पञ्चमः सर्गः
पञ्चमः सर्गः
विश्वास-प्रस्तुतिः - १
वेदान्तविद्यानिजराज्यपालने सङ्कल्प्यमानो गुरुणा गरीयसि ।
अदभ्रचेता अभिषिच्यते पुरा स वारिभिर्वारिजपूरितैरथ ॥ १ ॥
मूलम् - १
वेदान्तविद्यानिजराज्यपालने सङ्कल्प्यमानो गुरुणा गरीयसि ।
अदभ्रचेता अभिषिच्यते पुरा स वारिभिर्वारिजपूरितैरथ ॥ १ ॥
पदार्थदीपिकोद्बोधिका
वेदान्तेति ॥ अथ पूर्णप्रज्ञाचार्यस्य भागवतव्याख्यानानन्तरं गरीयसि अतिमहति वेदान्तविद्यानिजराज्यपालने वेदानामन्तो निर्णयो यस्मात्तद्वेदान्तं ब्रह्ममीमांसाशास्त्रं तद्रूपा या विद्या वेदान्तविद्या सैव निजराज्यम् आत्मीयराज्यं तस्य पालनं व्याख्यानेन शिष्यादिषु सम्प्रदायप्रवर्तनाख्यरक्षणं तस्मिन् सङ्कल्प्यमानो वेदान्तशास्त्र-प्रतिकूलवादिनिराकरणपूर्वकं वेदान्तव्याख्यादिष्वयं समर्थः सन् सम्यक् प्रवर्ततामिति मनसा सङ्कल्प्यमान इत्यर्थः । अदभ्रचेता दभ्रमल्पं न भवतीति अदभ्रं परिपूर्णं तादृशं चेतो यस्य सोऽदभ्रचेताः पूर्णप्रज्ञाचार्यः । गुरुणाच्युतप्रेक्षाचार्येण वारिजपूरितैः शङ्खपूरितैर्वारिभिर्ज-लैरभिषिच्यते पुरा अभिषिक्तः । षिच्लृ आसेचने ‘यावत्पुरानिपातयोर्लडि’ति अतीतार्थे कर्मणि लट् । गुरुणा योगराज्येऽभिषिक्तोऽभूदिति भावः । अत्र वृत्तन्तु इन्द्रवंशेति । यथोक्तम् ‘‘स्यादिन्द्रवंशा गदिता ततौ जरौ’’ इति ॥ १ ॥
मन्दोपाकारिणी
वेदान्तेति ॥ अथ किञ्चित् कालानन्तरं सो ऽदभ्रचेता अदभ्रं बहुलम् पूर्णमिति यावत् । ‘अदभ्रं बहुलं बहु’ इत्यमरः, चेतः मनः यस्य सो ऽदभ्रचेताः पूर्णप्रज्ञाचार्यः । गुरुणा अच्युतप्रेक्षेण वारिजपूरितैर् वारिणि उदके जायत इति वारिजः शङ्खः ‘लवणाम्बुजयोरब्जं क्लीबे शङ्खे तु पुंसि च’ इति भास्करः, तस्मिन् पूरितैः पूर्णैर् वारिभिर् जलैर् अभिषिच्यते पुरा अभिषिक्तः । ‘‘यावत्पुरानिपातयोर्लट्’’ इति अतीतार्थे लट् । कथंभूतः गरीयसि अतिशयेन गुरु महद्गरीयस् तस्मिन् गरीयसि अत्युत्तमे वेदान्तविद्यानिजराज्यपालने वेदानाम् अन्तः निर्णयः यया सा वेदान्ता,सा च सा विद्या च ब्रह्ममीमांसा च वेदान्तविद्या । निजं च तद् राज्यं च निजराज्यं वेदान्तविद्यैव निजराज्यं तस्य पालने व्याख्यानेन शिष्यादिषु सत्संप्रदायप्रवर्तनलक्षणे तत्प्रतिकूलवादिनिराकरणे च । सङ्कल्प्यमानः वेदान्तविद्याव्याख्यानादिषु ‘अयं पूर्णप्रज्ञः समर्थस् तत्र प्रवर्ततां’इति योजितस्सन् गुरुणा यौवराज्ये अभिषिक्तोऽभूद् इति भावः । इन्द्रवंशावृत्तं ‘तच्चेन्द्रवंशा गदिता ततौ जरौ’ इति तल्लक्षणात् ॥ १ ॥
विश्वास-प्रस्तुतिः - २
आनन्दरूपस्य परस्य पात्रधीरानन्दसन्दायिसुशास्त्रकृत्स यत् ।
आनन्दतीर्थेति पदं गुरूदितं बभूव तस्यात्यनुरूपरूपकम्॥ २ ॥
मूलम् - २
आनन्दरूपस्य परस्य पात्रधीरानन्दसन्दायिसुशास्त्रकृत्स यत् ।
आनन्दतीर्थेति पदं गुरूदितं बभूव तस्यात्यनुरूपरूपकम्॥ २ ॥
भावप्रकाशिका
आनन्दाय तीर्थं शास्त्रमस्येत्यानन्दतीर्थः । आनन्देन विष्णुना शुद्ध इति वा ॥ २ ॥
पदार्थदीपिकोद्बोधिका
आनन्देति ॥ यद्यस्मात् स पूर्णप्रज्ञाचार्यः । आनन्दरूपस्य आनन्दः रूपं यस्य तस्य । परस्य सर्वोत्तमस्य हरेः । पात्रधीः पात्रभूता धीर्यस्य सः । तस्मादानन्दाख्यस्य हरेरावासभूतबुद्धित्वादित्यर्थः । यस्माच्च स पूर्णप्रज्ञाचार्य आनन्दसन्दा-यिसुशास्त्रकृद् आनन्दं सन्दातुं शीलमस्यास्तीति आनन्दसन्दायि तादृशञ्च तत् सुशास्त्रञ्च तत्करोतीति तथोक्तः । तस्माच्चानन्दतीर्थ इति गुरूदितं गुरुणाभिहितं पदं नाम तस्य श्रीपूर्णप्रज्ञाचार्यस्य अत्यनुरूपरूपकम् अत्यनुरूपम् अत्यनुकूलं रूपं स्वरूपं यस्य तादृशं बभूव आनन्दरूपस्य हरेः पात्रभूतत्वादानन्दतीर्थ इति आनन्दकरशास्त्रकृत्वाच्च आनन्दतीर्थ इति च व्युत्पत्तिरुक्ता भवति । ‘तीर्थं मन्त्राद्युपाध्यायशास्त्रे त्वंभसि पावने । पात्रे चाचार्यतीर्थेषु’ इति यादवः । तथा च आनन्दतीर्थ इति गुरुदत्तं नाम अन्वर्थमभूदिति भावः ॥ २ ॥
मन्दोपाकारिणी
आनन्देति ॥ गुरूदितं गुरुणा अच्युतप्रेक्षेण उदितम् आनन्दतीर्थेति पदं नाम ‘पदं शब्दे च वाक्ये च’ इति विश्वस् तस्य श्रीपूर्णप्रज्ञाचार्यस्य अत्यनुरूपरूपकम् अतिशयेन ‘प्रकर्षे लङ्घनेऽप्यति’ इत्यमरो ऽनुरूपस्य योग्यस्य अर्थस्य रूपकं निरूपकं प्रतिपादकं बभूव अन्वर्थकमभूदिति भावः । कुतः यद् यस्मात् ‘यत्तद्य-तस्ततो हेतौ’ इत्यमरः सः पूर्णप्रज्ञाचार्यः । आनन्दरूपस्य सुखरूपस्य परस्य परमात्मनः ‘परोरिः परमात्मा च’ इति भास्करः पात्रधीः पात्रं वासयोग्यं धीर् अन्तःकरणं यस्य स तथोक्तः । ‘योग्यभाजनयोः पात्रं’ इत्यमरः । अनेन अत्र तीर्थशब्देन क्षेत्रमुच्यते ‘तीर्थं शास्त्रेऽध्वरे क्षेत्रे’ इति धनञ्जयः । क्षेत्रं नाम सिद्धस्थानपुण्यभूमिः । ततश्च आनन्दरूपस्य हरेस् तीर्थं निवासयोग्यक्षेत्रभूतं मनः यस्य स आनन्दतीर्थ इत्यर्थः । आनन्दस्य तीर्थं यस्य स आनन्दतीर्थ इति विग्रह उक्तो भवति । यस्माच्च स पूर्णप्रज्ञ आनन्दसन्दा-यिसुशास्त्रकृद् आनन्दस्य सुखस्य सन्दायि आधिक्येन दातृ सुशास्त्रं शोभनं शास्त्रं हरिसर्वोत्तमत्वप्रतिपादकं करोतीति कृत् कर्ता इत्यर्थः । आनन्दप्रदं तीर्थः शास्त्रं यस्मात् स आनन्दतीर्थ इति विग्रहः । पूर्णप्रज्ञस्य शङ्खोदकैर् अभिषेकानन्तरम् आनन्दतीर्थ इति अन्वर्थकं नाम चकार गुरुर् इति भावः । अयं श्लोकः ‘उपजाति’वृत्तम् ॥ २ ॥
विश्वास-प्रस्तुतिः - ३
कदाचिदत्रोपययौ यतिः सखा गोविन्दबुद्धेर्बहुशिष्यसंवृतः ।
अमुष्य शिष्या अनुमानशिक्षितास्तदाऽजिगीषन् गुरुबुद्धिमुद्धताः ॥ ३ ॥
मूलम् - ३
कदाचिदत्रोपययौ यतिः सखा गोविन्दबुद्धेर्बहुशिष्यसंवृतः ।
अमुष्य शिष्या अनुमानशिक्षितास्तदाऽजिगीषन् गुरुबुद्धिमुद्धताः ॥ ३ ॥
पदार्थदीपिकोद्बोधिका
कदाचिदिति ॥ कदाचित् कस्मिंश्चित्काले । बहुशिष्यसंवृतो बहुभिः शिष्यैर्युक्तः गोविन्दबुद्धेर् गोविन्दे बुद्धिर्यस्य तस्याच्युतप्रेक्षस्य सखा यतिर् अत्रोपययौ । तदा अनुमानशिक्षिता अनुमाने तर्कशास्त्रे शिक्षिताश्चतुरा अत एव उद्धता अहङ्कारिणो ऽमुष्यागतस्य यतेः शिष्या गुरुबुद्धिं गुरुः पूर्णा बुद्धिर्यस्य तं पूर्णप्रज्ञाचार्यम् अजिगीषन् जेतुमैच्छन् । जी जये सन्नन्ताल्लङ् ॥ ३ ॥
मन्दोपाकारिणी
कदाचिदिति ॥ कदाचित् कस्मिंश्चित् काले बहुशिष्यसंवृतः बहवश्च ते शिष्याश्च तैः संवृतः गोविन्दबुद्धेर् गोविन्दे अच्युते बुद्धिः प्रेक्षा यस्य स तथोक्तस् तस्य अच्युतप्रेक्षस्य सखा मित्रं यतिः सन्यासी अत्र रजतपीठपुरे उपययौ उप अच्युतप्रेक्षस्य समीपं ‘उपोऽधिके समीपे च’ इत्यमरः ययौ प्राप । तदा यत्यागमनकाले अमुष्य शिष्या अमुष्य आगतस्य यतेः शिष्याः, अनुमानशिक्षिता अनुमानशास्त्रे तर्कशास्त्र इत्यर्थः शिक्षिताः प्रवीणाः ‘प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः’ इत्यमरो ऽत एव उद्धता अहङ्कारिणः सन्तः । गुरुबुद्धिं गुर्वी महती पूर्णा इति यावद् बुद्धिः प्रज्ञा यस्य स तथोक्तस् तं पूर्णप्रज्ञाचार्यम् अजिगीषन् जेतुम् ऐच्छन् । ‘जि जये’ इत्यस्माद् धातोर्लङ् परस्मैपदम् अजिगीषद् अजिगीषताम् अजिगीषन् ॥ ३ ॥
विश्वास-प्रस्तुतिः - ४
भिदा सुसाध्येत्यनुमानमत्र तैः प्रायुज्यताशु प्रतिपक्षभीषणम् ।
अखण्डयद्य्वक्तमखण्डधीरिदं स पक्षदक्षः फणिनं विराडिव॥ ४ ॥
मूलम् - ४
भिदा सुसाध्येत्यनुमानमत्र तैः प्रायुज्यताशु प्रतिपक्षभीषणम् ।
अखण्डयद्य्वक्तमखण्डधीरिदं स पक्षदक्षः फणिनं विराडिव॥ ४ ॥
भावप्रकाशिका
भिदेति ॥ अत्र भिदायाम् अनुमानम् ‘विमतौ भिन्नौ नियम्यनियामकत्वाद् राजपुरुषवदि’ति । किमिदं विशेषणं पक्षाद्भिन्नमाहोस्विदभिन्नमुत भिन्नाभिन्नम् । नादिमः । संबन्धापेक्षयाऽनवस्थानात् । न मध्यमः । पक्षमात्रस्य विशेषणमात्रस्य वाऽभिप्रेतत्वप्रसङ्गात् । न चान्तिमः । उभयदोषापातात् । व्यवस्थाया अपरिदृश्यमानत्वादित्यखण्डयत् । इदं च विशेषविनिर्मुक्तानां विशेषणनिग्राहकम् ॥ ४ ॥
पदार्थदीपिकोद्बोधिका
भिदेति ॥ तैः शिष्यैर्भिदा भेदः सुसाध्या सुखेन साधयितुं शक्येत्येवमुक्त्वा, अत्र भेदसाधने प्रतिपक्षभीषणं प्रतिपक्षस्य प्रतिवादिनो भीषणं भयङ्करम् अनुमानमाशु प्रायुज्यत प्रयुक्तं, ‘विमतौ जीवपरमात्मानौ भिन्नौ नियम्यनियामकत्वात्, राजभृत्यराजवत्, इत्यनुमानमित्यर्थः । पक्षदक्षः पक्षेऽभ्युपगतपक्षसमर्थने दक्षः समर्थः सोऽखण्डधीः पूर्णप्रज्ञाचार्यः । विराट् वीनां पक्षिणां राड्राजा विराट् गरुडः सोऽपि पक्षाभ्यां दक्षः, फणोऽस्यास्तीति फणी तं फणिनमिवाखण्डयत् । ‘‘खडि भेदे’’ लङ् । खण्डन-प्रकारश्चेत्थम् । किमिदं विशेषणं भिन्नत्वलक्षणं पक्षाभ्यां भिन्नं? अहोस्विदभिन्नं? उत भिन्नाभिन्नं?, न प्रथमः । भिन्नयोर्विशेषणपक्षयोः सम्बद्धयोर्वा विशेषणविशेष्यभावो ऽसम्बद्धयोर्वा । तत्र द्वितीयेऽतिप्रसङ्गात्सम्बद्धयोरेव विशेषणविशेष्यभावो वाच्यः । सम्बन्धश्च भिन्नयोरेव न चाभिन्नयोः । सम्बन्धस्य द्विष्ठत्वात् । तथा च विशेषणस्य भेदस्य विशेष्ययोर्भेदिनोश्च परस्परं सम्बद्धयोरेव विशेषणविशेष्यभावो वक्तव्यः । तत्रापि सम्बन्धान्तरविवक्षायां, तत्रापि भेदापेक्षया भवितव्यम् । एवं भेदपरम्परापेक्षयानवस्था स्यात् । न द्वितीयः । विशेषणमात्रस्य वा विशेष्यमात्रस्य वा अभ्युपगमे उभयाभावप्रसङ्गात् । न तृतीयः । प्राचीनपक्षद्वयोक्तादोषापाताद् व्याहतेश्च तस्मात् प्रतिज्ञाया एवासम्भवा-दुक्तानुमानेन भेदसाधनमशक्यमेवेति ॥ ४ ॥
मन्दोपाकारिणी
भिदेति ॥ तैः शिष्यैर् भिदा भेदः सुसाध्या सुखेन साधयितुं शक्या इति एवमुक्ता । अत्र भेदसाधने । प्रतिपक्षभीषणं प्रतिपक्षस्य प्रतिवादिनः भीषणं भयङ्करं ‘दारुणं भीषणं भीष्म’ इत्यमरो ऽनुमानं पञ्चावयवादिवाक्यम् आशु शीघ्रं प्रायुज्यत प्रयोजितम् । ‘युजिर् योग’ इत्यतः कर्मणि लङात्मनेपदम् अयुज्यत अयुज्येताम् अयुज्यन्त । अनुमानं तु ‘‘विमतौ जीवपरमात्मानौ भिन्नौ नियम्यनियामकत्वाद् राजपुरुषवदि’’ति । अखण्डधीर् अखण्डा पूर्णा धीः प्रज्ञा यस्य स तथोक्तः सः पूर्णप्रज्ञ इदम् अनुमानं व्यक्तं सम्यक् अखण्डयद् दूषितवान् । ‘खडि भेदन इत्यस्माद् लङ् परस्मैपदम्’ । कथंभूतः पक्षदक्षः पक्षे सिद्धान्ते तत्समर्थने तद्दूषणपरिहारे च दक्षश् चतुरः । कः कमिव विराट् वीनां पक्षिणां ‘विः पक्षि परमात्मनोः’ इत्यमरः राट् राजा विराट् गरुडः ‘राज्ञिराट् पार्थिवक्ष्माभृत्’ इत्यमरः । फणिनमिव सर्पमिव ‘कुण्डली गूढपाच्चक्षुःश्रवाः काकोदरः फणी’ इत्यमरः । गरुडोऽपि पक्षाभ्यां पत्राभ्यां दक्षः । खण्डनप्रकारस्तु, भिन्नत्वलक्षणं विशेषणं पक्षाद्भिन्नम् अभिन्नं वा उत भिन्नाभिन्नम् । न प्रथमः । भेदपरंपरया अनवस्थानात् । न द्वितीयः । विशेषणविशेष्ययोर् अन्यतरमात्राविशेषापत्तेः । न तृतीयः । पूर्वोक्तदोषद्वयापाताद् व्याहतेश्च । तस्मात्प्रतिज्ञाया एवासंभवाद्भेदसाधनमशक्यमेव इत्येवंप्रकारेणेति ज्ञेयः ॥४ ॥
विश्वास-प्रस्तुतिः - ५
अथापि मिथ्या विमतं मतत्वतो विवादनिर्मुक्तवदित्यवादि तैः ।
अनेन सत्यं विमतं मतत्वतो यथा घटादीत्यनुमा न्यगद्यत॥ ५ ॥
मूलम् - ५
अथापि मिथ्या विमतं मतत्वतो विवादनिर्मुक्तवदित्यवादि तैः ।
अनेन सत्यं विमतं मतत्वतो यथा घटादीत्यनुमा न्यगद्यत॥ ५ ॥
पदार्थदीपिकोद्बोधिका
अथेति ॥ अथापि प्रागुक्तभेदसाधकानुमानखण्डनानन्तर- मपि विमतं सत्यत्वमिथ्यात्वाभ्यां विप्रतिपत्तिविषयभूतं वियदादिकं, मिथ्या अनिर्वचनीयं, मतत्वतः मतस्य दृश्यस्य भावो मतत्वं तस्माद् दृश्यत्वादित्यर्थः । विवादनिर्मुक्तवत्, विवादान्निर्मुक्तं रहितं तद्वद्विप्रतिपत्तिरहितवदित्यर्थः । दृश्यत्वमिथ्यात्वाभ्यां सम्प्रतिपन्न-शुक्तिरजतादिवादिति यावत् । इत्यानुमानं तैरवादि प्रोक्तम् । अथानेन पूर्णप्रज्ञाचार्येण, विमतं सत्यं मतत्वतः यथा घटादीत्यनुमा अनुमानं न्यगद्यत निगदिता ॥ ५ ॥
मन्दोपाकारिणी
अथेति ॥ अथापि भेदसाधनानुमानखण्डनानन्तरमपि तैः शिष्यैर् इत्यवादि गदितम् । कथम् । विमतं सत्यत्वमिथ्यात्वाभ्यां विप्रतिपत्तिविषयीभूतम् आकाशादि-जगन् मिथ्या, मतत्वतः दृश्यत्वात्, विवादिनिर्मुक्तवद् विवादेन विप्रतिपत्तिना निर्मुक्तं रहितं मिथ्यात्वेन संप्रतिपन्नमित्यर्थः । तादृशशुक्तिरजतवद् इत्यवादि इत्यन्वयः । ‘वद व्यक्तायां वाची’त्यतो कर्मणि लुङ् आत्मनेपदं ‘अवादि अवदिषाताम् अवदिषत’ । तदनन्तरम् अनेन पूर्णप्रज्ञाचार्येण इत्येवमनुमा न्यगद्यत निगदिता । ‘गद व्यक्तायां वाचि’ कर्मणि लङ् आत्मनेपदं ‘अगद्यत अगद्येताम् अगद्यन्त’ । कथं विमतं पूवर्ोेक्तप्रकारेण विवादविषयीभूतं वियदादिविश्वं सत्यम् अबाध्यं मतत्वतः दृश्यत्वाद् घटादि घटः कुम्भ आदिर् यस्य तत् तथोक्तं वस्तु यथा यथावत् सत्यं तद्वदिति ॥ ५ ॥
विश्वास-प्रस्तुतिः - ६
हेतोरतिव्याप्तिरवादि तैर्यदा सकौतुकैस्तूर्णमसावविस्मयः ।
न शुक्तिरूप्यादि मतं यदन्यथा मतं तदित्यादि वदन् जिगाय तान् ॥६॥
मूलम् - ६
हेतोरतिव्याप्तिरवादि तैर्यदा सकौतुकैस्तूर्णमसावविस्मयः ।
न शुक्तिरूप्यादि मतं यदन्यथा मतं तदित्यादि वदन् जिगाय तान् ॥६॥
भावप्रकाशिका
घटादिदर्शनमसंप्रतिपन्नमिति चेत् शुक्तिकारजतादि च बाध्यत्वाद-सत्त्वेनानुभूयमानं सदसद्विलक्षणतया न सम्प्रतिपन्नम् । तत्साधयिष्यते चेदिदं प्रत्यक्षेण साधितमित्युत्तरमित्यादिशब्दादभिप्रेतम् ॥ ६ ॥
पदार्थदीपिकोद्भोधिका – हेतोरिति ॥ सकौतुकैः कौतुकेन सम्भ्रमेण सहितैः । यदा हेतोर् दृश्यत्वापरनामकमतत्वहेतोरतिव्याप्तिरनैकान्तिकता अवादि उक्ता । प्रपञ्चसत्यत्वसाधने प्रयुक्तस्य मतत्वहेतोर् मिथ्याभूते शुक्तिरजतादौ विपक्षेऽपि वर्तमानत्वादनैकान्तिकत्वान्न तेन प्रपञ्चसत्यत्वसाधनं शक्यमिति तैरुक्तमिति भावः । तदा अविस्मयो न विद्यते विस्मयो यस्यासौ श्रीपूर्णप्रज्ञाचार्यो यद्यस्मात्तत् शुक्तिरूप्यादिकमन्यथा सत्यत्वेनप्रमिताकारा-दन्यथाऽन्येनप्रकारेणासत्यत्वेनेत्यर्थः । मतमनुभवसिद्धम् । तस्माच्छुक्तिरूप्यमादिर्यस्य तच्छुक्तिरूप्यादि शुक्तिरजतनभोनैल्यादिकं, मतं दृश्यं न । विपक्षे शुक्तिरूप्यादौ न दृश्यत्वं वर्तत इति न तस्यानैकान्तिकत्वमित्यर्थः । इति एवमादिर्यस्य वाक्यस्य तत्, इत्यादिवाक्यं ‘इति हेतुप्रकरणप्रकारादिसमाप्तिषु’ इत्यमरः वदन् सन् तान् वादिनो जिगाय । अयं भावः । भवेदिदं मतत्वहेतोरनैकान्तिकत्ववर्णनं, यदि शुक्तिकादौ प्रतीतस्य रजतादेर् दृश्यत्वं स्यात् । न चैतदस्ति । तथा हि दृश्यत्वं नाम दृग्दृश्ययोः सम्बन्धः । तत्र च शुक्तिकादौ प्रतीतस्य रजतादेः ‘असदेव रजतं प्रत्यभादि’त्यादिना बाधोत्तरकाल-मसत्वानुभवादसता च सम्बन्धायोगान्न शुक्तिरूप्यादिना दृग्सम्बन्धः । किन्तु शुक्तिकादि-सन्निकृष्टमेवेन्द्रियं दोषवशादत्यन्तासद्रजताद्याकारेणावगाहत इति शुक्तिकादेरेव दृश्यत्वाभ्यु-पगमान्न मिथ्याभूतरजतादेर्दृश्यत्वमिति नानैकान्तिकता हेतोरिति । ननु सत्यत्वसाधनानुमाने घटादिनिदर्शनमसम्मतं, घटादेरस्माभिर्मिथ्यात्वाभ्युपगमात् । तथा च दृष्टान्तस्साध्यविकल इति चेत्तर्हि मिथ्यात्वसाधनानुमाने शुक्तिरजतादिनिदर्शनमस्माकमसम्प्रतिपन्नम् । मिथ्या-शब्देन न तावदसत्वं विवक्षितं तथात्वे मायिनामपसिद्धान्तप्रसङ्गात् । तस्मान्मिथ्याशब्देन सदसद्विलक्षणत्वमेव विवक्षितम् । एवञ्च सदसद्विलक्षणत्वसाधने शुक्तिरजतादिकं निदर्शनत्वेनोपात्तम् । न च तत्सदसद्विलक्षणत्वमस्माकं सम्प्रतिपन्नम्, असदेव रजतं प्रत्यभादिति बाधोत्तरकालं तस्यासत्वानुभवात् । तथा च शुक्तिरजतादौ सदसद्विलक्षण-त्वाभावान्मिथ्यात्वसाधनानुमानेऽपि निदर्शनं साध्यरहितमिति भावः । ननु शुक्तिरजतादिकं सदसद्विलक्षणमेवावगन्तव्यमित्यत्रार्थापत्तिरस्ति । तथा हि । ‘‘सच्चेन्न बाध्येत, असच्चेन्न प्रतीयेत’’, बाध्यते प्रतीयते चेदं, अतः ख्यातिबाधान्यथानुपपत्या सदसद्विलक्षणमिति चेन्न । ‘‘सत्वेन ख्यातिरसत्वेन बाध’’ इति सदसदात्मकत्वेनाऽप्युपपत्तेः । नन्वेतद्विरुद्धमिति चेद्धन्त तर्हि सदसद्विलक्षणत्वमपि कथं न विरुद्धम् । विमतमनिर्वचनीयं बाध्यत्वाद् यन्नानिर्वचनीयं न तद्बाध्यं यथात्मेत्यनुमानेनानिर्वचनीयत्वं शुक्तिरजतादेस्साधयाम इति चेत्तर्हि घटादेरपि सत्यत्वं ‘‘सन् घटः, सन् पट’’ इत्यादिप्रत्यक्षेण सिद्धमित्युत्तर-मित्याद्यादिशब्देनोक्तम् ॥ ६ ॥
मन्दोपाकारिणी
हेतोरिति ॥ सकौतुकैः कौतुकेन कुतूहलेन सहितैः । ‘कौतूहलं कौतुकं च कुतुकं च कुतूहलं’ इत्यमरः । तैः शिष्यैर् यदा तूर्णम् आशु । ‘सत्वरं चपलं तूर्णमविलम्बितमाशु च’ इत्यमरः । हेतोर् मतत्वहेतोर् अतिव्याप्तिर् अनैकान्तिकता । अवादि उक्ता । प्रपञ्चसत्यत्वसाधकत्वेन प्रयुक्तस्य दृश्यत्वापरपर्यायस्य मतत्वहेतोर् मिथ्याभूते शुक्तिरूप्यादौ विपक्षे वर्तमानत्वेन अनैकान्तिकत्वात् । तेन प्रपञ्चसत्यत्वसाधनम् अयुक्तमिति तैर् उक्तमिति भावः । तदा अविस्मयः न विद्यते विस्मय आश्चर्यं यस्य सस् तथोक्तः । असौ पूर्णप्रज्ञाचार्य इत्यादि वदन् तान् यतिशिष्यान् जिगाय जितवान् । ‘जि जय इत्यतो लिट् परस्मैपदं जिगाय जिग्यतुर् जिग्युः’ । कथं यद् यस्मात् शुक्तिरूप्यादि शुक्तिरजतादिकं, अन्यथा सत्वेन प्रतीताकाराद् अन्यथा असत्वेन मतं संमतम् अनुभव-सिद्धमित्यर्थस् तस्मात् तत् शुक्तिरूप्यादि मतं दृश्यं न इत्यादि वदन् इत्यन्वयः । अयं भावः दृश्यत्वं नाम दृग्विषययोः संबन्धः । तत्र शुक्तिकादौ प्रतीतस्य रजतादेर् असदेव इदं रजतं प्रत्यभादित्यादिना बाधोत्तरकालम् असत्वानुभवाद् असता च सम्बन्धायोगान् न शुक्तिरूप्यादिना दृक् संबन्धः किन्तु शुक्तिकादिसन्निकृष्टमेव इन्द्रियं दोषवशात् शुक्तिम् अत्यन्तासद्रजतात्मनावगाहत इत्यभ्युपगमात् शुक्तिकाया एव दृश्यत्वाभ्युपगमान् न मिथ्याभूतरजतादौ विपक्षे दृश्यत्वम् इति न अनैकान्त्यं हेतोरिति । ननु घटादौ मिथ्याभूते दृष्टान्ते सत्यत्वाभावात् साध्यविकलो दृष्टान्त इति चेन्न, सन् घट इत्यादिप्रत्यक्षेण सत्यत्वस्य सिद्धत्वादिति आदिशब्देन ग्राह्यम् ॥ ६ ॥
विश्वास-प्रस्तुतिः - ७
तत्त्वेऽप्यतत्त्वे विमतेऽनुमां वदंस्तदप्रतिष्ठां प्रतिपादुकः स्वयम् ।
विजित्य विश्वान्विदुषः सभास्वसौ जगाम नाम्नाप्यनुमानतीर्थताम् ॥७॥
मूलम् - ७
तत्त्वेऽप्यतत्त्वे विमतेऽनुमां वदंस्तदप्रतिष्ठां प्रतिपादुकः स्वयम् ।
विजित्य विश्वान्विदुषः सभास्वसौ जगाम नाम्नाप्यनुमानतीर्थताम् ॥७॥
भावप्रकाशिका
तदप्रतिष्ठां प्रतिपादुकः ‘लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्’ इत्युकञ् प्रत्ययः ॥ ७ ॥
पदार्थदीपिकोद्बोधिका
तत्त्व इति ॥ तस्यानुमानस्याप्रतिष्ठां प्रामाण्यलक्षणप्रति-ष्ठाभावं प्रतिपादुकः प्रतिपादनशीलः । ‘लषपते’त्यादिना उकञ् प्रत्ययः । अत एव तदप्रतिष्ठामित्यत्र ‘न लोके’त्यादिना षष्ठीप्रतिषेधान् न ‘कर्तृकर्मणोः कृति’ इति षष्ठी । असौ श्रीपूर्णप्रज्ञाचार्यो विदुषां पण्डितानां सभासु तत्र तत्र प्रस्तुततत्तत्प्रमेये विमते विप्रतिपन्ने सति, तत्तत्प्रमेयमेवमनैवमिति च विवादे सतीति यावत् । तत्त्वे तस्य भावस्तत्त्वं तस्मिन् । तस्य प्रमेयस्य तत्स्वरूपमुपपन्नमित्येतस्मिन्नर्थ इत्यर्थः । अतत्त्वे तत्त्वं न भवतीत्यतत्त्वं तस्मिन् । तस्य तत्स्वरूपमनुपपन्नमित्येतस्मिन्नर्थे चानुमामनुमानं यथा शब्दस्यानित्यत्वनित्यत्वविवादे ‘शब्दोऽनित्यः कृतकत्वाद्धटवत्’’इत्यनित्यत्वेऽनुमान-मभिधाय, तत्र प्रतिपक्षतयाक्षिपतो वादिनो विजित्य । अनित्यत्वमेव व्यवस्थाप्य पुनस्तेषामसामर्थ्यप्रकटनाय शब्दः नित्योऽस्पर्शद्रव्यत्वाद्गगनवदित्याद्यनुमानेऽभिहिते, तदप्या-क्षिपतः समस्तवादिनो विजित्य, शब्दस्य नित्यत्वमनित्यत्वं वा अनुपपन्नमित्यादिरूपेणानुमां वदन् सन्, विश्वान् समस्तवादिनो विजित्य, नाम्नाऽनुमानतीर्थतां जगाम । अस्यानुमानो-पन्यसनचातुरीं दृष्ट्वा न अयमानन्दतीर्थः किन्नाम अनुमानतीर्थ इति वादिमण्डले प्रसिद्धोऽभूदिति भावः । नन्वेवं परस्परविरुद्धार्थद्वयसाधनेऽप्यनुमानोपन्यासे सत्यनुमानयोः परस्परविरुद्धत्वेनाप्रतिष्ठत्वं स्यादिति चेन्न । तस्येष्टत्वात् । न च प्रमाणत्रित्वाभ्युप-गमविरोधः । प्रत्यक्षागमानुसारिण एव तस्य प्रमाण्याभ्युपगमात् । यथोक्तं स्वयमेव ‘न चानुमानस्य नियतप्रामाण्यम्’ । ‘सर्वत्र शक्यते कर्तुमागमं हि विनानुमा । तस्मान्नसा शक्तिमती विनाऽऽगममुदीक्षितुम्’’ । ‘प्रत्यक्षागममाहात्म्यादनुमानं प्रमाणताम् । याति नैवान्यथा तस्य नियतत्वं क्वचिद्भवेदि’ति । एतदभिप्रायेणैव तदप्रतिष्ठां प्रतिपादुक इत्युक्तम् ॥ ७ ॥
मन्दोपाकारिणी
तत्त्वा इति ॥ असौ पूर्णप्रज्ञाचार्यः स्वयं विमते विवादविषयीभूते प्रमेये । यद् विप्रतिपन्नं प्रमेयं तत्र सर्वत्रेत्यर्थः । तत्त्वे तस्य वस्तुनस् तत्स्वरूपत्वम् उपपन्नमित्यस्मिन्नर्थे । अतत्त्वे तत्स्वरूपत्वम् अनुपपन्नमित्यस्मिन्नर्थेऽपि अनुमाम् अनुमानं वदन् प्रयुञ्जानः विश्वान् सर्वान् विदुषः पण्डितान् सभासु विजित्य पराभवं प्रापयित्वा नाम्ना अनुमानतीर्थताम् अनुमानतीर्थशब्दवाच्यतां जगाम प्राप । ‘‘गम्ऌ गतावित्यस्माल्लिट् परस्मैपदं जगाम जग्मतुर् जग्मुः’’ । कथंभूतस् तदप्रतिष्ठां तस्य अनुमानस्य अप्रतिष्ठाम् अप्रामाण्यं प्रतिपादुकः प्रतिपादनशीलः प्रत्यक्षागमाननुगृहीतस्य अनुमानस्य प्रामाण्याभावं साधयन्नित्यर्थः । यद्यत्प्रमेयं विप्रतिपन्नं तस्य सर्वस्यापि तत्तत्स्वरूपत्वस्योपपत्तौ अनुपपत्तौ च केवलानुमानस्याप्रामाण्यात् प्रत्यक्षादिसहितम् अनुमानं प्रयुञ्जन् अनुमानतीर्थ इति नाम्ना प्रसिद्धोऽभूदिति भावः । ‘प्रति पूर्वात् पद धातोरुकञि प्रतिपादुक इति रूपं तेन उकञ् प्रत्ययान्तस्य प्रतिपादुक इत्यस्य ‘‘न लोकाव्ययनिष्ठाखलर्थतृनामित्यनेन सूत्रेण षष्ठीप्रतिषेधाद् द्वितीयेति ज्ञेयम् ॥ ७ ॥
विश्वास-प्रस्तुतिः - ८
समस्तवादीन्द्रगजप्रभङ्गदश्चरन्नवन्यां प्रतिपक्षकाङ्क्षया ।
वेदद्विषां यः प्रथमः समाययौ सवादिसिंहोऽत्र स बुद्धिसागरः ॥ ८ ॥
मूलम् - ८
समस्तवादीन्द्रगजप्रभङ्गदश्चरन्नवन्यां प्रतिपक्षकाङ्क्षया ।
वेदद्विषां यः प्रथमः समाययौ सवादिसिंहोऽत्र स बुद्धिसागरः ॥ ८ ॥
भावप्रकाशिका
वैशेषिकविशेषज्ञो वादिसिंहाभिधो द्विजः । महीं विजित्य संप्राप्तो बौद्धाग्रयं बुद्धिसागरम् ॥ खण्डितस्तेन पाण्डित्य•त्तत्पक्षापेक्षकोऽभवत् । तौ श्रुत्वा मध्ववैदग्धीं प्राप्तौ तद्गुरुमूचतुः ॥ वादिनौ वादकामौ द्वौ भगवंस्त्वामिताविति । बुध्यब्दिबुद्धिमाश्रित्य परो वादी कथां व्यधात् ॥ ८ ॥
पदार्थदीपिकोद्बोधिका
समस्तेति ॥ समस्तवादीन्द्रगजप्रभङ्गदः समस्ता ये वादीन्द्रा वादिश्रेष्ठास्त एव गजास्तेषां यः प्रभङ्गः पराजयस्तं ददातीति तादृशः । अवन्यां भुवि प्रतिपक्षकाङ्क्षया प्रति विरुद्धः पक्षः परिग्रहो यस्य सः प्रतिपक्षः प्रतिवादी तस्य काङ्क्षया इच्छया चरन् क्वास्ति प्रतिवादीत्यन्विष्य तत्र तत्र पर्यटन् वेदद्विषां वेदान् द्विषन्तीति तेषां वेदाप्रमाण्यवादिनां बौद्धानामित्यर्थः प्रथमोऽग्रणीः ‘प्रथमः स्यात्प्रधानाद्योः’ इति हेमचन्द्रः । यो बुद्धिसागरस् तन्नामको बौद्धः सोऽत्राच्युतप्रेक्षसमीपं प्रति, सवादिसिंहः स्वेन वादे विजित्य स्वपक्षे निक्षिप्तेन वादिसिंहाख्यद्विजेन सहितः सन् समाययौ । तच्चोक्तं- ‘वैशेषिकविशेषज्ञो वादिसिंहाभिधो द्विजः । महीं विजित्य सम्प्राप्तौ बौद्धाग्रयं बुद्धिसागरम् । खण्डितस्तेन पाण्डित्यात्तत्पक्षापेक्षकोऽभवत् । तौ श्रुत्वा मध्ववैदग्धीं प्राप्तौ तद्गुरुमूचतुः । वादिनौ वादकामौ द्वौ भगवंस्त्वामिताविति । बुद्ध्यब्धिबुद्धिमाश्रित्य परो वादी कथां व्यधात्’ इति ॥ ८ ॥
मन्दोपाकारिणी
समस्तेति ॥ समस्तवादीन्द्रगजप्रभङ्गदः वादीनाम् इन्द्राः श्रेष्ठा वादीन्द्राः समस्ताश्च ते वादीन्द्राश्च त एव गजाः कुञ्जरास् तेषां प्रभङ्गं पराजयं ददातीति समस्तवादीन्द्रगजप्रभङ्गदः ‘भङ्गः खण्डपराजयः’ इति रत्नमाला । अवन्यां मह्यां प्रतिपक्षिकाङ्क्षया प्रतिपक्षिणः प्रतिवादिनस् तेषां कांक्षया इच्छया ‘इच्छा काङ्क्षा स्पृहेहा तृड्वाञ्छा लिप्सा मनोरथः’ इत्यमरः । क्वास्ति प्रतिवादीति अन्विष्य भूम्यां पर्यटन्, वेदद्विषां वेदं द्विषन्तीति वेदद्विषः बौद्धास् तेषां प्रथमो ऽग्रणीर् यः बुद्धिसागरः बुद्धिसागरनामा बौद्धो ऽभूत् सोऽत्र अच्युतप्रेक्षसमीपं प्रति सवादिसिंहः वादिसिंहाख्येन पण्डितेन द्विजेन सहितस्सन् समाययौ । सबुद्धिसागर इत्यत्र बुद्धिसागरेण सहितः सः वादिसिंह इति योजना न संभवति वेदद्विषां प्रथम इत्त्येतद्विशेषणं वादिसिंहे नोपपद्यते वादिसिहस्य वैशेषिकत्वेन वेदप्रामाण्यवादित्वाद् बुद्धिसागरस्य च बौद्धत्वात् तत्र तद्विशेषणम् उपपद्यते । अतः पूर्वोक्तैव योजना संभवति । तच्चोक्तं ‘‘वैशेषिकविशेषज्ञो वादिसिंहाभिधो द्विजः । महीं विजित्य सम्प्राप्तो बौद्धाग््य्रं बुद्धिसागरम् ॥ खण्डितस्तेन पाण्डित्यात्तत्पक्षा-पेक्षकोऽभवत् । श्रुत्वा मध्वस्य वैदग्धीं प्राज्ञो तद्गुरुमूचतुः ॥ वादिनौ वादकामौ द्वौ भगवंस्त्वाऽऽगताविति । बुध्यब्धिबुद्धिमाश्रित्य परो वाग्मी कथां व्यधात् ॥’’ इति ॥ ८ ॥
विश्वास-प्रस्तुतिः - ९
तस्योरुदुर्गर्ववतो जिगीषया निशातमादत्त मुकुन्दधीर्द्रुतम् ।
स्वशिष्यहस्तेन मठान्तेरेषुधेः सुपक्षदक्षं सुखतीर्थमार्गणम्॥ ९ ॥
मूलम् - ९
तस्योरुदुर्गर्ववतो जिगीषया निशातमादत्त मुकुन्दधीर्द्रुतम् ।
स्वशिष्यहस्तेन मठान्तेरेषुधेः सुपक्षदक्षं सुखतीर्थमार्गणम्॥ ९ ॥
पदार्थदीपिकोद्बोधिका
तस्येति ॥ मुकुन्दधीर् अच्युतप्रेक्षः । उरुदुर्गर्ववत उरुरुत्कृष्टो यो दुर्गर्वो दुष्टाहङ्कारः सोऽस्यास्तीति तस्य । अहमेव विद्वदग्रणीर्मत्समः कोऽस्तीति दुरहङ्कारवत इत्यर्थस् तस्य बुद्धिसागरस्य जिगीषया जेतुमिच्छया निशातम् अतितीक्ष्णं सुपक्षदक्षं सुपक्षे शोभनसिद्धान्ते दक्षं चतुरं सुखतीर्थमार्गणं सुखतीर्थ एव आनन्दतीर्थ एव मार्गणो बाणस्तं मठान्तरेषुधेर् अन्यो मठो मठान्तरं तदेव इषुधिर्निषङ्ग-स्तस्मात्, स्वशिष्यहस्तेन स्वशिष्य एव हस्तस्तेन, द्रुतं यथा भवति तथादत्त । प्राप्तप्रति-वादिनिराकरणाय आनन्दतीर्थाचार्यम् अन्यमठगतं स्वशिष्येणाह्वयामास प्रतिभटनिरासाय निशङ्गाद्बाणमिवेति भावः ॥ ९ ॥
मन्दोपाकारिणी
तस्येति ॥ मुकुन्दधीर् मुकुन्दस्य धीः प्रेक्षा यस्य स तथोक्तो ऽच्युतप्रेक्षः । उरुदुर्गर्ववत उरुर् महान् बहुलः दुर्गर्वो ऽहमेव विद्वदग्रणीर् मत्समः कोऽस्ति भुवि इति दुरहङ्कारो ऽस्यास्तीति उरुदुर्गर्ववान् तस्य बुद्धिसागरस्य जिगीषया जेतुमिच्छया निशातं तेजितम् अतितीक्ष्णं ‘रुग्णं भुग्नेऽथ निशितक्ष्णुतशातानितेजिते’ इत्यमरः । सुपक्षदक्षं शोभनश्चासौ पक्षः स्वसिद्धान्तश्च सुपक्षः सुपक्षे दक्षश् चतुरस्तम् । बाणपक्षे सुपक्षैर् गुरुद्भिर् दक्षं वेगयुतम् । सुखतीर्थमार्गणं सुखतीर्थ आनन्दतीर्थ एव मार्गणः शरस् तम् । ‘कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः’ इत्यमरः । मठान्तरेषुधेर् अन्यः मठः मठान्तरं तदेव इषुधिस् तूणीरस् तस्मात् ‘तूणीरनिषङ्गाइषुधिद्वयोः’ इत्यमरः । स्वशिष्यहस्तेन स्वस्य आत्मनः शिष्य एव हस्तः करस् तेन द्रुतं क्षिप्रम् आदत्त गृहीतवान् ‘दद दान इत्यतो लङात्मनेपदम् आदत्त आददाताम् आददत’ । प्राप्तप्रतिवादिनिराकरणाय आनन्दतीर्थम् अन्यमठस्थितं स्वशिष्येण समाह्वयत् प्रतिभटनिरासाय निषङ्गाद् बाणं यथा गृह्णति तथेति भावः ॥ ९ ॥
विश्वास-प्रस्तुतिः - १०
जैत्रं प्रजिज्ञासु कुतूहलाकुलं नृणां कुलं प्रत्वरितं निशामयन् ।
अवन्दतोपेत्य गुरुं गरिष्ठधीः स रूप्यपीठायतनोत्तमस्थितम्॥१०॥
मूलम् - १०
जैत्रं प्रजिज्ञासु कुतूहलाकुलं नृणां कुलं प्रत्वरितं निशामयन् ।
अवन्दतोपेत्य गुरुं गरिष्ठधीः स रूप्यपीठायतनोत्तमस्थितम्॥१०॥
पदार्थदीपिकोद्बोधिका
जैत्रमिति ॥ जैत्रं जयशीलं, जये सामर्थ्ययुक्तमिति यावत् । प्रतिज्ञासु प्रज्ञातुमिच्छु । कुतूहलाकुलं कुतूहलेन सम्भ्रमेणाकुलं विवशं, पूर्णमिति वा ‘आकुलं भरितं पूर्णं’ इति हलः । प्रत्वरितमतिवेगयुक्तं नृणां पुरुषाणां कुलं समूहं निशामयन्, स गरिष्ठधीर्गरिष्ठा श्रेष्ठा धीर्यस्य स पूर्णप्रज्ञाचार्यः । रूप्यपीठायतनोत्तमस्थितं, रूप्यात्मकं यत्पीठं तस्मिन्यदायतनोत्तमं तस्मिन् स्थितं गुरुमुपेत्य अवन्दत ॥ १० ॥
मन्दोपाकारिणी
जैत्रमिति ॥ गरिष्ठधीर् अतिशयेन गुर्वी गरिष्ठा पूर्णा धीः प्रज्ञा यस्य सः गरिष्ठधीः सः पूर्णप्रज्ञाचार्यः । गुरुणा आकारितः सन् मठान्तरादागत्त्य, रूप्यपीठायतनोत्तमस्थितं रूप्यपीठे रजतपीठपुरे आयतनोत्तमे मठश्रेष्ठे स्थितं विद्यमानं गुरुम् अच्युतप्रेक्षम् उपेत्य प्राप्य अवन्दत नमस्कृतवान् । किं कुर्वन् सन् जैत्रं वादे जयशीलं जयसामर्थ्योपेतमिति यावत् । प्रजिज्ञासु ज्ञातुमिच्छत् कुतूहलाकुलं कुतूहलेन सन्तोषेण आकुलं समन्वितम् । प्रत्वरितम् अतिवेगयुक्तं नृणां पुरुषाणां कुलं समूहं निशामयन् पश्यन् सन्, प्राप्तवादिपूर्णप्रज्ञाचार्ययोर् मध्ये कः जयवान् भविष्यतीति ज्ञातुं सन्तोषेण तत्र मिलितं जनसमूहं निरीक्षमाण इति भावः ॥ १० ॥
विश्वास-प्रस्तुतिः - ११
स वादिसिंहस्य गिरं गरीयसीमखण्डयत्पण्डितमण्डलान्तरे ।
तीक्ष्णेन वाक्येन मितेन वेगिना गदां शरेणेव विशारदो मुहुः ॥ ११ ॥
मूलम् - ११
स वादिसिंहस्य गिरं गरीयसीमखण्डयत्पण्डितमण्डलान्तरे ।
तीक्ष्णेन वाक्येन मितेन वेगिना गदां शरेणेव विशारदो मुहुः ॥ ११ ॥
पदार्थदीपिकोद्बोधिका
स इति ॥ विशारदः परवादिनिराकरणचतुरः स पूर्णप्रज्ञाचार्यस् तीक्ष्णेन प्रतिवादिना सोढुमशक्येन । मितेन शब्दापेक्षयाल्पेन, वेगोऽस्या-स्तीति वेगी तेन वक्तुमुचितं कालमनतिक्रम्योक्तेनेत्यर्थः वाक्येन गरीयसीं युक्तियुक्तत्वेन श्रेष्ठां वादिसिंहस्य गिरं पण्डितमण्डलान्तरे पण्डितसमूहमध्ये, विशारदो युद्धपण्डितभटस् तीक्ष्णेन निशितेन मितेन परिमितेन वेगिना वेगवता शरेण, गदामिव मुहुर् अखण्डयत् । खडि भेदे लङ् ॥ ११ ॥
मन्दोपाकारिणी
स इति ॥ विशारदः निराकरणे चतुरः सः पूर्णप्रज्ञाचार्यस् तीक्ष्णेन प्रतिवादिना सोढुमशक्येन, मितेन शब्दापेक्षया स्वल्पेन, वेगिना वाद्युक्त्यनन्तरमेव अविलम्बेनोक्तेन वाक्येन प्रत्युत्तररूपेण गरीयसीं महतीं स्वान्येन परिहतुमशक्यामिति यावत् । वादिसिंहस्य गिरं वचनं पण्डितमण्डलान्तरे पण्डितानां विदुषां मण्डलं समूहस् तस्य अन्तरे मध्ये मुहुर् भृशम् अखण्डयन् निराकरोत् । ‘खडि भेदन इत्यस्माद् लङ् परस्मैपदम्’ केन कामिव, विशारदः युद्धचतुरः पुरुषस् तीष्णेन निशितेन मितेन अणुपरिमाणेन वेगिना वेगवता शरेण इषुणा गदां गदायुधमिव । बुद्धिसागरवादिसिंहयोर् मध्ये बुद्धिसागरमतेन प्रथमं कथां कुर्वतः वादिसिंहस्य पक्षमखण्डयदिति भावः ॥ ११ ॥
विश्वास-प्रस्तुतिः - १२
असावसूयन् द्विनवप्रकारतो व्यचीक्लृपत्कञ्चिदथार्थमुच्चकैः ।
जगद्विजेतुश्च जये ससंशयस्तावज्जनोऽजायत पूर्णचेतसः॥ १२ ॥
मूलम् - १२
असावसूयन् द्विनवप्रकारतो व्यचीक्लृपत्कञ्चिदथार्थमुच्चकैः ।
जगद्विजेतुश्च जये ससंशयस्तावज्जनोऽजायत पूर्णचेतसः॥ १२ ॥
पदार्थदीपिकोद्बोधिका
असाविति ॥ अथ श्रीमध्वाचार्येण स्ववाक्यखण्डना-नन्तरमसूयन्नसूयां कुर्वन्नसौ वादिसिंहः कञ्चिदर्थं कञ्चित्पदार्थमुच्चकैरुच्चैर्ध्वनिना द्विनवप्रकारतः नव च ते प्रकाराश्च, द्वौ च ते नवप्रकाराश्च तैरिति ततो ऽष्टादशप्रकारैरित्यर्थः व्यचीक्लृपत् कल्पयामास तावत्तदा जनस् तत्र मिलितो जनः जगद्विजेतुर्जगतो विजयशीलस्य पूर्णचेतसः पूर्णं चेतो यस्य तस्य श्रीपूर्णप्रज्ञाचार्यस्य जये जयविषये ससंशयो विजयते न वा इति संशयसहितोऽजायत अभूत् । ‘जनि प्रादुर्भावे लङ्’ ॥ १२ ॥
मन्दोपाकारिणी
असाविति ॥ अथ श्रीमध्वेन स्ववाक्यखण्डनानन्तरमपि असूयन् असूयां कुर्वन् मध्वाधिक्यमसहमान इति भावः । असौ वादिसिंहः कञ्चिदर्थम् अभिधेयं ‘अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु’ इत्यमरः । उच्चकैर् उच्चध्वनिवाक्यैर् द्विनवप्रकारतः द्वौ च ते नव च नवसङ्ख्या च द्विनवा द्विनवाश्च ते प्रकाराः पक्षाश्च द्विनवप्रकारा अष्टादश-विधा इति यावत् । तेभ्यः द्विनवप्रकारतः पञ्चम्यर्थे तसिर् व्यचीक्लृपद् विकल्पयामास । ‘क्लृपू सामर्थ्य इत्यतो लुङ् परस्मैपदम् अचीक्लृपद् अचीक्लृपताम् अचीक्लृपन्’ । तावत् तदा असूयया उच्चस्वरेण बहुप्रकारेण विकल्पकाले जनस् तत्र मिलितो जनः जगद्विजेतुर् जगतः विजेता जयशीलस् तस्य पूर्णचेतसः पूर्णं बह्वर्थविषयकं चेतो मनो यस्य तस्य पूर्णचेतसः पूर्णप्रज्ञस्य जये वादिसिंहपराभवविषये ससंशयः वादिसिंहं विजेष्यते न वा इति संशयसहितो
ऽजायत अभूत् । ‘जनि प्रादुर्भाव इत्यस्माद्धातोर्लङात्मनेपदम् अजायत अजायेताम् अजायन्त’ ॥ १२ ॥
विश्वास-प्रस्तुतिः - १३
विकल्पकोटीरथ खण्डयन् द्रुतं रेजेऽधिकं स्मेरमुखो बृहन्मतिः ।
तमस्ततीर्वा द्युमणिर्विशुद्धया गवाश्रितो विष्णुपदं सदास्पदम् ॥ १३ ॥
मूलम् - १३
विकल्पकोटीरथ खण्डयन् द्रुतं रेजेऽधिकं स्मेरमुखो बृहन्मतिः ।
तमस्ततीर्वा द्युमणिर्विशुद्धया गवाश्रितो विष्णुपदं सदास्पदम् ॥ १३ ॥
भावप्रकाशिका
सदास्पदं नक्षत्रास्पदं च ॥ १३ ॥
पदार्थदीपिकोद्बोधिका
विकल्पेति ॥ अथ सदास्पदं सतामाश्रयभूतं विष्णुपदं श्रीहरिचरणं श्रित आश्रितः । स्मेरमुखः स्मेरं स्मितयुक्तं मुखं यस्य तादृशः । अनेन परनिराकरणे आयासाभावः सूचितः । बृहन्मतिर् बृहती बह्वर्थविषयिणी मतिर् बुद्धिर् यस्य तादृशः श्रीपूर्णप्रज्ञाचार्यः । विकल्पकोटीर् वादिसिंहकृतविकल्पपक्षान् द्रुतमविलम्बितं यथा भवति तथा विशुद्धया शब्दार्थदोषशून्यया गवा वाचा, सदास्पदं नक्षत्राश्रयभूतं प्राणिनामाश्रयं वा ‘तारा भं रात्रिजं धिष्ण्यं सन्नक्षत्रं’ इति वैजयन्ती, विष्णुपदम् आकाशं श्रितो द्युमणिः सूर्यो विशुद्धया गवा स्वतेजसा तमस्ततीर्वा, तमसां निकरमिव । ‘वा विकल्पोपमानयोः’ इत्यमरः । खण्डयन् सन् अधिकं यथा भवति तथा रेजे अशोभत ॥ १३ ॥
मंदोपकारिणी – विकल्पेति ॥ अथ विकल्पान्तरम् । बृहन्मतिर् बृहती पूर्णा मतिः प्रज्ञा यस्य स तथोक्तः पूर्णप्रज्ञः । स्मेरमुखः स्मेरं मन्दहासयुक्तं मुखं वक्त्रं यस्य सस् तथोक्तस्सन् , अनेन तन्निराकरणे आयासाभावः सूचितः । विकल्पकोटीर् विकल्पानां कोटीः पक्षान् वादिसिंहकृताष्टादशविकल्पप्रकारान् द्रुतम् अविलम्बेन विशुद्धया दूषणरहितया निराकर्तुमशक्यया गवा वाचा खण्डयन् निराकुर्वन्, सदास्पदं सताम् आस्पदम् आश्रयं विष्णुपदं विष्णोः श्रीहरेः पदं चरणं श्रितस्सन् अधिकम् अत्यन्तं रेजे शुशुभे । ‘राजृ दीप्तावित्यतो लिडात्मनेपदं रेजे रेजाते रेजिरे’ । क इव? सदास्पदं सतां प्राणिनाम् आश्रयं विष्णुपदम् आकाशं ‘वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी’ इत्यमरः श्रित आश्रितः विशुद्धया निर्मलया गवा स्वतेजसा ‘गौर्नाके वृषभे चन्द्रे वाक् भूदिग्धेनुषु स्त्रियाम् । द्वयोऽस्तुरश्मिदृग्बाणस्वर्गवज्राम्बुलोमसु’ इति रत्नमाला । तमस्ततीस् तमसाम् अन्धकाराणां ततीः समुदायान् खण्डयन् द्युमणिर्वा सूर्य इव । ‘द्युमणिस्तरणिर्मित्रः’ इत्यमरः । ‘वा विकल्पोपमानयोः’ इति च ॥ १३ ॥
विश्वास-प्रस्तुतिः - १४
अगाधमात्मन्यतिवेलमुद्धतं तिरस्कृताशेषसरस्वतीततिम् ।
कामं महामानसकुम्भसम्भवो लघूचकारेत्यपि बुद्धिसागरम्॥१४॥
मूलम् - १४
अगाधमात्मन्यतिवेलमुद्धतं तिरस्कृताशेषसरस्वतीततिम् ।
कामं महामानसकुम्भसम्भवो लघूचकारेत्यपि बुद्धिसागरम्॥१४॥
भावप्रकाशिका
सरस्वत्यो वाण्यो नद्यश्च ॥ १४ ॥
पदार्थदीपिकोद्बोधिका
अगाधमिति ॥ महामानसकुम्भसम्भवः, महन् मानसं यस्य पूर्णप्रज्ञाचार्यः स एव कुम्भसम्भवोऽगस्त्यः ‘अगस्त्यः कुम्भसम्भवः’ इत्यमरो ऽगाधं गम्भीरबुद्धिम् आत्मन्यात्मविषये अतिवेलमत्यन्तं यथा भवति तथा ‘अतिवेलभृशात्यर्थाति-मात्रोद्गाढनिर्भरम्’ इत्यमरः । उद्धतमविनीतं तिरस्कृताशेषसरस्वतीततिं तिरस्कृता निराकृता अशेषसरस्वतीततिः समस्तवादिवाक्सन्ततिर्येन तं ‘सरस्वती ह्यापगायां गो वाग्देवतयोरपि’ इति हेमचन्द्रः । बुद्धिसागरमपि, न केवलं वादिसिंहमेव वादिसिंहनिराकरणानन्तरम् अतिसंरम्भात्प्रत्यवतिष्ठमानं बुद्धिसागरमपि इति वादिसिंहनिराकरणप्रकारेण कामं यथेच्छं यथा भवति तथाऽनायासेनेति यावद् लघूचकार खण्डिताहङ्कारं चकार । प्रागगस्त्योऽगा-धमतलस्पर्शमात्मनि स्वस्मिन्नतिवेलं वेलामतिक्रम्योद्धतं प्रवृद्धं, तिरस्कृता स्वतरङ्गैर्निरा-कृताशेषसरस्वतीततिरशेषनदीसमूहो येन तं सागरमिवेति श्लेषाभिप्रायः ॥ १४ ॥
मन्दोपाकारिणी
अगाधमिति ॥ महामानसकुम्भसम्भवः महत् पूर्णं मानसं मनो यस्य स तथोक्तः पूर्णप्रज्ञः । ‘स्वान्तं हृन्मानसं मनः’ इत्यमरः । स एव कुम्भसम्भवो ऽगस्त्यमुनिः ‘अगस्त्यः कुम्भसम्भवः’ इत्यमरः । अगाधं गम्भीरम् आत्मनि स्वविषये अतिवेलम् अत्यन्तं ‘अतिवेलभृशात्यर्थं’ इत्यमर उद्धतम् अविनीतं, ‘अविनीतः समुद्धतः’ इत्यमरः, मत्समः कोऽपि नास्तीति दृप्तमिति यावत् । तिरस्कृताशेषसरस्वतीततिम् अशेषाणां समस्तानां पण्डितानां सरस्वत्यः वाचः ‘गीर्वाग्वाणी सरस्वती’ इत्यमरः, तासां ततिः समूहस् तिरस्कृता निराकृता अशेषसरस्वतीततिर् येन स तथोक्तस्तम् । बुद्धिसागरमपि इति वादिसिंहनिराकरणप्रकारेण कामं यथेष्टम् अनायासेनेति यावत् । लघूचकार खण्डिताहङ्कारं चकार । जिगाय इति यावत् । प्राक् अगस्त्यर्षिर् अगाधम् अतलस्पर्शम् अतिनिम्नमित्यर्थः । ‘अगाधमतलस्फर्शं’ इत्यमरः । आत्मनि स्वस्मिन् अतिवेलम् अब्धितीरम् अतिक्रम्य उद्धतं ‘वेलाब्धितीरवृध्योऽस्तु’ इति भास्करः । तिरस्कृताशेषसरस्वतीततिम् अशेषाश्च ताः सरस्वत्यः नद्यश्च तासां ततिः समूहो ऽशेषसरस्वतीततिस् तिरस्कृता निराकृता अशेषसरस्वतीततिर् येन स तथोक्तस्तम् । सागरं यथा पीत्वा लघूचकार तथेति श्लेषाभिप्रायः । ‘कूलङ्कषा निर्खरिणी रोधो वक्रा सरस्वती’ इत्यमरः ॥ १४ ॥
विश्वास-प्रस्तुतिः - १५
श्व एव वादोऽस्त्विति वादिनौ खलावद्योत्तरं भाति यदीर्यतामिति ।
मध्वे ब्रुवाणेऽमत तौ जितौ जनः स निश्चिकायाथ निशापलायनात् ॥ १५ ॥
मूलम् - १५
श्व एव वादोऽस्त्विति वादिनौ खलावद्योत्तरं भाति यदीर्यतामिति ।
मध्वे ब्रुवाणेऽमत तौ जितौ जनः स निश्चिकायाथ निशापलायनात् ॥ १५ ॥
पदार्थदीपिकोद्बोधिका
श्व इति ॥ ‘‘वादः श्व एवास्तु’’ इति वादिनौ वदन्तौ खलौ दुष्टौ तौ वादिसिंहबुद्धिसागरौ प्रति मध्वे श्रीमध्वाचार्ये, ‘यद्युत्तरमस्मद्युक्तिखण्डनोत्तरं भाति प्रतिभाति तर्ह्यद्येदानीमीर्यतामुच्यताम् अन्यथा प्रत्युत्तराप्रतिपत्तिरप्रतिभानामनिग्रह-स्थानापरपर्यायं पराभवकारणं युवयोः प्राप्तमिति ब्रुवाणे सति जनस् तूष्णीं स्थितौ दृष्ट्वा जितौ पराजितौ अमत मेने । स जनः निशापलायनाद् रात्रावेव गमनान्निश्चिकायापि तौ निशायामेव पलायितौ श्रुत्वा पराजिताविति निश्चयमकरोच्च ॥ १५ ॥
मन्दोपाकारिणी
श्व एवेति ॥ वादः कथा श्व एव परेद्युरेवास्तु भवतु इति वादिनौ वदन्तौ खलौ दुर्जनौ वादिसिंहबुद्धिसागरौ प्रति मध्वे पूर्णप्रज्ञाचार्ये यदि उत्तरम् अस्मद्युक्तिखण्डने प्रतिवाक्यं ‘प्रतिवाक्योत्तरे समे’ इत्यमरः भाति प्रतीयेत तर्हि अद्य इदानीम् ईर्यताम् उच्यतां ‘ईर प्रेरण इत्यस्मात् कर्मणि लोडात्मनेपदम् ईर्यताम् ईर्येताम् ईर्यन्ताम् । अन्यथा प्रत्युत्तरापत्तिर् अप्रतिभेति अप्रतिभानामकनिग्रहस्थानं युवयोः प्राप्तं, इति एवं ब्रुवाणे सति वदति सति, तूष्णीं स्थितौ दृष्ट्वा जनः जयशीलजिज्ञासया मिलितो जनः जितौ पराजितौ अमत मेने । ‘मनु अवबोधन इत्यस्माद् लुङात्मनेपदम् अमत अमनिष्ट, अमनिषाताम् अमनिषत’ । सः जनः निशापलायनान् निशायां रात्रौ पलायनाद् ग्रामं परित्यज्य निर्गमनात् ‘निशा निशाथिनी रात्रिः’ इत्यमरः । जितौ निश्चिकायापि तौ निशायामेव पलायितौ श्रुत्वा पराजिताविति निश्चयमकरोच्च । ‘निस् पूर्वकाच् चिञ् चयने इत्यस्माल्लिट् परस्मैपदं चिकाय चिक्यतुश् चिक्युः’ ॥ १५ ॥
विश्वास-प्रस्तुतिः - १६
बुद्ध्यब्धिना वादिवरेण चार्जितां जयश्रियं भूपरिवर्तिना चिरात् ।
अहो मुहूर्तादयमप्रयत्नवानवाप्तवानित्यतिविस्मितं जनैः॥ १६ ॥
मूलम् - १६
बुद्ध्यब्धिना वादिवरेण चार्जितां जयश्रियं भूपरिवर्तिना चिरात् ।
अहो मुहूर्तादयमप्रयत्नवानवाप्तवानित्यतिविस्मितं जनैः॥ १६ ॥
पदार्थदीपिकोद्बोधिका
बुद्ध्यब्धिनेति ॥ अयं श्रीमध्वाचार्यो भूपरिवर्तिना भुवं परिवर्तितुं प्रतिवाद्यपेक्षया पर्यटनं कर्तुं शीलमस्यास्तीति, तेन बुद्ध्यब्धिना बुद्ध्याऽब्धिरिव, तेन बुद्धिसागरेणेत्यर्थः । वादिवरेण वादिसिंहेन चेत्यर्थः । ‘स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभ-कुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचका’ इत्युक्तेः सिंहशब्दस्य श्रेष्ठार्थत्वाद्वादि-सिंहेनेति वक्तव्ये वादिवरेणेत्युक्तम् । चिरादार्जितां जयश्रियं मुहूर्तान्मुहूर्तमात्रेण । प्रयत्नवान्न भवतीत्यप्रयत्नवान् सन्,आयासरहितः सन्नित्यर्थः । अवाप्तवान् प्राप अपहृतवानिति भावः । अहो इति जनैर् अतिविस्मितम् ॥ १६ ॥
मन्दोपाकारिणी
बुद्धीति ॥ अयं श्रीमध्वाचार्यः । भूपरिवर्तिना भुवं भूमिं परिवर्तिना पर्यटता बुद्धब्धिना बुद्धिसागरेण अब्धिशब्दस्य सागरशब्दपर्यायित्वाद् बुद्ध्याब्धिनेत्युक्तम् । वादिवरेण वादिसिंहेन च । ‘सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः’ इत्यमरकोशोक्तेः । वरशब्दस्य श्रेष्ठार्थकसिंहशब्देन समानार्थकत्वाद् वादिवरेणेत्युक्तम् । चिराद् बहुकाल आर्जितां संपादितां जयश्रियं जयाख्यसम्पदं मुहूर्ताद् घटिकाद्वय-मितकालादेव, अप्रयत्नवान् प्रयत्नो अस्यास्तीति प्रयत्नवान् तादृशो न भवतीति अप्रयत्न-वान् आयासरहितस्सन् अवाप्तवान् अपहृतवानिति भावः । अहो आश्चर्यम् । ‘अहोहीति च विस्मये’ इत्यमरः । इत्येवंप्रकारेण जनैर् ग्रामस्थजनैर् अतिविस्मितम् आश्चर्यं प्राप्तम् ॥ १६ ॥
विश्वास-प्रस्तुतिः - १७
व्याख्यन् कदाचिन्मणिमद्विनिर्मितं भाष्यं जनैस्तर्कविशारदैर्वृतः ।
उवाच वाचं परिहासहासवान्सम्मोदतीर्थः सुरमोददायिनीम्॥१७॥
मूलम् - १७
व्याख्यन् कदाचिन्मणिमद्विनिर्मितं भाष्यं जनैस्तर्कविशारदैर्वृतः ।
उवाच वाचं परिहासहासवान्सम्मोदतीर्थः सुरमोददायिनीम्॥१७॥
पदार्थदीपिकोद्बोधिका
व्याख्यान्निति ॥ मणिमद्विनिर्मितं सङ्करनाम्ना भुव्युत्पन्नेन मणिमताख्याविरचितं भाष्यं ब्रह्मसूत्रभाष्यं व्याख्यान् व्याकुर्वन्, तर्कविशरदैस्तर्के तर्कशास्त्रे विशारदैश्चतुरैर्जनैर्वृतः सहितः, संमोदतीर्थः सम्यङ्मोदः सम्मोदः, सम्मोदकरं तीर्थं शास्त्रं यस्मात् स आनन्दतीर्थाचार्यः । परिहासहासवान् परिहासरूपो हासः, परिहासयुक्तो हास इति वा, सोऽस्यास्तीति तादृशस्सन् ‘परिहासश्च नर्मणि’ इति हलः । सुरमोददायिनीं सुराणां मोदः सन्तोषः, तं दातुं शीलमस्यास्तीति तादृशीं वाचमुवाच ॥ १७ ॥
मन्दोपाकारिणी
व्याख्यन्निति ॥ कदाचित् कस्मिंश्चित्काले । मणिमद्विनिर्मितं मणिमता सङ्करनाम्ना भुव्युत्पन्नेन मणिमन्नामकदैत्येन विनिर्मितं विरचितं भाष्यं ब्रह्मसूत्रभाष्यं व्याख्यन् व्याख्यानं कुर्वन्, तर्कविशारदैस् तर्के तर्कशास्त्रे विशारदैश् चतुरैर् जनैर् वृतः युक्तः सम्मोदतीर्थः श्रीमदानन्दतीर्थाचार्यः । परिहासहासवान् ‘हासोहास्यं च बीभत्सं’ इत्यमरः, अपहासं कुर्वन् सन् इति यावत् । सुरमोददायिनीं सुराणां मोदं ददातीति सुरमोददायिनी तां वाचं वाक्यं, उवाच अब्रवीत् । ‘वच परिभाषण इत्यतो लिट् परस्मैपदं, उवाच ऊचतुर् ऊचुः’ ॥ १७ ॥
विश्वास-प्रस्तुतिः - १८
सत्सूत्रभावे प्रविचारिते पृथग्भाष्याभिसन्धौ च विशुद्धबुद्धिभिः ।
निगृह्य गूढाग्रहमुग्रमेतयोर्मान्योऽन्वयोऽन्योन्यमहो न दृश्यते ॥ १८ ॥
मूलम् - १८
सत्सूत्रभावे प्रविचारिते पृथग्भाष्याभिसन्धौ च विशुद्धबुद्धिभिः ।
निगृह्य गूढाग्रहमुग्रमेतयोर्मान्योऽन्वयोऽन्योन्यमहो न दृश्यते ॥ १८ ॥
पदार्थदीपिकोद्बोधिका
सदिति ॥ विशुद्धबुद्धिभिर् विशुद्धा निर्मला बुद्धिश्चित्तं येषां तैः पुरुषैः । उग्रं नरकाद्यनर्थप्रदम् । गूढाग्रहं गूढो निगूढ आग्रहो विचारमार्गमपहायैव-मेवतत्त्वमित्येवंरूप आग्रहस्तं निगृह्य परित्यज्य, सत्सूत्रभावे सन्ति शोभनानि सूत्राणि ब्रह्मसूत्राणि तेषां भावोऽभिप्रायस्तस्मिन् । पृथक् भाष्यं विहाय प्रविचारिते सति सम्यग्विचारिते सति, तथा भाष्याभिसन्धौ च भाष्याभिप्राये च प्रविचारिते सति । अनयोः सूत्रसाङ्करभाष्ययोरन्योन्यं मिथो मान्यः परस्पराविरोधेनाङ्गीकर्तुमुचितोऽन्वयो व्याख्यानव्या-ख्येयरूपः सम्बन्धो न दृश्यते । अहो एवंविधेऽप्यस्मिन् भाष्ये महाजनस्य कथमादर इति भावः । तथा हि । सूत्रेषु विष्णोरनन्तगुणपूर्णत्वं, निर्दोषत्वं, चेतनाचेतनात्मकसर्व-प्रपञ्चविलक्षणत्वं, मुख्यतो वचनवृत्या सर्ववेदप्रतिपाद्यत्वं, मुक्तौ च सर्वजीवनियामकत्वं, प्रपञ्चसत्यत्वमित्यादयोऽर्थाः प्रतिपाद्यन्ते । भाष्ये तु विष्णोर्निर्गुणत्वं, जीवाभेदेन सकलदोष-भाजनत्वं, सर्वशब्दावाच्यत्वं, प्रपञ्चस्य मिथ्यात्वं, मुक्तौ जीवब्रह्मैक्यञ्चेत्यादयोऽर्थाः सूत्रविरुद्धाः प्रतिपाद्यन्ते । तस्मात्परस्परविरुद्धयोर्भाष्यसूत्रयोः कथं व्याख्यानव्याख्येय-भावलक्षणस्सम्बन्धः, कथञ्च प्रमाणतमसूत्रविरुद्धभाष्ये महाजनानां प्रमाणत्वाभिमान इति भावेन, अहो इत्युक्तमिति भावः ॥ १८ ॥
मन्दोपाकारिणी
सदिति ॥ विशुद्धबुद्धिभिर् विशुद्धा रागादिदोषरहिता बुद्धिर् अन्तःकरणं येषां ते विशुद्धबुद्धयस् तैः पुरुषैः ॥ विशुद्धा च ता बुद्धयश्च विशुद्धबुद्धयस् ताभिर् विशुद्धान्तःकरणैरिति वा । उग्रं क्रूरं नरकाद्यनर्थप्रदमित्यर्थः । गूढाग्रहं गूढं निगूढं हृदये आग्रहं विचारमकृत्वा ‘एवमेव तत्त्वं’ इत्येवंरूपं दुरभिमानं निगृह्य परित्यज्य, सत्सूत्रभावे सन्ति निर्दोषाणि च तानि सूत्राणि ब्रह्मसूत्राणि सत्सूत्राणि सत्सूत्राणां भावे अभिप्राये ‘भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु’ इत्यमरः, पृथक् भाष्यं वर्जयित्वा, ‘पृथग्विनान्तरेणर्तेहिरुङ् नाना च वर्जने’ इत्यमरः प्रविचारिते सम्यगविचारिते सति, तथा भाष्याभिसन्धौ च भाष्यस्य अभिप्राये च प्रविचारिते सति, एतयोर् अनयोः सूत्रशङ्करभाष्ययोर् अन्योन्यं मिथः मान्यः विरोधाभावेन अङ्गीकर्तुमुचितो ऽन्वयः व्याख्यानव्याख्येयभावः संबन्धः न दृश्यते नावलोक्यते । अहो एवंविधेऽपि भाष्ये महाजनस्य आदरोऽस्तीति आश्चर्यम् । ‘दृशिर् प्रेक्षण इत्यतः कर्मणि लट् आत्मनेपदं दृश्यते दृश्येते दृश्यन्ते’ सूत्रभाष्ययोर् विरोधस्तु, सूत्रेषु विष्णोरनन्तगुणपरिपूर्णत्वं, निर्दोषत्वं, चेतनाचेतनात्मकसर्वप्रपञ्चविलक्षणत्वं, परममुख्यया वृत्त्या सर्ववेदप्रतिपाद्यत्वं, मुक्तौ सर्वजीवनियामकत्वं, प्रपञ्चस्य सत्यत्वमित्यादयोऽर्थाः प्रतिपाद्यन्ते । भाष्ये तु विष्णोर्निर्गुणत्त्वं, जीवाभेदेन सकलदोषभाजनत्वं, सर्वशब्दावाच्यत्वं, प्रपञ्चस्य मिथ्यात्वं मुक्तौ जीवानां ब्रह्मैक्यञ्च, इत्यादयोऽर्थाः सूत्रविरुद्धाः प्रतिपाद्यन्त इति । तस्मात् परस्परविरुद्धयोर् भाष्यसूत्रयोः कथं व्याख्यानव्याख्येयभावः सम्बन्धः । कथं सूत्रविरुद्धं भाष्यं प्रमाणं, कथं चैवंविधे भाष्ये महाजनानां प्रमाणत्वाभिमान इति भावेन अहो इत्युक्तमिति भावः ॥ १८ ॥
विश्वास-प्रस्तुतिः - १९
इति ब्रुवाणे प्रतिपादयत्यलं भाष्येऽत्र दोषान्प्रबलान्मुहुर्मुहुः ।
तस्मिंस्तु विस्मेरधियोऽपि यत्नतो न स्थेयसः पर्यहरन्निमानमी ॥ १९ ॥
मूलम् - १९
इति ब्रुवाणे प्रतिपादयत्यलं भाष्येऽत्र दोषान्प्रबलान्मुहुर्मुहुः ।
तस्मिंस्तु विस्मेरधियोऽपि यत्नतो न स्थेयसः पर्यहरन्निमानमी ॥ १९ ॥
पदार्थदीपिकोद्बोधिका
इतीति ॥ इति ब्रुवाणे वदति तस्मिन् श्रीमध्वाचार्ये अत्र भाष्ये प्रबलान् दुष्परिहरान्दोषान्मुहुर्मुहुरलं सम्यक् प्रतिपादयति सति विस्मेरधियो विस्मेरा विस्मिता धीर्येषां ते । अमी व्याख्यानावसरे पर्यासीनास्तर्कविशारदा जनाः, स्थेयसोऽति-स्थिरानिमान् श्रीमध्वेनोद्भावितान् दोषान् यत्नतोऽपि न पर्यहरन् न परिहृतवन्तः ॥ १९ ॥
मन्दोपाकारिणी
इतीति ॥ इति पूर्वोक्तप्रकारेण ब्रुवाणे भाषमाणे तस्मिन् श्रीमध्वाचार्ये । अत्र भाष्ये अस्मिन् शङ्करभाष्ये प्रबलान् दुष्परिहारान् दोषान् मुहुर्मुहुर् वारं वारम् अलं सम्यक् अनुभवारूढं यथा भवति तथेति यावत् प्रतिपादयति उपपादयति सति, विस्मेरधियः विस्मेरा आश्चर्ययुक्ता धियश् चित्तानि येषां ते विस्मेरधियः मनसा विस्मयं कुर्वन्तो ऽमी व्याख्यानावसरे परित आसीनास् तर्कविशारदा जनाः स्थेयसो ऽतिशयेन स्थिरान् दृढान् इमान् श्रीमध्वाचार्योद्भावितान् भाष्यदोषान् यत्नतोऽपि प्रयत्नेनापि स्वबुद्ध्यनुसारेण यत्नं कृत्वापि न पर्यहरन् न परिहृतवन्तः । ‘परिपूर्वकात् हृञ् हरणे इत्यस्माद् लङ् परस्मैपदम् अहरद् अहरताम् अहरन्’ ॥ १९ ॥
विश्वास-प्रस्तुतिः - २०
नन्वस्य सूत्रस्य परोऽर्थ उच्यतां यद्भाष्यमात्रं भवता निरस्यते ।
भवादृशैर्यः कविभिर्न दूष्यते कथञ्चनेत्यूचुरिमे वचस्विनः॥ २० ॥
मूलम् - २०
नन्वस्य सूत्रस्य परोऽर्थ उच्यतां यद्भाष्यमात्रं भवता निरस्यते ।
भवादृशैर्यः कविभिर्न दूष्यते कथञ्चनेत्यूचुरिमे वचस्विनः॥ २० ॥
पदार्थदीपिकोद्बोधिका
नन्विति ॥ नन्विति शङ्कार्थे । यद्यस्मात्कारणाद्भवता केवलं भाष्यं भाष्यमात्रं निरस्यते निराक्रियते । भाष्यमेव बहुधा निरस्यते सूत्रन्तु प्रशस्यत इत्यर्थः । तस्मात्कारणात्, भवन्त इव पश्यन्तीति भवादृशास्तैः कविभिर् विद्वद्भिः कथञ्चन केनापि प्रकारेण योऽन्योऽर्थो न दूष्यते स परोऽन्योऽर्थोऽस्य सूत्रस्य ब्रह्मसूत्रस्य भवता उच्यतामिति वचस्विनो वाग्मिन इमे सभास्था वादिन ऊचुः ॥ २० ॥
मन्दोपाकारिणी
नन्विति ॥ वचस्विनः वाग्मिनः । इमे जना इति एवमूचुर् अब्रुवन् । ‘वच परिभाषण इत्यतो लिट् परस्मैपदम्’ । किमिति, ननु इति आमन्त्रणे । हे मध्वाचार्य यद् यस्माद् भवता त्वया भाष्यमात्रं केवलं भाष्यं भाष्यमात्रं शङ्करप्रणीत-भाष्यमेव निरस्यते निराक्रियते । ‘निः पूर्वाद् असु क्षेपण इत्यस्मात् कर्मणि लट् आत्मनेपदम् अस्यते अस्येते अस्यन्ते’ । तस्माद् अस्य प्रमाणत्वेन अङ्गीकृतस्य सूत्रस्य परो ऽन्यो ऽर्थ उच्यतामभिधीयताम् । ‘वचेः कर्मणि लोट् आत्मनेपदम् उच्यताम् उच्येताम् उच्यन्ताम्’ । योऽर्थो भवादृशैर् भवता सदृशा भवादृशास् तैः कविभिः पण्डितैः ‘सङ्ख्यावान्पण्डितः कविः’ इत्यमरः । कथञ्चन केनापि प्रकारेण न दूष्यते न निराक्रियते तादृशोऽर्थ उच्यतामिति ऊचुर् इति संबन्धः । ‘दुष वैकृत्य इत्यतः कर्मणि लट् आत्मनेपदं दूष्यते दूष्येते दूष्यन्ते’ ॥ २० ॥
विश्वास-प्रस्तुतिः - २१
अल्किष्टशब्दान्वयमेष संभवत्सूत्रार्थमुच्चैर्वचनं तदाददे ।
मानीकृताम्नाययुतस्मृति क्षणादेष्यत्कथाताण्डवसूत्रधारकम्॥ २१॥
मूलम् - २१
अल्किष्टशब्दान्वयमेष संभवत्सूत्रार्थमुच्चैर्वचनं तदाददे ।
मानीकृताम्नाययुतस्मृति क्षणादेष्यत्कथाताण्डवसूत्रधारकम्॥ २१॥
पदार्थदीपिकोद्बोधिका
अक्लिष्टेति ॥ एष श्रीमध्वाचार्यस् तदाऽक्लिष्टशब्दान्वयं, शब्दानां वाचकशब्दानाम् अन्वयो वाच्यार्थैः सह सम्बन्धः, अक्लिष्टः योगेन रूढ््या वा सुबोध्यः शब्दान्वयो यस्य तत्, योगेन रूढ््या वा तत्तदर्थवाचकत्वशक्तिमच्छब्दैरेव विवक्षितार्थकथनादर्थानां शब्दानाञ्च परस्परं वाच्यवाचकभावलक्षणं सम्बन्धमसूचयदिति भावः । यद्वा शब्दाश्चान्वयाश्च शब्दान्वया अक्लिष्टाश्शब्दान्वया यस्मिन् तत् । सम्भवत्सूत्रार्थं सम्भवन्नुपपाद्यमानः सूत्रार्थो यस्मिन् तत् । मानीकृताम्नाययुतस्मृति आम्नाययुता वेदयुक्ता या स्मृतयः पुराणानि मानीकृता उक्तार्थे प्रमाणत्वेनोदाहृता यस्मिन् तत् । एष्यत्कथाताण्डव-सूत्रधारकम् एष्यन्ती स्वयं करिष्यमाणभाष्यात्मिका या कथा वाक्यप्रबन्धः ‘कथ वाक्यप्रबन्धे’ इति धातोस् तदात्मकस्य ताण्डवस्य नर्तनस्य सूत्रधारकं पूर्वरङ्गभूतं, एवं मया भाष्यं करिष्यत इत्येतदसूचयदिति भावः । वचनमुपन्यासरूपं वाक्यमुच्चैर् उन्नतस्वरो यथा भवति तथा क्षणात् क्षणकालाद् आददे आदरेण वक्तुमुपचक्रमे ॥ २१ ॥
मन्दोपाकारिणी
अक्लिष्टेति ॥ एषः श्रीमध्वाचार्यः । तदा जनोक्तिकाले । उच्चैर् उच्चध्वनिना । वचनम् उपन्यासरूपवचनम् । क्षणात् सद्यः । आददे वक्तुमुपचक्रमे । ‘आङ् पूर्वाद् दद दाने लिडात्मनेपदम् आददे आददाते आददिरे’ । कथंभूतं वचनं, अक्लिष्टशब्दान्वयम् अक्लिष्टः क्लेशरहितः स्पष्टं प्रतीयमानः शब्दानां पदानाम् अन्वयः योजना यस्मिन् तत्, अक्लिष्टाः शब्दा अन्वयाश्च यस्मिन्निति वा । शब्दानाम् अक्लिष्टत्वं नाम स्पष्टार्थत्वं, अन्वयानांतु अव्यवहितत्वं ज्ञेयम् । पुनः कथंभूतं, सम्भवत्सूत्रार्थं सम्भवदुपपद्यमानः सुत्राणाम् अर्थोऽभिधेयः यस्मिन् तत् सम्भवत्सूत्रार्थम् । पुनः कथंभूतं, मानीकृताम्नाययुतस्मृति आम्नायैर् वेदैर् युता आम्नाययुताः ‘श्रुतिः स्त्री वेद आम्नायः’ इत्यमर आम्नाययुताश्च ताः स्मृतयश्च आम्नाययुतस्मृतयः मानीकृता उक्तौ प्रमाणत्वेन उदाहृता आम्नाययुतस्मृतयः यस्मिन् तन् मानीकृताम्नाययुतस्मृति । पुनः कीदृशम् एष्यत्कथाताण्डवसूत्रधारकम् एष्यन्ती भविष्यन्ती स्वेन करिष्यमाणा च सा कथा भाष्यात्मकवाक्यप्रबन्ध एष्यत्कथा ‘कथ वाक्यप्रबन्धने’ इति धातोर् एष्यत्कथैव ताण्डवं नाट्यं ‘ताण्डवं नटनं नाट्यं’ इत्यमरः नाट्यस्य सूत्रधारकं पूर्वरङ्गभूतम् उत्तरत्र क्रियमाणनाट्यस्य पूर्वरङ्गं यथा सूचकं तथा मया एवं रूपभाष्यं करिष्यत इत्येवं स्वयं करिष्यमाणभाष्यसूचकम् एतदुपन्यासवचनमिति भावः । एवं विधं वचनम् आददे इत्यन्वयः ॥ २१ ॥
विश्वास-प्रस्तुतिः - २२
बुभुत्सया मत्सरवर्जिताञ्जनान्समत्सरान्वा विजिगीषयाऽऽगतान् ।
श्रुतप्रवीणानतितार्किकान्मुहुर्भङ्ग्याऽनया भङ्गमुपानिनाय सः॥२२॥
मूलम् - २२
बुभुत्सया मत्सरवर्जिताञ्जनान्समत्सरान्वा विजिगीषयाऽऽगतान् ।
श्रुतप्रवीणानतितार्किकान्मुहुर्भङ्ग्याऽनया भङ्गमुपानिनाय सः॥२२॥
पदार्थदीपिकोद्बोधिका
बुभुत्सयेति ॥ स श्रीमध्वाचार्यः । श्रुतप्रवीणान् श्रुतेन शास्त्रश्रवणेन प्रवीणान् चतुरबुद्धीन् अत एवातितार्किकान् अत्यन्तं तर्कशास्त्रज्ञान् । मत्सरवर्जितान् मत्सररहितान् अत एव बुभुत्सया बोद्धुमिच्छया परापररूपतत्त्वस्येत्यर्थः । आगतान् जनान्, अथ समत्सरान् मत्सरयुतान् अत एव विजिगीषया विजेतुमिच्छया गतांश्च अनया पूर्वोक्तया भङ्ग्या रीत्या मानीकृतश्रुतिस्मृतियुक्तयुक्तिवचोभङ्ग्येत्यर्थः । मुहुर्भङ्गं पराभवमुपानिनाय निरुत्तरत्वं प्रापयामास । तत्त्वजिज्ञासयाऽऽगतानां प्रश्नस्योत्तर-दानेन संशयनिरसनद्वारा विजिगीषयाऽऽगतानां प्रश्नस्य निराकरणेन च भङ्गमुपानिनायेति विवेकः ॥ २२ ॥
मन्दोपाकारिणी
बुभुत्सयेति ॥ सः श्रीमध्वाचार्यः । श्रुतप्रवीणान् श्रुते शास्त्रे ‘श्रुतं शास्त्रावधृतयोः’ इत्यमरः । प्रवीणान् निपुणान् ‘प्रवीणो निपुणोऽभिज्ञः’ इत्यमरः । अत एव अतितार्किकान् अति अत्यन्तं युक्तिशास्त्रचतुरान् । मत्सरवर्जितान् मत्सरेण मात्सर्येण द्वेषेणेति यावद् वर्जितान् रहितान् अत एव बुभुत्सया तत्त्वं बोद्धुमिच्छया आगतान् जनान् । समत्सरान् मात्सर्येण सहितान् अत एव विजिगीषया मध्वं विजेतुमिच्छया आगतान् जनान् वा जनांश्च वाशब्दः समुच्चये । ‘वाऽव्यये वा समुच्चये’ इत्येकाक्षरमाला । अनया भङ्ग्या अनेन पूर्वोक्तोपन्यासरूपेण प्रकारेण मुहुर् अत्यन्तं भङ्गं निरुत्तरत्वरूप-पराजयं ‘भङ्गः खण्डे पराजये’ इति रत्नमाला । उपानिनाय प्रापयामास । ‘नी बह्योरित्यादिना द्विकर्मकत्वं’ मत्सरं विना तत्त्वजिज्ञासूनां प्रश्नस्योत्तरं दत्वा संशयादिनिरासद्वारा निरुत्तरत्वं, समत्सराणां विजिगीषूणां विजिगीषया प्रयुक्तयुक्तिखण्ड-नद्वारा निरुत्तरत्वं च कृतवानिति विवेको ज्ञेयः ॥ २२ ॥
विश्वास-प्रस्तुतिः - २३
कदाचिदेनं प्रतिगम्य सौम्यधीः स मध्यगेहार्यवरः प्रसेदिवान् ।
हेतोः कुतश्चिद्विमनीकृतोऽप्यहो गुणाब्धिलुब्धः सुजनः प्रसीदति ॥ २३ ॥
मूलम् - २३
कदाचिदेनं प्रतिगम्य सौम्यधीः स मध्यगेहार्यवरः प्रसेदिवान् ।
हेतोः कुतश्चिद्विमनीकृतोऽप्यहो गुणाब्धिलुब्धः सुजनः प्रसीदति ॥ २३ ॥
पदार्थदीपिकोद्बोधिका
कदाचिदिति ॥ सौम्यधीः कोमलचित्तः स मध्यगेहार्यवरः मध्यगेहश्चासौ आर्यवरश्च साधुश्रेष्ठ इत्यर्थः । प्राक् कुतश्चिद्धेतोः कारणाद्विमनीकृतोऽपि, अविमना विमनाः सम्पद्यमानः कृतः विमनीकृतः कलुषीकृतचित्तोऽपि । कदाचिदेनं श्रीमध्वाचार्यं प्रतिगम्य प्राप्य प्रसेदिवान् प्रसन्नचित्तोऽभूत् । अहो । सुजनो गुणाब्धिलुब्धः गुणा एवाब्धिस्तस्मिंल्लुब्धो लोभयुक्तः सन् । गुणबाहुल्यं दृष्ट्वा तद्धातुमशक्तः सन् इत्यर्थः । प्रसीदति प्रकर्षेण सीदति तत्र सक्तो भवति हि । सुजनः प्रतीयमानमल्पदोषमगणय्य गुणिनि सक्तो भवतीत्यतोऽयमपि सुजनाग्रेसरो गुणाब्धिं श्रीमध्वं दृष्ट्वाऽन्योपाधिकं मनोदोषं विहाय प्रसन्नचित्तोऽभूदिति भावः । अत्रार्थान्तरन्यासालङ्कारः ॥ २३ ॥
मन्दोपाकारिणी
कदाचिदिति ॥ सौम्यधीः सौम्या निर्मला धीश् चित्तं यस्य स तथोक्तः । मध्यगेहार्यवरः मध्यगेहश्चासौ आर्यवरः ज्ञानिश्रेष्ठश्च मध्यगेहार्यवरः मध्वाचार्यपिता कदाचित् कस्मिंश्चित्काले एनं मध्वाचार्यं प्रतिगम्य प्राप्य प्रसेदिवान् प्रसन्नोऽभूत् । प्राक् पूर्वकाले कुतश्चित् कस्माच्चित् हेतोः कारणात् स्वापेक्षिताकरणरूपाद् विमनीकृतोऽपि दुर्मना अपि ‘दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः’ इत्यमरः । कलुषीकृत-चित्तोऽपीत्यर्थः । स्वापेक्षिताकर्तरि मध्वे पूर्वम् अनादरवतोऽपि मध्यगेहस्य इदानीं तद्दर्शनेन मध्वे आदरोऽभूदिति भावः । इदं युक्तमित्याह अहो इति ॥ सुजनः सज्जनः । गुणाब्धिलुब्धः गुणाब्धौ गुणानाम् अब्धौ समुद्रे लुब्धः लोभवान् गुणग्राहक इति यावत् । गुणबाहुल्यं दृष्ट्वा तद्धातुम् अशक्त इति भावः । प्रसीदति तत्र गुणराशौ आसक्तो भवति अहो गुणानां महिमा आश्चर्यम् । ‘प्र पूर्वात् षद्लृ विशरणगत्यवसादनेषु इति धातोर्लट् परस्मैपदम् ॥ २३ ॥
विश्वास-प्रस्तुतिः - २४
तेजोऽमृतं नन्दनगात्रपात्रगं नेत्राञ्जलिभ्यामपिबत्सदाव्ययम् ।
विद्यासुधां चास्य वचोमहाघटे पूर्णामसौ कर्णपुटेन पण्डितः॥२४॥
मूलम् - २४
तेजोऽमृतं नन्दनगात्रपात्रगं नेत्राञ्जलिभ्यामपिबत्सदाव्ययम् ।
विद्यासुधां चास्य वचोमहाघटे पूर्णामसौ कर्णपुटेन पण्डितः॥२४॥
पदार्थदीपिकोद्बोधिका
तेज इति ॥ पण्डितो विद्वानसौ मध्यगेहार्यो नन्दनगात्र-पात्रगं नन्दनस्य गात्रमेव शरीरमेव पात्रं तद्गच्छतीति तादृशम् । सदाव्ययं न विद्यते व्ययो यस्य तदव्ययं तेजोमृतं तेज एवामृतं नेत्राञ्जलिभ्यां नेत्रे एवाञ्जली हस्तौ ताभ्यामपिबत् । सादरं सन्ददर्शेति यावत् । अस्य श्रीमध्वाचार्यस्य वचोमहाघटे वचांस्येव व्याख्यानात्मकवाच एव महाघटस्तस्मिन् पूर्णां विद्यासुधाञ्च विद्याख्यामृतञ्च कर्णावेव पुटं तेन अपिबत् । चित्रं तत्प्रवचनं सादरमृणोदिति भावः ॥ २४ ॥
मन्दोपाकारिणी
तेज इति ॥ पण्डितः विद्वान् । असौ मध्यगेहः । नन्दनगात्रपात्रगं नन्दनस्य सुतस्य मध्वाचार्यस्य गात्रं शरीरं तदेव पात्रं भाजनं ‘पात्रामत्रं च भाजनं’ इत्यमरः पात्रे गच्छति तिष्ठतीति पात्रगस् तम् । सदा सर्वदा अव्ययं व्ययरहितं कदाचित् ह्रासरहितमित्यर्थः । तेजोऽमृतं तेजोऽभिधं कान्तिलक्षणम् अमृतं सुधां ‘तेजो धाम महो विभौ’ इत्यमरः । नेत्राञ्जलिभ्यां नेत्रे नयने एव अञ्जली किञ्चिदाकुञ्चिताङ्गुलीसहितौ पाणी ताभ्याम् अपिबत् पीतवान् । ‘पा पान इत्यतो लङ् परस्मैपदम्’ । यथा पात्रस्थितम् अमृतं पाणिद्वयेन पिबति तद्वत् शरीरकान्तिं नेत्रद्वयेन सादरं ददर्शेति भावः । अस्य श्रीमध्वाचार्यस्य वचोमहाघटे वचः व्याख्यानाख्यवचनं ‘भाषितं वचनं वचः’ इत्यमरः महांश्चासौ घटः पात्रं च महाघटः वच एव महाघटस् तस्मिन् पूर्णां पूरितां विद्यासुधां च विद्यैव ज्ञानमेव सुधाम् अमृतं कर्णपुटेन कर्णयोः श्रोत्रयोः पुटेन विवरेण तल्लक्षणपात्रेणेति यावद् अपिबत् तत्प्रवचनं सादरमृणोदिति भावः ॥ २४ ॥
विश्वास-प्रस्तुतिः - २५
लीलाविवादे गुरुणा जगद्गुरोः प्रसङ्गतस्तत्र च तादृशे सति ।
सूत्रार्थविच्चेत्कुरु भाष्यमञ्जसेत्याक्षेपपूर्वं गुरुरभ्यधादिमम्॥ २५ ॥
मूलम् - २५
लीलाविवादे गुरुणा जगद्गुरोः प्रसङ्गतस्तत्र च तादृशे सति ।
सूत्रार्थविच्चेत्कुरु भाष्यमञ्जसेत्याक्षेपपूर्वं गुरुरभ्यधादिमम्॥ २५ ॥
भावप्रकाशिका
प्रसङ्गे तादृशे सति दुर्भाष्यदूषणादिरूपे ॥ २५ ॥
पदार्थदीपिकोद्बोधिका
लीलेति ॥ जगद्गुरोः श्रीमध्वाचार्यस्य गुरुणा अच्युत-प्रेक्षाचार्येण प्रसङ्गतस्तत्र च गुरुणा सह प्रसङ्गकाले च तादृशे तादृग्विधे । ‘सत्सूत्र-भावेप्रविचारिते’ इत्यादिपूर्वोक्तप्रकारेण साङ्करभाष्यनिराकरणरूप इत्यर्थः । लीलाविवादे लीलया मत्सरराहित्येन विवादे भाष्यं सूत्रसम्मतं भवति न भवतीति विप्रतिपत्तिस्तस्मिन् सति गुरुरच्युतप्रेक्ष इमं श्रीमध्वाचार्यं प्रति ‘त्वं सूत्रार्थविच्चेत् सूत्राणां ब्रह्मसूत्राणामर्थं वेत्ति सम्यग् जानातीति तादृशश्चेद्भाष्यमञ्जसा कुरु’ इत्याक्षेपपूर्वम् आक्षेपः पूर्वो यथा भवति तथाऽभ्यधात् प्रोवाच ॥ २५ ॥
मन्दोपाकारिणी
लीलेति । जगद्गुरोर् जगतां गुरोः पूर्णप्रज्ञस्य । गुरुणा अच्युतप्रेक्षेण सह प्रसङ्गतस् तत्त्वविचारप्रसङ्गात् तत्र च तत्त्वविचारप्रसङ्गकालेऽपि तादृशे सत्सूत्रभावे प्रविचारिते पृथगित्यादिना प्रागुक्तप्रकारेण शङ्करभाष्यनिराकरणरूपे लीलाविवादे सति लीलया नर्मणा मत्सरराहित्येनेति यावत् । ‘क्रीडा लीला च नर्म च’ इत्यमरः विवादे भाष्यं सूत्रसङ्गतं न भवतीति विप्रतिपत्तौ सत्यां गुरुर् अच्युतप्रेक्ष इमं मध्वाचार्यं प्रति आक्षेपपूर्वम् आक्षेपः ध्वनिविकारव्यङ्ग्यः कोपविशेषः स एव पूर्वो यथा भवति तथा आक्षेपपूर्वम् आक्षेपगर्भितं यथा भवति तथेति यावत् । इति अभ्यधाद् अब्रवीत् । ‘डु धाञ् धातोर् लुङ् परस्मैपदम् अधाद् अधाताम् अधुः’ । किमिति, हे पूर्णप्रज्ञ त्वं चेद् यदि सूत्रार्थवित् सूत्राणां ब्रह्मसूत्राणाम् अर्थं प्रतिपाद्यं वित् सम्यक् वेत्ता स्यास् तर्हि भाष्यम् अञ्जसा सम्यक् कुरु इति ‘डु कृञ् करण इत्यतो लोट् परस्मैपदं कुरु कुरुतात् कुरुतं कुरुत’ ध्वनिविशेषेण उक्तपद्यालम्बितवाक्येन आक्षेपो व्यज्यते ॥ २५ ॥
विश्वास-प्रस्तुतिः - २६
विधानमात्रं तदुपाददे तदा पयो यथाच्छं परमः स हंसराट् ।
तल्लीनमाक्षेपमुपैक्षताफलं वारीव सन्तो हि गुणांशतोषिणः॥ २६ ॥
मूलम् - २६
विधानमात्रं तदुपाददे तदा पयो यथाच्छं परमः स हंसराट् ।
तल्लीनमाक्षेपमुपैक्षताफलं वारीव सन्तो हि गुणांशतोषिणः॥ २६ ॥
पदार्थदीपिकोद्बोधिका
विधानेति ॥ परमो हंसराट् परमहंसश्रेष्ठः स मध्वाचार्यस् तदा विधानमात्रं केवलं विधानं ‘तद्भाष्यमञ्जसा कुरु’ इत्येवं रूपं, हंसराट् अच्छं निर्मलं पयः क्षीरं यथा आदद्यादिति शेषस् तथाददे अङ्गीचकार । अफलं न विद्यते फलं यस्य तदफलं निष्फलमित्यर्थः । तल्लीनं तस्मिन् ‘सूत्रार्थविच्चेत्कुरुभाष्यमञ्जसे’त्यस्मिन् वाक्ये इत्यर्थः । लीनं गूढमाक्षेपम् । हंसराट् क्षीरलीनं वारीव उपैक्षत उपेक्षितवान् । अयं भावः । एतद्भाष्यं सूत्रसम्मतं नेत्युक्ते, तदसहमानो गुरुराक्षेपपूर्वकं त्वमञ्जसा भाष्यं कुर्वित्यब्रवीत् । तदायं श्रीमध्वस् तद्वाक्ये काकुवेद्यामाक्षेपं हित्वा, ‘भाष्यमञ्जसा कुरु इति विधानवाक्यमात्रं गुर्वाज्ञारूपत्वेनाददे । यथा हंसः सनीरं क्षीरं पुरोवर्ति दृष्ट्वा नीरमपहाय क्षीरं पिबेत्तद्वदिति । एतदेव सतां युक्तमित्याह सन्तो हीति ॥ हि यस्मात्सन्तः सज्जना गुणांशतोषिणो गुणलक्षणोंऽशः गुणांशस्तेन तोषो एषामस्तीति तादृशाः । सतोरपि गुणदोषयोर् दोषमना-दृत्य गुणलेशं दृष्ट्वा तमेवाद्रियन्त इति भावः । अत्र उपमार्थान्तरन्यासयोः सङ्करः ॥ २६ ॥
मन्दोपाकारिणी
विधानेति ॥ परम उत्तमः । हंसराट् हंसानां योगिनां राट् राजा श्रेष्ठ इत्यर्थः, ‘हंसो विहङ्गभेदे स्यादर्के विष्णौ हयान्तरे । नीलाभे नृपतौ योगिमन्त्रभेदे परात्मनि’ इति धनञ्जयः । सः मध्वाचार्यस् तदा गुरूदितकाले तत् ‘भाष्यं कृरु’ इत्येवं रूपं विधानमात्रं विधानमेव उपाददे अङ्गीचकार । कथमिव, हंसराट् हंसपक्षी अच्छं निर्मलं पयः क्षीरम् आददे तथेति । तल्लीनं तस्मिन् ‘‘सूत्रार्थविच्चेत्कुरु भाष्यं’’ इत्यस्मिन् वाक्ये गूहितम् आक्षेपम् उपैक्षत उदास्त । ‘ईक्ष दर्शन इत्यतो लङात्मनेपदम् ऐक्षत ऐक्षेताम् ऐक्षन्त’ । कथंभूतम् अफलं निष्प्रयोजनं किमिव, हंसपक्षी क्षीरे लीनं मिश्रितं वारि जलमिव । अयं भावः । ‘एतद्भाष्यं सूत्रासङ्गतं’ इत्येतद् असहमानो गुरुर् मध्वम् आक्षेपगर्भितं ‘सूत्रार्थविच्चेद् भाष्यान्तरं कुरु’ इत्यब्रवीत् । तदा श्रीमध्वस् तद्वचः प्रगूढध्वनिविकारेण व्यज्यमानम् आक्षेपं हित्वा, ‘भाष्यं कुरु’ इत्येवं रूपं विधिवाक्यमेव गुर्वाज्ञारूपत्वेन करिष्य इत्यङ्गीचकार । यथा हंसपक्षी क्षीरं दृष्ट्वा क्षीरे विद्यमानं नीरं परित्यज्य, क्षीरमेव पिबेत् तद्वद् इति । एतदेव युक्तं हि सन्तः सज्जना गुणांशतोषिणः गुणानाम् अंश एकदेशस् तेन
तोषिणः सन्तोषवन्तो । सत्यपि दोषे तम् अनादृत्य गुणलेशं दृष्ट्वा तमेव आद्रियन्त
इति भावः ॥ २६ ॥
विश्वास-प्रस्तुतिः - २७
वैराग्यवैयात्यसुवाक्त्वपूर्वकैर्युक्तो गुणैः पारमहंस्यभूषणैः ।
ज्येष्ठो यतिर्यो लिकुचान्वयोद्भवस्तं भूरिभक्तिः स कदाचिदब्रवीत् ॥२७॥
मूलम् - २७
वैराग्यवैयात्यसुवाक्त्वपूर्वकैर्युक्तो गुणैः पारमहंस्यभूषणैः ।
ज्येष्ठो यतिर्यो लिकुचान्वयोद्भवस्तं भूरिभक्तिः स कदाचिदब्रवीत् ॥२७॥
पदार्थदीपिकोद्बोधिका
वैराग्येति ॥ पारमहंस्यभूषणैः परमहंसस्य यतेर्भावः पारमहंस्यं यतित्वं तस्य भूषणैः । वैराग्यवैयात्यसुवाक्त्वपूर्वकैर् विगतो राग ऐहिकामुष्मिक-फलोपभोगापेक्षा यस्य स विरागस्तस्य भावो वैराग्यं, वैयात्यं धार्ष्ट्यं जिह्वोपस्थजय इत्यर्थः, शोभना वाग्यस्य सुवाक् तस्य भावः सुवाक्त्वं, वाग्मित्वमिति यावत् तानि पूर्वाणि येषां ‘शेषाद्विभाषा’ इति कस् तैर्गुणैर्युक्तः, भूरिभक्तिर् भूरिर् बह्वी भक्तिर्यस्य स लिकुचा-न्वयोद्भवो लिकुचाख्येऽन्वये वंशे उद्भव उत्पत्तिर्यस्य सः । ज्येष्ठ आश्रमज्येष्ठो यो यतिः स कदाचित् तं श्रीमध्वाचार्यम् अब्रवीत् ॥ २७ ॥
मन्दोपाकारिणी
वैराग्येति ॥ पारमहंस्यभूषणैः परमहंसानां योगिनां भावः पारमहंस्यं योगित्वं तस्य भूषणैर् अलङ्कारभूतैः । वैराग्यवैयात्यसुवाक्त्वपूर्वकैर् विगतः रागः यस्मात् सः विरागः विरागस्य भावः वैराग्यं, वियातस्य भावः वैयात्यं शोभना च सा वाक्च सुवाक् तस्य सुवाचः भावः सुवाक्त्वं वैराग्यं च वैयात्यं च सुवाक्त्वं च वैराग्य-वैयात्यसुवाक्त्वानि तानि पूर्वकानि येषां ते तथोक्ताः । वैराग्यं विषयभोगापेक्षाभावः । वैयात्यं धृष्टत्वं ‘धृष्टे धृष्णग्वियातश्च’ इत्यमरः । सुवाक्त्वं वाग्मित्वम् । एतत्पूर्वकैर् गुणैर् धर्मैर् युक्ताः । वैराग्यादिपूर्वस्वभावादेव भूरिभक्तिर् भूरिर् भूयसी भक्तिर् विष्णुभक्तिर् यस्य स तथोक्तः । लिकुचान्वयोद्भवः लिकुचाख्यश्चासौ अन्वयः कुलं च लिकुचान्वयः लिकुचान्वये उद्भव उत्पत्तिर् यस्य स तथोक्तः । यः ज्येष्ठः स्वस्माज् ज्येष्ठः कश्चिद् यतिर् अभूत् । सः कदाचित् तं श्रीमध्वं प्रति अब्रवीत् ॥ २७ ॥
विश्वास-प्रस्तुतिः - २८
विरोधि वेदान्तकृतान्तसम्पदां भाष्यादिकं चेदिदमस्तु का क्षतिः ।
अस्मभ्यमाचक्ष्व विचक्षणोचितं भावं तु सूत्रोपनिषद्विवक्षितम् ॥२८॥
मूलम् - २८
विरोधि वेदान्तकृतान्तसम्पदां भाष्यादिकं चेदिदमस्तु का क्षतिः ।
अस्मभ्यमाचक्ष्व विचक्षणोचितं भावं तु सूत्रोपनिषद्विवक्षितम् ॥२८॥
पदार्थदीपिकोद्बोधिका
विरोधीति । इदं भाष्यादिकं सङ्करप्रणीतभाष्यम् आदि यस्य तद्ग्रन्थजातमित्यर्थः । वेदान्तकृतान्तसम्पदां वेदानामन्तो निर्णयो यस्मात्तद्वेदान्तमध्याय-चतुष्टयात्मकब्रह्ममीमांसाशास्त्रं, ‘अन्तोस्त्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिके’ इति वैजयन्ती । तस्य कृतान्तस्य सिद्धान्तस्य सम्पदां विरोधि चेदस्तु का क्षतिः का हानिः । हे विचक्षण सूत्रोपनिषदाद्यर्थविचारविचक्षण श्रीमध्वाचार्य त्वम् अस्मभ्यं सूत्रोपनिषद्विवक्षितं सूत्राणि चोपनिषदश्च ताभिर्विवक्षितं वक्तुमिष्टं सूत्रोपनिषदामभिप्रेतमिति वा उचितं पूर्वोत्तरविरोधाभावेन प्रमाणान्तरसम्मत्या युक्तियुक्ततयाचाङ्गीकर्तुमुचितं भावमर्थं
‘भावो लीला क्रिया चेष्टा भूत्यभिप्रायजन्तुषु । पदार्थमात्रे सत्तायां’ इति वैजयन्ती,
आचक्ष्व वद ॥ २८ ॥
मन्दोपाकारिणी
विरोधीति ॥ हे मध्व इदं शङ्करप्रणीतं भाष्यादिकं सूत्रभाष्यम् आदिर् यस्य तत् तथोक्तं ग्रन्थजातम् । वेदान्तकृतान्तसम्पदां वेदानाम् अन्तो निर्णयो यस्मात् सः वेदान्तः ब्रह्ममीमांसाख्यः ग्रन्थः सूत्रसन्दर्भस् तस्य कृतान्तः सिद्धान्तः ‘कृतान्तौ यमसिद्धान्तौ’ इत्यमरः स एव संपदः संपत्तयस् तासाम् । विरोधि प्रतिकूलं चेद् यदि तर्हि तद् अस्तु तथैव आस्ताम् अस्माकं का क्षतिः का हानिः । हे विचक्षण धीमन् ‘धीमान् सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः’ इत्यमरः सूत्रोपनिषदाद्यर्थविचारसमर्थेति यावत् । अस्मभ्यं सूत्रोपनिषद्विवक्षितं सूत्राणि ब्रह्मसूत्राणि उपनिषदश्च सूत्रोपनिषदः सूत्रोपनिषद्भिर् विवक्षितं वक्तुम् इष्टम् उचितं पूर्वोत्तरविरोधाभावेन प्रमाणान्तरसंमत्या युक्तियुक्ततया च अङ्गीकर्तुं योग्यं भावम् अभिप्रायम् अभिप्रेतार्थमिति यावत्, ‘भावोऽभिप्राय आशयः’ इत्यमरः । आचक्ष्व ब्रूहि । ‘आङ् पूर्वाच् चक्षिङ् व्यक्तायां वाचि’ इत्यत्माद् लोट् आत्मने-पदम् आचक्ष्व आचक्षाथां ‘आक्षध्वम्’ ॥ २८ ॥
विश्वास-प्रस्तुतिः - २९
इत्यस्य वाचा शरदेव भासिता यदाऽखिलाशा शुभपूर्णया बभौ ।
प्रमोदतीर्थाननचन्द्रचन्द्रिका व्याख्याभिधा विष्णुपदप्रकाशिनी ॥ २९ ॥
मूलम् - २९
इत्यस्य वाचा शरदेव भासिता यदाऽखिलाशा शुभपूर्णया बभौ ।
प्रमोदतीर्थाननचन्द्रचन्द्रिका व्याख्याभिधा विष्णुपदप्रकाशिनी ॥ २९ ॥
भावप्रकाशिका
शुभपूर्णया शुभेन सुकृतादिना पूर्णया । शरदश्च शुभा पूर्णा तिथिः ॥ २९ ॥
पदार्थदीपिकोद्बोधिका
इतीति ॥ शुभपूर्णया शुभेन परिपूर्णया परममङ्गलयेति यावत् । इति एवमुक्तयास्य लिकुचान्वयसम्भवस्य यतेर्वाचा ‘अस्मभ्य’मित्यादिपूर्वोक्तवाचा अखिलाशाः समस्तसज्जनानामभिलाषाः ‘कोऽवा स्माकं सूत्रोपनिषदाद्यर्थं सम्यग्वक्ष्यति, कं वा पृच्छामः’ इत्यादिरूपाः सतामभिलाषा इत्यर्थः । अखिलाशा अखिलदिशः । शुभपूर्णया शुभा शोभना पूर्णा पूर्णिमा यस्यास्तया । शरदेव शरदृतुनेव भासिताः प्रकाशिताः । ब्रह्मसूत्राद्यर्थजिज्ञासाभिलाषः सकलसज्जनानामस्ति तस्मात्त्वं सूत्राद्यर्थं सम्यग्वदेत्यस्य वाचा यदा सर्वेषामभिलाषो व्यञ्जित इति भावस् तदा व्याख्याभिधा व्याख्येत्यभिधा नाम यस्याः सा । विष्णुपदप्रकाशिनी पद्यते मुक्तैर्गम्यत इति पदं स्वरूपं विष्णुपदं भगवत्स्वरूपं तत्प्रकाशयतीति तादृशी । प्रमोदतीर्थाननचन्द्रचन्द्रिका प्रमोदतीर्थस्य आनन्दतीर्थाचार्यस्य यदाननं मुखं तदेव चन्द्रस्तस्य चन्द्रिका कौमुदी । बभौ शुशुभे । चन्द्रिका विष्णुपदमाकाशं प्रकाशयन्ती यथा शोभते तद्वत्तदुक्त्यनन्तरं श्रीमध्वाचार्येण स्वमुखतः क्रीडमानं व्याख्यानं श्रीहरिस्वरूपं प्रकाशयत्सत्सतामानन्दकरमभूदिति भावः ॥ २९ ॥
मन्दोपाकारिणी
इतीति ॥ इति एवमुक्तया शुभपूर्णया शुभेन मङ्गलेन पूर्णया सज्जनाभीष्टरूपया । अस्य ज्येष्ठयतेर् वाचा ‘‘अस्मभ्यम् आचक्ष्व’’ इत्यादिपूर्वोक्तेन वचनेन यदा यस्मिन् काले अखिलाशा अखिलानां सज्जनानाम् आशा । कोऽनु अस्माकं सूत्रोपनिषदर्थं वक्ष्यति कं नु पृच्छाम इत्यादिरूपा अभिलाषा, भासिता ‘‘ब्रह्मसूत्रार्थ-जिज्ञासारूपा अभिलाषा सकलसज्जनानाम् अस्ति तस्मात् त्वं सूत्रार्थं सम्यग्वद’’ इत्येवंरूपज्येष्ठयतिवचनेन सर्वेषामभिलाषा यदा प्रकाशितेति भावः । कया इव अखिलाशा अखिला च सा आशा दिक्च अखिलाशा जात्येकवचनं ‘आशा दिगभिलाषयोः’ इत्यमरः । शुभपूर्णया शुभा शुभदा पूर्णा पूर्णिमातिथिर् यस्यां सा शुभपूर्णा तया । शरदेव तन्नामकर्तुनैव ‘स्यादृतौ वत्सरे शरत्’ इत्यमरः । शरदृतौ पूर्णिमायां दिशः यथा प्रकाशा भवन्ति तथेति भावः । शरदृतुसदृशं ज्येष्ठयतिवचनं पुर्णिमासदृशाः सज्जनाः । दिक्सदृशा अभिलाषा इति ज्ञेयम् । तदा व्याख्याभिधा व्याख्या व्याख्यानम् इति अभिधा आख्या यस्याः सा तथोक्ता । विष्णुपदप्रकाशिनी पद्यते मुक्तेर् गम्यते इति पदं स्वरूपं ‘पद गतौ इति धातोः’ विष्णोः श्रीहरेः पदं स्वरूपं प्रकाशयतीति विष्णुपदप्रकाशिनी । प्रमोदतीर्थाननचन्द्रचन्द्रिका प्रमोदतीर्थस्य श्रीमदानन्दतीर्थस्य आननं मुखं तदेव चन्द्रस् तस्य चन्द्रिका कौमुदी । बभौ शुशुभे । ‘भा दीप्तावित्यस्माल्लिट् परस्मैपदम्’ । चन्द्रिका च विष्णुपदप्रकाशिनी विष्णुपदम् आकाशं प्रकाशयतीति विष्णुपदप्रकाशिनी । यथा शरदृतौ पौर्णमास्यां तिथौ सर्वदिक्षु निमीलासु सतीषु चन्द्रचन्द्रिका जनानां सुखदा भवेत् तथा ज्येष्ठयतिवचनेन सकलसज्जनाभिप्राये प्रकटिते सति श्रीमदानन्दतीर्थाचार्यकृतं सूत्रादिव्याख्यानं सताम् आनन्दकरं बभूव इति भावः ॥ २९ ॥
विश्वास-प्रस्तुतिः - ३०
जेष्यन्कदाचित्किल कालपालितां दिशं प्रयातोऽच्युतबुद्धिना सह ।
समग्रधीर्मण्डितविष्णुमङ्गलं विष्णुं जगन्मङ्गलमाननाम सः ॥ ३० ॥
मूलम् - ३०
जेष्यन्कदाचित्किल कालपालितां दिशं प्रयातोऽच्युतबुद्धिना सह ।
समग्रधीर्मण्डितविष्णुमङ्गलं विष्णुं जगन्मङ्गलमाननाम सः ॥ ३० ॥
पदार्थदीपिकोद्बोधिका
जेष्यन्निति ॥ समग्रधीः समग्रा पूर्णा धीर्यस्य स मध्वाचार्यः । कदाचिज्जेष्यन् दाक्षिणात्यविदुषो जेष्यन्नच्युतबुद्धिना अच्युतप्रेक्षाचार्येण सह कालपालितां यमपालितां ‘कालो मृत्युर्यमे चे’ति वैजयन्ती । दिशं रजतपीठापेक्षया दक्षिणां दिशमित्यर्थः । प्रयातः सन् मण्डितविष्णुमङ्गलं मण्डितोऽलङ्कृतो विष्णुमङ्गलाख्यदेशो येन तं जगन्मङ्गलं जगतो मङ्गलं यस्मात् तं, जगति मङ्गलं शोभनमिति वा विष्णुम् आननाम सादरं ननाम ॥ ३० ॥
मन्दोपाकारिणी
जेष्यन्निति ॥ समग्रधीः समग्रा पूर्णा धीः प्रज्ञा यस्य स तथोक्तः स मध्वाचार्यः । कदाचित् किल कस्मिंश्चित्कालविशेषे । जेष्यन् दाक्षिणात्यपण्डितान् जेतुमिच्छन् सन् अच्युतबुद्धिना अच्युतप्रेक्षेण गुरुणा सह सार्धं कालपालितां कालेन यमेन पालितां रक्षितां ‘कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः’ इत्यमरः दिशं रजतपीठ-पुरापेक्षया दक्षिणां दिशं प्रयातः गतस्सन् मण्डितविष्णुमङ्गलं मण्डितोऽलङ्कृतः विष्णुमङ्गलः विष्णुमङ्गलदेशः येन स तथोक्तस् तं विष्णुमङ्गलनामकदेशविशेषे विद्यमानम् इत्यर्थः । जगन्मङ्गलं जगतां मङ्गलं कल्याणं यस्माज् जगति मङ्गलरूपत्वाद्वा मङ्गलानां च मङ्गलमित्युक्तेः । विष्णुं हरिम् आननाम भक्त्यतिशयेन अनमत् । ‘णमु प्रह्वत्वे शब्दे चेत्यतो लिट् परस्मैपदं ननाम नेमतुर् नेमुः’ ॥ ३० ॥
विश्वास-प्रस्तुतिः - ३१
भिक्षाप्रदात्राऽत्र परीक्षितुं मुहुर्
दत्ते प्रभुक्ते कदली-फलोच्चये ।
अनेन निर्यत्नम् अवार्यविस्मयस्
तमार्यवर्यं विजने ऽवदद् गुरुः॥ ३१ ॥
मूलम् - ३१
भिक्षाप्रदात्राऽत्र परीक्षितुं मुहुर्दत्ते प्रभुक्ते कदलीफलोच्चये ।
अनेन निर्यत्नमवार्यविस्मयस्तमार्यवर्यं विजनेऽवदद् गुरुः॥ ३१ ॥
पदार्थदीपिकोद्बोधिका
भिक्षेति ॥ अत्र विष्णुमङ्गले भिक्षाप्रदात्रा भिक्षाया अन्नस्य ‘अन्धः कूरं भक्तं दीदिविरन्नं तथोदनं भिक्षा’ इति हलः । प्रदात्रा केनचिद् गृहस्थेन परीक्षितुं लोकप्रसिद्धमस्य स्वेच्छाभोक्तृत्वलक्षणमाहात्म्यं वास्तवं न वेति परीक्षणाय भिक्षावसाने मुहुः पुनः पुनः कदलीफलोच्चये कदलीपक्वफलसमूहे दत्तेऽनेन श्रीमध्वाचार्येण निर्यत्नं निर्गतो यत्न आयासो यथा भवति तथा प्रभुक्ते सति अवार्यविस्मर्योऽवार्योऽत्यर्थो विस्मयो यस्य स गुरुरच्युतप्रेक्षाचार्य आर्यवर्यं महतामुत्तमं तं श्रीमध्वाचार्यं विजने विगतो जनो यस्मिन्, तस्मिन् प्रदेशे रहसीत्यर्थः । अवदत् ॥ ३१ ॥
मन्दोपाकारिणी
भिक्षेति ॥ अत्र विष्णुमङ्गले । भिक्षाप्रदात्रा भिक्षां ददता गृहस्थेन परीक्षितुं मध्वाचार्यस्य लोकप्रसिद्धं बहुभोक्तृत्वादिमाहात्म्यं वास्तवं वा न वेति विचारणाय भोजनसमाप्त्यनन्तरं मुहुः पुनः पुनः दत्ते प्रदत्ते कदलीफलोच्चये कदलीफलानां रंभाफलानाम् उच्चये समूहे अनेन श्रीमध्वाचार्येण निर्यत्नम् आयासरहितं यथा भवति तथा प्रभुक्ते अभ्यवहृते सति अवार्यविस्मयो ऽवार्यो ऽनिवार्यः विस्मय आश्चर्यं यस्य स तथोक्तः गुरुर् अच्युतप्रेक्षः । आर्याणां ज्ञानिनां वर्यं श्रीमध्वं विजने रहसि ‘विविक्तविजन-च्छन्ननिःशलाकास्तथा रहः’ इत्यमरो ऽवदद् उवाच । ‘वद व्यक्तायां वाचीत्यतो लङ् परस्मैपदम् अवदद् अवदताम् अवदन्’ ॥ ३१ ॥
विश्वास-प्रस्तुतिः - ३२
भिक्षावसाने द्विशताधिकैः फलैर्व्यूढैः प्रभुक्तैः परिपूरितेऽपि ते ।
तनूदरे नास्ति गरिष्ठता कथं सुचित्त सत्यं वदताद्भवानिति॥ ३२ ॥
मूलम् - ३२
भिक्षावसाने द्विशताधिकैः फलैर्व्यूढैः प्रभुक्तैः परिपूरितेऽपि ते ।
तनूदरे नास्ति गरिष्ठता कथं सुचित्त सत्यं वदताद्भवानिति॥ ३२ ॥
पदार्थदीपिकोद्बोधिका
भिक्षेति ॥ सुचित्त सु शोभनं चित्तं यस्य तत्सम्बुद्धिः । श्रीमध्वाचार्य भिक्षावसाने भोजनावसाने प्रभुक्तैर्व्यूढैर्महद्भिर् द्विशताधिकैर् द्वे च ते शते च ताभ्यामधिकैः फलैः कदलीपक्वफलैस्ते तव तनूदरे सूक्ष्मोदरे परिपूरितेऽपि गरिष्ठता गुरुता कथं नास्ति? भवान् सत्यं वचो वदताद् वदतु इत्यवदिति पूर्वेणान्वयः ॥ ३२ ॥
मन्दोपाकारिणी
भिक्षावसान इति ॥ हे सुचित्त शोभनं चित्तं यस्य सः सुचित्तस् तस्य संबुद्धिर् हे सुचित्त शुद्धान्तःकरण मध्व भिक्षावसाने भिक्षाया भोजनस्य अवसाने समाप्तौ सत्यां प्रभुक्तैर् भक्षितैर् द्विशताधिकैर् द्वे च ते शते च द्विशते द्विशताभ्याम् अधिकैर् व्यूढैः स्थूलैः फलैः कदलीफलैः परिपूरितेऽपि अन्नभक्षपायसादिना निरवकाशं पूर्णेऽपि तत एव । तनूदरे तनुर् अल्पपरिमाणश्चासौ उदरः जठरश्च तनूदरस् तस्मिन् ‘तनुः काये कृशे चाल्पे’ इति विश्वः । गरिष्ठता अतिशयेन गुरुर् गरिष्ठस् तस्य भावो गरिष्ठता गुरुत्वम् उदरशूलादिहेतुः कथं नास्ति ? ‘अस भुवि’ इत्यतो लट् परस्मैपदम् अस्ति स्तः सन्ति’ । भवान् सत्यं वदताद् इत्यन्वयः । आकण्ठं मृष्टान्नेन उदरपूर्तावपि सत्यां बहूनि स्थूलानि कदलीफलानि भक्षितानि तेन तव कुक्षौ मनःखेदजनकं गुरुत्वं कथं नाभूत् । स्वस्थान्तःकरणोऽसि । अत्र किं निमित्तं तद्वदेत्यब्रवीदिति भावः ॥ ३२ ॥
विश्वास-प्रस्तुतिः - ३३
अङ्गुष्ठमात्रं जठरे प्रतिष्ठितं जाज्वल्यमानं मम जातवेदसम् ।
नित्यं हितं विश्वदहं च वित्त तं विश्वेशचेता इति सोऽब्रवीत्तदा ॥ ३३ ॥
मूलम् - ३३
अङ्गुष्ठमात्रं जठरे प्रतिष्ठितं जाज्वल्यमानं मम जातवेदसम् ।
नित्यं हितं विश्वदहं च वित्त तं विश्वेशचेता इति सोऽब्रवीत्तदा ॥ ३३ ॥
पदार्थदीपिकोद्बोधिका
अंगुष्ठेति ॥ तदा विश्वेशचेता विश्वेशे जगदीशे हरौ चेतो मनो यस्य सः श्रीमध्वाचार्यः । ‘हे गुरवः यूयं मम जठरे प्रतिष्ठितं स्थितं जातवेदसमग्नि-मङ्गुष्ठमात्रमङ्गुष्ठपरिमितं जाज्वल्यमानं भृशं ज्वलन्तं वित्त जानीत । गुरुत्वाद्बहुवचनम् । एवमपि मम नित्यं सदा हितं वित्त । एतादृशेनाप्यनेन मम न किञ्चिदनिष्टमस्तीति भावः । तं मम जठरस्थितं जातवेदसं विश्वदहञ्च विश्वं जगद्दहतीति तादृशञ्च वित्त । ‘प्रलये जगद्दहनदक्षञ्चेत्यर्थः’ । इत्यब्रवीत् ॥ ३३ ॥
मन्दोपाकारिणी
अङ्गुष्ठेति ॥ तदा गुरुणा उदिते सति विश्वेशचेता विश्वस्य समस्तजगत ईशः स्वामी विष्णुस् तस्मिन् चेतः मनः यस्य सस् तथोक्तः । एतादृशशक्तिदं श्रीनारायणं ध्यायन्निति भावः । सः श्रीमध्वाचार्यस् तं गुरुम् इत्यब्रवीत् । कथं, हे गुरवः यूयं मम जठरे कुक्षौ ‘पिचण्डकुक्षी जठरः’ इत्यमरः प्रतिष्ठितं विद्यमानम् अङ्गुष्ठमात्रम् अङ्गुष्ठः हस्तज्येष्ठाङ्गुलिस् तस्य मात्रं परिमाणं यस्य सो ऽङ्गुष्ठमात्रो ऽङ्गुष्ठपरिमाणस् तं ‘क्षुद्रं मात्र- परिच्छदे अल्पे च परिमाणे’ इत्यमरः जातवेदसम् अग्निं ‘कृपीटयोनिर्ज्वलनो जातवेदा-स्तनूनपात्’ इत्यमरः जाज्वल्यमानं भृशं ज्वलितं वित्त जानीध्वम् । गुरुत्वाद् बहुवचनम् । ‘विद ज्ञान इत्यतो लोट् परस्मैपदं विद्धि वित्तात्, वित्तं वित्त’ । नित्यं सर्वदा मम हितं हितकरं वित्त । ज्वलितेनाग्निना मम न किञ्चिदनिष्ठमिति भावः । विश्वदहं च प्रलयकाले विश्वं समस्तं जगद् दहति भस्मीकरोति इति विश्वदहस् तं च विश्वदहने समर्थं च वित्त इत्यब्रवीत् । एतादृशसामर्थ्यं हर्यनुग्रहलब्धमिति भावेन विश्वेशचेता इत्युक्तम् ॥ ३३ ॥
विश्वास-प्रस्तुतिः - ३४
पर्याकुलानेकसरस्वतीततीन् न्यायोपपन्नान् विविधार्थसंयुतान् ।
अतीत्य देशान् समयांश्च चारुधीरसौ जगामाभिमतेन वर्त्मना॥३४॥
मूलम् - ३४
पर्याकुलानेकसरस्वतीततीन् न्यायोपपन्नान् विविधार्थसंयुतान् ।
अतीत्य देशान् समयांश्च चारुधीरसौ जगामाभिमतेन वर्त्मना॥३४॥
भावप्रकाशिका
न्याया युक्तयो धर्मप्रवृत्तयश्च । वर्त्मना मार्गेण सिद्धान्तेन च ॥ ३४ ॥
पदार्थदीपिकोद्बोधिका
पर्याकुलेति ॥ चारुधीश्चारुर्मनोहरा धीर्यस्य सोऽसौ मध्वाचार्यः । अभिमतेन महाजनसम्मतेन श्लाघ्येनेति यावत् । वर्त्मना मार्गेण पर्याकुलानेक-सरस्वतीततीन् पर्याकुलाः सम्पूर्णा या अनेकसरस्वत्योऽनेकनद्यस्तासां ततिः समूहो येषु देशेषु तान् । शास्त्रपक्षे परिपूर्णानेकवाचां ततिः समूहो येषु तान् ‘सरस्वती वाचि नद्यां स्त्रीरत्ने’ इति हेमचन्द्रः । न्यायोपपन्नांस्तत्तज्जनपदधर्मोपेतान्, तत्तच्छास्त्रन्याययुक्तांश्च । विविधार्थसंयुतान् विविधा नानाविधा येऽर्थाः पदार्थास्तैः संयुतान् युक्तान् नानाविध-प्रमेयशेषयुक्तांश्च देशान् , प्राप्तान् देशान् समयांश्च तत्तद्वादिभिः प्रस्तुतशास्त्राणि चातीत्य अतिक्रम्य निराकृत्य च जगाम । विष्णुमङ्गलादपि दक्षिणतो ययौ ॥ ३४ ॥
मन्दोपाकारिणी
पर्याकुलेति ॥ असौ चारुधीश् चारुर् मनोहरा धीर् बुद्धिर् यस्य सस् तथोक्तः श्रीपूर्णप्रज्ञाचार्यः । अभिमतेन सर्वाभिमतेन वर्त्मना मार्गेण ‘अयनं वर्त्म मार्गाध्वा’ इत्यमरः । जगाम विष्णुमङ्गलदेशादपि दक्षिणां दिशं प्रति ययौ । किं कृत्वा, देशान् प्राप्तान् जनपदान् अतीत्य अतिक्रम्य । कथंभूतान्, पर्याकुलानेकसरस्वतीततीन् पर्याकुलानां परितः सर्वत्र आकुलानां सङ्कुलानां पूर्णानामिति यावत् । अनेकासां बह्वीनां सरस्वतीनां नदीनां ततिः समूहः येषु देशेषु ते पर्याकुलानेकसरस्वतीततयस् तान् । पुनः कथंभूतान्, न्यायोपपन्नान् न्यायेन तत्तज्जनपदधर्मेण उपपन्नान् युक्तान् । पुनः कथंभूतान्, विविधार्थसंयुतान् विविधा नानाविधाश्च ते अर्थाश्च वस्तूनि च विविधार्थाः ‘अर्थोऽभिधेयरैवस्तु’ इत्यमरः । तैः संयुतान् । पुनः किं कृत्वा, समयांश्च तत्तच्छास्त्रसिद्धान्ताश्च अतीत्य निराकृत्य ‘समयाः शपथाचारकालसिद्धान्तसंविदः’ इत्यमरः । कथंभूतान् समयान् पर्याकुलानेकसरस्वतीततीन् पर्याकुलानां सर्वत्र मिलितानाम् अनेकेषां पण्डितानां सरस्वतीनां वाचां ‘गीर्वाग्वाणी सरस्वती’ इत्यमरस् ततिः समूहो येषां ते तथोक्तास् तान् । तत्र तत्र वादप्रसङ्गतः प्राप्तान् इत्यर्थः । पुनः कथंभूतान्, न्यायोपपन्नान् न्यायैस् तत्तच्छास्त्रयुक्तिभिर् उपपन्नान् विविधार्थ-संयुतान् विविधाश्च ते अर्था अभिधेयाश्च प्रमेयविषयास् तैः संयुतान् । तत्तद्देशं गत्वा तत्तद्देशवादिनः पराभूय गतवान् इति भावः ॥ ३४ ॥
विश्वास-प्रस्तुतिः - ३५
स्वहेलया पातितपार्थिवव्रजां धीशुद्धिदां केरलभूषणायिताम् ।
पयस्विनीं प्रेक्ष्य पथि द्विजार्चितां स भाविनीमस्मरदत्र चण्डिकाम् ॥ ३५ ॥
मूलम् - ३५
स्वहेलया पातितपार्थिवव्रजां धीशुद्धिदां केरलभूषणायिताम् ।
पयस्विनीं प्रेक्ष्य पथि द्विजार्चितां स भाविनीमस्मरदत्र चण्डिकाम् ॥ ३५ ॥
भावप्रकाशिका
अस्मरद् अत्र पयस्विनीतटे ॥ ३५ ॥
पदार्थदीपिकोद्बोधिका
स्वहे लयेति ॥ स श्रीमध्वाचार्यः पथि मार्गे स्वहेलया स्वलीलया ‘हेलाविलासबिब्बोकलीलाललितविभ्रमाः’ इति हलः । स्वप्रवाहलीलयेत्यर्थः । पातितपार्थिवव्रजां पातितः पार्थिवव्रजो वृक्षसमूहो यया ताम् । धीशुद्धिदां धियोऽन्तःकरणस्य शुद्धिं स्नानपानादिना ददातीति ताम् । केरलभूषणायितां भूषणवदाचरतीति भूषणायिता केरलस्य केरलदेशस्य भूषणायिता ताम् । द्विजार्चितां विप्रैः पक्षिभिश्च पूजितां ‘दन्तविप्राण्डजा द्विजाः’ इत्यमरः । पयस्विनीनामनदीं प्रेक्ष्य, अत्र केरलदेशस्थपयस्विनीतटे भाविनीमवतारं करिष्यन्तीं स्वहेलया स्वगमनलीलया पातितपार्थिवव्रजां पातिततुरुष्कादि-दुष्टराजसमूहो यया ताम् । धीशुद्धिदां स्मरणकीर्तनादिना चित्तशुद्धिदां केरलभूषणायितां केरलदेशेऽवतारात्तदलङ्कारभूतां द्विजार्चितां ब्राह्मणपूजितां चण्डिकां दुर्गामस्मरत् ॥ ३५ ॥
मन्दोपाकारिणी
स्वहेलयेति ॥ सः मध्वाचार्यः । पथि मार्गे । स्वहेलया स्वस्य हेलया प्रवाहरूपलीलया पातितपार्थिवव्रजां पृथिव्यां जाताः पार्थिवा वृक्षा इत्यर्थस् तेषां व्रजः समूहः । ‘समूहनिवहव्यूहसन्दोहविसरव्रजाः’ इत्यमरः पातितः निपातितः पार्थिवव्रजः यया सा तथोक्ता ताम् । प्रवाहवेगेन उभयतीरस्थवृक्षाः पातिता इति भावः । धीशुद्धिदां धियो ऽन्तःकरणस्य शुद्धिं स्नानपानादिना पावित्र्यं ददातीति धीशुद्धिदा ताम् । केरलभूषणायितां केरलस्य केरलदेशस्य भूषणायितां भूषणवद् आचरतीति भूषणायिता ताम् । द्विजार्चितां द्विजैर् ब्राह्मणैः पक्षिभिश्च अर्चितां पूजिताम् । नद्या उभयतीरे विप्राः पक्षिणः सन्तीति भावः । ‘दन्तविप्राण्डजाद्विजा’ इत्यमरः । पयस्विनीं पयस्विनीनामकनदीं प्रेक्ष्य दृष्ट्वा, अत्र पयस्विनीतटे भाविनीम् अवतारं करिष्यन्तीं चण्डिकां दुर्गाम् अस्मरत् स्मृतवान् । कथंभूतां चण्डिकां दुर्गां, पथि मागें स्वहेलया स्वस्य हेलया आगमनरूपलीलया पातितपार्थिवव्रजां पार्थिवानां तुरुष्कादिदुष्टराज्ञां व्रजः समूहः पार्थिवव्रजः ‘राज्ञि राट् पार्थिवः क्ष्माभृत्’ इत्यमरः पातितः नाशितः पार्थिवव्रजः यया सा तथोक्ता तां दुर्गाम् । आगमनसमये मार्गे विद्यमानतुरुष्कादिनृपान् नाशयिष्यतीति भावः । धीशुद्धिदां स्मरण-कीर्तनादिना चित्तशुद्धिदां केरलभूषणायितां केरलदेशे अवतारात् तद्देशस्य अलङ्कारभूतां द्विजार्चितां ब्राह्मणैः पूजितां सदृशदर्शनात् सदृशान्तरस्मृतिर् अभूदिति भावः ॥ ३५ ॥
विश्वास-प्रस्तुतिः - ३६
ततः क्रमेण प्रचलन्नुपेयिवानवन्दतेन्दीवरसुन्दरच्छविम् ।
अम्भोजनाभं स भुजङ्गशायिनं श्रीवल्लभं श्रीमदनन्तसत्पुरे॥ ३६ ॥
मूलम् - ३६
ततः क्रमेण प्रचलन्नुपेयिवानवन्दतेन्दीवरसुन्दरच्छविम् ।
अम्भोजनाभं स भुजङ्गशायिनं श्रीवल्लभं श्रीमदनन्तसत्पुरे॥ ३६ ॥
पदार्थदीपिकोद्भोदिका – तत इति ॥ स श्रीमध्वाचार्यस्ततः पयस्विनीतटात् क्रमेण प्रचलन् गच्छन् सन् श्रीमदनन्तसत्पुरे श्रीमत्कान्तिमद्यदनन्तसत्पुरम् अनन्तसत्पुराख्यक्षेत्रं तस्मिन्नुपेयिवान् प्राप्तः । इन्दीवरसुन्दरच्छविम् इन्दीवरवत् सुन्दरा छविः कान्तिर्यस्य तम् । अम्भोजनाभम् अम्भोजं नाभौ यस्य तम् । भुजङ्गशायिनं भुजङ्गे शेषे शेत इति तं श्रीवल्लभं श्रीहरिमवन्दत ॥ ३६ ॥
मन्दोपाकारिणी
तत इति ॥ सः मध्वाचार्यः । ततः पयस्विनीतीरात् प्रचलन् निर्गतस्सन् क्रमेण दिनक्रमेण श्रीमदनन्तसत्पुरे श्रीः कान्तिर् अस्यास्तीति श्रीमत् श्रीमच्च तद् अनन्ताख्यं च तत् सत् प्रशस्तं च तत् पुरं च श्रीमदनन्तसत्पुरं ‘प्रशस्तेऽभ्यर्हिते च सत्’ इत्यमरः । तस्मिन् अनन्तपुराख्यक्षेत्रे । इन्दीवरसुन्दरच्छविम् इन्दीवरवन् नीलोत्पलवत् ‘इन्दीवरं च नीलेस्मिन्’ इत्यमरः सुन्दरा रुचिरा छविः कान्तिर् यस्य सस् तथोक्तस्तं ‘शोभा कान्तिर्द्युतिश्छविः’ इत्यमरः । अम्भोजनाभम् अम्भोजं पद्मं नाभौ यस्य सस् तथोक्तस् तम् । भुजङ्गशायिनं भुजङ्गे शेषे शयनं कृतवन्तम् । श्रीवल्लभं श्रियः लक्ष्म्या वल्लभं दयितम् । ‘दयितं वल्लभं प्रियं’ इत्यमर उपेयिवान् समीपं प्राप्तस्सन् अवन्दत नमस्कारं कृतवान् स्तुतिं च कृतवान् । ‘वदि अभिवादनस्तुत्योरिति धार्तोर्लङात्मनेपदम् अवन्दत अवन्देताम् अवन्दन्त’ । मध्वाचार्यः दक्षिणदेशं प्रति गत्वा तत्र तत्र दिग्विजयं कृत्वा अनन्तशयनक्षेत्रं प्राप्य तत्रत्यम् अनन्तशयनं ननाम इति भावः ॥ ३६ ॥
विश्वास-प्रस्तुतिः - ३७
वेदान्तसूत्राणि कृतान्तवित्तमो व्याख्यादसौ शिष्यगणाय संसदि ।
विलक्षणं जीवगणाद्गुणार्णवं ब्रह्माच्युताख्यं प्रतिपादयन्मुहुः॥३७॥
मूलम् - ३७
वेदान्तसूत्राणि कृतान्तवित्तमो व्याख्यादसौ शिष्यगणाय संसदि ।
विलक्षणं जीवगणाद्गुणार्णवं ब्रह्माच्युताख्यं प्रतिपादयन्मुहुः॥३७॥
पदार्थदीपिकोद्बोधिका
वेदान्तेति ॥ कृतान्तवित्तमः कृतान्तं ब्रह्मसूत्रसिद्धान्तं ‘कृतान्तौ यमसिद्धान्तौ’ इत्यमरो ऽतिशयेन वेत्तीति कृतान्तवित्तमः । असौ श्रीमध्वाचार्यः । संसदि विद्वत्सभायां शिष्यगणाय शिष्यसमूहाय वेदान्तसूत्राणि, अच्युताख्यम् अच्युत इति आख्या यस्य तद् ब्रह्म गुणार्णवं गुणैर् अर्णव इव तम् । अत एव जीवगणाज् जीवसमूहाद् विलक्षणं भिन्नं मुहुः पुनः पुनः प्रतिपादयन् सन् व्याख्याद् व्याचख्यौ । ‘ख्या प्रकथने लङ्’ । ब्रह्मशब्दस्य जीवादिष्वपि रूढत्वादच्युताख्यं ब्रह्मेत्युक्त्याऽत्र ब्रह्मशब्दो विष्णुवाचीत्युक्तं भवति । तस्य जीवगणाद्विलक्षणत्वे गुणार्णवत्वं हेतुः । जीवस्याल्प-गुणत्वात् । तस्माद्विरुद्धधर्माधिकरणत्वयुक्त्या जीवब्रह्मणोर्भेदं प्रतिपादयन् सन् व्याचख्यावित्यर्थः ॥ ३७ ॥
मन्दोपाकारिणी
वेदान्तेति ॥ कृतान्तवित्तमः कृतान्तं सिद्धान्तं वेत्तीति कृतान्तविद् अतिशयेन । कृतान्तवित् कृतान्तवित्तमः ब्रह्मसूत्रसिद्धान्तज्ञानिनाम् उत्तम इत्यर्थः । संसदि विद्वत्सभायां ‘सभासमितिसंसदः’ इत्यमरः शिष्यगणाय शिष्याणां श्रोतॄणां गणाय समूहाय वेदान्तसूत्राणि वेदानाम् अन्तः निर्णयो येभ्यस् तानि वेदान्तानि । वेदान्तानि च तानि सूत्राणि च ब्रह्मसूत्राणि व्याख्याद् व्याख्यातवान् । ‘वि आङ् पूर्वात् ख्या प्रकथन इति धातोर्लङ् परस्मैपदम् आख्याद् आख्याताम् आख्युः’ । किं कुर्वन् अच्युताख्यं ब्रह्म परब्रह्म गुणार्णवं गुणैर् ज्ञानानन्दादिगुणैर् अर्णवं सागरं पूर्णमिति यावत् । अत एव जीवगणाज् जीवानां चेतनानां गणात् समूहाद् विलक्षणम् अत्यन्तभिन्नं मुहुर् भृशं पौनःपुन्येन वा प्रतिपादयन् विष्णोर् अनन्तगुणत्वाज् जीवस्य च अल्पगुणत्वाद् विरुद्धदर्माधि-करणत्वयुक्त्या जीवपरमात्मनोर् भेदं साधयन्नित्यर्थः ॥ ३७ ॥
विश्वास-प्रस्तुतिः - ३८
अप्रांशुनूत्नोपपदाधिवासजः स सङ्करो वैरपरायणः पुनः ।
असूययोचेऽत्र महानतिक्रमः सूत्रार्थवादोऽकृतभाष्यकेष्विति॥३८॥
मूलम् - ३८
अप्रांशुनूत्नोपपदाधिवासजः स सङ्करो वैरपरायणः पुनः ।
असूययोचेऽत्र महानतिक्रमः सूत्रार्थवादोऽकृतभाष्यकेष्विति॥३८॥
भावप्रकाशिका
अप्रांशुनूत्नोपपदाधिवासज इत्यस्य ‘कुंदुपुस्तूरु’ इत्यपभ्रष्ट-भाषा ॥ ३८ ॥
पदार्थदीपिकोद्बोधिका
अप्रांश्विति ॥ वैरपरायणो वैरे श्रीमुख्यप्राणस्य द्वेषानु-सन्धाने परायणस्तत्परः ‘तत्परस्तु परायणः’ इति हलः । स पूर्वं कारडिग्रामजातः सङ्करः पुनर्जन्मान्तरेऽप्रांशुनूत्नोपपदाधिवासजो ऽप्रांशुनूत्नमुपपदं यस्याधिवासशब्दस्य सोऽधिवासो ऽधिवासशब्दो वाचकत्वेन यस्य तस्मिन्कुले जातः । अप्रांशुनूत्नोधिवासस्य ‘कुदुपुस्तूरु’ इत्यपभ्रष्टभाषायां सञ्ज्ञा । तौवभाषायाम् अप्रांशोः ‘कुद्य’ इति नूत्नस्य ‘पोसत्त्’ इति अधिवासस्य ‘ऊरु’ इति च प्रसिद्धेः कुदुपुस्तूराख्ये कुले जातः सन्नित्यर्थः । अत्रानन्तपुरे असूयया मत्सरेण अकृतभाष्यकेष्वकृतं भाष्यं यैस्तेषु वर्तमानः सूत्रार्थवादः सूत्रार्थानां वादः कथनं महानतिशयितो ऽतिक्रमः मर्यादातिक्रम इत्यूचे । अयं भावः । ये भाष्यकृतस्तेषां भाष्यनिरपेक्षं सूत्रार्थकथनं युक्तम् । अकृतभाष्याः पुरुषा यदि भाष्यनिरपेक्षं सूत्रार्थं वदन्ति तर्हि महान् मर्यादातिक्रम इति ॥ ३८ ॥
मन्दोपाकारिणी
अप्रांशुनूत्नोपपदेति ॥ वैरपरायणः वैरस्य मुख्यप्राणद्वेषस्य ‘वैरं विरोधो विद्वेषः’ इत्यमरः, परः मुख्यो ऽयन आश्रयः मुख्यप्राणद्वेषानुसम्बन्धवानिति यावत् । सः सङ्करः पुनः जन्मान्तरे अप्रांशुनूत्नोपपदाधिवासजः ‘अप्रांशुनूत्नः’ इति उपपदं नामान्तरं यस्य सो ऽप्रांशुनूत्नोपपदः स चासौ अधिवासस् तन्नामकवंशश्च तस्मिन् जायते इति अधिवासजः जातः सन् । अत्र मध्वाचार्ये । असूयया ‘‘गुणेष्वपि दोषारोपो ऽसूया’’ तया ‘अक्षान्तिरीर्ष्यासूया तु दोषारोपो गुणेष्वपि’ इत्यमरः । इत्येवम् ऊचे अब्रवीत् । कथं, अकृतभाष्यकेषु अकृतं भाष्यं यैस्ते अकृतभाष्यकास् तेषु । सूत्रार्थवादः सूत्राणां ब्रह्मसूत्राणाम् अर्थस्य वादः प्रतिपादनमिति यावत् । महान् भूयान् अतिक्रमः मर्यादोल्लङ्घनम् अन्याय इति यावत् । ये सूत्रभाष्यकर्तारस् तेषां भाष्यं विना सूत्रव्याख्यानं युक्तं, ये भाष्यकर्तारो न भवन्ति तेषां भाष्यं विना सूत्रव्याख्यानम् अयुक्तम् इति ऊचे इति भावः ॥ ३८ ॥
विश्वास-प्रस्तुतिः - ३९
वदोत्तरं भाति यदीह कुर्महे भाष्यं कृतिर्नास्य हि दण्डवारिता ।
जगद्गुरूणामिति तां गुरोर्गिरं जनः समस्तोऽभिननन्द सस्मिताम् ॥३९॥
मूलम् - ३९
वदोत्तरं भाति यदीह कुर्महे भाष्यं कृतिर्नास्य हि दण्डवारिता ।
जगद्गुरूणामिति तां गुरोर्गिरं जनः समस्तोऽभिननन्द सस्मिताम् ॥३९॥
पदार्थदीपिकोद्बोधिका
वदेति ॥ इह अस्माभिरुक्ते सूत्रार्थे यद्युत्तरमस्मदुक्त-सूत्रार्थनिराकरणसमर्थमुत्तरं भाति प्रतीयते तर्हि त्वं वद ब्रूहि । भाष्यमपेक्षितञ्चेत्कुर्महे करिष्यामः । अस्य भाष्यस्य कृतिर्निर्माणं दण्डवारिता न हि न भवति हि । ‘भाष्यकरणेऽयं दण्डो भविष्यति तस्माद्भाष्यं न कर्तव्यमिति केनचिद्राजादिना दण्डेन वारिता न हि इति भावः । जगद्गुरूणां रुद्रादीनां गुरोः श्रीमध्वाचार्यस्य इत्येवमुक्तां सस्मितां तां गिरं समस्तो जनोऽभिननन्द ॥ ३९ ॥
मन्दोपाकारिणी
वदेति ॥ हे सङ्कर तव यदीह अस्माभिर् उक्ते सूत्रार्थे उत्तरम् अस्मदुक्तिनिराकरणसमर्थं प्रत्युत्तरं भाति प्रतीयते तर्हि वद ब्रूहि । वयं भाष्यं कुर्महे । भाष्यम् अपेक्षितं चेत् तदपि करिष्याम इत्याशयः । अस्य भाष्यस्य कृतिर् निर्माणं दण्डवारिता दण्डेन राजशासनेन ‘दण्डोऽस्त्री शासने राज्ञां’ इति वैजयन्ती, राजाज्ञयेत्यर्थः । वारिता निवारिता न हि । ‘भाष्यकरणे सति अयं दण्डो भविष्यति तस्माद् भाष्यं न कर्तव्यमिति’ केनचिद् राजादिना दण्डेन वारिता न हीति भावः । जगद्गुरूणां जगतां गुरूणां रुद्रादीनां देवानां गुरोः श्रीमध्वाचार्यस्य इति एवं तां सङ्करं प्रति उक्तां सस्मितां मन्दहासेन सहितां गिरं वाचं समस्तो जनो ऽभिननन्द साधु साधु इति अन्वमोदत । ‘टु नदि समृद्धौ इत्यतो लिट् परस्मैपदं ननन्द ननन्दतुर् ननन्दुः’ ॥ ३९ ॥
विश्वास-प्रस्तुतिः - ४०
प्राज्ञैर्महापूरुषसर्वलक्षणैः सम्पन्नदेहोऽयमितीरिते प्रभौ ।
परे परस्याप्यतिपीनतादृशः स्फिद्गात्रसंशंसनमत्र चक्रिरे॥ ४० ॥
मूलम् - ४०
प्राज्ञैर्महापूरुषसर्वलक्षणैः सम्पन्नदेहोऽयमितीरिते प्रभौ ।
परे परस्याप्यतिपीनतादृशः स्फिद्गात्रसंशंसनमत्र चक्रिरे॥ ४० ॥
पदार्थदीपिकोद्बोधिका
प्राज्ञैरिति ॥ प्रभौ श्रीमध्वाचार्ये प्राज्ञैः पुरुषलक्षण-शास्त्राभिज्ञैः पुरुषैर् अयं महापूरुषसर्वलक्षणैर्महापूरुषाणामत्युत्तमाधिकारिणां यानि सर्वाणि लक्षणानि अङ्गसम्पदस्तैः ‘लक्षणं कार्षिके चिह्ने नामि्न मुद्राङ्गसम्पदोः’ इति वैजयन्ती, सम्पन्नः सम्पूर्णो देहो यस्य स इतीरिते सति, परेऽपि सङ्करपक्षीया अप्यतिपीनतादृशः, अतिपीनतां स्फिङ्मात्रस्यातिपुष्टत्वं पश्यन्तीति तादृशाः सन्तः परस्य सङ्करस्य, केवलं स्फिक् स्फिङ्मात्रं तस्य संशंसनं सम्यक् स्तुतिं ‘स्त्रियां स्फिचौ कटिप्रोथा’वित्यमरः, तदेव चक्रिरे । सभायामयं महापूरुषसर्वलक्षणपूर्णदेह इति श्रीमध्वाचार्ये प्रशस्यमाने सति तदसहमानाः परे स्वकीयस्य सङ्करस्यातिस्थूलस्फिङ्मात्रप्रशंसनं चक्रुस्तस्मिन् प्रशंसनीय-लक्षणान्तरमपश्यन्त इति भावः ॥ ४० ॥
मन्दोपाकारिणी
प्राज्ञैरिति ॥ अत्र सभायां प्राज्ञैः पुरुषलक्षणाभिज्ञैः पुरुषैर् अयं श्रीमध्वाचार्यः । महापूरुषसर्वलक्षणैर् महान्त उत्तमाश्च ते पूरुषाश्च महापूरुषास् तेषां सर्वलक्षणानि तैः । सम्पन्नदेहः सम्पन्नः सम्पूर्णः देहः कायः यस्य स तथोक्तः । लक्षणप्रतिपादकशास्त्रे उत्तमपुरुषदेहस्य यानि लक्षणानि उत्तमानि तैः सर्वलक्षणैर् युक्तदेहो ऽयं मध्वाचार्य इति एवं लक्षणदेहवत्वेन प्रभौ श्रीमध्वे ईरिते सति श्लाघिते सति, प्राज्ञेषु मध्वाचार्यदेहं प्रशंसत्सु सत्सु परेऽपि सङ्करपक्षीया अपि परस्य सङ्करस्य स्फिङ्मात्रसंशंसनं स्फिङ्मात्रस्य स्फिचोः कटिप्रोथयोरेव ‘स्त्रियां स्फिचौ कटिप्रोथौ’ इत्यमरः, ऊरूपरितनौ कटिसम्बद्धौ प्रदेशौ कटिशब्देनोच्यते । तयोर् मात्रस्य केवलप्रोथभागयोरेव सम्यक् संशंसनं स्तुतिं चक्रिरे कृतवन्तः । कथम्भूताः, अतिपीनतादृशः स्फिचोर् अतिपीनताम् अतिस्थूलतां पश्यन्तीति अतिपीनतादृशः ‘पीन पीब्नीतु स्थूलपीवरे’ इत्यमरः । सभायाम् अयं मध्वाचार्य उत्तमपुरुषलक्षणयुक्तसंपूर्णदेह इति पुरुषलक्षणाभिज्ञैः श्रीमध्वाचार्ये प्रशंस्यमाने सति तदसहमानाः परेऽपि स्वकीयस्य सङ्करस्य अतिस्थूलस्फिङ्मात्रस्तुतिं चक्रुः । तत्प्रशंसनाय तद्देहे लक्षणान्तरादर्शनादेवेति भावः ॥ ४० ॥
विश्वास-प्रस्तुतिः - ४१
स्फिग्दूषणानि प्रतिपादयत्यलं सम्पूर्णसङ्ख्येऽस्य तु लक्ष्मशास्त्रतः ।
तद्दण्डसङ्खण्डनसंश्रवं व्यधात्तदक्षमोऽसौ प्रकृतिर्हि साऽसताम् ॥ ४१ ॥
मूलम् - ४१
स्फिग्दूषणानि प्रतिपादयत्यलं सम्पूर्णसङ्ख्येऽस्य तु लक्ष्मशास्त्रतः ।
तद्दण्डसङ्खण्डनसंश्रवं व्यधात्तदक्षमोऽसौ प्रकृतिर्हि साऽसताम् ॥ ४१ ॥
पदार्थदीपिकोद्बोधिका
स्फिगिति ॥ सम्पूर्णसंख्ये सम्पूर्णा संख्या ज्ञानं यस्य तस्मिन् ‘बुद्धिर्मतिश्च मेधा संख्या संवित्तिरुपलब्धि’रिति हलः, श्रीपूर्णप्रज्ञाचार्ये लक्ष्म-शास्त्रतो लक्ष्मणः लक्षणस्य शास्त्रं तेन अस्य स्फिग्दूषणान्यलं सम्यक् प्रतिपादयति सति तदक्षमस्तस्मिन् दण्डखण्डने अक्षमोऽसमर्थोऽसौ सङ्करस् तद्दण्डसङ्खण्डनसंश्रवं तस्य श्रीमध्वाचार्यस्य दण्डस्य संखण्डने संश्रवं प्रतिज्ञां ‘प्रतिश्रवः संश्रवः प्रतिज्ञेति’ हलः । व्यधाच्चक्रे । दण्डसंखण्डनाशक्तः किमिति प्रतिज्ञां चकारेत्यत्राह ॥ प्रकृतिरिति ॥ सा अशक्यकार्यप्रतिज्ञाऽसतां प्रकृतिर्हि स्वभावो हि । अतश्चकारेति भावः । अत्रार्थान्तर-न्यासालङ्कारः ॥ ४१ ॥
मन्दोपाकारिणी
स्फिगिति ॥ सम्पूर्णसङ्ख्ये संपूर्णा सङ्ख्या ज्ञानं यस्य स तथोक्तः ‘चर्चा संख्या विचारणा’ इत्यमरस् तस्मिन् श्रीमध्वाचार्ये । लक्ष्मशास्त्रतः लक्ष्मणः लक्षणस्य ‘चिह्नं लक्ष्म च लक्षणं’ इत्यमरः, शास्त्रतः लक्षणशास्त्रानुसारेण इत्यर्थः । अस्य सङ्करस्य स्फिग्दूषणानि स्फिचोर् दूषणानि स्फिक्स्थौल्यदोषान् अलं सम्यक् प्रतिपादयति उपपादयति सति, असौ सङ्करस् तद्दण्डसङ्खण्डनसंश्रवं तस्य मध्वाचार्यस्य दण्डस्य सङ्खण्डने द्वैधीभाव-करणे संश्रवं प्रतिज्ञां व्यधाद् अकरोत् । ‘नियमाश्रवसंश्रवाः’ इत्यमरः । मध्वाचार्ये लक्षणशास्त्रानुसारेण स्फिक्स्थूलत्वस्य अवलक्षणत्वे समर्थिते सति सङ्करः ‘मध्वाचार्यदण्डं खण्डयामीति’ प्रतिज्ञाम् अकरोदिति भावः । कथंभूतः, तदक्षमस् तस्मिन् दण्डखण्डने अक्षमो ऽसमर्थः । तर्हि किमर्थं प्रतिज्ञां व्यधाद् इत्याह ॥ प्रकृतिरिति ॥ सा अशक्यकार्यप्रतिज्ञा असतां प्रकृतिर् हि स्वभावो हि ‘प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे’ इत्यमरः ॥ ४१ ॥
विश्वास-प्रस्तुतिः - ४२
स्नात्वाऽत्र तीर्थेष्वचिरेण कन्यकातीर्थे सुतीर्थे सुखतीर्थ आप्लुतः ।
समुद्रसेतौ च निमज्य विष्णवे श्रीरामनाथाय नमश्चकार सः॥४२॥
मूलम् - ४२
स्नात्वाऽत्र तीर्थेष्वचिरेण कन्यकातीर्थे सुतीर्थे सुखतीर्थ आप्लुतः ।
समुद्रसेतौ च निमज्य विष्णवे श्रीरामनाथाय नमश्चकार सः॥४२॥
भावप्रकाशिका
कन्यातीर्थेऽत्र दुर्गा सन्निहिता सुजलावतारस्थाने ॥ ४२ ॥
पदार्थदीपिकोद्बोधिका
स्नात्वेति ॥ स सुखतीर्थ आनन्दतीर्थाचार्योऽत्रानन्तपुरक्षेत्रे तीर्थेषु स्नात्वाऽचिरेणाविलम्बात् सुतीर्थे शोभनतीर्थे कन्यकातीर्थे कन्याकुमार्यास्तीर्थे आप्लुतः स्नातः सन् समुद्रसेतौ च समुद्रस्य सेतौ श्रीरामकृते च ‘धनुष्कोटा’विति यावत् । निमज्य स्नात्वा श्रीरामनाथाय श्रीरामश्चासौ नाथश्च तस्मै विष्णवे नमश्चकार नमस्कारं कृतवान् । तस्मिन् सेतौ श्रीरामेण प्रतिष्ठापिते रामनाथाख्यलिङ्गे सन्निहिताय हरये नमस्कृतवानिति भावः ॥ ४२ ॥
मन्दोपाकारिणी
स्नात्वेति ॥ सः सुखतीर्थः श्रीमदानन्दतीर्थो ऽत्र अनन्तपुरक्षेत्रे विद्यमानेषु तीर्थेषु ऋषिजुष्टजलाशयेषु ‘तीर्थमृषिजुष्टे जले गुरौ’ इत्यमरः । स्नात्वा स्नानं कृत्वा, अचिरेण अविलम्बेन कन्यकातीर्थे कन्यातीर्थाख्ये सुतीर्थे आप्लुतः स्नातः सन्, समुद्रसेतौ च श्रीरामचन्द्रकृते समुद्रस्य सेतौ च धनुष्कोटितीर्थे इत्यर्थः निमज्य स्नात्वा, श्रीरामनाथाय श्रीरामश्चासौ नाथ ईश्वरश्च श्रीरामनाथस् तस्मै विष्णवे नमश्चकार । अनन्तशयनगततीर्थेषु स्नात्वा ततो निर्गत्य मार्गमध्ये विद्यमानकन्यातीर्थे स्नात्वा ततोऽपि निर्गत्य समुद्रसेतुं प्राप्य तत्र विद्यमानधनुष्कोटितीर्थे स्नातस्सन् श्रीरामचन्द्रेण सेतौ
प्रतिष्ठित रामेश्वरनामकलिङ्गसन्निहितरुद्रान्तर्गतश्रीरामनामकं स्वस्वामिनं विष्णुं ननाम
इति भावः ॥ ४२ ॥
विश्वास-प्रस्तुतिः - ४३
तमाव्रजन्तं यतिवेषधारिणं (मासुरं) दण्डं प्रकाश्यैष हसन्नभाषत ।
खण्ड््येत दण्डो यदि चण्ड न त्वया त्वं षण्डकोऽपण्डित वन्ध्यवागिति ॥ ४३ ॥
मूलम् - ४३
तमाव्रजन्तं यतिवेषधारिणं (मासुरं) दण्डं प्रकाश्यैष हसन्नभाषत ।
खण्ड््येत दण्डो यदि चण्ड न त्वया त्वं षण्डकोऽपण्डित वन्ध्यवागिति ॥ ४३ ॥
पदार्थदीपिकोद्बोधिका
तमिति ॥ एष श्रीमध्वाचार्यः । आव्रजन्तं स्वाभिमुख-मागच्छन्तं यतिवेषधारिणं यतेर्यो वेषस्तं धर्तुं शीलमस्यास्तीति तं सङ्करं प्रति दण्डं स्वहस्तगतदण्डं प्रकाश्य तस्मै दर्शयित्वा हसन् सन्, चण्ड क्रूर अपण्डित मूर्ख
त्वया यदि दण्डः मम दण्डो न खण्ड््येत । ‘खडि भेदे लिङ्’ तर्हि वन्ध्यवाक् वन्ध्या व्यर्था वाक् यस्य सोऽनृतवचन इत्यर्थः । त्वं षण्डको नपुंसक इत्यभ्यभाषत । ‘भाष व्यक्तायां वाचि लङ्’ ॥ ४३ ॥
मन्दोपाकारिणी
तमिति ॥ एषः श्रीमध्वाचार्य आव्रजन्तं समुद्रसेतोर् मार्गे अभिमुखेन आयान्तं यतिवेषं यतेर् वेष आकार इव वेषो यस्य स तथोक्तस् तम् आसुरम् असुरस्वरूपम् । यतिवेषधारिणम् इति क्वचित् पाठः । तत्र यतेः सन्यासिनः वेषम् आकारं धरतीति तथा तं सङ्करं प्रति दण्डं स्वहस्ते धृतं दण्डं प्रकाश्य तस्मै दर्शयित्वा । हसन् हासं कुर्वन्, इति अभाषत । किमिति, चण्ड अत्यन्तकोपिष्ठ ‘चण्डस्त्वत्यन्तकोपनः’ इत्यमरः, अपण्डित मूर्ख हे यते यदि दण्डः मम दण्डस् त्वया न खण्ड््येत न भज्येत । ‘खडि भेदने इति धातोः कर्मणि लिङात्मनेपदं खण्ड््येत खण्ड््येयातां खण्ड््येरन्’ । तर्हि त्वं वन्ध्यवाक् वन्ध्या अनृता वाक् वचनं यस्य स तथोक्तः । षण्डकः नपुंसक इति अभाषतेति योजना । ‘तृतीयाप्रकृतिः शण्डः क्लीबः षण्डो नपुंसकः’ इत्यमरः ॥ ४३ ॥
विश्वास-प्रस्तुतिः - ४४
लज्जानतः स्वार्थमथार्थयन्नसन्नुपैक्षतासौ द्विजनायकैस्तदा ।
आनन्दयन्तं वदनेन्दुना जगत्तं द्वेष्टि कः प्राज्ञमिहेति वादिभिः ॥ ४४ ॥
मूलम् - ४४
लज्जानतः स्वार्थमथार्थयन्नसन्नुपैक्षतासौ द्विजनायकैस्तदा ।
आनन्दयन्तं वदनेन्दुना जगत्तं द्वेष्टि कः प्राज्ञमिहेति वादिभिः ॥ ४४ ॥
पदार्थदीपिकोद्बोधिका
लज्जेति ॥ अथ लज्जानतो लज्जयाधोऽमुखः स्वार्थं स्वप्रयोजनं, तं प्रति अर्थयन् ब्राह्मणान् प्रार्थयन्, ‘भवद्भिरत्र दण्डभङ्गे साहाय्यं कर्तव्य-मिति’ प्रार्थयन् असन् दुष्टोऽसौ सङ्करस्तदा, ‘वदनेन्दुना वदनमेवेन्दुस्तेन जगदानन्द-यन्तमिह भुवि प्राज्ञं श्रीमध्वाचार्यं को विवेकी द्वेष्टि द्वेषं कुर्यात्’? ‘द्विष अप्रीतौ
लट्’ । इति वादिभिर्वक्तृभिर्द्विजनायकैर्ब्राह्मणश्रेष्ठैरुपैक्षत उपेक्षितोऽभूत् । ‘ईक्ष दर्शनाङ्कनयोर्लङ्’ ॥ ४४ ॥
मन्दोपाकारिणी
लज्जेति ॥ लज्जानतः लज्जया ह्रिया ‘मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा’ इत्यमरः, आनतो ऽधोमुखः स्वार्थं स्वकीयप्रयोजनाय अर्थयन् ब्राह्मणान् ‘भवद्भिर् मम साहाय्यं कर्तव्यमिति’ प्रार्थयन्, असन् दुष्टो ऽसौ सङ्करस् तदा प्रार्थनकाले द्विजनायकैर् द्विजानां ब्राह्मणानां नायकैः श्रेष्ठैर् उपैक्षत उपेक्षितोऽभूत् । ‘ईक्ष दर्शनाङ्कनयोरिति धातोः कर्मणि लङात्मनेपदम् ऐक्षत ऐक्षेताम् ऐक्षन्त’ । कथंभूतैर् वदनेन्दुना वदनं मुखमेव इन्दुस् तेन जगत् समस्तं जनम् आनन्दयन्तं सुखयन्तम् इह भूमण्डले प्राज्ञं महापण्डितं तं श्रीमध्वाचार्यं कः को वा विवेकी पुरुषः द्वेष्टि द्विष्याद् इति इत्थं वादिभिर् वदद्भिर् मध्वेन दण्डं प्रदर्शयित्वा ‘यदि त्वया मम दण्डः खण्ड््यते तर्हि त्वं पुमान् अन्यथा त्वं नपुंसकः’ इत्युक्तेन सङ्करेण स्वयम् असमर्थेन श्रीमध्वाचार्यस्य दण्डखण्डनाद्यनिष्टकरणे सहायत्वेन प्रार्थिता विप्राः सर्वेषां सुखकरं भूमण्डले असदृशपण्डितं श्रीमध्वाचार्यं कः विवेकी पुरुषः द्विष्याद् इति वदन्तः सन्तः दुष्टं तम् अविगणय्य उपेक्षितवन्त इति भावः । ‘द्विष अप्रीतौ इत्यतः लट् परस्मैपदं द्वेष्टि द्विष्टः द्विषन्ति’ ॥ ४४ ॥
विश्वास-प्रस्तुतिः - ४५
या याः प्रसक्ताः परिषत्सु पूरुषैर्विद्याविदग्धैर्विविधैः समागमे ।
स तासु तासु प्रतिभाति भासुरो विद्यासु विद्याधिपतिर्जिगाय तान् ॥ ४५ ॥
मूलम् - ४५
या याः प्रसक्ताः परिषत्सु पूरुषैर्विद्याविदग्धैर्विविधैः समागमे ।
स तासु तासु प्रतिभाति भासुरो विद्यासु विद्याधिपतिर्जिगाय तान् ॥ ४५ ॥
पदार्थदीपिकोद्बोधिका
या या इति ॥ परिषत्सु विद्वत्सभासु विविधैर्नानाविद्या-विशेषविद्भिर्विदग्धैस्तत्तद्विद्यासु चतुरैः पुरुषैः समागमे सति सङ्गतौ सत्यां या या विद्याः प्रसक्ताः प्रस्तुताः, तासु तासु विद्यासु प्रतिभातिभासुरः प्रतिभया स्वरूपप्रज्ञयाऽति-भासुरोऽत्यन्तं भासुरो विद्याधिपतिः स श्रीमध्वाचार्यस्तान् तत्तद्विद्यावतो विदुषो जिगाय । ‘जी जये लिट्’ ॥ ४५ ॥
मन्दोपाकारिणी
या या इति ॥ परिषत्सु पण्डितसभासु ‘समज्या परिषद्गोष्ठी सभासमितिसंसदः’ इत्यमरः, विविधैर् बहुविधैर् विद्याविदग्धैस् तत्तद्विद्याविशेषेषु चतुरैः पूरुषैर् वादिभिः समागमे सति, या या विद्यास् तत्तदभ्यस्तविद्याः प्रसक्ता वादार्थं प्रस्तुता अभूवन् तासु तासु वीप्सायां द्विवचनं सर्वासु इत्यर्थः । विद्यासु प्रतिभातिभासुरः प्रतिभया स्वाभाविकप्रज्ञया अतिभासुरो ऽत्यन्तं निपुणतया प्रकाशमानः स्वरूपप्रज्ञयैव ताः सर्वविद्या जानन् इति यावत् । विद्याधिपतिर् विद्यानां सकलविद्यानाम् अधिपतिर् मुख्येश्वरः सः श्रीमध्वाचार्यस् तान् विद्याविदग्धान् जिगाय पराभवं प्रापयामास । ‘जि जय इत्यतो लिट् परस्मैपदं जिगाय जिग्यतुर् जिग्युः’ ॥ ४५ ॥
विश्वास-प्रस्तुतिः - ४६
अचाल्यमानः सगुरुः स चापलैरसज्जनानामबलीयसामिह ।
उवास मासांश्चतुरो महामनाः सिंहो गुहान्तोपगतः शुनामिव ॥ ४६ ॥
मूलम् - ४६
अचाल्यमानः सगुरुः स चापलैरसज्जनानामबलीयसामिह ।
उवास मासांश्चतुरो महामनाः सिंहो गुहान्तोपगतः शुनामिव ॥ ४६ ॥
भावप्रकाशिका
असञ्जनानां चापलैः । ‘अप्रांश्वाद्याश्च तत्रोषुश्चातुर्मास्यं ततो विभोः । दीक्षाविघ्नं चिकीर्षन्तस्ताडनं चाभवत् खलु’ ॥ ४६ ॥
पदार्थदीपिकोद्बोधिका
अचाल्यमान इति ॥ सगुरुर् गुरुसहितः । अबलीयसाम् अतिदुर्बलानामसज्जनानां चापलैश् चञ्चलचेष्ठाभिर् अल्पीयसां क्षोभकारणैर्दुर्वादिचेष्ठा-भिरित्यर्थः । अचाल्यमानोऽप्रकम्प्यमानः स महामना महन्मनो यस्य स पूर्णप्रज्ञाचार्य इह समुद्रसेतौ चतुरो मासान् शुनां शुनकानां चापलैरचाल्यमानो गुहाया अन्तं मध्यमुपगतः सम्प्राप्तः सिंह इव उवास । वस निवासे लिट् । चातुर्मास्यमुवासेति भावः ॥ ४६ ॥
मन्दोपाकारिणी
अचाल्यमान इति ॥ सगुरुर् गुरुणा अच्युतप्रेक्षेण सहितो ऽबलीयसां दुर्बलानाम् असज्जनानां समुद्रसेतौ विद्यमानानां दुर्जनानां चापलैश् चेष्टाभिर् अल्पीयसां जनानां मनः क्षोभकव्यापारैर् इत्यर्थः । अचाल्यमानो ऽप्रकम्पमानः मनोविकार-रहित इति यावत् । महामना महन् मनो यस्य स तथोक्तः, सः पूर्णप्रज्ञाचार्य इह समुद्रसेतौ चतुरश् चतुःसंख्याकान् मासान् उवास अवसत् । वर्षाकाले प्राप्ते चातुर्मास्यव्रतार्थी रामेश्वरे उवास इति भावः । क इव, शुनां शुनकानां ‘शुनको भषकः श्वा स्यात्’ इत्यमरः, चापलैश् चेष्टाभिर् अचाल्यमानः गुहान्तोपगतः गुहाया गिरिदर्या अन्तः मध्ये उपगतः
प्रविष्टः सिंहः मृगेन्द्र इव । यथा सिंहस्य सारमेयशङ्का नास्ति तथा मध्वस्य दुर्वादिशङ्का नास्तीति भावः ॥ ४६ ॥
विश्वास-प्रस्तुतिः - ४७
शृङ्गारसिन्धुं स भुजङ्गशायिनं श्रीरङ्गवासं कृतमङ्गलं सताम् ।
अमन्दधीर्देवमवन्दतागतः कवेरकन्याहिमवायुसेवितम्॥ ४७ ॥
मूलम् - ४७
शृङ्गारसिन्धुं स भुजङ्गशायिनं श्रीरङ्गवासं कृतमङ्गलं सताम् ।
अमन्दधीर्देवमवन्दतागतः कवेरकन्याहिमवायुसेवितम्॥ ४७ ॥
पदार्थदीपिकोद्बोधिका
शृङ्गारेति ॥ आगतः सेतौ चातुर्मास्यव्रतं समाप्य तत आगतोऽमन्दधीर् अमन्दा पूर्णा धीर् यस्य सः श्रीमध्वाचार्यः । ृङ्गारसिन्धुं ृङ्गारेण सिन्धुरिव समुद्र इव तम् । भुजङ्गशायिनं भुजङ्गे शेषे शेतुं शीलमस्यास्तीति तम् । श्रीरङ्गवासं श्रीरङ्गक्षेत्रे वासो यस्य तम् । सतां कृतमङ्गलं कृतं मङ्गलं श्रेयो येन तम् । कवेरकन्याहिमवायुसेवितं कवेरस्य तन्नामकमुनेः कन्या कुमारी ‘कावेरी’ तस्या यो हिमवायुः शीतलवायुस्तेन सेवितं ‘हिमं शीतं तुषारे च चन्दने च हिमे विदुः’ इति विश्वः, कावेरीजलसम्पर्कात् शीतलवायुना सेवितमित्यर्थः । देवं क्रीडादिगुणयुक्तं श्रीहरिमवन्दत । वन्दतेर्लङ् ॥ ४७ ॥
मन्दोपाकारिणी
ृङ्गारेति ॥ अमन्दधीर् मन्दा न भवतीति अमन्दा पूर्णा धीर् यस्यासौ अमन्दधीः सः पूर्णप्रज्ञाचार्यः । ृङ्गारसिन्धुं ृङ्गारस्य सौन्दर्यसारस्य सिन्धुं समुद्रम् । भुजङ्गशायिनं भुजङ्गे शेषदेवे शायिनम् । श्रीरङ्गवासं श्रीरङ्गक्षेत्रे वासो यस्य स तथोक्तः । सतां सज्जनानां कृतमङ्गलं कृतं मङ्गलं श्रेयो येन तथोक्तस् तम् । कवेरकन्याहिमवायुसेवितं कवेरस्य ऋषेः कन्या पुत्री कावेरी तस्या उभयपार्श्वयोः प्रवहन्त्या जलस्पर्शात् हिमः शीतलश्चासौ वायुश्च ‘सुषिमः शिशिरो जडस् तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः’ इत्यमरस् तेन सेवितम् उभयकावेरीमध्ये शोभमानमिति भावः । देवं क्रीडादिगुणविशिष्टं श्रीरङ्गनाथम् । आगतः प्राप्तस्सन् अवन्दत प्रणम्य स्तुतिं चकार । ‘वदि अभिवादनस्तुत्योर् इति धातोर् लङात्मनेपदम् अवन्दत अवन्देताम् अवन्दन्त’ । चातुर्मास्यव्रतसमाप्त्यनन्तरं श्रीरङ्गं प्राप्त इति भावः ॥ ४७ ॥
विश्वास-प्रस्तुतिः - ४८
ततो निवृत्तः परमेव पूरुषं प्रणम्य नानायतनेषु सञ्चरन् ।
प्रकाशयन् स्वातिशयानमानुषानाशामुदीचीं प्रययावसौ क्रमात् ॥ ४८ ॥
मूलम् - ४८
ततो निवृत्तः परमेव पूरुषं प्रणम्य नानायतनेषु सञ्चरन् ।
प्रकाशयन् स्वातिशयानमानुषानाशामुदीचीं प्रययावसौ क्रमात् ॥ ४८ ॥
भावप्रकाशिका
स्वातिशयान् त्रिंशद्वाराहमनुवित्कश्चिद्योग्यास विस्मितः । सूचि-तेष्वेव सर्वेषु मध्वेनाभ्यधिकेष्वपि ॥ ४८ ॥
पदार्थदीपिकोद्बोधिका
तत इति ॥ असौ श्रीमध्वाचार्यस् ततः श्रीरङ्गक्षेत्रान्निवृत्तः सन् सञ्चरन् नानादेशेषु सञ्चरन् सन्, नानायतनेषु दौर्गशैवस्कान्दादिनानादेवालयेषु परं सर्वोत्तमं पूरुषमेव पूर्णषड्गुणं श्रीहरिमेव प्रणम्य उदीचीम् उत्तराम् आशां दिशं, अमानुषान् मानुषेष्वविद्यमानान् स्वातिशयान् स्वमाहात्म्यातिशयान् प्रकाशयन् सन् प्रययौ । ‘यातेर्लिट्’ ॥ ४८ ॥
मन्दोपाकारिणी
तत इति ॥ असौ श्रीमध्वस् ततः श्रीरङ्गक्षेत्रान् निवृत्तः निर्गतः सञ्चरन् नानादेशेषु सञ्चारं कुर्वन् नानायतनेषु नानाविधेषु शैवस्कान्दादिषु आयतनेषु देवस्थानेषु परं सर्वोत्तमं पूरुषमेव श्रीहरिमेव प्रणम्य शिवादिदेवालयेषु शिवाद्यन्तर्गतं भगवन्तमेव नत्वेति भावः । क्रमाद् दिनक्रमाद् देशक्रमाच्च उदीचीं ‘उत्तरादिगुदीची स्यात्’ इत्यमरः, आशां दिशं ‘दिशश्च ककुभः काष्ठा आशाश्च हरितश्चताः’ इत्यमरः, प्रययौ । किं कुर्वन् अमानुषान् मनुष्यविलक्षणान् मनुष्येषु अविद्यमानान् इत्यर्थः । स्वातिशयान् स्वस्य आत्मनो ऽतिशयान् माहात्म्यानि प्रकाशयन् प्रदर्शयन् ॥ ४८ ॥
विश्वास-प्रस्तुतिः - ४९
ततस्ततो विस्मितलोचनैर्नरैर्निरीक्ष्यमाणोऽतिसुलक्षणाकृतिः ।
ग्रामोत्तमान् प्राप्य पयस्विनीतटे विवेश देवायतनं स किञ्चन ॥ ४९ ॥
मूलम् - ४९
ततस्ततो विस्मितलोचनैर्नरैर्निरीक्ष्यमाणोऽतिसुलक्षणाकृतिः ।
ग्रामोत्तमान् प्राप्य पयस्विनीतटे विवेश देवायतनं स किञ्चन ॥ ४९ ॥
पदार्थदीपिकोद्बोधिका
तत इति ॥ विस्मितलोचनैः स्वसौन्दर्यदर्शनेन विस्मितानि लोचनानि येषां तैर्नरैस्ततस्ततो निरीक्षमाणः । अतिसुलक्षणा शोभनलक्षणोपेताऽऽकृतिर्देहो यस्य स श्रीमध्वाचार्यः । ग्रामोत्तमान् ग्रामश्रेष्ठान् प्राप्य पयस्विनीतटे पयस्विन्याख्यनद्यास्तटे किञ्चन देवायतनं देवतामन्दिरं विवेश ॥ ४९ ॥
मन्दोपाकारिणी
तत इति ॥ अतिसुलक्षणाकृतिर् अत्यन्तं भासमानानि लक्षणानि यस्याः सा अतिसुलक्षणा तादृशी आकृतिर् देहः यस्य स तथोक्तः सः श्रीमध्वाचार्यः । अतिसुलक्षणदेहवत्वादेव ततस्ततः सार्वविभक्तिकत्वात्तसेस् तत्र तत्रेत्यर्थः । विस्मितलोचनैर् विस्मितानि आश्चर्ययुक्तानि लोचनानि नयनानि येषां ते तथोक्तास् तैर् नरैर् मनुष्यैर् निरीक्ष्यमाणः पश्यमानस्सन् अतिसुन्दरत्वात् सर्वदेशीयैर् आदरेण निरीक्ष्यमाण इति भावः । पयस्विनीतटे पयस्विन्या नद्यास् तटे तीरे ‘कूलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु’ इत्यमरः । ग्रामोत्तमं कञ्चन ग्रामश्रेष्ठं प्राप्य, तत्रापि किञ्चन यत्किञ्चन देवायतनं
देवालयं विवेश प्रविष्टवान् । ‘विश प्रवेशन इत्यतः लिट् परस्मैपदं विवेश विविशतुर् विविशुः’ ॥ ४९ ॥
विश्वास-प्रस्तुतिः - ५०
अधीत्य धर्मेण षडङ्गमागमं तदर्थसंवर्णननिर्णयान्विताः ।
प्रापुर्द्विजेन्द्रास्तमपूर्वपूरुषं जिज्ञासवः सुप्रथितं जगत्त्रये॥ ५० ॥
मूलम् - ५०
अधीत्य धर्मेण षडङ्गमागमं तदर्थसंवर्णननिर्णयान्विताः ।
प्रापुर्द्विजेन्द्रास्तमपूर्वपूरुषं जिज्ञासवः सुप्रथितं जगत्त्रये॥ ५० ॥
पदार्थदीपिकोद्बोधिका
अधीत्येति ॥ धर्मेण स्वाध्यायाध्ययनोचितधर्मेण षडङ्गं षट् ‘शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा । कल्पश्चेति षडङ्गानि’ शिक्षादीन्यङ्गानि यस्य तमागमं वेदमधीत्य । न केवलमध्ययनमात्रेण चरितार्थाः, किन्तु तदर्थसंवर्ण-ननिर्णयान्विताः, तस्यार्थानां संवर्णनं सम्यक्कथनं तस्मिन् यो निर्णयस्तेनान्विताः । व्याकरणनिरुक्त्यादिभिरस्यागमस्यायमर्थ इति वक्तुं समर्था इत्यर्थः । द्विजेन्द्राः पयस्विनीतटवासिनो द्विजप्रवरा जगत्त्रये जगतां त्रये सुप्रथितं सुप्रसिद्धं, अपूर्वपूरुषम् अपूर्वः पूर्वमदृष्टः स चासौ पूरुषश्च तं श्रीमध्वाचार्यं जिज्ञासवो महामहिमत्वेन श्रुतोऽयं कीदृश इति ज्ञातुमिच्छवः सन्तः प्रापुः ॥ ५० ॥
मन्दोपाकारिणी
अधीत्येति ॥ धर्मेण वेदाध्ययननियमेन षडङ्गं षट् सङ्ख्याकानि अङ्गानि शिक्षादिवेदाङ्गानि यस्य स तथोक्तस् तम् आगमं वेदम् अधीत्य पठित्वा तदर्थसंवर्णन-निर्णयान्वितास् तेषां स्वाधीतवेदाङ्गानाम् अर्थः प्रतिपाद्यस् तस्य संवर्णने सम्यक् वर्णने निर्णयेन निश्चयेन अन्विता युक्ता व्याकरणनिरुक्तादिभिर् अस्य आगमस्य अयमेवार्थ इति निष्कर्षं कर्तुं समर्था इति भावः । द्विजेन्द्राः पयस्विनीतीरवासिनो विप्रवराः । जगत्त्रये जगतां भुवनानां त्रये प्रथितं सुप्रसिद्धं ‘प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः’ इत्यमरः । अपूर्वपूरुषम् अपूर्वः पूर्वम् अदृष्टश्चासौ पूरुषश्च तं जगत्प्रसिद्धमपि स्वैः प्रागदृष्टं तं मध्वाचार्यं जिज्ञासवः बहुविद्यावत्वेन संश्रुतोऽयं कीदृश इति विद्वत्तादिगुणं ज्ञातुमिच्छन्तस्सन्तः प्रापुः समागमन् । ‘आप्लृ व्याप्तावित्यतो लिट् परस्मैपदम् आप आपतुर् आपुः’ ॥ ५० ॥
विश्वास-प्रस्तुतिः - ५१
सुस्मितेन्दुमरविन्दलोचनं स्वर्णवर्णमतिभद्रभाषणम् ।
वीतभूषमपि विश्वभूषणं तं दिदृक्षुरलमापतज्जनः॥ ५१ ॥
मूलम् - ५१
सुस्मितेन्दुमरविन्दलोचनं स्वर्णवर्णमतिभद्रभाषणम् ।
वीतभूषमपि विश्वभूषणं तं दिदृक्षुरलमापतज्जनः॥ ५१ ॥
पदार्थदीपिकोद्बोधिका
सुस्मितेन्दुमिति ॥ जनः सुस्मितेन्दुं सुस्मितमेवेन्दुर्यस्य तम् । अरविन्दलोचनम् अरविन्दमिव लोचनं यस्य तम् । स्वर्णवर्णं स्वर्णवद्वर्णो यस्य तम् । अतिभद्रभाषणम् अतिभद्रं भाषणमालापो यस्य तम् । वीतभूषं वीता विगता भूषाऽलङ्कृतिर्यस्य तम् । अपि तथापि विश्वभूषणं विश्वस्य भूषणमिवाचरति भूषणति भूषणतीति भूषणस्तं, तं श्रीमध्वाचार्यं दिदृक्षुर्द्रष्टुमिच्छुः सन्नलं सम्यगापतद् आजगाम । ‘पत्लृ पतने लङ्’ । तत्र विद्वज्जनस्तस्य विद्वत्तादिगुणजिज्ञासयाऽगमत् । तदितरो जनस्तत्स्वरूपदिदृक्षयाऽगमदित्यभिप्रायेण ‘प्रापुर्द्विजेन्द्रा, तं दिदृक्षुरलमापतज्जनः’ इति च पृथगुक्तम् ॥ ५१ ॥
मन्दोपाकारिणी
न केवलं तत्र विद्वज्जना एव अगमन् किन्तु इतरेऽपीत्याह । सुस्मितेन्दुमिति ॥ जनः विद्वदन्यो जनोऽपि सुस्मितेन्दुं सु शोभनं स्मितं मन्दहासो यस्य तत् सुस्मितं वदनं तदेव इन्दुश् चन्द्रः यस्य स तथोक्तस् तम् । अरविन्दलोचनम् अरविन्दवद् लोचने नयने यस्य स तथोक्तस् तम् । स्वर्णवर्णं स्वर्णवत् सुवर्णवत् ‘स्वर्णं सुवर्णं’ इत्यमरः, वर्णः कान्तिर् यस्य स तथोक्तस् तम् । ‘वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु वाक्षरे’ इत्यमरः । अतिभद्रभाषणम् अतिभद्राणि अत्यन्तं मनोहराणि भाषणानि वचनानि यस्य स तथोक्तस् तम् । वीतभूषं वीता परित्यक्ता भूषा अलङ्क्रिया येन स तथोक्तस् तम् । ‘भूषणं स्यादलङ्क्रिया इत्यमरः । तादृशमपि, विश्वभूषणं विश्वस्य समस्तस्य जगतः भूषणम् अलङ्कारभूतं तं श्रीपूर्णप्रज्ञाचार्यम् अलं सम्यक् दिदृक्षुस् तत्सौन्दर्यं द्रष्टुम् इच्छन् सन्, आपतद् आगमत् । ‘पत पतन इत्यस्माल्लङ् परस्मैपदम्’ । रथोद्धतावृत्तं ‘रात्परैर्नरलगैरथोद्धता’ इत्युक्तेः ॥ ५१ ॥
विश्वास-प्रस्तुतिः - ५२
विद्योरुद्युतिधीरतारकतिरस्कारे पतङ्गायितो
दुर्वादीभकुतर्ककुम्भदलने सिंहप्रबर्हायितः ।
लोलालोककलोकदृक्कुमुदिनीसंह्लादनेऽब्जायितः
संसन्मण्डलमण्डनायितवपुः स्वानन्दतीर्थो बभौ ॥ ५२ ॥
मूलम् - ५२
विद्योरुद्युतिधीरतारकतिरस्कारे पतङ्गायितो
दुर्वादीभकुतर्ककुम्भदलने सिंहप्रबर्हायितः ।
लोलालोककलोकदृक्कुमुदिनीसंह्लादनेऽब्जायितः
संसन्मण्डलमण्डनायितवपुः स्वानन्दतीर्थो बभौ ॥ ५२ ॥
॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपण्डिताचार्यसुतश्रीनारायणपण्डिताचार्य विरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनन्दाङ्के पञ्चमः सर्गः ॥
भावप्रकाशिका
अब्जपतङ्गौ चन्द्रार्कौ ॥ ५२ ॥
॥ इति श्रीनारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमध्वविजयस्य भावप्रकाशिकाख्यटीकायां पञ्चमः सर्गः ॥
पदार्थदीपिकोद्बोधिका
विद्येति ॥ विद्योरुद्युतिरुत्कृष्टकान्तिर्येषां ते च ते धीरा विद्वांसस्त एव तारकाणि तेषां तिरस्कारो निराकरणं तस्मिन् ‘धीरो धीमाल्लब्धवर्णः’ इति हलः । पतङ्गवत् सूर्यवद् आचरतीति पतङ्गायितः ‘पतङ्गौ पक्षिसूर्यौ च’ इत्यमरः । उद्यदादित्यो यथा नक्षत्रप्रभां नाशयेदेवं श्रीमध्वोऽपि विदुषां विद्वत्तां निराकरोतीति भावः । दुर्वादिन एव इभा गजास्तेषां ये कुतर्ककुम्भा भगवतो निराकारत्वनिर्गुणत्वादि- साधककुतर्काख्यकुम्भस्थलानि तेषां दलने विदारणे सिंहेषु प्रबर्हः श्रेष्ठस्तद्वदाचरतीति तादृशः ‘मुख्यं पुरोगं प्रवरं प्रबर्हम्’ इति हलः । सिंहप्रबर्हो यथेभकुम्भमयत्नं विदारयेदेवमसौ कुतर्कविदारणसमर्थ इति भावः । लोलश्चञ्चलः सम्भ्रान्तो वाऽऽलोको दर्शनं यस्य स एव लोलालोककः । स्वार्थे कः । स चासौ लोको जनस्तस्य दृग्लोचनं सैव कुमुदिन्युत्पलं तस्याः संह्लादनं सन्तोषीकरणं तस्मिन्नब्जवच्चन्द्रवदाचरतीत्यब्जायितः ‘अब्जौ शङ्खशशाङ्कौ च’ इत्यमरः । संसन्मण्डलस्य सभामण्डलस्य मण्डनवदलङ्कारवदाचरतीति मण्डनायितं वपुर्देहो यस्य सः स्वानन्दतीर्थो बभौ । ‘भा दीप्तौ लिट्’ । अत्र शार्दूलविक्रीडितवृत्तम् । ‘अर्काश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितमि’ति तल्लक्षणात् । अत्र रूपकोपमयोः संसृष्टिः ॥ ५२ ॥
॥ इति श्रीमद्वेदाङ्गमुनिविरचितश्रीसुमध्वविजयटीकाविवृत्तौ श्रीविश्वपतितीर्थकृतौ पदार्थदीपिकोद्बोधिकायां पञ्चमः सर्गः ॥
मन्दोपाकारिणी
विद्येति ॥ उर्व्यः बह्व्यश्च ता द्युतयः दीप्तयश्च उरुद्युतयः विद्या एव उरुद्युतयः येषां ते विद्योरुद्युतयः धीराः पण्डिता एव ‘धीरो मनीषी ज्ञः प्राज्ञः सङ्ख्यावान् पण्डितः कविः’ इत्यमरः, तारका नक्षत्राणि धीरतारकाः ‘नक्षत्रमृक्षं भन्तारातारकाप्युडुवास्त्रियाम्’ इत्यमरः, विद्योरुद्युतयश्च ते धीरतारकाश्च विद्योरुद्युति-धीरतारका धीरतारकाणां तिरस्कारे निरासे पतङ्गायितः पतङ्गवत् सूर्यवद् आचरतीति पतङ्गायित ‘पतङ्गौ पक्षिसूर्यौ च’ इत्यमरः । उद्यदादित्यो यथा नक्षत्रकान्तिं नाशयति एवं श्रीमध्वोऽपि विदुषां विद्वत्तां निराकरोतीति भावः । दुर्वादीभकुतर्ककुम्भदलने दुर्वादिन एव इभाः कुञ्जराः ‘कुञ्जरो वारणः करी इभः स्तम्बेरमः पद्मी’ इत्यमरः, तेषां कुतर्का एव भगवतः निराकारत्वनिर्गुणत्वादिसाधकाः कुत्सितयुक्तय एव कुम्भा गण्डस्थलानि ‘कुम्भे घटे हस्तिमूधर्ि्न’ इत्यमरः, तेषां दलने दारणे सिंहप्रबर्हायितः सिंहप्रवर्हवत् सिंहश्रेष्ठवद् आचरतीति सिंहप्रबर्हायितः । सिंहो यथा गजकुम्भं विदारयेद् एवं मध्वः दुर्वादिनां कुतर्कनिरसने समर्थ इति भावः । लोलालोककलोकदृक्कुमुदिनीसंह्लादने लोलश् चञ्चलः ‘लोलश्चञ्चलतृष्णयोः’ इति विश्वः, आलोकः दर्शनं यस्य सः लोलालोकः, ‘आलोकौ दर्शनद्योतौ’ इत्यमरः, आलोक एव आलोककः लोलालोककश्चासौ लोकः जनश्च लोलालोककलोकस् तस्य दृक् लोचनमेव कुमुदिनी उत्पलं तस्य संह्लादने तोषणे अब्जायितश् चन्द्रवद् वर्तमानः ‘अब्जो जवातृकः सोमः’ इत्यमरः । चन्द्रोदये नीलोत्पलस्य यथा हर्षस् तथा मध्वस्य दर्शनेन लोकस्य हर्ष इति भावः । संसन्मण्डलमण्डनायितवपुः संसदां तत्र मिलितजनानां मण्डलस्य समूहस्य मण्डनायितं मण्डनवद् वर्तमानं ‘परिष्करो विभूषणं मण्डनं’ इत्यमरः वपुः शरीरं यस्य स तथोक्तस् तत्र मिलितजनसमूहे अलङ्कारभूत इति भावः । स्वानन्दतीर्थः शोभनश्चासौ आनन्दतीर्थः बभौ शुशुभे । ‘भा दीप्तौ इत्यस्माल्लिट् परस्मैपदं बभौ बभतुर् बभुः’ । र्शादूलविक्रीडितं वृत्तं ‘सूर्याश्वैर्यदि मः सजौ सततगाः शार्दूलविक्रीडितमि’ति तल्लक्षणात् ॥ ५२ ॥
॥ इति श्रीमध्वविजयटीकायां श्रीमच्छलारिनरसिंहाचार्याणां शिष्येण शेषेण विरचितायां मन्दोपकारिण्यां पञ्चमः सर्गः ॥ ५ ॥