातिपूरितं प्रविवेश मध्वपृथुबुद्धिवारिधिम् ॥ ५२ ॥
मूलम् - ५२
इति सा महीधरमुखाद्विनिःसृता जगतां सुखाय विशदा सरस्वती ।
द्विजराजगोविषयतातिपूरितं प्रविवेश मध्वपृथुबुद्धिवारिधिम् ॥ ५२ ॥
भावप्रकाशिका
महीधरो गिरिर्हरिश्च । द्विजराजश्चन्द्रो व्यासश्च ॥ ५२ ॥
॥ इति श्रीनारायणपण्डिताचार्यविरचितायां स्वकृतश्रीसुमध्वविजयस्य भावप्रकाशिकाख्यटीकायाम् अष्टमः सर्गः ॥
पदार्थदीपिकोद्बोधिका
इतीति ॥ जगतां सुखाय । इति महीधरस्य धरणीधरस्य श्रीनारायणस्य मुखाद् विनिःसृता निर्गता विशदा शोभना सरस्वती वाक् । द्विजराजस्य श्रीवेदव्यासस्य गवां वचनानां विषयतया गोचरतया अतिपूरितम् अतिसमृद्धम् । व्यासोक्तानाम् अपि एतादृशवचनानां हृदि वर्तमानत्वादिति यावत् । मध्वस्य पृथुबुद्धिरेव विपुलबुद्धिरेव वारिधिः समुद्रस्तं प्रविवेश । महीधरमुखाद् गिरिकन्दराज् जगतां सुखाय विनिःसृता विशदा प्रसन्ना सरस्वती नदी द्विजराजगोविषयतातिपूरितं चन्द्रकिरणसम्बन्धाद् अतिपूरितं सागरमिवेति श्लेषार्थः ॥ ५२ ॥
मन्दोपाकारिणी
इतीति ॥ जगतां सज्जनानां सुखाय इति पूर्वोक्तप्रकारेण महीधरमुखान् मह्या भूमेर् धारकस्य नारायणस्य मुखाद् विनिःसृता निर्गता विशदा निर्मला सा सरस्वती गीः । ‘गीर्वाग्वाणी सरस्वती’ इत्यमरः । मध्वपृथुबुद्धिवारिधिं मध्वस्य पृथ्वी विशाला बुद्धिविषयिणी इति यावत् सा च सा बुद्धिर् अन्तःकरणं सैव वारिधिः समुद्रस् तं मध्वान्तःकरणरूपसमुद्रं प्रविवेश अन्तर्गतवती । किंभूतं बुद्धिवारिधिं, द्विजराजगो-विषयतातिपूरितं द्विजानाम् ऋषीणां राजा प्रभुः ‘राजा प्रभौ नृपे चन्द्रे’ इति विश्वः वेदव्यासस् तस्य गावः वाचस् तासां विषयतया गोचरतया अतिपूरितम् अत्यन्तपूर्णं व्यासोक्तवचसा हृदि वर्तमानत्वम् इति यावत् । यथा महीधरमुखात् पर्वतस्य मुखाद् गुहाया विनिःसृता विशदा स्वच्छा सरस्वती नदी ‘रोधोवक्त्रा सरस्वती’ इत्यमरः । द्विजराजगोविषयतातिपूरितं द्विजराजस्य चन्द्रस्य गावः रश्मयस् तासां विषयतया सम्बन्धेन अतिपूरितम् अत्यन्तम् अभिवृद्धं सागरं प्रविशति तथेति श्लेषार्थः । श्रीमध्वः नारायणोक्तिं मनसा अङ्गीचकार इति भावः ॥ ५२ ॥
विश्वास-प्रस्तुतिः - ५३
मतमित्यवेत्य महितं महतोरभिधाय बाढमिति धीरमतिः ।
अनयोर्नियोगमधिरोपितवान् स्वशिरस्यनन्यसुवहं प्रणमन्॥५३॥
मूलम् - ५३
मतमित्यवेत्य महितं महतोरभिधाय बाढमिति धीरमतिः ।
अनयोर्नियोगमधिरोपितवान् स्वशिरस्यनन्यसुवहं प्रणमन्॥५३॥
पदार्थदीपिकोद्बोधिका
मतमिति ॥ धीरधीः स्थिरबुद्धिः श्रीमध्वः । महतोः श्रीव्यासनारायणयोर् महितं सम्मतं मतं सिद्धान्तम् इति उक्तप्रकारेण अवेत्य मम गमनमेव तयोरभिमतमिति ज्ञात्वेति यावत् । प्रणमन् सन् बाढं तथास्त्वित्यभिधाय, अनन्यसुवहमन्येन सुखेन सोढुमशक्यम् अन्येन कर्तुमशक्यमिति यावत् । अनयोर्नियोगम् आज्ञां स्वशिरसि अधिरोपितवान् शिरसि बद्धाञ्जलिर्भूत्वा बाढमित्यभिधाय तदाज्ञामङ्गीकृतवानिति भावः । प्रमिताक्षरावृत्तम् । ‘प्रमिताक्षरा सजससैः कथिते’ति तल्लक्षणम् ॥ ५३ ॥
मन्दोपाकारिणी
मतमिति ॥ धीरमतिर् अचञ्चलमतिर् मध्वः । महतोर् आर्ययोर् वेदव्यासनारायणयोर् महितं सर्वपूजितं मतं सिद्धान्तम् इति उक्तप्रकारेण अवेत्य मम गमनम् एतयोर् अभीष्टमिति ज्ञात्वा प्रणमन् नमस्कुर्वन् बाढं भवदाज्ञां करिष्यामीति प्रतिज्ञाम् अभिधाय उक्त्वा विधाय इति यावत् । ‘भृशप्रतिज्ञयोर्बाढं’ इत्यमरः । अनन्यसुवहम् अन्येन पुरुषेण सुखेन वहं वोढुं शक्यं तन्न भवतीति अनन्यसुवहम् अन्येन कर्तुम् अशक्यमिति यावत् । अनयोर् वेदव्यासनारायणयोर् नियोगम् आज्ञां स्वशिरसि स्वमूधर्ि्न अधिरोपितवान् स्थापितवान् । शिरसि अञ्जलिं बध्वा भवदाज्ञां करिष्यामि इति वचसापि तदाज्ञाम् अङ्गीचकार इति भावः । प्रमिताक्षरावृत्तम् । ‘प्रमिताक्षरा सजससैः कथिता’ इति तल्लक्षणात् ॥ ५३ ॥
विश्वास-प्रस्तुतिः - ५४
आम्नायास्त्रय इव तत्त्वबोधकास्ते पापघ्नास्त्रय इव पावकाः प्रजानाम् ।
लोका वा सकलभृतस्त्रयोऽत्र रेजुः सानन्दा मुनिसुतधर्मसूनुमध्वाः॥५४॥
मूलम् - ५४
आम्नायास्त्रय इव तत्त्वबोधकास्ते पापघ्नास्त्रय इव पावकाः प्रजानाम् ।
लोका वा सकलभृतस्त्रयोऽत्र रेजुः सानन्दा मुनिसुतधर्मसूनुमध्वाः॥५४॥
॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतश्रीनारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनन्दाङ्के अष्टमः सर्गः ॥
पदार्थदीपिकोद्बोधिका
आम्नाया इति ॥ सानन्दा आनन्दसहितास्त्रय, आम्नाया इव वेदा इव प्रजानां तत्त्वबोधकाः परापरतत्त्वबोधयितारः, त्रयः पावका इव अग्नय इव प्रजानां पापानि घ्नन्तीति तादृशाः । त्रयो लोका इव सकलं बिभ्रतीति सकलभृतः सर्वं दधानास् ते त्रयः, मुनिसुतः पराशरसुतः श्रीव्यासः, धर्मसूनुर् धर्मप्रजेश्वरसूनुः श्रीनारायणः, मध्वश्च, तेऽत्र आश्रमे रेजुः । प्रहर्षणीवृत्तम् । ‘म्नौजौगस्त्रिदशयतिः प्रहर्षणीयमि’ति तल्लक्षणात् ॥ ५४ ॥
॥ इति श्रीमद्वेदाङ्गमुनिविरचितश्रीसुमध्वविजयटीकाविवृतौ श्रीविश्वपतितीर्थकृतौ पदार्थदीपिकोद्बोधिकायाम् अष्टमः सर्गः ॥
मन्दोपाकारिणी
आम्नाया इति ॥ सानन्दा आनन्देन सहिताः सानन्दाः । ते त्रयः मुनिसुतधर्मसूनुमध्वा व्यासनारायणमध्वाः । अत्र नारायणाश्रमे रेजुः । ‘राजृदीप्तौ लिट् परस्मैपदम्’ । कथंभूताः प्रजानां जनानां तत्त्वबोधकाः परब्रह्मतत्त्वोपदेशकाः । के इव जनानां तत्त्वबोधकाः पदार्थप्रकाशकास् त्रय ऋग्यजुःसामाख्या आम्नाया वेदा इव । पुनः किंभूताः । प्रजानां पापघ्नाः पापानि घ्नन्तीति दर्शनस्मरणादिना दुरितसंहारकाः । के इव प्रजानां पापघ्ना आहवनीयदक्षिणाग्निगार्हपत्याख्यास् त्रयः पावका अग्नय इव । पुनः किं भूताः सकलभृतः सकलपोषकाः । के इव भूर्भुवःस्वः नामानः लोका वा भुवनानीव । वेदा इव तत्त्वबोधकाः, अग्नय इव पापदाहकाः, लोका इव प्रजापोषका व्यासनारायणमध्वाः सुखेन अस्मिन् आश्रमे अशोभन्त इति भावः । वृत्तं तु प्रहर्षिणी । ‘त्र्याशाभिर्मनजरगाः प्रहर्षिणीयम्’ इति तल्लक्षणात् ॥ ५४ ॥
॥ इति श्रीमध्वविजयटीकायां श्रीमच्छलारिनरसिंहाचार्याणां शिष्येण शेषेण विरचितायां मन्दोपकारिण्याम् अष्टमः सर्गः ॥ ८ ॥