०६ षष्ठः सर्गः

षष्ठः सर्गः

षष्ठः सर्गः

विश्वास-प्रस्तुतिः

ऐतरेयमथ किञ्चन सूक्तं सूचयन् सदसि तत्र गरिष्ठः ।
श्रोतुमिच्छति सभा भगवद्भ्यः सूक्तभावमिति तावदुवाच॥ १ ॥

मूलम्

ऐतरेयमथ किञ्चन सूक्तं सूचयन् सदसि तत्र गरिष्ठः ।
श्रोतुमिच्छति सभा भगवद्भ्यः सूक्तभावमिति तावदुवाच॥ १ ॥

पदार्थदीपिकोद्बोधिका

ऐतरेयमिति ॥ अथ श्रीमध्वदर्शनानन्तरं तत्र सदसि तस्यां सभायां गरिष्ठः श्रेष्ठः कश्चिद्विद्वान् । ऐतरेयशाखायां भवमैतरेयं किञ्चन सूक्तं सूचयन् सन्, सभा मिलितेयं सभा भवद्भ्यः सूक्तभावम् एतत्सूत्रार्थम् । ‘भावो लीला क्रिया चेष्टा भूत्यभिप्रायजन्तुषु । पदार्थमात्रे सत्तायाम्’ इति वैजयन्ती । श्रोतुमिच्छति तावद् इत्युवाच । अत्र स्वागतावृत्तम् । स्वागता ‘रनभगैर्गुरुणा च’ इति तल्लक्षणात् ॥ १ ॥

मन्दोपाकारिणी

ऐतरेयमिति ॥ अथ मध्वाचार्यदर्शनानन्तरम् । तत्र तस्मिन् । सदसि सभायां गरिष्ठः श्रेष्ठः कश्चिद् विद्वान् । ऐतरेयम् ऐतरेयशाखायां विद्यमानं किञ्चन स्वाभिप्रेतं किमपि सूक्तं सूचयन् सन् इति इत्थम् उवाच अब्रवीत् । कथं, अहो मध्वाचार्य सभा अत्र मिलितसभ्यजनः । ‘सभा संसदि सभ्ये च’ इत्यमरः । भगवद्भ्यः भगः माहात्म्यं कीर्तिर्वा एषाम् अस्तीति भगवन्तस् तेभ्यः पूज्येभ्य इत्यर्थः । ‘भगं श्रीकरमाहात्म्य-वीर्ययत्नार्ककीर्तिषु’ इत्यमरः । सूक्तभावं सूक्तस्य भावम् अभिप्रेतार्थम् । श्रोतुम् इच्छति वांछति । ‘इष इच्छायाम् इत्यतो लट् परस्मैपदम्’ । तत्र मिलितजनेषु श्रेष्ठः कश्चिद् विद्वान् ऋग्वेदगतम् एकं सूक्तं प्रस्तुतीकृत्य किञ्चिदुच्चार्य एतत् सूक्तार्थमाहात्म्योपेतं भावं भवन्मुखात् सभाजनः ज्ञातुमिच्छति इति मध्वाचार्यं प्रति अवोचद् इति भावः । अस्मिन् सर्गे प्रायः स्वागतावृत्तं ‘स्वागतारनभगैर्गुरुणा च’ इति तल्लक्षणात् ॥ १ ॥

विश्वास-प्रस्तुतिः - २

वर्णसौष्ठवगरिष्ठमतूर्णं तुल्यमात्रमतिमात्रसुलक्ष्म ।
व्यूढहृज्जलदघोषममुष्योच्चारणं विदधदभ्यधितार्थम् ॥ २ ॥

मूलम् - २

वर्णसौष्ठवगरिष्ठमतूर्णं तुल्यमात्रमतिमात्रसुलक्ष्म ।
व्यूढहृज्जलदघोषममुष्योच्चारणं विदधदभ्यधितार्थम् ॥ २ ॥

पदार्थदीपिकोद्बोधिका

वर्णेति ॥ व्यूढं पूर्णं हृद् यस्य स पूर्णप्रज्ञाचार्यः । वर्णानामक्षराणां यत्सौष्ठवं सुष्ठुत्वं तेन स्पष्टतयेति यावत् । गरिष्ठमत्युत्तमं यथा भवति तथा, तूर्णं त्वरितं न भवति यथा तथा अतूर्णम् । तुल्या मात्रा यथा भवति तथा तुल्यमात्रम् । तुल्यमात्रत्वं नाम, अकारादिवर्णानां ह्रस्वत्वेनोच्चारण एकमात्रत्वं, दीर्घत्वे द्विमात्रत्वं, प्लुतत्वे त्रिमात्रत्वं, व्यञ्जनोच्चारणे त्वर्धमात्रत्वमिति । तदुक्तं ‘एकमात्रो भवेत् ह्रस्वः द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनन्त्वर्धमात्रकम्’ इति । तथा चैकमात्रत्वेन ह्रस्वोच्चारणं, द्विमात्रस्तु दीर्घोच्चारणमित्यादिरीत्येति भावः । अत एव सु शोभनं लक्ष्म लक्षणं यस्य तत्सुलक्ष्म, अतिमात्रमत्यन्तं सुलक्ष्म शोभनलक्षणयुक्तं यथा भवति तथा । जलदस्य घोष इव घोषो ध्वनिर्यथा भवति तथा जलदघोषम् । उच्चारणं प्रकृतसूक्तोच्चारणं विदधत् कुर्वन् सन्नमुष्य तत्र प्रस्तुतसूक्तस्यार्थमभ्यधित उवाच । धाञो लुङ् ॥ २ ॥

मन्दोपाकारिणी

वर्णेति ॥ व्यूढहृद् व्यूढं विस्तीर्णं हृन् मनः यस्य स तथोक्तः निर्भय इत्यर्थः । ‘व्यूढं विपुलमुद्दिष्टं’ इति हलायुधः । श्रीमध्वाचार्यो ऽमुष्य प्रस्तुतस्य सूक्तस्य अर्थम् अभिधेयम् अभ्यधित उवाच । ‘अभिपूर्वाड् डु धाञ् धारणपोषणयोरिति धातोर्लुङ् आत्मनेपदम् अधित अधिषाताम् अधिषत’ । कथंभूत उच्चारणं, विदधत् पूर्वोक्त-सूक्तस्य उच्चारणं कुर्वन् , कथंभूतम् उच्चारणं वर्णसौष्ठवगरिष्ठं वर्णानि अकाराद्यक्षराणि । ‘वर्णं तु चाक्षरः’ इत्यमरः । तेषां सौष्ठवं सुष्ठुर् भावः सौष्ठवं स्पष्टत्वं तेन गरिष्ठम् अत्युत्तमम् । अतूर्णं त्वरारहितम् । तुल्यमात्रं तुल्याः समाना मात्रा एकमात्रादिमात्रा यस्मिन् तत् तुल्यमात्रम् एकमात्रत्वेन ह्रस्वोच्चारणं, द्विमात्रत्वेन दीर्घोच्चारणं, त्रिमात्रत्वेन प्लुतवर्णोच्चारणं, अर्धमात्रत्वेन व्यञ्जनोच्चारणम् । ‘एकमात्रो भवेत् ह्रस्वो द्विमात्रो दीर्घ उच्यते । त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनंत्वर्धमात्रकम्’ ॥ अकारादिवर्णानां तुल्यमात्रत्वादिति भावः । अतिमात्र-सुलक्ष्म अतिमात्रं भृशम् ‘अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम्’ इत्यमरः । सु शोभनानि लक्ष्माणि लक्षणानि यस्य तत् तथोक्तं ‘चिह्नं लक्ष्म च लक्षणं’ इत्यमरः । जलदघोषं जलदवद् घोषः ध्वनिर् यस्य तज् जलदघोषम् । अयं श्रीमध्वाचार्यस् त्वरां विना स्पष्टाक्षर-पूर्वकं वेदोच्चारणलक्षणोपेततया ह्रस्वदीर्घादिवर्णोच्चारणपूर्वकं मेघवद् गम्भीरशब्देन प्रकृतसूक्तं प्रथमतः पठित्वा तत्सूक्तार्थम् अवोचद् इति भावः ॥ २ ॥

विश्वास-प्रस्तुतिः - ३

लक्षणान्विततया वचनेऽस्मिन् देवतागुरुमसावतिशेते ।
मानमित्यपि विधाय धिया ते तत्तु सूक्तमपरार्थमवोचन् ॥ ३ ॥

मूलम् - ३

लक्षणान्विततया वचनेऽस्मिन् देवतागुरुमसावतिशेते ।
मानमित्यपि विधाय धिया ते तत्तु सूक्तमपरार्थमवोचन् ॥ ३ ॥

पदार्थदीपिकोद्बोधिका

लक्षणेति ॥ ते द्विजेन्द्राः । असौ श्रीमध्वाचार्यो लक्षणेन वेदोच्चारणोचितलक्षणेनान्वितो युक्तस्तस्यभावस्तत्ता तया । अस्मिन् वचने सूक्तोच्चारण-तदर्थकथनादिरूपे वचने । विषसप्तमीयम् । देवतागुरुं बृहस्पतिमतिशेतेऽतिक्रामति । शीङ् स्वप्ने लट् । इति धिया मनसा मानं सम्भावनां विधायापि, तन् मध्वोक्तं सूक्तं तु, अपरोऽर्थो यस्य तत् । श्रीमध्वोक्तार्थादन्यार्थमित्यर्थः । अवोचन् । अस्य सूक्तस्य भवदुक्तार्थो न भवतीत्यवोचन्निति भावः ॥ ३ ॥

मन्दोपाकारिणी

लक्षणेति ॥ ते द्विजेन्द्राः । तन् मध्वाचार्येण उक्तार्थं सूक्तम् अपरार्थम् अपरो ऽन्यो ऽर्थः यस्य तद् अपरार्थं मध्वोक्तार्थाद् अन्यार्थम् अवोचन् अवदन् । ‘वच परिभाषण इत्यतः लुङ् परस्मैपदम् अवोचद् अवोचताम् अवोचन्’ । अस्य सूक्तस्य भवदुक्तोऽर्थो न भवति किन्तु अस्मदुक्त एवार्थ इति अब्रुवन् इति भावः । किं कृत्वा । असौ मध्वाचार्यः लक्षणान्विततया लक्षणैर् वेदोच्चारणोचितलक्षणैर् अन्विततया युक्ततया अस्मिन् वचने सूक्तोच्चारणपूर्वकम् अर्थकथनविषये । देवतागुरुं देवतानां गुरुम् आचार्यं बृहस्पतिम् ‘बृहस्पतिस्सुराचार्यः’ इत्यमरो ऽतिशेते अतिक्रामति । ‘अतिपूर्वकात् शीङ् स्वप्न इत्यस्माद् लडात्मनेपदं शेते शयाते शेरते’ । इति धिया एवंभूतमनसा । मानं बहुमानं विधायापि कृत्वापि अयं लक्षणवत्तया वेदोच्चारणादिविषये बृहस्पतेरपि अधिक इति मनसि सम्भाव्यापि मध्वोक्तस्य अन्यार्थम् ऊचुरिति भावः ॥ ३ ॥

विश्वास-प्रस्तुतिः - ४

स्यात्तथेत्थमपि सम्भवितार्थस्त्र्यर्थतां श्रुतिषु वित्त दशार्थम् ।
भारतं ननु शतार्थमपि स्याद्वैष्णवं पदसहस्रतयं हि ॥ ४ ॥

मूलम् - ४

स्यात्तथेत्थमपि सम्भवितार्थस्त्र्यर्थतां श्रुतिषु वित्त दशार्थम् ।
भारतं ननु शतार्थमपि स्याद्वैष्णवं पदसहस्रतयं हि ॥ ४ ॥

भावप्रकाशिका

त्रयोऽर्थाः सर्ववेदेषु दशार्थाः सर्वभारते । विष्णोः सहस्रनामापि निरन्तरशतार्थकम् ॥ इति संख्याया अवयवे तयप्’ इति सहस्रतयम् ॥ ४ ॥

पदार्थदीपिकोद्बोधिका

स्यादिति ॥ हे विद्वांसः यूयं श्रुतिषु सर्ववेदेषु त्रयोऽर्था यस्य सस् त्र्यर्थस् तस्य भावस्तत्ता ताम् । अर्थत्रययुक्ततामित्यर्थः । वित्त जानीत । विदेर्लोट् । भारतं श्रीमहाभारतं दश अर्था यस्य तद्दशार्थं वित्त । विष्णोर्वाचकं वैष्णवं, पदानां नाम्नां सहस्रमेव सहस्रतयं, शतम् अर्था यस्य तत् शतार्थमपि स्यान् ननु । हि यस्मादर्थ एतत्सूक्तार्थस् तथाऽस्मदुक्तप्रकारेण स्याद् इत्थमपि भवदुक्तप्रकारेणाप्यर्थः सम्भवतीति सम्भविता । तथा च श्रुतीनां त्र्यर्थत्वादर्थद्वयमपि प्रामाणिकमेवेत्यर्थः। तथाचोक्तं- ‘त्रयोर्थाः सर्ववेदेषु दशार्थाः सर्वभारते । विष्णोः सहस्रनामापि निरन्तरशतार्थक’मिति ॥ ४ ॥

मन्दोपाकारिणी

स्यादिति ॥ अर्थ एतत्सूक्तार्थस् तथा अस्मदुक्तप्रकारेण स्याद् भवेत् । ‘अस भुवीत्यतो विधिलिङ् परस्मैपदं स्यात् स्यातां स्युः’ । इत्थमपि भवदुक्त-प्रकारेणापि अर्थः सम्भविता भवेत् संपूर्वकात् ‘भू सत्तायामित्यतो लुट् परस्मैपदं भविता भवितारौ भवितारः’ । तस्माद् अर्थद्वयमपि प्रामाणिकमिति भावः । कथमिति चेत् श्रुतिषु वेदेषु त्र्यर्थतां त्रयश्च ते अर्थाश्च त्र्यर्थास् त्र्यर्थानां भावस् त्र्यर्थता ताम् । वित्त जानीथ । ‘विद ज्ञान इत्यतो लोट् परस्मैपदं विद्धि वित्तं वित्त’ । भारतं महाभारतम् । दशार्थं दशसङ्ख्याका अर्था यस्मिन् तत् तथोक्तं वित्त । वैष्णवं विष्णोर् इदं वैष्णवम् । पदसहस्रतयं पदानां सहस्रतयं सहस्रं विष्णुनामसहस्रमित्यर्थः । शतार्थमपि शतसङ्ख्याका अर्था यस्मिन् तत्तथोक्तम् । स्यान्ननु भवेदेव । ‘प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु’ इत्यमरः । हि प्रसिद्धमेतत् । तदुक्तं ‘त्रयोऽर्थाः सर्ववेदेषु दशार्थाः सर्वभारते । विष्णोः सहस्रनामापि निरन्तरशतार्थकम्’ । तस्माद् उभयमपि युक्तमिति भावः ॥ ४ ॥

विश्वास-प्रस्तुतिः - ५

इत्युदीरयति विस्तृतचित्ते भूसुरा इह जिगीषव एनम् ।
ऊचुरर्थशतकं हरिनाम्नां वर्ण्यतामिति सहासमुखास्ते ॥ ५ ॥

मूलम् - ५

इत्युदीरयति विस्तृतचित्ते भूसुरा इह जिगीषव एनम् ।
ऊचुरर्थशतकं हरिनाम्नां वर्ण्यतामिति सहासमुखास्ते ॥ ५ ॥

पदार्थदीपिकोद्बोधिका

इतीति ॥ विस्तृतचित्ते विस्तृतं चित्तं यस्य तस्मिन् पूर्णप्रज्ञाचार्ये । इति वेदादेस्त्र्यर्थतादिकमस्तीत्युदीरयति वदति सति, इह वेदादेरर्थत्रयादि-वर्णनविषय एनं श्रीमध्वाचार्यं जिगीषवस्ते भूसुराः । सहासं हासयुक्तं मुखं येषां तादृशा सन्तः । अत्रायं निरुत्तरो भविष्यतीति मत्वा स्मितमुखाः सन्त इत्यर्थः । हरिनाम्नां ‘विश्वं विष्णुः’ इत्यादिभगवन्नाम्नामर्थानां शतकं शतं वर्ण्यताम् उच्यताम् इत्यूचुः ॥ ५ ॥

मन्दोपाकारिणी

इतीति ॥ विस्तृतचित्ते विस्तृतं पूर्णं चित्तं मनः यस्य स तथोक्तस् तस्मिन् पूर्णप्रज्ञाचार्ये । इति ‘वेदादिषु अर्थत्रयादिकमस्तीति’ एवं प्रकारेण उदीरयति वदति सति इह वेदादेर् अर्थादिविषये । एनं मध्वाचार्यं जिगीषवः जेतुम् इच्छवस् ते भूसुरा ब्राह्मणाः । सहासमुखा हासेन मन्दहासेन सहितं मुखं येषां ते तथोक्ताः । अत्र अयं निस्सारो भविष्यतीति स्मेरमुखाः सन्तः हे मध्वाचार्य हरिनाम्नां हरेर् विष्णोर् नाम्नां विश्वं विष्णुर्वषट्कार इत्यादिनाम्नाम् अर्थशतकम् अर्थानां शतकं वर्ण्यताम् उच्यताम् । ‘वर्ण वर्णक्रियाविस्तारगुणवचनेषु इत्यतः कर्मणि लोट् आत्मनेपदं वर्ण्यतां वर्ण्येतां वर्ण्यन्ताम्’ । एवम् ऊचुर् अवदन् । ‘वचेर् लिट्’ । विष्णुसहस्रनाम्नाम् एकैकनाम्नः शतं शतम् अर्थाः सन्तीत्युक्ते सति अयं मध्वाचार्यः शतार्थकथने अक्षमस्सन् पराजितो भविष्यतीति मत्वा हसन्तः सन्तः विश्वादिनाम्नां शतम् अर्था उच्यतामिति ब्राह्मणा मध्वम् ऊचुर्

इति भावः ॥ ५ ॥

विश्वास-प्रस्तुतिः - ६

वर्णयामि तदहं सकलं वः सौष्ठवादनुवदन्तु भवन्तः ।
तं वदन्तमिति तेऽथ वदन्तो बाढमित्यतिदृढोद्यममापुः ॥ ६ ॥

मूलम् - ६

वर्णयामि तदहं सकलं वः सौष्ठवादनुवदन्तु भवन्तः ।
तं वदन्तमिति तेऽथ वदन्तो बाढमित्यतिदृढोद्यममापुः ॥ ६ ॥

पदार्थदीपिकोद्बोधिका

वर्णयामीति ॥ अहं तत् सकलमर्थशतकं वो युष्मान् प्रति वर्णयामि वदामि । वर्ण वर्णक्रियाविस्तारगुणवचनेषु लट् । भवन्तः सुष्ठु भावः सौष्ठवं तस्मात् । अनुवदन्तु मदुक्तप्रकारेणार्थशतकं सम्यग्भवन्तोऽनुवदन्त्वित्यर्थः । अथ इति वदन्तं श्रीमध्वाचार्यं बाढमिति तथास्त्विति वदन्तस्ते द्विजा, अतिदृढो य उद्यमः प्रयत्नस्तमापुः । तेन वक्ष्यमाणार्थशतानुवादे सावधाना बभूवुरित्यर्थः ॥ ६ ॥

मन्दोपाकारिणी

वर्णयामीति ॥ हे ब्राह्मणा अहं वः युष्माकं तद् अर्थशतकं वर्णयामि कथयामि । भवन्तः सकलं तदर्थशतकं सौष्ठवात् सम्यक् मदुक्तप्रकारेण अनुवदन्तु अनुवादं कुर्वन्तु । ‘वदेर् लोट् परस्मैपदम्’ । इति वदन्तं ब्रुवाणं तं मध्वाचार्यं प्रति बाढमिति वदन्तस् तथास्तु इति प्रतिज्ञां कुर्वन्तः ‘भृशप्रतिज्ञयोर्बाढं’ इत्यमरः । ते द्विजा अथ प्रतिज्ञानन्तरम् अतिदृढोद्यमम् अतिदृढश्चासौ उद्यम उद्योगश्च तम् आपुश् चक्रुः । ‘आप्लृ व्याप्तावित्यतो लिट् परस्मैपदम्’ । मध्वाचार्येण वक्ष्यमाणार्थशतकानुवादकरणे सावधान-मनसः बभूवुर् इति भावः ॥ ६ ॥

विश्वास-प्रस्तुतिः - ७

प्रत्ययप्रकृतिसङ्गमभङ्गीं शब्दशास्त्रविहितां प्रतिदर्श्य ।
शुद्धधीः श्रुतिशिरःशतसिद्धानभ्यधात्सपदि विश्वपदार्थान् ॥ ७ ॥

मूलम् - ७

प्रत्ययप्रकृतिसङ्गमभङ्गीं शब्दशास्त्रविहितां प्रतिदर्श्य ।
शुद्धधीः श्रुतिशिरःशतसिद्धानभ्यधात्सपदि विश्वपदार्थान् ॥ ७ ॥

भावप्रकाशिका

‘विश् प्रवेशने’ इति धातोर्विष्टं ज्ञानरूपं च विश्वम् । टु ओश्वि गतिवृद्ध्योरिति च विना पक्षिणा श्वयतीति विश्वम् । ‘तृतीयोऽतिशये’ इति विश्वम् । विशेषेण व्याप्तत्वाच्च, विशेषेण ज्ञानरूपत्वाच्च, विशेषेण नित्यवृद्धत्वाच्च ‘विश्वमेव हि सर्वं’ ‘सर्वं पूर्णमिहोच्यते’ इति न्यायेन पूर्णत्वाच्च विश्वम् । एवं ‘विश्वो हिरण्यगर्भोऽग्निर्यम’ इत्यादेर्विश्वस्य वायोरन्तर्यामित्वाच्च जाग्रत्प्रवर्तकस्य विश्वनामकत्वादित्यादिना रूपेण पञ्चाशदधिकार्थान् अभ्यधात् ॥ ७ ॥

पदार्थदीपिकोद्बोधिका

प्रत्ययेति ॥ शुद्धधीः श्रीमध्वाचार्यः सपदि तदानीमेव श्रुतीनां शिरांसीव श्रुतिशिरांस्युपनिषदस्तेषां यानि शतानि तेषु सिद्धान् प्रमितान्, विश्वमिति यत्पदं तस्यार्थान् । ‘विश्वं विष्णु’रित्यत्रस्थविश्वशब्दस्यार्थानित्यर्थः । शब्दशास्त्रं व्याकरण-शास्त्रं तस्मिन् विहितां प्रोक्तां प्रत्ययः पश्चाद्विधीयमानः ‘क्व’ इत्यादिः प्रकृतिः प्राग्विद्यमान ‘विश्’ इत्यादिशब्दस्वरूपं तयोः सङ्गमस्य सम्बन्धस्य भङ्गीं प्रकारं प्रतिदर्श्य दर्शयित्वा अभ्यधाद् उवाच । तत्कथमिति चेदुच्यते । ‘विश प्रवेशन’ इति धातोरौणादिके क्वप्रत्यये कित्वादुपधागुणाभावे च सति विश्वमिति रूपम् । विशतीति विश्वम् । ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति श्रुतेस्सर्वत्र प्रविष्टत्वाद्विश्वमित्यर्थः । सर्वत्र प्रविष्टत्वाज्ज्ञानरूपत्वाद्वा विश्वम् । तत्रायं विभागः । विश धातोः क्विप्, वा गतिगन्धनयोरित्यस्माड्डुप्रत्ययष्टिलोपश्च । गत्यर्थस्य ज्ञानार्थकत्वाद् वं ज्ञानरूपमिति भावः । विट् चासौ वञ्चेति विश्वमिति विग्रहः । विः पक्षी गरुडः, विना श्वयति गच्छतीति विश्वम् । अस्मिन् पक्षे पक्षिवाचकाद्वीत्यतः परतः ‘टु ओश्वि गतिवृद्ध्यो’रित्यस्मादच्प्रत्ययः । विशेषेण श्वयति प्राप्नोतीति वा विश्वम् । अस्मिन् पक्षे वीत्युपसर्गः । विशेषेण वर्धत इति वा विश्वम् । परिपूर्ण इति यावत् । विश्वं वायुमन्तर्यामितया वर्तयतीति वा विश्वम् । अत्र च विश्वशब्दो वायुपरः । ‘विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्रा’ इति विश्वशब्दस्य वायौ प्रयोगात् । अत्र च विश्वशब्दा-दुत्तरतो वृतु वर्तन इति धातोर्डप्रत्ययष्टिलोपश्च । विश्वं जगद्वर्तयतीति वा विश्वम् । उक्त एव धातुप्रत्ययविभागः । अत्र विश्वशब्दो जगद्वाचकः । इत्यादिरूपेण विश्वशब्दस्य पञ्चाशदधिकानर्थानभ्यधात् ॥ ७ ॥

मन्दोपाकारिणी

प्रत्ययेति ॥ शुद्धधीः शुद्धा निःशङ्का धीर् यस्य स तथोक्तः श्रीमध्वाचार्यः । सपदि सद्यः । श्रुतिशिरःशतसिद्धान् श्रुतीनां वेदानां शिरांसि शीर्षस्थानीया उपनिषद इत्यर्थः । तेषां शतेषु सिद्धान् प्रमितान् विश्वपदार्थान् विश्वपदस्य अभिधेयान् अभ्यधात् प्रावोचत् । ‘डु धाञ् धारणपोषणयोर् इत्यतो लुङ् परस्मैपदम् अधाद् अधाताम् अधुः’ । किं कृत्वा । शब्दशास्त्रविहितां शब्दशास्त्रे व्याकरणे विहिताम् उदिताम् । प्रत्यय-प्रकृतिसङ्गमभङ्गीं प्रत्ययश्च प्रकृतिश्च तयोः सङ्गमः सम्बन्धस् तस्य भङ्गीं प्रकारं प्रतिदर्श्य प्रकाश्य प्राक् विद्यमानं धात्वादिशब्दस्वरूपं प्रकृतिस् तत्परः पश्चाद् विधीयमानः प्रत्ययस् तयोः सम्बन्धप्रकारं व्युत्पाद्य इति भावः ॥ ७ ॥

विश्वास-प्रस्तुतिः - ८

यावदर्थशतकं न विशङ्कः सन्ततोक्तिकृदपूरयदेषः ।
वर्णितावधृतिदुर्बलचित्तास्तावदाकुलहृदो ह्मभवंस्ते ॥ ८ ॥

मूलम् - ८

यावदर्थशतकं न विशङ्कः सन्ततोक्तिकृदपूरयदेषः ।
वर्णितावधृतिदुर्बलचित्तास्तावदाकुलहृदो ह्मभवंस्ते ॥ ८ ॥

पदार्थदीपिकोद्बोधिका

यावदिति ॥ विगता शङ्का यथा भवति तथा विशङ्कमतएव सन्ततं निरन्तरं या उक्तिरर्थकथनं तां करोतीति तथोक्तः । एषः श्रीमध्वाचार्यो यावदर्थानां शतकं न पूरयाद् अपूरयामास । पृ पालनपूरणयोर्लङ् तावद्वर्णितानां प्रोक्तार्था-नामवधृताववधारणे दुर्बलम् असमर्थं चित्तं येषां ते द्विजा आकुलं सम्भ्रान्तं हृन्मनो येषां तादृशा अभवन् ॥ ८ ॥

मन्दोपाकारिणी

यावदिति ॥ – विशङ्कः सभाभयरहितो ऽत एव सन्ततोक्तिकृत् सन्ततम् अविच्छेदेन उक्तिम् अर्थकथनं करोतीति सन्ततोक्तिकृत् । एषः मध्वाचार्यः । यावद् यावति काले । अर्थशतकम् अर्थानां विश्वपदाभिधेयानां शतकं नापूरयन् न समापयत् । ‘पृ पालनपूरणयोर् इत्यतो लङ् परस्मैपदम् अपूरयद् अपूरयताम् अपूरयन्’ विश्वपदस्य अर्थशतकं यावन् नावदद् इति भावस् तावत् तावन्मध्य एव वर्णितावधृतिदुर्बलचित्ता वर्णितानां मध्वाचार्येण कथितानां कतिपयानां विश्वपदस्य अर्थानाम् अवधृतौ ग्रहणविषये दुर्बलम् अक्षमं चित्तम् अन्तःकरणं येषां ते तथोक्तास् ते द्विजा आकुलहृद आकुलं सम्भ्रान्तं हृच् चित्तं येषां ते तथाभूता अभवन् । मध्वाचार्येण कतिपयार्थेषु कथितेषु सत्सु तावन्मात्रग्रहणेऽपि असमर्था ब्राह्मणाः संभ्रान्ता बभूवुरिति भावः ॥ ८ ॥

विश्वास-प्रस्तुतिः - ९

साङ्गवेदचतुरा इतिहासे शिक्षिताः सुबहवोऽप्यतिधृष्टाः ।
नैतदीरितमहो जगृहुस्ते विश्वसंक्षयपयोऽन्धुगणा वा ॥ ९ ॥

मूलम् - ९

साङ्गवेदचतुरा इतिहासे शिक्षिताः सुबहवोऽप्यतिधृष्टाः ।
नैतदीरितमहो जगृहुस्ते विश्वसंक्षयपयोऽन्धुगणा वा ॥ ९ ॥

पदार्थदीपिकोद्बोधिका

साङ्गेति ॥ औः शिक्षादिषडङ्गैः सहिताः साङ्गा ये वेदास्तेषु चतुराः कुशलाः । इतिहासे भारते शिक्षिताः । उपलक्षणमेतत्, सकलविद्याविदग्धा इति भावः । सुबहवो मिलिता अपि, अतिधृष्टा अतिधैर्यवन्तोऽपि द्विजा एतदीरितम् एतदुक्तं विश्वशब्दार्थजातमन्धुगणा गर्तसमूहा विश्वस्य संक्षयो यस्मिन् काले स विश्वसंक्षयः प्रलयकालस् तस्य पयो वा जलमिव ‘वा विकल्पोपमानयोः’ इत्यमरः न जगृहुर् न धृतवन्तः । अहो अत्रोपमालङ्कारः ॥ ९ ॥

मन्दोपाकारिणी

साङ्गेति ॥ – साङ्गवेदचतुराः साङ्गैः शिक्षादिषडङ्गैः सहिताः साङ्गाः साङ्गाश्च ते वेदाश्च साङ्गवेदास् तेषु चतुरा निपुणाः । इतिहासेऽपि भारतादावपि शिक्षिताः प्रवीणाः । ‘प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः’ इत्यमरः । उपलक्षणमेतत् सकलविद्याविदग्धा इति भावः । तादृशा अपि सुबहवोऽपि मिलिता अपि, अतिधृष्टा अपि अति अत्यन्तं धृष्टाः सभाभयरहिता अपि इत्यर्थः । ते द्विजाः । एतदीरितम् एतेन मध्वाचार्येण ईरितं कथितम् अर्थं न जगृहुर् ज्ञातुं नाशक्नुवन् । अहो आश्चर्यं मध्वपाण्डित्यं यतः महापण्डितानामपि अवाङ्मनोगोचरम् । ते किमिव, अन्धुगणा अन्धूनां कूपानां गणाः समूहाः । ‘पुंस्येवान्धुः प्रहिः कूप उदपानं तु पुंसि वा’ इत्यमरः । विश्वसंक्षयपयो वा विश्वस्य जगतः संक्षयः नाशः यस्मिन् सः विश्वसंक्षयः प्रलयकालस् तस्मिन् विद्यमानपयो वा उदकमिव । ‘वा विकल्पोपमानयोः’ इति विश्वः । यथा बहवोऽपि कूपा अतिगर्तसमूहाः प्रलयजलं गृहीतुं न समर्था गर्तानां स्वल्पावकाशत्वात् प्रलयजलानां बहुत्वात् तथा ब्राह्मणानां बहूनामपि अल्पबुद्धित्वान् मध्वाचार्योक्तानाम् अर्थानां बहुत्वाद् ब्राह्मणा अर्थग्रहणे न शक्ता बभूवुः । बहूनाम् अल्पावकाशे स्थित्ययोगादिति भावः । ‘ग्रह उपादाने इत्यतो लिट् परस्मैपदं जग्राह जगृहतुर् जगृहुः’ ॥ ९ ॥

विश्वास-प्रस्तुतिः - १०

देवतास्वसुलभा प्रतिभा ते मानुषेषु चपलेषु कथा का ।
क्षाम्य सौम्य सकलज्ञ नमस्ते ते ब्रुवन्त इति तं किल नेमुः ॥ १० ॥

मूलम् - १०

देवतास्वसुलभा प्रतिभा ते मानुषेषु चपलेषु कथा का ।
क्षाम्य सौम्य सकलज्ञ नमस्ते ते ब्रुवन्त इति तं किल नेमुः ॥ १० ॥

पदार्थदीपिकोद्बोधिका

देवतेति ॥ – ते द्विजाः । हे सकलज्ञ सर्वज्ञ ते प्रतिभा स्वरूपप्रज्ञा देवतास्वसुलभा दुर्लभा, चपलेषु चञ्चलचित्तेषु मानुषेष्वसुलभेति का कथा ? किं कथ्यते ? हे सौम्य मनोज्ञ क्षाम्य, अस्मच्चापलं क्षमस्व । क्षमूष् सहने लोट् । ते नम इति ब्रुवन्तः सन्तस् तं श्रीमध्वाचार्यं नेमुः । नमश्चक्रुः किल । अत्र कैमुत्यालङ्कारः ॥ १० ॥

मन्दोपाकारिणी

देवतास्विति ॥ ते द्विजाः । इति इत्थम् । ब्रुवन्तः वदन्तः सन्तः । तं मध्वाचार्यम् । नेमुः किल अनमन् हि । ननाम नेमतुर् नेमुः । कथं हे सकलज्ञ सकलं जानतीति सकलज्ञः । तस्य संबुद्धिर् हे सकलज्ञ ते प्रतिभा प्रज्ञा । देवतासु देवेषु । ‘वृन्दारका दैवतानि पुंसि वा देवता स्त्रियां’ इत्यमरः । असुलभा दुर्लभा । चपलेषु चञ्चलवृत्तिषु मानुषेषु मनुष्येषु असुलभा इति का कथा किं कथनीयम् इति भावः । हे सौम्य सुन्दर सौम्यं तु सुन्दरे सोमदैवते’ इत्यमरः । क्षाम्य अस्मच्चापल्यं क्षमस्व सहस्व ‘क्षमूष् सहन इत्यतो लोट् परस्मैपदं क्षाम्य क्षाम्यतं क्षाम्यत’ । ते तुभ्यं नमः प्रणामोऽस्तु इति ब्रुवन्त इत्यन्वयः ॥ १० ॥

विश्वास-प्रस्तुतिः - ११

वेदशास्त्रचतुरैरिह विद्यावित्तलिप्सुभिरवाप्तमशेषैः ।
प्राप केरलसुमण्डलजातैरन्यदायतनमायतचेताः ॥ ११ ॥

मूलम् - ११

वेदशास्त्रचतुरैरिह विद्यावित्तलिप्सुभिरवाप्तमशेषैः ।
प्राप केरलसुमण्डलजातैरन्यदायतनमायतचेताः ॥ ११ ॥

पदार्थदीपिकोद्बोधिका

वेदेति ॥ आयतं विस्तृतं चेतो यस्य स पूर्णप्रज्ञाचार्यः । वेदाश्च शास्त्राणि च तेषु चतुरैर् विदग्धैः । विद्यया लभ्यं वित्तं विद्यावित्तम् । विद्याधिक्यनुसारेण लभ्यवित्तमित्यर्थः । तल्लब्धुमिच्छुभिर्लिप्सुभिरशेषैः सर्वैः, केरलाख्यं सुमण्डलं प्रशस्तदेशः, तस्मिन् जातैरुत्पन्नैरवाप्तं प्राप्तमिह पयस्विनीतटेऽन्यदायतनं देवास्थानान्तरं प्राप ॥ ११ ॥

मन्दोपाकारिणी

वेदशास्त्रेति ॥ – आयतचेता आयतं विस्तृतं चेतः मनः यस्य स तथोक्तः मध्वाचार्यः । इह पयस्विनीतटे । अन्यद् अपरम् आयतनं देवालयं प्राप प्राप्तवान् । ‘प्र पूर्वाद् आप्लृ व्याप्तावित्यतो लिट् परस्मैपदम् आप आपतुर् आपुः’ । कथंभूतं वेदशास्त्रचतुरैर् वेदाश्च शास्त्राणि च वेदशास्त्राणि तेषु चतुरैर् निपुणैर् अत एव विद्यावित्तलिप्सुभिर् विद्याभ्यासानुसारेण लभ्यं वित्तं द्रव्यं ‘वित्तं वस्तु वसु द्रव्यं’ इति धनञ्जयः । लिप्सुभिर् लब्धुमिच्छद्भिः । केरलसुमण्डलजातैः केरलसुमण्डले केरलाख्य-शोभनदेशे जातैर् उत्पन्नैः । ‘स्यान्मण्डलं द्वादशराजशाले देशे च बिम्बे च कदम्बके च’ इति विश्वः । अशेषैः समस्तैः । अवाप्तं प्राप्तम् । पयस्विनीतीरे एव स्थलान्तरे यस्मिन् देवालये वेदशास्त्राभिज्ञाः केरलदेशस्था ब्राह्मणा विद्यापरीक्षां दत्वा विद्याधिक्यानुसारेण द्रव्यं प्राप्तुं समवेता बभूवुस् तं देवालयं मध्वाचार्यः ययौ इति भावः ॥ ११ ॥

विश्वास-प्रस्तुतिः - १२

तर्कतन्त्रकुशलानपि पुंसश्चर्करीति बत सोऽयममानान् ।
मानमानमयतीह कथं नो नैष मण्डलभुवां समितानाम् ॥ १२ ॥

मूलम् - १२

तर्कतन्त्रकुशलानपि पुंसश्चर्करीति बत सोऽयममानान् ।
मानमानमयतीह कथं नो नैष मण्डलभुवां समितानाम् ॥ १२ ॥

पदार्थदीपिकोद्बोधिका

तर्केति ॥ सोऽयं श्रीमध्वाचार्यस् तर्कस्तर्कशास्त्रं, तन्त्रं भाट्टशास्त्रं तयोः कुशलांश्चतुरानपि पुंसः पुरुषान् । न विद्यते मानोऽहङ्कारो येषां तान् । खण्डितपाण्डित्याभिमानानित्यर्थः । चर्करीत्यतिशयेन करोति । कृञो यङ्लुङन्ताल्लट् । बत खेदे । एष श्रीमध्वाचार्य इह समितानां मिलितानां मण्डले केरलदेशे भवन्ति इति मण्डलभुवस्तेषां नोऽस्माकं मानमभिमानं कथं नानमयति? कथं न निराकुर्यात्? इति मन्त्रयन्तस्ते द्विजवर्यास्तं श्रीमध्वाचार्यमुपेत्यापृच्छन्नित्युत्तरश्लोकेनान्वयः ॥ १२ ॥

मन्दोपाकारिणी

तर्केति ॥ सः जगति प्रसिद्धो ऽयं मध्वाचार्यः । तर्कतन्त्रकुशलान् तर्कस् तर्कशास्त्रं च तन्त्रं ब्रह्ममीमांसाशास्त्रं च तर्कतन्त्रयोः कुशलान् शिक्षितान् वैशेषिकादीन् भाट्टांश्च पुंसः पुरुषान् । अमानान् न विद्यते मानो ऽहङ्कारः येषां ते अमानास् तानहङ्काररहितान् खण्डिताहङ्कारानिति यावत् । ‘गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः’ इत्यमरः । चर्करीति भृशं करोति । बत खेदे विस्मये वा । ‘खेदानुकम्पा सन्तोष-विस्मयामन्त्रणे बत’ इत्यमरः । ‘डु कृञ् करण इत्यतो यङ्लुङंताद् लट् परस्मैपदम्’ । एषः मध्वाचार्य इह अस्मिन् देवालये समितानां मिलितानां मण्डलभुवां मण्डले केरलदेशे भुवाम् उत्पन्नानां नो ऽस्माकं मानम् अभिमानं कथं न आनमयति न खण्डयेत् । ‘णमु प्रह्वत्वे शब्दे च इत्यतो लट् परस्मैपदम्’ ॥ १२ ॥

विश्वास-प्रस्तुतिः - १३

मन्त्रयन्त इति ते द्विजवर्या अन्यदेशजमुखास्तमपृच्छन् ।
सद्ददाददसुशंसननिन्दाकारिसूक्तगतमर्थमुपेत्य ॥ १३ ॥

मूलम् - १३

मन्त्रयन्त इति ते द्विजवर्या अन्यदेशजमुखास्तमपृच्छन् ।
सद्ददाददसुशंसननिन्दाकारिसूक्तगतमर्थमुपेत्य ॥ १३ ॥

भावप्रकाशिका

‘न वा उ देवा’ इति सूक्तम् । ‘दद दान’ इति ददो दाता । ‘उतापृणन्मर्डितारं न विन्दत’ इति अददनिन्दा । अपृणद् अददत् पुमान् पालकं न विन्दते । ‘स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय’ इति दातृप्रशंसनम् । भुंक्त इति भोजः । स एव भोज इह परत्र च यो गृहवे ग्रहणयोग्याय ददाति ॥ १३ ॥

पदार्थदीपिकोद्बोधिका

मन्त्रयन्त इति ॥ इति पूर्वोक्तरीत्या मन्त्रयन्तो विचार-यन्तस्ते द्विजवर्या । अन्यस्मिन्देशे जातो ऽन्यदेशजः सो मुखं प्रधानो येषां ते तथोक्ताः सन्तः । अस्माभिरेव प्रश्नादिके कृते सति यद्यस्माकं पराजयः स्यात्तदा केरलमण्डलस्थ-त्रिषष्टिग्रामजनानामस्मिन् देवस्थाने मिलितत्वात् केरलमण्डलस्यैव पराजयः स्यादिति मत्वा देशान्तरादागतब्राह्मणपुरस्सराः सन्त इति भावः । तं श्रीमध्वाचार्यमुपेत्य । सद्भ्यो ददातीति सद्ददः । दद दान इति धातोः । स च, न ददातीत्यददः, स च सद्ददाददौ, सुष्ठु शंसनं स्तुतिः, तच्च निन्दा च सुशंसननिन्दे, सद्ददाददयोः सुशंसननिन्दे सद्ददाददसु-शंसनननिन्दे, ते करोतीति तादृशं यत्सूक्तं तत्र गतः प्रतिपाद्यस् तम् अर्थमपृच्छन् विचारितवन्तः । तत्सूक्तञ्च ‘न वा उ देवाः क्षुधमिद्वधन्ददुरुताशितमुपगच्छन्ति मृत्यवे’ इत्यादिकम् । तत्र ‘उतापृणन्मर्डितारं न विन्दते’ इत्यदातुर्निन्दनं प्रतिपाद्यते । तथा हि अपृणद् अदाता पुरुषः मर्डितारं पालकं भगवन्तं न विन्दते न लभते, इति । ‘स इद् भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय’ इति प्रदातुः प्रशंसनं प्रतिपाद्यते । अस्यार्थः — गृहवे गृहमागताय अन्नकामाय चरते तत्र तत्र पर्यटते, कृशाय दरिद्राय यो ददात्यन्नादिकमिति शेषः । स इत् स एव, भोजः शुभभोक्ता । इहामुत्र चेति शेषः । एतत्सूक्तप्रतिपाद्यमर्थमपृच्छन्निति भावः ॥ १३ ॥

मन्दोपाकारिणी

मन्त्रयन्त इति ॥ इति पूर्वोक्तप्रकारेण मन्त्रयन्तस् ते देवालये समवेता द्विजवर्या ब्राह्मणोत्तमास् तं मध्वाचार्यम् उपेत्य समीपं प्राप्य अर्थम् अपृच्छन् पृष्टवन्तः । ‘प्रच्छ ज्ञीप्सायां’ इत्यतो लङ् परस्मैपदं ‘अपृच्छद् अपृच्छताम् अपृच्छन्’ । कथंभूतम् अर्थं, सद्ददाददसुशंसननिन्दाकारिसूक्तगतं, ददातीति ददः दाता पुरुषः डु दाञ् दाने इति धातोर् न ददातीति अददो ऽदाद् इत्यर्थः । ददश्च अददश्च ददाददौ सज्जनेभ्यः ददाददौ सद्ददाददौ सुशंसनं सम्यक् स्तुतिश्च निन्दा कुत्सा च सुशंसननिन्दे । ‘कुत्सा निन्दा च गर्हणे’ इत्यमरः । सद्ददाददयोः सुसंशननिन्दे करोतीति सद्ददाददसुशंसननिन्दाकारि तच्च तत् सूक्तं च तस्मिन् गतं विद्यमानं सत्पात्रे दातुः स्तुतिर् अदातुर् निन्दा च एतदर्थप्रति-पादकसूक्तार्थम् इत्यर्थः । तच्च सूक्तं ‘न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुपगच्छन्ति मृत्यवे’ इत्यादि । कथंभूतास्सन्तो ऽन्यदेशजमुखास्सन्तो ऽन्यः केरलदेशाद् अपरो ऽन्यश्चासौ देशश्च अन्यदेशो ऽन्यदेशे जायत इति अन्यदेशजः स एव मुखं प्रधानं येषां ते तथोक्तास्सन्तः । अस्माभिरेव प्रश्नादिके कृते सति यदि अस्माकं मध्ये एकस्य पराजयः स्यात् तर्हि केरलदेशस्थानां सर्वेषामपि पराजयः स्यात् । सर्वेषां तत्र मिलितत्वाद् इति

मत्वा देशान्तरादागतं कञ्चन पण्डितं पुरस्कृत्य तन्मुखेन अपृच्छन् इति भावः । इति श्लोकद्वयस्य एकान्वयः ॥ १३ ॥

विश्वास-प्रस्तुतिः - १४

तं स्फुटं प्रकटयन् स पृणीयाच्छब्दमूलमवदत् पृणधातुम् ।
तं जिगीषुमथ विप्रमदः प्रीङ्धातुमेष निगदन्तमुवाच ॥ १४ ॥

मूलम् - १४

तं स्फुटं प्रकटयन् स पृणीयाच्छब्दमूलमवदत् पृणधातुम् ।
तं जिगीषुमथ विप्रमदः प्रीङ्धातुमेष निगदन्तमुवाच ॥ १४ ॥

भावप्रकाशिका

‘पृणीयादिन्नाधमानाये’ति पृणीयाच्छब्दस्य ‘पृण दान’ इति परिपठितं पृणधातुमवदत् । नाथमानाय याचमानाय । ‘प्रीङ् प्रीणन’ इति धातुं परोऽवदत् ॥ १४ ॥

पदार्थदीपिकोद्बोधिका

तमिति ॥ तं प्रस्तुतसूक्तार्थं स्फुटं व्यक्तं यथा भवति तथा प्रकथयन् स श्रीमध्वाचार्यः । पृणीयादिति शब्दस्य मूलं प्रकृतिं, पृण इति धातुः पृणधातुस्तं ‘पृण दान’ इति धातुमित्यर्थः । अवदत् पृणीयादिति शब्दः पृण दान इति धातुमूलक इत्यवददिति भावः । अथ, एवं कथनानन्तरमेव श्रीमध्वाचार्यो जिगीषुमात्मानं जेतुमिच्छन्तं, अदः पृणीयाच्छब्दमूलं प्रीङ्धातुं, ‘प्रीङ् प्रीणन’ इति धातुं निगदन्तं वदन्तं तं स्वप्रत्यर्थिभूतं विप्रमुवाच ॥ १४ ॥

मन्दोपाकारिणी

तमिति ॥ तं प्रस्तुतसूक्तार्थं स्फुटं स्पष्टं प्रकटयन् कथयन् सः मध्वाचार्यः पृणीयाच्छब्दमूलं प्रस्तुतसूक्तगतं ‘पृणीयादिन्नाधमानाय’ इत्यत्र विद्यमानस्य पृणीयाच्छब्दस्य मूलं प्रकृतिं पूर्वं विद्यमानं शब्दस्वरूपम् इत्यर्थः । पृणधातुं पृण दान इति व्याख्यातं पृणनामकधातुम् अवदत् ‘‘पृणीयादित्ययं शब्दः पृण दाने इति दानार्थकपृणधातोरुत्पन्नः’’ इत्यब्रवीद् इति भावः । अथ एवं कथनानन्तरम् । अदस् तत् पृणीयाच्छब्दमूलं प्रीङ् धातुं प्रीङ् प्रीणन इति धातुं निगदन्तं वदन्तं जिगीषुम् आत्मानं जेतुमिच्छन्तं स्वप्रतिपक्षभूतम् इत्यर्थः । विप्रं ब्राह्मणं प्रति । एषः मध्वाचार्यः । उवाच ‘‘न वा उ देवा’’ इति सूक्तार्थकथनसमये तत्सूक्तगतपृणीयादित्येतत् पृण दाने इत्येतद्दानार्थक-पृणधातोः रूपमित्युक्ते पृणीयादित्येतत् प्रीङ् प्रीणन इति प्रीधातोः रूपम् इत्युक्तवन्तं प्रतिवादिनं विप्रं प्रति उवाच मध्व इति भावः ॥ १४ ॥

विश्वास-प्रस्तुतिः - १५

प्रादिभेदमविदन् गुणय त्वं मूढ पांसुषु लिखन् लिपिसङ्घम् ।
भर्त्सयन्निति जहास सुहासो मत्सराकुलधियो जडयन् सः॥ १५ ॥

मूलम् - १५

प्रादिभेदमविदन् गुणय त्वं मूढ पांसुषु लिखन् लिपिसङ्घम् ।
भर्त्सयन्निति जहास सुहासो मत्सराकुलधियो जडयन् सः॥ १५ ॥

भावप्रकाशिका

जडयन् । ‘प्रहसति पश्यति तिर्यक् समधिकरक्तेन लोचनेन रुषा । करकिसलयेन चोरुं प्रहरति च तदा सभा चकम्पे च ॥ १५ ॥

पदार्थदीपिकोद्बोधिका

प्रादीति ॥ – प्रादिभेदं प्र आदिर्येषां तेषां भेदं ‘प्र, प्रि, प्रु, पृ’ इत्यादिवर्णभेदमित्यर्थो ऽविदन्नजानन्नत एव मूढ पृणीत्यादित्यत्र प्रीङ् प्रीणन इति धातुरिति वदतस्तवाक्षरगुणभेदज्ञानमपि नास्तीत्यभिप्रायेण मूढेत्युक्तम् । त्वं पांसुषु लिपिसङ्घं लिपिसमूहं लिखन् सन् गुणय इत्येवमुक्त्वा भर्त्सयन् धिक्कुर्वन् शोभनो हासो यस्य सुहासः स श्रीमध्वाचार्यः । मत्सरेणाकुला ग्रस्ता धीर्येषां तान् केरलमण्डलजातान् विदुषो जडयन् जडीकुर्वन् सञ्जहास । अपहासं चक्रे ॥ १५ ॥

मन्दोपाकारिणी

प्रादीति ॥ हे मूढ अज्ञ ‘ अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः’ इत्यमरः । पृणीयादित्यत्र प्रीङ् प्रीणन इति वदन् अत एव प्रादिभेदं पृ इति वर्ण आदिर् ययोः पृप्रीवर्णयोस् तौ प्रादी पृप्रीवर्णौ इत्यर्थस् तयोः पृप्रीवर्णयोर् भेदं ‘‘अयं पृ वर्णो ऽयं प्री वर्णः’’ इति वैलक्षण्यम् अविदन् अजानन् त्वं पांसुषु धूलिषु ‘रेणुर्द्वयोः स्त्रियां धूलिः पांशुर्ना न द्वयोरजः’ इत्यमरः लिपिसङ्घं लिपीनाम् अक्षराणां सङ्घं समूहं लिखन् गुणय आवर्तय ‘‘भूम्यां धूलिं प्रसार्य अङ्गुलिना रेखाविशेषौ कृत्वा अयं रेखाविशेषः पृ वर्णो ऽयं रेखाविशेषः प्री वर्ण इति सङ्केतं कृत्वा पुनः पुनो ऽभ्यासं कुरु’’ इति भावः । इति इत्थम् उक्त्वा । भर्त्सयन् धिक्कुर्वन् सन् । सुहासः सु शोभनः हासः मन्दहासः यस्य स तथोक्तः सः मध्वाचार्यः जहास हासं कृतवान् । ‘हसे हसन इति धातोर्लिट् परस्मैपदं जहास जहसतुर् जहसुः’ । किं कुर्वन् मत्सराकुलधियः मत्सरेण आकुला ग्रस्ता धीर् बुद्धिर् येषां ते

तथोक्तास् तान् केरलदेशजान् विप्रान् जडयन् जडीकुर्वन् प्रत्युत्तरस्फूर्तिरहितान्

कुर्वन्निति यावत् ॥ १५ ॥

विश्वास-प्रस्तुतिः - १६

तत्प्रसङ्गबलतोऽखिलविद्यापाटवं पुथुहृदः प्रतिबुध्य ।
आनमन्सबहुमानममी तं यं नमन्ति किल नाकिनिकायाः॥ १६ ॥

मूलम् - १६

तत्प्रसङ्गबलतोऽखिलविद्यापाटवं पुथुहृदः प्रतिबुध्य ।
आनमन्सबहुमानममी तं यं नमन्ति किल नाकिनिकायाः॥ १६ ॥

पदार्थदीपिकोद्बोधिका

तदिति ॥ अमी द्विजास्तत्प्रसङ्गस्य तत्सूक्तप्रसक्तेर्बलतः सामर्थ्यात् तत्सूक्तार्थकथनप्रसङ्गबलादित्यर्थः । पृथु पूर्णं हृद्यस्य तस्य श्रीपूर्णप्रज्ञस्य अखिलासु विद्यासु पाटवं चातुर्यं प्रतिबुध्य ज्ञात्वा । नाकः स्वर्गो येषामस्तीति नाकिनो देवाः, तेषां निकायाः समूहा यं नमन्ति तं श्रीमध्वाचार्यं बहुमानेनादरेण सहितं यथा भवति तथा सबहुमानमानमन् किल ॥ १६ ॥

मन्दोपाकारिणी

तदिति ॥ अमी द्विजाः । तत्प्रसङ्गबलतस् तस्य सूक्तार्थकथनस्य प्रसङ्गः प्रसक्तिः सैव बलं तस्मात् सूक्तार्थकथनव्याजेनेत्यर्थः । पृथुहृदः पृथु पूर्णं हृन् मनः यस्य स तथोक्तस् तस्य श्रीमध्वाचार्यस्य । अखिलविद्यापाटवम् अखिलाश्च ता विद्याश्च अखिलविद्यास् तासु पाटवं पटोर्भावः पाटवं दक्षत्वं प्रतिबुद्ध्य ज्ञात्वा सबहुमानं बहुमानेन आदरेण सहितं यथा भवति तथा आदरेणेति यावत् तं मध्वाचार्यम् आनमन् नमश्चक्रुः । इदमाश्चर्यं न भवतीत्याह यमिति । नाकिनिकाया नाकः स्वर्ग एषाम् अस्तीति नाकिनः देवाः । ‘स्वरव्ययं स्वर्गनाकः’ इत्यमरः । तेषां निकाया राशयः । ‘स्यान्निकायः पुञ्जराशी’ इत्यमरः। यं मध्वाचार्यं नमन्ति किल नमस्कृर्वन्ति । किल इति प्रसिद्धौ । सर्वज्ञकल्परुद्रादि- वन्दितस्य मध्वाचार्यस्य पाण्डित्यम् अन्यमनुष्यवन्द्यं किम् अपूर्वमिति भावः ॥ १६ ॥

विश्वास-प्रस्तुतिः - १७

कन्यकादृतसुरेन्द्रवपुःश्रीदानवाचिवरसूक्तहृदुक्तौ ।
कुत्रचित्सदसि तावदपाला कीर्तिताऽतितरुणीत्ययमूचे॥ १७ ॥

मूलम् - १७

कन्यकादृतसुरेन्द्रवपुःश्रीदानवाचिवरसूक्तहृदुक्तौ ।
कुत्रचित्सदसि तावदपाला कीर्तिताऽतितरुणीत्ययमूचे॥ १७ ॥

भावप्रकाशिका

‘कान्या३ वारवायती सोममपि स्रुताविदत् । अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै त्वा शक्राय सुनवै त्वा’ (ऋ. ८.९१.१) इत्यादिसूक्तम् । पुरातनी कन्येति कम्पार्थः । सोमम् अवारयती जनयन्ती स्रुताऽपि प्राप्ता चालभत । गृहं प्रत्यावहन्तीत्यब्रवीद् इन्द्रायेत्यादि । असौ ‘असौ य एषि वीरको गृहं गृहं

विचाकशत् (ऋ.८.९१.२) इत्यादि चादरेण । अपाला ‘अपालामिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचमि’ति (ऋ.८.९१.७) वपुः श्रीदानम् । स्वपाणिभ्यां त्रिरभिमृज्य संशोध्येति अपाला नवयौवनेति चोचे ॥ १७ ॥

पदार्थदीपिकोद्बोधिका

कन्यकेति ॥ – अयं श्रीमध्वाचार्यः कुत्रचित्सदसि कस्याञ्चित्सभायां, कन्यकया आदृतः सत्कृतः कन्यकादृतः, स चासौ सुरेन्द्रश्च कन्यकादृत-सुरेन्द्रः । वपुषः कन्यावपुषः, श्रीदानं कान्तिदानं वपुःश्रीदानं, कन्यकादृतसुरेन्द्रेण वपुःश्रीदानं, तद्वक्तीति तादृशं, यद्वरसूक्तमुत्तमसूक्तं तस्य हृदभिप्रायस्तस्योक्तिः कथनं, तस्यां प्रस्तुतायां सत्यां, तत्र सूक्ते, अपालेति कीर्तितोक्ता अपालाशब्दवाच्येत्यर्थो ऽतितरुणी नवयौवनेत्यूचे । तत्सूक्तञ्च ‘कन्या ३• वारवायती सोममपि स्रुताविदत् । अस्तम्भरंत्यब्रवीदिन्द्राय सुनवै त्वा शक्राय सुनवै त्वा’ इत्यादिकं, तदर्थश्च पुरातनी कन्येति कम्पार्थः । सोममावरयती जनयन्ती कन्या, स्रुतापि प्राप्तापि सोमलतामाहर्तुं गताविद-दलभत । अस्तं गृहं प्रति भरन्ती वहन्त्यब्रवीत्, अवदत् । हे सोम त्वमिन्द्राय सुनवै, शक्राय सुनवै, अवहन्यामिति । तात्पर्यद्योतिका द्विरुक्तिः । ‘असौ य एषि वीरक’ ‘अपालामिन्द्र त्रिष्पूत्व्यक्रणोत्सूर्यत्वचं’ इत्यादिनाऽदरेण प्रीत इन्द्रस्त्रिवारं पूत्वी पूतां कृत्वा स्वपाणिभ्यां परिमृज्य संशोध्यापालां नवयौवनां सूर्यत्वचं सूर्यवत्प्रकाशमानत्वचमकृणोच्च-कारेति । अत्रापालाशब्देनातितरुणी कथ्यत इत्ययमूच इत्यर्थः ॥ १७ ॥

मन्दोपाकारिणी

कन्यकेति ॥ अयं श्रीमध्वाचार्यः । कुत्रचित् कस्मिंश्चित् सदसि सभायां कन्यकादृतसुरेन्द्रवपुःश्रीदानवाचिवरसूक्तहृदुक्तौ कन्यकया कयाचित् कन्यकया आदृत आदरेण प्रीतः कन्यकादृतश्चासौ सुरेन्द्रः देवेन्द्रश्च कन्यकादृतसुरेन्द्रः । वपुषः कन्याशरीरस्य श्रियः कान्तेर् दानं श्रीदानं कन्यकादृतसुरेन्द्रेण वपुःश्रीदानं कन्यकादृत-सुरेन्द्रवपुःश्रीदानं तद् वक्तीति श्रीदानावाचि । वरम् उत्तमं च तत् सूक्तं च वरसूक्तम् । श्रीदानवाचि तच् च वरसूक्तं च श्रीदानवाचिवरसूक्तं तस्य सूक्तस्य हृदो ऽभिप्रायस्य उक्तौ कथने प्रस्तुतायां सत्याम् । तावत् तदा तत्र सूक्ते कीर्तिता उदिता अपाला अपालाशब्दवाच्या स्त्री अतितरुणी नूतनयौवना इति यावद् इति एवम् ऊचे व्याचख्यौ । ‘वच परिभाषण इत्यतो लिट् आत्मनेपदम् ऊचे ऊचाते ऊचिरे’ । तच्च सूक्तं ‘कन्यावार-वायतीत्यादि’ । अत्र देवेन्द्रः कस्याश्चित् कन्यकायाः प्रीतस्सन् कन्यकाशरीरस्य सूर्यसदृश-कान्तिं दत्तवान् इति उच्यते । एतत्सूक्तार्थकथनसमये अस्मिन्नेव सूक्ते ‘अपालामिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचं’ इत्यर्धर्चि विद्यमानापालाशब्दस्य अतितरुणीति अर्थम्

उक्तवानिति भावः ॥ १७ ॥

विश्वास-प्रस्तुतिः - १८

श्वित्रिणी भवति तत्पदवाच्येत्याग्रहेण वदतो विदुषोऽत्र ।
कश्चिदेष्यति विपश्चिदिहैनं पृच्छतेत्ययमगच्छदथोक्त्वा॥ १८ ॥

मूलम् - १८

श्वित्रिणी भवति तत्पदवाच्येत्याग्रहेण वदतो विदुषोऽत्र ।
कश्चिदेष्यति विपश्चिदिहैनं पृच्छतेत्ययमगच्छदथोक्त्वा॥ १८ ॥

पदार्थदीपिकोद्बोधिका

श्वित्रिणीति ॥ अथायं श्रीमध्वाचार्यः । तच्च तत्पदञ्चा-पालापदं, तेन वाच्या श्वित्रिणी कुष्ठवती भवतीत्याग्रहेण प्रमाणं विना दुराग्रहेण वदतो ब्रुवाणानविदुषोऽबुधान् प्रति, इह कश्चिद् विपश्चिद् विद्वानेष्यत्यागमिष्यति । इण् गतौ लृट् । एनं विपश्चितं प्रति अत्रापालापदार्थविषये यूयं पृच्छत । पृच्छ ज्ञीप्सायां लोट् । इत्युक्तवाऽगच्छत् । ततो ययौ ॥ १८ ॥

मन्दोपाकारिणी

श्वित्रिणीति ॥ अथ मध्वोक्त्यनन्तरम् । तत्पदवाच्या तच्च तत् पदं च तत्पदं तेन अपालाशब्देन वाच्या स्त्री श्वित्रिणी श्वित्रं कुष्ठम् अस्या अस्तीति श्वित्रिणी कुष्ठवती भवति । ‘कोठो मण्डलकं कुष्ठश्वित्रे’ इत्यमरः । इति इत्थम् आग्रहेण अयमेवार्थ इति हठेन प्रमाणं विनेति यावद् वदतः ब्रुवाणान् । अत्र अपालाशब्दार्थविषये अविदुषो ऽबुधान् ब्राह्मणान् । इह भवतां समीपे । कश्चिद् विपश्चिद् विद्वान् पुरुषः ‘विद्वान्विपश्चिद्दोषज्ञः’ इत्यमरः, एष्यति आगमिष्यति । ‘आङ्पूर्वाद् इण् गतावित्यस्माद् लृट् परस्मैपदम्’ । एनं विपश्चितं यूयं पृच्छत अपालाशब्दार्थविषये प्रश्नं कुरुत इत्यर्थः । ‘प्रच्छ ज्ञीप्सायामित्यतो लोट् परस्मैपदम्’ । इत्युक्त्वा इत्याभिधाय । अयं श्रीमध्वाचार्यः देशान्तरं प्रति अगच्छद् अगमत् । ‘गम्लृ गतावित्यतो लङ् परस्मैपदम्’ ॥ १८ ॥

विश्वास-प्रस्तुतिः - १९

देशमेनमचिरादुपयातस्तादृशाकृतिरहो कृतबुद्धिः ।
तांस्तथाऽभ्यधित तत्पदभावं सूरिमौलिमणिनाऽत्र यथोचे॥ १९ ॥

मूलम् - १९

देशमेनमचिरादुपयातस्तादृशाकृतिरहो कृतबुद्धिः ।
तांस्तथाऽभ्यधित तत्पदभावं सूरिमौलिमणिनाऽत्र यथोचे॥ १९ ॥

पदार्थदीपिकोद्बोधिका

देशमिति ॥ एनं विद्वद्भिरवस्थितं देशमचिराच्छीघ्रमुपयात आगतः, तादृशा श्रीमध्वोक्तलक्षणाऽऽकृतिराकारो यस्य सः । कृता शिक्षिता बुद्धिर्यस्य स विद्वानित्यर्थः । तान् अपालापदार्थे विप्रतिपन्नान् द्विजान्प्रति तत्पदभावमपालापदार्थं ‘भावो लीला क्रिया चेष्टा भूत्यभिप्रायजन्तुषु । पदार्थमात्रे सत्तायां’ इति वैजयन्ती । सूरीणां विदुषां मौलिमणिना चूडामणिनाऽत्र यथोचे प्रोक्तं, तथाऽभ्यधित उवाच । अहो चित्रमेतत् । धाञो लुङ् ॥ १९ ॥

मन्दोपाकारिणी

देशमिति ॥ एनं देशं मध्वाचार्यत्यक्तदेशं प्रति । अचिराद् अल्पकालेनैव उपयात आगतः । तादृशाकृतिस् तादृशा मध्वाचार्योक्तलक्षणयुक्ता आकृतिर् देहः यस्य स तथोक्तः । कृतबुद्धिः कृता पर्याप्ता बुद्धिर् यस्य स तथोक्तः ‘युगपर्याप्तयोः कृतं’ इत्यमरः विद्वानिति यावद् ब्राह्मणः । तान् अपालापदार्थे विप्रतिपन्नान् द्विजान् प्रति तत्पदभावं तच्च तत् पदं च तत्पदं तत्पदस्य अपालापदस्य भावम् अभिप्रेतार्थं तथा तद्वद् अभ्यधित अवोचत अहो आश्चर्यम् । कथं, सूरिमौलिमणिना सूरीणां विदुषां ‘धीमान् सूरिः कृती कृष्टिः’ इत्यमरः मौलिमणिना शिरोरत्नस्थानीयेन पण्डितश्रेष्ठेन मध्वाचार्येण इत्यर्थो ऽपालाशब्दविषये यथा येन प्रकारेण ऊचे उक्तं तथेत्यर्थः ‘वच परिभाषणे इत्यतो भावे लिडात्मनेपदं’ अत्र प्रथमपुरुषैकवचनमेव, भावस्य एकत्वादिति ज्ञेयम् ॥ १९ ॥

विश्वास-प्रस्तुतिः - २०

केवलं न सकलाः श्रुतिविद्या मानपूर्वकसमस्तगिरोऽस्य ।
अप्यनागतगतप्रतिपत्तिं श्रद्दधुः पृथुलचेतस एते ॥ २० ॥

मूलम् - २०

केवलं न सकलाः श्रुतिविद्या मानपूर्वकसमस्तगिरोऽस्य ।
अप्यनागतगतप्रतिपत्तिं श्रद्दधुः पृथुलचेतस एते ॥ २० ॥

पदार्थदीपिकोद्बोधिका

केवलमिति ॥ एते द्विजा मानं प्रमाणं पूर्वं यासां ता मानपूर्वकास्तादृशाः समस्तगिरः समस्तवचांसि यस्य तस्य । अस्य पृथुलं महच्चेतो यस्य तस्य श्रीपूर्णप्रज्ञाचार्यस्येत्यर्थः । केवलं सकलाः श्रुतिविद्या वेदविद्या न श्रद्दधुः । अयं केवलं सकलवेदविद्याचतुर इत्येव न श्रद्दधुर् अपि तु, आगतं प्राप्तं न भवतीत्यनागतमेष्यत्, गतमतीतं, तयोः प्रतिपत्तिं ज्ञानमपि श्रद्दधुर् विशश्वसुः ॥ २० ॥

मन्दोपाकारिणी

केवलमिति ॥ एते द्विजाः । मानपूर्वकसमस्तगिरः मानं प्रमाणं पूर्वकं मूलं यासां ता मानपूर्वकाः समस्ता गिरः वाचः यस्य स तथोक्तस् तस्य । प्रमाणोदाहरणपूर्वकं सर्ववक्तुरिति भावः । पृथुलचेतसः पृथुलं विशालं चेतः हृदयं यस्य सः पृथुलचेतास् तस्य । ‘विशालं पृथुलं महत्’ इत्यमरः । अस्य मध्वाचार्यस्य सकलाः कलाभिर् विद्याभिः सहिताः श्रुतिविद्या वेदविद्याः केवलं वेदविद्या एव इत्यर्थः । न श्रद्दधुर् न विश्वासं प्रापुः । अयं मध्वः सकलवेदविद्याप्रवीण इत्येवं न निश्चयं चक्रुः किन्तु अनागतगतप्रति-पत्तिमपि अनागतं भविष्यं गतम् अतीतं तयोः प्रतिपत्तिं ज्ञानमपि श्रद्दधुः । न केवलं सर्वविद्याप्रवीणो ऽपि तु अतीतानागतज्ञानी अपि इति निश्चितवन्त इति भावः ‘श्रत् पूर्वकाड् डुधाञ् धारणपोषणयोर् इत्यतो लिट् परस्मैपदम्’ ॥ २० ॥

विश्वास-प्रस्तुतिः - २१

यद्यदेव सपदि प्रकृतं स्यात् तत्तदेष यदवेदखिलञ्च ।
सर्वदा सदसि सर्वबुधानां सर्वविद्यतिरिति प्रथितोऽभूत्॥ २१ ॥

मूलम् - २१

यद्यदेव सपदि प्रकृतं स्यात् तत्तदेष यदवेदखिलञ्च ।
सर्वदा सदसि सर्वबुधानां सर्वविद्यतिरिति प्रथितोऽभूत्॥ २१ ॥

पदार्थदीपिकोद्बोधिका

यदिति ॥ यद्यस्मात्सपदि तत्तत्काले सर्वे ये बुधा ज्ञानिनस्तेषां सदसि सर्वदा यद्यत्प्रकृतं प्रस्तुतं स्याद् यत्र यत्र सदसि यच्छतिपुराणादिकं प्रस्तुतं भवेत् तत्तदखिलञ्चैष श्रीमध्वाचार्योऽवेज् ज्ञातवान् । वा गतिगन्धनयोर्लङ् । तस्मात् सर्वं वेत्तीति सर्ववित्, स चासौ यतिश्च सर्वविद्यतिरिति प्रथितः प्रसिद्धोऽभूत् ॥ २१ ॥

मन्दोपाकारिणी

यद्यदिति ॥ सर्वदा सर्वकाले । सदसि सर्वसभायामिति यावत् । सपदि तत्क्षणे ‘सद्यः सपदि तत्क्षणः’ इत्यमरः । यद्यदेव यद्यत् श्रुतिपुराणादिकं प्रकृतं प्रसक्तं स्यात् तत्तदखिलञ्च समस्तमपि एषः मध्वाचार्यः यद् यस्माद् अवेज् ज्ञातवान् ‘विद ज्ञान इत्यस्माद् लङ् परस्मैपदम् अवेद् अवित्ताम् अविदुः’ तस्माद् अयं मध्वः सर्वबुधानां सर्वेषां पण्डितानां सदसि सभायां सर्ववित् सर्वं वेत्तीति सर्ववित् सर्वज्ञः यतिः सन्यासीति प्रथितः प्रख्यातो ऽभूत् ॥ २१ ॥

विश्वास-प्रस्तुतिः - २२

अप्रयातमपि देशमशेषं व्यानशे सुजनकैरवबन्धुः ।
पूर्णदृक् प्रततया निजकीर्त्या पूर्णचन्द्र इव चन्द्रिकयालम्॥ २२ ॥

मूलम् - २२

अप्रयातमपि देशमशेषं व्यानशे सुजनकैरवबन्धुः ।
पूर्णदृक् प्रततया निजकीर्त्या पूर्णचन्द्र इव चन्द्रिकयालम्॥ २२ ॥

पदार्थदीपिकोद्बोधिका

अप्रयातमिति ॥ सुजना एव कैरवाणि कुमुदानि तेषां बन्धुः । पूर्णा दृक् ज्ञानं यस्य स श्रीमध्वाचार्यः । प्रततया व्याप्तया निजकीर्त्याऽऽत्मीय-कीर्त्या, अप्रयातमपि स्वेनाप्रविष्टमप्यशेषं देशं कैरवबन्धुः पूर्णचन्द्रश्चन्द्रिकयेवालं सम्यग्व्यानशे व्याप्नोति स्म ॥ २२ ॥

मन्दोपाकारिणी

अप्रयातमिति ॥ सुजनकैरवबन्धुः सुजना एव कैरवाणि कुमुदानि सुजनकैरवाणि ‘सिते कुमुदकैरवे’ इत्यमरस् तेषां बन्धुर् हर्षकः । पूर्णदृक् पूर्णा दृक् ज्ञानं यस्य स तथोक्तः श्रीमध्वाचार्यः । ‘दृग्ज्ञाने ज्ञातरि’ इत्यमरः । प्रततया प्रकर्षेण व्याप्तया निजकीर्त्या निजा च सा कीर्तिश्च निजकीर्तिस् तया । अप्रयातमपि स्वेन अगतमपि अशेषं समस्तं देशम् अलम् अतिशयेन व्यानशे व्याप्तवान् । ‘विपूर्वाद् अश व्याप्तौ सङ्घाते च इत्यतो लिडात्मनेपदम् आनशे आनशाते आनशिरे’ । कः कया इव य पूर्णचन्द्रः पूर्णः षोडशकलापरिपूर्णश् चन्द्रश् चन्द्रिकयेव ज्योत्स्नयेव मध्वाचार्यकीर्तिः सर्वदिक्षु प्रससार

इति भावः ॥ २२ ॥

विश्वास-प्रस्तुतिः - २३

सुन्दरेषु सुरमन्दिरवृन्देष्विन्दिरारमणवन्दनकृत्यम् ।
आचरन्न सुचिरात्सुविचारो रौप्यपीठपतिमाप मुकुन्दम् ॥ २३ ॥

मूलम् - २३

सुन्दरेषु सुरमन्दिरवृन्देष्विन्दिरारमणवन्दनकृत्यम् ।
आचरन्न सुचिरात्सुविचारो रौप्यपीठपतिमाप मुकुन्दम् ॥ २३ ॥

पदार्थदीपिकोद्बोधिका

सुन्दरेष्विति ॥ – सुन्दरेषु शोभनेषु सुराणां यानि मन्दिराणि तेषां वृन्देषु समूहेष्विन्दिरारमणस्य श्रीहरेर्यद्वन्दनं तदेव कृत्यं कार्यमाचरन्, शैवादिनानामरालयेष्वपि केवलमिन्दिरापतिवन्दनाख्यं स्वकर्तव्यमाचरन्नित्यर्थः । शोभनो विचारस्तत्त्वविमर्शो यस्य स सुविचारः श्रीमध्वाचार्यः । न सुचिरान् नातिचिरेण । न समासोऽयम् । रूप्यपीठपतिं मुकुन्दमाप ॥ २३ ॥

मन्दोपाकारिणी

सुन्दरेष्विति ॥ सुविचारः शोभनविचार आश्रमोचितसदाचारः यस्य स तथोक्तः श्रीमध्वाचार्यः । सुन्दरेषु मनोहरेषु । सुरमन्दिरवृन्देषु सुराणां मन्दिराणाम् आलयानां देवालयानाम् इत्यर्थः वृन्देषु समूहेषु । इन्दिरारमणवन्दनकृत्यम् इन्दिराया लक्ष्म्या रमणस्य पत्युर् वन्दनाख्यं कृत्यं कर्तव्यम् आचरन् कुर्वन् सन् शैवादिनानादेवालयेषु विद्यमानशिवादिप्रतिमासु केवलम् अन्तर्यामिश्रीनारायणवन्दनमेव कुर्वन्निति भावः । असुचिराद् अतिशीघ्रं रौप्यपीठपतिं रजतपीठपुरवासिनं मुकुन्दम् अनन्तेश्वरम् आप

प्राप्तवान् । पूर्वोक्तप्रकारेण दक्षिणदिशस्थसर्वतीर्थक्षेत्रयात्रां कृत्वा पुनः रजतपीठपुरं

प्राप इति भावः ॥ २३ ॥

विश्वास-प्रस्तुतिः - २४

भूसुरप्रवरबुद्धिसमृद्धिव्यक्तयुक्तवपुषं रुचिराङ्गीम् ।
सूत्रदीप्तमणिमालिकयाऽलं भूषितां भुवनभूषणभूताम् ॥ २४ ॥

मूलम् - २४

भूसुरप्रवरबुद्धिसमृद्धिव्यक्तयुक्तवपुषं रुचिराङ्गीम् ।
सूत्रदीप्तमणिमालिकयाऽलं भूषितां भुवनभूषणभूताम् ॥ २४ ॥

भावप्रकाशिका

भूसुरप्रवराः श्रुतिद्रष्टारो मुनयो याजोपयाजकौ च । अङ्गानि शिक्षादिनि करचरणादिनि च । सूत्राण्येव दीप्तमणयः सूत्रे गुणे दीप्तमणयः ॥ २४ ॥

पदार्थदीपिकोद्बोधिका

भूसुरेति ॥ – करुणयाऽब्धिरिव करुणाब्धिः । पुष्टा पूर्णा बुद्धिर्यस्य स पूर्णप्रज्ञ इत्यर्थः । स स्वयं श्रुतिततिं वेदसमूहम् । वेदेर्जाता वेदिजा द्रौपदी तामिव दृष्ट्वा दुष्टानां मायिप्रभृतिवादिनां पक्षाणां सिद्धान्तानां दमने निराकरणे स्थिरां सन्धां प्रतिज्ञां ‘सन्धा सन्धौ प्रतिज्ञायां’ इति वैजयन्ती पुरा भरताग्रय इव भीम इवाकरोत् । यथा भीमः सर्ववेदाभिमानिनीं द्रौपदीं, केशाकर्षणादिना दुःशासनादिभिः क्लिष्टां दृष्ट्वा तद्वधे प्रतिज्ञामकरोत् तथा श्रीमध्वाचार्योऽप्यन्यवादिभिरन्यथाव्याख्यानादिना क्लिष्टां वेदततिं दृष्ट्वा परसिद्धान्तनिराकरणे प्रतिज्ञामकरोदिति भावः । अन्त्यकुलकमेतत् । तल्लक्षणं— ‘द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैर्विशेषकम् । कलापकं चतुर्भिः स्यात्तदूर्ध्वं कुलकं स्मृतं’ इति कथंभूतां श्रुतिततिमित्यत आह- भूसुरेति ॥ भूसुरेषु विप्रेषु प्रवराः श्रेष्ठा वसिष्ठवामदेवादि-श्रुतिद्रष्टारो मुनयस्तेषां या बुद्धिसमृद्धिस्तस्यां व्यक्तमभिव्यक्तं युक्तवपुरुचितस्वरूपं यस्यास्ताम् । द्रौपदीपक्षे तु, भूसुरप्रवरौ याजोपयाजाख्यौ द्रुपदपुरोहितौ तयोर्या बुद्धिसमृद्धिर् बुद्ध्याधिक्यम् । द्रुपदपत्न््नया प्राश्यहविषस्तदनागमननिमित्तेन वह्नौ होमसमये भगवदनु-सन्धानविशेषपूर्वकहोम इति यावत् तया व्यक्तम् अभिव्यक्तं युक्तवपुर् युक्तस्वरूपं यस्यास्तां, रुचिराणि मनोहरण्यङ्गानि शिक्षाद्यङ्गानि, हस्तपादादीनि च यस्यास्तां, सूत्राण्येव ब्रह्मसूत्राण्येव दीप्तमणयः । अर्थान्तरे, सूत्रेषु तन्तुषु दीप्तमणयः शोभमानमणयस्तेषां मालिकयाऽलं सम्यग्भूषितां, भुवनभूषणभूतां भुवनालङ्कारभूतां श्रुतिततिं वेदिजां दृष्ट्वा भीमसेन इव श्रीमध्वाचार्यो दुष्टपक्षदमनस्थिरसन्धामकरोदित्यन्वयः ॥ २४ ॥

मन्दोपाकारिणी

भूसुरेति ॥ अन्त्यक्रियाकुलकमेतत् । एतदादिश्लोकानां वेदिजामित्यनेन श्लोकेन अन्वयः बोद्धव्यः । सोऽन्वयस्तु इत्थं करुणाब्धिः करुणया कारुण्येन अब्धिः समुद्रः । पुष्टबुद्धिः पुष्टा पूर्णा बुद्धिर् अन्तःकरणं यस्य स तथोक्तः श्रीपूर्णप्रज्ञाचार्यः । दुष्टपक्षदमनस्थिरसन्धां दुष्टानां मायिनां पक्षाः सिद्धान्तास् तेषां दमने निराकरणे स्थिरा दृढा च सन्धा प्रतिज्ञा च ताम् अकरोत् । ‘सन्धा प्रतिज्ञा मर्यादा’ इत्यमरः । किं कृत्वा श्रुतिततिं श्रुतीनां वेदानां ततिं समूहं दृष्ट्वा, क इव, पुरा पूर्वजन्मनि वेदिजां वेद्यां जाता वेदिजा द्रौपदी तां दृष्ट्वा भरताग्रयः भरतानां भरतकुलोत्पन्नानां राज्ञाम् अग्रयः श्रेष्ठः स्वयं स्वस्वरूपः स इव भीमसेन इव । पूर्वं भीमः दुर्योधनादिभिर् आकुलीकृतां द्रौपदीं दृष्ट्वा दुष्टपक्षदमनस्थिरसन्धां दुष्टानां दुर्योधनादीनां पक्षाणां सहायभूतानां राज्ञां दमने दहने स्थिरां दृढां सन्धां प्रतिज्ञां ‘अहं दुर्योधनादीन् हनिष्ये’ इति प्रतिज्ञां यथा चकार तथा अयं मध्वाचार्यः मायिभिर् आकुलीकृतां श्रुतिततिं दृष्ट्वा ‘मायिसिद्धान्तं निराकरिष्ये’ इति दृढप्रतिज्ञां चकार इति भावः । इतः परं भूसुरेत्यादिविशेषणानि उभयत्र योज्यानि । कथंभूतां श्रुतिततिं, भूसुरप्रवरबुद्धिसमृद्धिव्यक्तयुक्तवपुषं भूसुराणां प्रवरा भूसुरप्रवरास् तेषां वेदद्रष्ट्रणाम् ऋषीणां बुद्धिसमृद्धौ बुद्धीनाम् अन्तःकरणानां समृद्धौ आधिक्ये सति पक्वेषु अन्तःकरणेषु इति यावत् । व्यक्तम् अभिव्यक्तं युक्तम् उचितं वपुः स्वरूपं यस्याः सा ताम् इत्यर्थः । पुनः कथंभूतां, रुचिराङ्गीं रुचिराणि मनोहराणि श्रुतिव्याख्यानोप-युक्तानीति यावद् अङ्गानि शिक्षाकल्पादिषडङ्गानि यस्याः सा रुचिराङ्गी ताम् । पुनः किंभूतां, सूत्रदीप्तमणिमालिकया अलं भूषितां दीप्ताः प्रकाशमानाश्च ते मणयः रत्नानि च दीप्तमणयः सूत्राण्येव ब्रह्मसूत्राण्येव दीप्तमाणयस् तेषां मालिकया मालया समूहेन इत्यर्थः । अलं सम्यक् भूषितां व्याख्यायमानां भुवनभूषणभूतां भुवनानां वेदाधिकारिणां भूषणभूतां भूषणस्थानीयाम् । ‘विप्राणां भूषणं विद्या’ इत्युक्तेः । द्रोपदीपक्षे तु कथंभूतां वेदिजां भूसुरप्रवरबुद्धिसमृद्धिव्यक्तयुक्तवपुषं भूसुरप्रवरयोर् ब्राह्मणश्रेष्ठयोर् याजोपयाजनामकयोर् बुद्धेः समृद्ध्या आधिक्येन पत्न््नया प्राशनयोग्यहविषो ऽग्नौ होमेनेति भावः । व्यक्तं प्रादुर्भूतं युक्तं मनुष्ययोग्यं वपुः शरीरं यस्याः सा तथोक्ता ताम् । रुचिराङ्गीं रुचिराणि सुन्दराणि अङ्गानि हस्ताद्यवयवानि यस्याः सा तथोक्ता ताम् । ‘सुन्दरं रुचिरं’ इत्यमरः । ‘अङ्गं प्रतीकोऽवयवः’ इति च । सूत्रदीप्तमणिमालिकया सूत्रेषु तन्तुषु दीप्तानां प्रकाशमानानां नवरत्नानां मालिकया अलं सम्यक् भूषिताम् अलङ्कृतां भुवनभूषणभूतां भुवनस्य त्रिभुवनस्य भूषणभूताम् अलङ्कारस्थानीयाम् ॥ २४ ॥

विश्वास-प्रस्तुतिः - २५

पादसुन्दरपदक्रमभावैर्भासितां प्रकटवर्णगुणाढ्याम् ।
भारतोत्तमभृतामनुरूपाच्छादनां समधिकस्वरशोभाम् ॥ २५ ॥

मूलम् - २५

पादसुन्दरपदक्रमभावैर्भासितां प्रकटवर्णगुणाढ्याम् ।
भारतोत्तमभृतामनुरूपाच्छादनां समधिकस्वरशोभाम् ॥ २५ ॥

पदार्थदीपिकोद्बोधिका

पादेति – ॥ पादा ऋचाञ्चतुर्थांशाः, सुन्दरपदानि शोभनपदानि, क्रमाश्च, भावास्तदभिप्रायास्तैर्भासिताम् । अर्थान्तरे, पादाभ्यां सुन्दरं यथा भवति तथा पदक्रमो गमनं, भावा विलासास् तैर्भासितां शोभिताम् । प्रकटाः प्रसिद्धा ये वर्णगुणाः स्पृष्टतादयस्तैराढ्यां पूर्णाम् । अत्र वर्णगुणाश्च ‘स्पृष्टत्वादयः । स्पृष्टत्वमीषस्पृष्टत्वं संवृतत्वं तथैव च विवृतत्वं च । वर्णानामन्तःकारणमुच्यत’ इति वचनात् । इतरत्र, प्रकटाः प्रसिद्धाः, वर्णः कृष्णवर्णः गुणाः श्रीहरिभक्तयादयस्तैराढ्यां, भारतञ्च तदुत्तमञ्च, उत्तम-शास्त्रञ्चेति भारतोत्तमं भारताख्योत्तमशास्त्रमिति यावत् । तेन भृतां बृंहितां वर्णितार्थामिति यावत् । उपलक्षणमेतद् वेदव्याख्यानरूपैर्भारतपुराणैर्महार्थतया व्याख्यातामिति भावः । तदुक्तं– ‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रचलिष्यति’ इति । इतरत्र, भारतोत्तमैर्भारतकुलोत्पन्नश्रेष्ठैः पाण्डवैर्भृतामूढां, अनुरूपमाच्छादनं शूद्रादिषु गूहनं यस्यास्तामनुरूपवसनाञ्च । समधिका स्वरशोभा उदात्तादिस्वराणां शोभा, ध्वनिशोभा च यस्यास्तां दृष्ट्वेत्यादिपूर्ववत् ॥ २५ ॥

मन्दोपाकारिणी

पादेति ॥ पुनः कथंभूतां श्रुतिततिम् । पादसुन्दरपदक्रमभावैः सुन्दराणि श्राव्याणि च तानि पदानि । पादाश्च सुन्दरपदानि च क्रमाश्च भावा अभिप्रायाश्च पादसुन्दरपदक्रमभावास् तैर् भासितां शोभमानाम् । प्रकटवर्णगुणाढ्यां वर्णानाम् अक्षराणां गुणाः स्पृष्टत्वादयः प्रकटाः स्पृष्टाश्च ते वर्णगुणाश्च तैर् आढ््यां सम्पन्नां ‘स्पृष्टत्वमीषस्पृष्टत्वं संवृतत्वं तथैव च । विवृतत्वं च वर्णानामंतःकारणमुच्यते’ इति वचनात् । भारतोत्तमभृतां भारतं च उत्तमं सात्विकं पुराणं च ताभ्यां भृतां पोषितां व्याख्यातामिति यावत् । ‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रचलिष्यति’ इत्युक्तेः । अनुरूपाच्छादनाम् अनुरूपम् उचितम् आच्छादनं वेदानधिकारिशूद्रादिषु गूहनं यस्याः सा तथोक्ता ताम् । समधिकस्वरशोभां समधिका अतिशयेन उत्तमा स्वराणाम् उदात्तादिस्वराणां शोभा विकासो यस्याः सा तथोक्ता ताम् । द्रौपदीपक्षे तु पादसुन्दरपदक्रमभावैः पदयोः क्रमः न्यासः सुन्दरश्चासौ पदक्रमश्च सुन्दरपदक्रमः पादाभ्याम् अङ्घ्रिभ्यां सुन्दरपदक्रमः पाद-सुन्दरपदक्रमः भावा मनोहरगमनविलासाः पादसुन्दरपदक्रमाश्च भावाश्च पादसुन्दरपद-क्रमभावास् तैर् भासितां शोभिताम् । प्रकटवर्णगुणाढ््यां प्रकटेन वर्णेन कृष्णवर्णेन गुणैर् विष्णुभक्त्यादिगुणैर् आढ््यां संपन्नां ‘वर्णो द्विजादौ शुक्लादौ यशोगुणकथासु च । अक्षरे गणभेदे च स्वर्णं यज्ञे विलेपते’ इति विश्वः । भारतोत्तमभृतां भारतानां भरतकुलोत्पन्नानां राज्ञाम् उत्तमैः श्रेष्ठैः पाण्डवैर् धर्मादिभिर् भृताम् ऊढां पाणिगृहीतीम् । अनुरूपाच्छादनाम् अनुरूपं योग्यम् आच्छादनं वस्त्रं यस्याः सा तथोक्ता ताम् । ‘वस्त्रमाच्छादनं वासः’ इत्यमरः । समधिकस्वरशोभां समधिकेन अत्युत्तमेन श्राव्येण स्वरेण ध्वनिना शोभा यस्या सा तथोक्ता ताम् ॥ २५ ॥

विश्वास-प्रस्तुतिः - २६

राजसूयमुखसन्मखवृत्तां वासुदेवगुणनिष्ठितभावाम् ।
सर्वधर्मपरिशिक्षणदक्षां वन्दितां जनतया जननीवत् ॥ २६ ॥

मूलम् - २६

राजसूयमुखसन्मखवृत्तां वासुदेवगुणनिष्ठितभावाम् ।
सर्वधर्मपरिशिक्षणदक्षां वन्दितां जनतया जननीवत् ॥ २६ ॥

भावप्रकाशिका

राजसूयादिषु वृत्तां मन्त्रत्वेन यज्ञपत्नीत्वेन च ॥ २६ ॥

पदार्थदीपिकोद्बोधिका

राजसूयेति ॥ राजसूयस्तदाख्ययज्ञो मुखं प्रधानो येषां तादृशा ये सन्मखाः सद्यज्ञास्तेषु वृत्तां मन्त्रत्वेन प्रवृत्ताम् । वासुदेवस्य ये गुणाश्शुभधर्मास्तेषु निष्ठितः स्थिरो भावोऽभिप्रायो यस्यास्ताम् । ‘अथ कस्मादुच्यते ब्रह्मेति ‘बृहन्तो ह्यस्मिन् गुणा’ इत्यादिना भगवतोऽनन्तगुणप्रतिपादनपरामिति भावः । इतरत्र, वासुदेवगुणेषु निष्ठितभावः स्थिरचित्तं यस्यास्ताम् । सर्वेषां धर्माणां परिशिक्षणे शिक्षायां दक्षां चतुराम् । ‘प्रातरुत्थायाथ सन्ध्यामुपासीत नमेद्देवाञ्जुहुयादग्निं वेदानावर्तयीत नान्यत्किञ्चिदाचरेन्न भृशं वदेत्’ इत्यादिना सर्वधर्मपरिशिक्षणचतुरामित्यर्थः । जनानां समूहो जनता तया । जननी-वन्मातृवद्वन्दितां दृष्ट्वेत्यादि पूर्ववत् ॥ २६ ॥

मन्दोपाकारिणी

राजसूयेति । पुनः कीदृशाम् । राजसूयमुखसन्मखवृत्तां राजसूयः राजसूययज्ञः स एव मुखम् आदिर् येषां ते राजसूयमुखाः । सतां सज्जनानां मखा यज्ञाः सन्मखाः ‘यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः’ इत्यमरः । राजसूयमुखाश्च ते सन्मखाश्च तेषु वृत्तां प्रवृत्तां वेदैः करणैर् यज्ञस्य क्रियमाणत्वादिति भावः । वासुदेवगुण-निष्ठितभावां वासुदेवस्य नारायणस्य गुणे सर्वोत्कर्षे निष्ठितः नितरां स्थितः भावो ऽभिप्रायः यस्याः सा तां विष्णोरुत्कर्षप्रतिपादिकाम् इति यावत् ‘सर्वोत्कर्षे देवदेवस्य विष्णोर् महातात्पर्येणैव च अन्यत्र सत्यम् अवान्तरं तत्परत्वं तदन्यत् सर्वागमानां पुरुषार्थस् ततोऽतः’ इत्यादिश्रुतेः । सर्वधर्मपरिशिक्षणदक्षां सर्वे च ते धर्माश्च सर्वधर्माः सर्वधर्माणां सन्ध्योपासनादिधर्माणां परिशिक्षणे ज्ञापनविषये दक्षां चतुराम् । ‘प्रातरुत्थाय सन्ध्यामुपा-सीत नमेद् देवान् जुहुयादग्निं वेदानावर्तयेन् नान्यत्किञ्चिदाचरेन् न भृशं वदेत्’ इत्यादिना प्रतिपादनादिति भावः । जनतया जनानां समूहः जनता तया जनतया जनसमूहेन जननीवद् वन्दिताम् । अन्यत्र उक्त एव अर्थः ॥ २६ ॥

विश्वास-प्रस्तुतिः - २७

मौलिसंग्रहविकर्षणदूनां मायिना सदसि दुष्टजनेन ।
न्यायमार्गमपहाय महान्तं स्वेश्वरत्वमपि साधयताऽलम् ॥ २७ ॥

मूलम् - २७

मौलिसंग्रहविकर्षणदूनां मायिना सदसि दुष्टजनेन ।
न्यायमार्गमपहाय महान्तं स्वेश्वरत्वमपि साधयताऽलम् ॥ २७ ॥

भावप्रकाशिका

मौलिसङ्ग्रहणम् उपनिषद्ग्रहणं केशग्रहणं च । मायी मायावादी व्याजी दुःशासनादिश्च । स्वेश्वरत्वं ब्रह्मत्वं साम्राज्यभोक्तृत्वं च ॥ २७ ॥

पदार्थदीपिकोद्बोधिका

मौलीति ॥ महान्तं, न्यायानां भगवत एव सर्वेश्वरत्वादि-प्रतिपादकब्रह्ममीमांसाशास्त्रसिद्धयुक्तीनां मार्गं पन्थानम् अपहाय हित्वा अलं सम्यक् स्वेश्वरत्वं स्वस्य ब्रह्मत्वमपि साधयता । पक्षान्तरे, पाण्डवानामर्धराज्यदानरूपन्याय-मार्गमपहाय स्वस्यैव साम्राज्यभोक्तृत्वलक्षणमीश्वरत्वं साधयता दुष्टजनेन दुर्जनेन मायिना मायावादिना सदसि विद्वत्सभायाम् । मौलेर् वेदशिर उपनिषदः सङ्ग्रहेण प्रमाणत्वेन परिग्रहेण यद्विकर्षणं ‘एकमेवाद्वितीयमि’त्यादिवाक्यजनितभ्रान्त्याऽशेषोपनिषदां बलादद्वैत-परतया योजनं तेन दूनां दुःखिताम् । अन्यत्र, माया कैतवमस्यास्तीति तेन । ‘व्रीह्यादित्वादिनिः’ । दुष्टजनेन दुःशासनेन सदसि कुरुसभायां मौलेः केशपाशस्य सङ्ग्रहेण सम्यग्ग्रहणेन विकर्षणेनाकर्षणेन दूनां दुःखितां दृष्ट्वेति पूर्ववत् ॥ २७ ॥

मन्दोपाकारिणी

मौलीति ॥ – पुनः कथंभूतां, सदसि सभायां दुष्टजनेन दुष्टश्चासौ जनश्च दुष्टजनस् तेन दुष्टजनेन मायिना मायावादिना । मौलिसङ्ग्रहविकर्षणदूनां मौलीनां वेदशिरोभूतानाम् उपनिषदां सङ्ग्रहेण ग्रहणेन विकर्षणम् ऐक्यादिपरतया योजनं तेन दूनां सन्तापिताम् । कथंभूतेन मायिना, महान्तं सर्वसंमतं न्यायमार्गं भगवत एव सर्वेश्वरत्व-प्रतिपादकब्रह्ममीमांसाशास्त्रसिद्धयुक्तीनां मार्गे विचारम् । ‘मृग अन्वेषण इति धातोः’ । अपहाय परित्यज्य । अलं स्वेश्वरत्वं स्वस्यैव ईश्वरत्वं ब्रह्मत्वं साधयता प्रतिपादयता । द्रौपदीपक्षे तु न्यायमार्गं पाण्डवानाम् अर्धराज्यदानाख्यधर्ममार्गम् अपहाय स्वेश्वरत्वं स्वस्यैव ईश्वरत्वं साम्राज्यत्वं साधयता वदता मायिना कपटवता दुष्टजनेन दुःशासनेन सदसि कुरुसभायां मौलिसङ्ग्रहविकर्षणदूनां मौलौ केशपाशे सङ्ग्रहेण आकर्षणेन दूनां दुःखिताम् । ‘मौलिः संयतकेशेषु चूडायां मुकुटे द्वयोः’ इति नानार्थरत्नमाला ॥ २७ ॥

विश्वास-प्रस्तुतिः - २८

सज्जनैः कतिपयैरतिदीनैश्चालितैः कलिबलाच्छुभमार्गात् ।
अप्युपेक्षितविकर्षणदुःखां सातिशोकमपि कैश्चन दृष्टाम् ॥ २८ ॥

मूलम् - २८

सज्जनैः कतिपयैरतिदीनैश्चालितैः कलिबलाच्छुभमार्गात् ।
अप्युपेक्षितविकर्षणदुःखां सातिशोकमपि कैश्चन दृष्टाम् ॥ २८ ॥

भावप्रकाशिका

सज्जनैर् भीष्मादिभिश्च । सातिशोकमपि कैश्चन विदुरेण धर्मसाक्षि-भिर्देवैश्च ॥ २८ ॥

पदार्थदीपिकोद्बोधिका

सज्जनैरिति ॥ कलिबलात् कलिसामर्थ्यात् शुभमार्गात् शुद्धमार्गाच् चालितैर् अत एव अतिदीनैर् अतिदुर्बलैः कतिपयैः कैश्चित् सज्जनैरप्युपेक्षितं यद्विकर्षणदुःखं यस्यास्तां सज्जना अपि मायिनमुपेक्षन्ते, न निराकुर्वन्त्यतोऽतिदुःखितामिति भावः । अन्यत्र, कतिपयैः सज्जनैर्भीष्मादिभिरुपेक्षितं विकर्षणदुःखं यस्यास्ताम् । एतच्च ‘इत्युक्ता अपि भीष्माद्याः कल्यावेशेन मोहिताः । पृच्छ धर्मजमित्युक्त्वा तूष्णीमेव बभूवुः’ इति वचनात्सिद्धम् । कैश्चन सज्जनैर् ऋष्यादिभिर् विदुरादिभिश्च । अतिशोकेन सहितं यथा भवति तथा सातिशोकं शोकपूर्वकं दृष्टामित्यर्थः । इतरत्र, धर्मसाक्षिभिरादित्यादिभिश्च दृष्टां श्रुतिततिं वेदिजामिव दृष्ट्वेत्यादि पूर्ववत् ॥ २८ ॥

मन्दोपाकारिणी

सज्जनैरिति ॥ – पुनः कथंभूतां श्रुतिततिं, कलिबलात् कलिनामकदैत्यस्य बलात् सामर्थ्यात् कल्यावेशादित्यर्थः । शुभमार्गाच् चालितैर् भ्रंशितैर् धर्ममार्गं त्यक्तवद्भिरित्यर्थः । अतिदीनैर् अतिदुर्बलैः कतिपयैः कैश्चन सज्जनैरपि भीष्म-द्रोणादिभिः । उपेक्षितविकर्षणदुःखाम् उपेक्षितेन विकर्षणेन दुःखं यस्याः सा तथोक्ता तां कल्यावेशेन केषुचित् सज्जनेषु मायिसिद्धान्तनिराकरणे उदासीनेषु सत्सु सज्जना अपि मायावादिन उपेक्षन्ते न केऽपि तत्सिद्धान्तं निराकुर्वन्तीति दुःखितामिति भावः । कैश्चन सज्जनैर् ऋष्यादिभिः । सातिशोकम् अतिशोकेन सहितं यथा भवति तथा दृष्टाम् । अयं मायी श्रुतिसिद्धमपि भगवन्महिमानम् अपलापयतीति तेषां शोकः । द्रौपदीपक्षे तु कलिबलात् शुभमार्गाच् चालितैर् अतिदीनैः । कतिपयैः सज्जनैर् भीष्मद्रोणादिभिः । उपेक्षितविकर्षणदुःखां भीष्माद्या अपि मदाकर्षणकारिणं दुःशासनम् उपेक्षन्त इति दुःखिताम् एतच्च ‘इत्युक्ता अपि भीष्माद्याः कल्यावेशेन मोहिताः । पृच्छ धर्मजमित्युक्त्वा तूष्णीमेव बभूवुः’ इति सिद्धम् । कैश्चन सज्जनैर् विदुरादिभिर् विदुराख्यैर्वा कल्यावेशरहितत्वादेव बहुवचनम् अथवा विदुरेण । कर्मसाक्षिभिः सूर्यादिभिश्च सातिशोकं दृष्टाम् ॥ २८ ॥

विश्वास-प्रस्तुतिः - २९

वासुदेव धरणीधर नाथेत्युच्चकैरपि मुहुः प्रवदन्तीम् ।
पूर्णषड्गुणमजं गतदोषं बिभ्रतीं हृदि विविक्तमशेषात् ॥ २९ ॥

मूलम् - २९

वासुदेव धरणीधर नाथेत्युच्चकैरपि मुहुः प्रवदन्तीम् ।
पूर्णषड्गुणमजं गतदोषं बिभ्रतीं हृदि विविक्तमशेषात् ॥ २९ ॥

भावप्रकाशिका

‘वासुदेवो वा इदमग्र आसीद् दाधर्थ पृथिवीमभितो मयूखैः’ । ‘आत्मेत्येवोपासीत’ इत्यादि । ‘वासुदेव धरणीधर चक्रपाणे’ इत्यादि च । हृदि स्वाभिप्राये मनसि च । ‘ततो भूय इव ते तमो य उ विद्यायां रताः’ । ‘अथ हैनमुपाक्रोशत् सत्यं भिदा सत्यं भिदा सत्यं भिदा । मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः’ इत्यादिना ॥ २९ ॥

पदार्थदीपिकोद्बोधिका

वासुदेव इति ॥ वासुदेव धरणीधर नाथ इति मुहुः पुनः पुनरुच्चकैरतितरां प्रवदन्तीम् । तथा हि ‘वासुदेवो वा इदमग्र आसीदि’त्यत्र वासुदेवेति । ‘दाधर्थपृथिवीमभितो मयूखैः’ इत्यत्र धरणीधरेति । ‘आत्मेत्येवोपासीत’ इत्यत्र नाथेति च वदति हि श्रुतिः । पक्षान्तरे, वासुदेवेत्यादिभगवन्नामानि मुहुरुच्चकैरभिदधानाम् । हृदि स्वाभिप्राये, पूर्णाः सद्गुणा यस्य तम् । गता दोषा यस्मात्तम् । अशेषात्समस्तजगतो विविक्तं विलक्षणमजं जन्मादिरहितं भगवन्तं श्रीहरिं बिभ्रतीम् । एवंभूतभगवत्स्वरूपप्रति-पादनपरामिति भावः । इतरत्र, हृदि मनसि पूर्णसद्गुणं गतदोषमशेषाद्विविक्तमजं भगवन्तं बिभ्रतीं ध्यायन्तीं दृष्ट्वेत्यादि पूर्ववत् ॥ २९ ॥

मन्दोपाकारिणी

वासुदेवेति ॥ वासुदेव धरणीधर नाथ इत्यादिकं नाम । मुहुर् भृशम् । उच्चकैः स्पष्टं यथा भवति तथा प्रवदन्तीमपि । सा च श्रुतिः ‘वासुदेवो वा इदमग्र आसीत्’ इत्यादिका । पूर्णषड्गुणं षट् च ते गुणा ऐश्वर्यादयश्च पूर्णा व्याप्ताः षड्गुणा यस्य स तथोक्तस् तम् । गतदोषं गता उज्खिता दोषा यस्मात् स तथोक्तस् तम् । अशेषाच् चेतनाचेतनात्मकसमस्तजगतः विविक्तं विलक्षणम् अत्यन्तभिन्नम् अजम् उत्पत्तिशून्यं भगवन्तं हृदि स्वाभिप्राये बिभ्रतीम् एवंभूतभगवत्स्वरूपप्रतिपादने तात्पर्यवतीम् इति भावः । द्रौपदीपक्षे तु, वासुदेव धरणीधर, नाथ, चक्रपाणे, नरसिंहेत्यादिभगवन्नामानि । मुहुः पुनः पुन उच्चकैर् उच्चध्वनिना प्रवदन्तीम् उच्चारयन्तीम् । अशेषाद् विविक्तं पूर्णषड्गुणं गतदोषम् । अजम् उत्पत्तिशून्यं नारायणम् । हृदि मनसि निधाय । बिभ्रतीं ध्यायन्तीम् ॥ २९ ॥

विश्वास-प्रस्तुतिः - ३०

वार्यतां बुधजनैर्ननु हा हा नैष धर्म इति चाभिदधानाम् ।
कृष्णलालिततमामनवद्यामप्यनन्यशरणां शरणोत्काम् ॥ ३० ॥

मूलम् - ३०

वार्यतां बुधजनैर्ननु हा हा नैष धर्म इति चाभिदधानाम् ।
कृष्णलालिततमामनवद्यामप्यनन्यशरणां शरणोत्काम् ॥ ३० ॥

भावप्रकाशिका

नैष धर्म इति च । एष ऐक्यवादः सदसि केशापकर्षणादिश्च ।

॥ ३० ॥

पदार्थदीपिकोद्बोधिका

वार्यतामिति ॥ बुधजनैर् विद्वज्जनैर् वार्यतां वेदादेरैक्यपरतां प्रतिपादयन्मायिमतं निराक्रियतां ‘अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः’ इत्यत्राविद्यामनिराकृत्य केवलविद्यायामेव निरतानां भूयस्तमः प्राप्त्युक्त्याऽविद्यानिराकरणं कर्तव्यमित्युच्यते, ‘अथ हैनमुपाक्रोशत्सत्यं भिदा सत्यं भिदा सत्यं भिदा, मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः’ इत्यादिना च भेदो निराक्रियते । अत एष ऐक्यवादो न धर्म इति चाभिदधानां वदन्तीम् । अन्यत्र, बुधजनैर्ज्ञानिजनैर्वार्यतां दुर्योधनाज्ञया दुःशासनेन क्रियमाणं मद्विकर्षणं निवार्यताम् एष द्यूतव्यापारो धर्मो न, हा हा कष्टं ननु, इति चाभिदधानाम् । कृष्णेन श्रीवेदव्यासेन अतिलालिताम् अत्यन्तं मानिताम् । इतरत्र, यादवकृष्णेन च लालिततमाम् । न विद्यतेऽवद्यं दोषो यस्यास्ताम् अपौरुषेयत्वेना-प्रामाण्यकारणदोषरहितामित्यर्थो ऽज्ञानादिदोषरहिताञ्च । न विद्यतेऽन्यः शरणं रक्षको यस्यास्तां, श्रीमध्वाचार्यमृते पालकरहितामित्यर्थः । पक्षान्तरे, भीमान्यपालकरहिताञ्च । अत एव शरणे रक्षणे, उत्काम् उत्कण्ठोपेतां शरणम् इच्छन्तीञ्च । ‘शरणं गृहरक्षित्रोः’ इत्यमरः । श्रुतिततिं वेदिजामिव दृष्ट्वा दुष्टपक्षदमनस्थिरसन्धाम् अकरोत् ॥ ३० ॥

मन्दोपाकारिणी

वार्यतामिति ॥ पुनः कथंभूतां, बुधजनैर् बुधाश्च ते जनाश्च बुधजनास् तैः प्राज्ञजनैः । वार्यतां वेदादेर् ऐक्यपरतां प्रतिपादयन् मायिमतं निराक्रियतामिति । अभिदधानां प्रतिपादयन्तीं तथा हि ‘अन्धंतमः प्रविशन्ति ये अविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः’ इत्यत्र दुर्मतमनिराकृत्य केवलं सन्मते एव रतानाम् अत्युत्कृष्टतमःप्राप्त्युक्त्या दुर्मतनिराकरणं कार्यमित्युच्यते । एष ऐक्यवादः धर्मो न ननु नैव । ‘प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु’ इत्यमरः । ‘वृञ् वरण इत्यस्माद् धातोः कर्मणि लोट् आत्मनेपदम्’ । हा हा खेद इति च अभिदधानां ब्रुवन्तीं ‘सत्यं भिदा सत्यं भिदा मैवारुवण्यो मैवारुवण्यः’ इत्यादिना ऐक्यस्य निराकरणात् । कृष्णपालिततमां कृष्णेन श्रीवेदव्यासेन पालिततमाम् अतिशयेन आदृताम् । ‘व्यासार्जुनाग्निहरिकोकिलकाकशूद्रतामि-स्रपक्षकलिनीलगुणेषु कृष्णः’ इति भास्करः । अनवद्यां न विद्यन्ते अवद्यानि दोषा यस्यां सा तथोक्ता ताम् अपौरुषेयत्वेन पुरुषनिबन्धनाप्रामाण्यकारणदोषरहितामिति यावत् । अनन्यशरणां न विद्यते अन्यः स्वव्यतिरिक्तः शरणं रक्षको यस्याः सा तथोक्ता ताम् । ‘शरणं गृहरक्षित्रोः’ इत्यमरः । मध्वाचार्यम् ऋते पालकरहिताम् इति भावः । अत एव । शरणोत्कां शरणे रक्षके उत्काम् उत्कण्ठावतीं रक्षकमिच्छन्तीम् इति भावः । द्रौपदीपक्षे तु बुधजनैर् भीष्मादिभिर् दुःशासनेन क्रियमाणकर्षणं निवार्यताम् इति । एषः दुर्योधनेन क्रियमाणः व्यापारः धर्मः न्यायः न ननु नैव । हा हा कष्टम् । ‘धर्माः पुण्ययमन्याया’ इत्यमरः । इति च अभिदधानां ब्रुवन्तीम् । कृष्णपालिततमां कृष्णेन आदृताम् । अनवद्याम् अज्ञानादि-दोषरहिताम् । अनन्यशरणां भीमादन्यपालकरहिताम् । शरणोत्काम् आकर्षणसमये

रक्षकं वाञ्छन्तीम् ॥ ३० ॥

विश्वास-प्रस्तुतिः - ३१

वेदिजामिव पुरा भरताग्रयः स स्वयं श्रुतिततिं खलु दृष्ट्वा ।
पुष्टबुद्धिरकरोत् करुणाब्धिर्दुष्टपक्षदमनस्थिरसन्धाम् ॥ ३१ ॥

मूलम् - ३१

वेदिजामिव पुरा भरताग्रयः स स्वयं श्रुतिततिं खलु दृष्ट्वा ।
पुष्टबुद्धिरकरोत् करुणाब्धिर्दुष्टपक्षदमनस्थिरसन्धाम् ॥ ३१ ॥

पदार्थदीपिकोद्बोधिका

अयं पूर्वमेव व्याख्यातः ॥ ३१ ॥

मन्दोपाकारिणी

वेदिजामिति ॥ प्रागेव व्याख्यातेऽयं श्लोकः ॥ ३१ ॥

विश्वास-प्रस्तुतिः - ३२

अव्ययं सततमप्युपभुक्त्या वित्तमग्रयमिव दूरयियासुः ।
ज्यायसे सगुरवे हरिगीताभाष्यमेष विरचय्य तदाऽदात् ॥३२॥

मूलम् - ३२

अव्ययं सततमप्युपभुक्त्या वित्तमग्रयमिव दूरयियासुः ।
ज्यायसे सगुरवे हरिगीताभाष्यमेष विरचय्य तदाऽदात् ॥३२॥

पदार्थदीपिकोद्बोधिका

अव्ययमिति ॥ एष श्रीमध्वाचार्यः । सगुरवे गुरुसहिताय ज्यायसे आश्रमज्येष्ठाय लिकुचान्वयोद्भवाय यतये । ‘गुरुगीष्पतिपित्राद्योः पौरोहित्यकरे च ना’ इति यादवः । हरिगीताभाष्यं श्रीभगवद्गीताया भाष्यं तदा विरचय्य कृत्वा, दूरं यातुमिच्छुर् दूरयियासुः कश्चित्पुरुषः स्वजनाय स्वकीयजनाय सततं सर्वदोपभुक्त््याप्युप-भोगेनापि व्ययेनापीत्यर्थो ऽव्ययं नाशरहितम् अत एव अग्रयम् उत्तमं वित्तमिव अदात् । अत्रोपमालङ्कारः ॥ ३२ ॥

मन्दोपाकारिणी

अव्ययमिति ॥ एषः मध्वाचार्यः । दूरयियासुर् दूरं दूरदेशं बदरिकाश्रमं प्रति यियासुर् यातुमिच्छन् सन् । तदा रजतपीठपुरवासकाले । हरिगीताभाष्यं हरिगीताया भगवद्गीताया भाष्यं व्याख्यानं विरचय्य निर्माय सगुरवे अच्युतप्रेक्षेण सहिताय ज्यायसे ज्येष्ठयतये अदाद् दत्तवान् । ‘डु दाञ् दान इत्यतो लुङ् परस्मैपदम् अदाद् अदाताम् अदुः’ । कः किमिव दूरयियासुर् दूरदेशं प्रति गन्तुमिच्छन् कश्चित् पुरुषः स्वजनस्य, सततं नित्यम् उपभुक्त्यापि भोगेनापि अव्ययं ह्रासरहितम् अग्रयम् उत्तमं वित्तं धनमिव ‘वित्तं वस्तु वसु द्रव्यं रा द्रविणं धनं’ इति धनञ्जयः । कीदृशं गीताभाष्यम् उपभुक्त्यापि श्रवणादिना भोगेनापि अव्ययम् ॥ ३२ ॥

विश्वास-प्रस्तुतिः - ३३

हेतुवादिनि विशङ्कटबुद्धौ तीर्थमर्थयति गन्तुमनुज्ञाम् ।
तां दिदेश पुरुषोत्तमतीर्थं चिन्तयन् स पुरुषोत्तमरक्षाम् ॥ ३३ ॥

मूलम् - ३३

हेतुवादिनि विशङ्कटबुद्धौ तीर्थमर्थयति गन्तुमनुज्ञाम् ।
तां दिदेश पुरुषोत्तमतीर्थं चिन्तयन् स पुरुषोत्तमरक्षाम् ॥ ३३ ॥

भावप्रकाशिका

‘देहोपसङ्ग्रहस्यास्य यत्फलं देवचोदितम् । तत्सिषाधयिषुर्यामि देवगुह्योपपादितम् ।’ इति हेतुवादिनि ॥ ३३ ॥

पदार्थदीपिकोद्बोधिका

हेत्विति ॥ हेतुं गमनकारणं वक्तुं शीलमस्यास्तीति तस्मिन् । ‘देवोपसङ्ग्रहस्यास्य यत्फलं दैवचोदितम् । तत्सिषाधयिषुर्यामि देवगुह्योपपादितं’ इति गुह्यं देवकार्यं साधयितुं यामीति देवकार्यसाधनलक्षणगमनकारणवादिनीत्यर्थः । विशङ्कटा विशाला बुद्धिर्यस्य स श्रीपूर्णप्रज्ञाचार्यः । ‘विशङ्कटं विशालं स्यादि’ति हलः । तस्मिंस्तीर्थं पुण्यक्षेत्रं प्रतिगन्तुमनुज्ञामर्थयति याचति सति स पुरुषोत्तमस्य भगवतस्तीर्थं शास्त्रं गीताभाष्यादिशास्त्रज्ञानमिति यावद् यस्य स पुरुषोत्तमतीर्थः । ‘तीर्थं शास्त्रे गुरौ यज्ञे पुण्यक्षेत्रावतारयोः’ इति हेमचन्द्रः । अच्युतप्रेक्ष इत्यर्थः । पुरुषोत्तमरक्षां श्रीमध्वाचार्य-स्येति शेषश् चिन्तयन् सन् ताम् अनुज्ञां दिदेश प्रददौ ॥ ३३ ॥

मन्दोपाकारिणी

हेत्विति ॥ हेतुवादिनि हेतुं देवकार्यार्थं यामीति गमनकारणं वादिनि ब्रुवति विशङ्कटबुद्धौ विशङ्कटा विशाला बुद्धिर् यस्य स तथोक्तः । ‘विशङ्कटं पृथु बृहद्विशालं पृथुलं महत्’ इत्यमरः । तस्मिन् पूर्णप्रज्ञाचार्ये । तीर्थं भागीरथ्यादितीर्थं प्रतिगन्तुम् अनुज्ञाम् अनुमतिम् अर्थयति प्रार्थयति सति पुरुषोत्तमतीर्थं सन्यासिषु पुरुषेषु उत्तमश्चासौ तीर्थः गुरुश्च पुरुषोत्तमतीर्थः । ‘निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ’ इत्यमरः । अथवा पुरुषोत्तमस्य नारायणस्य तत्सन्निधानस्येति यावत् तीर्थः पात्रभूतस् तम् । पुरुषोत्तमतीर्थ इति पाठे अच्युतप्रेक्ष इत्यर्थः सुगमः । सो ऽच्युतप्रेक्षस् ताम् अनुज्ञां दिदेश दत्तवान् । ‘दिश अतिसर्जने इत्यस्माद् लिट् परस्मैपदम् । मध्वाचार्यस्य तीर्थयात्रागमनम् अङ्गीचकारेति भावः कथंभूतः, पुरुषोत्तमरक्षां पुरुषोत्तमस्य पुरुषाभ्यां क्षराक्षराभ्याम् उत्तमस्य रक्षां नारायणकर्तृकां रक्षाम् इत्यर्थश् चिन्तयन् मध्वस्येति शेषः । श्रीनारायण इमं मध्वं मार्गे पालयतु इति नारायणं प्रार्थयन्निति भावः ॥ ३३ ॥

विश्वास-प्रस्तुतिः - ३४

नीरजा मलयमण्डलवृत्त्या श्लाघितो भुवि सदाल्यनुयातः ।
साधुपान्थपरितापमपास्यन्नुत्तरां दिशमयान्मरुदंशः ॥ ३४ ॥

मूलम् - ३४

नीरजा मलयमण्डलवृत्त्या श्लाघितो भुवि सदाल्यनुयातः ।
साधुपान्थपरितापमपास्यन्नुत्तरां दिशमयान्मरुदंशः ॥ ३४ ॥

भावप्रकाशिका

रजो गुणविशेषो धूलिश्च । मलयमण्डलं मलयसन्निकृष्टविषयो मलयगिरिवलयं च । सतामालिभिरनुयातः सदाऽलिभिश्च ॥ ३४ ॥

पदार्थदीपिकोद्बोधिका

नीरजा इति ॥ निर्गतं रजोगुणो यस्मात्स नीरजाः । मलयस्य मलयपर्वतस्य मण्डले प्रदेशे वृत्तिर्वर्तनं तया, मलयसमीपवृत्तिदक्षिणदेशगत अखिलदुर्वादिनिराकरणादिनेति भावः । भुवि श्लाघित आदृतस्सतां सज्जनानामाल्या समूहेनानुयातोऽनुगतः । ‘वीथ्यालिरावलिः पङि्क्तः श्रेणीरेखास्तु राजयः’ इत्यमरः । साधवः सज्जना एव पान्थाः पथिकजनास्तेषां परितापं सन्तापमपास्यन्निराकुर्वन्मरुतोंऽशो मरुदंशः श्रीमध्वाचार्यः । उत्तरां दिशमयाद् ययौ । यातेर्लङ् । श्लेषार्थस्तु, नीरजाः पांसुरहितो मलयपर्वतवलयवर्तनेन भुवि श्लाघितः, मलयपर्वतगतचन्दनसम्पर्केण सुरभि-तयाऽदृतः । अत एव सदा सर्वदाऽऽलिभिर् भ्रमरैरनुयातः । ‘षट्पदभ्रमरालयः’ इत्यमरः । साधु सम्यक् यथा भवति तथा पान्थपरितापमपास्यन्मरुदंशो वातैकदेशो यथा कालविशेष उत्तरां दिशं व्रजेत्तद्वत् श्रीमध्वोऽप्युत्तरां दिशं जगामेति भावः ॥ ३४ ॥

मन्दोपाकारिणी

नीरजा इति ॥ मरुदंशः मरुतः प्रधानवायोर् अंशो ऽवतारः श्रीमध्वाचार्यः । उत्तराम् उदीचीं दिशं प्रति अयाद् ययौ । ‘या प्रापण इत्यतो लङ् परस्मैपदम् अयाद् अयाताम् अयुः’ । कथंभूतः, नीरजा नीरजा निर्गतं रजः रजोगुणः यस्मात् सः नीरजाः ‘रजो गुणे च स्त्रीपुष्पे’ इत्यमरः शुद्धसत्वस्वभाव इति यावत् । मलयमण्डलवृत्या मलयेषु मलयनामकेषु मण्डलेषु देशेषु ‘मण्डलं भूमिभागे स्यात्’ इति रत्नमाला, वृत्या परिवर्तनेन सञ्चारेणेति यावत् । तद्देशगताखिलदुर्वादिनिराकरणेनेति भावः । भुवि भूमौ श्लाघितः प्रशंसितः । सदाल्यनुयातः सताम् आल्या समूहेन ‘वीथ्यालिरावलिः पङि्क्तः’ इत्यमरः, अनुयातो ऽनुगतः । साधुपान्थपरितापं साधवः सज्जनाश्च ते पान्थाः पथिकाश्च ‘पान्थः पथिकः’ इत्यमरः, तेषां तत्र मार्गे विद्यमानानां जनानामिति यावत् परितापं संसारतापम् अपास्यन् स्वदर्शनादिना निराकुर्वन् । नीरजा निर्गतानि रजांसि पांसवः यस्मात् स तथोक्तः ‘पांशुर्ना न द्वयो रजः’ इत्यमरः । मलयमण्डलवृत्या मलयस्य मलयपर्वतस्य मण्डलेषु वृत्या सञ्चारेण भुवि श्लाघितः मलयपर्वतगतचन्दनगतसंपर्केण सुगन्धतया जनैर् आदृत इति भावः । सदा सर्वदा । अल्यनुयातो ऽलिभिर् भ्रमरैर् अनुयातः । ‘षट्पदभ्रमरालयः’ इत्यमरः । साधु सम्यक् । पान्थपरितापे मार्गस्थानां सूर्यजनितसन्तापम् अपास्यन् सन् यथा मरुदंशः वायुर् उत्तरां दिशं गच्छेत् तद्वदिति श्लेषाभिप्रायः ॥ ३४ ॥

विश्वास-प्रस्तुतिः - ३५

बुद्धिशुद्धिकरगोनिकराढ्यं तीर्थजातमुभयं च धरण्याम् ।
आत्ममज्जनत एव निकामं पर्यशोधयदमन्दमनीषः ॥ ३५ ॥

मूलम् - ३५

बुद्धिशुद्धिकरगोनिकराढ्यं तीर्थजातमुभयं च धरण्याम् ।
आत्ममज्जनत एव निकामं पर्यशोधयदमन्दमनीषः ॥ ३५ ॥

भावप्रकाशिका

श्रीभागवतादिशास्त्रस्यात्ममज्जनतः परिशोधनं प्रक्षेपोद्धारा-दिकम् ॥ ३५ ॥

पदार्थदीपिकोद्बोधिका

बुद्धीति ॥ अमन्दा पूर्णा मनीषा बुद्धिर्यस्य स पूर्ण-प्रज्ञाचार्यः । बुद्धेरन्तःकरणस्य शुद्धिं करोतीति तादृशो यो गोनिकरो वचनसमूहस्तेनाढ्यं सम्पूर्णम् । तीर्थपक्षे तु, बुद्धिशुद्धिकरेण गोनिकरेण जलसमूहेनाढ्यम् । उभयञ्च तीर्थजातं तीर्थसमूहमात्मनः स्वस्य मज्जनत एव अवगाहनत एव निकामं नितरां यथा भवति तथा पर्यशोधयत् । ‘शुध शौचे लङ् । अत्र तीर्थशब्देन शास्त्रं नद्यादिकं च उच्यते । शास्त्रे मज्जनं नाम पूर्वोत्तरपरामर्शः, अन्यत्रावगाहनम् ॥ ३५ ॥

मन्दोपाकारिणी

बुद्धीति ॥ अमन्दमनीषो ऽमन्दा अनल्पा पूर्णा मनीषा बुद्धिर् यस्य स तथोक्तः पूर्णप्रज्ञाचार्यः ‘बुद्धिर्मनीषा धिषणा’ इत्यमरः । धरण्यां धरायां ‘धरा धरित्री धरणी’ इत्यमरः । उभयं द्विविधं तीर्थजातं तीर्थानां भारतभागवतादिशास्त्राणां नद्यादिजलानां च ‘तीर्थं शास्त्राध्वरोपायक्षेत्रोपाध्यायमन्त्रिषु । अवतारर्षिजुष्टाभ्यः स्त्रीरजस्सु च विश्रुतं’ इति विश्वः । जातं समूहं ‘जातं जात्योघजन्मसु’ इति च । आत्ममज्जनत एव आत्मनः स्वस्य मज्जनतः मज्जनेन अवगाहेन पूर्वोत्तरपरामर्शेन च । निकामं यथेप्सितम् । ‘निकामेष्टं यथेप्सितं’ इत्यमरः । पर्यशोधयत् सम्यक् शुद्धं चकार । भागवतादिशास्त्रं पूर्वोत्तरपरामर्शं कृत्वा अपव्याख्याननिराकरणपूर्वकं प्रक्षिप्तग्रन्थोद्धारेण वेदव्यासकृतपाठ-स्थापनेन शुद्धीचकार । नद्यादीनां जलम् आत्मनो ऽवगाहनेन तत्र महिमातिशयस्थापनेन पवित्रं चकार इति भावः । ‘परिपूर्वकात् शुध शौच इत्यतो लङ् परस्मैपदम्’ । कथंभूतं तीर्थजातं, बुद्धिशुद्धिकरगोनिकराढ्यं कुर्वन्तीति कराः शुद्धेर् निर्मलत्वस्य कराः शुद्धिकरा बुद्धेर् अन्तःकरणस्य शुद्धिकरास् ताश्च ता गावः वाचश्च तासां निकरेण समूहेन आढ्यं युक्तम् । ‘स्तोमौघनिकरव्रातः’ इत्यमरः । शास्त्रश्रवणादिना अज्ञानादिपरिहारकवचनोपेत-मित्यर्थः । जले तु, बुद्धेः शुद्धिकराः पावित्र्यकरास् ताश्च ता गावश्च जलानि च तासां निकरेण आढ्यं तीर्थजातं स्नानपानादिना चित्तगतरागादिदोषपरिहारकजलोपेतम् इत्यर्थः । ‘भूवाग्वारिषु गौर्मता’ इति विश्वः ॥ ३५ ॥

विश्वास-प्रस्तुतिः - ३६

वासुदेवपदसन्ततसङ्गी तेजसाऽप्यलमधःकृतशर्वः ।
अत्यवर्तत नितान्तमथासौ गाङ्गमोघमघनाशनकीर्तिः॥ ३६ ॥

मूलम् - ३६

वासुदेवपदसन्ततसङ्गी तेजसाऽप्यलमधःकृतशर्वः ।
अत्यवर्तत नितान्तमथासौ गाङ्गमोघमघनाशनकीर्तिः॥ ३६ ॥

भावप्रकाशिका

नितान्तमतिवर्तनं गत्या गुणैश्च । गाङ्ग ओघः सकृत्सङ्गी शिरसि स्थितिमात्रेणाधःकृतशर्वश्च ॥ ३६ ॥

पदार्थदीपिकोद्बोधिका

वासुदेवेति ॥ अथ वासुदेवस्य श्रीहरेः पदयोः पादयोर्यः सन्ततसङ्गः सोऽस्यास्तीति तथोक्तः । तेजसाऽपि सामर्थ्येनाप्यलं सम्यगधःकृतोऽधरीकृत-श्शर्वो रुद्रो येन तादृशः । अघानां नाशनं यया सा अघनाशिनी, श्रवणादिना पापनाशनहेतुः कीर्तिर्यस्य सोऽसौ श्रीमध्वाचार्यः । गङ्गायाः सम्बन्धी गाङ्गस्तमोघं प्रवाहं नितान्तमत्यवर्तत अतीत्यावर्तत । अतिवर्तनं नाम न केवलं तरणमात्रं, किन्तु गुणतोऽप्यतिवर्तनं विवक्षितमिति भावेन वासुदेवेत्यादिहेतुगर्भं विशेषणद्वयम् । गङ्गा तु सकृदेव भगवत्पदसङ्गवती, तेजसा रुद्रादवरा चेत्यतो गङ्गाया अप्युत्तमोऽयं गङ्गां तीर्त्वा जगामेति फलितार्थः ॥ ३६ ॥

मन्दोपाकारिणी

वासुदेवेति ॥ अथ उत्तरदेशगमनानन्तरम् । अघनाशनकीर्तिः श्रवणादिना अघानां दुरितानां नाशकारी कीर्तिर् माहात्म्यं यस्य स तथोक्तः । ‘कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतं’ इत्यमरः । असौ मध्वाचार्यः । गाङ्गं गाङ्गाया अयं गाङ्गस् तं भागीरथीसंबन्धिनम् इत्यर्थः । ‘गङ्गा विष्णुपदी जन्हुतनया सुरनिम्नगा’ इत्यमरः । ओघं प्रवाहम् । ‘ओघः प्रवाहे निवहे’ इति भास्करः । नितान्तम् अतिशयेन अत्यवर्तत अत्यक्रामत् । ‘अतिपूर्वकाद् वृतु वर्तने इति धातोर् लङात्मनेपदम् अवर्तत अवर्तेताम् अवर्तन्त’ । भागीरथ्यतिक्रमणं नाम न केवलं तरणमात्रं किन्तु गुणतोऽपि अतिक्रमणं विविक्षितमिति ज्ञेयम् । तदेवाह वासुदेव इत्यादिना ॥ कथंभूतो मध्वः, वासुदेवपदसन्ततसङ्गी वासुदेवस्य श्रीहरेः पदयोः सन्ततं सङ्गो ऽस्यास्तीति सङ्गी सर्वदा विष्णुपादस्मरणसङ्गवान्, गङ्गा तु सकृदेव पादसंबन्धवती । पुनः कथंभूतः । तेजसापि स्वसामर्थ्येनापि अलम् अत्यन्तम् अधःकृतशर्वो ऽधःकृतो ऽधरीकृतः शर्वः रुद्रो येन स तथोक्तः रुद्राद् अत्युत्तम इति भावः । ‘ईश्वरः शर्व ईशानः’ इत्यमरः । गङ्गा तु तथा न रुद्रः गङ्गां विष्णुपदोत्थेयम् इत्यनेनैव आदरेण शिरसा बिभर्ति न तु स्वस्माद् उत्तमा इयम् इति भावेना गङ्गाया रुद्रादतिनीचत्वादिति भावः । इत्याशयेन नितान्तम् अत्यवर्तत इत्युक्तम् । गङ्गाया अत्युत्तमोऽयं मध्वः गङ्गां तीर्त्वा जगाम इति फलितोऽर्थः ॥ ३६ ॥

विश्वास-प्रस्तुतिः - ३७

तत्र तत्र स जगत्त्रयचित्रं कर्म शर्मदमनुस्मृतिमात्रात् ।
सञ्चरन् विदधदाप नराणां गोचरं बदरिकाश्रमपार्श्वम्॥ ३७ ॥

मूलम् - ३७

तत्र तत्र स जगत्त्रयचित्रं कर्म शर्मदमनुस्मृतिमात्रात् ।
सञ्चरन् विदधदाप नराणां गोचरं बदरिकाश्रमपार्श्वम्॥ ३७ ॥

पदार्थदीपिकोद्बोधिका

तत्रेति ॥ तत्र तत्र तत्तत्तीर्थक्षेत्रविशेषेषु सञ्चरन् । जगतां त्रयं तस्मिन् चित्रम् आश्चर्यम् । केवला अनुस्मृतिः स्मरणम् अनुस्मृतिमात्रं तस्मात् । शर्म सुखं ददातीति शर्मदम् । भक्तानां सुखप्रदमित्यर्थः । कर्म विदधत् कुर्वन् श्रीमध्वाचार्यो नराणां गोचरं गन्तुं योग्यं बदरिकाश्रमस्य पार्श्वं निकटमाप ययौ ॥ ३७ ॥

मन्दोपाकारिणी

तत्रेति ॥ तत्र तत्र तेषु तेषु तीर्थक्षेत्रविशेषेषु । सञ्चरन् व्रजन् । जगत्त्रयचित्रं जगतां त्रये चित्रम् अद्भुतम् । अनुस्मृतिमात्रात् स्मरणादेव । ‘मात्रं कार्त्स्न्येऽव-धारणे’ इत्यमरः । शर्मदं पुंसां शर्म सुखं ददातीति शर्मदम् । ‘शर्मशातसुखानि च’ इत्यमरः । कर्म चरितं विदधत् कुर्वन् सः मध्वाचार्यः नराणां मनुष्याणां गोचरं गन्तुं योग्यं बदरिकाश्रमपार्श्वं हिमवत्पर्वतस्य दक्षिणदिशि स्थितस्य बदरिकाख्याश्रमस्य पुण्यक्षेत्रस्य नरनारायणस्थानस्य पार्श्वं समीपम् आप प्राप्तवान् ॥ ३७ ॥

विश्वास-प्रस्तुतिः - ३८

मण्डयन् भरतखण्डमखण्डं नादिरायणपदोऽत्र परो यः ।
तं नमन्प्रचुरधीर्हरिगीताभाष्यमार्पयदुपायनमस्मै ॥ ३८ ॥

मूलम् - ३८

मण्डयन् भरतखण्डमखण्डं नादिरायणपदोऽत्र परो यः ।
तं नमन्प्रचुरधीर्हरिगीताभाष्यमार्पयदुपायनमस्मै ॥ ३८ ॥

पदार्थदीपिकोद्बोधिका

मण्डयन्निति ॥ अत्र मनुष्यगोचरबदरिकाश्रमे स्थित इति शेषः । अखण्डं समस्तं भरतखण्डं हिमवत्सेतुमध्यगमित्यर्थः । मण्डयन् अलङ्कुर्वन्, नो नकार आदिर्यस्य तन्नादि, रायण इति पदं रायणपदं, नादि रायणपदं यस्य सः । नारायणपदवाच्य इत्यर्थः । यः परः सर्वोत्तमो भगवांस्तं नमन् प्रचुरधीः पूर्णप्रज्ञाचार्योऽस्मै श्रीनारायणाय हरिगीताभाष्यं स्वकृतभगवद्गीताभाष्यमुपायनमार्पयद् उपायनत्वेन समर्पया-मास । ऋ गतौ लङ् ॥ ३८ ॥

मन्दोपाकारिणी

मण्डयन्निति ॥ अत्र अस्मिन् मनुष्यगोचरे बदरिकाश्रमे । अखण्डं समस्तम् । भरतखण्डं हिमवत्पर्वतमारभ्य दक्षिणदिक्स्थश्रीरामचन्द्रसेतुपर्यन्तं विद्यमानं नवसहस्रयोजनसंख्याकधनुराकारं भरतनामकखण्डं भूप्रदेशं मण्डयन् अलङ्कुर्वन् । नादिरायणपदः नकार आदिर् यस्य सः नादिश्चासौ रायणः रायणशब्दश्च नादिरायणः नादिरायण इति पदं नाम यस्य सः नादिरायणपदः नारायणनामेति यावत् । यः परः परमात्मा । ‘परोऽरिपरमात्मनोः’ इति विश्व आस्ते तं नारायणं नमन् नमस्कुर्वन् प्रचुरधीः प्रचुरा प्रभूता पूर्णा धीर् यस्य स तथोक्तः मध्वाचार्यः । ‘प्रभूतं प्रचुरं प्राज्यं’ इत्यमरः । अस्मै श्रीनारायणाय । हरिगीताभाष्यं स्वकृतभगवद्गीताभाष्यम् उपायनम् उपहारम् उपायनमुपग्राह्यमुपहारस्तथोपदा’ इत्यमर आर्पयत् समर्पितवान् । ‘रिक्तहस्तेन नोपेयाद्राजानं देवतां गुरुं’ इति वचनात् स्वकृतभगवद्गीताभाष्यम् उपायनत्वेन समर्प्य नमश्चकारेति भावः । ‘ऋ गतौ इत्यतो णिजन्ताद् लङ् परस्मैपदम्’ ॥ ३८ ॥

विश्वास-प्रस्तुतिः - ३९

प्रीतयेऽस्य पुरतो वरभाष्यं वाचयन् स जनतामपसार्य ।
वच्मि शक्तित उरुक्रमगीताभाष्यमित्यकथयत्पुरुसंख्यः ॥ ३९ ॥

मूलम् - ३९

प्रीतयेऽस्य पुरतो वरभाष्यं वाचयन् स जनतामपसार्य ।
वच्मि शक्तित उरुक्रमगीताभाष्यमित्यकथयत्पुरुसंख्यः ॥ ३९ ॥

पदार्थदीपिकोद्बोधिका

प्रीतय इति ॥ जनानां समूहो जनता ताम् अपसार्य । अस्य श्रीनारायणस्य प्रीतयेऽस्य पुरतो वरमुत्तमं भाष्यं गीताभाष्यं वाचयन् पुरुः पूर्णा संख्या ज्ञानं यस्य स पूर्णप्रज्ञाचार्य उरुक्रमगीताभाष्यं भगद्गीताभाष्यं शक्तितः वच्मीत्यकथयत् । अयं भावः । श्रीमध्वाचार्यः ‘देवं नारायणं नत्वा सर्वदोषविवर्जितम् । परिपूर्णं गुरूंश्चान्गीतार्थं वक्ष्यामि शक्तितः’ इति मङ्गलाचरणश्लोके ग्रन्थारम्भप्रतिज्ञां कुर्वन् श्लोकान्ते ‘शक्तित’ इति पदम् अकथयदिति ॥ ३९ ॥

मन्दोपाकारिणी

प्रीतय इति ॥ पुरुसङ्ख्यः पुर्वी भूयिष्ठा ‘पुरु भूयिष्ठं’ इत्यमरः । बहुलेति यावत् सङ्ख्या शास्त्रविचारणा यस्य स तथोक्तः । ‘चर्चा सङ्ख्या विचारणा’ इत्यमरः । सः मध्वाचार्यः । जनतां जनानां समूहो जनता तां शिष्यजनसमूहम् अपसार्य दूरे यापयित्वा । अस्य श्रीनारायणस्य प्रीतये सन्तोषाय पुरतः नारायणस्य पुरोभागे अभिमुखतः वरभाष्यं वरं च तद् भाष्यं च वरभाष्यं स्वकृतम् उत्तमं गीताभाष्यं वाचयन् सन् उरुक्रमगीताभावम् उरुः क्रमः यस्य स तथोक्तस् तस्य श्रीकृष्णस्य गीताया भावम् अभिप्रायं ‘भावः सत्ता स्वभावाभिप्रायचेष्टात्मजन्मसु’ इत्यमरः । शक्तितः शक्त्यानुसारेण वच्मि वक्ष्यामि इति । अकथयद् अवोचत् । ‘वच परिभाषण इत्यतो लट् परस्मैपदं वच्मि वच्वः वच्मः’ । ‘कथ वाक्यप्रबन्ध इत्यतो लङ् परस्मैपदम्’ । गीताभाष्यमारभमाणो मध्वाचार्यः ‘देवं नारायणं नत्वा सर्वदोषविवर्जितम् । परिपूर्णं गुरूंश्चान् गीतार्थं वक्ष्यामि शक्तितः’ इति मङ्गलाचरणप्रतिपादकाद्यपद्यान्ते प्रतिज्ञां कुर्वन् शक्तित इति अवोचद् इति भावः ॥ ३९ ॥

विश्वास-प्रस्तुतिः - ४०

एतदर्थमतिसूक्ष्ममपि त्वं शक्त एव न यदात्थ समस्तम् ।
तेन लेशत इतीह पदं स्यादित्यगद्यत जगज्जनकेन ॥ ४० ॥

मूलम् - ४०

एतदर्थमतिसूक्ष्ममपि त्वं शक्त एव न यदात्थ समस्तम् ।
तेन लेशत इतीह पदं स्यादित्यगद्यत जगज्जनकेन ॥ ४० ॥

पदार्थदीपिकोद्बोधिका

एतदिति ॥ त्वम् अतिसूक्ष्मम् अत्यन्तदुर्विज्ञेयम् अपि एतस्या गीताया अर्थं समस्तं सर्वं वक्तुं शक्त एव समर्थ एव सन् यद्यस्मान् न आत्थ नोक्तवानसि तेन कारणेन इह मङ्गलश्लोकान्ते ‘लेशतः’ इति पदं स्याद्भवत्विति जगज्जनकेन जगत्पित्रा नारायणेन अगद्यत उक्तम् । ‘शक्तितः’ इति पदस्थाने ‘लेशत’ इति प्रयुज्यतामित्युक्त-मिति भावः ॥ ४० ॥

मन्दोपाकारिणी

एतदिति ॥ हे मध्व त्वम् अतिसूक्ष्ममपि अत्यन्तं ज्ञातुम् अशक्यमपि । एतदर्थम् एतस्या भगवद्गीताया अर्थम् अभिधेयं समस्तम् अशेषमपि वक्तुं वर्णयितुं शक्त एव सन् समर्थ एव सन् । यद् यस्मात् समस्तं न आत्थ नावोचः सर्वमर्थं नोक्तवानसि । ‘ब्रूञ् व्यक्तायां वाचीत्यतो लट् परस्मैपदं’ ‘ब्रुवः पञ्चानामादित आह’ इति आहादेशे आत्थेति रूपम् । तेन कारणेन । इह आदिमङ्गलश्लोकान्ते ‘लेशतः’ इति पदं स्याद् भवेद् इत्येवप्रकारेण जगज्जनकेन जगतः जनकेन उत्पादकेन नारायणेन अगद्यत उक्तम् । गीताया दुर्ज्ञेयाशेषार्थकथनसमर्थोऽपि सर्वम् अर्थं नोक्तवान् अतः प्रथमश्लोके शक्तिपदं हित्वा ‘लेशतः’ इति पदं प्रयोजय इति भगवता उदितम् इति भावः । गद व्यक्तायां वाचीत्यतः कर्मणि लङात्मनेपदम्’ ॥ ४० ॥

विश्वास-प्रस्तुतिः - ४१

तेन तत्प्रवचने विहितेऽलं शुश्रुवुः प्रशयिता अपि शिष्याः ।
उच्यतामिति मुहुः सपृथिव्यास्फालनं पदमहो हरिणोक्तम्॥ ४१ ॥

मूलम् - ४१

तेन तत्प्रवचने विहितेऽलं शुश्रुवुः प्रशयिता अपि शिष्याः ।
उच्यतामिति मुहुः सपृथिव्यास्फालनं पदमहो हरिणोक्तम्॥ ४१ ॥

पदार्थदीपिकोद्बोधिका

तेनेति ॥ तेन श्रीमध्वाचार्येण अलं सम्यक्तस्य गीताभाष्यस्य प्रवचने व्याख्याने विहिते कृते सति प्रशयिताः शयाना शिष्या अपि पृथिव्या आस्फालनेन हस्तताडनेन सहितं यथा भवति तथा । हरिणा मुहुः पुनः पुनरुक्तमुच्यतामिति पदं शुश्रुवुः । अहो आश्चर्यम् । रात्रौ व्याख्यानसमाप्त्यनन्तरं शिष्येषु शयानेषु

तत्र प्रतिमागतेन नारायणेन पुनरपि व्याख्या क्रियतामित्यभिहितं शयानैः शिष्यैरपि श्रुतमिति भावः ॥ ४१ ॥

मन्दोपाकारिणी

तेनेति ॥ तेन मध्वाचार्येण । अलं सम्यक् । तत्प्रवचने तस्या गीतायाः प्रवचने व्याख्याने । विहिते कृते सति । व्याख्यानानन्तरं प्रशयिताः शयानाः । शिष्याः सपृथिव्यास्फालनं पृथिव्या भूम्या आस्फालनम् आस्फोटनं तेन सहितम् । हरिणा नारायणेन । उक्तम् उदितम् । मुहुः पुनरपि । उच्यतामिति पदं शब्दं शुश्रुवुर् अृण्वन् । रात्रौ व्याख्यानसमाप्त्यनन्तरं निद्रितं मध्वाचार्यं स्वकरतलेन पृथिवीताडनेन शब्दं कृत्वा प्रबोधयित्वा नारायणेन उक्तं मुहुर् उच्यतामिति शब्दं निद्रिताः शिष्या अपि शुश्रुवुरिति भावः । ‘श्रु श्रवण इत्यतो लिट् परस्मैपदं शुश्राव शुश्रुवतुः शुश्रुवुः’ ॥ ४१ ॥

विश्वास-प्रस्तुतिः - ४२

शब्दभेदमवधार्य तमर्चासन्निषण्णवपुषः परमस्य ।
तस्य भावविददभ्रमनीषः प्रोत्थितः प्रवचनं व्यधितैभ्यः॥ ४२ ॥

मूलम् - ४२

शब्दभेदमवधार्य तमर्चासन्निषण्णवपुषः परमस्य ।
तस्य भावविददभ्रमनीषः प्रोत्थितः प्रवचनं व्यधितैभ्यः॥ ४२ ॥

पदार्थदीपिकोद्बोधिका

शब्देति ॥ अमन्दा मनीषा यस्य स श्रीपूर्णप्रज्ञा-चार्योऽर्चायां प्रतिमायां सन्निषण्णं सन्निहितं वपुः स्वरूपं यस्य तस्य । ‘अर्चा पूजाप्रति-मयोः’ इति वैजयन्ती । परमस्य सर्वोत्तमस्य श्रीहरेस् तं शब्दभेदं ‘उच्यता’मित्युक्तं शब्दविशेषमवधार्य सावधानं श्रुत्वा तस्योच्यतामिति पदस्य भावविदभिप्रायवेत्ता सन् पुनरपि व्याख्या क्रियतामिति तदभिप्रायं जानन्निति भावः । प्रोत्थितश्शयनादुत्थितः सन्नेभ्यः शिष्येभ्यः प्रवचनं व्याख्यानं व्यधित अकरोत् ॥ ४२ ॥

मन्दोपाकारिणी

शब्देति ॥ अदभ्रमनीषो ऽदभ्रा बहुला मनीषा बुद्धिर् यस्य स तथोक्तः । ‘अदभ्रं बहुलं बहु’ इत्यमरः । पूर्णप्रज्ञाचार्य इत्यर्थः । अर्चासन्निषण्णवपुषो ऽर्चायां सन्निषण्णं सन्निहितं वपुः स्वरूपं यस्य सो ऽर्चासन्निषण्णवपुस् तस्य । परमस्य परमात्मनः सर्वोत्तमस्य नारायणस्य । तं नारायणोक्तं शब्दभेदं ‘उच्यतामिति’ शब्दविशेषम् अवधार्य सावधानं श्रुत्वा । तस्य ‘उच्यतामिति’ शब्दस्य भावविद् भावम् अभिप्रायं वेत्ति जानातीति भाववित् । उच्यतामिति पदेन पुनरपि व्याख्यानं क्रियतामिति मां प्रति हरिणा उच्यते इति तत्पदाभिप्रायं जानन्निति भावः । प्रोत्थितः सन् एभ्यः शिष्येभ्यः प्रवचनं व्याख्यानं व्यधित अकरोत् । ‘डु धाञ् धारणपोषणयोर् लुङात्मनेपदम् अधित अधिषाताम् अधिषत’ ॥ ४२ ॥

विश्वास-प्रस्तुतिः - ४३

मज्जनं व्यधित शीतलगङ्गावारि नित्यमरुणोदयकाले ।
यत्स्पृशन्ति न नरा हिमभीता अंश एष पृषतामधिपस्य ॥ ४३ ॥

मूलम् - ४३

मज्जनं व्यधित शीतलगङ्गावारि नित्यमरुणोदयकाले ।
यत्स्पृशन्ति न नरा हिमभीता अंश एष पृषतामधिपस्य ॥ ४३ ॥

पदार्थदीपिकोद्बोधिका

मज्जनमिति ॥ पृषतां वायूनाम् । ‘पृषदश्वः पवमानः प्रभञ्जन’ इति हलः, अधिपस्य स्वामिनो मुख्यप्राणस्य अंश एषः श्रीमध्वाचार्यः । नरा बदरिकाश्रमस्थजना हिमभीताः सन्तो यज्जलं न स्पृशन्ति तस्मिन् शीतलं यद्गङ्गाया वास् तस्मिन् मज्जनं स्नानं नित्यं प्रतिदिनमरुणोदयकाले ‘चतस्रो घटिकाः प्रातररुणोदय उच्यते’ इत्युक्तकाले व्यधित चकार ॥ ४३ ॥

मन्दोपाकारिणी

मज्जनमिति ॥ पृषतां वायूनाम् । ‘पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः’ इत्यमरः, अधिपस्य स्वामिनः मुख्यवायोर् इत्यर्थो ऽंश एकदेशो ऽवतारभूत एषः मध्वाचार्यः नित्यं प्रतिदिनम् अरुणोदयकाले अरुणः सूर्यसारथिस् तस्य उदयः प्रादुर्भावः यस्मिन् अरुणोदयः, स चासौ कालश्च अरुणोदयकालस् तस्मिन् सूर्योदयात्पूर्वं घटिकाचतुष्टयात्मककाल इत्यर्थः । ‘चतस्रो घटिकाः प्रातररुणोदय उच्यते’ इति वचनात् । शीतलगङ्गावारि गङ्गाया अलकनन्दाख्याया भागीरथ्या वा जलं गङ्गावाः । ‘आपः स्त्री भूमि्नवार्वारि’ इत्यमरः । शीतलं शीतं च तद् गङ्गावाश्च शीतल-गङ्गावास् तस्मिन् शीतलगङ्गावारि । ‘तुषारः शीतलः शीतः’ इत्यमरः । मज्जनं स्नानं व्यधित चकार । नरास् तत्र विद्यमाना मनुष्या हिमभीता हिमेन नीहारेण भीतास् त्रस्ताः सन्तः । ‘अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्’ इत्यमरः । यत् शीतलं जलं न स्पृशन्ति हिमभयेन तत्रत्याः केऽपि शीतलजलस्पर्शनमपि कदाचिदपि न कुर्वन्ति किमुत स्नानं तादृशेऽपि शीतलजले प्रतिदिनं स्नानं चकारेति भावः । ‘स्पृश संस्पर्शे’ इत्यतो लट् परस्मैपदम् । अनेन कर्माधिकारी पुरुषो ऽतिक्लेशमनुभूयापि प्रातःस्नानं चरेन् न तु त्यजेद् इत्युक्तं भवति ॥ ४३ ॥

विश्वास-प्रस्तुतिः - ४४

काष्ठमौनमदधादुपवासं शुद्धमप्यकृत शुद्धहृदिच्छन् ।
नित्यतुष्टहरितोषविशेषं चिन्तयन्प्रभुमनन्तमठान्तः ॥ ४४ ॥

मूलम् - ४४

काष्ठमौनमदधादुपवासं शुद्धमप्यकृत शुद्धहृदिच्छन् ।
नित्यतुष्टहरितोषविशेषं चिन्तयन्प्रभुमनन्तमठान्तः ॥ ४४ ॥

पदार्थदीपिकोद्बोधिका

काष्ठमौनमिति ॥ नित्यं सदा तुष्टः स्वस्य प्रीतस्तादृशो यो हरिस् तस्य तोषविशेषम् इच्छन् । शूद्धं हृज् ज्ञानं यस्य सः श्रीमध्वाचार्यः । अनन्तमठस्य अन्तर्मध्ये, अन्तरित्यव्ययम् । अनन्तमठ इति मनुष्यगोचरबदरिकाश्रमे नारायणमन्दि-रस्याख्या । तदन्तरित्यर्थः । प्रभुं श्रीनारायणं चिन्तयन् काष्ठमौनं काष्ठमौनव्रतम् अदधाच् चकार । शुद्धमुपवासं निरशनव्रतमपि चक्रे ॥ ४४ ॥

मन्दोपाकारिणी

काष्ठमौनमिति ॥ शुद्धहृत् शुद्धं रागादिरहितं निष्काममिति यावत् हृद् अन्तःकरणं यस्य स तथोक्तः मध्वाचार्यः । नित्यतुष्टहरितोषविशेषं नित्यं सर्वदा तुष्टस्य प्रीतस्य हरेस् तोषविशेषं तोषस्य प्रीतेर् विशेषम् अतिशयम् इच्छन् सन् विष्णुप्रीत्यतिशयाय इत्यर्थः । विष्णुप्रीतिकामनाया अदोषत्वादिति भावः । अनन्तमठान्तो ऽनन्तमठस्य अनन्तमठाख्यनारायणदेवालयस्य अन्तः मध्ये । ‘अन्तर्मध्ये तथा प्रान्ते’ इति विश्वः । प्रभुं नारायणं चिन्तयन् ध्यायन् । काष्ठमौनं काष्ठया उत्कर्षेण अतिशयेन । ‘काष्ठोत्कर्षे स्थितौ दिशि’ इत्यमरः । मौनम् अभाषणव्रतम् । ‘अथ मौनमभाषणम्’ इत्यमरः । लोकिकभाषणवर्जनरूपं मौनम् अदधाच् चकार । ‘डु धाञ् धारणपोषणयोर् लङ् परस्मैपदम् अदधाद् अदधाताम् अदधुः’ । शुद्धम् आचमनोदकं विना जलफलाद्याहाररहितम् उपवासम् अनशनव्रतमपि अकृत कृतवान् । ‘डु कृञ् करण इत्यतो लुङात्मनेपदम् अकृत अकृषाताम् अकृषत’ ॥ ४४ ॥

विश्वास-प्रस्तुतिः - ४५

प्रैरयत्स्वचरणे रतचित्तं मध्वमत्र दिनमण्डलमेनम् ।
स्वाश्रमोपगमनाय मुकुन्दो दीप्तिदृष्टिविदितागतिरन्यैः ॥ ४५ ॥

मूलम् - ४५

प्रैरयत्स्वचरणे रतचित्तं मध्वमत्र दिनमण्डलमेनम् ।
स्वाश्रमोपगमनाय मुकुन्दो दीप्तिदृष्टिविदितागतिरन्यैः ॥ ४५ ॥

पदार्थदीपिकोद्बोधिका

प्रैरयदिति ॥ अन्यैः श्रीमध्वेतरैर्दीप्तेः प्रकाशविशेषस्य दृष्टिर्दर्शनं तया विदिता ज्ञाताऽऽगतिः प्राप्तिर्यस्य स मुकुन्दः श्रीवेदव्यासः, अत्रानन्तमठे दिनानां मण्डलं ‘कालाध्वनो’रिति द्वितीया निरन्तरमष्टचत्वारिंशद्दिनेष्वित्यर्थः । स्वचरणे स्वपादे रतम् आसक्तं चित्तं यस्य तमेनं मध्वं स्वाश्रमस्योपगमनाय प्राप्तये प्रैरयत् प्रेरयामास । ईर प्रेरणे लङ् । वेदव्यासः रात्रावागत्य स्वकीयोत्तरबदरिकाश्रममागन्तुं श्रीमध्वं प्रेरयामास यदा तदाऽस्यागमनं शिष्यादिभिः प्रकाशविशेषं दृष्ट्वा ज्ञातमित्यभिप्रायः ॥ ४५ ॥

मन्दोपाकारिणी

प्रैरयदिति ॥ मुकुन्दः वेदव्यासः । अत्र अनन्तमठान्तः । दिनमण्डलं दिनानां समूहं कतिचिद्दिवसेषु इत्यर्थः । ‘कालाध्वनोरत्यन्तसंयोगे’ इति सूत्रान् मण्डलमित्यत्र द्वितीया । स्वचरणे स्वस्य आत्मनश् चरणे पादे रतचित्तं रतम् आसक्तं चित्तं मनः यस्य स तथोक्तस् तम् एनं मध्वम् । स्वाश्रमोपगमनाय स्वस्य आश्रमः हिमवत्पर्वतो-त्तरदिग्भागे विद्यमानः मनुष्यगमनायोग्यः बदरिकाश्रमस् तं प्रति उपगमनाय प्राप्तये स्वाश्रमं प्रति आगन्तुम् इत्यर्थः । प्रैरयत् प्रेरयामास । ‘प्रपूर्वाद् ईर प्रेरण इत्यस्माल्लङ् परस्मैपदं प्रैरयत् पै्ररयतां प्रेरयन्’ । कथंभूतो ऽन्यैर् मध्वेतरशिष्यैर् दीप्तिदृष्टिविदितागतिर् दीप्तेः प्रकाशविशेषस्य दृष्टिर् दर्शनं तेन विदिता ज्ञाता अगतिर् आगमनं यस्य स तथोक्तः । ‘दृष्टिर्ज्ञानेक्ष्णिदर्शने’ इत्यमरः । मध्वे कतिचिद्दिनेषु अनन्तमठान्तः वसति सति कदाचिद् वेदव्यासः रात्रौ आगत्य एनं मध्वं स्वकीयबदरिकाश्रमं प्रति आगन्तुं प्रेरयामास । तस्य वेदव्यासस्य आगमनं तु शिष्यादिभिः प्रकाशविशेषं दृष्ट्वा ज्ञातमित्यभिप्रायः ॥ ४५ ॥

विश्वास-प्रस्तुतिः - ४६

नक्तमेव भगवत्युपयाते प्रोदिते सति सहस्रमरीचौ ।
मौनवानलिखदुत्तमचित्तः शिष्यशिक्षणपरः करुणावान् ॥ ४६ ॥

मूलम् - ४६

नक्तमेव भगवत्युपयाते प्रोदिते सति सहस्रमरीचौ ।
मौनवानलिखदुत्तमचित्तः शिष्यशिक्षणपरः करुणावान् ॥ ४६ ॥

पदार्थदीपिकोद्बोधिका

नक्तमिति ॥ भगवति श्रीवेदव्यासे नक्तमेव रात्रावेव उपयाते स्वाश्रमं प्रति गते सति । सहस्रं मरीचयो यस्य तस्मिन् सूर्ये प्रोदिते सति । मौनमस्यास्तीति मौनवान् । तथापि करुणा दया अस्यास्तीति करुणावान् शिष्येषु कृपावानित्यर्थः । उत्तमं चित्तं यस्य स पूर्णप्रज्ञाचार्यः शिष्याणां शिक्षणं तस्मिन् परं तात्पर्यं यस्य तथा सन्नलिखत् शिष्यशिक्षणार्थं यद्वक्तव्यं तदलिखदिति भावः । लिख अक्षरविन्यासे लङ् ॥ ४६ ॥

मन्दोपाकारिणी

नक्तमिति ॥ भगवति श्रीवेदव्यासे । नक्तमेव रात्रावेव ‘दिवाह्नीत्यथ दोषा च नक्तं च रजनाविति’ इत्यमरः । उपयाते गते सति । सहस्रमरीचौ सहस्रसङ्ख्याका मरीचयः किरणा यस्य स तथोक्तः । ‘भानुः करो मरीचिः स्त्रीपुंसयो-र्दीधितिः स्त्रियाम्’ इत्यमरः । तस्मिन् सूर्ये प्रोदिते सति । सूर्योदयानन्तरमिति भावः । मौनवान् मौनम् अस्यास्तीति मौनवान् वाङ्नियमवान् । तथापि करुणावान् करुणा कृपा अस्यास्तीति करुणावान् शिष्येषु दयावान् । उत्तमचित्त उत्तमे सर्वोत्तमे भगवति चित्तं यस्य स उत्तमचित्तः मध्वाचार्यः । शिष्यशिक्षणपरः शिष्याणां शिक्षणं हितोपदेशस् तस्मिन् पर आसक्तस्सन् अलिखत् । ‘लिख अक्षरविन्यास इत्यतो लङ् परस्मैपदम्’ । मध्वः बदरिकाश्रमं प्रति जिगमिषुस्सन् मौनित्वात् शिष्येषु दयया हितोपदेशाय वक्तव्यं प्रमेयं पत्रे अलिखत् । पत्रमुखेन स्वाभिप्रायं ज्ञापितवान् इति भावः ॥ ४६ ॥

विश्वास-प्रस्तुतिः - ४७

नेदृशं स्थलमलं शमलघ्नं नास्य तीर्थसलिलस्य समं वाः ।
नास्ति विष्णुसदृशं ननु दैवं नास्मदुक्तिसदृशं हितरूपम्॥ ४७ ॥

मूलम् - ४७

नेदृशं स्थलमलं शमलघ्नं नास्य तीर्थसलिलस्य समं वाः ।
नास्ति विष्णुसदृशं ननु दैवं नास्मदुक्तिसदृशं हितरूपम्॥ ४७ ॥

पदार्थदीपिकोद्बोधिका

नेदृशमिति ॥ अलं सम्यग् शमलं पापं हन्ति नाशयतीति शमलघ्नमीदृशमेतत्क्षेत्रसदृशं स्थलं न अन्यन्न विद्यते । अस्य तीर्थरूपं सलिलं तस्य समं वा जलमन्यन् न । अस्माकम् उक्तिर् अस्मदुक्तिस्तया सदृशं समानं हितरूपं वचनञ्च न । विष्णुना सदृशं दैवं क्वापि न विद्यते ननु ॥ ४७ ॥

मन्दोपाकारिणी

किं लिलेख इत्यत आह नेति ॥ अलम् अत्यन्तं शमलघ्नं शमलानि पापानि हन्ति नाशयतीति शमलघ्नम् अशेषपापक्षयकरम् । ‘शमलं शकृदेनसोः’ इति विश्वः । ईदृशम् एतत्क्षेत्रसदृशं स्थलम् अन्यत्क्षेत्रं पुण्यस्थानं न नास्ति । अस्य तीर्थसलिलस्य अत्र विद्यमानभागीरथीतीर्थजलस्य समं सदृशं ‘वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक्’ इत्यमरः वाः सलिलम् अन्यन् न नास्ति । विष्णुसदृशं विष्णोः सदृशं समानं दैवं देवता क्वापि नास्ति ननु नास्त्येव । अस्मदुक्तिसदृशम् अस्माकम् उक्तिर् वचनम् । ‘व्याहार उक्तिर्लपितं भाषितं वचनं वचः’ इत्यमरः । अस्मद्वचनस्य सदृशम् अन्यत् हितरूपम् इष्टापादकवचनं च नास्ति ॥ ४७ ॥

विश्वास-प्रस्तुतिः - ४८

याति तावदधुनैव जनोऽयं व्यासरूपमजितं प्रदिदृक्षुः ।
आव्रजेदिह न वा स हि वेद स्वस्ति वोऽस्त्विति ययावथ मध्वः ॥ ४८ ॥

मूलम् - ४८

याति तावदधुनैव जनोऽयं व्यासरूपमजितं प्रदिदृक्षुः ।
आव्रजेदिह न वा स हि वेद स्वस्ति वोऽस्त्विति ययावथ मध्वः ॥ ४८ ॥

पदार्थदीपिकोद्बोधिका

यातीति ॥ अयं जनो ‘व्यास इति रूपं यस्य’ तमजितं श्रीहरिं प्रद्रष्टुम् इच्छुः सन् अधुनैव इदानीमेव याति यावद् यास्यति । यावत्पुरानिपातयोर्लट् । अयं जन इह पुनराव्रजेदागच्छेन्न वा तदहं न वेद । स श्रीवेदव्यासो वेद हि जानाति हि । वो युष्मभ्यं स्वस्ति सुखमस्तु । ‘स्वस्त्याशीः क्षेमपुण्यादौ’ इत्यमरः । इत्यलिखदिति पूर्वेणान्वयः । अथ लेखनानन्तरं मध्वो ययौ ॥ ४८ ॥

मन्दोपाकारिणी

यातीति ॥ अयं जनः मध्वाख्यः । व्यासरूपं वेदव्यासस्वरूपम् । अजितं हरिं प्रदिदृक्षुर् द्रष्टुमिच्छन् सन् अधुनैव इदानीमेव । ‘एतर्हि संप्रतीदानीमधुना सांप्रतं’ इत्यमरः । याति गच्छति । तावत् सः मध्व इह अस्मिन् अनन्तमठे पुन आव्रजेद् वा आगमिष्यति वा न वा नागमिष्यति वा अहं तदागमनं न वेद्मि किंतु स हि स एव व्यास एव वेद जानाति । ‘हि हेताववधारणे’ इत्यमरः । वः युष्माकं स्वस्ति आशीः सुखमिति यावत् क्षेमो वा, ‘स्वस्त्याशीः क्षेमपुण्यादौ’ इत्यमरो ऽस्तु स्याद् इति एतदर्थप्रतिपादकं वचनम् अलिखद् इति पूर्वेणान्वयः । अथ एवं लेखनानन्तरं मध्वः ययौ । ‘या प्रापण इत्यतो लिट् परस्मैपदं ययौ ययतुर् ययुः’ । ‘व्रज गतावित्यतो लिङ् परस्मैपदम् आव्रजेद् आव्रजेताम् आव्रजेयुः’ विद ज्ञान इत्यतो लट् परस्मैपदं वेद विदतुर् विदुः’ । ‘अस भुवीत्यतो लोट् परस्मैपदम् अस्तु स्तात् , स्तां सन्तु’ ॥ ४८ ॥

विश्वास-प्रस्तुतिः - ४९

नाथ नाथ बत नोऽत्र विनाथान् मा त्यजोरुकरुणो भगवंस्त्वम् ।
नोदितं स्मृतमपीति हि शिष्यैः स्वामिनोऽभिमतभङ्गभयेन॥ ४९ ॥

मूलम् - ४९

नाथ नाथ बत नोऽत्र विनाथान् मा त्यजोरुकरुणो भगवंस्त्वम् ।
नोदितं स्मृतमपीति हि शिष्यैः स्वामिनोऽभिमतभङ्गभयेन॥ ४९ ॥

पदार्थदीपिकोद्बोधिका

नाथ नाथेति ॥ नाथ नाथ स्वामिन् तात्पर्येण द्विरुक्तिः सम्भ्रमे वा । भगवन् श्रीमध्व उर्वी करुणा यस्य स त्वं, विगतो नाथो येषां तान्नोऽस्मानत्र विदेशे मा त्यज । न परित्यज । माशब्दोऽयं न तु माङ्, अतो न लुङ् । बत खेदे । शिष्यैर् इति एवं वक्ष्याम इति स्मृतमपि मनसा चिन्तितमपि स्वामिनः गुरोः श्रीमध्वाचार्यस्य, अभिमतस्य अभीप्सितगमनस्य भङ्गाद्भयेन नोदितं नोक्तम् । अस्माभिर् एवं विज्ञापिते सत्यसौ कृपालुत्वान् न गमिष्यति, तथा च अभिमतगमनभङ्गः स्यादिति भयेन

नोक्तमिति भावः ॥ ४९ ॥

मन्दोपाकारिणी

नाथेति ॥ बत इत्यामन्त्रणे खेदे वा । ‘बतामन्त्रणे सन्तोष-खेदानुक्रोशविस्मये’ इत्यमरः । हे नाथ हे नाथ हे स्वामिन् आदराद् द्विरुक्तिः संभ्रमे वा । हे भगवन् उरुकरुण उर्वी बहुला करुणा यस्य स तथोक्तस् त्वं विनाथान् न विद्यते नाथः प्रभुर् येषां ते तथोक्तास् तान् । ‘वि निषेधे पृथग्भावे’ इति विश्वः । त्वां विना रक्षकरहितान् । नो ऽस्मान् अत्र विदेशे मा त्यज न विसृजोति ‘अमानोनाः प्रतिषेधे’ इत्यत्र पठितः माशब्दः न तु माङ्शब्दः । तेन ‘त्यज’ इति लोट् युज्यते । ‘त्यज हानौ इति धातोर् लोट् परस्मैपदं त्यज त्यजतं त्यजत’ इति । एवं बत खेदेन शिष्यैः स्मृतमपि एवं वक्ष्याम इति मनसा चिन्तितमपि नोदितं नोक्तं हि । कुतः स्वामिनः गुरोर् अभिमतभङ्गभयेन अभिमतस्य इष्टस्य गमनस्य भङ्गः नाशस् तस्य भयेन अस्माभिर् एवं विज्ञापिते सति असौ कृपालुत्वान् न गमिष्यति तथा च अभिमतस्य भङ्गः स्यादिति भावेन नोक्तमिति भावः ॥ ४९ ॥

विश्वास-प्रस्तुतिः - ५०

सद्गुरोर्न विरहं सहमानः सत्यतीर्थयतिरन्वगमत्तम् ।
यस्त्रिवारमितरासुतशाखास्वर्थमग्रयमृणोत्पुरुसंख्यात् ॥ ५० ॥

मूलम् - ५०

सद्गुरोर्न विरहं सहमानः सत्यतीर्थयतिरन्वगमत्तम् ।
यस्त्रिवारमितरासुतशाखास्वर्थमग्रयमृणोत्पुरुसंख्यात् ॥ ५० ॥

पदार्थदीपिकोद्बोधिका

सदिति ॥ यः सत्यतीर्थयतिर् इतरादेव्याः सुतो महिदासा-भिधो हरिस् तेन दृष्टाः शाखा इतरासुतशाखास्तासु प्रतिपाद्यम् अग्रयमर्थं पुरुः पूर्णा संख्या ज्ञानं यस्य तस्मात् श्रीमध्वाचार्यात् त्रिवारं त्रिरावृत्ति अृणोत् । सत्यतीर्थयतिः सद्गुरोः श्रीमध्वाचार्यस्य विरहं वियोगं न सहमानः सन् सोढुमशक्तः सन् तं श्रीमध्वम् अन्वगमत् । अन्वगच्छत् । अत्र इतरासुतशाखास्वर्थम् इत्यैकपदत्वेऽर्थस्य सुशब्देनाग्रयत्वोक्तेः पुनरग्रय-पदवैय्यर्थ्यं स्यात् ॥ ५० ॥

मन्दोपाकारिणी

सदिति ॥ सत्यतीर्थयतिः सत्यतीर्थश्चासौ यतिश्च सत्यतीर्थाख्य-सन्यासी । सद्गुरोः सतां गुरोर् मध्वाचार्यस्य विरहं वियोगं न सहमानो ऽसहमानः सन् तं मध्वाचार्यम् अन्वगमद् अनु पश्चात् । ‘पश्चात्सादृश्ययोरनु’ इत्यमरः, अगमत् पृष्ठतो जगामेति भावः । ‘गम्लृ गतौ लुङ् परस्मैपदम् अगमद् अगमताम् अगमन्’ । यः सत्यतीर्थः, इतरासुतशाखासु इतराया इतरानामिकायाः स्त्रियः सुतस्य ऐतरेयस्य हरेः शाखासु प्रतिपाद्यम् अग्रयम् उत्तमम् अर्थं त्रिवारं त्रिशः पुरुसंख्यात् पूर्णप्रज्ञाचार्याद् अृणोत् शुश्राव । ‘श्रु श्रवण इत्यस्माद् लङ् परस्मैपदम् अृणोद् अृणुताम् अृण्वन्’ । सः सत्यतीर्थ इति सम्बन्धः ॥ ५० ॥

विश्वास-प्रस्तुतिः - ५१

दुर्गमार्गगतमप्यनुधावन् नाप सोऽयमरुणीभवतीने ।
लीलया सजवमाक्रममाणं व्याश्रयान्तरसुदूरशिलासु ॥ ५१ ॥

मूलम् - ५१

दुर्गमार्गगतमप्यनुधावन् नाप सोऽयमरुणीभवतीने ।
लीलया सजवमाक्रममाणं व्याश्रयान्तरसुदूरशिलासु ॥ ५१ ॥

पदार्थदीपिकोद्बोधिका

दुर्गेति ॥ स सत्यतीर्थः । दुर्गो गन्तुमशक्यो यो मार्गस्तं गतमपि प्राप्तमप्यनुसृत्य धावति इति अनुधावन् अविलम्बेन धावन्नित्यर्थः । इने सूर्ये । ‘मार्ताण्डस्तपनो विकर्तन इन’ इति हलः । अरुणीभवति सति अस्ताभिमुखे सतीति यावत् । विगत आश्रयो यस्य तद्य्वाश्रयमन्तरं मध्यं यासां ता व्याश्रयान्तराः । सुदूरे स्थिताः शिलाः सुदूरशिला व्याश्रयान्तराश्च ताः सुदूरशिलाश्च तासु गिरिमध्ये परिघारूपासु शिलासु लीलयाऽनायासेन जवेन वेगेन सहितं यथा भवति तथा सजवमाक्रममाणं, आप्लुत्याप्लुत्याक्रम्य गच्छन्तमिति भावः । नाप न जगाम । सायङ्कालपर्यन्तमनुधावन्नपि सायङ्काले प्राप्ते सति सजवं गच्छन्तं श्रीमध्वमनुगन्तुमशक्तः स्वयं ततः परं न अनुजगामेति भावः ॥ ५१ ॥

मन्दोपाकारिणी

दुर्गेति ॥ सोऽयं पूर्वोक्तः सत्यतीर्थः दुर्गमार्गगतमपि दुर्गो ऽन्यैर् गन्तुम् अशक्यश्चासौ मार्गश्च दुर्गमार्गः । ‘दुः स्यात्कष्टनिषेधयोः’ इति विश्वः । तस्मिन् गतमपि प्रयातमपि मध्वाचार्यम् अनुधावन् अनुसृत्य धावन् अविलम्बेन गच्छन्नपि । इने सूर्ये । ‘इनः सूर्ये नृपे पत्यौ’ इति विश्वः । अरुणीभवति न अरुणो ऽरुणवत्संपद्यमानो ऽरुणीभवन् तस्मिन् रक्तवर्णे सति अस्ताभिमुखे सतीति यावत् तं मध्वं न आप न प्राप्तवान् कथंभूतं मध्वं व्याश्रयान्तरसुदूरशिलासु न विद्यते आश्रयः विश्रामस्थानं यस्मिन् तद् व्याश्रयम् अन्तरं मध्यं यासां ता व्याश्रयान्तराः सुदूरे बहुदूरे स्थिताश्च ताः शिलाः पाषाणाश्च सुदूरशिला व्याश्रयान्तराश्च ताः सुदूरशिलाश्च इति तथोक्तास् तासु विश्रामस्थलरहितासु सुदूरतो विद्यमानासु शिलासु इति भावः । लीलया अनायासेन । सजवं जवेन वेगेन सहितं यथा भवति तथा । ‘जवोऽथ शीघ्रं त्वरितं लघु क्षिप्रं’ इत्यमरः । वेगेनेति यावत् । आक्रममाणम् उत्पतन्तम् आप्लुत्याप्लुत्यातिक्रम्य गच्छन्तमिति भावः । सत्यतीर्थो ऽत्यशक्यमार्गे गच्छन्तमपि मध्वम् अनु त्वरया गच्छन् सायङ्काले सति विश्रामस्थलरहितदूरगतशिलासु त्वरया आप्लुत्य गच्छन्तं मध्वम् अनुगन्तुम् अशक्तस्सन् न प्राप्त इति भावः ॥ ५१ ॥

विश्वास-प्रस्तुतिः - ५२

आनिवृत्तवपुषा गुरुणारात् पाणिना ह्मभिनयेन सुनुन्नः ।
त्रस्तधीरतिययौ स मुहूर्तात् तद्दिनोपगतमार्गमशेषम् ॥ ५२ ॥

मूलम् - ५२

आनिवृत्तवपुषा गुरुणारात् पाणिना ह्मभिनयेन सुनुन्नः ।
त्रस्तधीरतिययौ स मुहूर्तात् तद्दिनोपगतमार्गमशेषम् ॥ ५२ ॥

पदार्थदीपिकोद्बोधिका

आनिवृत्तेति ॥ आनिवृत्तं पृष्ठतो द्रष्टुमावृत्तं वपुर्यस्य तेन गुरुणा श्रीमध्वाचार्येण, पाणिना करेणाभिनयेन पश्चाद्गमनसूचकपाणिचलनेन आराद् दूरे । ‘आराद्दूरसमीपयोः’ इत्यमरः । सुनुन्नः सम्यक् प्रेरितः स सत्यतीर्थः, त्रस्ता व्याघ्रादिभ्यो भीता धीर्यस्य तथा सन्नपि । तच्च तद्दिनञ्च तस्मिन्नुपगतः प्राप्तः स चासौ मार्गश्च तं मुहूर्तान्मुहूर्तकालाद् अतिययौ अत्यगात् ॥ ५२ ॥

मन्दोपाकारिणी

आनिवृत्तेति ॥ आनिवृत्तवपुषा पृष्ठभागे द्रष्टुम् आ ईषत् किञ्चिद् इति यावत् , निवृत्तं परावृत्तं वपुर् देहः यस्य स आनिवृत्तवपुस् तेन । ‘आङीषदर्थेऽभि-व्याप्तौ’ इत्यमरः । गुरुणा मध्वाचार्येण कर्त्रा । अभिनयेन स्वमनोभिप्रायसूचकेन । आराद् दूरात् पाणिना हस्तेन सुनुन्नः सम्यक् प्रेरितः सः सत्यतीर्थः । त्रस्तधीश्च सन् त्रस्ता व्याघ्रादिभ्यः भीता धीर् बुद्धिर् यस्य सः । तद्दिनोपगतमार्गं तच्च तद् दिनम् अहश्च तद्दिनम् उदयमारभ्य सायङ्कालपर्यन्तमिति यावत् । उपगतं प्रयातं मार्गम् अशेषं समस्तमपि मुहूर्ताद् घटिकाद्वयरूपाद् अतिययौ अति अतीत्य ययौ अगात् ॥ ५२ ॥

विश्वास-प्रस्तुतिः - ५३

आश्रमे निजजनानिह दृष्ट्वा तं प्रसादमहिमानममुष्य ।
प्रोच्य तत्प्लवनमप्यतिचित्रं तस्य तैः सह सदास्मरदेषः ॥ ५३ ॥

मूलम् - ५३

आश्रमे निजजनानिह दृष्ट्वा तं प्रसादमहिमानममुष्य ।
प्रोच्य तत्प्लवनमप्यतिचित्रं तस्य तैः सह सदास्मरदेषः ॥ ५३ ॥

पदार्थदीपिकोद्बोधिका

आश्रम इति ॥ एष सत्यतीर्थः, इह आश्रमे अनन्तमठे निजजनान् दृष्ट्वा तेभ्यस्तं स्वस्मिन् कृतममुष्य श्रीमध्वाचार्यस्य प्रसादमहिमानम् अनुग्रह-महिमानं प्रोच्य, अतिचित्रं तत्प्लवनमपि श्रीमध्वाचार्यस्य गमनमपि प्रोच्य तैर्निजैः सह तस्यास्मरत् । तं श्रीमध्वाचार्यम् अस्मरत् । अधीगर्थेति कर्मणि षष्ठी ॥ ५३ ॥

मन्दोपाकारिणी

आश्रम इति ॥ एषः सत्यतीर्थ इह आश्रमे अनन्तमठे निजजनान् निजाश्च ते जनाश्च तान् स्वकीयजनान् दृष्ट्वा तेभ्यो ऽमुष्य मध्वाचार्यस्य तं प्रसादमहिमानं प्रसादस्य स्वस्मिन् कृतस्य मुहूर्तमात्रेणैव अतिदूरमार्गातिक्रमणरूपस्य अनुग्रहस्य महिमानं माहात्म्यं प्रोच्य अभिधाय अतिचित्रम् अत्याश्चर्यं तत्प्लवनमपि तस्य मध्वाचार्यस्य प्लवनमपि आप्लुत्याप्लुत्य गमनमपि प्रोच्य तैर् निजैः सह तस्य मध्वाचार्यस्य । ‘अधीगर्थदयेशां कर्मणी’ति कर्मणि षष्ठी । तं मध्वाचार्यमित्यर्थः । सदा नित्यम् अस्मरद् ध्यातवान् । मध्वाचार्यगमनानन्तरं शिष्या नित्यं मध्वाचार्यं स्मरन्तस् तत्रावसन् इति भावः । ‘स्मृ चिन्तायां’ इत्यतो लङ् परस्मैपदम् ॥ ५३ ॥

विश्वास-प्रस्तुतिः - ५४

वानरेन्द्र इव वायुजवोऽसौ भीमसेन इव दानवभीमः ।
उल्ललास गिरिपुङ्गवशृङ्गे स व्रजन् वृजिननाशननामा ॥ ५४ ॥

मूलम् - ५४

वानरेन्द्र इव वायुजवोऽसौ भीमसेन इव दानवभीमः ।
उल्ललास गिरिपुङ्गवशृङ्गे स व्रजन् वृजिननाशननामा ॥ ५४ ॥

पदार्थदीपिकोद्बोधिका

वानरेन्द्र इति ॥ समुद्रलङ्घने वानरेन्द्र इव हनूमानिव । वायोर्जव इव जवो यस्यासौ सौगन्धिकवनं गच्छन् भीमसेन इव दानवभीमो दैत्यभयङ्करः । वृजिनस्य नाशनं यस्मात् तादृशं नाम यस्य स श्रीमध्वाचार्यो गिरिपुङ्गवस्य गिरिश्रेष्ठस्य हिमवतश्ृङ्गे शिखरे उल्ललास शुशुभे ॥ ५४ ॥

मन्दोपाकारिणी

वानरेन्द्र इति ॥ समुद्रलङ्घने वानरेन्द्र इव वानराणां कपीनाम् इन्द्रः स्वामी हनुमानिव । वायुजवः वायुर् वायुवज् जवो वेगो यस्य स तथोक्तः । सौगन्धिकवनं गच्छन् भीमसेन इव दानवभीमः दानवानाम् असुराणां भीमः भयङ्करः । ‘भीमोम्लवेतसे घोरे शंभौ मध्यमपाण्डवे’ इति विश्वः । असौ श्रीमध्वाचार्यः गिरिपुङ्गवश्रुङ्गे गिरिषु पर्वतेषु पुङ्गवानां श्रेष्ठानाम् । ‘स्युरुत्तरपदेव्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः’ इत्यमरः । ृङ्गे शिखरे ‘‘कूटोऽस्त्रीशिखरं ृङ्गं’ इत्यमरः । व्रजन् गच्छन् । वृजिननाशननामा वृजिनानाम् अघानां नाशनं नाशकरं नाम यस्य स तथोक्तः । ‘कलुषं वृजिनैनोघं’ इत्यमरः । सः मध्वाचार्य उल्ललास शुशुभे । ‘उत्पूर्वाद् लस् श्लेषणक्रीडनयोर् इत्यतो लिट् परस्मैपदम्’ ॥ ५४ ॥

विश्वास-प्रस्तुतिः - ५५

बहुसत्त्वगणं सविकं समहाविषमोक्षमहाहिमवन्तमयम् ।
विषमोक्षमहाहिमवन्तमयन्नगमैक्षत फुल्लदृगस्तभयः ॥ ५५ ॥

मूलम् - ५५

बहुसत्त्वगणं सविकं समहाविषमोक्षमहाहिमवन्तमयम् ।
विषमोक्षमहाहिमवन्तमयन्नगमैक्षत फुल्लदृगस्तभयः ॥ ५५ ॥

भावप्रकाशिका

बहुसत्वगणमवन्तं समहाविषमोक्षमहानागं विषमऋषभतेजाः । अयन् गच्छन् ॥ ५५ ॥

पदार्थदीपिकोद्बोधिका

बह्वति ॥ बहुसत्वगणं, सविकं, समहाविषमोक्षमहाहिं, अवन्तं, अयं, विषमोक्षमहाः, हिमवन्तं, अयन्, नगं, ऐक्षत, फुल्लदृक्, अस्तभयः । अयन्नुतरबदरीं गच्छन् विषमः क्रुद्धो य उक्षा वृषभः । ‘उक्षानड्वान्बलीवर्दः’ इति हलः । तस्य मह इव तेज इव महस् तेजो यस्य सोऽयं श्रीमध्वाचार्याः, विभिः पक्षिभिः सहितं सविकं, महतो विषस्य मोक्षो मोचनं तेन सहिताः समहाविषमोक्षास्तादृशा महाहयो महासर्पा यस्मिंस्तम् । बहवो ये सत्वाः प्राणिनस्तेषां गणं समूहम् । ‘सत्वोऽस्त्री जन्तुषु क्लीबे व्यवसाये पराक्रमे’ इति वैजयन्ती । अवन्तं रक्षन्तं हिमवन्तं नगं गिरिम् । ऐक्षत ददर्श । अत्र तोटकवृत्तम् । ‘यदि तोटकमम्बुधिसैः कथितम्’ इति तल्लक्षणात् ॥ ५५ ॥

मन्दोपाकारिणी

बह्वति ॥ बहुसत्वगणं सविकं समहाविषमोक्षमहाहिम् अवन्तम् अयं विषमोक्षमहा हिमवन्तम् अयन् नगम् इति पदच्छेदः । विषमोक्षमहा न विद्यते समो यस्य असौ विषमो ऽसमः स चासौ उक्षा बलीवर्दश्च विषमोक्षः । ‘उक्षा भद्रो बलीवर्दः’ इत्यमरः । तद्वन् महस् तेजो यस्य सः विषमोक्षमहाः । ‘महो भवेदुत्सवतेजसोश्च’ इति विश्वः । बलाढ्यवृषभतुल्य इत्यर्थः । फुल्लदृक् फुल्ले विकसिते दृशौ यस्य स तथोक्तः । ‘फुल्लश्चैते विकसिते’ इत्यमरः । अस्तभयो ऽस्तं निरस्तं भयं यस्मात् स तथोक्तः । अयन् गच्छन् अयं श्रीमध्वाचार्यः । हिमवन्तं हिमवन्नामकं नगं शैलं ‘शैलवृक्षौ नगावगौ’ इत्यमरः । ऐक्षत ददर्श । ‘ईक्ष दर्शन इत्यतो लङात्मनेपदम् ऐक्षत ऐक्षेताम् ऐक्षन्त’ । कथंभूतं नगम् , सविकं विभिः पक्षिभिः सहितः सविः सविरेव सविकस् तम् । ‘शकुन्तः शकुनिर्विश्च-पतङ्गोवीश्वरोऽन्यथेति’ विश्वः । समहाविषमोक्षमहाहिं महद् अत्युग्रं च तद् विषं गरलं च महाविषं महाविषस्य मोक्षेण विसर्गेण सहिताः समहाविषमोक्षा महान्तः स्थूलदेहाश्च ते अहयः भुजङ्गाश्च महाहयः समहाविषमोक्षा महाहयो यस्मिन् स तथोक्तस् तम् । ‘भुजङ्गोऽहिर्भुजङ्गमः’ इत्यमरः । बहुसत्वगणं बहूनि च तानि सत्वानि जन्तवश्च बहुसत्वानि । ‘सत्वमस्त्री तु जन्तुषु’ इत्यमरः । बहुसत्वानां सिंहव्याघ्रादीनां प्राणिनां गणं समूहम् अवन्तं रक्षन्तं वृत्तं तु तोटकम् ‘वद । तोटकमम्बुधि सकारयुतम्’ इत्युक्तेः ॥ ५५ ॥

विश्वास-प्रस्तुतिः - ५६

सुहसितकमलाकरोपगूढं सुजनसुखार्थमनन्तभोगशय्यम् ।
विकसितसुमनोघटागमुच्चं मरकतरत्नमयस्थलाग्रयशोभम्॥ ५६ ॥

मूलम् - ५६

सुहसितकमलाकरोपगूढं सुजनसुखार्थमनन्तभोगशय्यम् ।
विकसितसुमनोघटागमुच्चं मरकतरत्नमयस्थलाग्रयशोभम्॥ ५६ ॥

भावप्रकाशिका

सुफुल्लैः कमलाकरैः सुहसितकमलायाः कराभ्यां च । गन्धर्वादि-सुजनानां सुखाय अपरिमितशय्यासहितं सुजनसुखप्रयोजनं च । विकसितपुष्पसमूहवृक्षं देवसमूहगतं च । मरकतरत्नमयस्थलैरग्रया शोभा यस्य, स्थलवदग्रयशोभं च ॥ ५६ ॥

पदार्थदीपिकोद्बोधिका

सुहसितेति ॥ तदा स्वानन्दतीर्थस्तं धरणीधरं पर्वतं दृष्ट्वा मुररिपुं हरिम् अस्मरद् इत्यन्त्ययुग्मम् । अत्रोक्तविशेषणानि गिरौ हरौ च यथायोग्यं योजनीयानि । कथंभूतं धरणीधरमित्यत उच्यते सुहसितेत्यादिना । सुहसिता अत्यन्तं विकसिता ये कमलाकराः पद्मिन्यस्तैरुपगूढं परिवृतम् । हरिपक्षे तु, सु शोभनं हसितं मन्दहासो यस्याः सा सुहसिता सा च सा कमला रमा च तस्याः करौ ताभ्यामुपगूढम् आश्लिष्टम् । सुजनानां सुकृतिनां सुखायेति सुखार्थं, अनन्ता भोगाः स्रगादयः, ते च शय्याः पर्यङ्कास्ते च भोगशय्या अनन्ता अपरिमिता अविनाशिनो वा भोगशय्या यस्य तम् । हिमवत्प्रदेशस्य भूस्वर्गत्वादिति भावः । हरौ तु, सुजनसुखार्थमनन्तभोगः शेषशरीरं शय्या यस्य तम् । सज्जनसुखार्थं हि भगवाननन्तभोगशय्यो भवति । तच्चोक्तं ‘माधवश्चतुरो मासान् सर्वभूतहिताय वै । स्वापं यास्यति शेषाङ्गे लक्ष्म्या सह जगत्पतिः’ इति । विकसितानि यानि सुमनांसि पुष्पाणि तेषां घटा समूहः । घट सङ्घात इति धातोः । संसर्गो वा येषां ते विकसितसुमनोघटास्तादृशा अगा वृक्षा यस्मिंस्तम् । ‘घटा घटनगोष्ठीभघटनासु प्रयुज्यत’ इति विश्वः । हरौ तु, विकसिताः सन्तुष्टा ये सुमनसो देवास्तेषां घटा समूहः । तां गच्छतीत्यन्तर्यामितया विशतीति तम् । यद्वा विकसितसुमनसां सन्तुष्टदेवानां या घटा गोष्ठी तां गच्छतीति तथोक्तस्तम् । उच्चम् उन्नतमुत्तमं वा । हरौ तु, उच्चं सर्वोत्तमम् । मरकतरत्नमयानि यानि स्थलानि तैर् अग्रया श्रेष्ठा शोभा कान्तिर्यस्य तम् । हरौ तु, मरकतरत्नमयस्थलवदग्रया शोभा यस्य तमस्मरदित्यन्वयः । पुष्पिताग्रावृत्तम् । ‘अयुजि नयुगरेफतो यकारो युजि तु नजौ जरगाश्च पुष्पिताग्रा’ इति लक्षणात् ॥ ५६ ॥

मन्दोपाकारिणी

सुहसितेति ॥ तदा गमनकाले । स्वानन्दतीर्थः शोभनश्चासौ आनन्दतीर्थश्च स्वानन्दतीर्थः मध्वस् तं धरणीधरं भूधरं हिमवत्पर्वतं दृष्ट्वा । मुररिपुं मुरस्य मुरनामकस्य दैत्यस्य रिपुं शत्रुं हरिम् अस्मरत् सस्मार इत्यन्तं कुलकम् । अत्र श्लोकयुग्मे प्रोक्तानि विशेषणानि गिरौ हरौ यथायोग्यं योजनीयानि । तथा हि– कथम्भूतं धरणीधरम् । सुहसितकमलाकरोपगूढं सुहसिता अत्यन्तं विकसिताश्च ते कमलाकराः सरांसि च ‘पद्माकरस्तटाकोऽस्त्री कासारः सरसी सरः’ इत्यमरः । तैर् उपगूढं परिवृतम् । सुजनसुखार्थं सुजनानां पुण्यसंपादनवतां सज्जनानां सुखार्थं सुखप्राप्तये । अनन्तभोगशय्यं भोगाः ृङ्गारादयश्च शय्यास् तल्पाश्च भोगशय्या अनन्ता अपरिमिता अविनाशिन्यो वा भोगशय्या यस्मिन् स तथोक्तस् तम् । ‘अनन्तोऽनवधावपि’ इत्यमरः । हिमवत्पर्वतप्रदेशस्य भूस्वर्गत्वात् पुण्यवतां भोगसाधनोऽयमिति भावः । विकसितसुमनोघटागं विकसिताः सुमनसः पुष्पाणि च विकसितसुमनसः । ‘स्त्रियः सुमनसः पुष्पं’ इत्यमरः । विकसितसुमनसां घटा समूहः येषु विकसितसुमनोघटा अगा वृक्षा यस्मिन् स तथोक्तस् तम् । ‘अगः शैले द्रुमे भानौ’ इति विश्वः । उच्चम् उन्नतम् । ‘उच्चप्रांशून्नतोदग्रोछ्रितास्तुङ्गः’ इत्यमरः । मरकतरत्न-मयस्थलाग्रयशोभं मरकतानि च तानि रत्नानि च मरकतरत्नानि हरिन्मणिनामकानि रत्नानि इत्यर्थः । ‘अश्मगर्भो हरिन्मणिः’ इत्यमरः । मरकतरत्नानि मयाः प्रधाना येषु तानि मरकतरत्नमयानि । ‘प्राधान्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा’ इत्यभिधानम् । तानि च तानि स्थलानि च मरकतरत्नमयस्थलानि तैर् अग्रया उत्तमा शोभा कान्तिर् यस्य सस् तथोक्तस् तम् । ‘शोभाभिख्याकान्तिद्युतिश्छविः’ इत्यमरः । इन्द्रनीलमणिमयप्रदेशविशेषैः शोभमानमित्यर्थः । मुरारिपुपक्षे तु, सुहसितकमलाकरोपगूढं शोभमानं हसितं मन्दहासो यस्याः सा सुहसिता च सा कमला लक्ष्मीश्च सुहसितकमला । ‘कमला श्रीर्हरिप्रिया’ इत्यमरः । कमलायाः कराभ्यां हस्ताभ्याम् उपगूढम् आश्लिष्टं सुजनसुखार्थं सुजनानां सर्वप्राणिनां सुखार्थं हिताय अनन्तभोगशय्यम् अनन्तस्य शेषस्य ‘शेषोऽनन्तो वासुकिस्तु’ इत्यमरः । भोगः शरीरम् । ‘भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः’ इत्यमरः । स एव शय्या तल्पः यस्य स तथोक्तस् तम् । ‘माधवश्चतुरो मासान् सर्वभूतहिताय वै । स्वापं यास्यति शेषाङ्गे लक्ष्म्या सह जगत्पतिः ॥’ इति वचनात् सर्वभूतहिताय शेषशरीरे शयनं प्रसिद्धम् । विकसितसुमनोघटागं विकसिता हर्षिताश्च ते सुमनसः देवाश्च विकसितसुमनसः । ‘मालायां पण्डिते पुष्पे देवे सुमनसोऽभिधा’ इति विश्वप्रकाशे । विकसितसुमनसां घटायां समूहे गच्छति तिष्ठतीति विकसितसुमनोघटागम् उच्चं सर्वोत्तमम् । मरकतरत्नमयस्थलाग्रयशोभं मरकतरत्नमयस्थलवद् अग्रया उत्तमा शोभा यस्य स तथोक्तस् तं मरकतमणिश्याममिति यावत् । पुष्पिताग्रावृत्तं ‘अयुजि नयुगरेफतो यकारो युजि च न जौ जरगाश्च पुष्पिताग्रे’ति तल्लक्षणात् ॥ ५६ ॥

विश्वास-प्रस्तुतिः - ५७

पादोपान्तनमन्महामुनिगणं हेमप्रदीप्ताम्बरं
श्रीमद्रत्नकलापमग्रयकटकैर्विभ्राजितं हाटकैः ।
दृष्ट्वा तं धरणीधरं सुवनमालोल्लासिनं सुन्दरं
स्वानन्दाकृतिमस्मरन्मुररिपुं स्वानन्दतीर्थस्तदा ॥ ५७ ॥

मूलम् - ५७

पादोपान्तनमन्महामुनिगणं हेमप्रदीप्ताम्बरं
श्रीमद्रत्नकलापमग्रयकटकैर्विभ्राजितं हाटकैः ।
दृष्ट्वा तं धरणीधरं सुवनमालोल्लासिनं सुन्दरं
स्वानन्दाकृतिमस्मरन्मुररिपुं स्वानन्दतीर्थस्तदा ॥ ५७ ॥

॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपण्डिताचार्यसुतश्रीनारायणपण्डिताचार्य विरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनन्दाङ्के षष्ठः सर्गः ॥

भावप्रकाशिका

स्वृङ्गहेम्ना प्रदीप्तगगनं हेमवत्प्रदीप्तं वस्त्रं च । कलापः समूहः काञ्ची च कटको नितम्बो वलयं च । धरणीधरं गिरिं नारायणम् ॥ ५७ ॥

॥ इति श्रीनारायणपण्डिताचार्यविरचितायां स्वकृतश्रीसुमध्वविजयस्य भावप्रकाशिकाख्यटीकायां षष्ठः सर्गः ॥

पदार्थदीपिकोद्बोधिका

पादोपान्तेति ॥ स्वानन्दतीर्थस्तदा, पादाः प्रत्यन्तपर्व-तास्तेषामुपान्ते समीपे नमन्तो नमस्कारं कुर्वन्तो ये महामुनिगणा महामुनिसमूहा यस्मिंस्तम् । हरिपक्षे तु, पादोपान्तनमन्तः श्रीहरिचरणसमीपे नमस्कारं कुर्वन्तो महामुनिगणा यस्य तम् । हेम्ना स्वशिखरगतस्वर्णेन प्रदीप्तं प्रदीपितमम्बरमाकाशो येन तम् । हरौ तु, हेमवत् स्वर्णवत् प्रदीप्तमम्बरं यस्य तम् । पीताम्बरधरमित्यर्थः । श्रीमन्ति कान्तिमन्ति यानि रत्नानि तेषां कलापः समूहो यस्मिंस्तम् । ‘कलापो बर्हभूषयोः सङ्गतो भूषणे काञ्च््यां’ इति हेमचन्द्रः । हरौ तु, श्रीमन्ति रत्नानि येषु ते श्रीमद्रत्नास्तादृशाः कलापा भूषणानि यस्य तम् । हाटकैः सुवर्णैः । ‘सुवर्णं हेम हाटकं’ इत्यमरः । अग्रयकटका उन्नतनितम्बास्तैर्विभ्राजितं शोभितम् । हरौ तु, हाटकैः सौवर्णैर् अग्रयाणि यानि कटकानि हस्तवलयानि तैर्विभ्राजितम् । ‘भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्’ इत्यमरः । शोभनानि वनानि सुवनानि तेषां मालाः पङ्क्तयस्ताभिरुल्लसितुं शीलमस्येति तम् । ‘माला तु पङ्क्तौ पुष्पादिदामनि’ इति हेमचन्द्रः । हरौ तु, सुवनमाला शोभनवनमाला तयोल्लसितुं शीलमस्येति तम् । सुन्दरं रमणीयम् । हरौ तु, सुललितम् । शोभनमानन्दो यस्याः सा स्वानन्दा । स्वानन्दहेतुरित्यर्थः । तादृशी आकृतिस्स्वरूपं यस्य तम् । हरौ तु, स्वानन्दो निर्दोषस्वरूपभूतानन्दः स एवाकृतिर्देहो यस्य तम् । धरणीं धरतीति धरणीधरस् तं हिमवन्तं दृष्ट्वा, मुररिपुं श्रीहरिमस्मरत् । स्मृ आध्याने लङ् । अत्र शार्दूलविक्रीडितवृत्तम् ॥ ५७ ॥

॥ इति श्रीमद्वेदाङ्गमुनिविरचितश्रीसुमध्वविजयटीकाविवृतौ श्रीविश्वपतितीर्थकृतौ पदार्थदीपिकोद्बोधिकायां षष्ठः सर्गः ॥

मन्दोपाकारिणी

पादोपान्तेति ॥ पुनः कथंभूतं धरणीधरम् । पादोपान्तन-मन्महामुनिगणं पादाः प्रत्यन्तपर्वतास् तेषाम् उपान्तेषु समीपेषु नमन्तः नमस्कारं कुर्वन्तः महान्तः श्रेष्ठाश्च ते मुनय ऋषयश्च महामुनयः पादोपान्तनमन्तश्च ते महामुनयश्च तेषां गणः समूहो यस्मिन् सस् तम् । तत्र बहवो मुनयः नमस्कारादिसाधनं कुर्वन्तीति भावः । हेमप्रदीप्ताम्बरं शिखरगतहेम्ना सुवर्णेन प्रदीप्तं प्रकाशितम् अम्बरम् आकाशं येन स तथोक्तस् तम् । श्रीमद्रत्नकलापं श्रीर् एषु अस्तीति श्रीमन्ति कान्तिमन्ति, तानि च तानि रत्नानि च श्रीमद्रत्नानि तेषां कलापः समूहः यस्मिन् स तथोक्तस् तम् । मुक्ताप्रवालपद्मरागादि-रत्नसमूहोपेतम् इत्यर्थः । हाटकैः सुवर्णमयैः । ‘हिरण्यं हेम हाटकं’ इत्यमरः । अग्रयकटकैर् अग्रया उत्तमाश्च ते कटकास् तैः । विभ्राजितं भासमानम् । सुवनमालोल्लासिनं शोभनानि विकसितानि च तानि वनानि च सुवनानि सुवनानां मालाभिः पङ्क्तिभिः समूहैर् इति यावत् । उल्लासी शोभमानस् तम् । ‘माला चोन्नतभूर्माला पङ्क्तौ पुष्पादिमालिका’ इति विश्वः । सुन्दरं रमणीयं स्वानन्दाकृतिं स्वानन्दप्रदा आकृतिर् आकारो यस्य स तथोक्तस् तम् । मुरारिपुपक्षे तु । पादोपान्तनमन्महामुनिगणं पादयोश् चरणयोर् उपान्ते समीपे नमन्तः प्रह्वीभूता महतां मुनीनां देवादीनां ज्ञानिनां गणाः समूहा यस्य स तथोक्तः । सर्वे जना हरिपादसन्निधौ प्रह्वीभूतास् तिष्ठन्तीति भावः । हेमप्रदीप्ताम्बरं हेमवत् सुवर्णवत् प्रदीप्तं दीप्यमानम् अम्बरं वस्त्रं पीताम्बरं यस्य स तथोक्तस् तम् । ‘अम्बरं व्योमि्न वाससि’ इत्यमरः । श्रीमद्रत्नकलापं श्रीमतां कान्तिमतां रत्नानां कलापो भूषणं यस्य स तथोक्तस् तम् । रत्नखचितालङ्कारोपेतम् इत्यर्थः । ‘कलापो भूषणे बर्हे’ इत्यमरः । हाटकैः सुवर्णविकारैर् अग्रयकटकैर् उत्तमवलयैः करभूषणैः कङ्कणैर् इत्यर्थः । विभ्राजितं शोभमानम् । ‘भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्’ इत्यमरः । सुवनमालोल्लासिनं शोभमाना च सा वनमाला वैजयन्तीमाला च तया उल्लासिनं शोभमाननं सुन्दरं शोभमानम् । स्वानन्दाकृतिं सु निर्दोषश्चासौ आनन्दः सुखं च स एव आकृतिर् देहो यस्य स तथोक्तस् तम् । हरिगिर्योः शब्दतः सादृश्यात् सदृशपर्वतदर्शनेन सदृशनारायणस्मरणमभूद् इति भावः । वृत्तं तु शार्दूलविक्रीडितम् । ‘सूर्याश्वैर्यदि मः सजौ सततगौः शार्दूलविक्रीडितं’ इति तल्लक्षणात् ॥ ५७ ॥

॥ इति श्रीमध्वविजयटीकायां श्रीमच्छलारिनरसिंहाचार्याणां शिष्येण शेषेण विरचितायां मन्दोपकारिण्यां षष्ठः सर्गः ॥ ६ ॥