सप्तमः सर्गः
सप्तमः सर्गः
विश्वास-प्रस्तुतिः - १
अथ हैमवते तटान्तरे बदरीषण्डविशेषमण्डितम् ।
परमाश्रममाश्रयं श्रियः सकलज्ञः स ददर्श विश्रुतम्॥ १ ॥
मूलम् - १
अथ हैमवते तटान्तरे बदरीषण्डविशेषमण्डितम् ।
परमाश्रममाश्रयं श्रियः सकलज्ञः स ददर्श विश्रुतम्॥ १ ॥
पदार्थदीपिकोद्बोधिका
अथेति ॥ अथ हिमवल्लङ्घनानन्तरम् । स सकलज्ञः सर्वज्ञः श्रीमध्वाचार्यो हिमवतः सम्बन्धि हैमवतं तस्मिन् । अन्यत्तटं तटान्तरं तस्मिन्हिमवत उत्तरपार्श्व इति यावत् । बदरीणां बदरीवृक्षाणां यानि षण्डानि समूहास्तैर्विशेषमण्डितो विशेषेणालङ्कृतस्तम् । ‘षण्डं पद्मादिसङ्घाते’ इति विश्वः । श्रियो रमायाश्शोभाया वा आश्रयमाधारं विश्रुतं प्रसिद्धं परमाश्रमम् उत्तमाश्रमं ददर्श । उत्तरबदरिकाश्रमं ददर्शेति भावः । अस्मिन्सर्गे प्रायः सुन्दरीवृत्तम् । ‘अयुजोर्यदि सा लगौ लगौ समयौ स्थौ रलगाश्च सुन्दरी’ति तल्लक्षणम् ॥ १ ॥
मन्दोपाकारिणी
अथेति ॥ अथ हिमवत्पर्वतदर्शनानन्तरम् । सकलज्ञः सर्वज्ञः । सः मध्वाचार्यः । हैमवते हिमवत्पर्वतस्य इदं हैमवतं तस्मिन् हिमवत्संबन्धिनि तटान्तरे अन्यत् तटं तटान्तरं तस्मिन् उत्तरपार्श्वे इति यावत् । बदरीषण्डविशेषमण्डितं बदरीणां ‘कर्कन्धूर्बदरीकोली’ इत्यमरः । षण्डैः समूहैर् विशेषेण अतिशयेन मण्डितम् अलङ्कृतं ‘षण्डः सङ्घात उच्यते’ इति विश्वः । श्रियः रमाया आश्रयम् आवासस्थानं लक्ष्मीसन्निधानोपेतामिति यावत् । विश्रुतं प्रसिद्धम् । ‘प्रतीते प्रथितज्ञातवित्तविज्ञातविश्रुताः’ इत्यमरः । परम् उत्तमम् । ‘दूरानात्मोत्तमाः पराः’ इत्यमरः । आश्रमं वेदव्यासस्य आवासस्थानभूतं बदरिकाश्रमम् इत्यर्थः । परमाश्रमं परमस्य सर्वोत्तमस्य वेदव्यासस्य आश्रमं परमाश्रमम् इति एकं वा पदम् । ददर्श दृष्टवान् । ‘दृशिर् प्रेक्षण इत्यतो लिट् परस्मैपदं ददर्श ददृशतुर् ददृशुः’ । सुन्दरीवृत्तं ‘विषमे समजागुरुः समे सभरालोऽथ गुरुर्वियोगिनी’ इति तल्लक्षणाद् एतद् वृत्तस्य नामापि वैतालीयो वा सुन्दरी वा ॥ अस्मिन् सर्गे वेदव्यासस्य वेदव्याससंबद्धाश्रमाणां च सौन्दर्यस्य वर्णनात् प्रायः सुन्दरीवृत्तम् ॥ १ ॥
विश्वास-प्रस्तुतिः - २
हिमवर्षरविप्रभासहाः पृथुसत्रप्रथिता द्विजाश्रयाः ।
अपि विष्णुपदस्पृशोऽलसन्नुभये यत्र विचित्रशाखिनः॥ २ ॥
मूलम् - २
हिमवर्षरविप्रभासहाः पृथुसत्रप्रथिता द्विजाश्रयाः ।
अपि विष्णुपदस्पृशोऽलसन्नुभये यत्र विचित्रशाखिनः॥ २ ॥
भावप्रकाशिका
सत्रं वनं यज्ञविशेषश्च । द्विजाः पक्षिणो ब्राह्मणाश्च । शाखिनो वृक्षा ऐतरेयकौषीतकबाष्कलशाकल्यपैङ्गिकाठकादयश्च ॥ २ ॥
पदार्थदीपिकोद्बोधिका
हिमेति ॥ स श्रीमध्वाचार्यः । हिमञ्च वर्षं वृष्टिस्तच्च रविप्रभा च, ताः सहन्त इति तथोक्ताः । वृक्षास्तु हिमादिनिवारकाभावात्तादृशाः । विप्रास्तु तपसि स्थित्वा धैर्येण तादृशा इति भावः । पृथूनि महान्ति यानि सत्राणि वनानि यज्ञाश्च तेषु प्रथिताः प्रसिद्धाः । ‘सत्रमाच्छादने यज्ञे सदा दाने वनेऽपि च’ इत्यमरः । द्विजाश्रयाः पक्षिणां ब्राह्मणानां च आश्रयाः । ‘दन्तविप्राण्डजा द्विजा’ इत्यमरः । विष्णुपदम् आकाशं हरिचरणं च स्पृशन्तीति विष्णुपदस्पृशः । ‘वियद्विष्णुपदं’ इत्यमरः । उभये, उभयविधा विचित्रा याः शाखा वृक्षाङ्गानि वेदविभागाश्च, ता एषां सन्तीति विचित्रशाखिनो नानाविधवृक्षा मुनयश्च । ‘शाखा वेदविभागे च पादपाङ्गेऽन्तिकेऽपि च’ । यत्र बदरिकाश्रमेऽलसन् अशोभन्त तं ददर्शेति पूर्वेणान्वयः ॥ २ ॥
मन्दोपाकारिणी
आश्रममेव वर्णयति हिमेत्यादित्रिभिः श्लोकैः ॥ हिमेति ॥ यत्र बदरिकाश्रमे । उभये द्विविधाः । विचित्रशाखिनः विचित्रा नानाविधाश्च ते शाखिनश्च विचित्रशाखिनः नानाविधवृक्षाः । ऋगादिनानाशाखावन्तो विप्राश्च उच्यन्ते विचित्र-शाखिपदेन । शाखा येषां सन्तीति शाखिन इति विग्रहः । ‘वृक्षो महीरुहः शाखी’ इत्यमरः । एवं वृक्षा विप्राश्च । अलसन् अशोभन्त । ‘लस विकास इति धातोर् लङ् परस्मैपदम् अलसद् अलसताम् अलसन्’ । यत्रेति यच्छब्दस्य तम् आश्रमं ददर्श इति पूर्वश्लोकेन अन्वयः । कथंभूता वृक्षा विप्राश्च । हिमवर्षरविप्रभासहा हिमं नीहारः । ‘अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमं’ इत्यमरः । वर्षं वृष्टिः । ‘वृष्टिर्वर्षं तद्विघाते’ इत्यमरः । रवेः सूर्यस्य प्रभा आतपः । हिमं च वर्षं च रविप्रभा च हिमवर्षरविप्रभास् ताः सहन्ते क्षमन्ते ते हिमवर्षरविप्रभासहा वृक्षास्तु हिमादिनिवारकत्वाभावादेव हिमादिसहाः । विप्रास्तु तपस्वित्वाद् धैर्येण तत्सहा इति ज्ञेयम् । पृथुसत्रप्रथिताः पृथूनि महन्ति च तानि सत्राणि वनानि यज्ञाश्च पृथुसत्राणि तेषु प्रथिताः प्रसिद्धाः । ‘सत्रमाच्छादने यज्ञे सदा दाने वनेऽपि च’ इत्यमरः । वृक्षा महावने प्रसिद्धाः । ब्राह्मणास्तु महायज्ञे प्रसिद्धाः । द्विजाश्रया द्विजानां पक्षिणां विप्राणां च आश्रया आधाराः ‘दन्तविप्राण्डजा द्विजाः’ इत्यमरः । वृक्षाः पक्षिणामाश्रया विप्रा ब्राह्मणाश्रयाः । विष्णुपदस्पृशः विष्णुपदम् आकाशं स्पृशन्ति ते विष्णुपदस्पृशः वृक्षा अत्युच्छ्रिता इति यावत् । ‘वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी’ इत्यमरः । विप्रास्तु विष्णोः पदं स्पृशन्ति स्मरन्ति इति विष्णुपदस्पृशः । अनेन
श्लोकेन आश्रमे नानाविधा वृक्षा ऋग्यजुस्सामादिशाखाध्येतारो विप्राश्च सन्तीति
उक्तं भवति ॥ २ ॥
विश्वास-प्रस्तुतिः - ३
श्रवणामृतगीर्गणैर्द्विजैः शुकमुख्यैः शुभपक्षिभिर्युतम् ।
कमलेष्टतमस्थिरान्तरैरपि हंसैः परमैरमेचकैः ॥ ३ ॥
मूलम् - ३
श्रवणामृतगीर्गणैर्द्विजैः शुकमुख्यैः शुभपक्षिभिर्युतम् ।
कमलेष्टतमस्थिरान्तरैरपि हंसैः परमैरमेचकैः ॥ ३ ॥
भावप्रकाशिका
श्रीशुकाचार्यमुख्यैः समयिभिश्च । कमलेष्टतमः कमलारमणः कमलान्येवेष्टतमानि च । परमहंसैः श्वेतच्छदश्रेष्ठैश्च । अमेचकैः श्वेतैर्निर्मलैश्च ॥ ३ ॥
पदार्थदीपिकोद्बोधिका
पुनः कथंभूतमाश्रममित्यत आह श्रवणेति ॥ स श्रीमध्वाचार्यः । श्रवणानां श्रोत्राणाममृतायमानो यो गिरां वाचां गणः समूहो येषां तैः । मुनिपक्षे तु, श्रवणामृतगिरः, भगवद्गुणप्रतिपादकवचनानि, तासां गणो येषां तैः । शुकस्तन्नामकपक्षिविशेषः, शुकाचार्यश्च । सः मुख्यः प्रधानो येषां तैः । शुभा ये पक्षाः पतत्राणि शुभपक्षः, शुभसिद्धान्तश्च, एषां सन्तीति तादृशैर्द्विजैः, पक्षिभिर्ब्राह्मणैश्च वृतम् । कमलञ्च तदिष्टतममतिप्रियञ्चेति कमलेष्टतमं तस्मिन् स्थिरमन्तरं मानसं येषां तैः । कमलाया रमाया इष्टतमः प्रियतमः श्रीहरिस्तस्मिन् स्थिरमन्तरं मानसं येषां तैः । मेचकाः श्यामला न भवन्तीत्यमेचकास्तैरतिशुभ्रैरित्यर्थः । निर्मलैश्च, त्रिकरणशुद्धैरिति यावत् । ‘कालः श्यामल-मेचका’ इत्यमरः । परमैरुत्तमैर्हंसैर्हंसाख्यपक्षिभिः, सन्यासिभिश्च वृतमाश्रमं ददर्शेति पूर्वेणान्वयः ॥ ३ ॥
मन्दोपाकारिणी
श्रवणेति ॥ पुनः कथंभूतम् आश्रमं श्रवणामृतगीर्गणैः श्रवणयोः कर्णयोः । ‘कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः’ इत्यमरः । अमृतानि अमृततुल्यानि सुखकराणीति यावत् । गिरां ध्वनीनां गणाः समूहा येषां ते तथोक्तास् तैः । शुकमुख्यैः शुकः शुकाख्यपक्षी मुख्यो येषां ते शुकमुख्यास् तैः । शुभपक्षिभिः शोभनाः पक्षा येषां ते शुभपक्षिणस् तैः । ‘गरुत्पक्षच्छदाः पत्रं’ इत्यमरः । द्विजैर् विहङ्गैर् युतं युक्तम् । पुनः कथंभूतं श्रवणामृतगीर्गणैः श्रवणयोर् अमृतायमानानां गिरां शास्त्रवचनानां गणा येषां ते । शुकमुख्यैः शुकाचार्यः मुख्यः श्रेष्ठः येषां ते शुकमुख्यास् तैः । शुभपक्षिभिः शुभः विष्णु-सम्बन्धित्वेन शोभमानः पक्षः सिद्धान्तः येषाम् अस्तीति शुभपक्षिणस् तैः । द्विजैर् मुनिभिर् युतम् । पुनः कथंभूतम् । कमलेष्टतमस्थिरान्तरैः कमलं च तद् इष्टतमम् अतिप्रियं च अतिप्रियकमलमिति यावत् तस्मिन् स्थिरं निश्चलम् अन्तरं मनो येषां ते तथोक्तास् तैः कमलगतमकरन्दोत्सुकैर् इत्यर्थः । अमेचकैर् मेचकाः श्यामला न भवन्तीति अमेचकाः । ‘कालः श्यामलमेचकाः’ इत्यमरः । तैः शुभ्रैर् इत्यर्थः । परमैर् उत्तमैः । हंसैरपि हंसपक्षि-भिरपि युतम् । ‘हंसास्तु श्वेतगरुतः’ इत्यमरः । अनेन बदरिकाश्रमे बहवः कमलाकराः सन्तीति ध्वन्यते । पुनः कथंभूतम् । कमलेष्टतमस्थिरान्तरैः कमलाया लक्ष्म्या इष्टतमो ऽतिप्रियो हरिस् तस्मिन् स्थिरं निश्चलम् अन्तरं मनो येषां ते तथोक्तास् तैः । अमेचकैर् निर्मलैस् त्रिकरणशुद्धैर् इति यावत् । परमैर्हंसैरपि सन्यासिभिश्च परमहंसाख्यैर् योगिभिर् अपि इत्यर्थः । ‘हंसो विहङ्गभेदे स्यादर्के विष्णौ हयान्तरे । निर्लोभनृपतौ योगिमन्त्रभेदे परात्मनि’ इति विश्वः । युतम् । अत्र आश्रमे श्राव्यध्वनिशुकादिपक्षिणस् तत्रत्यसरस्सु कमलरसोत्सुक-हंसपक्षिणः सन्ति । तथा वेदशास्त्रप्रवचनश्रवणमननादिव्यापारकारिणः शुकाचार्यादिमुनयस् तथा लक्ष्मीपतिं ध्यायन्तः परमहंसाश्च सन्तीति उक्तं भवति ॥ ३ ॥
विश्वास-प्रस्तुतिः - ४
सुमनोनिकरेण पूरितं स्वमनोऽभीष्टदमल्पदुर्गमम् ।
अपरस्परमत्सरप्रजं ननु वैकुण्ठमिवाच्युतालयम् ॥ ४ ॥
मूलम् - ४
सुमनोनिकरेण पूरितं स्वमनोऽभीष्टदमल्पदुर्गमम् ।
अपरस्परमत्सरप्रजं ननु वैकुण्ठमिवाच्युतालयम् ॥ ४ ॥
पदार्थदीपिकोद्बोधिका
पुनः कथंभूतमित्यत आह—सुमन इति ॥ स श्रीमध्वा-चार्यः । सुमनसां पुष्पाणां निकरः समूहस्तेन पूरितम् । वैकुण्ठोऽप्येवं, शोभनं मनो येषां मुनीनां ते सुमनसस्तेषां निकरस्तेन पूरितमिति वा । वैकुण्ठपक्षे तु, सुमनोनिकरेण देवसमूहेन पूरितम् । स्वमनोऽभीष्टं ‘आत्मीयज्ञानिधनवाची स्वशब्दः’ । अत्र स्वशब्दे-नात्मीया उच्यन्ते । ते च स्वतन्त्रत्वात्स्वशब्दवाच्यभगवत्सम्बन्धिनः । तथा च स्वेषां स्वतन्त्रभगवत्सम्बन्धिनां सतां यन्मनस् तस्य यदभीष्टं भगवद्दर्शनादिलक्षणं तद्ददातीति तथोक्तस्तम् । वैकुण्ठोऽप्येवं स्वमनोभीष्टदम् । अल्पैर्दुर्बलैर्ज्ञानभक्त्यादिबलवर्जितैरित्यर्थः । तैर्दुर्गमो गन्तुमशक्यस्तम् । वैकुण्ठोऽप्येतादृशः । न विद्यते परस्परं मत्सरोऽन्योन्यं मत्सरो यासां ता अपरस्परमत्सरास्तादृशाः प्रजा जना यस्मिंस्तम् । वैकुण्ठोऽप्यपरस्परमत्सरप्रजः । वैकुण्ठमिव वैकुण्ठलोकवदच्युतालयोऽच्युतावासभूतस्तमाश्रमं ददर्शेति पूर्ववत् ॥ ४ ॥
मन्दोपाकारिणी
सुमन इति ॥ पुनः कथंभूतम् । सुमनोनिकरेण सुमनसां पुष्पाणां निकरेण स्तोमेन । ‘स्तोमौघनिकरव्रातवारसंघातसञ्चयाः’ इत्यमरः । पूरितं नानाविधपुष्प-समूहपूर्णम् । स्वमनोभीष्टदं ‘स्वातन्त्र्यात् स्व इति प्रोक्त’ इत्युक्तेः परः स्वो हरिरित्युक्तेश्च स्वः भगवान् स्वे भगवति मनः येषां ते स्वमनसः । सुमनोभीष्टदम् इति पाठे विष्णुरतत्वेन शोभनं मनो येषां ते सुमनसः भगवद्भक्ता इति यावत् । तेषाम् अभीष्टं वाञ्छितं ददातीति सुमनोभीष्टदस् तम् । अल्पदुर्गमम् अल्पैर् ज्ञानभक्त्यादिबलरहितैर् दुर्गमं गन्तुमशक्यम् । अपरस्परमत्सरप्रजं न विद्यते परस्परम् अन्योन्यं मत्सरः शुभद्वेषः येषां ते अपरस्परमत्सराः । ‘मत्सरो हि शुभद्वेषः’ इति विश्वः । अपरस्परमत्सराः प्रजा जना यस्मिन् सस् तथोक्तस् तम् । ‘प्रजा स्यात् सन्ततौ जने’ इत्यमरः । अच्युतालयम् अच्युतस्य वेदव्यासस्य आलयं मन्दिरम् । पुनः कथंभूतम् । सुमनोनिकरेणपूरितं सुमनसां देवानां ‘सुमनः पुष्पमालत्यो-स्त्रिदशे कोविदेऽपि च’ इति विश्वः निकरेण पूरितं पूर्णं स्वमनोभीष्टदम् अल्पदुर्गमम् अपरस्पर-मत्सरप्रजम् अच्युतस्य श्रीनारायणस्य आलयं वैकुण्ठलोकमिव स्थितं ननु ॥ ४ ॥
विश्वास-प्रस्तुतिः - ५
तमिमं प्रविशन्तमाश्रमं द्व्यधिकत्रिंशदुदारलक्षणम् ।
गुणसारविदः कुतूहलादवलोक्यर्षय इत्यचिन्तयन्॥ ५ ॥
मूलम् - ५
तमिमं प्रविशन्तमाश्रमं द्व्यधिकत्रिंशदुदारलक्षणम् ।
गुणसारविदः कुतूहलादवलोक्यर्षय इत्यचिन्तयन्॥ ५ ॥
पदार्थदीपिकोद्बोधिका
तमिति ॥ गुणानां सारो विवेकस् तं विदन्ति जानन्तीति तथोक्ताः । गुणानां सारासारविवेकज्ञा इत्यर्थः । ऋषय आश्रमं प्रविशन्तं द्वेऽधिके यस्याः सा द्व्यधिका सा च सा त्रिंशच्च द्व्यधिकत्रिंशदुदारलक्षणान्युत्तमलक्षणानि यस्य तम् । तमिमं श्रीमध्वाचार्यमवलोक्य कुतूहलात् कुतुकादिति वक्ष्यमाणरीत्याऽचिन्तयन् । चिति स्मृत्यां लङ् ॥ ५ ॥
मन्दोपाकारिणी
तमिति ॥ गुणसारविदः गुणानां शुभधर्माणां सारं विदन्ति जानन्तीति गुणसारविदः गुणविशेषाभिज्ञा इत्यर्थः । ऋषयः बदरिकाश्रमस्था मुनयः । इमं पूर्वोक्तविशेषणविशिष्टम् आश्रमं वेदव्यासाश्रमं प्रविशन्तं प्रवेशं कुर्वन्तं द्व्यधिकत्रिंशदुदारलक्षणम् उदाराणां महताम् । ‘उदारोदातृमहतोः’ इत्यमरः । उत्तमपुरुषाणामिति यावत् । लक्षणानि शरीरलक्षणानि षण्णवत्यङ्गुलादीनि द्वाभ्याम् अधिका च सा त्रिंशच्च द्व्यधिकत्रिंशद् द्वात्रिंशत्सङ्ख्याकानीत्यर्थः । तावन्ति उदारलक्षणानि यस्य स तथोक्तः । तं श्रीमध्वाचार्यम् अवलोक्य दृष्ट्वा । कुतूहलात् कौतुकात् , इति वक्ष्यमाणप्रकारेण अचिन्तयन् आलोचया-मासुः । ‘चिति स्मृत्यां लङ् अचिन्तयद् अचिन्तयताम् अचिन्तयन्’ ॥ ५ ॥
विश्वास-प्रस्तुतिः - ६
कनकातुलतालसन्निभः कमलाक्षो विमलेन्दुसन्मुखः ।
गजराजगतिर्महाभुजः प्रतियान् कोऽयमपूर्वपूरुषः ॥ ६ ॥
मूलम् - ६
कनकातुलतालसन्निभः कमलाक्षो विमलेन्दुसन्मुखः ।
गजराजगतिर्महाभुजः प्रतियान् कोऽयमपूर्वपूरुषः ॥ ६ ॥
पदार्थदीपिकोद्बोधिका
कनकेति ॥ कनकमयो योऽतुलतालोऽसदृशतालवृक्षस् तस्य सन्निभः समानः । वृत्तपुष्टस्थूलदेह इति भावः । कमलवदक्षिणी यस्य सः । विगतं मलं कलङ्को यस्मात्सः विमलस्तादृशो य इन्दुस्तद्वत्सन्मुखं यस्य । तथा गजानां राजा गजराजस्तस्य गतिरिव गतिर्यस्य सः । महान्तौ भुजौ बाहू यस्य सः । प्रतियातीति प्रतियान् व्यासं प्रति गच्छन्नित्यर्थः । पूर्वो न भवतीत्यपूर्वः स चासौ पूरुषश्च । इतः पूर्वमस्माभिरदृष्टः पुरुष इत्यर्थः । अयं कः? ॥ ६ ॥
मन्दोपाकारिणी
कनकेति ॥ कनकातुलतालसन्निभो ऽतुलो ऽसदृशश्चासौ तालस् तृणराजाख्यवृक्षश्च अतुलतालः । ‘तृणराजाह्वयस्तालः’ इत्यमरः । कनकः सुवर्णमयश्चासौ अतुलतालश्च कनकातुलतालस् तस्य सन्निभः समानः वृत्तपुष्टस्थूलसुवर्णवर्णभुजाद्यवयवोपेतदेह इति भावः । कमलाक्षः कमलवद् अक्षिणी यस्य सः कमलाक्षः । विमलेन्दुसन्मुखः विमलः निष्कलङ्कः षोडशकलापरिपूर्णः स चासौ इन्दुश्चन्द्रमाश्च विमलेन्दुः स इव सद् अभ्यर्हितं दर्शनीयमिति यावत् । मुखम् आननं यस्य स तथोक्तः । ‘प्रशस्तेभ्यर्हिते च सत्’ इत्यमरः । गजराजगतिर् गजानां करिणां राजा श्रेष्ठः गजराजस् तस्य गतिरिव गतिर् गमनं यस्य स तथोक्तः । महाभुजः महान्तौ आजानुदीर्घौ भुजौ बाहू यस्य स तथोक्तः । प्रतियान् व्यासं प्रति गच्छन् । अपूर्वपूरुषो ऽस्माभिः पूर्वम् अदृष्टो ऽपूर्वो ऽपूर्वश्चासौ पूरुषश्च अपूर्वपूरुषः । अयं कः को नु ॥ ६ ॥
विश्वास-प्रस्तुतिः - ७
अतिशान्तवपुर्निशाकरः स्वयमेकान्तखरो दिवाकरः ।
इति नास्य गुणार्णवाकृतेरुपमानं भुवनेषु लभ्यते॥ ७ ॥
मूलम् - ७
अतिशान्तवपुर्निशाकरः स्वयमेकान्तखरो दिवाकरः ।
इति नास्य गुणार्णवाकृतेरुपमानं भुवनेषु लभ्यते॥ ७ ॥
पदार्थदीपिकोद्बोधिका
अतीति ॥ निशाकरोऽतिशान्तं वपुर्यस्य तादृशः । दिवाकरः सूर्य एकान्तेन नियमेन खरस् तीक्ष्ण इत्यस्माद्धेतोर्गुणैरर्णव इव गुणार्णवा आकृतिस्स्वरूपं यस्य तस्यास्य पुरुषस्योपमानं निदर्शनं भुवनेषु न लभ्यते ॥ ७ ॥
मन्दोपाकारिणी
अतिशान्तेति ॥ निशाकरश् चन्द्रो ऽतिशान्तवपुर् अतिशान्तं सौम्यं वपुः स्वरूपं यस्य स तथोक्तः । दिवाकरः सूर्यः । स्वयम् एकान्तखर एकान्तेन नियमेन खरस् तीक्ष्णः । सूर्यः कदापि सौम्यरूपो न भवतीत्यर्थः । ‘तिग्मं तीक्ष्णं खरं तद्वत्’ इत्यमरः । चन्द्रसूर्यादय एकैकगुणवन्तः । इति अस्मात् हेतोः । ‘इति हेतुप्रकरणे’ इति विश्वः । गुणार्णवाकृतेर् गुणार्णवः गुणसागरः स एवाकृतिर् आकारो यस्य स तथोक्तः । तस्य अस्य आगच्छतः पुरुषस्य भुवनेषु उपमानं निदर्शनं न लभ्यते न दृश्यते अस्माभिर् इति शेषः । ‘डु लभष् प्राप्तावित्यस्मात् कर्मणि लडात्मनेपदम्’ ॥ ७ ॥
विश्वास-प्रस्तुतिः - ८
परमाश्रमिणां गतश्रमो ननु चिह्नानि बिभर्ति धीरधीः ।
अपि मानुषभावविग्रहो विपुलं विस्मयमातनोति नः॥ ८ ॥
मूलम् - ८
परमाश्रमिणां गतश्रमो ननु चिह्नानि बिभर्ति धीरधीः ।
अपि मानुषभावविग्रहो विपुलं विस्मयमातनोति नः॥ ८ ॥
पदार्थदीपिकोद्बोधिका
परमेति ॥ गतः श्रमो यस्य सः श्रमरहित इत्यर्थः । धीरा स्थिरा धीर्यस्य सोऽयम् । परमाश्रम उत्तमाश्रमो यत्याश्रम इति यावत् । स एषामस्तीति तेषां यतीनामित्यर्थः । चिह्नानि बिभर्ति ननु । मानुषस्य भावः स्वभावो यस्य तादृशो
विग्रहो देहो यस्य तादृशोऽपि । नो मुनीनामस्माकं विपुलं विस्मयम् आश्चर्यम्
आतनोति वर्धयति ॥ ८ ॥
मन्दोपाकारिणी
परमेति ॥ गतश्रमः गतो ऽपगतः श्रमः मार्गगमनजन्यग्लानिर् यस्मात् स तथोक्तः । धीरधीर् धीरा निर्भया धीर् अन्तःकरणं यस्य स तथोक्तः । विदेशे अहम् एकाकी कथं गमिष्ये इति भयरहित इति यावत् । अयं पुरुषः परमाश्रमिणां परम उत्तम आश्रमः सन्यासः येषाम् अस्तीति परमाश्रमिणस् तेषां यतीनां चिह्नानि दण्डकमण्डलु-काषायवस्त्रादीनि लक्षणानि । बिभर्ति ननु धत्ते खलु । ‘भृञ् भरणे इत्यतो लट् परस्मैपदं बिभर्ति बिभृतः बिभ्रति’ । मानुषभावविग्रहोऽपि मानुषस्य मनुष्यस्य भावः स्वभावः यस्य सः मानुषभावः । ‘भावः सत्तास्वभावाभिप्रायः’ इत्यमरः । मानुषभावो विग्रहः शरीरं यस्य स तथोक्तः । ‘शरीरं वर्ष्म विग्रहः’ इत्यमरः । तादृशदेहवानपि । नः मुनीनाम् अस्माकं विपुलं पृथुलं, ‘विशालं पृथुलं महद् बह्वोरुविपुलं’ इत्यमरः, विस्मयम् आश्चर्यम् आतनोति वर्धयति । ‘आङ् पूर्वात् तनु विस्तार इत्यतो लट् परस्मैपदं तनोति तनुतस् तन्वन्ति’ ॥ ८ ॥
विश्वास-प्रस्तुतिः - ९
चतुरश्चतुराननः स्वयं पवनो वा व्रतिरूप आव्रजन् ।
श्रुतिनाथदिदृक्षयान्यथा न खलु स्यान्निखिलाग्रयलक्ष्मवान् ॥ ९ ॥
मूलम् - ९
चतुरश्चतुराननः स्वयं पवनो वा व्रतिरूप आव्रजन् ।
श्रुतिनाथदिदृक्षयान्यथा न खलु स्यान्निखिलाग्रयलक्ष्मवान् ॥ ९ ॥
पदार्थदीपिकोद्बोधिका
चतुरेति ॥ श्रुतिनाथस्य श्रीवेदव्यासस्य दिदृक्षा दर्शनेच्छा तया । व्रतिनो यतेः रूपं वेषो यस्य सः, आव्रजन् चतुरः सर्वलक्षणचतुरश् चतुराननो ब्रह्मा स्वयं वा । पवनो वा मुख्यवायुर्वा । अन्यथा तयोरन्यतरो न चेन्निखिलानि यान्यग्रय-लक्ष्माण्युत्तमलक्षणान्यस्य सन्तीति तादृशो न स्यात् खलु ॥ ९ ॥
मन्दोपाकारिणी
चतुरेति ॥ अयं पुरुषः । श्रुतिनाथदिदृक्षया श्रुतीनां नाथः वेदव्यासस् तस्य दिदृक्षया द्रष्टुमिच्छया । व्रतिरूपः व्रतिनः सन्यासिनः रूपं वेषो यस्य स तथोक्तः सन् । आव्रजन् आगच्छन् । चतुरः सर्वत्र प्रवीणः । चतुराननश् चत्वारि आननानि यस्य स तथोक्तः । ‘ब्रह्मा स्वयम्भूश्चतुराननः’ इत्यमरः । स्वयं वा । पवनो वा मुख्यवायुर्वा भवेत् । ‘नभस्वद्वातपवनः’ इत्यमरः । वेदव्यासं द्रष्टुं ब्रह्मा वा स्वयं वायुर्वा यतिस्वरूपं धृत्वा आगच्छतीति अस्माकं प्रतिभातीति भावः । अन्यथा ब्रह्मवाय्वोर् अन्यतरो न चेद् अयं निखिलाग्रयलक्ष्मवान् अग्रयाणि उत्तमानि लक्ष्माणि लक्षणानि च । ‘चिह्नं लक्ष्म च लक्षणं’ इत्यमरः । निखिलानि समस्तानि द्वात्रिंशत्सङ्ख्याकानि इति यावत् । अग्रयलक्ष्माणि अस्य सन्तीति निखिलाग्रयलक्ष्म्यवान् । न स्यात् खलु न भवेत् । ब्रह्मवाय्वितरस्य द्वात्रिंशल्लक्षणाभावादिति भावः ॥ ९ ॥
विश्वास-प्रस्तुतिः - १०
अवलोकितलक्षणः स तैरिति सञ्चिन्त्य कुतूहलाकुलैः ।
अविलम्बगतिर्न्यशामयत्तरुमारात्सुरपादपोत्तमम्॥ १० ॥
मूलम् - १०
अवलोकितलक्षणः स तैरिति सञ्चिन्त्य कुतूहलाकुलैः ।
अविलम्बगतिर्न्यशामयत्तरुमारात्सुरपादपोत्तमम्॥ १० ॥
पदार्थदीपिकोद्बोधिका
अवलोकितेति ॥ कुतूहलेनाकुलैः पूर्णैरत्यन्तकुतूहलोपेतै-रित्यर्थः । तैर्मुनिभिरित्युक्तप्रकारेण सञ्चिन्त्य विचार्य । अवलोकितानि लक्षणान्यङ्गसम्पदो यस्य सः । विरिञ्चिपवनयोरन्यतरज्ञापकत्वेन ज्ञातलक्षण इत्यर्थः । अविलम्बा भक्त्यतिशयेन क्षिप्रा गतिर्गमनं यस्य स श्रीमध्वाचार्यः । आरात् समीपे, दूरे वा । सुरपादपः कल्पवृक्ष-स्तद्वदुत्तमं तरुं न्यशामयद् ददर्श । ‘शमोऽदर्शन’ इति मित्वाभावाद्दीर्घः ॥ १० ॥
मन्दोपाकारिणी
अवलोकितेति ॥ कुतूहलाकुलैः कुतूहलेन आश्चर्येण आकुलैस् तन्मनस्कैस् तैर् आश्रमस्थैर् मुनिभिः । इति पूर्वोक्तप्रकारेण सञ्चिन्त्य विचार्य । अवलोकित-लक्षणो ऽवलोकितानि विरिञ्चवाय्वन्यतरज्ञापकत्वेन ज्ञातानि लक्षणानि यस्य स तथोक्तः । अविलम्बगतिर् अविलम्बेन शीघ्रेण गतिर् यस्य स तथोक्तः । भक्त्यतिशयेन शीघ्रं गच्छन् इति भावः । सः मध्वाचार्यः । आराद् दूरे समीपे वा । आराद्दूरसमीपयोः’ इत्यमरः । सुरपादपोत्तमं सुराणां देवानां पादपवत् पारिजातवृक्षवद् उत्तमं श्रेष्ठम् । तरुं बदरीवृक्षम् । ‘विटपी पादपस्तरुः’ इत्यमरः । न्यशामयद् दृष्टवान् ‘निपूर्वकात् शम आलोचने इत्यतो लङ् परस्मैपदम्’ ॥ १० ॥
विश्वास-प्रस्तुतिः - ११
मसृणत्वचमुन्नतं ततं बहुशाखाफणसूनरत्नकम् ।
भगवन्तमनन्तमन्तिके स्थितमीशस्य निषेवणाय वा ॥ ११ ॥
मूलम् - ११
मसृणत्वचमुन्नतं ततं बहुशाखाफणसूनरत्नकम् ।
भगवन्तमनन्तमन्तिके स्थितमीशस्य निषेवणाय वा ॥ ११ ॥
पदार्थदीपिकोद्बोधिका
कीदृशं तरुमित्यतस्तद्विशेषणान्याह मसृणेत्यादि श्लोक-त्रयेण ॥ श्रीमध्वाचार्यः, मसृणाऽतिस्निग्धा त्वग्यस्य सः । ‘मसृणोऽकठिने स्निग्धे’ इति हेमचन्द्रः । शेषोऽपि मृदुलत्वक् । उन्नतमुच्छ्रितमुत्तमञ्च ततं छत्राकारेण व्याप्य स्थितं बहुफणाभोगेन व्याप्य स्थितञ्च । बहवो याः शाखास्ता एव फणास्तेषु सूनानि प्रसूनान्येव रत्नानि यस्मिंस्तम् । अन्यत्र, बहवो याः शाखा वेदशाखास्तदात्मकत्वात्, विस्तृतत्वाद्वृक्ष-शाखासदृशा वा, ये फणास्तेषु यानि सूनरत्नान्युच्छूनरत्नानि यस्य तम् । ‘सूनं वाच्यवदुच्छूने सूनं प्रसवपुष्पयोः’ इति विश्वः ॥ तरुमीशस्य श्रीवेदव्यासस्य निषेवणाय सेवनायान्तिके समीपे स्थितं भगवन्तं पूज्यमनन्तं वा शेषमिव । ‘वा विकल्पोपमानयोः’ इत्यमरः । न्यशामयदिति पूर्वेणान्वयः ॥ ११ ॥
मन्दोपाकारिणी
आदिकुलकमेतत् ॥ मसृणेति ॥ कथंभूतं तरुम् । ईशस्य वेदव्यासस्य । निषेवणाय सेवां कर्तुम् । अन्तिके वेदव्यासस्य समीपे । ‘उपकण्ठान्ति-काभ्यर्णाः’ इत्यमरः । भगवन्तं पूज्यम् । अनन्तं वा अत्र वाशब्द उपमानार्थः शेषमिव । स्थितं विद्यमानम् । ‘शेषोऽनन्तो वासुकिः’ इत्यमरः । ‘वा विकल्पोपमानयोः’ इत्यमरः । पुनः कथंभूतम् । मसृणत्वचम् मसृणा ललिता कोमला त्वक् चर्म यस्य सः मसृणत्वक् तम् । ‘सुकुमारोऽङ्गविन्यासो मसृणं लालितं स्मृतं’ इत्यभिधानम् । उन्नतम् उच्चम् । ततं छत्राकारेण व्याप्य स्थितम् । शेषपक्षे इमानि विशेषणानि योज्यानि । तत्र मसृणत्वचम् इत्यस्य उक्त एवार्थः । उन्नतम् उत्तमम् । ततं बहुफणैर् व्याप्य स्थितम् । पुनः कथंभूतं बहुशाखाफण-सूनरत्नकं बह्व्यश्च ताः शाखाः स्कन्दाश्च बहुशाखा बहुशाखा एव फणा बहुशाखाफणेषु सूनान्येव फलानि रत्नानि यस्य स तथोक्तः । ‘सूनं प्रसवपुष्पयोः’ इति विश्वः । प्रसवपुष्पयोः फलपुष्पयोर् इति अभिधानार्थः । ‘स्यादुत्पले फले पुष्पे प्रसवो गर्भमोचने’ इत्यमरकोशे प्रसवशब्दस्य फलेऽपि प्रयोगात् प्रसूनं पुष्पफलयोरिति अमरे सूनशब्दपर्या-यप्रसवशब्दस्य फले प्रयोगाच्च शाखानां फलसाम्यं लोहितनीलगौरादिबहुवर्णानां फलानां रत्नसाम्यं ज्ञेयम् । शेषफणाग्रेषु रत्नानि सन्तीति प्रसिद्धमेव । स्फुटायां तु फणाद्वयोरित्य-भिधानात् फणाशब्दः पुल्लिङ्गोऽप्यस्तीति ज्ञेयम् ॥ ११ ॥
विश्वास-प्रस्तुतिः - १२
अतिचित्रविचित्रपत्रिणं बहुवर्णं हरिगोनिवारकम् ।
मुनिनन्दनमिन्दिरापतेरधिकेष्टं पततामिवाधिपम्॥ १२ ॥
मूलम् - १२
अतिचित्रविचित्रपत्रिणं बहुवर्णं हरिगोनिवारकम् ।
मुनिनन्दनमिन्दिरापतेरधिकेष्टं पततामिवाधिपम्॥ १२ ॥
भावप्रकाशिका
पत्रं पलाशं पतत्रं च । हरिगौः सूर्यरश्मिरिन्द्रवज्रं च । मुनीनां नन्दनं कश्यपपुत्रं च ॥ १२ ॥
पदार्थदीपिकोद्बोधिका
अतिचित्रेति ॥ अतिचित्राणि अत्याश्चर्याणि यानि विचित्रपत्राणि नानावर्णोपेतपत्राणि तान्यस्य सन्तीति तम् । गरुडोऽपि, अतिचित्रे वेदात्मकत्वेनात्याश्चर्ये ये विचित्रपत्रे नानावर्णपक्षौ तेऽस्य स्त इति तम् । बहवो वर्णा यस्य तम् । गरुडोऽपि बहुवर्णः । ‘आजानुतः स्वर्णवर्ण आनाभेर्हारगौरभाः । माणिक्यशोण आकण्ठादाकेशाद्धरितप्रभः । नीलकेशो लसन्माल्यः’ इत्युक्तेः पञ्चवर्ण इति भावः । हरेः सूर्यस्य ये गावः किरणास्तेषां निवारकम् । अनल्पछायमिति भावः । गरुडोऽपि हरेरिन्द्रस्य गौर्वज्रं तस्य निवारकः । ‘अर्कमर्कटमण्डूकविष्णुवासववायवः । तुरगः सिंहशीतांशुयमाश्च हरयो दश’ इति हलः । ‘दृक्दृष्टिदीधितिस्वर्णवज्रवाग्बाणवारिषु । भूमौ पशौ च गोशब्दः’ इति च । मुनीन् नन्दयति स्वच्छायादिना सन्तोषयतीति मुनिनन्दनस्तम् । गरुडोऽपि कश्यपमुनेर्नन्दनः । इन्दिरापतेः श्रीवेदव्यासस्याधिकेष्टमत्यन्तप्रियम् । गरुडोऽप्येतादृशः । तरुं, पततां पक्षिणामधिपं स्वामिनं गरुडमिव न्यशामयदिति पूर्वेणान्वयः ॥ १२ ॥
मन्दोपाकारिणी
अतीेति ॥ पुनः कथंभूतम् । पततां पक्षिणाम् । ‘पतत्पातक-पक्षिणोः’ इति विश्वः । अधिपम् अधिपतिं गरुडमिव स्थितम् । अतिचित्रविचित्रपत्रिणम् अतिचित्राणि अत्याश्चर्याणि विचित्राणि अणुत्वस्थूलत्वादिनानाविधानि पत्राणि पर्णानि अस्मिन् सन्तीति अतिचित्रविचित्रपत्री तम् । ‘पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्’ इत्यमरः । बहुवर्णं बहवो नानाविधा वर्णाः शुक्लादिरूपाणि यस्य स तथोक्तस् तम् । ‘वर्णो द्विजादौ शुक्लादौ’ इत्यमरः । लोहितादिरूपोपेतपत्राढ्यमिति भावः । हरिगोनिवारकं हरेः सूर्यस्य गवां रश्मीनां निवारकं सूर्यकिरणास् तत्र यथा न पतन्ति तथा निबिडच्छायोपेतमिति भावः । मुनिनन्दनं तत्रत्यानां मुनीनां नन्दनं सन्तोषकरम् । इन्दिरापतेर् इन्दिराया लक्ष्म्याः पत्युर् भर्तुर् वेदव्यासस्य अधिकेष्टम् अधिकम् अत्यन्तम् इष्टं प्रियम् । गरुडपक्षेऽपि इमानि विशेषणानि योज्यानि । कथंभूतं गरुडम् अतिचित्रविचित्रपत्रिणम् अतिचित्रे अत्याश्चर्यकरे विचित्रे विविधवर्णे पत्रे पक्षौ अस्य स्त इति अतिचित्रविचित्रपत्री तम् । बहुवर्णं बहवः नानाविधा वर्णाः शुक्लादयः यस्य सस् तथोक्तस् तम् । ‘आजानोः स्वर्णवर्णाभ आनाभेर् हरिगौरभाः । माणिक्यशोण आकण्ठादाकेशात् हरितप्रभः । नीलकेशो लसन्नीलः’ इति पञ्चवर्णोपेतत्वं गरुडस्य प्रसिद्धमेव । हरिगोनिवारकं हरेर् इन्द्रस्य गोर् वज्रस्य निवारकम् अमृतार्थे गरुडेन इन्द्रवज्रस्य निरस्तत्वादिति भावः । ‘चन्द्रे सूर्ये हये विष्णौ वासवे दर्दुरे यमे । मृगेन्द्रे वानरे वायौ दशस्वपि हरिः स्मृतः’ इति धनञ्जयः । ‘गौः स्वर्गे च वृषे रश्मौ वज्रे चन्द्रमसि स्मृतः’ इति विश्वः । मुनिनन्दनं मुनेः कश्यपऋषेर् नन्दनं तनयम् । इन्दिरापतेर् लक्ष्मीपतेर् नारायणस्य । अधिकेष्टम् इष्टतमम् ॥ १२ ॥
विश्वास-प्रस्तुतिः - १३
अमृतात्ममहाफलप्रदं दुरवापं हरिभक्तिवर्जितैः ।
श्रितसाधुपुराणभारतं निगमं मूर्तमिवोरुशाखिनम् ॥ १३ ॥
मूलम् - १३
अमृतात्ममहाफलप्रदं दुरवापं हरिभक्तिवर्जितैः ।
श्रितसाधुपुराणभारतं निगमं मूर्तमिवोरुशाखिनम् ॥ १३ ॥
भावप्रकाशिका
अमृतं मोक्षश्च । श्रितानि साधुपुराणादिपुस्तकानि यस्मिन् । शाखासु प्रेङ्खेषु च ॥ १३ ॥
पदार्थदीपिकोद्बोधिका
अमृतेति ॥ श्रीमध्वाचार्योऽमृतात्मान्यमृतमयानि यानि महाफलानि तानि प्रददातीति तम् । तत्फलास्वादनस्य जरामरणनाशकत्वाद् अमृतात्मेत्युक्तम् । वेदोऽप्यमृतं मोक्ष आत्मा स्वरूपं यस्य तद् अमृतात्म तदेव यन्महाफलं तत्प्रददातीति तादृशः । वेदार्थविचारपूर्वकं भगवत्स्वरूपज्ञानेन मोक्षो भवतीत्यतो ह्येवमुक्तम् । हरिभक्तिवर्जितैर् हरिभक्तिरहितैर् आप्तुमशक्यो दुरवापस् तम् । बदरिकाश्रम-स्याप्यवैष्णवाप्राप्यत्वात्तरुरपि तादृश इति भावः । वेदोऽप्यवैष्णवदुरवापः । ‘अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते’ इति वचनात् । श्रितानि शाखास्ववलम्बमानानि साधुपुराण-भारतान्युत्तमपुराणभारतपुस्तकानि यस्मिंस्तम् । मुनिभिः श्रीहर्यर्चनादिसमये तच्छाखा-निक्षिप्तसच्छास्त्रपुस्तकजातमिति भावः । निगमोऽपि श्रितानि स्वैरुपजीव्यप्रमाणत्वे-नाश्रितानि साधुपुराणभारतानि यस्य तादृशः, वेदार्थत्वात्तेषामित्यर्थः । उरवो बहवो याः शाखास्ता अस्य सन्तीति तम् । वेदोऽपि ऐतरेयं कौषीतकबाष्कलशाकलपैङ्गिकाठका-द्युरुशाखावान् । तरुं मूर्तं मूर्तिमन्तं निगममिव वेदमिव न्यशामयदित्यन्वयः ॥ १३ ॥
मन्दोपाकारिणी
अमृतेति ॥ पुनः कथंभूतम् । मूर्तं मूर्तिमन्तम् । निगममिव वेदमिव स्थितम् । कथम् अमृतात्ममहाफलप्रदं महान्ति स्थूलानि च तानि फलानि च महाफलानि । अमृतं पीयूषम् आत्मा स्वरूपं येषां तानि अमृतात्मानि च तानि महाफलानि च स्वादुतराणीति यावत् । तत्फलास्वादनस्य जरामरणनिवारकत्वाद् अमृतस्वरूपत्वम् उक्तमिति भावः । तानि प्रकर्षेण ददातीति अमृतात्ममहाफलप्रदस् तम् । हरिभक्तिवर्जितैर् अवैष्णवैर् दुरवापं प्राप्तुमशक्यम् । बदरिकाश्रमस्य अवैष्णवदुर्गमत्वाद् वृक्षस्यापि दुर्गमत्वम् इति भावः । श्रितसाधुपुराणभारतं साधूनि सात्विकानि च तानि पुराणानि च साधुपुराणानि । साधुपुराणानि च भारतं च साधुपुराणभारतानि । श्रितानि आश्रितानि साधुपुराणभारतानि यस्मिन् स तथोक्तस् तम् । वेदपक्षे तु, अमृतात्ममहाफलप्रदं महद् अत्युत्तमं च तत् फलं च महाफलम् अमृतं मोक्ष आत्मा स्वरूपं यस्य तत् । नकारान्तनपुंसकलिङ्गम् । मुक्तिरूपं महाफलं प्रददातीति अमृतात्ममहाफलप्रदस् तम् । वेदार्थविचारपूर्वकं हरिस्वरूपज्ञानेन हि मोक्षो भवतीति प्रसिद्धम् । एवं हरिभक्तिवर्जितैर् अवैष्णवैः । दुरवापं प्राप्तुमयोग्यम् । ‘अवैष्णवस्य वेदेऽपि ह्यधिकारो न विद्यते’ इति वचनात् । श्रितसाधुपुराणभारतं साधूनि प्रमाणभूतानि पुराणानि भारतं च श्रितानि वेदार्थनिर्णायकत्वेन आश्रितानि साधुपुराण-भारतानि येन स तथोक्तस् तम् । ‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्’ इति वचनात् । उरुशाखिनम् उरवः बहवः शाखा ऐतरेयशाकलबाष्कलपैङ्गिकाठकाद्या अवान्तरभेदा अस्य सन्तीति उरुशाखी तम् ॥ १३ ॥
विश्वास-प्रस्तुतिः - १४
अथ तस्य स वेदिकान्तरे सुविशाले विमले मनोहरे ।
अवलोकितवाननन्तधीर्दिवि देवानिव तापसोत्तमान् ॥ १४ ॥
मूलम् - १४
अथ तस्य स वेदिकान्तरे सुविशाले विमले मनोहरे ।
अवलोकितवाननन्तधीर्दिवि देवानिव तापसोत्तमान् ॥ १४ ॥
पदार्थदीपिकोद्बोधिका
अथेति ॥ अथ अनन्ता पूर्णा धीर्यस्य स पूर्णप्रज्ञाचार्यस् तस्य वृक्षस्य सुविशालेऽतिविस्तारे विमले मनोहरे वेदिकाया अन्तरे मध्ये तापसोत्तमान् मुनिवरान् दिवि स्वर्गे देवान् इव अवलोकितवान् दृष्टवान् ॥ १४ ॥
मन्दोपाकारिणी
अथेति ॥ अथ वृक्षदर्शनानन्तरम् । अनन्तधीर् अनन्ता अपरिमिता पूर्णा इति यावत् , धीर् बुद्धिर् यस्य स तथोक्तः । सः मध्वाचार्यस् तस्य बदरीवृक्षस्य सुविशाले अतिविस्तृते विमले संमार्जनोपलेपादिना निर्मले अत एव मनोहरे सुन्दरे वेदिकान्तरे वेदिकाया वितर्दिकायाः । ‘स्याद्वितर्दिस्तु वेदिका’ इत्यमरः । भूम्यपेक्षया किञ्चिद् उच्चं निबद्धा भूमिर् वेदिका इत्युच्यते । अन्तरे मध्ये तापसोत्तमान् मुनिश्रेष्ठान् । ‘तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः’ इत्यमरः । अवलोकितवान् दृष्टवान् । कुत्र कानिव । दिवि स्वर्गे । ‘सुरलोको द्योदिवौ द्वे’ इत्यमरः । देवानिव ॥ १४ ॥
विश्वास-प्रस्तुतिः - १५
अपि सप्ततया विराजितान् गतसंख्यान् गुणिनो गुणोज्खितान् ।
अपि मन्युमदादिवर्जितान् गतभोगान् पवनाशनान् सदा ॥ १५ ॥
मूलम् - १५
अपि सप्ततया विराजितान् गतसंख्यान् गुणिनो गुणोज्खितान् ।
अपि मन्युमदादिवर्जितान् गतभोगान् पवनाशनान् सदा ॥ १५ ॥
भावप्रकाशिका
सप्ततया जटासहिततया ॥ १५ ॥
पदार्थदीपिकोद्बोधिका
अपीति ॥ श्रीमध्वाचार्यः गता संख्या येभ्यस्तान् । बहूनिति यावत् । प्तया जटया सहिताः सप्तास्तेषां भावस्तया । ‘ऋषीणां प्ता जटा सटा’ इति हलः । जटासहितत्वेन विराजिताञ्छोभमानान् । गुणा एषां सन्तीति गुणिनो ज्ञानभक्त्यादिगुणसंयुक्तानित्यर्थः । गुणोज्खितान् सत्वादिगुणरहितान् । अथवा गुणः सूत्रमेषामस्तीति तान् । ब्रह्मचर्यादिवानप्रस्थान्तानिति यावत् । गुणोज्खितान् सूत्ररहितान् यतीनिति यावत् । गतो भोगः स्रक्चन्दनादिभोगो येभ्यस्तान् । सदा पवनो वायुरशनमन्नं येषां तान् अत एव मन्युः क्रोधः स च मदश्च तावादी येषां तैर्वर्जितान् जितषड्वर्गानित्यर्थः । मुनीनवलोकितवानिति पूर्वेणान्वयः । पवनाशनशब्दस्सर्पवाचकः । ‘पन्नगः पवनाशनः’ इत्युक्तेः । भोगशब्दः सर्पशरीरवाचकः । ‘भोगः सुखेस्व्यदिभृतावहेश्च फणकाययोः’ इत्यमरोक्तेतश्च । तथा च पवनाशनानां गतभोगत्वं विरुद्धमित्यतो विरोधालङ्कारः ॥ १५ ॥
मन्दोपाकारिणी
अपीति ॥ कथंभूतान् तापसोत्तमान् । गतसंख्यान् गता संख्या येभ्यस् ते तथोक्तास् तान् बहून् इत्यर्थः । सप्ततया प्ताभिर् जटाभिः सहिताः सप्ताः सप्तानां भावः सप्तता तया जटासहितत्वेनेति यावत् । विराजितान् शोभमानान् । प्ताशब्दस्य जटार्थकत्वं ‘सप्ताः सप्ताश्वनुन्नारुणकिरणसमाः पातु बिभ्रत्त्त्रिनेत्रः’ इति प्रयोगात् सिद्धम् । सप्ताश्वेन सूर्येण नुन्नस्य प्रेरितस्य अरुणस्य सूर्यसारथेः किरणानां रश्मीनां समाः सदृशा लोहिता इति यावत् । प्ता जटा बिभ्रत् सस् त्रिनेत्रः पातु इति प्रयोगवाक्यार्थः । गुणिनः गुणा ज्ञानभक्त्यादिगुणा येषु सन्तीति तान् । गुणोज्खितान् गुणैः सत्वादिभिर् उज्खितान् रहितान् । यद्वा गुणिनः गुणः सूत्रं यज्ञोपवीतमिति यावत् , तद् एषाम् अस्तीति गुणिनः यज्ञोपवीतधारिणः ब्रह्मचर्यादिवानप्रस्थान्तानिति यावत् । गुणोज्खितान् गुणेन यज्ञोपवीतेन उज्खितान् रहितान् परमहंसानिति यावत् । मन्युमदादिवर्जितान् मन्युः क्रोधः ‘मन्युः क्रोधे क्रतौ दैन्ये’ इति रत्नमाला । मदो गर्वः । ‘मदो रेतसि कस्तूर्यां गर्वे हर्षेभदानयोः’ इति विश्वः । मन्युश्च मदश्च मन्युमदौ तौ आदी येषां ते तैर् मन्युमदादिभिर् अरिषड्वर्गैर् वर्जितान् रहितान् । गतभोगान् गतः विषयभोग एभ्यस् तान् निराहारानित्यर्थः । सदा पवनाशनान् पवनः वायुर् अशनं येषां ते पवनाशनास् तान् । अपिशब्दो विशेषणसमुच्चये । अत्राश्रमे ब्रह्मचारिणः गृहस्था वानप्रस्था यतयश्चेति चतुराश्रमिणोऽपि सन्ति । ते च बहवः सर्वेऽपि जटाधारिणश्च विष्णुभक्तिज्ञानादिगुणवन्तः केवलसात्विकाः क्रोधादिरहिता विरक्ता वाय्वाहारा इत्युक्तं भवति । अत्र गतसंख्यापदस्य सप्ततया विराजितपदस्य विरोधः सङ्ख्यारहितेषु सप्तत्वस्य विरुद्धत्वात् । गुणवतां गुणरहितत्वस्य विरोधः । पवनाशनाः सर्पा भोगशब्दः सर्पशरीरफणोभयवाचकः । तथा च सर्पाणां फणारहितत्वं शरीरराहित्यं विरुद्धम् । यद्वा गतभोगशब्देन आहारराहित्यम् उच्यते । पवनाशनशब्देन आहारयुक्तत्वम् उच्यते । तथा च आहारवत आहाररहितत्वं विरुद्धमेव । शब्दत एव विरोधाद् अर्थतो विरोधाभावाद् विरोधाभासालङ्कारो द्रष्टव्यः । द्वितीयो ऽपिशब्दः विरोधाभासालङ्कारार्थः । ‘आकूतिं रुचये प्रादाद् अपि भ्रातृमतीं नृपः’ इति चतुर्थस्कान्धभागवतश्लोकव्याख्याने उक्तत्वात् ॥ १५ ॥
विश्वास-प्रस्तुतिः - १६
मुनिमण्डलमध्यवर्तिनं त्रिजगन्मण्डलमण्डनायितम् ।
इह सत्यवतीसुतं हरिं परिपूर्णप्रमतिः समैक्षत ॥ १६ ॥
मूलम् - १६
मुनिमण्डलमध्यवर्तिनं त्रिजगन्मण्डलमण्डनायितम् ।
इह सत्यवतीसुतं हरिं परिपूर्णप्रमतिः समैक्षत ॥ १६ ॥
पदार्थदीपिकोद्बोधिका
मुनीति ॥ परिपूर्णा प्रमतिर्यस्य स श्रीमध्वाचार्य इह वेदिकायां मुनीनां मण्डलस्य समूहस्य मध्ये वर्तितुं शीलमस्येति तं त्रीणि च तानि जगन्ति च तेषां यन्मण्डलं प्रदेशस्तस्य मण्डनवद् अलङ्कारवद् आचरतीति तं सत्यवतीसुतं हरिं श्रीवेदव्यासं समैक्षत ददर्श ॥ १६ ॥
मन्दोपाकारिणी
मुनीति ॥ परिपूर्णप्रमतिः परिपूर्णा संपूर्णा प्रमतिर् यथार्थज्ञानं यस्य स तथोक्तः श्रीपूर्णप्रज्ञाचार्यः । इह वेदिकायां मुनिमण्डलमध्यवर्तिनं मुनीनां मण्डलस्य समूहस्य मध्ये वर्तिनम् उपविष्टम् । त्रिजगन्मण्डलमण्डनायितं त्रीणि च तानि जगन्ति च त्रिजगन्ति त्रिजगतां मण्डलस्य मण्डनायितं भूषणायितं सत्यवतीसुतं सत्यवत्याः सुतं नन्दनं हरिं वेदव्यासं समैक्षत दृष्टवान् ॥ १६ ॥
विश्वास-प्रस्तुतिः - १७
निजहृत्कमलेऽतिनिर्मले सततं साधु निशामयन्नपि ।
अवलोक्य पुनः पुनर्नवं तमसौ विस्मित इत्यचिन्तयत् ॥ १७ ॥
मूलम् - १७
निजहृत्कमलेऽतिनिर्मले सततं साधु निशामयन्नपि ।
अवलोक्य पुनः पुनर्नवं तमसौ विस्मित इत्यचिन्तयत् ॥ १७ ॥
पदार्थदीपिकोद्बोधिका
निजेति ॥ असौ श्रीमध्वाचार्यो ऽतिनिर्मले निजहृत्कमले आत्मीयहृत्पद्मे साधु सम्यग् यथा भवति तथा सततं निशामयन्नपि पश्यन्नपि तं
श्रीवेदव्यासं पुनः पुनर्दर्शनेन नवं नूतनमवलोक्य विस्मितः सन् , इति वक्ष्यमाणप्रकारेण अचिन्तयत् ॥ १७ ॥
मन्दोपाकारिणी
निजेति ॥ असौ मध्वाचार्यः । अतिनिर्मले अत्यन्तं रागादि-मलरहिते निजहृत्कमले हृदेव मन एव कमलं निजं च तत् हृत्कमलं च तस्मिन् स्वमनसि साधु सम्यक् सततम् अनारतं तं श्रीवेदव्यासं पुनः वारं वारं निशामयन्नपि प्रेक्षन्नपि । पुनः नवं नूतनं ‘नवीनो नूतनो नवः’ इत्यमरः । अवलोक्य विस्मित आश्चर्ययुक्तः सन् इति वक्ष्यमाणप्रकारेण अचिन्तयद् दध्यौ । ‘चिति स्मृत्यां लङ् परस्मैपदम्’ ॥ १७ ॥
विश्वास-प्रस्तुतिः - १८
अगणेयगुणार्णवोऽमलः स हि नारायण एष केवलम् ।
विधिनाऽनुसृतं पराशरात्सुषुवे सत्यवती किलात्र यम् ॥ १८ ॥
मूलम् - १८
अगणेयगुणार्णवोऽमलः स हि नारायण एष केवलम् ।
विधिनाऽनुसृतं पराशरात्सुषुवे सत्यवती किलात्र यम् ॥ १८ ॥
पदार्थदीपिकोद्बोधिका
अगणय्येति ॥ सत्यवती, विधिना ब्रह्मणा अनुसृतम् अवताराय प्रार्थितं यं श्रीवेदव्यासम् अत्र भुवि पराशरात् सुषुवे प्रासूत । किलेत्यपरमार्थे । श्रीवेदव्यासस्य वस्तुतो जन्मरहितत्वात् । स एषः सत्यवतीसुतोऽगणय्या अगण्या ये गुणास् तैर् अर्णव इवार्णवः । न विद्यते मलं दोषो यस्य सोऽमलः केवलं साक्षान्नारायणः । हि इति प्रसिद्धिद्योतकः ॥ १८ ॥
मन्दोपाकारिणी
चिन्ताप्रकारमेवाह अगणेयेत्यादिना ॥ सत्यवती वेदव्यासस्य माता । विधिना ब्रह्मणा । ‘विधाता विश्वसृडि्वधिः’ इत्यमरः । अनुसृतम् अवताराय प्रार्थितं यं वेदव्यासं पराशराद् अत्र भुवि सुषुवे प्रासूत । ‘षूङ् प्राणिगर्भविमोचन इति धातोर् लिडात्मनेपदम्’ । किल इति अपरमार्थे । वस्तुतो जन्ममरणरहितत्वात् सः हर्यवतारभूत एषः पुरोवर्ती सत्यवतीसुतः केवलं साक्षान् नारायणः । हि प्रसिद्धम् । कथंभूतः, अगणेयगुणार्णवः गणयितुं शक्या गणेया न गणेया अगणेया अगणेयाश्च ते गुणाश्च अगणेयगुणास् तैर् अर्णवः समुद्रः । ‘गणनीये तु गणेयं संख्याते गणितं’ इत्यमरः । अमलः निर्दोषः ॥ १८ ॥
विश्वास-प्रस्तुतिः - १९
धवलेऽस्य मनःपयोनिधौ सदनुक्रोशगिरीन्द्रलोलिते ।
प्रकटीभवति स्म सुन्दरी दयिता दैत्यरिपोस्त्रयीमयी॥ १९ ॥
मूलम् - १९
धवलेऽस्य मनःपयोनिधौ सदनुक्रोशगिरीन्द्रलोलिते ।
प्रकटीभवति स्म सुन्दरी दयिता दैत्यरिपोस्त्रयीमयी॥ १९ ॥
पदार्थदीपिकोद्बोधिका
धवल इति ॥ धवले निर्मलेऽस्य श्रीव्यासस्य मन एव पयोनिधिः क्षीरसागरस् तस्मिन् । सत्सु सज्जनेषु योऽनुक्रोशः कृपा स एव गिरीन्द्रो मन्दरगिरिस्तेन लोलिते मथिते सति । दैत्यरिपोः श्रीवेदव्यासस्य दयिता प्रिया त्रय्येव त्रयीमयी वेदत्रयात्मिका सुन्दरी स्त्री प्रकटीभवति स्म । स्म अतीते । प्रकटीबभूवेत्यर्थः । पयोनिधौ मन्दरे मथिते सति तस्माद् यथा भगवद्दयिता रमा प्रादुर्बभूव तद्वत्सज्जन-कृपोन्मथितादस्य मनसस्त्रयी प्रादुर्बभूवेति भावः ॥ १९ ॥
मन्दोपाकारिणी
धवल इति ॥ धवले निर्मले अस्य वेदव्यासस्य मनःपयोनिधौ मन एव पयोनिधिः क्षीरसमुद्रस् तस्मिन् । सदनुक्रोशगिरीन्द्रलोलिते सत्सु सज्जनेषु अनुक्रोशः दया । ‘कृपा दयानुकम्पा स्यादनुक्रोशः’ इत्यमरः । सदनुक्रोश एव गिरीन्द्रः पर्वतश्रेष्ठः सदनुक्रोशगिरीन्द्रेण लोलिते मथिते सति तस्मान् मनोलक्षणक्षीरसमुद्राद् दैत्यरिपोर् दैत्यानां कल्याद्यसुराणां रिपोर् वैरिणः वेदव्यासस्य दयिता प्रिया त्रयीमयी वेदात्मिका सुन्दरी रमणी लक्ष्मीर् इत्यर्थः । प्रकटीभवति स्म । स्म अतीते । प्रादुरभूद् इत्यर्थः । यथा क्षीरसमुद्रे मन्दरपर्वतेन मथिते सति तस्मात् समुद्राद् भगवद्दयिता रमा प्रादुर्बभूव तद्वत् सज्जनकृपो-न्मथिताद् वेदव्यासमनसः वेदविद्या प्रादुर्बभूव । सज्जनेषु दयां कृत्वा वेदव्यास उत्सन्नान् वेदान् व्यक्तीचकार इति भावः ॥ १९ ॥
विश्वास-प्रस्तुतिः - २०
इत एव पुराणगौरगौ समहाभारतपारिजातके ।
सति जातवति व्यजायत प्रवरं सूत्रगणामृतं स्वयम्॥ २० ॥
मूलम् - २०
इत एव पुराणगौरगौ समहाभारतपारिजातके ।
सति जातवति व्यजायत प्रवरं सूत्रगणामृतं स्वयम्॥ २० ॥
पदार्थदीपिकोद्बोधिका
इत इति ॥ इत एवास्मात् श्रीवेदव्यासादेव महाभारतमेव पारिजातस् तेन सहितः समहाभारतपारिजातकस् तस्मिन् । गौराः श्वेता गावः किरणा यस्य स गौरगुश्चन्द्रः । पुराणान्येव गौरगुस्तस्मिन् । ‘स्त्रियाः पुंवदिति’ पुंवद्भावे ‘गोस्त्रियो-रुपसर्जनस्ये’ति ह्रस्वः । जातवति सति उत्पन्ने सति प्रवरमुत्तमं स्वयं साक्षात् सूत्राणां ब्रह्मसूत्राणां गणः समूहः स एव अमृतमिव व्यजायत जज्ञे । पारिजातसहिते चन्द्रे जातवति सति पयोनिधेरमृतं यथा जातम् एवं पुराणोत्पत्यनन्तरमस्माद्भगवतो ब्रह्मसूत्रमपि जातमिति भावः ॥ २० ॥
मन्दोपाकारिणी
इत इति ॥ इत एव अस्मात् श्रीवेदव्यासादेव । समहाभारत-पारिजातके महाभारतमेव पारिजातकः पारिजाताख्यवृक्षस् तेन सहिते पुराणगौरगौ गौराः शुभ्रा गावः किरणा यस्य सः गौरगुः पुराणान्येव गौरगुश् चन्द्रस् तस्मिन् जातवति सति प्रवरं निर्णायकशास्त्रोत्तमम् । स्वयं सूत्रगणामृतं सूत्राणां गण एव अमृतं सुधा । व्यजायत प्रादुर्बभूव । ‘जनी प्रादुर्भावे इत्यतो लङात्मनेपदम् अजायत अजायेताम् अजायन्त’ । यथा क्षीरनिधेः पारिजातवृक्षचन्द्रोत्पत्यनन्तरम् अमृतं जातम् एवं भारतपुराणोत्पत्यनन्तरं ब्रह्मसूत्रमपि वेदव्यासाज् जातमिति भावः । अशेषपुरुषार्थप्रदत्वेन भारतपारिजातयोः साम्यं पदार्थप्रदर्शकत्वेन पुराणचन्द्रयोः साम्यं जरामरणनाशकत्वेन सूत्रामृतयोः साम्यं द्रष्टव्यम् ॥ २० ॥
विश्वास-प्रस्तुतिः - २१
निरवग्रहमुर्वनुग्रहं विदधत्पाण्डुसुतादिसज्जने ।
अवनाववनाय संविदां सुचिरायैष चचार चारुगीः ॥ २१ ॥
मूलम् - २१
निरवग्रहमुर्वनुग्रहं विदधत्पाण्डुसुतादिसज्जने ।
अवनाववनाय संविदां सुचिरायैष चचार चारुगीः ॥ २१ ॥
पदार्थदीपिकोद्बोधिका
निरवग्रहेति ॥ चारु मनोहरा गीर् वचनं यस्य स एष श्रीवेदव्यासः । पाण्डुसुता आदयो यस्य स चासौ सज्जनश्च तस्मिन्निरवग्रहमकुण्ठितं पूर्णमित्यर्थः । अनुग्रहं विदधत् कुर्वन् सन्, संविदां ज्ञानानां, संविदाश्रयपुरुषाणां संविद्विषयाणाञ्च बहुत्वात्संविदामिति बहुवचनम् । अवनाय रक्षणायावनौ भुवि सुचिराय चचार ॥ २१ ॥
मन्दोपाकारिणी
निरवग्रहमिति ॥ चारुगीश् चार्व्यः मनोहरा गिरः वचनानि यस्य स तथोक्तः हितोपदेशक इति यावत् । एषः श्रीवेदव्यासः । पाण्डुसुतादिसज्जने पाण्डोः पाण्डुचक्रवर्तिनः सुता धर्मभीमादयस् त एव आदयो यस्य सः पाण्डुसुतादिः । संश्चासौ जनश्च सज्जनः पाण्डुसुतादिश्चासौ सज्जनश्च तस्मिन् । निरवग्रहम् अनवकुण्ठितम् उर्वनुग्रहं महाप्रसादं विदधत् कुर्वन् । संविदां ज्ञानिनां ‘प्रेक्षोपलब्धिश्चित्संवित्’ इत्यमरः । विषयभेदाद् बहुवचनम् । अवनाय संरक्षणाय अवनौ भूम्याम् । ‘अवनिर्मेदिनी मही’ इत्यमरः । सुचिराय बहुकालम् । ‘चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः’ इत्यमरः । चचार सञ्चारं कृतवान् । ‘चर गतिभक्षणयोर् इति धातोर् लिट् परस्मैपदम्’ ॥ २१ ॥
विश्वास-प्रस्तुतिः - २२
अधुना कलिकालवृत्तये सवितेव क्षणदानुवृत्तये ।
जनदृग्विषयत्वमत्यजद्भगवानाश्रममावसन्निमम्॥ २२ ॥
मूलम् - २२
अधुना कलिकालवृत्तये सवितेव क्षणदानुवृत्तये ।
जनदृग्विषयत्वमत्यजद्भगवानाश्रममावसन्निमम्॥ २२ ॥
पदार्थदीपिकोद्बोधिका
अधुनेति ॥ अधुना इदानीम् आश्रमम् आवसन् भगवान् श्रीव्यासः । ‘उपान्वध्याङ्वस’ इति कर्मसञ्ज्ञा । अस्मिन्नाश्रमे वसन्नित्यर्थः । भगवान् , कलेः कालस्तस्य वृत्तये प्रवृत्तये । जनानां या दृग्दृष्टिस्तस्या विषयो गोचरस्तस्य भावस् तत्त्वम् । क्षणदानुवृत्तये रात्रिप्रवृत्तये सवितेव रविर् इव अत्यजत् परित्यक्तवान् । अयं भावः—सुरेषु मुनिषु च भुवि चरत्सु कलियुगधर्मा न प्रवर्तेरन्नित्यधुना व्यासोऽयं जनदृग्वि-षयत्वं मुक्त्वा तस्मिन्नाश्रमे वसति, रात्रिप्रवर्तनार्थं सूर्योऽस्तं यथा गच्छेत्तद्वदिति ॥ २२ ॥
मन्दोपाकारिणी
अधुनेति ॥ अधुना इदानीम् । इमम् आश्रमं बदरिकाश्रमम् । आवसन् । भगवान् पूर्णैश्वर्यादिषड्गुणवान् वेदव्यासः । कलिकालवृत्तये कलेः कालस् तस्य वृत्तये प्रवृत्यर्थं क्षणदानुवृत्तये रात्रिप्रवृत्यर्थं सवितेव सूर्य इव । जनदृग्विषयत्वं जनानां दृष्टिगोचरत्व मत्यजत् त्यक्तवान् । स्वस्मिन् भुवि चरति सति कलियुगधर्मा न प्रवर्तेरन् । अतः कलिधर्मप्रवृत्यर्थम् इदानीं वेदव्यासो ऽदृश्यो भूत्वा अस्मिन् आश्रमे वसति । यथा सूर्यः रात्रिप्रवृत्यर्थम् अस्तं गच्छति तथेति भावः । ‘निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा’ इत्यमरः ॥ २२ ॥
विश्वास-प्रस्तुतिः - २३
तदिदं वपुरस्य दृश्यते दलितेन्दीवरसुन्दरद्युति ।
परमाजिनयोगपीठगं मम चेतोनयनाभिनन्दनम् ॥ २३ ॥
मूलम् - २३
तदिदं वपुरस्य दृश्यते दलितेन्दीवरसुन्दरद्युति ।
परमाजिनयोगपीठगं मम चेतोनयनाभिनन्दनम् ॥ २३ ॥
पदार्थदीपिकोद्बोधिका
तदिति ॥ दलितं विकसितं यदिन्दीवरं तद्वत्सुन्दरा द्युतिः कान्तिर्यस्य तत् । परमम् उत्तमं यदजिनं कृष्णाजिनं तदात्मकं यद्योगपीठं योगासनं तद्गच्छतीति तादृशम् । मम चेतश्च नयने च तान्यभिनन्दयतीति तादृशमस्य श्रीवेदव्यासस्य तदिदं वपुर्दृश्यते ॥ २३ ॥
मन्दोपाकारिणी
तदिति ॥ मया तज् जनादृश्यम् । इदं पुरोवर्ति । अस्य वेदव्यासस्य । वपुः शरीरं दृश्यते मया अपरोक्षीक्रियते । ‘दृशिर् प्रेक्षण इत्यतः कर्मणि लट् आत्मनेपदम्’ । कथंभूतं वपुः । दलितेन्दीवरसुन्दरद्युति दलितं विकसितं च तद् इन्दीवरं च नीलोत्पलं च इन्दीवरवत् सुन्दरा द्युतिः कान्तिर् यस्य तद् दलितेन्दीवरसुन्दरद्युति । परमाजिनयोगपीठगं परमम् उत्तमं च तद् अजिनं कृष्णचर्म च । ‘अजिनं चर्म कृत्तिः स्त्री’ इत्यमरः । योगस्य ध्यानस्य ‘योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु’ इत्यमरः पीठम् आसनम् । ‘विष्टरं पीठमासनं’ इत्यमरः । परमाजिनं च तद् योगपीठं च तद् गच्छति तिष्ठति इति योगपीठगं कृष्णाजिने उपविष्टमिति यावत् । मम चेतोनयनाभिनन्दनं चेतः हृदयं नयनं लोचनं च तयोर् अभितः सम्यक् नन्दनं सन्तोषकरम् ॥ २३ ॥
विश्वास-प्रस्तुतिः - २४
अगणेयगुणैः सुपूरितं परिपूर्णागणितात्मसद्गुणैः ।
इदमस्तसमस्तदूषणं सचिदानन्दमयं हि केवलम् ॥ २४ ॥
मूलम् - २४
अगणेयगुणैः सुपूरितं परिपूर्णागणितात्मसद्गुणैः ।
इदमस्तसमस्तदूषणं सचिदानन्दमयं हि केवलम् ॥ २४ ॥
पदार्थदीपिकोद्बोधिका
अगणय्येति ॥ इदं दृश्यमानं वपुर् गणितुमशक्या अगणय्यास्तादृशा गुणा येषां तैः । परिपूर्णाः प्रत्येकं पूर्णा येऽगणिता असङ्ख्याता आत्मसद्गुणा आत्मनो निर्दुष्टगुणास्तैः सुपूरितम् । अस्तं निरस्तं समस्तदूषणं समस्तदोषा यस्मात्तादृशम् । केवलं साक्षाच् चिता ज्ञानेन सहितः सचित्, स चासौ आनन्दश्च तदात्मकं सचिदानन्दमयं दृश्यत इति पूर्वेणान्वयः ॥ २४ ॥
मन्दोपाकारिणी
अगणेयगुणैरिति ॥ इदं दृश्यमानं वपुर् अगणेयगुणैर् अगणेया गणयितुमशक्या गुणा धर्मा येषां ते अगणेयगुणास् तैः । ज्ञानस्य अतीतत्वादिसर्व-विषयकत्त्वादि , आनन्दस्य दुःखामिश्रितत्वादि , शक्तेर् अप्रतिहतत्वादि एवं ज्ञानानन्दद्या-नन्तगुणानामपि अनन्ता धर्माः सन्तीति बोध्यम् । परिपूर्णागणितात्मसद्गुणैः परिपूर्णा एकैकशः सर्वत्र सत्याश्च ते अगणिता अपरिमिताश्च ते आत्मानः स्वरूपभूताश्च ते सन्त उत्पत्तिनाशादिदोषरहिताश्च ते गुणा ज्ञानानन्दादिकल्याणधर्माश्च तैः । सुपूरितम् अत्यन्त-पूर्णम् । अस्तसमस्तदूषणम् अस्तानि अस्पृष्टानि समस्तानि दूषणानि शास्त्रोक्तशरीरदूषणानि यस्य तत् तथोक्तम् । द्वात्रिंशल्लक्षणोपेतत्वादिति भावः । केवलं जडामिश्रम् । सचिदा-नन्दमयं चिता ज्ञानेन सहितः सचित् स चासौ आनन्दश्च सचिदानन्दः मयः स्वरूपं यस्य तत्तथोक्तम् । हि प्रसिद्धम् ॥ २४ ॥
विश्वास-प्रस्तुतिः - २५
कमलाकमलासनानिलैर्विहगाहीन्द्रशिवेन्द्रपूर्वकैः ।
पदपद्मरजोऽस्य धारितं शिरसा हन्त वहाम्यहं मुहुः॥ २५ ॥
मूलम् - २५
कमलाकमलासनानिलैर्विहगाहीन्द्रशिवेन्द्रपूर्वकैः ।
पदपद्मरजोऽस्य धारितं शिरसा हन्त वहाम्यहं मुहुः॥ २५ ॥
पदार्थदीपिकोद्बोधिका
कमलेति ॥ कमला श्रीः, कमलासनो ब्रह्मा, अनिलो मुख्यवायुस् तैः । विहगेन्द्रो गरुडः, अहीन्द्रः शेषः, शिवश्च, इन्द्रश्च ते पूर्वे येषां तैश्शिरसा धारितम् अस्य भगवतः पदे पद्मे इव तयोः रजश्शिरसा मुहुर्वहामि । ‘वर्तमानसामीप्ये वर्तमानवद्वे’ति भविष्यदर्थे लट् । हन्तेति हर्षे । ‘हन्त हर्षेऽनुकम्पायां वाक्यारम्भ विषादयो’रित्यमरः ॥ २५ ॥
मन्दोपाकारिणी
एवं शरीरं वर्णयित्वा इदानीं पादधूलिमारभ्य जटापर्यन्तं वर्णयति मध्वाचार्यः कमलेत्यादिभिः श्लोकैः ॥ अहम् अस्य वेदव्यासस्य । पदपद्मरजः पदे चरणे एव पद्मे तयोः रजः रेणुर् मुहुः पुनः पुनः शिरसा वहामि धरामि । हन्त हर्षे । ‘वह प्रापणे इत्यतो लट् परस्मैपदं वहामि वहावः वहामः’ । कथंभूतं रजः कमलाकमलासनानिलैः कमला श्रीः । ‘कमला श्रीर्हरिप्रिया’ इत्यमरः । कमलासनः विरिञ्चः । ‘विरिञ्चः कमलासनः’ इत्यमरः । अनिलो मुख्यवायुः । कमला च कमलासनश्च अनिलश्च कमलाकमलासनानिलास् तैः । विहगाहीन्द्रशिवेन्द्रपूर्वकैर् विहगाः खगाः । ‘खगे विहङ्गविहगविहङ्गमविहायसः’ इत्यमरः । अहयः भुजङ्गाः । विहगाश्च अहयश्च विहगाहयः विहगाहीनाम् इन्द्रौ स्वामिनौ । तत्र विहगेन्द्रो गरुडो ऽहीन्द्रः शेषः विहगाहीन्द्रौ गरुडशेषौ च शिवः महेश्वर इन्द्रः देवेन्द्रश्च विहगाहीन्द्रशिवेन्द्रास् त एव पूर्वका आदयो येषां ते तथोक्तास् तैः । देवैर् इति शेषः । शिरसा मूर्ध्ना धारितं धृतम् ॥ २५ ॥
विश्वास-प्रस्तुतिः - २६
प्रणमामि पदद्वयं विभोर्ध्वजवज्राङ्कुशपद्मचिह्नवत् ।
निजमानसरागपीडनादरुणीभूतमिवारुणं स्वयम्॥ २६ ॥
मूलम् - २६
प्रणमामि पदद्वयं विभोर्ध्वजवज्राङ्कुशपद्मचिह्नवत् ।
निजमानसरागपीडनादरुणीभूतमिवारुणं स्वयम्॥ २६ ॥
पदार्थदीपिकोद्बोधिका
प्रणमामीति ॥ ध्वजश्च वज्रञ्चाङ्कुशश्च पद्मञ्च, तेषां यानि चिह्नानि तान्यस्य सन्तीति तादृशम् । स्वयं स्वत एवारुणं लोहितं लोहिततलमिति यावत् । निजानां स्वभक्तानां यानि मनांसि तेषां सम्बन्धी निजमानसः । स चासौ रागो विषयाकाङ्क्षा तस्य पीडनं मर्दनं तस्मान्निराकरणादिति यावत् । अरुणीभूतमिव लोहितं जातमिव । भगवच्चरणारविन्दं पश्यतां हि मानसो रागो निवर्तते । ‘रसोऽप्यस्य परं दृष्ट्वा निवर्तते’ इति भगवद्वचनात् । स्वत एवारुणस्य निजमानसरागपीडनादरुणीभूतत्वमुत्प्रेक्ष्यते । लाक्षागैरिकाद्याक्रमणेन पादारुणभावस्य दृष्टत्वात् । विभोः श्रीवेदव्यासस्य पदद्वयं चरणयुग्मं प्रणमामि नमस्कुर्याम् ॥ २६ ॥
मन्दोपाकारिणी
प्रणमामीति ॥ अहं विभोर् वेदव्यासस्य । पदद्वयं पदयोर् द्वयं प्रणमामि नमस्करोमि । कथंभूतं ध्वजवज्राङ्कुशपद्मचिन्हवद् ध्वजश्च वज्रश्च अङ्कुशश्च पद्मं च ध्वजवज्राङ्कुशपद्मानि एतत् संज्ञिकानि चिह्नानि रेखारूपलक्षणानि अस्मिन् सन्तीति ध्वजवज्राङ्कुशपद्मचिन्हवत् । नायं वतिः किन्तु मतुप् । ध्वजादिरेखोपेतमित्यर्थः । पुनः कथं भूतम् । स्वयं स्वत एव अरुणं लोहितं निजमानसरागपीडनान् निजानाम् आत्मीयानां भक्तानां मनसि विद्यमानः मानसः स चासौ रागो ऽनुरागः विषयाकाङ्क्षेति यावत् तेन पीडनान् मर्दनात् । अरुणीभूतमिव भगवच्चरणारविन्दम् अपरोक्षीकुर्वतां भक्तानां मनसि रागो वर्तते । ‘रसोऽप्यस्य परं दृष्टा निवर्तते’ इति वचनात् । रसो राग इति तद्भाष्ये व्याख्यानात् । लोके गैरिकादिलोहितपदार्थस्य पादाभ्याम् आक्रम्य मर्दनेन पादतलयोर् लोहितत्वं भवति यथा तथा भक्तमानसरागस्य पादाभ्यां मर्दनाद् भगवत्पादतलयोरपि रागः प्राप्त इति मे प्रतर्क इति मध्वाचार्यः स्वत एव लोहितयोरपि पादयोर् नैमित्तिकलौहित्यम् उत्प्रेक्षत इति भावः । रागशब्दस्य इत्थम् अनुरागलोहितोभयार्थकत्वाद् रागाक्रमणेन रागप्राप्तिर् इति शब्दसाम्याद् एवम् उत्प्रेक्षा ॥ २६ ॥
विश्वास-प्रस्तुतिः - २७
ननु केवलमेव वैष्णवं श्रितवन्तः पदमात्मरोचिषा ।
तमसोऽप्युभयस्य नाशका विजयन्ते नखरा नवं रविम् ॥ २७ ॥
मूलम् - २७
ननु केवलमेव वैष्णवं श्रितवन्तः पदमात्मरोचिषा ।
तमसोऽप्युभयस्य नाशका विजयन्ते नखरा नवं रविम् ॥ २७ ॥
पदार्थदीपिकोद्बोधिका
नन्विति ॥ केवलं मुख्यतो विष्णोः पदं विष्णुपदमिति योगसिद्धमिति भावः । वैष्णवं विष्णुसम्बन्धि पदं चरणं श्रितवन्त आश्रिताः । रविस्तु रूढिमात्रेण विष्णुपदाभिहिताकाशमाश्रित इति भावः । आत्मरोचिषा स्वतेजसोभयस्यापि द्विविधस्यापि तमसो नाशका अन्धकारस्य अज्ञानस्य च नाशका इति भावः । रविस्तु बाह्यमेव निराकुर्यान्नान्तरमिति भावः । अस्य वेदव्यासस्य नखरा नखा नवमुद्यन्तं रविं विजयन्ते अतिशेरते ननु ॥ २७ ॥
मन्दोपाकारिणी
नन्विति ॥ नखरा वेदव्यासपादनखाः । ‘पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियां’ इत्यमरः । नवं नूतनम् उद्यन्तमिति यावत् । रविं सूर्यं विजयन्ते ननु अतिक्रमन्ति हि । ‘विपूर्वाज् जि जय इत्यतो लट् आत्मनेपदम्’ । कथम् , केवलमेव मुख्यत एव योगवृत्त्येति यावत् । वैष्णवं विष्णोर् वेदव्यासस्य इदं वैष्णवं विष्णुसंबन्धि पदं चरणं श्रितवन्तः रविस्तु रूढिमात्रेण विष्णुपदाभिधम् आकाशम् आश्रितः । आत्मरोचिषा आत्मनां स्वेषां रोचिषा दीप्त्या । उभयस्य द्विविधस्यापि तमसो ऽन्धकारस्य अज्ञानस्येति भावः । नाशकाः संहारकाः । रविस्तु बाह्यमेव तमो निराकरोति । अतः सूर्यापेक्षया उत्कर्षस्य सत्वाद् विजयन्त इति उपपन्नम् । नवं रविम् इत्युक्त्या नखानाम् अरुणकान्तिमत्वम् उक्तं भवति ॥ २७ ॥
विश्वास-प्रस्तुतिः - २८
सुकुमारतलाङ्गुलीमतोः पदयोरस्य निगूढगुल्फयोः ।
उपमानमहो न दृश्यते कविवर्यैरितरेतरं विना ॥ २८ ॥
मूलम् - २८
सुकुमारतलाङ्गुलीमतोः पदयोरस्य निगूढगुल्फयोः ।
उपमानमहो न दृश्यते कविवर्यैरितरेतरं विना ॥ २८ ॥
पदार्थदीपिकोद्बोधिका
सुकुमारेति ॥ कविवर्यैः कविश्रेष्ठैः । तले पादतलेंऽगुल्य-स्तलाङ्गुल्यः । सुकुमारा अतिकोमला या तलाङ्गुल्यस्ता अनयोः सन्तीति तयोः । निगूढौ गुल्फौ ग्रन्थी ययोस्तयोः । ‘तद्ग्रन्थी घुटिके गुल्फौ’ इत्यमरः । पदयोश्चरणयोः, इतरेतर-मन्योन्यं विना उपमानं दृष्टान्तो न लभ्यते । अहो आश्चर्यम् । दक्षिणपादस्य सव्यपादो दृष्टान्तस्तस्य च दक्षिणपाद इति भावः ॥ २८ ॥
मन्दोपाकारिणी
सुकुमारेति ॥ सुकुमारतलाङ्गुलीमतोस् तले पादाधोभागौ च अङ्गुल्यः पदाङ्गुल्यश्च तलाङ्गुल्यः । सुकुमाराः कोमलाश्च तास् तलाङ्गुल्यश्च अनयोः सन्तीति सुकुमारतलाङ्गुलीमती तयोः । ‘सुकुमारन्तु कोमलं मृदुलं मृदु’ इत्यमरः । ‘तलं स्वरूपा-धरयोः’ इति विश्वः । निगूढगुल्फयोर् निगूढौ संबद्धौ गुल्फौ पादग्रन्थी ययोस् ते निगूढगुल्फे तयोः ‘तद्ग्रन्थी घुटिके गुल्फौ’ इत्यमरः । अस्य वेदव्यासस्य । पदयोश् चरणयोः । इतरेतरम् अन्योन्यं विना दक्षिणपादस्य सव्यपादं विना सव्यपादस्य दक्षिणपादं विना इति भावः । उपमानं दृष्टान्तः । कविवर्यैः कविश्रेष्ठैः । न दृश्यते न लभ्यते । अहो आश्चर्यम् असदृशत्वं पादयोर् इति भावः । ‘दृशिर् प्रेक्षण इत्यतः कर्मणि लट् आत्मनेपदम्’ ॥ २८ ॥
विश्वास-प्रस्तुतिः - २९
उचितां गुरुतां दधत्क्रमाच्छुचि तेजस्वि सुवृत्तमुत्तमम् ।
भजतोऽत्र च भाजयत्यदो विभुजङ्घायुगलं सरूपताम्॥२९॥
मूलम् - २९
उचितां गुरुतां दधत्क्रमाच्छुचि तेजस्वि सुवृत्तमुत्तमम् ।
भजतोऽत्र च भाजयत्यदो विभुजङ्घायुगलं सरूपताम्॥२९॥
पदार्थदीपिकोद्बोधिका
उचितामिति ॥ क्रमादुचितां गुरुतां दधत् । गुल्फादूर्ध्वं जानुपर्यन्तं क्रमेण यावदुचितं तावत् स्थूलत्वं दधदित्यर्थः । शुचि निर्दोषम् । तेजोऽस्या-स्तीति तेजस्वि । सुवृत्तं सम्यग्वर्तुलमुत्तमम् अदस्तद्विभोः श्रीव्यासस्य जङ्घयोर्युगलं युग्मं भजतः पुरुषानत्र च मुक्तेः प्रागपि सरूपतां सारूप्यं भाजयति प्रापयति । श्रीव्यासजङ्घा-युगलस्य यथा शुचित्वं, क्रमेण गुरुत्वं, सुवृत्तत्वं, तेजस्वित्वमुत्तमत्वञ्च, तद्वदुपासका अपि क्रमेण शुचयो निर्दोषा, गुरवः स्वावराणामुपदेशकर्तारः सुवृत्ताः शोभनाचारास्तेजस्विन उत्तमा ज्ञानभक्त्यादिभिरुत्तमाश्च भवन्तीति भावः । अत्र च सरूपतां भाजयति किमु मुक्ताविति च अर्थः ॥ २९ ॥
मन्दोपाकारिणी
उचितामिति ॥ अदस् तद् विभुजङ्गायुगलं विभोर् वेदव्यासस्य जङ्घे गुल्फादारभ्य उपरितनं जानुमण्डलपर्यन्तम् अङ्गं जङ्घा इत्युच्यते । ‘जङ्घा तु प्रसृता जानु’ इत्यमरः । तयोर् युगलं युग्मं भजतः दर्शनस्मरणादिना सेवमानान् पुरुषान् अधिकारिणः । अत्र च सरूपतां सारूप्यं स्वसादृश्यं भाजयति प्रापयति । कथंभूतं क्रमाद् उचितां गुल्फादूर्ध्वं जानुपर्यन्तं च क्रमेण योग्यां गुरुतां स्थूलतां दधद् बिभ्रत् शुचि निर्दोषम् । ‘शुचिः शुद्धेऽनुपहते’ इति विश्वः । तेजस्वि तेजो ऽस्यास्तीति तेजस्वि उज्वलम् । सुवृत्तं सम्यक् वर्तुलम् उत्तमं श्रेष्ठं श्रीवेदव्यासजङ्गायुगलं यथा शुचि, क्रमेण गुरु, सुवृत्तं च तेजोयुक्तम् उत्तमं च, तथा तदुपासकाः पुरुषा अपि शुचयः निर्दोषाः, क्रमेण स्वावरेषु गुरव उपदेशकर्तारः । सुवृत्ताः शोभनं वृत्तम् आचारः येषां ते सुवृत्ताः । ‘वृत्तं पद्ये चरित्रे त्रिषु’ इत्यमरः । तेजस्विनः ब्रह्मवर्चस्विन उत्तमा ज्ञानभक्त्यादिगुणैर् उत्तमाश्च भवन्तीति भावः । अत्रापि सारूप्यं ददाति किं मुक्तानामिति चशब्दार्थः । ‘भज सेवायाम् इत्यतोे णिजन्ताद् लट् परस्मैपदम्’ ॥ २९ ॥
विश्वास-प्रस्तुतिः - ३०
अचलासनयोगपट्टिका वरकक्ष्या सकृदाप्तमिष्टदम् ।
परितोऽपि हरिं स्फुरन्त्यहो अनिशं धन्यतमेति मे मतिः ॥ ३० ॥
मूलम् - ३०
अचलासनयोगपट्टिका वरकक्ष्या सकृदाप्तमिष्टदम् ।
परितोऽपि हरिं स्फुरन्त्यहो अनिशं धन्यतमेति मे मतिः ॥ ३० ॥
भावप्रकाशिका
हरिं परितः । ‘अभितः परितः समयानिकषाहाप्रतियोगेऽपि’ इति कर्मत्वम् ॥ ३० ॥
पदार्थदीपिकोद्बोधिका
अचलेति ॥ वरा उत्तमा च सा कक्ष्या मध्यबन्धनं वरकक्ष्या । ‘कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने’ इत्यमरः । मध्येभबन्धन इत्यस्य मध्यबन्धने, इभबन्धने चेत्यर्थः । तथा च वरकक्ष्या उत्तममध्यबन्धनभूता । न विद्यते चलश्चलनं यस्य तदचलं तादृशं यदासनमवस्थानं तदर्था योगपट्टिका अचलासनयोगपट्टिका । योगपट्टिकया मध्यबन्धने कृते सति स्थिरासनत्वं भवतीति भावः । सकृदेकदाऽऽप्तमपि प्राप्तमपीष्टदमभीष्टप्रदं हरिं श्रीवेदव्यासं परितः । ‘अभितः परितः’ इत्यादिना द्वितीया । वेदव्यासस्य समन्तादनिशं निरन्तरं स्फुरन्ती सती धन्यतमेति मे मतिः । पुंसां सकृद्भगवत्प्राप्त्या धन्यत्वमभीष्टप्राप्तिश्च भवति । योगपट्टिका त्वनिशमपि परितः स्फुरति अहो आश्चर्यम् । तस्माद्धन्यतमेति भावः ॥ ३० ॥
मन्दोपाकारिणी
अचलेति ॥ वरकक्ष्या वरा उत्तमा च सा कक्ष्या मध्यबन्धनभूता च वरकक्ष्या । ‘कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने’ इत्यमरः । यद्यपि कक्ष्याशब्दः गजमध्यबन्धनस्य सञ्ज्ञा । तथापि अत्र मध्यबन्धनमात्रविवक्षया प्रयुक्त इति ज्ञेयम् । अचलासनयोगपट्टिका अचलासनस्य योगपट्टिका ध्यानकाले अचलं यथा स्यात् तथोपवेशनाय कृतः जानुभ्यां सह मध्यबन्धनभूतश् चतुरङ्गुलविस्तीर्णः कश्चन पदार्थः योगपट्टिकेत्युच्यते । योगस्य ध्यानस्य पट्टिकेति तादृश्या योगपट्टिकया मध्यबन्धने कृते स्थिरासनत्वं भवतीति एवं मध्यबन्धनभूतयोगपट्टिका । हरिं वेदव्यासं परितः समन्ततः । हरेर् वेदव्यासस्य समन्तादपि इत्यर्थः । अनिशं सततं स्फुरन्ती शोभमाना सती । धन्यतमा पुण्यतमा पुण्यवती । ‘सुकृती पुण्यवान् धन्यः’ इत्यमरः । इति मे मतिर् निश्चयः । कथंभूतं हरिम् । सकृद् एकवारम् । ‘सकृत्सहैकवारे’ इत्यमरः । आप्तं प्राप्तमपि । इष्टदम् अभीष्टप्रदं पुंसां सकृद् भगवत्प्राप्त्या अभीष्टप्राप्तिश्च भवति । योगपट्टिका तु निरन्तरं भगवन्तं प्राप्य स्फुरति अतः धन्यतमेति मे मतिः । अहो एतद्योगपट्टिकाया भाग्यमिति भावः ॥ ३० ॥
विश्वास-प्रस्तुतिः - ३१
रुचिरेण वरैणचर्मणा रुचिराजद्युतिचारुरोचिषा ।
परमोरुनितम्बसङ्गिना परमाश्चर्यतया विराज्यते ॥ ३१ ॥
मूलम् - ३१
रुचिरेण वरैणचर्मणा रुचिराजद्युतिचारुरोचिषा ।
परमोरुनितम्बसङ्गिना परमाश्चर्यतया विराज्यते ॥ ३१ ॥
पदार्थदीपिकोद्बोधिका
रुचिरेणेति ॥ परमस्य उत्तमस्य श्रीव्यासस्योरुनितम्ब-स्योत्कृष्टकटिस्थलस्य सङ्गोऽस्यास्तीति तादृशेन । परमस्य ये ऊरुनितम्बास्तेषां सम्बन्धिनेति वा । ‘नितम्बः पश्चिमश्रोणिभागेऽद्रिकटके कटा’विति वैजयन्ती । रुचिरेण रमणीयेन । रुचीनां मयूखानां राजा रुचिराजः सूर्यस्तस्य या द्युतिर् दीप्तिस् तद्वच् चारु मनोहरं रोचिः कान्तिर्यस्य तादृशेन । ‘रुचिर्मयूखे शोभायां’ इति विश्वः । वरमुत्तमं यद् एणचर्म कृष्णमृगचर्म तेन । परमं यदाश्चर्यं तस्य भावस्तत्ता तया विराज्यते । राजृ दीप्तौ भावे लिट् । श्रीव्यासस्य बहिर्वासोभूतमेणचर्मातितरां विराजत इति भावः ॥ ३१ ॥
मन्दोपाकारिणी
रुचिरेणेति ॥ परमोरुनितम्बसङ्गिना ऊरुः सक्थि । ‘सक्थि क्लीबे पुमानूरुर् इत्यमरः । नितम्बः कटिर् ऊरुश्च नितम्बश्च ऊरुनितम्बौ परमस्य वेदव्यासस्य ऊरुनितम्बौ परमोरुनितम्बौ तयोः सङ्गः योगो ऽस्यास्तीति परमोरुनितम्बसङ्गी तेन । रुचिरेण मनोहरेण । रुचिराजद्युतिचारुरोचिषा रुचीनां प्रभानां राजा रुचिराजः सूर्यस् तस्य द्युतिवद् दीप्तिवच् चारु मनोहरं रोचिः कान्तिर् यस्य तद् रुचिराजद्युतिचारुरोचिस् तेन । ‘स्युः प्रभारुग्रुचिस्त्विड् भा भाश्छविद्युतिदीप्तयः’ इत्यमरः । ‘सुन्दरं रुचिरं चारु’ इति च । वरेण उत्तमेन चर्मणा कृष्णाजिनेन । परमाश्चर्यतया परमम् अत्यन्तम् आश्चर्यं परमाश्चर्यस्य भावः परमाश्चर्यता तया । विराज्यते दीप्यते । राजृ दीप्तावित्यतो भावे लट् आत्मनेपदम्’ । वेदव्यासोपविष्टं कृष्णाजिनम् अत्यपूर्वतया शोभत इति भावः ॥ ३१ ॥
विश्वास-प्रस्तुतिः - ३२
तनुनिम्नसुनाभिशोभिते वलिभे वारिजनाभ आदधे ।
प्रतनावतिसुन्दरे मृदावुदरेऽस्मिन् जगदण्डमण्डलम्॥ ३२ ॥
मूलम् - ३२
तनुनिम्नसुनाभिशोभिते वलिभे वारिजनाभ आदधे ।
प्रतनावतिसुन्दरे मृदावुदरेऽस्मिन् जगदण्डमण्डलम्॥ ३२ ॥
भावप्रकाशिका
‘तुन्दिवलिवटेभः’ इति ॥ ३२ ॥
पदार्थदीपिकोद्बोधिका
तन्विति ॥ वारिणि जातं वारिजं पद्मं तन्नाभौ यस्य स श्रीव्यासः । तनुः सूक्ष्मो यो निम्नसुनाभिर् गम्भीरशोभननाभिस् तेन शोभिते । वलिभिस्त्रिरेखाभिर्भातीति वलिभम् । वलयस्त्रिरेखा अस्य सन्तीति वलिभमिति वा । ‘तुन्दिवलिवटेर्भ’ इति मत्वर्थे भः । तस्मिन् प्रतनावत्यल्पेऽतिसुन्दरे मृदावस्मिन् दृश्यमान उदरे जगदण्डस्य ब्रह्माण्डस्य मण्डलमादधे सम्यग्दधार । मृदुप्रतनूदरे ब्रह्माण्ड-धारणमतिचित्रमिति भावः ॥ ३२ ॥
मन्दोपाकारिणी
तन्विति ॥ वारिजनाभः वारिजं पद्मं नाभौ यस्य स तथोक्तः वेदव्यासः । तनुनिम्नसुनाभिशोभिते तनुः सूक्ष्मा । ‘स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु’ इत्यमरः । निम्ना गभीरा । ‘निम्नं गभीरं गम्भीरम्’ इत्यमरः । तनुश्च सा निम्ना च सा सुनाभिश्च तनुनिम्नसुनाभिस् तया शोभिते शोभमाने वलिभे वलिभिः रेखाभिर् भा कान्तिर् यस्य तत् तस्मिन् वलिभे वलित्रयाङ्किते इति यावत् । प्रतनौ अत्यल्पे अतिसुन्दरे मृदौ कोमले अस्मिन् दृश्यमाने उदरे स्वजठरे अण्डमण्डलं ब्रह्माण्डमण्डलात्मकं जगद् आदधे सम्यक् दधार । कोमले अत्यल्पे उदरे अतिस्थूलब्रह्माण्डधारणम् अतिचित्रमिति भावः । ‘डु धाञ् धारणपोषणयोर् लिट् आत्मनेपदं दधे दधाते दधिरे’ ॥ ३२ ॥
विश्वास-प्रस्तुतिः - ३३
हृदये कृतसज्जनोदये सुविशाले मुनिवंशशेखरः ।
उभयं वहति त्रयीमयं विमलं ब्रह्मसुसूत्रमुत्तमम्॥ ३३ ॥
मूलम् - ३३
हृदये कृतसज्जनोदये सुविशाले मुनिवंशशेखरः ।
उभयं वहति त्रयीमयं विमलं ब्रह्मसुसूत्रमुत्तमम्॥ ३३ ॥
भावप्रकाशिका
हृदयेऽन्तर्बहिश्च । ब्रह्मसूत्रं वेदान्तसूत्रम् उपवीतं च ॥ ३३ ॥
पदार्थदीपिकोद्बोधिका
हृदय इति ॥ मुनिवंशे वसिष्ठवंशे शेखरः श्रेष्ठः श्रीव्यासः । कृतः सज्जनोदयः सज्जनसम्पद् येन तस्मिन् । सुविशाले विमले मनोहरे हृदये त्रयीमयं त्रिवेदमयमुत्तममुभयं द्विविधं ब्रह्मसुसूत्रं शोभनं ब्रह्मसूत्रं हृदयान्तर्वेदान्तसूत्रं बहिर्यज्ञोपवीतं च वहतीति भावः । उभयस्य त्रयीमयत्वं नाम- वेदान्तसूत्रस्य वेदार्थनिर्णायकत्वमितरस्य वेदाभिमानिभिर् अभिमन्यमानत्वं वेदसिद्धत्वं वेति ॥ ३३ ॥
मन्दोपाकारिणी
हृदय इति ॥ मुनिवंशशेखरः मुनेर् वसिष्ठस्य वंशस्य अन्वयस्य शेखरः शिखाभूतः वेदव्यासः । कृतसज्जनोदये कृतः सज्जनानाम् उदयो ऽभ्युदयः सम्पद् येन तत् तथोक्तं तस्मिन् । सुविशाले अतिविस्तृते हृदये त्रयीमयं वेदमयं वेदात्मकम् उभयं द्विविधं विमलं स्वच्छम् उत्तमं श्रेष्ठं ब्रह्मसुसूत्रं शोभनं ब्रह्मसूत्रं वहति धत्ते । ‘वह प्रापण इति धातोर् लट् परस्मैपदम्’ । बह्वर्थविषयीकारात् हृदयान्तः वेदार्थनिर्णायकब्रह्मसूत्रं वहति । हृदयबहिर् विस्तीर्णे वक्षसि वेदाभिमानिदेवाभिमन्यमानयज्ञोपवीतं वहतीति भावः ॥ ३३ ॥
विश्वास-प्रस्तुतिः - ३४
असमेऽनधिके सुसाधिते निजताते रविराशिदीधिति ।
प्रददौ त्रिजगज्जयध्वजं विधिरेतद्गलसङ्गिभूषणम्॥ ३४ ॥
मूलम् - ३४
असमेऽनधिके सुसाधिते निजताते रविराशिदीधिति ।
प्रददौ त्रिजगज्जयध्वजं विधिरेतद्गलसङ्गिभूषणम्॥ ३४ ॥
भावप्रकाशिका
‘नास्ति नारायणसममि’ति पत्रालम्बनश्लोको ब्रह्मसदसि ॥ ३४ ॥
पदार्थदीपिकोद्बोधिका
असम इति ॥ विधिर्ब्रह्मा । निजताते स्वपितरि नारायणे । न विद्यते समो यस्य तस्मिन्नसमे समरहित इत्यर्थः । न विद्यतेऽधिको यस्मात्सोऽनधिकस्तस्मिन् । उत्तमरहित इत्यर्थः । सुसाधिते ‘नास्ति नारायणसमं न भूतं न भविष्यती’ति श्लोकेन पत्रालम्बनं कृत्वा श्लोकार्थे सम्यग्साधिते सति । अस्मै श्रीव्यासाय । रवीणां सूर्याणां राशेः समूहस्य दीधितय इव दीधितयः किरणा यस्य तादृशम् । त्रिजगतां जयस्य यो ध्वजः स इवाचरतीति त्रिजगज्जयध्वजम् । गलसङ्गः कण्ठसङ्गोऽस्यास्तीति गलसङ्गि भूषणं कण्ठभूषणं प्रददौ । ‘सहस्रार्थान् ऋषीनेष यौगपद्येन पृच्छतः । सहस्रोत्तरदानेन युगपत्पर्यतोषयदि’ति वचनात् श्रीव्यासस्य जगज्जयः प्रसिद्धः ॥ ३४ ॥
मन्दोपाकारिणी
असम इति ॥ विधिर् ब्रह्मा वेदव्यासेनेति शेषः । निजताते स्वकीयजनके । ‘तातस्तु जनकः पिता’ इत्यमरः श्रीमन्नारायणे । असमे न विद्यते समः सदृशः यस्य स तथोक्तस् तस्मिन् । अनधिके न विद्यते अधिक उत्तमः यस्मात् स तथोक्तस् तस्मिन् । सुसाधिते व्यासेन ‘नास्ति नारायणसमं न भूतं न भविष्यति’ इति श्लोकं पत्रे विलिख्य सर्वान् प्रति सम्यक् साधिते सति नारायणस्य अधिकः समो वा नास्तीति एवं साधिते सतीति यावत् । अस्मै वेदव्यासाय । त्रिजगज्जयध्वजं त्रीणि च तानि जगन्ति च त्रिजगन्ति त्रिजगतां जयस् तस्मिन् ध्वजं ध्वजायमानम् । गलसङ्गि गले कण्ठे । ‘कण्ठो गलोऽथ ग्रीवायां’ इत्यमरः । सङ्गि सङ्गो अस्यास्तीति सङ्गि कण्ठालङ्कारभूतं तादृशं भूषणं कौस्तुभरत्नं प्रददौ । कथंभूतं रविराशिदीधिति रवीनां सूर्याणां राशिः पुञ्जः रविराशेर् दीधितय इव मरीचय इव दीधितयः यस्य तत्तथोक्तम् । ‘सहस्रार्थान् ऋषीनेको यौगपद्येन पृच्छतः । सहस्नोत्तरदानेन युगपत् पर्यतोषयत्’ इति वचनाज् जगज्जयः प्रसिद्धः । वेदव्यासः गले कौस्तुभमणिं धत्ते । तत्र उत्प्रेक्षते, वेदव्यासेन तत्तद्वादिकृतपूर्वपक्षनिरासपूर्वकं श्रीनारायणस्य सर्वोत्तमत्वं ‘नास्ति नारायणेति’ श्लोकं पत्रावलंबितं कृत्वा प्रसाध्य सार्वज्ञे संपादिते सति सभापतिस्थानीयो ब्रह्मा सर्वजयज्ञापकं स्वाभिमन्यमानं कौस्तुभमणिं वेदव्यासस्य बहुमानत्वेन बबन्ध इति मे मतिर् इति । ‘डु दाञ् दान इत्यतो लिट् परस्मैपदं ददौ ददतुर् ददुः’ ॥ ३४ ॥
विश्वास-प्रस्तुतिः - ३५
अरिवारिजलक्षणोल्लसत्सुकुमारारुणपाणिपद्मयोः ।
पृथुपीवरवृत्तहस्तयोरुपमां नैव लभामहेऽनयोः ॥ ३५ ॥
मूलम् - ३५
अरिवारिजलक्षणोल्लसत्सुकुमारारुणपाणिपद्मयोः ।
पृथुपीवरवृत्तहस्तयोरुपमां नैव लभामहेऽनयोः ॥ ३५ ॥
पदार्थदीपिकोद्बोधिका
अरीति ॥ अरिश्चक्रं वारिजः शङ्खस्तयोर्लक्षणे रेखा-रूपचिह्ने । ताभ्यामुल्लसती सुकुमारारुणपाणिपद्मे सुकोमलरक्तपाणिपद्मे ययोस्तयोरनयोः परिदृश्यमानयोः । पृथू स्थूलौ पीवरौ पुष्टौ यौ वृत्तहस्तौ वर्तुलबाहू तयोरुपमां दृष्टान्तं नैव लभामहे ॥ ३५ ॥
मन्दोपाकारिणी
अरीति ॥ अरिवारिजलक्षणोल्लसत्सुकुमारारुणपाणिपद्मयोर् अरिश् चक्रं ‘अरिः पुमांश्चक्रवाके रिपौ चक्रे तु न द्वयं’ इत्यमरः । वारिजः शङ्खः । ‘अब्जौ शङ्ख शशाङ्कौ च’ इत्यमरः । अरिश्च वारिजश्च अरिवारिजौ अरिवारिजयोर् लक्षणे रेखारूपचिह्ने ताभ्याम् उल्लसती । पाणी करतले एव पद्मे नलिने पाणिपद्मे चक्राकारशङ्खाकाररेखाभ्यां शोभमाने इति यावत् । सुकुमारे कोमले च अरुणे रक्तवर्णे च ते पाणिपद्मे च । अरिवारिजलक्षणोल्लसती सुकुमारारुणपाणिपद्मे ययोस् तौ तथोक्तौ तयोर् अनयोः । पृथुपीवरवृत्तहस्तयोः पृथू स्थूलौ च तौ पीवरौ पुष्टौ च तौ वृत्तौ वर्तुलौ च तौ हस्तौ तयोः । उपमां दृष्टान्तं न लभामहे न पश्यामः । एतादृशवस्तुनः कुत्रापि अभावादिति भावः । ‘डु लभष् प्राप्तौ इत्यतो लट् आत्मनेपदं लभे लभावहे लभामहे’ ॥ ३५ ॥
विश्वास-प्रस्तुतिः - ३६
भजतां वरतर्कमुद्रया द्यति हस्ताग्रमबोधमीशितुः ।
अधिजानु समर्पितं परं कृतभूयोभयभङ्गमङ्गलम्॥ ३६ ॥
मूलम् - ३६
भजतां वरतर्कमुद्रया द्यति हस्ताग्रमबोधमीशितुः ।
अधिजानु समर्पितं परं कृतभूयोभयभङ्गमङ्गलम्॥ ३६ ॥
पदार्थदीपिकोद्बोधिका
भजतामिति ॥ ईशितुः श्रीव्यासस्य हस्ताग्रं वरा या तर्कमुद्रा ज्ञानमुद्रा तया भजतामबोधमज्ञानं द्यति खण्डयति । दो अवखण्डने लट् । जानुन्यधि अधिजानु । विभक्त्यर्थेऽव्ययीभावः । जानूपरीत्यर्थः । समर्पितं न्यस्तं परं वामहस्ताग्रं भूयो महद्भयं भूयोभयम् । संसारलक्षणं भयमित्यर्थः । तस्य भङ्गो नाशः, कृतः भूयोभयभङ्गो येन तादृशं, तच्च तन्मङ्गलं चेति तादृशम् । दक्षिणवामहस्तौ ज्ञानाभय-मुद्राङ्कितौ इति भावः ॥ ३६ ॥
मन्दोपाकारिणी
भजतामिति ॥ ईशितुर् मम स्वामिनः वेदव्यासस्य । हस्ताग्रं हस्तस्य दक्षिणकरस्य अग्रम् अङ्गुलिरूपोऽवयवः । वरतर्कमुद्रया तर्कस्य ज्ञानस्य मुद्रा तर्कमुद्रा वरा उत्तमा च सा तर्कमुद्रा च वरतर्कमुद्रा तया । भजतां स्वभक्तानाम् अबोधम् अज्ञानं द्यति खण्डयति । ‘दो अवखण्डन इति धातोर् लट् परस्मैपदं द्यति द्यतः द्यन्ति’ । अधिजानु जानौ अधि अधिजानु । अव्ययीभावसमासोऽयम् अव्ययं वा । वामजानुत उपरि इति यावत् । समर्पितं न्यस्तं परं दक्षिणहस्ताद् अन्यं वामहस्ताग्रं कृतभूयोभयभङ्गमङ्गलं भूयः भूरि भयं यस्मिन् तद् भूयोभयं संसारलक्षणं तस्य भङ्गः नाशः भूयोभयभङ्गश्च मङ्गलं शुभं च कृते भूयोभयमङ्गले येन तत् तथोक्तम् । भक्तानां संसारभयं परिहृत्य मुक्तिरूप-शुभप्रदम् इत्यर्थः । वेदव्यासस्य दक्षिणवामबाहू ज्ञानाभयमुद्राङ्कितौ इति भावः ॥ ३६ ॥
विश्वास-प्रस्तुतिः - ३७
सततं गलता स्वतः श्रुतित्रितयेनैव निकाममङ्कितः ।
सुविडम्बितकम्बुरीक्ष्यते वररेखात्रयवान् गुरोर्गलः॥ ३७ ॥
मूलम् - ३७
सततं गलता स्वतः श्रुतित्रितयेनैव निकाममङ्कितः ।
सुविडम्बितकम्बुरीक्ष्यते वररेखात्रयवान् गुरोर्गलः॥ ३७ ॥
पदार्थदीपिकोद्बोधिका
सततमिति ॥ स्वतः स्वस्मात्सततं गलता निर्गच्छता श्रुतीनाम् ऋगादिवेदानां त्रितयं तेन । निकामं सम्यगङ्कित इव चिह्नित इव । वरमुत्तमं यद्रेखात्रयं तदस्यास्तीति तादृशः । अत एव सुविडम्बितो मध्ये रेखात्रययुक्तत्वेन सम्यगनुकृतः कम्बुः शङ्खो येन तादृशः । गुरोः श्रीव्यासस्य गलः कण्ठ ईक्ष्यते द्रक्ष्यते ॥ ३७ ॥
मन्दोपाकारिणी
सततमिति ॥ स्वतः स्वस्मात् सततं गलता बहिर्निर्गच्छता श्रुतित्रितयेन श्रुतीनाम् ऋगादिवेदानां त्रितयेन त्रयेण निकामं सम्यक् अङ्कित इव चिन्हित इव वररेखात्रयवान् वरश्च ता रेखाश्च वररेखा वररेखानां त्रयं त्रिकम् अस्य अस्तीति वररेखात्रयवान् । अत एव सुविडम्बितकम्बुः सम्यक् विडम्बितो ऽनुकृतः कम्बुः शङ्खः येन स तथोक्तः । ‘कम्बुर्ना वलये शङ्खे’ इत्यमरः । रेखात्रयवत्वेन शङ्खसदृश इति यावत् । गुरोर् वेदव्यासस्य गलः कण्ठ ईक्ष्यते दृश्यते वेदव्यासकण्ठः शङ्खवद् रेखात्रयोपेतः कण्ठे विद्यमानस् तिस्रो रेखाः कण्ठान् निर्गच्छन्तस् त्रय ऋगादिवेदा इव प्रतीयन्ते इति उपमा । वेदत्रयमेव त्रिरेखारूपेण सततं बहिर्गत इति मे तर्क इति उत्प्रेक्षा वा इति ज्ञातव्यम् ॥ ३७ ॥
विश्वास-प्रस्तुतिः - ३८
सकलास्तकलङ्ककालिमस्फुरदिन्दुप्रकरोरुविभ्रमम् ।
अधरीकुरुते स्वशोभया वदनं देवशिखामणेरिदम्॥ ३८ ॥
मूलम् - ३८
सकलास्तकलङ्ककालिमस्फुरदिन्दुप्रकरोरुविभ्रमम् ।
अधरीकुरुते स्वशोभया वदनं देवशिखामणेरिदम्॥ ३८ ॥
पदार्थदीपिकोद्बोधिका
सकलेति ॥ देवशिखामणेर् देवश्रेष्ठस्य श्रीव्यासस्य इदं वदनं स्वशोभया स्वकान्त्या । कलाभिः सहिताः सकलाः पूर्णा इत्यर्थः । तादृशा येऽस्तकलङ्ककालिमानोऽस्तो निरस्तः कलङ्ककालिमा शशलाञ्छनकार्ष्ण्यं येषां तादृशाः स्फुरन्तः शोभमाना इन्दवस्तेषां यः प्रकरः समूहस्तस्योरुविभ्रम उरुकान्तिस्तामधरीकुरुते निराकरोति । सम्पूर्णास्तकलङ्कचन्द्रप्रकरकान्तेरपि भगवद्वदनकान्तिरधिकेति भावः ॥ ३८ ॥
मन्दोपाकारिणी
सकलेति ॥ देवशिखामणेर् देवानां शिखामणेश् चूडामणेर् देवश्रेष्ठस्येति यावत् । ‘शिखा चूडा शिखण्डस्तु’ इत्यमरः । वेदव्यासस्य इदं वदनम् आननं स्वशोभया स्वकान्त्या सकलास्तकलङ्ककालिमस्फुरदिन्दुप्रकरोरुविभ्रमं स्फुरन्तश्च ते इन्दवश्च स्फुरदिन्दवः कलाभिः सहिताः सकलाः सकलाश्च ते अस्तकलङ्ककालिमानश्च ते स्फुरदिन्दवश्च सकलास्तकलङ्ककालिमस्फुरदिन्दवः सकलानां षोडशकलासहितानाम् अस्तः निरस्तः कलङ्कस्य शशरूपलाञ्छनस्य कालिमा श्यामलत्वं येषां ते तथोक्तास् तेषाम् अस्तकलङ्ककालिमत्वादेव स्फुरतां प्रकाशमानानाम् इन्दूनां चन्द्राणां प्रकरस्य समूहस्य उरु उत्कृष्टं विभ्रमं कान्तिम् अधरीकुरुते अधः कुरुते । डु कृञ् करण इत्यतः लडात्मनेपदम् । ‘अधरीति च्विप्रत्ययान्तम् अव्ययम् । कुरुते कुर्वाते कुर्वते’ । षोडशकलापरिपूर्ण-चन्द्रसमुदायकान्त्यपेक्षया भगवद्वदनकान्तिर् अधिका इति भावः । ‘कलङ्काङ्कौ लाञ्छनं’ इत्यमरः । विभ्रमः संशये भ्रान्तौ शोभायां च’ इति वैजयन्ती ॥ ३८ ॥
विश्वास-प्रस्तुतिः - ३९
अरुणाश्मदलान्तरोल्लसन्नवमुक्तावलिमस्य लज्जयेत् ।
हसतः सितदन्तसन्ततिः परमश्रीररुणोष्ठरोचिषः ॥ ३९ ॥
मूलम् - ३९
अरुणाश्मदलान्तरोल्लसन्नवमुक्तावलिमस्य लज्जयेत् ।
हसतः सितदन्तसन्ततिः परमश्रीररुणोष्ठरोचिषः ॥ ३९ ॥
पदार्थदीपिकोद्बोधिका
अरुणेति ॥ अरुणोष्ठयो रक्तोष्ठयो रोचिः कान्तिर्यस्य तस्य । हसतो मन्दस्मितं कुर्वतोऽस्य श्रीव्यासस्य परमा उत्तमा श्रीः कान्तिर्यस्याः सा । सितदन्ताश्शुभ्रदन्तास्तेषां सन्ततिः पङ्क्तिः । अरुणाश्मा पद्मरागमणिस्तस्य यद्दलं तस्यान्तरे मध्य उल्लसन्ती या नवमुक्तावलिर्नूतनमौक्तिकमणिपङ्क्तिस् तां लज्जयेत् । ओ लस्जी व्रीडायां लिङ् । हसतोऽस्यारुणोष्ठद्वयमध्यगता सितदन्तसन्ततिः पद्मरागदलमध्यगतमुक्तावलिमतिशेत इति भावः ॥ ३९ ॥
मन्दोपाकारिणी
अरुणेति ॥ अरुणोष्ठरोचिषो ऽरुणौ रक्तौ च तौ ओष्ठौ रदनच्छदौ च अरुणोष्ठौ । ‘ओष्ठाधरौ तु रदनच्छदौ दशनवाससी’ इत्यमरः । अरुणोष्ठयोः रोचिर् यस्य तस्य । हसतः मन्दस्मितं कुर्वतः । अस्य श्रीवेदव्यासस्य । परमश्रीः परमा उत्तमा श्रीः कान्तिर् यस्याः सा तथोक्ता । ‘श्रीर्वेषरचना शोभा कान्तिः’ इत्यमरः । सितदन्तसन्ततिः सिता अवदाताश्च ते दन्ता रदनाश्च सितदन्ताः । ‘अवदातः सितो गौरः’ इत्यमरः । सितदन्तानां सन्ततिः पङ्क्तिः । अरुणाश्मदलान्तरोल्लसन्नवमुक्तावलिम् अरुणः रक्तश्चासौ अश्मा पाषाणश्च ‘पाषाणप्रस्तरग्रावोपलाश्मनः शिलादृषत्’ इत्यमरः । अरुणाश्मा पद्मरागमणिस् तस्य दले शकले । ‘शकलच्छदयोर्दलं’ इत्यमरः । तयोर् अन्तरे मध्ये उल्लसन्ती शोभमाना नवा नूतना मुक्तानां मौक्तिकानाम् आवलिः पङ्क्तिस् तां लज्जयेत् तिरस्कुर्यात् । लोहितपद्मरागमणेः शकलयोर् मध्ये धवलमुक्तापङ्क्तिर् यथा शोभते तथा हसतः वेदव्यासस्य रक्तवर्णोष्ठद्वयमध्ये शोभमाना धवलदन्तपङ्क्तिस् तदपेक्षया अधिककान्तिमती इति भावः । ‘ओ लस्जी व्रीडायाम् इत्यतो लिङ् परस्मैपदम्’ ॥ ३९ ॥
विश्वास-प्रस्तुतिः - ४०
द्विजवृन्दकृतं कुतूहलादनुयोगान्धुसहस्रमुत्तमम् ।
इयमेकपदे सरस्वती श्रुतिभर्तुः परिपूरयत्यहो ॥ ४० ॥
मूलम् - ४०
द्विजवृन्दकृतं कुतूहलादनुयोगान्धुसहस्रमुत्तमम् ।
इयमेकपदे सरस्वती श्रुतिभर्तुः परिपूरयत्यहो ॥ ४० ॥
भावप्रकाशिका
सहस्रार्थान् ऋषीनेषः यौगपद्येन पृच्छतः । सहस्रोत्तरदानेन युगपत् पर्यतोषयत् ॥ ४० ॥
पदार्थदीपिकोद्बोधिका
द्विजेति ॥ श्रुतीनां भर्ता स्वामी तस्य श्रीव्यासस्य इयं सरस्वती वाणी । महादरान् महाबहुमानाद्द्विजवृन्दैर्ब्राह्मणसमूहैः कृतमुत्तमम् अनुयोगा एव प्रश्ना एवान्धवः कूपास्तेषां सहस्रम् । ‘प्रश्नोनुयोगः पृच्छा च । पुंस्येवान्धुः प्रहिः कूपः’ इति च अमरः । एकपद एकवाक्ये युगपदेवेत्यर्थः । परिपूरयति परिहरति । अहो आश्चर्यम् । नदीप्रवाहो यथाऽभिवृद्धः संस्तीरगतकूपसहस्रं युगपदेव पूरयति तद्वदियं बहून् प्रश्नान्युगपदेव सहस्रोत्तरदानेन परिहरति । ‘सहस्रार्थान् ऋषीनेषः यौगपद्येन पृच्छतः । सहस्रोत्तरदानेन युगपत् पर्यतोषयदि’ति वचनादिति भावः ॥ ४० ॥
पदार्थदीपिकोद्बोधिका
द्विजेति ॥ श्रुतिभर्तुः श्रुतीनां वेदानां भर्तुः स्वामिनः वेदव्यासस्य इयं सरस्वती वाक् कुतूहलात् संभ्रमाद् द्विजवृन्दकृतं द्विजानाम् ऋषीणां वृन्देन समूहेन कृतम् । स्त्रियान्तु संहतिर्वृन्दं’ इत्यमरः । उत्तमम् अनुयोगान्धुसहस्रम् अनुयोगाः प्रश्नास् ते एव अन्धवः कूपाः । ‘प्रश्नोऽनुयोगः पृच्छा च’ इत्यमरः । ‘पुंस्येवान्धुः प्रहिः कूपः’ इत्यमरः । तेषां सहस्रम् एकपदे युगपदेव परिपूरयति सहस्रोत्तरदानेन पूर्णं करोति । यथा सरस्वती नदी ‘कूलंकषा निर्खरिणी रोधो वक्रा सरस्वती’ इत्यमरः । अभिवृद्धा सती द्विजवृन्दः विप्रक्षत्रियवैश्यास् तत्कृतगंभीरसहस्रकूपान् युगपदेव पूरयति तथा वेदव्यासोऽपि सहस्रप्रश्नान् युगपदेव सहस्रोत्तरदानेन पूरयति । अहो युगपदेव सहस्रोत्तरदानेन सहस्रऋषिमनःपूर्तिकरणम् आश्चर्यमिति भावः । सहस्रार्थान् ऋषीन् एषः यौगपद्येन पृच्छतः । सहस्रोत्तरदानेन युगपत् पर्यतोषयद् इति प्रमेयसिद्धम् ॥ ४० ॥
विश्वास-प्रस्तुतिः - ४१
जलजायतलोचनस्य मामवलोकोऽयमुपेत्य लालयन् ।
कुरुते परिरभ्य पूरितं भुवनानन्दकरस्मितान्वितः॥ ४१ ॥
मूलम् - ४१
जलजायतलोचनस्य मामवलोकोऽयमुपेत्य लालयन् ।
कुरुते परिरभ्य पूरितं भुवनानन्दकरस्मितान्वितः॥ ४१ ॥
पदार्तदीपिकोद्बोधिका – जलजेति ॥ जलजवत् पद्मवद् आयते विशाले लोचने यस्य तस्य श्रीव्यासस्य । भुवनानन्दं जगदानन्दं करोतीति तादृशं यत्स्मितं तेनान्वितोऽय-मवलोको दृष्टिपातः लालयन् सन् मामुपेत्य परिरभ्य पूरितं कृतार्थं कुरुते ॥ ४१ ॥
मन्दोपाकारिणी
जलजेति ॥ जलजायतलोचनस्य जलजवत् कमलवद् आयते विस्तीर्णे लोचने नयने यस्य स तथोक्तस् तस्य वेदव्यासस्य । भुवनानन्दकरस्मितान्वितः भुवनानां लोकानाम् आनन्दं सुखं करोतीति भुवनानन्दकरं तच्च तत् स्मितं मन्दहासश्च तेन अन्वितः युक्तो ऽयं मद्विषयको ऽवलोको ऽवलोकनं लालयन् आदरं कुर्वन् मामुपेत्य मत्समीपं प्राप्य परिरभ्य आश्लिष्य पूरितं पूर्णमनोरथं कुरुते करोति । वेदव्यास इदानीं मन्दहासपूर्वकं स्नेहेन प्रहसन् लोचनाभ्यां मां सम्यक् पश्यति । तेन अहं कृतार्थोऽभूवम्
इति भावः ॥ ५१ ॥
विश्वास-प्रस्तुतिः - ४२
उपकर्णममुष्य भासिता तुलसी मन्त्रयतीव लालिता ।
मम नाथ पदं न मत्सराज्जलजाद्यानि हरेयुरित्यलम्॥ ४२ ॥
मूलम् - ४२
उपकर्णममुष्य भासिता तुलसी मन्त्रयतीव लालिता ।
मम नाथ पदं न मत्सराज्जलजाद्यानि हरेयुरित्यलम्॥ ४२ ॥
पदार्थदीपिकोद्बोधिका
उपेति ॥ अमुष्य श्रीव्यासस्य कर्णस्य समीप उपकर्णम् । ‘अव्ययं विभक्ती’त्यादिना समीपार्थेऽव्ययीभावः । भगवता स्वकर्णारोपणेन भासिताऽलङ्कृता तुलसी लालिता श्रीव्यासेन स्वकर्णारोपणेनैवादृता सती । हे नाथ स्वामिन् जलजं पद्ममाद्यं येषां तानि पुष्पाणि मत्सरान् मात्सर्यान् मम पदं स्थानं कर्णप्रदेशं न हरेयुर् इत्यलं सम्यङ्मन्त्रयतीव उपकर्णमेवं गुप्तभाषणं करोतीव वर्तते । मत्रि गुप्तभाषणे । भगवता स्वकर्णे धृता तुलसी मन्त्रयतीव इति उत्प्रेक्षा ॥ ४२ ॥
मन्दोपाकारिणी
उपकर्णमिति ॥ अमुष्य श्रीवेदव्यासस्य उपकर्णं कर्णयोः समीपम् उपकर्णं श्रोत्रयोरिति यावत् । भासिता भगवता स्वकर्णयोर् आरोपणेन अलङ्कृता । तुलस्या भगवत्कर्णयोः स्थितिरेव अलङ्कार इति भावः । लालिता स्वकर्णारोपणेन आदृता सती तुलसी इति मन्त्रयतीव गुप्तभाषणं करोतीव । ‘मन्त्र गुप्तभाषण इति धातोः’ । कथं हे नाथ मम स्वामिन् । जलजाद्यानि जलजं कमलमेव आद्यं पूर्वं येषां तानि पुष्पाणि । मत्सरान् मात्सर्यान् मम पदं स्थानं कर्णप्रदेशम् । ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु’ इत्यमरः । न हरेयुर् न अपहरेयुः । इति मन्त्रयतीव तुलस्येषा सर्वैः कर्णमूले ध्रियते न यत्किञ्चिदपि पुष्पम् अतः भगवतापि स्वकर्णमूलयोस् तुलस्येव लोकशिक्षणार्थं धृताऽस्तीति वस्तुस्थितिः । तत्रोत्प्रेक्षा इयं तुलसी कर्णसमीपं गत्वा हे स्वामिन् मम स्थानं कर्णमूलं कस्मैचिदपि पुष्पाय न दिश ममैवास्तु इति स्वाभिप्रेतं गोप्यं विज्ञापयति ॥ ४२ ॥
विश्वास-प्रस्तुतिः - ४३
विभवाभिभवोद्भवादिकं भुवनानां भुवनप्रभोर्भ्रुवोः ।
अनयोरपि दभ्रविभ्रमात्सभवाम्भोजभवात्मनां भवेत् ॥ ४३ ॥
मूलम् - ४३
विभवाभिभवोद्भवादिकं भुवनानां भुवनप्रभोर्भ्रुवोः ।
अनयोरपि दभ्रविभ्रमात्सभवाम्भोजभवात्मनां भवेत् ॥ ४३ ॥
पदार्थदीपिकोद्बोधिका
विभवेति ॥ भुवनप्रभोर् जगत्प्रभोः श्रीव्यासस्यानयोर्भ्रुवोर् दभ्रविभ्रमात्स्वल्पविलासादपि भवो रुद्रः, अम्भोजभवश् चतुर्मुखः, तावात्मानौ स्वामिनौ, ताभ्यां सहितानि सभवाम्भोजभवात्मानि तेषाम् । भुवनानां जगताम् । विभव ऐश्वर्यं, अभिभवः संहारः, उद्भव उत्पत्तिः, त आदयो यस्य नियमनादेस्तादृशम् । ‘बहुब्रीहौ कः । भवेत् ॥ ४३ ॥
मन्दोपाकारिणी
विभवेति ॥ भुवनप्रभोर् भुवनानां जगतां प्रभोर् नाथस्य अनयोर् भ्रुवोर् लोचनोर्ध्वभागे ललाटसमीपे विद्यमानयोर् अवयवयोः । ‘ऊर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियां’ इत्यमरः । दभ्रविभ्रमादपि दभ्रो ऽल्पश्चासौ विभ्रमश् चलनं च । ‘भ्रमु चलन इति धातुः’ । तस्मादपि सभवाम्भोजभवात्मनां भवः शङ्करः । ‘भवः संसारसंप्राप्तिश्रेयःशङ्करजन्मसु’ इति विश्वः । अम्भोजात् कमलाद् भव उत्पत्तिर् यस्य स तथोक्तश् चतुर्मुखः । भवश्च अम्भोजभवश्च भवाम्भोजभवौ तौ आत्मानौ स्वामिनौ च भवाम्भोजभवात्मानौ ताभ्यां सहितानि सभवाम्भोजभवात्मानि तेषां ब्रह्मरुद्राख्यस्वामिसहितानां भुवनानां जगताम् । विभवाभिभवोद्भवादिकं विभवम् ऐश्वर्यम् अभिभवः संहार उद्भव उत्पत्तिः, विभवश्च अभिभवश्च उद्भवश्च विभवाभिभवोद्भवा एत एव आदयो यस्य नियमनादेस् तद् विभवाभिभवोद्भवादिकं भवेद् भवति । भ्रूचलनेनैव सर्वसृष्ट्यादिकं भवतीत्युक्त्या सृष्ट्यादौ आयासो नास्तीति
उक्तं भवति ॥ ४३ ॥
विश्वास-प्रस्तुतिः - ४४
त्रिजगत्तिलकालिकान्तरे तिलकोऽयं परभागमाप्तवान् ।
हरिनीलगिरीन्द्रमस्तकस्फुटशोणोपलपंक्तिसन्निभः॥ ४४ ॥
मूलम् - ४४
त्रिजगत्तिलकालिकान्तरे तिलकोऽयं परभागमाप्तवान् ।
हरिनीलगिरीन्द्रमस्तकस्फुटशोणोपलपंक्तिसन्निभः॥ ४४ ॥
पदार्थदीपिकोद्बोधिका
त्रिजगदिति ॥ त्रिजगतां तिलक इव त्रिजगत्तिलकः श्रीव्यासस् तस्य अलिकान्तरे ललाटमध्ये । ‘ललाटमलिकं गोधिः’ इत्यमरः । परभागो वर्णान्तरसंयोगेन लभ्य उत्कर्षस्तम् । ‘परभागो गुणोत्कर्ष’ इति हलः । आप्तवान् नीलभगवल्ललाटे रक्तद्रव्येण कृत इत्यर्थः । अयं तिलकः हरिनील इन्द्रनीलो यो गिरीन्द्रो गिरिश्रेष्ठस्तस्य मस्तके शिखरे स्फुटाश्शोभमाना ये शोणोपलाः पद्मरागमणयस्तेषां पङ्क्तेस्सन्निभः सदृशः । ‘पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्’ इत्यमरः । तथा विराजत इति भावः । अत्रोपमालङ्कारः ॥ ४४ ॥
मन्दोपाकारिणी
त्रिजगदिति ॥ त्रिजगत्तिलकालिकान्तरे त्रीणि च तानि जगन्ति च त्रिजगन्ति त्रिजगतां तिलकस् तिलकसदृशो ऽलङ्कारभूत इति यावत् तस्य वेदव्यासस्य अलिकं ललाटम् । ‘ललाटमलिकं गोधिः’ इत्यमरः । तस्य अन्तरे मध्ये । परभागं कर्णान्तरसंयोगजन्यगुणोत्कर्षम् । ‘परभागो गुणोत्कर्षः’ इत्यभिधानम् । आप्तवान् प्राप्तो ऽयं तिलकः लोहितद्रव्यविशेषेण कृतस् तिलकः । ‘तमालपत्रतिलकचित्रकाणि विशेषकं द्वितीयं च तुरीयं च न स्त्रियां’ इत्यमरकोशे द्वितीयतुरीयत्वेन उक्तयोस् तिलकविशेष-कशब्दयोर् न स्त्रियाम् इत्यनेन पुंनपुंसकत्वोक्तेस् तिलक इति पुल्लिङ्गप्रयोगस्साधुः । हरिनीलगिरीन्द्रमस्तकस्फुटशोणोपलपङ्क्तिसन्निभः । हरिशब्दस्य इन्द्रवाचकत्वाद् इन्द्रनील इत्यर्थः । हरिनीलश्चासौ गिरीन्द्रः पर्वतश्रेष्ठश्च हरिनीलगिरीन्द्रस् तस्य मस्तके मूधर्ि्न स्फुटाः शोभमानाः शोणा रक्तवर्णाश्च ते उपलाः पाषाणाश्च शोणोपलाः पद्मरागमणयः । ‘रोहितो लोहितो रक्तः शोणः कोकनदच्छविः’ इत्यमरः । पाषाणप्रस्तरग्रावोपलाश्मानः’ इति च । तेषां पङ्क्तिर् आवलिः । ‘वीथ्यालिरावलिः पङ्क्तिः’ इत्यमरः । तस्य सन्निभः सदृशः सन् विराजते । यथा इन्द्रनीलपर्वत ऊर्ध्वभागे लोहितपद्मरागमणिपङ्क्तिवर्णान्तरसंयोगेन उत्कर्षम् आप्नुयात् तद्वद् इन्द्रनीलसदृशवेदव्यासललाटे लोहितश्रीगन्धादिद्रव्येण कृत ऊर्ध्वपुण्ड्रः नीलकान्तिसंयोगेन उत्कृष्टशोभां प्राप इति भावः । तेन वेदव्याससम्बन्धेनैव तिलकस्य अलङ्करणं न तिलकसम्बन्धेन वेदव्यासस्य । तस्यैव स्वरससुन्दरत्वेन अलङ्कारापेक्षाभावाद् इति उक्तं भवति ॥ ४४ ॥
विश्वास-प्रस्तुतिः - ४५
नवमम्बुधरं विडम्बयद्वरविद्युद्वलयं जगद्गुरोः ।
अवलोक्य कृतार्थतामगां सजटामण्डलमण्डनं वपुः॥ ४५ ॥
मूलम् - ४५
नवमम्बुधरं विडम्बयद्वरविद्युद्वलयं जगद्गुरोः ।
अवलोक्य कृतार्थतामगां सजटामण्डलमण्डनं वपुः॥ ४५ ॥
पदार्थदीपिकोद्बोधिका
नवमिति ॥ वरा उत्तमा या विद्युत्तस्या वलयो मण्डलं यस्य तं नवं नूतनं नीलमिति भावः । अम्बुधरं मेघं विडम्बयदनुकुर्वज्जटानां यन्मण्डलं तदेव मण्डनम् अलङ्कारस् तेन सहितं, गुरोः श्रीव्यासस्य वपुर् देहमवलोक्य कृतार्थतां कृतकृत्यताम् अगाम् । इण् गतौ लुङ् ॥ ४५ ॥
मन्दोपाकारिणी
नवमिति ॥ वरविद्युद्वलयं विद्युतां तडिताम् । ‘तटित्सौदामिनी विद्युत्’ इत्यमरः । वलयः मण्डलं विद्युद्वलयः वर उत्तमः स्फुरद्विद्युद्वलयः यस्मिन् स तथोक्तस् तं विद्युन्मण्डलोपेतम् इत्यर्थः । नवं नूतनं नीलवर्णमिति भावः । अम्बुधरं मेघं ‘तटित्वान्वारिदोऽम्बुभृत्’ इत्यमरः । विडम्बयद् अनुकुर्वत् । जगद्गुरोर् जगतां गुरोर् वेदव्यासस्य वपुर् देहम् अवलोक्य दृष्ट्वा कृतार्थतां कृतो ऽर्थः प्रयोजनं येन स कृतार्थस् तस्य भावः कृतार्थता कृतकृत्यताम् अहम् अगां प्राप्तवान् । कथंभूतं वपुः । सजटामण्डलमण्डनं जटानां सटानाम् । ‘शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा’ इत्यमरः । मण्डलं वलयः जटामण्डलं जटामण्डलमेव मण्डनं भूषणं जटामण्डलमण्डनं तेन सहितं सजटामण्डल-मण्डनं ‘तदिदं वपुरस्य दृश्यते’ इत्यनेन शरीरस्य वर्णितत्वाद् अत्र जटासाहित्येन वर्णनाज् जटावर्णन एव तात्पर्यं ज्ञेयम् । कथं नीलकान्तिमेघमण्डले लोहितविद्युन्मण्डलं यथा विराजते तथा नीलमेघश्यामले वेदव्यासशरीरे अरुणविद्युन्मण्डलसदृशम् अरुणजटामण्डलं शोभत इति । अत्र एतादृशशरीरदर्शनेन यत्प्रयोजनमुद्दिश्य अहम् अत्र अगां तन्मया लब्धं तच्च वेदव्यासदर्शनम् इत्युक्तं भवति । ‘इण् गतौ इति धातोर् लुङ् परस्मैपदम् अगाम् अगाव अगाम’ ॥ ४५ ॥
विश्वास-प्रस्तुतिः - ४६
न रमाऽपि पदाङ्गुलीलसन्नखधूराजदनन्तसद्गुणान् ।
गणयेद्गणयन्त्यनारतं परमान् कोऽस्य परो गुणान् वदेत् ॥ ४६ ॥
मूलम् - ४६
न रमाऽपि पदाङ्गुलीलसन्नखधूराजदनन्तसद्गुणान् ।
गणयेद्गणयन्त्यनारतं परमान् कोऽस्य परो गुणान् वदेत् ॥ ४६ ॥
भावप्रकाशिका
नखधूराजदिति । अत्रोपसृष्टमिति च । स्मृतमिन्दिराया इति च ॥ ४६ ॥
पदार्थदीपिकोद्बोधिका
नेति ॥ रमा, अस्य श्रीव्यासस्य पदस्य या अङ्गुली कनिष्ठाङ्गुली तस्यां लसञ्छोभमानो यो नखस्तस्य धूर्व्यापारस्तस्यां राजन्तः शोभमाना येऽनन्तसद्गुणास्ताननारतं निरन्तरं गणयन्त्यपि न गणयेत् साकल्येन गणयितुम् असमर्था । गण सङ्ख्यान इति धातुः । भगवद्गुणानां भगवदभिन्नत्वाद् भगवन्नखव्यापारस्यापि अगणितानन्तगुणत्वं युक्तम् । तस्मात् परोयो मतिमान्विवेकी पुमान् अस्य गुणान् को वदेत्? साकल्येन ब्रूयात्? । न कोऽपि इति भावः ॥ ४६ ॥
मन्दोपाकारिणी
न रमापी ॥ ब्रह्मादिदेवोत्तमा लक्ष्मीरपि अस्य वेदव्यासस्य पदाङ्गुलीलसन्नखधूराजदनन्तसद्गुणान् पदस्य चरणस्य अङ्गुली तस्यां लसंश्चासौ नखश्च पदाङ्गुलीलसन्नखस् तस्य धूर् व्यापारः धुरा राजन्तः स्फुरन्तश्च ते अनन्ताश्च ते सन्तश्च ते गुणाश्च तान् । अनारतं निरन्तरं गणयन्त्यपि सङ्ख्यानं कुर्वन्त्यपि न गणयेत् साकल्येन गणयितुं न समर्था स्यात् । ‘गण सङ्ख्यान इति धातोर् विधिलिङ् परस्मैपदम्’ । भगवद्गुणक्रियादीनां भगवता अत्यन्ताभिन्नत्वाद् भगवन्नखक्रियाया अपि अनन्तगुणत्वं ज्ञेयम् । परः लक्ष्म्यतिरिक्तः को वा पुरुषो ऽस्य परमान् अत्युत्कृष्टान् गुणान् वदेत् साकल्येन वर्णयेन् न कोऽपि इति भावः । ‘वद व्यक्तायां वाचि’ इति धातोर् विधिलिङ् परस्मैपदम्’ । सर्वोच्चा रमादेव्यपि साकल्येन एकावयवगुणवर्णनविषये समर्था न भवति । तदन्यः साकल्येन सर्वावयवगुणवर्णनविषये न समर्थ इति किमु वाच्यमिति भावः ॥ ४६ ॥
विश्वास-प्रस्तुतिः - ४७
न कुतूहलिता कुतूहलं तनुमेनामवलोक्य सद्गुरोः ।
सनवावरणाण्डदर्शिनो गृहबुद्ध्या मम निष्कुतूहलम् ॥ ४७ ॥
मूलम् - ४७
न कुतूहलिता कुतूहलं तनुमेनामवलोक्य सद्गुरोः ।
सनवावरणाण्डदर्शिनो गृहबुद्ध्या मम निष्कुतूहलम् ॥ ४७ ॥
पदार्थदीपिकोद्बोधिका
नेति ॥ यस्मादेवं रमाप्यस्यागणितानन्तगुणत्वं दृष्ट्वा कुतूहलिनी तस्मात् सद्गुरोः श्रीव्यासस्य एनां तनुमवलोक्य निर्गतं कुतूहलमाश्चर्यं यथा भवति तथा निष्कुतूहलं, गृहमितिबुद्धिर् गृहबुद्धिस् तया, नव च तानि आवरणानि च, अबग्नीरनभोऽहंकृन्महत्तत्त्वगुणत्रयाख्यानि नवावरणानि तैः सहितं तादृशं यदण्डं ब्रह्माण्डं तद्द्रष्टुं शीलमस्येति सनवावरणाण्डदर्शी तस्य मम । कुतूहलमस्यास्तीति कुतूहली तस्य भावस् तत्ता । कुतूहलयुक्ततेत्यर्थः । कुतूहलमाश्चर्यं न । अथवा निष्कुतूहलं गृहबुद्ध्या स- नवावरणाण्डदर्शिनो मम सद्गुरोः सतां गुरोर् व्यासस्य एनां तनुमवलोक्य, कुतूहलित्वाभावो न कुतूहलिता । नैकधेत्यादिवन्न समासत्वादेकं पदम् । सैव कुतूहलमिति वा योजना । तथा च भगवत्तनोः सर्वेषां मनोनयनवाचां कुतूहलविषयत्वात् तां दृष्ट्वा कुतूहलिताभाव एव कुतूहलम् । मम त्वेनां तनुं दृष्ट्वा कुतूहलं जायत इत्येतन्न कुतूहलमिति भावः ॥ ४७ ॥
मन्दोपाकारिणी
न कुतूहलितेति ॥ निष्कुतूहलं न विद्यते कुतूहलम् आश्चर्यं यस्मिन् दर्शने तन् निष्कुतूहलम् आश्चर्यरहितं यथा भवति तथा । गृहबुद्ध्या इदं गृहमिति बुध्या । सनवावरणाण्डदर्शिनः नव नवसङ्ख्याकानि च तानि आवरणानि च नवावरणानि जलाग्निवाय्वाकाशाहङ्कारमहत्तत्त्वसत्वरजस्तमोरूपाणि ब्रह्माण्डावरणानि नवसङ्ख्याकनि सन्ति नवावरणैः सहितं सनवावरणं तच्च तद् अण्डं ब्रह्माण्डं च तत्पश्यतीति सनवावरणाण्डदर्शी तस्य मम सद्गुरोः सतां गुरोर् वेदव्यासस्य एनां पुरोवर्तिनीं तनुं मूर्तिं ‘स्त्रियां मूर्तिस्तनुस्तनूः’ इत्यमरः । अवलोक्य दृष्ट्वा कुतूहलिता कुतूहलम् अस्यास्तीति कुतूहली कुतूहलिनो भावः कुतूहलिता कुतूहलवत्वम् आश्चर्यवत्वं भवति इत्येतन् न कुतूहलम् आश्चर्यं न भवति किन्तु न कुतूहलिता आश्चर्यबुध्यभावः कुतूहलम् इति न कुतूहलितेत्यत्र नसमासम् अङ्गीकृत्य व्याख्येयम् । अतिस्थूलब्रह्माण्डदर्शने आश्चर्यबुध्यभाववतोऽपि । मम भगवद्वपुषः दर्शने आश्चर्यबुद्धिर् जायते इत्येतद् आश्चर्यं न भवति भगवद्देहस्य प्रतिक्षणम् अभिनवत्वेन सर्वेषामपि जनानां मनोनयनवाचाम् आश्चर्यविषयत्वात् प्रत्युत तादृशशरीरे आश्चर्यबुध्यभाव एव आश्चर्यमिति भावः ॥ ४७ ॥
विश्वास-प्रस्तुतिः - ४८
इति चिन्तयता महाधिया पदवीं बाह्यगतामतीयुषा ।
समनोनयनैः पुरागतस्तत आपे वपुषाऽपि वेदराट्॥ ४८ ॥
मूलम् - ४८
इति चिन्तयता महाधिया पदवीं बाह्यगतामतीयुषा ।
समनोनयनैः पुरागतस्तत आपे वपुषाऽपि वेदराट्॥ ४८ ॥
पदार्थदीपिकोद्बोधिका
इतीति ॥ इति पूर्वोक्तप्रकारेण चिन्तयता बाह्मगताम् आश्रमबाह्यप्रदेशगतां पदवीं मार्गम् अतीयुषा अतीत्य गच्छता महती धीर्यस्य तेन श्रीमध्वा-चार्येण मनश्च नयने च तैः पुरा आश्रमप्रवेशात्पूर्वमेव गतः प्राप्तः स वेदराट् श्रीवेदव्यासस् ततः प्रवेशानन्तरं वपुषा देहेनापि आपे प्राप्तः । वपुषोऽप्यतिसामीप्यमभूदिति भावः ॥ ४८ ॥
मन्दोपाकारिणी
इतीति ॥ ‘अगणेयगुणार्णवोऽमलः स हि नारायण एष केवलं’ इत्यारभ्य एतत् श्लोकपर्यन्तम् उक्तेन प्रकारेण चिन्तयता वेदव्यासं ध्यायता बाह्यगतां बाह्ये आश्रमाद्बहिः प्रदेशे गतां विद्यमानां पदवीं मार्गम् । ‘अयनं वर्त्ममार्गाध्वपन्थानः पदवी सृतिः’ इत्यमरः । अतीयुषा अतीत्य ईयुषा गच्छता महाधिया महती पूर्णा धीः प्रज्ञा यस्य स तथोक्तस् तेन मध्वेन । मनोनयनैर् मनश्च नयने च मनोनयनानि तैः पुरा आश्रमप्रवेशात् पूर्वमेव । गतः प्राप्तः । वेदराट् वेदानां राट् राजा स वेदव्यासः । ततो ऽनन्तरं वपुषा देहेनापि आपे प्राप्त आश्रमाद् बहिर् आगच्छन् नयनाभ्यां वेदव्यासं पश्यन् मनसा ध्यायन् मध्वाचार्यः देहेनापि समीपं प्राप्त इति भावः । ‘आप्लृ व्याप्तावित्यतः कर्मणि लिट् आत्मनेपदम् आपे आपाते आपिरे’ ॥ ४८ ॥
विश्वास-प्रस्तुतिः - ४९
गुरुभक्तिभरानताकृतिर्विरचय्याञ्जलिबन्धमञ्जसा ।
क्षणमामुकुलीकृतेक्षणः स गुरुं केवलमभ्यवन्दत॥ ४९ ॥
मूलम् - ४९
गुरुभक्तिभरानताकृतिर्विरचय्याञ्जलिबन्धमञ्जसा ।
क्षणमामुकुलीकृतेक्षणः स गुरुं केवलमभ्यवन्दत॥ ४९ ॥
पदार्थदीपिकोद्बोधिका
गुर्विति ॥ गुरुर् महान्यो भक्तिभरो भक्त्यतिशयस् तेन आनता प्रवणाऽऽकृतिर्यस्य तादृशः । अत एव क्षणं क्षणकालम् आमुकुलीकृते, आनन्दाश्रुणा ईषन्मुकुलीकृते ईक्षणे लोचने यस्य तादृशः स श्रीमध्वाचार्योऽञ्जलिबन्धं करपुटबन्धम् अञ्जसा विरचय्य कृत्वा केवलं गुरुमात्मनो मुख्यगुरुमभ्यवन्दत अस्तौत् । ‘वदि अभिवादन-स्तुत्योः’ । प्रणामस्तु वक्ष्यते ॥ ४९ ॥
मन्दोपाकारिणी
गुर्विति ॥ गुरुभक्तिभरानताकृतिर् भक्तिरेव भरः भारः भक्तिभरः । ‘भरोऽतिशयभारयोः’ इत्यमरः । गुरुर् महांश्चासौ भक्तिभरश्च गुरुभक्तिभरस् तेन आनता प्रह्वीभूता आकृतिर् देहः यस्य स तथोक्तः । क्षणं क्षणसंज्ञकं कालविशेषम् । ‘कालविशेषोत्सवयोः क्षणः’ इत्यमरः । आमुकुलीकृतेक्षण आ ईषत् । ‘आङीषदर्थेऽभिव्याप्तौ’ इत्यमरः । मुकुलीकृते मीलिते ईक्षणे चक्षुषी यस्य स तथोक्तः । आनन्दबाष्परुद्धनयन इति भावः । सः मध्वाचार्यः । अञ्जसा तत्त्वतः । ‘तत्त्वे बाढोंऽजसा द्वयं’ इत्यमरः । भक्तिपूर्वकमिति यावत् । अञ्जलिबन्धम् अञ्जलेः करसम्पुटस्य । ‘अञ्जलिस्तु पुमान् हस्तसंपुटे कृरुबेपि च’ इति विश्वः । बन्धः कदलीमुकुलवन् मुकुलीकरणं तम् । विरचय्य कृत्वा । केवलं मुख्यतः गुरुं वेदव्यासम् अभ्यवन्दत अस्तौत् । ‘वदि अभिवादन-स्तुत्योर् इत्यस्माद् लङ् आत्मनेपदम्’ । प्रणामस्य उत्तरश्लोके वक्ष्यमाणत्वात् ॥ ४९ ॥
विश्वास-प्रस्तुतिः - ५०
विनयाभरणेन भूषितः स्फुटमष्टाङ्गविशिष्टचेष्टितः ।
भगवत्तमपादपङ्कजे भगवान् स प्रणनाम भाग्यवान्॥ ५० ॥
मूलम् - ५०
विनयाभरणेन भूषितः स्फुटमष्टाङ्गविशिष्टचेष्टितः ।
भगवत्तमपादपङ्कजे भगवान् स प्रणनाम भाग्यवान्॥ ५० ॥
भावप्रकाशिका
‘उरसा शिरसा दृष्ट्या मनसा वचसा तथा । पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग ईरितः ॥ इति च ॥ ५० ॥
पदार्थदीपिकोद्बोधिका
विनयेति ॥ विनय एव आभरणम् अलङ्कारस् तेन भूषितोऽलङ्कृतः । स्फुटं सम्यगष्टौ यान्यङ्गान्यवयवास्तैर्विशिष्टं युक्तं चेष्टितं व्यापारो यस्य तादृशः । उरसा शिरसा दृष्ट्या मनसा वचसा तथा । पद्भ्यां कराभ्यां जानुभ्यां प्रणामोष्टाङ्ग ईरितः’ इत्युक्ताष्टाङ्गचेष्टायुक्त इत्यर्थः । भाग्यवान् भगवान् स श्रीमध्वाचार्योऽतिशयेन भगवान् भगवत्तमस् तस्य । षड्गुणवतामुत्तमस्येत्यर्थः । पादपङ्कजे पादपद्मे प्रणनाम ॥ ५० ॥
मन्दोपाकारिणी
विनयेति ॥ विनयाभरणेन विनय एव आभरणं भूषणं तेन भूषितो ऽलङ्कृतः भाग्यवान् भाग्यं दैवं पुण्यम् अदृष्टमिति यावद् अस्यास्तीति भाग्यवान् । ‘दैवं दिष्टं भागधेयं भाग्यं’ इत्यमरः । भगवान् ऐश्वर्यादिषड्गुणवान् स मध्वाचार्यो ऽष्टाङ्गविशिष्टचेष्टितो ऽष्ट च तानि अङ्गानि च अष्टाङ्गानि । ‘उरसा शिरसा दृष्ट्या मनसा वचसा तथा । पद्भ्यां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग ईरितः’ । इत्युक्तेः प्रणामस्य अष्टाङ्गत्वं सिद्धम् । अष्टाङ्गानां विशिष्टानि उत्तमानि चेष्टितानि कर्माणि यस्य स तथोक्तः । तत्तदङ्गव्यापारं कुर्वन् सन् भगवत्तमपादपङ्कजे अतिशयेन भगवान् भगवत्तम ऐश्वर्यादिगुणवताम् उत्तम इति यावत् । तस्य वेदव्यासस्य पादपङ्कजे पादं चरणमेव पङ्कजं कमलं तस्मिन् स्फुटं सर्वेषां मुनीनां पश्यतां प्रणनाम नमस्कृतवान् । ‘णम प्रह्वत्वे शब्दे च इत्यस्माद् लिट् परस्मैपदं ननाम नेमतुर् नेमुः’ ॥ ५० ॥
विश्वास-प्रस्तुतिः - ५१
स निरीक्ष्य पराशरात्मजः प्रणतं प्रेष्ठमशेषसद्गुणैः ।
करयोर्युगलेन वल्गुना तमुदस्थापयदाशुपातिना॥ ५१ ॥
मूलम् - ५१
स निरीक्ष्य पराशरात्मजः प्रणतं प्रेष्ठमशेषसद्गुणैः ।
करयोर्युगलेन वल्गुना तमुदस्थापयदाशुपातिना॥ ५१ ॥
पदार्थदीपिकोद्बोधिका
स इति ॥ पराशरात्मजः श्रीव्यासो ऽशेषसद्गुणैः प्रेष्ठम् अतिप्रियं तं श्रीमध्वाचार्यं प्रणतं नमस्कुर्वन्तं निरीक्ष्य वल्गुना कोमलेन आशु पतितुं शीलमस्यास्तीति तेन शीघ्रं प्रसार्यमाणेनेत्यर्थः । करयोर्युगलेन उदस्थापयद् उत्थापयामास ॥ ५१ ॥
मन्दोपाकारिणी
स इति ॥ पराशरात्मजः पराशरस्य ऋषेः । ‘आत्मजस् तनयः सूनुः’ इत्यमरः । स वेदव्यासो ऽशेषसद्गुणैर् अशेषाः समस्ताः सन्तः निर्दोषा गुणा ज्ञानभक्तिवैराग्यादयो ऽशेषाश्च ते सन्तश्च ते गुणाश्च इति विग्रहः । तैर् निमित्तैः । प्रेष्ठम् अतिशयेन प्रियं तं मध्वाचार्यं प्रणतं नमस्कारं कुर्वन्तं निरीक्ष्य दृष्ट्वा वल्गुना मृदुना सुन्दरेण वा आशु त्वरया पातिना प्रसार्यमाणेन करयोर् युगलेन युग्मेन कराभ्यामित्यर्थः । उदस्थापयद् उत्थापयामास । ‘उत् पूर्वकात् ष्ठा गतिनिवृत्तावित्यस्मात् णिजन्ताद् लङ् परस्मैपदम्’ ॥ ५१ ॥
विश्वास-प्रस्तुतिः - ५२
अमितप्रमतिं श्रुतीश्वरः परिरेभे परिगृह्य तं द्रुतम् ।
प्रणयामृतपूर्णमानसः स्मितवक्त्रः परिफुल्ललोचनः॥ ५२ ॥
मूलम् - ५२
अमितप्रमतिं श्रुतीश्वरः परिरेभे परिगृह्य तं द्रुतम् ।
प्रणयामृतपूर्णमानसः स्मितवक्त्रः परिफुल्ललोचनः॥ ५२ ॥
पदार्थदीपिकोद्बोधिका
अमितेति ॥ प्रणयः स्नेह एव अमृतं तेन पूर्णं मानसं मनो यस्य सः । अत एव स्मितं मन्दहासोपेतं वक्त्रं यस्य सः । परिफुल्ले लोचने चक्षुषी यस्य स श्रुतीश्वरः श्रीवेदव्यासस् तम् अमितप्रमतिं द्रुतं यथा भवति तथा परिगृह्य परिरेभे आलिलिङ्गे । रेभृ शब्दे लिट् ॥ ५२ ॥
मन्दोपाकारिणी
अमितेति ॥ प्रणयामृतपूर्णमानसः प्रणयः प्रेम स एव अमृतं तेन पूर्णं मानसं मनो यस्य स तथोक्तो ऽत एव स्मितवक्त्रः स्मितं मन्दहासोपेतं वक्त्रं वदनं यस्य स तथोक्तः । परिफुल्ललोचनः परिफुल्ले विकसिते लोचने नयने यस्य स तथोक्तः । श्रुतीश्वरः श्रुतीनां वेदानाम् ईश्वरः स्वामी वेदव्यासो ऽमितप्रमतिम् अमिता पूर्णा प्रमतिः प्रज्ञा यस्य स तथोक्तस् तम् मध्वाचार्यं द्रुतं शीघ्रं परिगृह्य हस्ताभ्यां स्वीकृत्य परिरेभे आलिलिङ्गे । ‘परिपूर्वाद् रभ राभस्य इति धातोर् लिट् आत्मनेपदं रेभे रेभाते रेभिरे’ ॥ ५२ ॥
विश्वास-प्रस्तुतिः - ५३
यमजाम्युदवाह ऊर्जितो यदि जाम्बूनदवारि संव्रजेत् ।
कनकद्युतिमध्वसङ्गवानुपमीयेत स तेन नीलभाः॥ ५३ ॥
मूलम् - ५३
यमजाम्युदवाह ऊर्जितो यदि जाम्बूनदवारि संव्रजेत् ।
कनकद्युतिमध्वसङ्गवानुपमीयेत स तेन नीलभाः॥ ५३ ॥
भावप्रकाशिका
उदवाहः ‘पेषंवासवाहनाधिषु च’ इति ककारलोपः ॥ ५३ ॥
॥ इति श्रीनारायणपण्डिताचार्यविरचितायां स्वकृतश्रीसुमध्वविजयस्य भावप्रकाशिकाख्यटीकायां सप्तमः सर्गः ॥
पदार्थदीपिकोद्बोधिका
यमजेति ॥ यद्यूर्जितः प्रभूतः । यमस्य जामिः स्वसा यमुना तस्या उदकस्य वाह उदवाहः प्रवाहः । ‘जामिः स्वसृकुलस्त्रियोः’ इत्यमरः । जम्बूनद्याः सम्बन्धि जाम्बूनदं तच्च तद्वारि च संव्रजेत् प्राप्नुयात् । तर्हि नीला भाः कान्तिर्यस्य स श्रीव्यासः । कनकवद्द्युतिर्यस्य स चासौ मध्वश्च तस्य सङ्गोऽस्यास्तीति तादृशः स व्यासः । तेन यमुनाजलसङ्गतजाम्बूनदवारिणोपमीयेत । अभूतोपमेयम् ॥ ५३ ॥
मन्दोपाकारिणी
यमेति ॥ ऊर्जित उत्कृष्टः यमजाम्युदवाहः यमस्य यमराजस्य ‘शमनो यमराड्यमः’ इत्यमरः । जामिः स्वसा । ‘जामिः स्वसृकुलस्त्रियः’ इत्यमरः । तस्या यमुनाया उदस्य उदकस्य वाहः प्रवाहः । यदि जाम्बूनदवारि जाम्बूनदस्य कनकनद्याः संबन्धि जाम्बूनदं तच्च तद् वारि जलं च संव्रजेत् सङ्गच्छेत् । ‘व्रज गतवित्यतो लिङ् परस्मैपदम्’ । तर्हि कनकद्युतिमध्वसङ्गवान् कनकवत् सुवर्णवत् । ‘सुवर्णं कनकं’ इत्यमरः । द्युतिः कान्तिर् यस्य सः कनकद्युतिः स चासौ मध्वश्च तस्य सङ्गः सम्बन्धो ऽस्यास्तीति तथोक्तः । नीलभा नीला श्यामा भाः कान्तिर् यस्य सः नीलभाः स वेदव्यासः । ‘भाश्छविद्युतिदीप्तयः’ इत्यमरः । तेन यमुनाजलेन सङ्गतजाम्बूनदवारिणा उपमीयेत । ‘माङ् माने शब्दे च इत्यतो लिङ् आत्मनेपदं मीयेत मीयेयाताम् मीयेरन्’ । यदि नीलसुवर्णकान्त्योर् यमुनाजाम्बूनदजलयोः सङ्गमः स्यात् तर्हि स सङ्गः नीलकनककान्त्योः परिष्वक्तयोर् वेदव्यासमध्वयोः सङ्गमस्य दृष्टान्तो भवेत् । न च यमुनाजाम्बूनदनद्योः सम्बन्धः कदापि भविता । अतो ऽभूतोपमेयं मध्वव्यासयोः सङ्गमः निरुपम इति भावः ॥ ५३ ॥
विश्वास-प्रस्तुतिः - ५४
यदि राजविभूषणैर्युतौ द्विजवर्यान्वयजाविमौ हरी ।
नृपगोत्रभुवोः पुराऽऽत्मनोः स्फुटतुल्यावुपगूढयोर्मिथः॥५४॥
मूलम् - ५४
यदि राजविभूषणैर्युतौ द्विजवर्यान्वयजाविमौ हरी ।
नृपगोत्रभुवोः पुराऽऽत्मनोः स्फुटतुल्यावुपगूढयोर्मिथः॥५४॥
पदार्थदीपिकोद्बोधिका
यदीति ॥ द्विजवर्यौ वसिष्ठमध्यगेहाख्यद्विजश्रेष्ठौ तयोरन्वयौ वंशौ तयोर्जातौ द्विजवर्यान्वयजाविमौ हरी विष्णुवायू यदि राजविभूषणैः कटकमुकुटादिभिर्युतौ युक्तौ । स्यातामिति शेषः । तर्हि पुरा नृपयोर् यदुकुर्वोर् गोत्रे वंशौ, तयोर्भवत इति नृपगोत्रभुवौ तयोः कृष्णभीमाभिधयोर्मिथः परस्परमुपगूढयोर् आलिङ्गितयोर् आत्मनोः स्वरूपयोः स्फुटं सम्यक् तुल्यौ सदृशौ स्यातामिति सम्बन्धः ॥ ५४ ॥
मन्दोपाकारिणी
यदीति ॥ द्विजवर्यान्वयजौ द्विजानां वर्यौ श्रेष्ठौ वसिष्ठमध्य-गेहाख्यौ तयोर् अन्वये कुले जायते इति अन्वयजौ । ‘कुलान्यभिजनान्वयौ’ इत्यमरः । इमौ हरी विष्णुवायू । ‘चन्द्रे सूर्ये यमे विष्णौ वासवे दर्दुरे हये । मृगेन्द्रे वानरे वायौ दशस्वपि हरिः स्मृतः’ इति धनञ्जयः । तत्र वसिष्ठान्वयजः वेदव्यासः मध्यगेहान्वयजः मध्वः । यदि राजविभूषणैः किरीटकुण्डलादिभिर् युतौ विभूषितौ स्यातां तर्हि पुरा पूर्वजन्मनि नृपगोत्रभुवोर् नृपौ यदुकुरुसञ्ज्ञौ तयोर् गोत्रे सन्ततौ । ‘सन्ततिर्गोत्रजननं’ इत्यमरः । भुवौ उत्पन्नौ यदुवंशभवः कृष्णः कुरुकुलजो भीम इति ज्ञेयम् । तयोर् नृपगोत्रभुवोः कृष्णभीमयोः । मिथः परस्परम् उपगूढयोर् आश्लिष्टयोर् आत्मनोः स्वात्मनोः । स्फुटतुल्यौ स्फुटं सम्यक् तुल्यौ सदृशौ स्यातामिति शेषः ॥ ५४ ॥
विश्वास-प्रस्तुतिः - ५५
इदमाप शुकोऽपि लालनं न समग्रं जगतां पितुः पितुः ।
अलभिष्ट यदेष धन्य इत्यतिकौतूहलमापि तापसैः॥ ५५ ॥
मूलम् - ५५
इदमाप शुकोऽपि लालनं न समग्रं जगतां पितुः पितुः ।
अलभिष्ट यदेष धन्य इत्यतिकौतूहलमापि तापसैः॥ ५५ ॥
पदार्थदीपिकोद्बोधिका
इदमिति ॥ धन्यः कृतार्थ एषः । यद् लालनं सम्भावनाम-लभिष्ट लेभे । समग्रं सम्पूर्णमिदं लालनं शुकोऽपि जगतां पितुर्जनकात् पितुः स्वपितुर् व्यासान्नाप न प्राप्तवानिति तापसैर्मुनिभिरतिकौतूहलमत्याश्चर्यमापि प्राप्तम् ॥ ५५ ॥
मन्दोपाकारिणी
इदमिति ॥ धन्यः कृतार्थ एषः पुरुषः यद् लालनम् आदरणम् अलभिष्ट लब्धवान् । ‘डु लभष् प्राप्तवित्यतो लुङ् आत्मनेपदम् अलभिष्ट अलभिषाताम् अलभिषत’ । इदं समग्रं पूर्णलालनं शुकोऽपि शुकाचार्योऽपि जगतां पितुर् जनकात् पितुः स्वताताद् वेदव्यासात् सकाशान् नाप न प्राप्तवान् इति तापसैर् मुनिभिर् अतिकौतूहलम् अत्याश्चर्यम् आपि प्राप्तम् ‘आप्लृ व्याप्तावित्यतः कर्मणिर् लुङ् आपि आप्स्याताम् आप्स्यत’ ॥ ५५ ॥
विश्वास-प्रस्तुतिः - ५६
अमुष्य शिष्या विनयेन तस्मै गुरोरभिप्रायविदो विदग्धाः ।
तदाऽनुरूपं ददुरासनं ते चतुर्मुखायेव मुकुन्ददासाः॥ ५६ ॥
मूलम् - ५६
अमुष्य शिष्या विनयेन तस्मै गुरोरभिप्रायविदो विदग्धाः ।
तदाऽनुरूपं ददुरासनं ते चतुर्मुखायेव मुकुन्ददासाः॥ ५६ ॥
पदार्थदीपिकोद्बोधिका
अमुष्येति ॥ तदा गुरोः श्रीव्यासस्याभिप्रायविदो विदग्धाश्चतुरास्ते, आश्चर्यं प्राप्ता अमुष्य श्रीव्यासस्य शिष्याः । विनयेन प्रश्रयेण तस्मै श्रीमध्वाचार्याय अनुरूपं श्रीव्याससम्भावनानुरूपमासनं पीठं मुकुन्ददासा भगवत्पार्ष-दाश्चतुर्मुखायेव ददुः । अत्रोपेन्द्रवज्रावृत्तम् । ‘उपेन्द्रवज्रा जतजागगौ चे’त्युक्तेः ॥ ५६ ॥
मन्दोपाकारिणी
अमुष्येति ॥ तदा गुरोर् वेदव्यासस्य अभिप्रायविद एतस्मै आसनं दातव्यम् इत्याशयं विदन्तीति अभिप्रायविदः । ‘आभिप्रायच्छन्द आशयः’ इत्यमरः । विदग्धाश् चतुरास् ते अमुष्य वेदव्यासस्य शिष्या विनयेन तस्मै श्रीमध्वाचार्याय अनुरूपं स्वामिसंभावनारूपम् आसनं ददुः । कस्मै के इव । मुकुन्ददासा मुकुन्दस्य श्रीनारायणस्य दासाः पार्षदाः । चतुर्मुखाय इव विरिञ्चाय इव । उपेन्द्रवज्रावृत्तम् । ‘उपेन्द्रवज्रा जतजास्ततो गौ’ इत्युक्तेः ॥ ५६ ॥
विश्वास-प्रस्तुतिः - ५७
आस्यतामित्युदीर्योपविष्ठे सत्यवत्याः सुते सत्यवाचि ।
मानयन्मन्दहासावलोकैस्तान्मुनीन्द्रानिहोपाविशत्सः॥५७॥
मूलम् - ५७
आस्यतामित्युदीर्योपविष्ठे सत्यवत्याः सुते सत्यवाचि ।
मानयन्मन्दहासावलोकैस्तान्मुनीन्द्रानिहोपाविशत्सः॥५७॥
पदार्थदीपिकोद्बोधिका
आस्यतामिति ॥ सत्या वाक् यस्य तस्मिन् । सत्यवत्याः सुते, आस्यतामित्युदीर्योपविष्टे सति । मन्दहासयुक्ताश्च तेऽवलोकाश्च दर्शनानि तैस्तान् मुनीन्द्रान्नन्दयन् स श्रीमध्वाचार्य इहोपाविशत् ॥ ५७ ॥
मन्दोपाकारिणी
आस्यतामिति ॥ सत्यवाचि सत्या समीचीना वाक् कुशल-प्रश्नरूपं वचनं यस्य स तथोक्तस् तस्मिन् । ‘सत्यं तथ्यम् ऋतं सम्यक्’ इत्यमरः । सत्यवत्याः ‘सत्यवतीदेव्याः सुते पुत्रे वेदव्यासे । हे मध्व त्वया आस्यताम् आसने उपविश्यताम् । आस उपवेशन इत्यतो भावे लोट् आत्मनेपदं’ । इति मध्वाचार्यं प्रति उदीर्य उक्त्वा उपविष्टे सति स्वासने निषण्णे सति सः मध्वाचार्यः मन्दहासावलोकैर् मन्दहासः हसनं येषु ते मन्दहासा मन्दहासाश्च ते अवलोकाश्च दर्शनानि तथोक्तास् तैस् तान् शिष्यभूतान् मुनीन्द्रान् ऋषिश्रेष्ठान् मानयन् बहुमानं कुर्वन् इह आसने उपाविशन् न्यषीदत् । ‘उप आङ् पूर्वकाद् विश प्रवेशन इति धातोर् लङ् परस्मैपदम्’ । कुशलं पृष्ट्वा उपविश इत्युक्तो मध्वः मन्दं हसन् ऋषीन् पश्यन् उपविवेश इति भावः ॥ ५७ ॥
विश्वास-प्रस्तुतिः - ५८
अवगम्य तं मुनिगणा वरिष्ठतो विधिवद्व्यधुर्विधिविदोऽस्य माननाम् ।
अपि सङ्कथाः श्रुतिसुखाः कवीन्द्रयोरनयोर्निशम्य परमां मुदं ययुः ॥ ५८ ॥
मूलम् - ५८
अवगम्य तं मुनिगणा वरिष्ठतो विधिवद्व्यधुर्विधिविदोऽस्य माननाम् ।
अपि सङ्कथाः श्रुतिसुखाः कवीन्द्रयोरनयोर्निशम्य परमां मुदं ययुः ॥ ५८ ॥
पदार्थदीपिकोद्बोधिका
अवेति ॥ मुनिगणा वरिष्ठतः श्रेष्ठतः श्रीवेदव्यासात् तम् अवगम्य श्रीमुख्यप्राणावतारं ज्ञात्वा । विधिविदः सन्तोऽस्य विधिवत्सम्यङ्माननां व्यधुश् चक्रुः । कवीन्द्रयोरनयोः श्रुतीनां श्रोत्राणां सुखं याभ्यस्ताः सत्कथा अपि निशम्य परमां मुदं ययुः ॥ ५८ ॥
मन्दोपाकारिणी
अवगम्येति ॥ मुनिगणा मुनीनाम् ऋषीणां गणाः समुदायाः । वरिष्ठतो ऽतिशयेन वरः वरिष्ठो ऽत्युत्तमस् तस्मात् सर्वोत्तमाद् वेदव्यासात् तद्वचनादिति यावत् । तं मध्वम् अवगम्य मुख्यवायोरवतारं ज्ञात्वा विधिविदः विधिं विधानं पूजानुष्ठानप्रकारं ‘विधिर्विधाने दैवेऽपि’ इत्यमरः विदः जानन्तो ऽस्य मध्वाचार्यस्य, विधिवद् विधिविहितं यथा भवति तथेति यावत् । माननाम् अर्घ्यपाद्यादिपूजां व्यधुश् चक्रुः । ‘विपूर्वाद् धा धातोर् लुङ् परस्मैपदम् अधाद् अधाताम् अधुः’ । कवीन्द्रयोः पण्डितश्रेष्ठयोः । ‘सङ्ख्यावान् पण्डितः कविः’ इत्यमरः । अनयोर् मध्ववेदव्यासयोः । श्रुतिसुखाः श्रुतीनां श्रोत्राणां सुखानि याभ्यस् तास् तथोक्ताः स्वकर्णसुखदाः । ‘वेदे श्रवति च श्रुतिः’ इत्यमरः । संकथा इष्टसंभाषणान्यपि निशम्य श्रुत्वा परमाम् अत्युत्तमां मुदं प्रीतिं ययुः प्रापुः । ‘या प्रापण इत्यस्माद् लिट् परस्मैपदम्’ । मञ्जुभाषिणीवृत्तं ‘सजसा जगौ भवति मञ्जुभाषिणी’ इति तल्लक्षणात् ॥ ५८ ॥
विश्वास-प्रस्तुतिः - ५९
सज्ज्ञानायानन्दविज्ञानमूर्ती प्राप्तौ पृथ्वीमाश्रमे तत्र तावत् ।
जाज्वल्येते विष्णुवायू स्म देवौ वेदव्यासानन्दतीर्थाभिधानौ ॥ ५९ ॥
मूलम् - ५९
सज्ज्ञानायानन्दविज्ञानमूर्ती प्राप्तौ पृथ्वीमाश्रमे तत्र तावत् ।
जाज्वल्येते विष्णुवायू स्म देवौ वेदव्यासानन्दतीर्थाभिधानौ ॥ ५९ ॥
॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपण्डिताचार्यसुतश्रीनारायणपण्डिताचार्य विरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनन्दाङ्के सप्तमः सर्गः ॥
पदार्थदीपिकोद्बोधिका
सदिति ॥ सतां सज्जनानां सम्यग्ज्ञानाय । सतां ज्ञानोप-देशार्थमित्यर्थः । पृथ्वीं प्राप्तौ वेदव्यासानन्दतीर्थावित्यभिधाने नामनी ययोस्तौ । आनन्दश्च विज्ञानञ्च ते मूर्तिश्शरीरं ययोस्तौ विष्णुवायू देवौ, तत्राश्रमे तावत्साकल्येन जाज्वल्येते स्म अतितरामशोभेताम् । शालिनीवृत्तम् । तल्लक्षणं तु ‘मस्तौ गौ चेच्छालिनी वेदलोकै’रिति ॥ ५९ ॥
॥ इति श्रीमद्वेदाङ्गमुनिविरचित श्रीसुमध्वविजयटीकाविवृतौ श्रीविश्वपतितीर्थकृतौ पदार्थदीपिकोद्बोधिकायां सप्तमः सर्गः ॥
मन्दोपाकारिणी
सदिति ॥ सज्ज्ञानाय सतां सज्जनानां ज्ञानाय तत्त्वज्ञानं दातुं पृथ्वीं पृथिवीं ‘गोत्रा कुः पृथिवी पृथ्वी’ इत्यमरः प्राप्तौ भूमौ अवतीर्णौ वेदव्यासानन्दतीर्थाभिधानौ वेदव्यासश्च आनन्दतीर्थश्च वेदव्यासानन्दतीर्थौ इत्यभिधानम् आख्या ययोस्तौ । ‘आख्याह्वे अभिधानं च’ इत्यमरः । कथंभूतौ, आनन्दविज्ञानमूर्ती आनन्दश्च विज्ञानं च आनन्दविज्ञाने ते मूर्ती तनू ययोस्तौ तथोक्तौ । ‘स्त्रियां मूर्तिस्तनुस्तनूः’ इत्यमरः । विष्णुवायू विष्णुश्च वायुश्च विष्णुवायू तन्नामानौ देवौ । तत्र आश्रमे बदरिकाश्रमे । तावत् तस्मिन् काले जाज्वल्येते स्म अतिशयेन अशोभेताम् । स्म अतीते । ‘ज्वलधातोर्यङंताद् लडात्मनेपदं जाज्वल्यते जाज्वल्येते जाज्वल्यन्ते’ । शालिनी वृत्तमेतत् ‘मस्तौ गौ चेच्छालिनी वेदलोकैः’ इति तल्लक्षणात् ॥ ५९ ॥
॥ इति श्रीमध्वविजयटीकायां श्रीमच्छलारिनरसिंहाचार्याणां शिष्येण शेषेण विरचितायां मन्दोपकारिण्यां सप्तमः सर्गः ॥ ७ ॥