चतुर्थः सर्गः
चतुर्थः सर्गः
विश्वास-प्रस्तुतिः - १
अथैष सल्लोकदयासुधार्द्रया सदागमस्तेन निरासकामया ।
रमावरावासभुवा विशारदो विशालयाऽचिन्तयदात्मनो धिया॥१॥
मूलम् - १
अथैष सल्लोकदयासुधार्द्रया सदागमस्तेन निरासकामया ।
रमावरावासभुवा विशारदो विशालयाऽचिन्तयदात्मनो धिया॥१॥
पदार्थदीपिकोद्बोधिका
अथेति ॥ अथ गुरुकुलवासानन्तरं विशारदो विचक्षण एष वासुदेवनामा । सन्तश्च ते लोकाश्च सल्लोकाः सज्जनाः । ‘लोकस्तु भुवने जने’ इत्यमरस् तेषु या दया सैव सुधा तया आर्द्रया क्लिन्नया अकठिनयेति भावः । सन्तश्च ते आगमाश्च सदागमा वेदाद्यास् तेषां स्तेनस् तस्करः सङ्करस्तस्य निरासे निरसने काम इच्छा यस्यास् तया । रमाया वरस्य भर्तुः श्रीहरेर् आवासस्य निवासस्य भूः स्थानं तथा । ‘भूः पृथिव्यां स्थानमात्र’ इति विश्वः । विशालया आत्मनो धिया बुद्ध्या अचिन्तयद् विचारयामास । चिति स्मृत्यां लङ् । अस्मिन् सर्गे प्रायः वंशस्थवृत्तम् । ‘जतौ तु वंशस्थमुदीरितं जरौ’ इति तल्लक्षणात् ॥ १ ॥
मन्दोपाकारिणी
अथेति ॥ अथ गुरुकुलवाससमाप्त्यनन्तरम् । विशारदः विदग्ध एषः वासुदेवः । सल्लोकदयासुधार्द्रया सन्तश्च ते लोका जनाश्च सल्लोकाः सल्लोकेषु दया सल्लोकदया । सैव सुधा अमृतं सल्लोकदयासुधया आर्द्रया क्लिन्नया । सदागमस्तेन-निरासकामया सन्तः निर्दोषाश्च ते आगमा वेदादिशास्त्राणि च तेषां स्तेनस् तस्करः । ‘चौरैकागारिकस्तेनदस्युतस्करमोषकाः’ इत्यमरः । तस्य निरासे काम इच्छा यस्याः सा तथोक्ता तया । रमावरावासभुवा रमाया लक्ष्म्या वर उत्तमः हरिस् तस्य आवासस्य निवासस्य भूः स्थानं तया । श्रीहरिः सर्वदा तद्धृदये तिष्ठतीति भावः । एवंभूतया विशालया महत्या ‘विशालं पृथुलं महत्’ इत्यमरः । बह्वर्थविषयकारिण्या इति यावत् । आत्मनः स्वस्य धिया अन्तःकरणेन अचिन्तयद् विचारं कृतवान् । ‘चिति स्मृत्याम् इत्यतो लङ् परस्मैपदम् अचिन्तयद् अचिन्तयताम् अचिन्तयन्’ । सर्गसमाप्तिपर्यन्तं प्रायः वंशस्थविलं वृत्तम् । वदन्ति वंशस्थविलं जतौ जराविति तल्लक्षणात् ॥ १ ॥
विश्वास-प्रस्तुतिः - २
अनन्यसङ्गाद्गुणसङ्गिता हरेर्जनस्य मानं तु विशिष्टचेष्टितम् ।
असङ्गमस्मात्प्रकटीकरोम्यहं निजं भजन् पारमहंस्यमाश्रमम्॥ २ ॥
मूलम् - २
अनन्यसङ्गाद्गुणसङ्गिता हरेर्जनस्य मानं तु विशिष्टचेष्टितम् ।
असङ्गमस्मात्प्रकटीकरोम्यहं निजं भजन् पारमहंस्यमाश्रमम्॥ २ ॥
पदार्थदीपिकोद्बोधिका
विचारप्रकारमेव विवृणोति— अनन्येति ॥ अन्येषां भगवदितरवस्तूनां सङ्गः संसर्गो ऽन्यसङ्गः । स न भवति इति अनन्यसङ्गस् तस्माद् भगवदितरवैषयिकवस्तुषु आसक्तिराहित्यादित्यर्थः । हरेर्गुणानां सङ्गोऽस्यास्तीति गुणसङ्गी । तस्य भावस्तत्ता श्रीहरिगुणश्रवणमननादिषु आदरवत्वमित्यर्थः । घटत इति शेषः । जनस्य विशिष्टचेष्टितं तु विशिष्टानामुत्तमानामाचरणमेव मानं प्रमाणम् । विशिष्टाचरणमेव प्रमाणीकृत्येतरजनाः प्रवर्तन्त इति भावः । ‘यद्यदाचरति श्रेष्ठ’ इति वचनात् । अस्मात् कारणाद् विशिष्टाचरणस्य प्रमाणत्वादिति यावत् । अहं, परमहंसानां सम्बन्धी पारमहंस्यस्तम् आश्रमं यत्याश्रममित्यर्थः । ‘आश्रमोऽस्त्री मुनिस्थाने ब्रह्मचर्यादिके मठे’ इति वैजयन्ती । भजन् सन् निजं मम स्वभावभूतम् । न विद्यते सङ्गो यस्य सोऽसङ्गस्तम् । भावप्रधानो निर्देशः । असङ्गत्वमिति यावत् । सङ्गाभावोऽसङ्गस्तमिति वा । प्रकटीकरोमि सर्वेषां प्रदर्शयामि ॥ २ ॥
मन्दोपाकारिणी
विचारप्रकारमेव आह - अनन्येति ॥ यस्मात्कारणाद् अनन्यसङ्गाद् अन्यस्मिन् भगवदितरविषये सङ्ग आसक्तिर् अन्यसङ्गः विषयभोग इति यावत् । अन्यसङ्गस्य अभावो ऽनन्यसङ्गः विषयासक्त्यभाव इत्यर्थः । तस्मात् हरेः श्रीनारायणस्य गुणसङ्गिता गुणेषु जगत्कर्तृत्वादिषु सङ्गिता आसक्तिर् घटत इति शेषः । विषयवैराग्ये सत्येव हरिमहिमाश्रवणमननादौ आदरो युज्यते नान्यथेति भावः । जनस्य विशिष्टचेष्टितं तु, विशिष्टानाम् उत्तमानां चेष्टितं तु कर्मानुष्ठानमेव । ‘तु स्याद्भेदेऽवधारणे’ इत्यमरः । मानं प्रमाणं भवतीति शेषः । सर्वे जनाः शिष्टाचारमेव प्रमाणीकृत्य कर्मानुष्ठाने प्रवर्तन्ते इति भावः । ‘यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः’ इत्युक्तेः । अस्मात् शिष्टाचारस्य प्रमाणत्वाद् अहं पारमहंस्यं परमहंसानां यतीनां संबन्धी पारमहंस्यस् तम् आश्रमं भजन् स्वीकुर्वन् सन् । निजं मम स्वभावभूतम् असङ्गं विषयासक्त्यभावं प्रकटीकरोमि सर्वेषां जनानां प्रदर्शयामि । प्रकटीति च्विप्रत्ययान्तमव्ययम् । विषयासक्त्यभावे सत्येव हरिमाहात्म्य-श्रवणादौ आसक्तिर्घटते न अन्यथा । मम तु विषयासक्त्यभावः स्वभाव एव । किन्तु शिष्टाचारमेव प्रमाणीकृत्य सत्कर्मानुष्ठाने प्रवर्तमानानां जनानां विषयवैराग्यं प्रदर्शयितुं यत्याश्रमं स्वीकरिष्य इति भावः ॥ २ ॥
विश्वास-प्रस्तुतिः - ३
मम प्रभोर्नापरथा हि शोभते द्विषत्सु विष्णुं यददण्डधारणम् ।
हरिस्वसा नन्वचिरादसद्भिदे भवेदतो नास्मि च दण्डधारकः॥ ३ ॥
मूलम् - ३
मम प्रभोर्नापरथा हि शोभते द्विषत्सु विष्णुं यददण्डधारणम् ।
हरिस्वसा नन्वचिरादसद्भिदे भवेदतो नास्मि च दण्डधारकः॥ ३ ॥
पदार्थदीपिकोद्बोधिका
ममेति ॥ विष्णुं द्विषत्सु मायिप्रभृतिषु वादिषु यद् दण्डस्य, नैर्गुण्यवादित्वेन हरिद्वेषिणां मायिप्रभृतीनां, जिह्वोच्छेदादिलक्षणशिक्षायाः, धारणं दण्डधारणं तस्याभावोऽदण्डधारणम् । ‘दण्डोऽस्त्री शासने राज्ञां हिंसायां लगुडे दम’ इति वैजयन्ती । तत् प्रभोर् भगवद्वेषिषु दण्डधारणसमर्थस्य मम अपरथा यत्याश्रमस्वीकारं विना न शोभते । शुभ दीप्तौ लट् । तर्हि क्रियतां दण्डधारणं, किमिति पारमहंस्यमाश्रीयत इत्यत आह—हरिस्वसेति । हरिस्वसा श्रीकृष्णभगिनी दुर्गा । असद्भिदे असतां निरासाय अचिराच्छीघ्रं भवेद् अवतारं कुर्यात् । अतस्तया दुर्गया असद्दण्डस्य करिष्यमाणत्वाद् अहं च दण्डधारको नास्मि । अयं भावः, श्रीहरिद्वेषिणां देहादिदण्डनं कार्यमेव समर्थेन । तदप्यचिराद् दुर्गया करिष्यते तस्मादस्मिन्नवसरे नाहं करोमि । तस्माद्दण्डधारणायोग्यं यत्याश्रममेव स्वीकरोमीति ॥ ३ ॥
मन्दोपाकारिणी
यत्याश्रमस्वीकारे निमित्तान्तरमाह - ममेति ॥ अपरथा यत्याश्रमस्वीकाराभावे । प्रभोर् भगवद्वेषिशिक्षणे समर्थस्य मम विष्णुं द्विषत्सु मायावादिप्रभृतिषु यद् अदण्डधारणं दण्डस्य जिह्वाच्छेदादिरूपशिक्षणस्य । ‘दण्डोऽस्त्री शासने राज्ञां हिंसायां लगुडे वने’ इति वैजयन्ती । अधारणम् अकरणं न शोभते हि न युज्यते हि । तर्हि क्रियतां द्वेषिणां शिक्षणम् इत्यत आह- हरिस्वसेति । यद् यस्मात् कारणात् । ‘यत्तद्यतस्ततो हेतौ’ इत्यमरः । हरिस्वसा हरेः श्रीकृष्णस्य स्वसा भगिनी दुर्गा असद्भिदे असतां विष्णुद्वेषिणां भिदे निरासाय अचिरात् शीघ्रं भवेन्ननु अवतरिष्यति ननु । अतः विष्णुद्वेषिदण्डस्य दुर्गया करिष्यमाणत्वाद् अहं च अहमपि दण्डधारकः दण्डस्य कर्ता नास्मि न भवामि । अयं भावः । श्रीहरिद्वेषिणां देहादिदण्डनं कार्यमेव । तदपि शीघ्रमेव दुर्गया करिष्यते । तथा करिष्यमाणं शिक्षणं मया इदानीं न कार्यमेव । समर्थेन दण्डधारणयोग्याश्रमस्थितेन मया शिक्षाम् अकृत्वा च न स्थातव्यं प्रत्यवायप्राप्तेः । अतः दण्डधारणायोग्यं प्रत्यवायानापादकं यत्याश्रमं स्वीकरिष्य इति अचिन्तयदिति पूर्वेणान्वयः ॥ ३ ॥
विश्वास-प्रस्तुतिः - ४
विचिन्तयन्नित्थमनन्तचिन्तकः समस्तसन्यासनिबद्धनिश्चयः ।
असावनुज्ञार्थमथानमद्धरिं समस्तसंव्यापिनमात्मदायगम्॥ ४ ॥
मूलम् - ४
विचिन्तयन्नित्थमनन्तचिन्तकः समस्तसन्यासनिबद्धनिश्चयः ।
असावनुज्ञार्थमथानमद्धरिं समस्तसंव्यापिनमात्मदायगम्॥ ४ ॥
पदार्थदीपिकोद्बोधिका
विचिन्तयन्निति ॥ अनन्तचिन्तकः भगवतश्चिन्तानिरतो ऽसौ । इत्थं विचिन्तयन् सन् । अथ समस्तस्य गृहक्षेत्रादेः सन्यासे परित्यागे निबद्धो निरूढो निश्चयो यस्य तादृशः सन् । अनुज्ञार्थं गन्तुमनुज्ञां स्वीकर्तुं, समस्तं जगत्, संव्याप्तुं सम्यग् व्याप्तुं शीलमस्यास्तीति तम् । आत्मनः स्वस्य दायः गृहक्षेत्रादिस्तं गच्छतीति तादृशस्तं हरिम् अनमत् ॥ ४ ॥
मन्दोपाकारिणी
विचिन्तयन्निति ॥ अनन्तचिन्तको ऽनन्तस्य भगवतः हरेश् चिन्तकः सदा ध्यानकर्ता । असौ वासुदेव इत्थं पूर्वोक्तप्रकारेण विचिन्तयन् विचारयन् । अथ अनन्तरं समस्तसन्यासनिबद्धनिश्चयः समस्तस्य गृहक्षेत्रादेः संन्यासे परित्यागे निबद्धः निरूढः दृढ इति यावन् निश्चयः निर्णयः यस्य स तथोक्तः सन् । अनुज्ञार्थं हरेरनुज्ञां स्वीकर्तुं समस्तसंव्यापिनं समस्ते सर्वस्मिन् जगति संव्यापिनं सम्यक् व्याप्तुं शीलम् अस्यास्तीति संव्यापी तम् । आत्मदायगम् आत्मनः स्वस्य दाये क्षेत्रादौ गच्छति विद्यत इति आत्मदायगस् तं हरिम् अनमन् नमस्कृतवान् । ‘णमु प्रह्वत्वे शब्दे चेत्यतो लङ् परस्मैपदम् अनमद् अनमताम् अनमन्’ इति ॥ ४ ॥
विश्वास-प्रस्तुतिः - ५
निजे जने किं नमसीति पृच्छति ब्रुवन् स्ववस्तुप्रणतिं व्यधामिति ।
गुरोः किलान्वेषणवान् जगद्गुरुस्तदा जगामाखिललोकशिक्षकः॥५॥
मूलम् - ५
निजे जने किं नमसीति पृच्छति ब्रुवन् स्ववस्तुप्रणतिं व्यधामिति ।
गुरोः किलान्वेषणवान् जगद्गुरुस्तदा जगामाखिललोकशिक्षकः॥५॥
भावप्रकाशिका
स्ववस्तु स्वस्वामिनं नित्याप्रतिहतं ब्रह्म ॥ ५ ॥
पदार्थदीपिकोद्बोधिका
निजेति ॥ तदा नमस्कारकाले निजे स्वकीये पित्रादौ जने किं किमर्थं नमसि नमस्कारं करोषीति पृच्छति सति । तं जनं प्रतीति शेषः । स्वस्य वस्तु स्ववस्तु स्वस्वामिभूतं विष्ण्वाख्यं वस्तु इत्यर्थः । तस्मै प्रणतिं नमस्कारं व्यधाम् अकरवम् इति ब्रुवन् वदन् । स्वभावतस्तत्तद्वस्त्वन्तर्गतभगवन्नमस्कारं कृत्वापि अमुख्यया वृत्या वस्तुशब्देन धनक्षेत्रादि इतरपदार्थस्यापि वाच्यत्वात्तत्प्रणतिं व्यधामिति पृच्छतामुत्तरं दत्वेत्यर्थः । जगद्गुरुः सकलजगतां गुरुरपि अखिललोकानां समस्तजनानां शिक्षकः । स गुरोरन्वेषणवान् विचारवान् सन् जगाम किल । किलेत्यपरमार्थे । भगवदितरस्य
सर्वस्याप्ययं गुरुस्तस्मादस्य गुर्वन्वेषणं लोकविडम्बनार्थमिति सूचयति किलशब्देन । अयं भावः । अज्ञस्य हि गुर्वपेक्षा न चायमज्ञस्तथापि ज्ञानिनां देवानां मानुषादिजन्मसु स्वज्ञानादिगुणानप्रकाश्य अज्ञवच्छ्रवणादिकं कर्तव्यमिति लोकशिक्षणार्थमेव गुर्वन्वेषणार्थं जगामेति । तच्चोक्तं ‘धर्मो हि सर्वविदुषामपि दैवतानां प्राप्ते नरेषु जनने नरवत्प्रवृत्तिः । ज्ञानादिगूहनमुताध्ययनादिरत्र’ इति ॥ ५ ॥
मन्दोपाकारिणी
निजेति ॥ तदा गृहादिषु नमस्कारकाले । निजे स्वकीये जने पित्रादिजने, हे वासुदेव ‘किं किमुद्दिश्य नमसि नमस्करोषि’ इति एवं पृच्छति सति तं निजजनं प्रति स्ववस्तुप्रणतिं स्वेषु स्वकीयेषु वस्तुषु पदार्थेषु प्रणतिं नमस्कारं व्यधां कृतवान् । ‘डु धाञ् धारणपोषणयोर् लुङ् परस्मैपदं व्यधां व्यधाव व्यधाम’ । इति एवं ब्रुवन् प्रत्युत्तरं वदन् । अत्र स्ववस्तुशब्देन मुख्यतः स्वस्वामिभूतं मुख्यं वस्तु परब्रह्मैव अभिप्रेतम् । तस्मै प्रणतिं व्यधामिति अभिप्रायं प्रकटयन् अमुख्यया वृत्या वस्तुशब्देन धनक्षेत्रादिपदार्थस्यापि वाच्यत्वात् तत्प्रणतिं व्यधामिति ब्रुवन्निव पृच्छतां प्रत्युत्तरं दत्वा । जगद्गुरुः स्वयं जगतां सकलजनानां गुरुरपि गुरोर् अन्वेषणवान् अन्वेषणं मार्गणम् अस्यास्तीति अन्वेषणवान् यत्याश्रमं गृहीतुं गुरुं विचारयन् इति यावत् । जगाम किल गतवान् हि । ‘गम्ऌ गतावित्यस्माद् लिट् परस्मैपदं जगाम जग्मतुर् जग्मुः’ । वायुर्हि भगवदितरस्य सर्वस्यापि गुरुः । अत एतस्य गुरुविचारणं लोकानुकरणार्थमेवेति सूचयति । किलशब्देन लोकविडम्बनस्य प्रयोजनमाह । अखिललोकशिक्षक इति । अखिललोकानां देवादीनां शिक्षको ऽनुशासक इति । अयं भावः । अज्ञस्य गुर्वपेक्षा । न चायम् अज्ञः । तथापि ज्ञानिनां देवादीनां मनुष्यादिजन्मसु सुखज्ञानादिगुणानप्रकाश्य अज्ञानिवद् गुरुमुखात् श्रवणादिकं कर्तव्यमिति लोकशिक्षार्थमेव गुरुम् अन्वेषणं कर्तुं जगाम इति । तच्चोक्तं ‘धर्मो हि सर्वविदुषामपि दैवतानां प्राप्ते नरेषु जनने नरवत्प्रवृत्तिः । ज्ञानादिगूहनमुताध्ययनादिरत्र’ इति ॥ ५ ॥
विश्वास-प्रस्तुतिः - ६
यतिर्यतात्मा भुवि कश्चनाभवद्विभूषणो भूरिविरक्तिभूषणः ।
न नाममात्राच्छुचिमर्थतोऽपि यं जनोऽच्युतप्रेक्षमुदाहरत्स्फुटम् ॥६॥
मूलम् - ६
यतिर्यतात्मा भुवि कश्चनाभवद्विभूषणो भूरिविरक्तिभूषणः ।
न नाममात्राच्छुचिमर्थतोऽपि यं जनोऽच्युतप्रेक्षमुदाहरत्स्फुटम् ॥६॥
भावप्रकाशिका
अच्युतप्रेक्षः प्रेक्षा प्रज्ञा प्रतिभेति ॥ ६ ॥
पदार्थदीपिकोद्बोधिका
यतिरिति ॥ जनः शुचिं वाङ्मनःकायैः शुद्धं यं यतिं, केवलं नाम नाममात्रं तस्मात् । डित्थादिवन्नाममात्रेणेत्यर्थः । अच्युतप्रेक्षम् अच्युतप्रेक्षनामानं न उदाहरन् न प्रोक्तवान् किन्तु स्फुटं सम्यग् अर्थतोऽपि, अच्युतस्य प्रेक्षा ज्ञानं यस्य सोऽच्युतप्रेक्ष इति व्युत्पत्या भगवज्ज्ञानवत्वलक्षणशब्दप्रवृत्तिनिमित्तादपीत्यर्थः । ‘प्रेक्षोप-लब्धिश्चित्संविदि’त्यमरः । अच्युतप्रेक्षमुदाहरत् । तादृशो यतिर्यतो नियत आत्मा मनो यस्य तादृशः । विगतानि भूषणानि आभरणानि यस्य तादृशः । भूरिर्बह्वी या विरक्तिः
सैव भूषणमलङ्कारो यस्य तादृशः । यत्याश्रमभूषणभूतविषयविरक्तिमानित्यर्थः । कश्चन यतिस्तस्मिन्कालेऽभवत् ॥ ६ ॥
मन्दोपाकारिणी
यतिरिति ॥ तस्मिन् काले भुवि भूमौ यतात्मा यतः निगृहीत आत्मा मनो येन सः यतात्मा । ‘अत्मा देहो मनो ब्रह्म’ इति विश्वः । विभूषणः विगतं कुण्डलादिविभूषणं यस्मात् स विभूषणः । भूरिविरक्तिभूषणः भूरिर् भूयसी विरक्तिर् वैराग्यं भूषणं यत्याश्रमयोग्यालङ्कारः यस्य स तथोक्तः । एवंभूतः कश्चन यतिः सन्यासी अभवत् । जनः शुचिं मनोवाक्वायकर्मभिः शुद्धम् । शुचिः शुद्धेऽनुपहते’ इति विश्वः । यं यतिं नाममात्रान् नामैव नाममात्रं तस्मात् शब्दत एव इति भावः । ‘अल्पे च परिमाणे स्यान्मात्रं कार्त्स्न्येऽवधारणे’ इत्यमरः । अच्युतप्रेक्षं नोदाहरत् किन्तु स्फुटं सम्यक् अर्थतोऽपि अच्युतप्रेक्षशब्दार्थवत्तयापि अच्युतप्रेक्षनामानम् उदाहरद् अन्ववदत् । अच्युतप्रेक्ष इति डित्थादिशब्दवत् सङ्केतिकं नाम तस्य न भवति किन्तु अच्युतस्य हरेः प्रेक्षा ज्ञानं यस्य स अच्युतप्रेक्ष इति सार्थकं नाम तस्य यतेरिति भावः । ‘प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्ति-चेतनाः’ इत्यमरः । अनेन शुद्धत्वं मनोनिग्रहः वैराग्यं भगवज्ज्ञानम् इत्येते सन्यासिनो विहितगुणाः । अस्मिन् अच्युतप्रेक्षे सन्तीति तस्य सन्यासं दातुम् अधिकारोऽस्ती-
त्युक्तं भवति ॥ ६ ॥
विश्वास-प्रस्तुतिः - ७
पुरैष कृष्णाकरसिद्धशुद्धिमद्वरान्नभुक्त्या किल पाण्डवालये ।
विशोधितात्मा मधुकृत्प्रवृत्तिमांश्चचार कांश्चित् परिवत्सरान् मुदा ॥ ७ ॥
मूलम् - ७
पुरैष कृष्णाकरसिद्धशुद्धिमद्वरान्नभुक्त्या किल पाण्डवालये ।
विशोधितात्मा मधुकृत्प्रवृत्तिमांश्चचार कांश्चित् परिवत्सरान् मुदा ॥ ७ ॥
पदार्थदीपिकोद्बोधिका
पुरेति ॥ एषोऽच्युतप्रेक्षः पुरा पूर्वजन्मनि यतिः सन् मधु करोतीति मधुकृत् तस्य प्रवृत्तिः । ततस्ततो गत्वा पुष्परसादानलक्षणव्यापारः, सा अस्यास्तीति तादृशः । मधुकरवत् तत्र तत्र भिक्षाटनलक्षणमाधूकरव्रतनियतः सन्नित्यर्थः । कृष्णाया द्रौपद्याः करेण सिद्धं निष्पन्नम् अत एव शुद्धिमद् वरान्नम् उत्तमान्नं तस्य भुक्त्या भोजनेन विशोधितो निर्मलीकृत आत्मा मनो यस्य तादृशः सन् । ‘अन्नमशितं त्रेधा विधीयत’ इति श्रुतेर् उपभुक्तस्यान्नस्यान्तःकरणपरिणामहेतुत्वादिति भावः । पाण्डवा-नामालयो मन्दिरं यस्मिन् तस्मिन् पाण्डवानां हस्तिनापुरादिदेश इत्यर्थः । पाण्डवानामालय इति वा योजना । कांश्चित्परिवत्सरान् संवत्सरान् मुदा प्रीत्या चचार सञ्चचार ।
किलेति ऐतिह्ये ॥ ७ ॥
मन्दोपाकारिणी
पुरेति ॥ एषो ऽच्युतप्रेक्षनामा यतिः । पुरा पूर्वजन्मनि यतिः सन् । मधुकृत्प्रवृत्तिमान् मधुकृन् मधुकरः भ्रमरस् तस्य प्रवृत्तिरिव प्रवृत्तिर् अस्यास्तीति मधुकृत्प्रवृत्तिमान् । भ्रमरो यथा तत्र तत्र अनेकपुष्परसपानेन वर्तते तथा अयमपि गृहे गृहे स्वयोग्यानेकभिक्षान्नम् अश्नन् वर्तमान इति भावः । ‘मधुव्रतो मधुकरो मधुलिण्मधुपालिनः’ इत्यमरः । तादृशः सन् । कृष्णाकरसिद्धशुद्धिमद्वरान्नभुक्त्या कृष्णाया द्रौपद्याः करः हस्तस् तेन सिद्धं निष्पन्नं कृतपाकमिति यावत् । शुद्धिः पावित्र्यम् अस्यास्तीति शुद्धिमत् । द्रौपदीकरकृतत्वादेव पवित्रमित्यर्थः । अत एव वरम् उत्तमम् अन्नं भिक्षया लब्धम् ओदनं तस्य भुक्त्या भोजनेन । कृष्णायाः करः कृष्णाकरः । कृष्णाकरेण सिद्धं कृष्णाकरसिद्धम् । वरं च तद् अन्नं च वरान्नम् । शुद्धिमच्च तद् वरान्नं च शुद्धिमद्वरान्नम् । कृष्णाकरसिद्धं च तत् शुद्धिमद्वरान्नं च तस्य भुक्तिस् तया कृष्णाकरसिद्धशुद्धिमद्वरान्नभुक्त्या । विशोधितात्मा विशोधितः पवित्रीकृत आत्मा देहो मनश्च यस्य स तथोक्तः । पाण्डवालये पाण्डवानाम् आलयः गृहं यस्मिन्देशे स पाण्डवालयस् तस्मिन् हस्तिनावतीपुरादौ पाण्डवदेशे । कांश्चित् परिवत्सरान् संवत्सरान् मुदा सन्तोषेण चचार । किल इत्यनेन एवम् एतत् प्रसिद्धम्
अस्तीति सूचयति । पूर्वजन्मनि यतिरेषः भिक्षाचरणनियमवान् सन् द्रौपदीदत्त-भिक्षान्नभोजनेन निर्मलीकृतदेहान्तःकरणः सन् कतिपयवर्षेषु मुदा पाण्डवदेशे सञ्चारं कुर्वन् अभूदिति भावः ॥ ७ ॥
विश्वास-प्रस्तुतिः - ८
अभूत्कुशास्त्राभ्यसनं न पातकं क्रमागताद्विप्रतिसारतो यतेः ।
यथा कुशस्त्राध्यसनं मुरद्विषः पदाम्बुजे व्याधवरस्य गर्हितम्॥ ८॥
मूलम् - ८
अभूत्कुशास्त्राभ्यसनं न पातकं क्रमागताद्विप्रतिसारतो यतेः ।
यथा कुशस्त्राध्यसनं मुरद्विषः पदाम्बुजे व्याधवरस्य गर्हितम्॥ ८॥
भावप्रकाशिका
विप्रतिसारः पश्चात्तापः ॥ ८ ॥
पदार्थदीपिकोद्बोधिका
अभूदिति ॥ यतेर् अच्युतप्रेक्षस्य क्रमेणागतात् क्रमप्राप्तात् श्रीमध्वशास्त्रश्रवणानन्तरमुत्पन्नादित्यर्थः । विप्रतिसारादिति विप्रतिसारतः पश्चात्तापादि-त्यर्थः । ‘पश्चात्तापोऽनुतापस्याद्विप्रतीसार इत्यपि’ इत्यमरः । कुशास्त्रस्य कुत्सितमायि-शास्त्रस्य अभ्यसनं श्रवणादिरूपाभ्यासः पातकम् अधःपातकारणं नाभूत् । पश्चात्तापात्पात-किनामपि पापनिवृत्तिसंभवादिति भावः । तत्र दृष्टान्तमाह– यथेति । मुरद्विषः श्रीकृष्णस्य पदाम्बुजे व्याधवरस्य जराव्याधनाम्नो व्याधश्रेष्ठस्य । कुत्सितं च तत् शस्त्राध्यसनं च कुशस्त्राध्यसनं यथा तद्वत् । श्रीकृष्णस्य स्वलोकारोहणकाले जराव्याधेन भ्रान्त्या कृतं बाणेन श्रीकृष्णपादतले ताडनं, तस्य ‘अयं श्रीकृष्ण’ इति ज्ञानानन्तरं पश्चात्तापेन नरकसाधनं न जातम् । तद्वन्मायिशास्त्रादिकुशास्त्रश्रवणमप्यस्य पश्चात्तापान्नरकप्राप्तिसाधनं नाभूदिति भावः ॥ ८ ॥
मन्दोपाकारिणी
अभूदिति ॥ यतेर् अच्युतप्रेक्षस्य क्रमागतात् क्रमेण आगतात् प्राप्ताद् विप्रतिसारतः पश्चात्तापात् ‘पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि’ इत्यमरः । कुशास्त्राभ्यसनं कुत्सितं च तत् शास्त्रं च कुशास्त्रं मायिशास्त्रम् । ‘पापकुत्सेषदर्थे कु धिङ् निर्भर्त्सननिन्दयोः’ इत्यमरः । तस्याभ्यसनं श्रवणमननादिरूपाभ्यासो ऽसकृदावर्तनम् पातकम् अधःपातकारणं नाभून् मायिप्रणीतकुत्सितशास्त्रश्रवणादिकं नित्यनिरयपातकारणमपि अस्य पातकारणं नाभूत् । कुतः । श्रीमध्वशास्त्रश्रवणानन्तरम् उत्पन्नपश्चात्तापेन पातक-निवृत्तिसंभवादिति भावः । अत्र दृष्टान्तमाह—यथेति । मुरद्विषः मुरनामकासुरस्य द्विट् द्वेषी तस्य श्रीयादवकृष्णस्य पदाम्बुजे पदं पादो ऽम्बुजं कमलमिव तस्मिन् । व्याधवरस्य जरानाम्नो व्याधश्रेष्ठस्य कुशस्त्राध्यसनं कुशस्त्रस्य बाणस्य अध्यसनं क्षेपणं कुशस्त्राध्यसनं तस्य व्याधस्या पश्चात्तापाद् यथा गर्हितं पातककारणं नाभूत्, तथेति पूर्वेणान्वयः । अयम् अत्र कथासङ्ग्रहः । सर्वयादवानां स्वर्गगमनकाले अश्वत्थमूले उपविष्टस्य श्रीकृष्णस्य अतिरक्ते पादतले पक्षीति भ्रान्त्या जरानामको व्याधः शरं चिक्षेप । अनन्तरं तत्समीपम् आगत्य श्रीकृष्णं दृष्ट्वा पश्चात्तापं कृतवान् । तेन कुत्सितं शरक्षेपणकर्म पापकारणं नाभूदिति ॥ ८ ॥
विश्वास-प्रस्तुतिः - ९
विनीतमाम्नायशिरोविशारदं सदैव तत्त्वं प्रबुभुत्सुमादरात् ।
गुरुर्विदित्वोपगतां निजां मृतिं कदाचिदूचे तमुपह्वरे गिरम्॥ ९ ॥
मूलम् - ९
विनीतमाम्नायशिरोविशारदं सदैव तत्त्वं प्रबुभुत्सुमादरात् ।
गुरुर्विदित्वोपगतां निजां मृतिं कदाचिदूचे तमुपह्वरे गिरम्॥ ९ ॥
पदार्थदीपिकोद्बोधिका
विनीतमिति ॥ गुरुर् अच्युतप्रेक्षस्य गुरुः कदाचिन् निजां मृतिं मरणम् उपगतां समीपगतां विदित्वा । विनीतं विनयोपेतम् । आम्नायानां वेदानां शिरांसीव आम्नायशिरांसि उपनिषदस् तेषु विशारदं विचारविचक्षणं सदा तत्त्वं भगवत्तत्त्व-मेव । आदर आसक्तिस्तस्मात् प्रकर्षेण याथार्थ्येन बोद्धुमिच्छुं प्रबुभुत्सुं तं शिष्यम् उपह्वरे एकान्ते । ‘रहः प्रच्छन्नमेकान्तनिःशब्दकमुपह्वरम्’ इति हलः । गिरं वाचमूचे उवाच ॥ ९ ॥
मन्दोपाकारिणी
विनीतमिति ॥ गुरुर् अच्युतप्रेक्षस्य गुरुः । कदाचित् कस्मिंश्चिद् दिवसे । निजां स्वकीयां मृतिं मरणम् उपगतां समीपे आगतां विदित्वा ज्ञात्वा समीपवर्तिनं मरणकालं ज्ञात्वा इत्यर्थः । विनीतं वश्यं ‘वश्यः प्रणेयो निभृतविनीतप्रश्रिताः समाः’ इत्यमरः । विनयोपेतमिति यावत् । आम्नायशिरोविशारदम् आम्नाया वेदाः ‘श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः’ इत्यमरः । तेषां शिरांसि शीर्षस्थानीया उपनिषद इत्यर्थः । तासु तदर्थविचारे विशारदं विचक्षणम् । सदा तत्त्वमेव भगवत्स्वरूपमेव प्रबुभुत्सुं प्रकर्षेण सामर्थ्येन बोद्धुमिच्छन्तं तं स्वशिष्यम् अच्युतप्रेक्षम् उपह्वरे एकान्ते । ‘उपह्वरे समीपे स्यादेकान्ते च रथे पुमान्’ इति विश्वः । आदरात् स्नेहाद् गिरं वाचम् ऊचे अब्रवीत् । ‘वच परिभाषण इत्यतो लिडात्मनेपदम् ऊचे ऊचाते ऊचिरे’ ॥ ९ ॥
विश्वास-प्रस्तुतिः - १०
अहं स्वयं ब्रह्म न किञ्चिदस्ति मत्परं विजृम्भेत यदा स्फुटं चितिः ।
इतीह मायासमयोपपादितं निरन्वयं सुव्रत मा स्म विश्वसीः॥१०॥
मूलम् - १०
अहं स्वयं ब्रह्म न किञ्चिदस्ति मत्परं विजृम्भेत यदा स्फुटं चितिः ।
इतीह मायासमयोपपादितं निरन्वयं सुव्रत मा स्म विश्वसीः॥१०॥
पदार्थदीपिकोद्बोधिका
वचनप्रकारमेव दर्शयति— अहमिति ॥ सु शोभनं व्रतं यस्य तत्सम्बुद्धिः । हे सुव्रत अहं स्वयं साक्षाद् ब्रह्म परब्रह्म इति चितिर् ज्ञानं यदा स्फुटं सम्यग् विजृम्भेत परिपक्वं भवेत् । ‘जृभि गात्रविनामे’ । तदा मन् मत्तः परं व्यतिरिक्तं किञ्चिद्वस्तु नास्ति, इति इह तत्त्वविषये माया कल्पितं ब्रह्मव्यतिरिक्तमिति समयः सिद्धान्तः मायासमयः मायावादिशास्त्रमित्यर्थः । तस्मिन् ‘समयस्तु क्रियाकारे सङ्केते चरिते सताम् । सिद्धान्ते शपथे काल’ इति वैजयन्ती । उपपादितं समर्थितं प्रमेयमिति शेषः । यतः निर्गता अन्वया उपपत्त्यादिलिङ्गानि यस्मात्तं निरन्वयं युक्तिशून्यमित्यर्थः । तस्माद् इह अस्मिन् प्रमेये मा स्म विश्वसीर् विश्वासं मा कार्षीः । श्वस प्राणने लुङ् । न माङ्योगे इत्यडभावः । अत्र विश्वासकरणे हेतुत्वेन निरन्वयमिति हेतुगर्भं विशेषणं प्रयुक्तम् । तथा च युक्तिशून्यत्वाद्विश्वासो न कार्य इति भावः ॥ १० ॥
मन्दोपाकारिणी
किमुवाच इत्यत आह अहमित्यादिना ॥ सुव्रत शोभनानि व्रतानि विष्णुपञ्चकादीनि यस्य सः सुव्रतस् तस्य संबुद्धिर् हे सुव्रत स्वयं साक्षाद् ब्रह्म इति चितिर् ज्ञानम् । चिती संज्ञान इति धातोः । यदा स्फुटं सम्यक् विजृम्भेत परिपक्वं भवेत् तदा मत्परं मन् मत्तः परं व्यतिरिक्तं किञ्चिन् नास्ति । इति एवं, इह तत्त्वविषये मायासमयोपपादितं मायाया अज्ञानस्य समयः सिद्धान्तः । समयाः शपथाचारकाल-सिद्धान्तसंविदः’ इत्यमरः । तस्मिन् उपपादितं समर्थितं प्रमेयमिति शेषः । मा विश्वसीर् अत्र प्रमेये विश्वासं मा कार्षीः । ‘विपूर्वकात् श्वस प्राणन इति धातोर्लुङ् परस्मैपदम् अविश्वसीर् अविश्वसिष्टम् अविश्वसिष्ट’ । कथंभूतं प्रमेयम्, निरन्वयं निर्गतो ऽन्वय उपपत्यादिलिङ्गं यस्मात् तं निरन्वयम् । हेतुगर्भमिदं विशेषणम् । उपपत्यादयस्तु ‘उपक्रमोपसंहाराव-भ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये’ इत्यत्रोक्ता ज्ञेयाः ॥ १० ॥
विश्वास-प्रस्तुतिः - ११
यदेतदात्मैक्यमुपास्तिचोदितं न मे गुरोरप्यपरोक्षतां गतम् ।
पुरातनानामपि सौम्य कुत्रचित् ततो मुकुन्दं भज संविदे मुदा ॥ ११ ॥
मूलम् - ११
यदेतदात्मैक्यमुपास्तिचोदितं न मे गुरोरप्यपरोक्षतां गतम् ।
पुरातनानामपि सौम्य कुत्रचित् ततो मुकुन्दं भज संविदे मुदा ॥ ११ ॥
पदार्थदीपिकोद्बोधिका
यदिति ॥ उपास्तये उपासनाय चोदितं मायिना प्रोक्तं यदात्मैक्यं चेतनानामैक्यं सर्वेषां चेतनानां ब्रह्मैक्यमिति भावः । एतन् मे गुरोरप्यपरोक्षतां प्रत्यक्षतां न गतं न प्राप्तम् । न केवलं मे गुरोरेव, किन्तु पुरातनानामपि मद्गुर्वपेक्षया पूर्वजानामपि कुत्रचिद् अपरोक्षतां न गतम् । हे सौम्य शोभन तत आत्मैक्यस्य प्रत्यक्षागोचरत्वाद्युक्त्यादिरहितत्वाच्च मुकुन्दं मोक्षप्रदं श्रीहरिं मुदा प्रसन्नबुद्ध्या संविदे तत्वज्ञानाय भज । तत्वज्ञानाय प्रार्थयन् सन् भजेति भावः ॥ ११ ॥
मन्दोपाकारिणी
यदिति ॥ हे सौम्य शान्तरूप उपास्तिचोदितम् उपास्तये उपासनाय चोदितं मायावादिनोक्तं यद् आत्मैक्यम् आत्मनां जीवानाम् ऐक्यं ब्रह्मणा अभेदः । ‘आत्मा यत्ने धृतौ जीवे’ इति भास्करः । तज् जीवब्रह्मैक्यं मे मम गुरोरपि अपरोक्षतां प्रत्यक्षविषयतां न गतं न प्राप्तं न केवलं मम गुरोरेव किन्तु पुरातनानामपि मम गुरोः सकाशात् पूर्वेषामपि ज्ञानिनां कुत्रचित् कस्मिंश्चिज् जीवे जीवब्रह्मैक्यम् अपरोक्षतां न गतम् । ततश्च आत्मैक्यस्य साक्षात्कारागोचरत्वाद् युक्तयादिरहितत्वाच्च । मुकुन्दं सर्वेषां जीवानां मोक्षप्रदम् अत्यन्तभिन्नमिति यावत् । हरिं मुदा सन्तोषेण प्रसन्नबुद्धिस्सन् इति भावः ।
संविदे तत्त्वज्ञानाय भज उपास्व । ‘भज सेवायाम् इत्यतो लोट् परस्मैपदं भज भजतं
भजत’ इति ॥ ११ ॥
विश्वास-प्रस्तुतिः - १२
इतीदमादिश्य वचो वचस्विनि स्वके गुरौ लोकमथान्यमीयुषि ।
असेवतालोच्य मुहुर्गुरोर्गिरं स रूप्यपीठालयमिन्दिरावरम्॥ १२ ॥
मूलम् - १२
इतीदमादिश्य वचो वचस्विनि स्वके गुरौ लोकमथान्यमीयुषि ।
असेवतालोच्य मुहुर्गुरोर्गिरं स रूप्यपीठालयमिन्दिरावरम्॥ १२ ॥
भावप्रकाशिका
वचस्विनि । ‘अस्मायामेधास्रजो विनिः’ (५.२.१२१) इति विनिः ॥ १२ ॥
पदार्थदीपिकोद्बोधिका
इतीति ॥ वचांसि अस्य सन्तीति वचस्वी तस्मिन् चतुरवचसीत्यर्थः । स्वके स्वसम्बन्धिनि गुरा,ै इति इदं वच आदिश्योक्त्वा अन्यं परं लोकम् ईयुषि सति गते सति अथ स अच्युतप्रेक्षः गुरोः स्वगुरोर्गिरं ‘अहं स्वयं ब्रह्मेत्यारभ्य मुकुन्दं भज संविदे मुदा’ इत्यन्तां वाचम् मुहुः पुनः पुन आलोच्य गुरूक्तप्रकारेण कुर्यां न वेति विचार्य अन्ततः करोमीत्येव निश्चित्य रूप्यपीठमालयो यस्य तम् इन्दिरावरं रमापतिं श्रीमदनन्तासनम् असेवत । षेवृ सेवने लङ् ॥ १२ ॥
मन्दोपाकारिणी
इतीति ॥ वचस्विनि चतुरवचने । स्व एव स्वकः स्वार्थे कस् तस्मिन् । ‘आत्मीये स्वोऽस्त्रियां धने’ इति विश्वः । गुरौ इति इत्थम् इदं पूर्वोक्तं वचः वचनं ‘भाषितं वचनं वचः’ इत्यमरः । आदिश्य उपदिश्य अन्यं लोकं परलोकम् ईयुषि सति गते सति मृते सतीति यावत् । अथ अनन्तरं सो ऽच्युतप्रेक्षः गुरोर् गिरं मुकुन्दं भज इत्युक्तां वाचं मुहुः पुनः पुन आलोच्य विचार्य अन्ततः करोम्येवेति निश्चित्य रूप्यपीठालयं रूप्यपीठं रजतपीठपुरम् आलयो यस्य स तथोक्तस् तम् इन्दिरावरम् इन्दिराया लक्ष्म्या वरं पतिम् अनन्तेश्वरम् । इन्दिरापतिम् इति क्वचित् पाठः । असेवत अभजत् । ‘सेव् सेवने इत्यस्माल्लङात्मनेपदम् असेवत असेवेताम् असेवन्त’ इति ॥ १२ ॥
विश्वास-प्रस्तुतिः - १३
सुभक्तिना तेन स भक्तवत्सलो निषेवितस्तत्र परं बुभुत्सुना ।
भविष्यतः शिष्यवराद्धि विद्धि मामिति प्रविष्टः पुरुषं तमभ्यधात् ॥ १३॥
मूलम् - १३
सुभक्तिना तेन स भक्तवत्सलो निषेवितस्तत्र परं बुभुत्सुना ।
भविष्यतः शिष्यवराद्धि विद्धि मामिति प्रविष्टः पुरुषं तमभ्यधात् ॥ १३॥
पदार्थदीपिकोद्बोधिका
सुभक्तिनेति ॥ परं सर्वोत्तमं हरिं बोद्धुमिच्छुना बुभुत्सुना शोभना भक्तिर्यस्य तेन सुभक्तिना अच्युतप्रेक्षेण । तत्र रजतपीठपुरे निषेवितो नितरां सेवितः भक्तेषु वत्सलः स्निग्धः भक्तप्रिय इत्यर्थः । स हरिः कालान्तरे पुरुषं कञ्चन पुरुषं प्रविष्टः सन् तम् अच्युतप्रेक्षं प्रति भविष्यतः शिष्यवराच्छिष्यश्रेष्ठान् मां विद्धि जानीहि इति अभ्यधाद् अब्रवीत् । तत्त्वजिज्ञासुना त्वया सेवितोऽहं परितुष्टोऽस्मि । तस्मान्मत्प्रसादादेव तव शिष्यवरो भविष्यति । तदुक्तप्रकारेण मां जानीहीत्यभ्यधादिति भावः ॥ १३ ॥
मन्दोपाकारिणी
सुभक्तिनेति ॥ परं सर्वोत्तमम् । ‘दूरानात्मोत्तमाः पराः’ इत्यमरः । हरिं बुभुत्सुना ज्ञातुम् इच्छता सुभक्तिना सु अतिशयिता भक्तिर् यस्य सः सुभक्तिस् तेन सुभक्तिना । तेन अच्युतप्रेक्षेण तत्र रजतपीठपुरे निषेवितः नितरां सेवितः भक्तवत्सलः भक्तेषु स्निग्धः ‘स्निग्धस्तु वत्सलः’ इत्यमरः सो ऽनन्तेश्वरः पुरुषं कञ्चन पुरुषं प्रविष्टः सन् हे अच्युतप्रेक्ष त्वं भविष्यतः कालान्तरे आगमिष्यतः शिष्यवराद्धि शिष्येषु उत्तमादेव हि । ‘हि हेताववधारणे’ इत्यमरः । मां विद्धि जानीहि इति अभ्यधाद् अब्रवीत् । ‘विद ज्ञान इत्यतो लोट् परस्मैपदं विद्धि वित्तात्, वित्तं वित्त’ । अभिपूर्वकाड् डु धाञ् धातोर् लुङ् परस्मैपदम् अधाद् अधाताम् अधुः’ । अयं भावः । ‘हे अच्युतप्रेक्ष मद्विषयतत्त्वज्ञानार्थं त्वया सेवितोऽहं परितुष्टोऽस्मि । मत्प्रसादादेव उत्तमः शिष्यो भविता । तदुक्तप्रकारेणैव मां जानीहि’ इति अब्रवीद् इति ॥ १३ ॥
विश्वास-प्रस्तुतिः - १४
प्रतीक्षमाणं तमनुग्रहं मुदा निषेवमाणं पुनरम्बुजेक्षणम् ।
सतां गुरुः कारणमानुषाकृतिर्यतिं प्रशान्तं तमुपाससाद सः॥ १४॥
मूलम् - १४
प्रतीक्षमाणं तमनुग्रहं मुदा निषेवमाणं पुनरम्बुजेक्षणम् ।
सतां गुरुः कारणमानुषाकृतिर्यतिं प्रशान्तं तमुपाससाद सः॥ १४॥
पदार्थदीपिकोद्बोधिका
प्रतीक्षमाणमिति ॥ सतां गुरुः कारणेन मत्तत्त्वज्ञान-प्रवर्तनलक्षणनिमित्तेन मानुषाकृतिर् मनुष्यस्वरूपं यस्य तादृशः । ‘आकृतिस्तु जातौ रूपे वपुष्यपि’ इति हेमचन्द्रः । स वासुदेवनामा, तं हरिकृतमनुग्रहं प्रतीक्षमाणं पुनः मुदा अम्बुरुहवद् ईक्षणं दृष्टिर्यस्य तं हरिं निषेवमाणं नितरां सेवन्तं प्रशान्तं तं यतिम् अच्युतप्रेक्षम् उपाससाद शिष्यभावमाप्तुमुपजगाम ॥ १४ ॥
मन्दोपाकारिणी
प्रतीक्षमाणमिति ॥ सतां सज्जनानां गुरुर् ज्ञानोपदेष्टा कारणमानुषाकृतिः कारणेन निमित्तेन मानुषस्य आकृतिर् देहो यस्य स तथोक्तः । सः वासुदेवस् तं हरिकृतम् अनुग्रहं शिष्यप्राप्तिरूपं प्रसादं प्रतीक्षमाणं कदा वा आगमिष्यति शिष्य इति ध्यायन्तं पुनः भूयोऽपि अम्बुजेक्षणम् अम्बुजवत् कमलवद् ईक्षणे चक्षुषी यस्य स तथोक्तस् तं हरिं मुदा निषेवमाणं भजन्तं प्रशान्तं हरौ प्रकर्षेण निष्ठावन्तं यतिं सन्यासिनं तम् अच्युतप्रेक्षम् उपाससाद उपसत्तिमकरोत् । शिष्यत्वम् आप्तुं शुश्रूषितवानिति भावः ।
‘उप आङ् पूर्वात् षद्ऌ विशरणगत्यवसादनेषु इति धातोर्लिट् परस्मैपदं ससाद सेदतुः
सेदुः’ इति ॥ १४ ॥
विश्वास-प्रस्तुतिः - १५
सुतं यतीन्द्रानुचरं विरागिणं निशम्य संन्यासनिबद्धमानसम् ।
सुवत्सलौ रूप्यतलालयस्थितं वियोगतान्तौ पितरौ समीयतुः ॥ १५ ॥
मूलम् - १५
सुतं यतीन्द्रानुचरं विरागिणं निशम्य संन्यासनिबद्धमानसम् ।
सुवत्सलौ रूप्यतलालयस्थितं वियोगतान्तौ पितरौ समीयतुः ॥ १५ ॥
पदार्थदीपिकोद्बोधिका
सुतमिति ॥ सुवत्सलौ सु सम्यक् वत्सलौ स्नेहयुक्तौ वियोगतान्तौ वियोगक्लिन्नौ तौ, माता च पिता च पितरौ । ‘पिता मात्रा’ इत्येकशेषः । सुतं यतीन्द्रानुचरम् अच्युतप्रेक्षशिष्यभूतं विरागोऽस्यास्तीति विरागी तम् । संन्यासे निबद्धं निषण्णं मानसं मनो यस्य तम् । ‘स्वान्तं हृन्मानसं मनः’ इत्यमरः । रूप्यतले रूप्यपीठे य आलयो मन्दिरं तस्मिन् स्थितं निशम्य समीयतुः । सुतं द्रष्टुं संन्यासान्निवारयितु-मप्यागतौ ॥ १५ ॥
मन्दोपाकारिणी
सुतमिति ॥ सुवत्सलौ सुष्ठु पुत्रस्नेहवन्तौ । वियोगतान्तौ वियोगेन पुत्रविरहेण तान्तौ ग्लानिं प्राप्तवन्तौ । तमु ग्लानाविति धातोः । पुत्रविरहम् असहमानौ इति भावः । पितरौ वासुदेवस्य जननीजनकौ सुतं यतीन्द्रानुचरं यतीन्द्रस्य सन्यासिश्रेष्ठस्य अच्युतप्रेक्षस्य अनुचरं सेवकं विरागिणं रागः विषयेषु आसक्तिर् अस्यास्तीति रागी स न भवतीति विरागी तं विरागिणं विरक्तमित्यर्थः । ‘रागोऽनुरागो मात्सर्ये’ इति रत्नमाला । सन्यासनिबद्धमानसं सन्यासे सन्यासाश्रमस्वीकारविषये निबद्धं कृतनिश्चयं मानसम् अन्तः- करणं यस्य स तथोक्तस्तम् । रूप्यतलालयस्थितं रूप्यं रजतं तलं स्वरूपं यस्य सः रूप्यतलः । ‘तलं स्वरूपाधारयोः’ इति विश्वः । रूप्यतलः रूप्यात्मकश्चासौ आलयश्च रूप्यतलालयः रजतपीठपुरमित्यर्थः । तस्मिन् वर्तमानं निशम्य श्रुत्वा समीयतुर् द्रष्टुं सन्यासाश्रमं निवारयितुमपि जग्मतुः । पाजकक्षेत्रादिति शेषः । ‘इण् गतावित्यतो लिट् परस्मैपदम् इयाय ईयतुर् ईयुः’ ॥ १५ ॥
विश्वास-प्रस्तुतिः - १६
वराश्रमस्ते जरतोरनाथयोर्न जीवतोः स्यादयि नन्दनावयोः ।
सयाचनं वाक्यमुदीर्य ताविदं परीत्य पुत्राय नतिं वितेनतुः॥ १६ ॥
मूलम् - १६
वराश्रमस्ते जरतोरनाथयोर्न जीवतोः स्यादयि नन्दनावयोः ।
सयाचनं वाक्यमुदीर्य ताविदं परीत्य पुत्राय नतिं वितेनतुः॥ १६ ॥
पदार्थदीपिकोद्बोधिका
वरेति ॥ तौ पितरौ अयि नन्दन अयीत्यव्ययं प्रार्थने वर्तते । अयि सुत जरतोः स्थविरयोः । न विद्यते नाथः रक्षको ययोस्तयोर् अन्ते वयसि त्वां विना पालकरहितयोरित्यर्थः । आवयोर्जीवतोर्जीवनवतोस्सतोः, ते तव वराश्रम उत्तमाश्रमः संन्यासाश्रम इत्यर्थः न स्यान् न भवेत्, इति सयाचनं प्रार्थनया सहितमिदं वाक्यमुदीर्य परीत्य प्रदक्षिणीकृत्य पुत्राय नतिं नमस्कारं वितेनतुः प्रचक्रतुः ॥ १६ ॥
मन्दोपाकारिणी
वरेति ॥ तौ पितरौ । अयि नन्दन सुत जरतोर् वृद्धयोः । ‘प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि’ इत्यमरः । अनाथयोर् अन्ते वयसि त्वां विना पालकरहितयोर् जीवतोर् जीवमानयोः सतोः, ते तव वराश्रमः वर उत्तम आश्रमः यत्याश्रमः न स्यान् न भवेत् । इति एवं प्रकारेण सयाचनं याचना प्रार्थना तया सहितम् इदं वाक्यम् उदीर्य उक्त्वा परीत्य प्रदक्षिणीकृत्य पुत्राय वासुदेवाय नतिं नमस्कारम् । ‘नतिः स्त्रियां नमस्कारः प्रणामश्च नमस्क्रिया’ इत्यमरः । वितेनतुश् चक्रतुः । ‘तनु विस्तार इत्यतो लिट् परस्मैपदं ततान तेनतुस् तेनुः’ ॥ १६ ॥
विश्वास-प्रस्तुतिः - १७
नतिर्न शुश्रूषुजनाय शस्यते नतं भवद्भ्यां स्फुटमत्र साम्प्रतम् ।
अहो विधात्रा स्वयमेव दापिता तदभ्यनुज्ञेति जगाद स प्रभुः ॥ १७ ॥
मूलम् - १७
नतिर्न शुश्रूषुजनाय शस्यते नतं भवद्भ्यां स्फुटमत्र साम्प्रतम् ।
अहो विधात्रा स्वयमेव दापिता तदभ्यनुज्ञेति जगाद स प्रभुः ॥ १७ ॥
पदार्थदीपिकोद्बोधिका
नतिरिति ॥ शुश्रूषुजनाय सेवकजनाय नतिर्नमस्कारः न शस्यते न प्रशस्यते । शसु इच्छायाम् । तथापि अत्र सेवके मयि साम्प्रतम् इदानीं स्फुटं सर्वजनसमक्षं भवद्भ्यां नतं नमनं कृतम् । तत एव विधात्रा सर्वप्रेरणादिकर्त्रा श्रीहरिणा स्वयमेव मत्प्रार्थनं विनैव तस्य यत्याश्रमस्य अभ्यनुज्ञा अनुज्ञा दापिता प्रदापिता । अहो आश्चर्यम् प्रभुः स, इति जगाद ऊचे । अयं भावः । उत्तमो नम्यो, हीनो न इति विधिविहितनियमः । तथा च भवद्भ्यां नत्वा मम प्रकृतयत्याश्रमनिर्बन्धनादुत्तमत्वं भविष्यतीति विधिना सूचितम् । तस्माद्विधिना एवाभ्यनुज्ञातत्वान् मम यत्याश्रमोऽपरि-
हार्य इति ॥ १७ ॥
मन्दोपाकारिणी
नतिरिति ॥ शुश्रूषुजनाय शुश्रूषुः सेवकश्चासौ जनश्च शुश्रूषुजनस् तस्मै । नतिर् नमस्कारः न शस्यते न प्रशस्यते न विहिता इति भावः । तथापि अत्र सेवके मयि सांप्रतम् अधुना । ‘एतर्हि संप्रतीदानीमधुना सांप्रतं तथा’ इत्यमरः । स्फुटं सर्वजनसमक्षं भवद्भ्यां युवाभ्यां नतं नमस्कृतं तत एव विधात्रा अदृष्टप्रेरकेण हरिणा स्वयमेव मत्प्रार्थनां विनैव तदभ्यनुज्ञा तस्मिन् यत्याश्रमस्वीकारविषये अभ्यनुज्ञा अनुमतिर् दापिता प्रदापिता । अहो एतदाश्चर्यम् अयं भावः, उत्तमो नम्यः, कनिष्ठश्च नमस्कर्ता इति विहितो नियमः । तथा च भवद्भ्याम् उत्तमाभ्यां नतत्वान् मम प्रकृतयत्याश्रमनिमित्तम् उत्तमत्वं भविष्यतीति विधिना सूचितम् । तस्माद् विधिना भवद्भ्याम् अनुज्ञाया दापितत्वान् मम वराश्रमोऽपरिहार्य एव इति भावः । इति इत्थं स प्रभुर् वासुदेवः पितरौ प्रति जगाद अब्रवीत् । ‘गद व्यक्तायां वाचीत्यतो लिट् परस्मैपदं जगाद जगदतुर् जगदुः’ ॥ १७ ॥
अनुत्तरज्ञः स तमर्थयन् पुनर्यतीन्द्रमानम्य गतः प्रियायुतः ।
गृहे वसन् कल्पसमान् क्षणान्नयन् सुताननेन्दोरनिशं ततोऽस्मरत् ॥१८।
भावप्रकाशिका
सुताननेन्दोरस्मरत् ‘अधीगर्थदयेशां कर्मणि’ (२.३.५२) इति कर्मणि षष्ठी ॥ १८ ॥
पदार्थदीपिकोद्बोधिका
अनुत्तरेति ॥ ततः स मध्यगेहभट्टः । उत्तरं प्रत्युत्तरं न जानातीत्यनुत्तरज्ञः । पुत्रोक्तवाक्यस्य प्रत्युत्तरं दातुमजानन्नित्यर्थः । प्रियायुतः भार्यायुतः सन् पुनस्तं पुत्रमर्थयन् । अयि नन्दन त्वया यत्याश्रमो न स्वीकर्तव्य इति प्रार्थयन् सन्, तं यतीन्द्रं यतिश्रेष्ठमच्युतप्रेक्षम् आनम्य नत्वा, अस्मै यत्याश्रमो न देय इति प्रार्थयन्निति वा योजना । गतः स्वमन्दिरं गतः । ततः स्वगृहप्राप्त्यनन्तरं गृहे मन्दिरे वसन् क्षणान् एकैकक्षणमपि कल्पेन कल्पाख्यकालेन समान् सदृशान् नयन् गमयन् सन् अनिशं निरन्तरं सुताननेन्दोः सुतमुखचन्द्रस्य अस्मरत् । अत्र ‘अधीगर्थदयेशां कर्मणि’ इति षष्ठी । इगर्थः स्मरणार्थः, इक् स्मरण इति धातोः । दुःखिनां क्षणोऽपि कल्पायते , सुखिनां कल्पोऽपि क्षणायत इति प्रसिद्धेः कल्पसमानित्युक्तम् ॥ १८ ॥
मन्दोपाकारिणी
अनुत्तरज्ञ इति ॥ सः मध्यगेहो ऽनुत्तरज्ञ उत्तरं प्रत्युत्तरं न जानातीति अनुत्तरज्ञः सुतवचनस्य प्रत्युत्तरमजानन् सन् । प्रियायुतः प्रियया भार्यया युतः युक्तस्सन् । पुनः भूयोऽपि तं पुत्रम् अर्थयन् अयि नन्दन यत्याश्रमो न स्वीकर्तव्य इति प्रार्थयन् । यतीन्द्रं यतिश्रेष्ठम् अच्युतप्रेक्षम् आनम्य नत्वा अर्थयन् अस्मै मत्पुत्राय यत्याश्रमो न दातव्य इति प्रार्थयन्निति वा योजना । गतः स्वमन्दिरं गतः प्राप्तस्सन् ततः स्वमन्दिरप्राप्त्यनन्तरं गृहे वसन् वासं कुर्वन् क्षणान् एकैकक्षणान् तन्नामककालविशेषान् । ‘कालविशेषोत्सवयोः क्षणः’ इत्यमरः । कल्पसमान् कल्पेन बहुवत्सरात्मकेन कालविशेषेण समान् तुल्यान् नयन् क्षपयन् । अनिशं निरन्तरं सुताननेन्दोः सुतस्य आननं मुखम् इन्दुरिव चन्द्र इव तस्य सुताननेन्दोर् इति । ‘अधीगर्थदयेशां कर्मणि’ इति कर्मणि षष्ठी । सुताननेन्दुम् इत्यर्थः । अस्मरत् स्मृतवान् ‘स्मृ चिन्तायामित्यतो लङ् परस्मैपदम् अस्मरद् अस्मरताम् अस्मरन्’ । दुःखिनां क्षणोऽपि कल्पायते सुखिनां कल्पोऽपि क्षणायत इति ‘त्रुटियुगायते त्वामपश्यताम्’ इत्यादौ प्रसिद्धम् । अतः कल्पसमानित्युक्तम् ॥ १८ ॥
विश्वास-प्रस्तुतिः - १९
स चिन्तयन् पुत्रमनोरथं शुचा पुनश्च तीर्त्वोपगतो महानदीम् ।
यतीश्वरानुव्रतमात्मनन्दनं तमैक्षत ग्रामवरे मठान्तरे॥ १९ ॥
मूलम् - १९
स चिन्तयन् पुत्रमनोरथं शुचा पुनश्च तीर्त्वोपगतो महानदीम् ।
यतीश्वरानुव्रतमात्मनन्दनं तमैक्षत ग्रामवरे मठान्तरे॥ १९ ॥
भावप्रकाशिका
महानदी ‘नेत्रावती’ । ग्रामवरस्य ‘कार्यूरु’ इत्यपभ्रष्ठभाषा । मठान्तरस्य ‘कुत्याडी’ त्यपभ्रष्टभाषा ॥ १९ ॥
पदार्थदीपिकोद्बोधिका
स इति ॥ शुचा दुःखेन पुत्रस्य मनोरथः संन्यासग्रहणेच्छा तम् । ‘वाञ्छा लिप्सा मनोरथः’ इत्यमरः । चिन्तयन् स भट्टः पुनश्च महानदीं नेत्रावतीं तीर्त्वोपगतः स्वगृहात्पुत्रदर्शनार्थमागतः । ग्रामवरे ग्रामश्रेष्ठे ‘कारेवूरु’ इत्यपभ्रष्टनामकग्राम इत्यर्थः । अन्यो मठो मठान्तरं तस्मिन् ‘कुत्याडि’ इत्यपभ्रष्टनामकमठविशेष इत्यर्थः । व्रतीश्वरस्य अच्युतप्रेक्षस्य अनुव्रतम् अनुकूलव्रतं यस्य तम् । ‘पाराशरी व्रती भिक्षुः’ इति हलः । आत्मनन्दनम् ऐक्षत ॥ १९ ॥
मन्दोपाकारिणी
स इति ॥ शुचा शोकेन दुःखेनेत्यर्थः । ‘वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक् स्त्रियाम्’ इत्यमरः । पुत्रमनोरथं पुत्रस्य वासुदेवस्य मनोरथं सन्यासविषयवाञ्छाम् । ‘इच्छा काङ्क्षा स्पृहेहातृड्वाञ्छा लिप्सा मनोरथः’ इत्यमरः । चिन्तयन् सः भट्टः पुनश्च महानदीं महती च सा नदी च महानदी तां नेत्रावतीं नाम नदीं तीर्त्वा उत्तीर्य गतः प्राप्तस्सन् । ग्रामवरे कस्मिंश्चिद् ग्रामश्रेष्ठे मठान्तरे मठमध्ये यतीश्वरानुव्रतं यतीश्वरस्य अच्युतप्रेक्षस्य अनु अनुकूलं व्रतं चित्तं यस्य सः यतीश्वरानुव्रतस् तम् आत्मनन्दनं सुतम् ऐक्षत ददर्श । ‘ईक्ष दर्शन इति धातोर्लङात्मनेपदम् ऐक्षत ऐक्षेताम् ऐक्षन्त’ ॥ १९ ॥
विश्वास-प्रस्तुतिः - २०
स जातकोपाकुलितो धरासुरो महात्मनां लङ्घनभीरुरप्यलम् ।
सुतस्य कौपीनधृतौ हि साहसप्रतिश्रवो मे दृढ इत्यभाषत॥ २० ॥
मूलम् - २०
स जातकोपाकुलितो धरासुरो महात्मनां लङ्घनभीरुरप्यलम् ।
सुतस्य कौपीनधृतौ हि साहसप्रतिश्रवो मे दृढ इत्यभाषत॥ २० ॥
पदार्थदीपिकोद्बोधिका
सञ्जातेति ॥ धरासुरो ब्राह्मणो ऽलम् अतितरां महानात्मा परमात्मा येषां तेषां श्रीहरिभक्तानां लङ्घनभीरुरपि लङ्घनादतिक्रमाद् भीरुर्भयशीलोऽपि सञ्जातः पुत्रः स्ववाक्यं न ृणोतीति सञ्जातः यः कोपः क्रोधस् तेनाकुलितः क्षुब्धस्सन् सुतस्य मम पुत्रस्य कौपीनधृतिः कौपीनधारणं तस्यां सत्यां, संन्यासं गृहीत्वा कौपीनदण्डादिके धृते सतीत्यर्थः । मे मम । साहसप्रतिश्रवोऽनशनादिरूपं किञ्चित्साहसं कर्म कुर्यामिति साहसस्य प्रतिश्रवः प्रतिज्ञा, दृढः केनाप्यनिवर्त्य इत्यभाषत अब्रवीत् ॥ २० ॥
मन्दोपाकारिणी
स इति ॥ सः धरासुरः ब्राह्मणः । अलम् अत्यन्तं महात्मनाम् आर्याणां लङ्घनभीरुरपि लङ्घनाद् अतिक्रमाद् भीरुर् भयशीलोऽपि जातकोपाकुलितः स्ववाक्यं न करोतीति मत्वा जातेन कोपेन क्रोधेन आकुलितः वशीकृतः सन् इत्यभाषत अब्रवीत् । किमिति ? सुतस्य पुत्रस्य कौपीनधृतौ गुह्यमात्राच्छादनरूपं वितस्त्यायतं द्विहस्तदीर्घच्छिन्नपटैकदेशात्मकं वस्त्रं कौपीनमित्युच्यते । उपलक्षणमेतत् । कौपीनस्य कौपीनदण्डादेर्धृतौ सत्यां धारणे सति मे मम साहसप्रतिश्रवः साहसे आत्महत्यादिरूप-किञ्चित्साहसकरणे प्रतिश्रवो ऽङ्गीकारः प्रतिज्ञेति यावद् दृढः केनाप्यपरिहार्य इति अभाषत इति अन्वयः । ‘मे सुतः यत्याश्रमं गृहीतवांश्चेद् अहं स्वप्राणत्यागादिकं यत्किंचित्साहसं करिष्यामि’ इति प्रतिज्ञां चकार इति भावः । ‘भाष व्यक्तायां वाचीत्यतो लडात्मनेपदम् अभाषत अभाषेताम् अभाषन्त’ ॥ २० ॥
विश्वास-प्रस्तुतिः - २१
क्षणेन कौपीनधरो निजं पटं विदार्य हे तात कुरुष्व साहसम् ।
इतीममुक्त्वा प्रभुरब्रवीत् पुनः शुभान्तरायं न भवांश्चरेदिति॥२१॥
मूलम् - २१
क्षणेन कौपीनधरो निजं पटं विदार्य हे तात कुरुष्व साहसम् ।
इतीममुक्त्वा प्रभुरब्रवीत् पुनः शुभान्तरायं न भवांश्चरेदिति॥२१॥
पदार्थदीपिकोद्बोधिका
क्षणेनेति ॥ प्रभुः समर्थः क्षणेन क्षणकालेन निजं पटं स्वकीयं पटं विदार्य कौपीनधरः सन्, हे तात चिकीर्षितं साहसं कुरुष्वेति इमं तातम् उक्त्वा, हे तात भवान् विज्ञातभारतादिशास्त्रसारोऽपि शुभान्तरायं शुभस्यान्तरायं विघ्नं न करोतु इति पुनरब्रवीत् ॥ २१ ॥
मन्दोपाकारिणी
क्षणेनेति ॥ विभुर् वासुदेवः । सुतस्य कौपीनधारणे सति साहसं करिष्यामीति पितुः प्रतिज्ञावाक्यं श्रुत्वा क्षणेन सद्यस् तत्क्षण एव इत्यर्थः । निजं स्वकीयं पटं प्रावरणवस्त्रं विदार्य एकदेशं छित्वा कौपीनधरः धरतीति धरः कौपीनस्य धरः धारकः सन् । हे तात पितः । ‘तातस्तु जनकः पिता’ इत्यमरः । चिकीर्षितं कर्तुमिष्टं साहसं कुरुष्व इति एवं प्रकारेण पितरं प्रति उक्त्वा पुनो ऽब्रवीत् । किमिति । हे तात भवान् विज्ञातशास्त्रसारः शुभान्तरायं शुभस्य विष्णुप्रीत्यर्थकत्वेन मङ्गलरूपस्य यत्याश्रमस्य तत्स्वीकारस्येति भावः । अन्तरायं विघ्नम् । ‘विघ्नोऽन्तरायः प्रत्यूहः’ इत्यमरः । न चरेन् न करोतु इति अब्रवीद् इति अन्वयः । ‘चर गतौ भक्षणे इति धातोर् लिङ् परस्मैपदं चरेच् चरेतां चरेयुः’ ॥ २१ ॥
विश्वास-प्रस्तुतिः - २२
न पुत्र पित्रोरवनं विना शुभं वदन्ति सन्तो ननु तौ सुतौ मृतौ ।
निवर्तमाने न हि पालकोऽस्ति नौ त्वयीति वक्तारममुं सुतोऽब्रवीत् ॥२२॥
मूलम् - २२
न पुत्र पित्रोरवनं विना शुभं वदन्ति सन्तो ननु तौ सुतौ मृतौ ।
निवर्तमाने न हि पालकोऽस्ति नौ त्वयीति वक्तारममुं सुतोऽब्रवीत् ॥२२॥
भावप्रकाशिका
वदन्ति सन्तः ‘वृद्धौ च मातापितरौ सती भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्’ ॥ २२ ॥
पदार्थदीपिकोद्बोधिका
भट्टः पुत्रवचनं श्रुत्वा संन्यासस्य शुभत्वाभिप्रायेण भवान् शुभान्तरायं न चरेदिति यदुक्तं त्वया तदसत् । पुत्रस्य पितृशुश्रूषातिरिक्तस्य शुभस्या-भावादित्याह— न पुत्रेत्यादिना ॥ हे पुत्र सन्तः धर्मशास्त्रप्रवर्तका मन्वादयः सुतस्य पित्रोर् मातापित्रोर् अवनं शुश्रूषणादिरूपं रक्षणं विनाऽन्यच्छुभं न वदन्ति । ‘वृद्धौ च मातापितरौ सती भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा वोढव्या मनुरब्रवीत्’ इति वचनात् । तस्मात्तव यत्याश्रमादपि स्थविरयोरावयोरवनमेव शुभम् । न तत्रान्तरायः क्रियते । तस्मात्किमुच्यते त्वया शुभान्तरायं न चरेदिति, इति पितुरभिप्रायः । युवयोः पालकान्तराभावे मया सर्वथा भवच्छुश्रूषणमेव कार्यम् । सति चान्यस्मिन् पालके कथं युवयोरनाथत्वं? कथं च भवत्पालनमेव शुभम्? इति चेन् न इत्याह–नन्विति । तौ तव भ्रातरौ मम सुतौ मृतौ ननु, त्वमपि जानासि हि इत्यभिप्रायः । तस्मात्त्वयि निवर्तमाने सति निवृत्तिमार्गं यत्याश्रममङ्गीकुर्वति सति नौ आवयोः पालको रक्षको नास्ति हि । इति वक्तारममुं पितरं प्रति इदं वक्ष्यमाणं वचः सुतोऽब्रवीत् ॥ २२ ॥
मन्दोपाकारिणी
सुतस्य सन्यासस्वीकरणं शुभं न भवति किन्तु पितृशुश्रूषैव इत्याह मध्यगेहः न पुत्रेत्यादिना ॥ हे पुत्र सन्तः ज्ञानिनः । ‘विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः’ इत्यमरः । धर्मशास्त्रप्रवक्तारः मन्वादय इति भावः । सुतस्य, पित्रोर् मातापित्रोर् अवनं शुश्रूषादिरूपरक्षणं विना त्यक्त्वा शुभं न वदन्ति, किन्तु पितृपालनमेव शुभं वदन्ति, तथा हि ‘वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः । अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्’ इति । तस्मात् तव यत्याश्रमादपि स्थविरयोर् आवयोर् अवनमेव शुभम् । न तत्र मया अन्तरायः क्रियते । तस्मात्त्वया किमुच्यते ‘शुभान्तरायं न चरेत्’ इति इति पितुरभिप्रायः । पुत्रान्तरेण भवत्पालनं भविष्यतीत्यत आह । नन्विति । तौ तव भ्रातरौ सुतौ मम पुत्रौ मृतौ ननु त्वमपि जानासि इत्यभिप्रायः । तस्मात् त्वयि निवर्तमाने सति निवृत्तिं निवृत्तिमार्गम् अङ्गीकुर्वति सति निवृत्तिमार्गो नाम सन्यास एव । नौ आवयोः पालको नास्ति हि । इति एवं प्रकारं वक्तारं वदन्तम् अमुं पितरं प्रति सुतो ऽब्रवीत् । ब्रूञ् व्यक्तायां वाचीत्यतो लङ् परस्मैपदम् अब्रवीद् अब्रूताम् अब्रुवन्’ ॥ २२ ॥
विश्वास-प्रस्तुतिः - २३
यदा विरक्तः पुरुषः प्रजायते तदैव संन्यासविधिः श्रुतौ श्रुतः ।
न सङ्गहीनोऽपि परिव्रजामि वामहं तु शुश्रूषुमकल्पयन्निति॥ २३ ॥
मूलम् - २३
यदा विरक्तः पुरुषः प्रजायते तदैव संन्यासविधिः श्रुतौ श्रुतः ।
न सङ्गहीनोऽपि परिव्रजामि वामहं तु शुश्रूषुमकल्पयन्निति॥ २३ ॥
भावप्रकाशिका
‘यदहरेव विरजेत् तदहरेव प्रव्रजेत्’ इति श्रुतौ श्रुतः ॥ २३ ॥
पदार्थदीपिकोद्बोधिका
यदुक्तं वृद्धौ च मातापितरावित्यादि, न तत्सर्वाधिकारिकं किन्त्वविरक्तपुरुषविषयमेव न विरक्तपुरुषविषयकं, तथात्वे श्रुतिविरोधादित्याह - यदेति ॥ पुरुषो यदा यस्मिन्काले विरक्तो विषयासक्तिरहितः प्रजायते तदैव तस्मिन्नेव काले सन्यासविधिः सन्यासविधानम् । ‘विधिर्ब्रह्मविधानयो’रिति हेमचन्द्रः । श्रुतौ ‘यदहरेव विरजेत् तदहरेव प्रव्रजेदि’त्यस्यां श्रुतौ श्रुतः प्रसिद्धः । तर्हि त्वयि निवर्तमाने सत्यावयोः पालको नास्तीत्यस्योत्तरमाह न सङ्गहीनोऽपीति । अहं सङ्गहीनोऽपि विषयसङ्गरहितोऽपि वां युवयोः शुश्रूषुं सेवकमकल्पयन् सन् न परिव्रजामि न संन्यासं गृह्णामि इत्यब्रवीदिति पूर्वेणान्वयः ॥ २३ ॥
मन्दोपाकारिणी
वैराग्यरहितस्यैव पितृपालनं शुभमिति ज्ञानिनामभिप्रायः । विरक्तस्य सन्यासस्वीकरणमेव शुभम् । अन्यथा श्रुतिविरोध इत्याह । यदेति ॥ पुरुषः यदा यस्मिन् काले विरक्तः वैराग्यवान् प्रजायते भवति तदैव तस्मिन्नेव काले सन्यासविधिः सन्यासस्य विधिः स्वीकारः श्रुतौ श्रुतः प्रसिद्धः । सा च श्रुतिः ‘यदहरेव विरजेत् तदहरेव प्रव्रजेत्’ इति प्रसिद्धा । अहं तु सङ्गहीनोऽपि सङ्गेन विषयासक्त्या हीनोऽपि रहितोऽपि विरक्तोऽपीति यावत् । वां युवयोः शुश्रूषुं सेवकं कञ्चन पुरुषम् अकल्पयन् असम्पादयन् न परिव्रजामि सन्यासं न गृह्णामीति अब्रवीद् इति पूर्वेण अन्वयः । ‘परिपूर्वाद् व्रज गताविति धातोर्लट् परस्मैपदं व्रजामि व्रजावः व्रजामः’ । ‘पितृशुश्रूषणं च धर्मः सन्यासग्रहणं च धर्मः । इदमुभयम् एकस्य न संभवति । अतः विरक्तस्य सन्यासस् तद्रहितस्य पितृशुश्रूषणं धर्मः । मम तु विरक्तेर् जातत्वात् सन्यास एव धर्मः । तथापि अहं निस्सङ्गोऽपि युवयोः रक्षकं सम्पादयित्वा सन्यासं स्वीकरिष्य’ इति भावः ॥ २३ ॥
विश्वास-प्रस्तुतिः - २४
बहुश्रुतत्वाद्यदि तत्सहे बलान्न सा सवित्री विरहं सहेत ते ।
इति द्विजेनाभिहितेऽनमत्स तं भवाननुज्ञां प्रददात्विति ब्रुवन् ॥ २४॥
मूलम् - २४
बहुश्रुतत्वाद्यदि तत्सहे बलान्न सा सवित्री विरहं सहेत ते ।
इति द्विजेनाभिहितेऽनमत्स तं भवाननुज्ञां प्रददात्विति ब्रुवन् ॥ २४॥
पदार्थदीपिकोद्बोधिका
बहुश्रुतत्त्वादिति ॥ यदि यद्यपि बहूनां बहुशास्त्राणां श्रुतं श्रवणं यस्य तस्य भावस्तत्वं तस्माद् बहुशास्त्रश्रवणबलेन विवेकित्वादित्यर्थः । बलाद् धैर्यबलात् तत् तव परिव्रजनं सहे सोढुं समर्थः । षह मर्षणे । तथापि ते तव सा सवित्री सा माता ते विरहं वियोगं न सहेत । इति वचसि द्विजेन विप्रेण स्वपित्राऽभिहिते सति सः, भवान् अनुज्ञां सन्यासाश्रमानुज्ञां प्रददातु प्रतिदिशतु इति ब्रुवन् सन् तं पितरम् अनमत् ॥ २४ ॥
मन्दोपाकारिणी
बहुश्रुतत्त्वादिति ॥ यदि यद्यपि अहं बहुश्रुतत्वाद् बहु बहुलं श्रुतं श्रवणं यस्य सः बहुश्रुतस् तस्य भावः बहुश्रुतत्वं तस्माद् बहुकथाश्रवणबलेन विवेकित्वाद् इति यावत् । बलाद् धैर्यात् तत् परिव्रजनं सहे सोढुं समर्थः । ‘षह मर्षण इत्यतो लट् आत्मनेपदं सहे सहावहे सहामहे’ । तथापि ते तव सा सवित्री जननी ते विरहं न सहेत सोढुं शक्या न भवेत् । ‘सह धातोर्लिङात्मनेपदं सहेत सहेयातां सहेरन्’ । इति द्विजेन पित्रा अभिहिते उक्ते सति सः वासुदेवः हे तात भवान् मम अनुज्ञां प्रददातु मम यत्याश्रमस्वीकरणविषये अङ्गीकारं करोतु । इति ब्रुवन् तं पितरम् अनमन् नमस्कृतवान् ॥ २४ ॥
विश्वास-प्रस्तुतिः - २५
विचिन्त्य विद्वान् स निरुत्तरीकृतस्तथाऽस्तु माताऽनुवदेद्यदीति तम् ।
उदीर्य कृच्छ्रादुपगम्य मन्दिरं प्रियासकाशे तमुदन्तमब्रवीत् ॥ २५ ॥
मूलम् - २५
विचिन्त्य विद्वान् स निरुत्तरीकृतस्तथाऽस्तु माताऽनुवदेद्यदीति तम् ।
उदीर्य कृच्छ्रादुपगम्य मन्दिरं प्रियासकाशे तमुदन्तमब्रवीत् ॥ २५ ॥
पदार्थदीपिकोद्बोधिका
विचिन्त्येति ॥ एवं न विद्यते उत्तरं यस्य स निरुत्तरः । अनिरुत्तरो निरुत्तरः कृतः निरुत्तरीकृतः प्रत्युत्तररहितत्वेन कृतः स विद्वान् विचिन्त्य, अथ किमत्र वक्ष्यामीति विचार्य, ‘यदि माता तव जननी अनुवदेत् संवादं कुर्यात्, तर्हि तथा त्वदुक्तप्रकारेण अस्तु भवतु’ इति तं सुतमुदीर्य । कृछ्रात् सुतवियोगासहनरूपक्लेशान् मन्दिरं गृहम् उपगम्य प्रियासकाशे भार्यासकाशे तं सुतस्यात्मनश्च विवादरूपमुदन्तं वृत्तान्तमब्रवीत् ॥ २५ ॥
मन्दोपाकारिणी
विचिन्त्येति ॥ एवं निरुत्तरीकृतं निर्गतम् उत्तरं यस्मात् स निरुत्तरः निरुत्तरवत् संपद्यमानः निरुत्तरीकृतो ऽप्रतिभातप्रत्युत्तर इत्यर्थः । विद्वान् विपश्चित् स भट्टः विचिन्त्य किमत्र वदामीति विचार्य यदि माता तव जननी त्वदुक्तम् इति शेषः । अनुवदेत् संवादं कुर्याद् अङ्गीकुर्यादिति यावत् । तर्हि तथास्तु त्वदुक्तमेव भवतु इति इत्थं तं सुतम् उदीर्य कृच्छ्रात् क्लेशात् सुतविरहासहिष्णुत्वादिति भावः । मन्दिरं स्वभवनम् उपगम्य प्राप्य प्रियासकाशे प्रियाया भार्यायाः सकाशे समीपे सुतस्य आत्मनश्च विवादरूपम् उदन्तं वृत्तान्तम् । ‘वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः’ इत्यमरः । अब्रवीत् ॥ २५ ॥
विश्वास-प्रस्तुतिः - २६
निशाचरारेरिव लक्ष्मणः पुरा वृकोदरस्येव सुरेन्द्रनन्दनः ।
गदोऽथ शौरेरिव कर्मकृत् प्रियः सुभक्तिमान् विश्वविदोऽनुजोऽभवत् ॥२६॥
मूलम् - २६
निशाचरारेरिव लक्ष्मणः पुरा वृकोदरस्येव सुरेन्द्रनन्दनः ।
गदोऽथ शौरेरिव कर्मकृत् प्रियः सुभक्तिमान् विश्वविदोऽनुजोऽभवत् ॥२६॥
पदार्थदीपिकोद्बोधिका
निशाचरारेरिेति ॥ अथ पुरा निशाचराणां रात्रिचराणां रावणादीनाम् ओः शत्रोः श्रीरामस्य लक्ष्मण इव, वृकः वृकाख्याग्निरुदरे यस्य तस्य भीमस्य सुरेन्द्रनन्दन इव अर्जुन इव, शूरस्य गोत्रापत्यं पुमाञ्छौरिः श्रीकृष्णस्तस्य गद इव गदनामकानुज इव । ‘गदः कृष्णानुजे रोगे गदाप्रहरणान्तर’ इति हेमचन्द्रः । सुभक्तिमान् शोभनभक्तिमान् प्रियः कर्मकृत् सेवकः । भक्तिमत्वप्रियत्वसेवकत्वरूपगुणैर्लक्ष्मणार्जुनगदैः समो विश्वविदः सर्वज्ञस्य वासुदेवस्यानुजोऽभवत् ॥ २६ ॥
मन्दोपाकारिणी
निशाचरारेरिति ॥ अथ किञ्चित्कालानन्तरं पुरा पूर्वं निशाचरारेर् निशि रात्रौ चरस्य राक्षसस्य रावणस्य अरिः रामचन्द्रस् तस्य । ‘रिपौ वैरि सपत्नारिः’ इत्यमरः । लक्ष्मण इव कर्मकृत् कर्म सेवां करोतीति कर्मकृद् वृकोदरस्य भीमसेनस्य सुरेन्द्रनन्दन इव सुराणाम् इन्द्रः सुरेन्द्रः सुरेन्द्रस्य देवेन्द्रस्य नन्दनस् तनयो ऽर्जुन इव प्रियः प्रीतिविषयः । शौरेः शूरस्य गोत्रापत्यं पुमान् शौरिस् तस्य श्रीकृष्णस्य गद इव गदनामानुज इव सुभक्तिमान् एवं त्रिभिर् गुणैः समः । विश्वविदः विश्वम् अशेषं वेत्तीति विश्ववित् तस्य विश्वविदः सर्वज्ञस्य वासुदेवस्य अनुजो ऽवरजः । ‘यवीयोऽवरजानुजाः’ इत्यमरः । अभवद् उत्पन्नः ॥ २६ ॥
विश्वास-प्रस्तुतिः - २७
कदाचिदाप्यालयबुद्धिरालयं निवेदयन् पालकमेनमेतयोः ।
दृढस्वसंन्यासनिषेधनिश्चयां धवानुमत्येदमुवाच मातरम्॥ २७ ॥
मूलम् - २७
कदाचिदाप्यालयबुद्धिरालयं निवेदयन् पालकमेनमेतयोः ।
दृढस्वसंन्यासनिषेधनिश्चयां धवानुमत्येदमुवाच मातरम्॥ २७ ॥
पदार्थदीपिकोद्बोधिका
कदाचिदिति ॥ न विद्यते लयः प्रलयेऽपि नाशो यस्यास्तादृशी बुद्धिर्वृत्तिज्ञानपरम्परा यस्य स वासुदेवाह्वयः । कदाचिदालयं मन्दिरम् । ‘निकाय्यनिलयालयाः’ इत्यमरः । आप्यैतं स्वानुजमेतयोः पित्रोः पालकं रक्षकं निवेदयन्नयं वां पालक इति वदन् सन् धवानुमत्या भर्तुरनुमतेन स्वस्य संन्यासः स्वसंन्यासस्तस्य निषेधः । दृढं यथा भवति तथा स्वसंन्यासनिषेधस्तस्मिन् निश्चयो यस्यास्तां मातरमिदं वच उवाच ॥ २७ ॥
मन्दोपाकारिणी
कदाचिदिति ॥ अलयबुद्धिर् न विद्यते लयः नाशो यस्याः सा अलया बुद्धिर् ज्ञानं यस्य सो ऽलयबुद्धिः प्रलयेऽपि अविलुप्तज्ञानः । वासुदेवः कदाचित् कस्मिंश्चित् काले आलयं स्वगृहम् । ‘गृहाः पुंसि च भूम्नयेव निकाय्यनिलयालयाः’ इत्यमरः । आप्य गत्वा एनम् उत्पन्नं सुतम् एतयोः पित्रोः पालकं निवेदयन् अयं वां पालक इति ज्ञापयन् सन् । धवानुमत्या धवस्य भर्तुः । ‘धवः प्रियः पतिर्भर्ता’ इत्यमरः । अनुमत्या संमतेन दृढस्वसन्यासनिषेधनिश्चयां दृढो ऽतिनिर्बन्धेन स्वस्य सन्यासस् तस्य निषेधे निवारणे कृतः निश्चयः यया तां मातरं प्रति इदं वक्ष्यमाणं वचनमुवाच । ‘वच परिभाषण इत्यतो लिट् परस्मैपदम् उवाच ऊचतुर् ऊचुः’ ॥ २७ ॥
विश्वास-प्रस्तुतिः - २८
वराश्रमाप्तिं मम संवदस्व मां कदाचिदप्यम्ब यदीच्छसीक्षितुम् ।
यदन्यथा देशमिमं परित्यजन्न जातु दृष्टेर्विषयो भवामि वः॥२८॥
मूलम् - २८
वराश्रमाप्तिं मम संवदस्व मां कदाचिदप्यम्ब यदीच्छसीक्षितुम् ।
यदन्यथा देशमिमं परित्यजन्न जातु दृष्टेर्विषयो भवामि वः॥२८॥
पदार्थदीपिकोद्बोधिका
वराश्रमेति ॥ अम्ब मातः ‘अम्बार्थनद्योरि’ति ह्रस्वः । यदि कदाचिदपि माम् ईक्षितुं द्रष्टुमिच्छसि, तर्हि मम वराश्रमाप्तिं सन्यासाश्रमस्वीकारं संवदस्वानुजानीहि । यदन्यथा संवादं न करोषि चेद् इमं देशं परित्यजन्नहं जातु कदापि वो युष्माकं दृष्टेर्विषयो गोचरो न भवामि । अतः संवदस्वेति भावः ॥ २८ ॥
मन्दोपाकारिणी
वराश्रमेति ॥ हे अम्ब मातः यदि कदाचिदपि यस्मिन् कस्मिंश्चित् काले वा माम् ईक्षितुं द्रष्टुम् इच्छसि तर्हि मम वराश्रमाप्तिं वर उत्तमश्चासौ आश्रमः यत्याश्रमस् तस्य आप्तिं स्वीकरणं संवदस्व अनुजानीहि । अन्यथा संवादं न करोषि चेद् अहम् इमं देशं परित्यजन् सन् जात्वपि कदापि । ‘कदाचिज्जातु सार्धं तु’ इत्यमरः । वां युष्माकं दृष्टेश् चक्षुषः विषयः गोचरः न भवामि यद् यस्मात् तस्मात् संवदस्वेति भावः । ‘सं पूर्वाद् वद व्यक्तायां वाचीत्यतो लोट् आत्मनेपदं संवदस्व संवदेथां संवदध्वम्’ ॥ २८ ॥
विश्वास-प्रस्तुतिः - २९
इति ब्रुवाणे तनये कदाचिदप्यदर्शनं तस्य मृतेर्निदर्शनम् ।
विचिन्त्य पर्याकुलिता चिकीर्षितं सुतस्य कृच्छ्रान्न्यरुणन्न सा शुभा ॥ २९ ॥
मूलम् - २९
इति ब्रुवाणे तनये कदाचिदप्यदर्शनं तस्य मृतेर्निदर्शनम् ।
विचिन्त्य पर्याकुलिता चिकीर्षितं सुतस्य कृच्छ्रान्न्यरुणन्न सा शुभा ॥ २९ ॥
पदार्थदीपिकोद्बोधिका
इतीति ॥ तनये पुत्रे, इति पूर्वोक्तप्रकारेण ब्रुवाणे सति वदति सति पर्याकुलिता किमत्र कुर्यामिति संभ्रान्ता शुभा स्वभावतः शुभानुकूला सा कदाचिदपि दर्शनाभावोऽदर्शनं मृतेर् मरणस्य निदर्शनं समानमिति यावत् । इति विचिन्त्य विचार्य तस्य सुतस्य कर्तुमिष्टं चिकीर्षितं संन्यासस्वीकरणं कृछ्रात् क्लेशान् न न्यरुणन् न निरुद्धवती । रुधिरावरणे लङ् ॥ २९ ॥
मन्दोपाकारिणी
इतीति ॥ तनये सुत,े इति पूर्वोक्तप्रकारेण ब्रुवाणे वदति सति पर्याकुलिता किमत्र कुर्यामिति सम्भ्रान्ता सती तस्य जीवतः सुतस्य कदाचिदपि अदर्शनं मृतेर् मरणस्य निदर्शनं दृष्टान्त इति विचिन्त्य विचार्य सुतस्य चिकीर्षितं कतुमिष्टं कृच्छ्राद् दुःखान् न्यरुणन् न, न निरोधितवती । कुतः । शुभा स्वभावतः सत्कर्मानुकूला सा माता पूर्वोक्तं पुत्रवाक्यं श्रुत्वा भीता सती जीवतः पुत्रस्य अदर्शनं मरणतुल्यमेवेति मत्वा दुःखात् सुताभीष्टस्य निषेधं न चकारेति भावः । ‘नि पूर्वक रुधिर् आवरण इति धातोर्लङ् परस्मैपदं न्यरुणन् न्यरुन्धां न्यरुन्धन्’ ॥ २९ ॥
विश्वास-प्रस्तुतिः - ३०
अथोपगम्यैष गुरुं जगद्गुरुः प्रसाद्य तं देववरप्रसादितः ।
सदा समस्ताश्रमभाक् सुरेश्वरो विशेषतः खल्वभजद्वराश्रमम् ॥ ३० ॥
मूलम् - ३०
अथोपगम्यैष गुरुं जगद्गुरुः प्रसाद्य तं देववरप्रसादितः ।
सदा समस्ताश्रमभाक् सुरेश्वरो विशेषतः खल्वभजद्वराश्रमम् ॥ ३० ॥
पदार्थदीपिकोद्बोधिका
अथेति ॥ अथ पित्रोरनुज्ञास्वीकारानन्तरं देववरैः प्रसादितः प्रसादायाभिमुखीकृतः दुर्मतनिराकरणपूर्वकं सन्मतप्रवर्तनलक्षणदेवताकार्यसाध-नोन्मुख इत्यर्थः । जगद्गुरुः सुरेश्वर एषः, गुरुमच्युतप्रेक्षमुपगम्य, तं प्रसाद्य स्वगुणैः सन्तोषयित्वा सदा समस्ताश्रमान् ब्रह्मचर्यादीन् भजतीति तादृशोऽपि, स्वस्य वायुदेवाव-तारत्वेन सदा सर्वाश्रमवानपीत्यर्थः । वराश्रमं सन्यासाश्रमम् अभजत्खलु । देवानां युगपत्समस्ताश्रमभाक्त्वञ्च ‘कृत्स्ना एव गृहिणः कृत्स्ना एते यतय एतेषां न पुत्रा दायमुपयन्ति न वैते गृहान् विसृजन्ति’, ‘देवा एव ब्रह्मचारिणो, देवा एव गृहस्थाः, देवा एव वनस्था’ इत्यादिश्रुतिसिद्धम् ॥ ३० ॥
मन्दोपाकारिणी
अथेति ॥ अथ मातुः सकाशाद् अनुज्ञास्वीकारानन्तरम् । देववरप्रसादितः देववरैर् देवश्रेष्ठैः प्रसादितः प्रसादाभिमुखीकृतः । जगद्गुरुर् जगताम् उपदेशकः । सुरेश्वरः सुराणां देवानां नियामकः । एषः वासुदेवः । गुरुम् अच्युतप्रेक्षम् उपगम्य उपसत्तिं कृत्वा तं गुरुं प्रसाद्य स्वगुणैः सन्तोषयित्वा सदा समस्ताश्रमभाक् सदा सर्वदा युगपत् समस्ताश् चत्वारश्च ते आश्रमाश्च समस्ताश्रमास् तान् भजतीति सदासमस्ताश्रमभाक् सन्नपि इदानीं विशेषतः मनुष्यदृष्टिविषयत्वेन वराश्रमं यत्याश्रमम् अभजन् स्वीकृतवान् खलु । वासुदेवस्य युगपत् समस्ताश्रमत्वं च ज्ञापयितुमेव सुरेश्वर इत्यादिविशेषणम् । देवानां युगपत् समस्ताश्रमभाक्त्वं च ‘कृत्स्नादेव गृहिणो देवाः कृत्स्नात् हेतोर् यतयो ऽत एषां न पुत्रा दायम् उपयन्ति । न च एते गृहान् विसृजन्ति अरागा ओषा अलोभाः सर्वज्ञाः सर्वकर्तारः’ इति श्रुतौ ‘देवा एव ब्रह्मचारिणः । देवा एव गृहस्थाः । देवा एव वनस्थाः’ इति श्रुतौ च प्रसिद्धम् ॥ ३० ॥
विश्वास-प्रस्तुतिः - ३१
क्रियाकलापं सकलं स कालविद्विधानमार्गेण विधाय केवलम् ।
सदा प्रसन्नस्य हरेः प्रसत्तये मुहुः समस्तन्यसनं समभ्यधात् ॥ ३१ ॥
मूलम् - ३१
क्रियाकलापं सकलं स कालविद्विधानमार्गेण विधाय केवलम् ।
सदा प्रसन्नस्य हरेः प्रसत्तये मुहुः समस्तन्यसनं समभ्यधात् ॥ ३१ ॥
भावप्रकाशिका
भक्षणादिसमस्तकर्म कृत्वा ‘भूः सन्यस्ता मया’ इत्यादि समस्तन्यसनाभिधानम् ॥ ३१ ॥
पदार्थदीपिकोद्बोधिका
क्रियेति ॥ कालं कालविशेषं वेत्तीति कालवित् । स वासुदेवः सकलं क्रियाकलापं क्रियासमूहम् । ‘कलापो भूषणे काञ्च्यां सङ्घाते भूषबर्हयो’रिति वैजयन्ती । यत्याश्रमस्वीकारसमये कर्तव्यं तद्विधानोक्तं जीवच्छ्राद्धादिसमस्त-क्रियाजातमित्यर्थः । विधानमार्गेण, केवलं सम्यग्विधाय । सदा प्रसन्नस्य हरेः प्रसत्तये प्रसादाय मुहुः समस्तन्यसनं ‘भूः सन्यस्ता मये’त्यादिना देहेन्द्रियात्मादीनां समस्तानां सन्यसनं भगवति समर्पणं समभ्यधाच्चक्रे । प्रैषोच्चारणमकरोदिति भावः ॥ ३१ ॥
मन्दोपाकारिणी
क्रियेति ॥ कालवित् कालं तत्कालकर्मविशेषं वेत्तीति कालवित् सः वासुदेवः सकलं समस्तं क्रियाकलापं क्रियाणां यत्याश्रमोक्तकर्तव्यानां जीवच्छ्राद्धादि-कर्मणां कलापं समूहं विधानमार्गेण सन्यासविधायकशास्त्रोक्तप्रकारेण केवलं सम्यक् विधाय कृत्वा सदा प्रसन्नस्य हरेः प्रसत्तये विशेषतः प्रसादाय मुहुः समस्तन्यसनं समस्तानां देहेन्द्रियात्मनां न्यसनं भगवति समर्पणं ‘तदभिधायकं मया सर्वं सन्यस्तं’ इति एवंरूपं वचनं समभ्यधाद् अब्रवीत् । प्रणवोच्चारणम् अकरोदिति भावः । ‘समभिपूर्वाड् डु धाञ् धारणपोषणयोरिति धातोर्लुङ् परस्मैपदम् अधाद् अधाताम् अधुः’ ॥ ३१ ॥
विश्वास-प्रस्तुतिः - ३२
अनन्तमात्रान्तमुदाहरन्ति यं त्रिमात्रपूर्वं प्रणवोच्चयं बुधाः ।
तदाऽभवद्भाविचतुर्मुखाकृतिर्जपाधिकारी यतिरस्य सूचितः॥ ३२ ॥
मूलम् - ३२
अनन्तमात्रान्तमुदाहरन्ति यं त्रिमात्रपूर्वं प्रणवोच्चयं बुधाः ।
तदाऽभवद्भाविचतुर्मुखाकृतिर्जपाधिकारी यतिरस्य सूचितः॥ ३२ ॥
पदार्थदीपिकोद्बोधिका
अनन्तेति ॥ बुधा ज्ञानिनस्तिस्रो मात्रा अकरो-कारमकाराख्या वर्णा पूर्वा आद्या यस्य स त्रिमात्रपूर्वस्तं, प्रणवात्मक उच्चयो वर्णसमुदायस्तं, अनन्ता मात्रा वर्णा यस्य सोऽनन्तमात्रो वेदस्तेन अन्तोऽर्थनिर्णयो यस्य सोऽनन्तमात्रान्तस्तम् उदाहरन्ति । अकारादिवर्णत्रयपूर्वकमष्टाक्षरात्मकं प्रणवसमुदायम् अनन्ताक्षरेण प्रणवव्याख्यानरूपेण समस्तवेदेन निर्णीयमानं प्रवदन्ति ज्ञानिन इति भावः । अस्यैवंविधस्य प्रणवस्य तदा तस्मिन् काले चतुर्मुखस्याकृतिः स्वरूपं यस्य स भविष्यच्चतुर्मुख इत्यर्थः । अत एव सूचितः सुष्ठूचितः । चतुर्मुखस्यैव प्रणवजपे मुख्याधिकारित्वादिति भावः । जपाधिकारोऽस्यास्तीति जपाधिकारी यतिरभवत् । यतिमात्रस्यास्ति जपाधिकारः, भाविचतुर्मुखात्मको यतिरूपस्त्वयं प्रणवस्य मुख्याधिकारी तदाऽभवदिति भावः ॥ ३२ ॥
मन्दोपाकारिणी
अनन्तेति ॥ बुधा ज्ञानिनः यं प्रणवोच्चयं प्रणवानाम् उच्चयं समुदायं त्रिमात्रपूर्वं तिस्रो मात्रा यस्मिन् सस् त्रिमात्रः प्रणवः । त्रिमात्र एव पूर्व आदिर् यस्य सः विमात्रपूर्वस् तं त्रिमात्रपूर्वम् । अनन्तमात्रान्तम् अनन्ता असङ्ख्या मात्रा यस्मिन् सो ऽनन्तमात्रः प्रणवो ऽनन्तमात्र एव अन्तो ऽन्तिमः यस्य सो ऽनन्तमात्रान्तस् तम् । उदाहरन्ति यम् ओंकारं ज्ञानिनस् त्रिमात्रप्रणवाद्यनन्तमात्रप्रणवावसानकप्रणवसमुदायरूपं वदन्तीत्यर्थः । अस्य एवंविधस्य प्रणवोच्चयरूपस्य ओंकारस्य अयं वासुदेवस् तदा तस्मिन् काले सूचितः सु सम्यक् उचितः योग्यः जपाधिकारी जपे प्रणवमन्त्रावृत्तिकरणे अधिकारी अधिकारवान् यतिर् अभवत् । कथंभूतः भाविचतुर्मुखाकृतिर् भाविन उत्तरब्रह्मकल्पे भविष्यतश् चतुर्मुखस्य ब्रह्मण आकृतिः स्वरूपभूतः । अयं भावः, त्रिमात्रप्रणवम् आरभ्य एकैकमात्राधिक्यक्रमेण चतुर्मात्रापञ्चमात्ररूपेण अनन्तमात्रात्मकत्वेन भिन्नाः प्रणवा अनन्ताः । उक्तं चैतदेकादशस्कन्धतात्पर्ये एकविंशाध्याये ‘त्रिमात्रमादितः कृत्वा यावच्चा- नन्तमात्रकाः । प्रणवास्ते विभेदेन ह्यनन्ताः परिकीर्तिताः । एकमात्रोत्तराः सर्वे वासुदेवाभिधायकाः । तेषां व्याख्यानरूपा हि सर्वे वेदाः प्रकीर्तिताः । ओंकारव्यञ्जिता-स्तस्मात्सदोच्चार्या हरेः प्रियैः’ इति । अत्र मात्रशब्देन एकदेशभूता अकारादयो वर्णा उच्यन्ते । ‘पादा मात्रा आकारोकारमकार इति माण्डूकोपनिषदुक्तेः, ‘पादा अंशा उदाहृता’ इति तद्भाष्याच्च । ततश्च यतिमात्रस्य प्रणवजपाधिकारे सत्यपि चतुर्मुखस्यैव त्रिमात्रपूर्वानन्तमात्रावसानकानन्तप्रणवसमुदायोंकारमन्त्रजपे मुख्याधिकारित्वात् । अस्य वासुदेवस्य भविष्यच्चतुर्मुखत्वाद् एतादृशप्रणवजपेऽयमेव मुख्याधिकारी न अन्य इति । यद्वा बुधास् त्रिमात्रपूर्वं तिस्रो मात्रा अकारोकारमकाराः पूर्वा यस्य सस् त्रिमात्रपूर्वस् तं यं प्रणवोच्चयं प्रणवसमुदायम् अनन्तमात्रान्तम् अनन्ता मात्रा वर्णा यस्मिन् सो ऽनन्तमात्रः वेदस् तेन अन्तः निर्णयः यस्य सो ऽनन्तमात्रान्तस् तम् एवंभूतम् उदाहरन्ति । अकारादिवर्णत्रयपूर्वकम् अष्टाक्षरात्मकं प्रणवसमुदायम् अनन्तमात्रेण व्याख्यानरूपेण वेदेन निर्णीयमानं प्रवदन्ति ज्ञानिन इति भावः । अस्य प्रणवस्य तदा सूचितः सम्यक् उचितः जपाधिकारी यतिर् अभवत् । यतिमात्रस्य अस्ति प्रणवजपाधिकारः । अयं तु प्रणवजपे मुख्याधिकारी तदा अभवदिति । कुतः भाविचतुर्मुखाकृतिर् भविष्यच्चतुर्मुखस्वरूपश् चतुर्मुखस्येव सर्ववेदोक्तानुष्ठाने मुख्याधिकारित्वादस्य च भविष्यच्चतुर्मुखस्वरूपत्वात् प्रणवानुष्ठाने चायमेव मुख्याधिकारी इत्युक्तो भवति ॥ ३२ ॥
विश्वास-प्रस्तुतिः - ३३
गुणानुरूपोन्नति पूर्णबोध इत्यमुष्य नाम द्विजवृन्दवन्दितः ।
उदाहरद् भूरियशा हि केवलं न मन्त्रवर्णः स च मन्त्रवर्णकः॥३३॥
मूलम् - ३३
गुणानुरूपोन्नति पूर्णबोध इत्यमुष्य नाम द्विजवृन्दवन्दितः ।
उदाहरद् भूरियशा हि केवलं न मन्त्रवर्णः स च मन्त्रवर्णकः॥३३॥
भावप्रकाशिका
‘दशप्रमतिं जनयन्त’ (ऋ.११.१४१.२) इति मन्त्रवर्णः ॥ ३३ ॥
पदार्थदीपिकोद्बोधिका
गुणेति ॥ गुणानुरूपोन्नतिरर्थोन्नतिर्यस्य तद्गुणानु-रूपोन्नति । अन्वर्थकमिति यावत् । पूर्णबोध इति पूर्णप्रज्ञ इत्यमुष्य यतेर् नाम । केवलं मन्त्रवर्णः ‘तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः’ इति वेद एव नोदाहरन् न प्रोक्तवान् किन्तु द्विजानां वृन्दानि समूहास् तैर् वन्दितः । भूरि बहुलं यशो यस्य तादृशः । इदं विशेषणद्वयं मन्त्रवर्णस्यापि साधरणम् । स, मन्त्रवर्णकश्च प्रणवोपदेष्टाच्यु-तप्रेक्षश्चोदाहरत् । पूर्णबोधतीर्थ इति नाम प्रोक्तवान् । अयं भावः न केवलं पूर्वोक्तश्रुतिः किन्तु मन्त्रोपदेष्टा गुरुरपि यदृच्छया पूर्णबोध इति नामोदाहरदिति भावः । श्रुत्यर्थस्तु— अस्य वृषभस्य समर्थस्य वायोस्तृतीयं रूपं योषणो योषित्, आदराद्बहुवचनं दोहसे ज्ञानदोहाय जनयन्ताजनयत् । दशप्रमतिं पूर्णप्रज्ञनामकमित्यर्थः । ‘दशेति सर्वमुद्दिष्टं पूर्णं सर्वमिहोच्यते । प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृतः’ इति स्मृतेश्च ॥ ३३ ॥
मन्दोपकारिणि – गुणेति ॥ गुणानुरूपोन्नति गुणानाम् अनुरूपा अनुकूला उन्नतिर् अर्थोत्कर्षः यस्य तदन्वर्थकमिति यावत् । पूर्णबोध इति पूर्णप्रज्ञ इति अमुष्य यतेर् नाम केवलं मन्त्रवर्णः वेद एव न उदाहरत् किन्तु मन्त्रवर्णकः मन्त्रस्य वर्णकः वक्ता उपदेष्टा गुरुर् इति यावत् । स च उदाहरत् । अयं भावस् तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषण इति मन्त्रवर्णः । वेद एव केवलमस्य अन्वर्थकं नाम उदाहरदिति न, किन्तु नामकर्ता गुरुरपि यदृच्छया अस्य पूर्णप्रज्ञस्य तन्नाम अकरोदिति भावः । द्विजवृन्दवन्दितः, भूरियशा इति विशेषणद्वयं मन्त्रवर्णस्य मन्त्रवर्णकस्य च साधारणम् । तृतीयमस्य इत्यस्य अयमर्थः । अस्य वृषभस्य समर्थस्य वायोस् तृतीयं रूपं योषणः योषित् । आदराद् बहुवचनम् । दोहसे ज्ञानदोहाय जनयन्त अजनयत् । दशप्रमतिं पूर्णप्रज्ञनामकम् । दशेति सर्वमुद्दिष्टं सर्वं पूर्णमिहोच्यते । प्रज्ञा प्रमतिरुद्दिष्टा पूर्णप्रज्ञस्ततः स्मृत इति स्मृतेश्चेति ॥ ३३ ॥
विश्वास-प्रस्तुतिः - ३४
निरङ्गरागं मुखरागवर्जितं विभूषणं विष्टपभूषणायितम् ।
अमुं धृताषाढमवेक्ष्य मेनिरे स्वभावशोभाऽनुपमेति जन्तवः॥ ३४॥
मूलम् - ३४
निरङ्गरागं मुखरागवर्जितं विभूषणं विष्टपभूषणायितम् ।
अमुं धृताषाढमवेक्ष्य मेनिरे स्वभावशोभाऽनुपमेति जन्तवः॥ ३४॥
पदार्थदीपिकोद्बोधिका
निरङ्गरागमिति ॥ जन्तवः निर्गतोऽङ्गरागश्चन्दनाद्यनुलेपो यस्मात् तम् । ‘अङ्गरागोऽङ्गलेपः स्यादि’ति हलः । मुखरागेण ताम्बूलाञ्जनादिमुखालङ्कारेण वर्जितं रहितम् । विगतानि भूषणानि काञ्चीकटककेयूराङ्गुलीयादिभूषणानि यस्मात् तम् । अमुं पूर्णप्रज्ञाचार्यम् । धृत आषाढो दण्डो येन तम् । ‘आषाढो व्रतिनां दण्ड’ इति हलः । विष्टपानां त्रिलोकानां भूषणवदाचरतीति विष्टपभूषणायितस् तं त्रिलोकालङ्कारभूतमित्यर्थः । अवेक्ष्य स्वभावा अकृत्रिमा सा च सा शोभा च । न विद्यते उपमा सादृश्यं यस्याः सा अनुपमाऽसदृशेति मेनिरे । मनु अवबोधने लिट् ॥ ३४ ॥
मन्दोपाकारिणी
निरङ्गरागमिति ॥ जन्तवः निरङ्गरागं चन्दनादिरहितं मुखरागवर्जितं ताम्बूलादिवर्जितं विभूषणं कुण्डलाद्यलङ्कारशून्यम् एवंभूतम् । अमुं पूर्णप्रज्ञं धृताषाढं धृतदण्डं विष्टपभूषणायितं त्रैलोक्यालङ्कारभूतमवेक्ष्य । स्वभावशोभा अकृत्रिमशोभा अनुपमा असदृशा इति मेनिरे । ‘मनु अवबोधन इत्यतो लिडात्मनेपदं मेने मेनाते मेनिरे’ ॥ ३४ ॥
विश्वास-प्रस्तुतिः - ३५
भुजङ्गभूतेशविहङ्गपादिकैः प्रवन्दितः सावसरप्रतीक्षणैः ।
ननाम सोऽयं गुरुपूर्वकान् यतीनहो महीयो महतां विडम्बनम् ॥ ३५॥
मूलम् - ३५
भुजङ्गभूतेशविहङ्गपादिकैः प्रवन्दितः सावसरप्रतीक्षणैः ।
ननाम सोऽयं गुरुपूर्वकान् यतीनहो महीयो महतां विडम्बनम् ॥ ३५॥
पदार्थदीपिकोद्बोधिका
भुजङ्गेति ॥ योऽवसरस्य समयस्य प्रतीक्षणं दर्शनं तेन सहितैर् वर्णितुं कदाऽवसरो भविष्यतीत्यवसरप्रतीक्षणसहितैरित्यर्थः । भुजङ्गश्च भूतानि च तेषामीशौ शेषरुद्रौ, विहङ्गान् पक्षिणः पातीति विहङ्गपो गरुडः । तौ च स च, त आदयो येषां तैर् भुजङ्गभूतेशविहङ्गपादिकैः । स्वार्थे कः । प्रवन्दितः सोऽयं पूर्णप्रज्ञाचार्यो गुरुरच्युतप्रेक्षः पूर्वो येषां तान् यतीन् ननाम । तथा हि महतां महापुरुषाणां विद्यमानं विडम्बनं प्राकृतजनानुकरणं महीयोऽतिमहत् । अहो आश्चर्यम् ॥ ३५ ॥
मन्दोपाकारिणी
भुजङ्गेति ॥ सावसरप्रतीक्षणैर् वन्दितुं कदा अस्माकम् अवसरो ऽवकाशः भविष्यतीति अवसरस्य प्रतीक्षणं प्रतीक्षा तेन सहितैः । भुजङ्गभूतेशविहङ्गपादिकैर् भुजङ्गः शेषः भूतेशः रुद्रः । ‘भूतेशः खण्डपरशुः’ इत्यमरः । विहङ्गपः विहङ्गान् पक्षिणः पातीति विहङ्गपः गरुडः । भुजङ्गभूतेशौ च विहङ्गपश्च भुजङ्गभूतेशविहङ्गपाः । एते आदयो येषां ते तथोक्तास्तैः शेषादिदेवैर् यः प्रवन्दितः नमस्कृतः सः शेषादिवन्दितो ऽयं पूर्णप्रज्ञाचार्यः, गुरुपूर्वकान् गुरुर् अच्युतप्रेक्षनामा स्वगुरुः स एव पूर्वक आद्यो येषां ते गुरुपूर्वकास्तान् यतीन् सन्यासिनः ननाम नमस्कृतवान् । ‘णमु प्रह्वत्वे शब्दे चेत्यतो लिट् परस्मैपदं ननाम नेमतुर् नेमुः’ । तथा हि महतां श्रेष्ठानां विडम्बनं प्राकृतजनानुकरणं महीयो ऽतिमहत् । अहो आश्चर्यम् ॥ ३५ ॥
विश्वास-प्रस्तुतिः - ३६
वराश्रमाचारविशेषशिक्षणं विधित्सुरस्याचरितं निशामयन् ।
विशेषशिक्षां स्वयमाप्य धीरधीर्यतीश्वरो विस्मयमायतान्तरम् ॥३६॥
मूलम् - ३६
वराश्रमाचारविशेषशिक्षणं विधित्सुरस्याचरितं निशामयन् ।
विशेषशिक्षां स्वयमाप्य धीरधीर्यतीश्वरो विस्मयमायतान्तरम् ॥३६॥
पदार्थदीपिकोद्बोधिका
वरेति ॥ धीरा धीर्यस्य सोऽचञ्चलचित्त इत्यर्थः । यतीश्वरोऽच्युतप्रेक्षः । अस्य पूर्णप्रज्ञाचार्यस्य वराश्रमस्य संन्यासाश्रमस्य आचारविशेषस्य शिक्षणं शिक्षां विधित्सुर्विधातुमिच्छुः सन्, आचरितमाचारं निशामयन् पश्यन् सन् स्वयं विशेषशिक्षां विशेषशिक्षणमाप्याऽन्तरं मानसं विस्मयमायत प्रपेदे । अय पयगतौ लङ् ॥ ३६ ॥
मन्दोपाकारिणी
वरेति ॥ धीरधीर् धीरा स्थिरा धीर् अन्तःकरणं यस्य स तथोक्त उत्तमशिष्यप्राप्त्या स्वस्थान्तःकरण इति भावः । यतीश्वरः यतीनां सन्यासिनाम् ईश्वरः श्रेष्ठो ऽच्युतप्रेक्षः । अस्य श्रीपूर्णप्रज्ञाचार्यस्य वराश्रमाचारविशेषशिक्षणं वराश्रमस्य यत्याश्रमस्य आचारविशेषस् तदाश्रमे विहितशौचाचमनस्नानाद्यनुष्ठानविशेष इत्यर्थः । आचारविशेषस्य शिक्षणम् उपदेशं विधित्सुर् विधातुमिच्छन् सन् । अस्य पूर्णप्रज्ञस्य आचरितम् आचारं निशामयन् पश्यन् सन् । स्वयं तस्मात् पूर्णप्रज्ञाद् विशेषशिक्षां विशेषतः स्वापेक्षया आधिक्येन शिक्षाम् अनुष्ठानप्रकारम् आप्य ज्ञात्वा आन्तरम् अन्तरे मनसि भवम् आन्तरं विस्मयम् आश्चर्यम् आयत प्रपेदे । ‘अय गतावित्यस्माद्धातोर् लङात्मनेपदम् आयत आयेताम् आयन्त’ । अच्युतप्रेक्षः पूर्णप्रज्ञस्य नूतनयतित्वेन यत्याश्रमकर्तव्यानुष्ठानविशेषानभिज्ञत्वं मत्वा स्वयं तस्य अनुष्ठानविशेषप्रकारम् उपदेष्टुकामः सन् स्वयमेव स्वेनापि अज्ञातपूर्णप्रज्ञानुष्ठीयमाना-चारविशेषं ज्ञात्वा स्वमनसि आश्चर्यं प्राप इति भावः ॥ ३६ ॥
विश्वास-प्रस्तुतिः - ३७
स रौप्यपीठालयवासिने यदा ननाम नाथाय महामतिर्मुदा ।
तदाऽमुनाऽग्राहि नरप्रवेशिना भुजे भुजेनाशु भुजङ्गशायिना॥३७॥
मूलम् - ३७
स रौप्यपीठालयवासिने यदा ननाम नाथाय महामतिर्मुदा ।
तदाऽमुनाऽग्राहि नरप्रवेशिना भुजे भुजेनाशु भुजङ्गशायिना॥३७॥
पदार्थदीपिकोद्बोधिका
स इति ॥ महती मतिर्यस्य सः पूर्णप्रज्ञो रूप्यपीठालये वस्तुं शीलमस्यास्तीति तस्मै नाथाय स्वामिने मुदा प्रीत्या यदा ननाम तदा नरे कस्मिंश्चित्पुरुषे प्रवेष्टुं शीलमस्यास्तीति तेन अमुना । भुजङ्गे शेषे शेतुं शीलमस्यास्तीति तेन । भुजेन हस्तेन भुजे श्रीपूर्णप्रज्ञहस्ते आशु अग्राहि गृहीतः ॥ ३७ ॥
मन्दोपाकारिणी
स इति ॥ सः महामतिर् महती पूर्णा मतिः प्रज्ञा यस्य स तथोक्तः पूर्णप्रज्ञ इत्यर्थः । यदा यस्मिन् काले रौप्यपीठालयवासिने रौप्यपीठाख्यं च तद् आलयः गृहं च रौप्यपीठालयः रौप्यपीठपुरमिति यावत् तस्मिन् वासो ऽस्यास्तीति रौप्यपीठालयवासी तस्मै । नाथाय स्वस्वामिनेऽनन्तेश्वराय मुदा सन्तोषेण ननाम नमस्कृतवान् तदा तस्मिन् काले, नरप्रवेशिना नरे कस्मिंश्चित् पुरुषे प्रवेशो ऽस्यास्तीति नरप्रवेशी तेन पुरुषप्रविष्टेन । भुजङ्गशायिना भुजङ्गे शेषे शेत इति भुजङ्गशायी तेन अनन्तेश्वरेण । भुजेन अनन्तेश्वरहस्तेन भुजे स्वभुजे आशु शीघ्रम् अग्राहि गृहीतः । ‘ग्रह उपादाने’ इत्यस्मात् कर्मणि लुङात्मनेपदम् अग्राहि अग्राहिषाताम् अग्राहिषत ॥ ३७ ॥
विश्वास-प्रस्तुतिः - ३८
चिरात्सुतत्त्वं प्रबुभुत्सुना त्वया निषेवणं मे यदकारि तत्फलम् ।
इमं ददामीत्यभिधाय सोऽमुना तदा प्रणीय प्रददेऽच्युतात्मने॥३८॥
मूलम् - ३८
चिरात्सुतत्त्वं प्रबुभुत्सुना त्वया निषेवणं मे यदकारि तत्फलम् ।
इमं ददामीत्यभिधाय सोऽमुना तदा प्रणीय प्रददेऽच्युतात्मने॥३८॥
भावप्रकाशिका
अच्युते आत्मा बुद्धिः प्रज्ञा अस्येति अच्युतात्मा अच्युतप्रज्ञः ॥ ३८ ॥
पदार्थदीपिकोद्बोधिका
चिरादिति ॥ तदाऽमुना नरप्रवेशिना हरिणा हस्ते गृहीत्वा प्रणीय, अच्युतप्रेक्षसमीपमानीय सुतत्त्वं शोभनतत्त्वं प्रबुभुत्सुना प्रबोद्धुमिच्छुना त्वया चिराद् बहुकालं मे निषेवणं सेवा अकारि कृतं यद्यस्मात्तस्मात्तत्फलं तस्य निषेवणस्य फलमिमं ददामीत्यभिधाय अच्युते आत्मा मनो यस्य तस्मै अच्युतप्रेक्षाय प्रददे दत्तः । मत्प्रसादात्प्राप्तोऽयं तव मत्तत्त्वमुपदेक्ष्यतीत्युक्त्वा प्रददौ इति भावः ॥ ३८ ॥
मन्दोपाकारिणी
चिरादिति ॥ अमुना नरप्रविष्टेन हरिणा सः पूर्णप्रज्ञस् तदा हस्तग्रहणसमये हस्ते गृहीत्वा इति भावः । प्रणीय अच्युतप्रेक्षसमीपम् आनीय । अच्युतात्मने अच्युते परमात्मनि आत्मा बुद्धिर् यस्य सो ऽच्युतात्मा अच्युतप्रेक्षस् तस्मै । ‘आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्मवर्ष्म च’ इत्यमरः । प्रददे दत्तः ‘प्रपूर्वाड् डुदाञ् दान इत्यतः कर्मणि लिट् आत्मनेपदं ददे ददाते ददिरे’ । किं कृत्वा । सुतत्वं शोभनं तत्वं प्रबुभुत्सुना प्रबोद्धुं ज्ञातुमिच्छता त्वया चिराद् बहुकालं मे मम, हे अच्युतप्रेक्ष त्वया यन् निषेवणं सेवा अकारि कृतम् । ‘डुकृञ् करणे इत्यतः कर्मणि लुङात्मनेपदम् अकारि अकारिषाताम् अकारिषत’ । तत्फलं तस्य मन्निषेवणस्य फलं फलभूतम् अमुं पूर्णप्रज्ञं ददामि इति अभिधाय उक्त्वा प्रदद इत्यन्वयः । ‘डु दाञ् दाने लट् परस्मैपदं ददामि दद्वः दद्मः’ । मत्प्रसादात् प्राप्तोऽयं पूर्णप्रज्ञस् तव मत्तत्वम् उपदेक्ष्यतीत्युक्त्वा प्रददौ इति भावः । ‘प्रपूर्वाड् डुदाञ् दाने लिट् आत्मनेपदं प्रददे प्रददाते प्रददिरे’ ॥ ३८ ॥
विश्वास-प्रस्तुतिः - ३९
अनुग्रहं तं प्रतिगृह्य सादरं मुदात्मनाप्तां कृतकृत्यतां स्मरन् ।
अभूदसंगोऽपि स तत्सुसंगावानसंगभूषा ननु साधुसङ्गिता॥ ३९॥
मूलम् - ३९
अनुग्रहं तं प्रतिगृह्य सादरं मुदात्मनाप्तां कृतकृत्यतां स्मरन् ।
अभूदसंगोऽपि स तत्सुसंगावानसंगभूषा ननु साधुसङ्गिता॥ ३९॥
भावप्रकाशिका
असङ्गभूषा – संगः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते । सद्भिरेव स कर्तव्यः सन्तः संगस्य भेषजम् ॥ इति ॥ ३९ ॥
पदार्थदीपिकोद्बोधिका
अनुग्रहमिति ॥ सोऽच्युतप्रेक्षस्तं देवकृतमनुग्रहम् आग्रहेण आदरेण सहितं यथा भवति तथा साग्रहं मुदा प्रतिगृह्याङ्गीकृत्य आत्मना स्वेन, कृतं कृत्यं प्रयोजनं येन तस्य भावस्तत्ता ताम् आप्तां प्राप्तां स्मरन् सन्, न विद्यते सङ्गः प्राकृतपुरुषसङ्गो यस्य तादृशोऽपि, तत्सुसङ्गवान् तस्मिन् पूर्णप्रज्ञे सु सम्यक् यः सङ्गः संसर्गः सोऽस्यास्तीति तादृशोऽभूत् । एतच्च युक्तमित्याह—साध्विति । साधुषु यः सङ्गः सोऽस्यास्तीति साधुसङ्गी तस्य भावस्तत्ता । न विद्यते सङ्गो विषयसंसर्गो येषां तेषां भूषा अलङ्कारो ननु । यद्वा सङ्गाभावोऽसङ्गस्तस्य भूषेति वा । तथा हि ‘सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते । सद्भिः सह स कर्तव्यः सन्तः सङ्गस्य भेषजं’ इति श्रुतिः । एवञ्चात्यक्तसङ्गानां सत्सङ्गः सङ्गत्यागकारणं, त्यक्तसङ्गानान्तु भूषणमेवेत्युक्तं भवति ॥ ३९ ॥
मन्दोपाकारिणी
अनुग्रहमिति ॥ सो ऽच्युतप्रेक्षस् तं भगवत्कृतम् अनुग्रहं सादरम् आदरेण सहितं यथा भवति तथा भक्तिपूर्वकं मुदा सन्तोषेण प्रतिगृह्य अङ्गीकृत्य । आत्मना स्वेन कृतकृत्यतां कृतं पूर्णं कृत्यं मनोरथः यस्य सः कृतकृत्यस् तस्य भावः कृतकृत्यता ताम् आप्तां प्राप्तां स्मरन् । अहम् इदानीं पूर्णं मनोरथं प्राप्तवानस्मि इति अनुसन्दधानस्सन् । असङ्गोऽपि प्राकृतजनसङ्गरहितोऽपि तत्सुसङ्गवान् तस्मिन् पूर्णप्रज्ञे सु सम्यक् सङ्ग आसक्तिर् अस्यास्तीति तत्सुसङ्गवान् अभूत् । तद्युक्तमेव हि कुतः साधुसङ्गिता साधुषु सङ्गिता सङ्गवत्वं सङ्ग इत्यर्थः । असङ्गभूषा ननु असङ्गानां सङ्गरहितानां पुरुषाणां भूषा अलङ्कारो हि । असङ्गः सर्वथा विषयत्यागः स च त्यक्तुं न शक्यते । सद्भिः सह सङ्गः कर्तव्यः । ‘सन्तः सङ्गस्य भेषजं’ इति स्मृतेः । अत्यक्तसङ्गानां सत्सङ्गस्य विषयत्यागहेतुत्वात् त्यक्तसङ्गानामपि सत्सङ्गः भूषणमेवेत्याशयः ॥ ३९ ॥
विश्वास-प्रस्तुतिः - ४०
यियासति स्वस्तटिनीं मुहुर्मुहुर्नमत्यनुज्ञार्थिनि भूरिचेतसि ।
तमस्मरत् स्वामिनमेव दूनधीर्गुरुर्भविष्यद्विरहाग्निशङ्कया॥ ४० ॥
मूलम् - ४०
यियासति स्वस्तटिनीं मुहुर्मुहुर्नमत्यनुज्ञार्थिनि भूरिचेतसि ।
तमस्मरत् स्वामिनमेव दूनधीर्गुरुर्भविष्यद्विरहाग्निशङ्कया॥ ४० ॥
**पदार्थदीपिकोद्बोधिका **
यियासतीति ॥ स्वस्तटिनीं स्वर्गनदीं स्वर्गङ्गामित्यर्थः । यियासति यातुमिच्छति । भूरि पूर्णं चेतो बुद्धिर्यस्य तस्मिन् पूर्णप्रज्ञाचार्य इत्यर्थः । अनुज्ञामर्थितुं शीलमस्यास्तीति तस्मिन् सति, अत एव मुहुर्मुहुर्नमति सति । भविष्यन् यो विरहो वियोगः स एवाग्निस्तस्य शङ्कया दूना दुःखिता धीर्मनो यस्य स गुरुरच्युतप्रेक्षस् तं रजतपीठगतं स्वामिनमेवास्मरत् । स्मृ आध्याने लङ् ॥ ४० ॥
मन्दोपाकारिणी
यियासतीति ॥ स्वस्तटिनीं स्वः स्वर्गस्य ‘स्वरव्ययं स्वर्गनाकत्रिदिवत्रिदशालयाः’ इत्यमरः । तटिनी नदी ‘नदी सरित् तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी’ इत्यमरः । तां स्वस्तटिनीं गङ्गां यियासति यातुम् इच्छति भूरिचेतसि भूरि पूर्णं ‘भूरि प्राज्ये सुपूर्णयोः’ इति विश्वः । बह्वर्थविषयकमिति यावत्, चेतः हृदयं यस्य सः भूरिचेतास् तस्मिन् पूर्णप्रज्ञे । अनुज्ञार्थिनि अनुज्ञां याञ्चाम् अर्थयते याचयतीति अनुज्ञार्थी तस्मिन् । मुहुर्मुहुः पुनः पुनः नमति सति नमस्कारं कुर्वति सति । भविष्यद्विरहाग्निशङ्कया विरह एव अग्निर् विरहाग्निर् भविष्यंश्चासौ विरहाग्निश्च भविष्यद्विरहाग्निस् तस्य शङ्कया उद्वेगेन दूनधीर् दूना सन्तापिता धीर्मनो यस्य स तथोक्तः । ‘सन्तापितसन्तप्तौ धूपितधूपायितौ च दूनश्च’ इत्यमरः । पूर्णप्रज्ञे गते मम वियोगो भविष्यतीतिति भयेन दुखितान्तःकरण इति भावः । गुरुर् अच्युतप्रेक्षस् तं रजतपीठपुरगतं स्वामिनमेव अनन्तेश्वरमेव अस्मरत् । स्मृ चिन्तायाम् इत्यस्माद् लङ् परस्मैपदम् अस्मरद् अस्मरताम् अस्मरन्’ ॥ ४० ॥
विश्वास-प्रस्तुतिः - ४१
इतस्तृतीये दिवसे द्युनिम्नगा त्वदर्थमास्माकतटाकमाव्रजेत् ।
अतो न याया इति तं तदाऽवदत्प्रविश्य कञ्चित् करुणाकरो हरिः॥४१॥
मूलम् - ४१
इतस्तृतीये दिवसे द्युनिम्नगा त्वदर्थमास्माकतटाकमाव्रजेत् ।
अतो न याया इति तं तदाऽवदत्प्रविश्य कञ्चित् करुणाकरो हरिः॥४१॥
पदार्थदीपिकोद्बोधिका
इत इति ॥ तदा करुणाकरो हरिः कञ्चित्पुरुषं प्रविश्य दिवो निम्नगा नदी द्युनिम्नगा गङ्गा । तुभ्यमिति त्वदर्थम् । इत एतद्दिनात् तृतीये दिवसेऽस्माकं सम्बन्धी आस्माकः स चासौ तटाकश्च तमाव्रजेदागमिष्यति । अतोऽत्रैव स्नातुं शक्यत्वात्त्वं न यायाः, गङ्गायां स्नातुं दूरं न गच्छेति तं पूर्णप्रज्ञमवदत् ॥ ४१ ॥
मन्दोपाकारिणी
इत इति ॥ तदा स्मरणे कृते सति । करुणाकरः करुणायाः कृपाया आकरः खनिर् हरिर् अनन्तेश्वरः कश्चित् पुरुषं प्रविश्य तं पूर्णप्रज्ञं प्रति अवदत् । हे पुर्णप्रज्ञ द्युनिम्नगा द्यौः सुरलोकः ‘सुरलोको द्योदिवौ द्वे’ इत्यमरः । तस्या निम्नगा नदी ‘स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा’ इत्यमरः । द्योर्निम्नगा द्युनिम्नगा स्वर्गनदी गङ्गा त्वदर्थं तव स्नानार्थम् इत्यर्थः । इतो ऽस्माद् इदानीं वर्तमानात् तृतीये दिवसे आस्माकतटाकम् अस्माकम् अयम् आस्माक आस्माकश्चासौ तटाकः पद्माकरश्च आस्माकतटाकस् तम् । ‘पद्माकरस्तटाकोऽस्त्री’ इत्यमरः । आव्रजेद् आगमिष्यति । ‘व्रज गतौ इत्यतो लिङ् परस्मैपदम् आव्रजेद् आव्रजेताम् आव्रजेयुः’ । अत एतस्मात् कारणाद् दूरदेशं प्रति त्वं न याया न गच्छेर् इत्यवदद् इति सम्बन्धः । ‘या प्रापण इत्यस्माद् विधिलिङ् परस्मैपदं याया यायातं यायात ॥ ४१ ॥
विश्वास-प्रस्तुतिः - ४२
तदाज्ञयोपागतजाह्नवीजले जनोऽत्र सस्नौ सह पूर्णबुद्धिना ।
ततः परं द्वादशवत्सरान्तरे सदा व्रजेत्सा तदनुग्रहाङ्किनी॥ ४२ ॥
मूलम् - ४२
तदाज्ञयोपागतजाह्नवीजले जनोऽत्र सस्नौ सह पूर्णबुद्धिना ।
ततः परं द्वादशवत्सरान्तरे सदा व्रजेत्सा तदनुग्रहाङ्किनी॥ ४२ ॥
पदार्थदीपिकोद्बोधिका
तदिति ॥ जनस्तस्य हरेरेवाज्ञा तदाज्ञा तया ।अत्र सरस्युपागता सम्प्राप्ता या जाह्नवी तस्या जले पूर्णबुद्धिना पूर्णप्रज्ञेन सह सस्नौ । ष्णा शौचे लिट् । सा गङ्गा ततःपरम् उत्तरत्र, द्य्वधिका दश द्वादश ते च ते वत्सराश्च तेषामन्तरे मध्ये । द्वादशवत्सरा अन्तरं यस्मिन् काल इति वा । तस्मिन् पूर्णप्रज्ञे कृतोऽनुग्रहस्तदनुग्रहः । तस्मिन्काले भगवता श्रीमध्वाचार्ये कृतानुग्रह इत्यर्थः । तस्याङ्कश् चिह्नं ज्ञापकमिति यावत्, सोऽस्यास्तीति तदनुग्रहाङ्किनी सती भगवता श्रीमध्वाचार्ये कृतस्यानुग्रहस्य चिह्नभूतद्वादश-वत्सरान्तरागमनवतीति भावः । सदा नियमेनाव्रजेद् रजतपीठपुरतटाकमागच्छेत् ॥ ४२ ॥
मन्दोपाकारिणी
तदेति ॥ जनस् तदाज्ञया तस्य हरेर् आज्ञया अत्र तटाके उपागतजाह्नवीजले उपागता प्राप्ता च सा जाह्नवी गङ्गा च उपागतजाह्नवी । तस्या जलं सलिलं तस्मिन् पूर्णबुद्धिना पूर्णप्रज्ञेन सह सस्नौ स्नातवान् । ष्णा शौच इत्यतो लिट् परस्मैपदं सस्नौ सस्नतुः सस्नुः’ । सा गङ्गा ततः परं तस्माद् दिवसाद् द्वादशवत्सरान्तरे अन्यो वत्सरो वत्सरान्तरं द्वादश च तद् वत्सरान्तरं च द्वादशवत्सरान्तरं तस्मिन् द्वादशवर्षे इत्यर्थः । सदा नियमेन प्रतिद्वादशवत्सरमिति भावः । आव्रजेद् रजतपीठपुरतटाकम् आगच्छेत् । ‘आङ् पूर्वकाद् व्रज गतावित्यतो लिङ् परस्मैपदम् आव्रजेद् आव्रजेताम् आव्रजेयुः’ । कथंभूता । तदनुग्रहाङ्किनी तस्य भगवतो ऽनुग्रहस् तदनुग्रहस् तस्य अङ्को ऽस्यास्तीति तथोक्तेति विग्रहः । मध्वाचार्ये तस्मिन् भगवति कृतस्य अनुग्रहस्य अङ्कः द्वादशवत्सरे आगमनरूपचिह्नमिति यावत् सोऽस्या अस्तीति तदनुग्रहाङ्किनी भागीरथ्या अत्र द्वादशवत्सरे आगमनं मध्वे भगवत्कृतानुग्रहसूचकमिति भावः ॥ ४२ ॥
विश्वास-प्रस्तुतिः - ४३
गते दिनानां दशके समासके वराश्रमं प्राप्य सपत्रलम्बनम् ।
जिगाय जैत्रान् बहुतर्ककर्कशान् स वासुदेवाह्वयपण्डितादिकान् ॥ ४३॥
मूलम् - ४३
गते दिनानां दशके समासके वराश्रमं प्राप्य सपत्रलम्बनम् ।
जिगाय जैत्रान् बहुतर्ककर्कशान् स वासुदेवाह्वयपण्डितादिकान् ॥ ४३॥
भावप्रकाशिका
त्रिदिनं य उपन्यासं व्यधाद्विद्वान् निरन्तरम् । वैशेषिकाग्रयो विजितो वासुदेवाह्वयोऽमुना ॥ ४३ ॥
पदार्थदीपिकोद्बोधिका
गत इति ॥ स पूर्णप्रज्ञाचार्यः स्वयं वराश्रमं यत्याश्रमं प्राप्य समासके मासेन सहिते । दिनानां दिवसानां दशके गते सति । बहुतर्ककर्कशान् बहुभिस्तर्कैरनुमानैः कर्कशान् कठिनान् परनिराकरणनिर्दयानित्यर्थः । अत एव जैत्रान् जयशीलान् । वासुदेवेत्याह्वयो यस्य स चासौ पण्डितो विद्वांश्च स आदिर्येषां तान्, वासुदेवपण्डितेति कश्चिद्वैशेषिकाग्रणीस्तदादिकानित्यर्थः । पत्रलम्बनेन सहितं यथा भवति तथा सपत्रलम्बनं सनिर्णायकपत्रमित्यर्थः जिगाय । त्रिदिनञ्चोपन्यासं व्यधाद् विद्वान्निरन्तरं वैशिषिकाग्रयो वासुदेवाह्वयोऽमुना विजित इति च ऐतिह्यम् ॥ ४३ ॥
मन्दोपाकारिणी
गत इति ॥ सः पूर्णप्रज्ञः वराश्रमं यत्याश्रमं प्राप्य समासके माससहिते दिनानां दिवसानां दशके गते अतीते सति । मासानन्तरं दशसु दिवसेषु चत्वारिंशद्दिनेषु अतिक्रान्तेषु सत्सु इत्यर्थः । बहुतर्ककर्कशान् बहुविधैस् तर्कैः कर्कशान् परनिराकरणे निर्दयान् । अत एव जैत्रान् जयशीलान् । वासुदेवाह्वयपण्डितादिकान् वासुदेव इति आह्वयो नाम यस्य सः वासुदेवाह्वयश्चासौ पण्डितः विद्वांश्च वासुदेवाह्वयपण्डितः स एव आदिर् येषां ते वासुदेवाह्वयपण्डितादिकास् तान् । सपत्रलम्बनं पत्रस्य जयपत्रस्य लम्बनं स्वीकारस् तेन सहितं यथा भवति तथा जिगाय जितवान् पत्रं गृहीतवानिति भावः । ‘जि जय इत्यस्माद्धातोर् लिट् परस्मैपदं जिगाय जिग्यतुर् जिग्युः’ ॥ ४३ ॥
विश्वास-प्रस्तुतिः - ४४
गुरोः स्वशिष्यं चतुरं चिकीर्षतः प्रचोदनाच्छ्रोतुमिहोपचक्रमे ।
अथेष्टसिद्धिश्छलजातिवारिधिर्निरादरेणापि महात्मनामुना॥ ४४ ॥
मूलम् - ४४
गुरोः स्वशिष्यं चतुरं चिकीर्षतः प्रचोदनाच्छ्रोतुमिहोपचक्रमे ।
अथेष्टसिद्धिश्छलजातिवारिधिर्निरादरेणापि महात्मनामुना॥ ४४ ॥
पदार्थदीपिकोद्बोधिका
गुरोरिति ॥ अथ महात्मनामुना पूर्णप्रज्ञार्येण इह अस्मिन्ग्रन्थे । निर्गत आदर आसक्तिर् यस्मात्तेनापि । छलानि छलोत्तराणि जातयो जात्युत्तराणि ताभिर्वारिधिरिव वारिधिः पूर्णेत्यर्थः । इष्टसिद्धिरिष्टस्याद्वैत्यभीप्सितात्मैक्यस्य सिद्धिर्येन तादृशः । ‘इष्टसिद्धि’ नामक औतग्रन्थविशेषः । स्वशिष्यं चतुरं विदग्धम् । चिकीर्षतः कर्तुमिच्छतः गुरोरच्युतप्रेक्षस्य चोदनान् नियोगात् श्रोतुमुपचक्रमे । क्रमु पादविक्षेपे कर्मणि लिट् । उपक्रान्तम् ॥ ४४ ॥
मन्दोपाकारिणी
गुरोरिति ॥ अथ कतिचिद्दिनानन्तरं महात्मना महान् बहुविषयक आत्मा मनो यस्य स तथोक्तस् तेन । अमुना पूर्णप्रज्ञेन इष्टसिद्धिर् इष्टसिद्धिनामको ग्रन्थः श्रोतुं तदर्थं श्रोतुम् उपचक्रम उपक्रान्तः । ‘उपपूर्वात् क्रमु पादविक्षेपे इत्यस्मात् कर्मणि लिडात्मनेपदम् उपचक्रमे उपचक्रमाते उपचक्रमिरे’ । कथंभूत इष्टसिद्धिः । छलजातिवारिधिश् छलानि छलोत्तराणि जातयः जात्युत्तराणि च छलजातयश् छलजातिभिर् वारिधिः समुद्रः पूर्ण इति यावत् । अत्यन्तं परस्परं व्याहतयुक्तम् इत्यर्थः । कथंभूतेन अमुना । इह अस्मिन् श्रूयमाणग्रन्थे निरादरेणापि आदररहितेनापि । आदराभावे कुतः श्रोतुम् उपचक्रम इत्यत आह । स्वेति । स्वशिष्यं पूर्णप्रज्ञं चतुरं विदग्धं चिकीर्षतः कर्तुमिच्छतः गुरोर् अच्युतप्रेक्षस्य प्रचोदनात् प्रेरणाद् आदराभावेऽपि गुर्वाज्ञाया अनुल्लङ्घ्यत्वाद् दूषणयुतोऽपि ग्रन्थः श्रोतुमारब्ध इति भावः ॥ ४४ ॥
विश्वास-प्रस्तुतिः - ४५
तदाद्यपद्यस्थमवद्यमण्डलं यदावदत् षोडशकद्वयात्मकम् ।
उपर्यपास्तं तदिति ब्रुवत्यसौ गुरौ तमूचे प्रणिगद्यतामिति॥ ४५ ॥
मूलम् - ४५
तदाद्यपद्यस्थमवद्यमण्डलं यदावदत् षोडशकद्वयात्मकम् ।
उपर्यपास्तं तदिति ब्रुवत्यसौ गुरौ तमूचे प्रणिगद्यतामिति॥ ४५ ॥
पदार्थदीपिकोद्बोधिका
तदिति ॥ असौ श्रोता पूर्णप्रज्ञः । तस्य श्रोतुमुपक्रान्तस्य इष्टसिद्धिनामकग्रन्थस्याद्यं यत्पद्यं श्लोकस्तत्र तिष्ठतीति तादृशं, षोडशकद्धयात्मकं षडधिका दश षोडश षोडशैव षोडशकानि तेषां यद्द्वयं तदात्मा स्वरूपं यस्य तादृशं द्वात्रिंशत्सङ्ख्याकमित्यर्थः । अवद्यमण्डलं दोषसमूहं यदाऽवदद् उद्भावितवान्, तदा तदवद्यमण्डलमुपर्युपरितनवाक्येष्वपास्तं परिहृतमिति गुरौ ब्रुवति सति तर्हि, तन् मदुद्भावितदूषणपरिहाररूपमुत्तरमिदानीं प्रणिगद्यतामित्यूचे ॥ ४५ ॥
मन्दोपाकारिणी
तदिति ॥ असौ श्रोता पूर्णप्रज्ञाचार्यस् तदाद्यपद्यस्थं तस्य श्रोतुमुपक्रान्तस्य इष्टिसिद्धिनामकग्रन्थस्य आद्ये प्राथमिके पद्ये श्लोके तिष्ठतीति तदाद्यपद्यस्थस् तम् । षोडशकद्वयात्मकं षोडशसङ्ख्यानां द्वयं षोडशकद्वयं तदेव आत्मा स्वरूपं यस्य तत् तथोक्तं द्वात्रिंशत्सङ्ख्याकमित्यर्थः । अवद्यमण्डलम् अवद्यानां दूषणानां मण्डलं समूहम् । ‘मण्डलं च समूहे स्यात्’ इत्यभिधानम् । यदाऽवदद् उद्भावितवान् प्रकटीचकारेति यावत् । तदा तद् अवद्यमण्डलम् उपरि उत्तरवाक्ये अपास्तं परिहृतमिति गुरौ अच्युतप्रेक्षे ब्रुवति सति असौ मध्वाचार्यस् तद् उत्तरत्र वक्ष्यमाणदूषणपरिहाररूपम् उत्तरम् इदानीं प्रणिगद्यताम् उच्यताम् इति एवम् अच्युतप्रेक्षम् ऊचे ‘प्र नि इत्युपसर्गद्वयपूर्वाद् गद व्यक्तायां वाचीत्यतः कर्मणि लोट् आत्मनेपदं गद्यतां गद्येतां गद्यन्ताम्’ ॥ ४५ ॥
विश्वास-प्रस्तुतिः - ४६
भवत्प्रवक्तृत्वसमर्थता न मे सकोपमित्थं ब्रुवति व्रतीश्वरे ।
अपीह मायासमये पटौ नृणां बभूव तद्दूषणसंशयाङ्कुरः॥ ४६ ॥
मूलम् - ४६
भवत्प्रवक्तृत्वसमर्थता न मे सकोपमित्थं ब्रुवति व्रतीश्वरे ।
अपीह मायासमये पटौ नृणां बभूव तद्दूषणसंशयाङ्कुरः॥ ४६ ॥
पदार्थदीपिकोद्बोधिका
भवदिति ॥ इहास्मिन् मायाकल्पितं ब्रह्मातिरिक्तमिति समयः सिद्धान्तो मायासमयः । तस्मिन् मायिप्रणीतशास्त्र इत्यर्थः । पटौ चतुरेऽपि व्रतीश्वरे यतीश्वरेऽच्युतप्रेक्षे, मे मम भवत्प्रवक्तृत्वे भवतो व्याख्यातृत्वे समर्थता शक्तत्वं न इत्थमेवं सकोपं कोपेन सहितं यथा भवति तथा वदति सति, नृणां गुरुशिष्यविवादं ृण्वतां पुरुषाणां तद्दूषणसंशयाङ्कुरस्तस्येष्टसिद्धिनामकग्रन्थस्य, दूषणस्य श्रीमदाचार्योक्तदोषस्य संशयस्तस्य सद्वा, असद्वा, इति सन्देहस्याङ्कुर इवाङ्कुरो बभूव । एतावत्कालं निर्दोषत्वेन निश्चितस्य मायिसमयस्येदानीं सदोषत्वशङ्काङ्कुरोऽभूदिति भावः ॥ ४६ ॥
मन्दोपाकारिणी
भवदिति ॥ इह मायासमये मायाया अज्ञानस्य समये सिद्धान्ते पटौ चतुरे व्रतीश्वरे व्रतिनां यतीनाम् ईश्वरे श्रेष्ठे अच्युतप्रेक्षे । हे पूर्णप्रज्ञ मे मम भवत्प्रवक्तृत्वसमर्थता भवतस् तव प्रवक्तुर् भावः प्रवक्तृत्वं तस्मिन् भवत्प्रवक्तृत्वे व्याख्याने इति यावत्, समर्थता सामर्थ्यं न त्वां प्रति व्याख्यातुं मम शक्तिर् नास्तीति भावः । इत्थम् एवं प्रकारेण सकोपं कोपेन सहितं यथा भवति तथा ब्रुवति वदति सति नृणां गुरुशिष्यविवादं ृण्वतां पुरुषाणां तद्दूषणसंशयाङ्कुरस् तस्य शास्त्रस्य दूषणे सद्वा असद्वा इति चिकित्सायां संशयस्य अङ्कुर उत्पत्तिर् बभूव । एतावत्कालं निर्दोषत्वेन निश्चितस्य मायिसमयस्य इदानीं सदोषत्वशङ्काङ्कुरोऽभूदिति भावः ॥ ४६ ॥
विश्वास-प्रस्तुतिः - ४७
बुधोऽभिधानं श्रवणं बुधेतरो ध्रुवं विदध्याद्विमुमुक्षुरात्मनः ।
यतिर्विशेषादिति लोकचोदनात्प्रवक्ति मायासमयं स्म पूर्णधीः ॥ ४७ ॥
मूलम् - ४७
बुधोऽभिधानं श्रवणं बुधेतरो ध्रुवं विदध्याद्विमुमुक्षुरात्मनः ।
यतिर्विशेषादिति लोकचोदनात्प्रवक्ति मायासमयं स्म पूर्णधीः ॥ ४७ ॥
पदार्थदीपिकोद्बोधिका
बुध इति ॥ आत्मनः स्वस्य विमुमुक्षुर् विमोक्तुमिच्छुर् बुधो विद्वान् ध्रुवं निःसंशयं यथा भवति तथा अभिधानं व्याख्यानं विदध्यात् कुर्यात् । बुधेतरः बुधादन्योऽविद्वानित्यर्थः । विमुमुक्षुः सन् श्रवणं गुरुमुखाच्छास्त्रश्रवणं विदध्यात् । तत्रापि यतिर्विशेषाद्गृहस्थादिभ्योऽतिशयाद् व्याख्यां श्रवणं वा विदध्यात् । ‘उपनिषदमावर्तयेदुप-निषदमावर्तयेदि’ति श्रुतेः । तस्य व्याख्याश्रवणादिरूपशास्त्रप्रवृत्तिमन्तरेण कर्तव्यान्तरा-भावाद्गृहस्थादिभ्यो विशेष इति भावः । इति लोकचोदनाद् लोकानां तत्रत्यजनानां प्रेरणात् पूर्णधीः पूर्णप्रज्ञाचार्यो मायासमयं मायाशास्त्रं प्रवक्ति स्म व्याचख्यौ । स्म अतीते ॥ ४७ ॥
मन्दोपाकारिणी
बुध इति ॥ आत्मनः स्वस्य विमुमुक्षुर् मोक्षम् इच्छन् बुधः विद्वान् ध्रुवं निश्चयम् अभिधानं व्याख्यानं विदध्यात् कुर्यात् । बुधेतरः बुधादितरो ऽन्यो ऽबुधो ऽज्ञानी श्रवणं शास्त्रश्रवणं विदध्यात् । एतावत् सर्वाश्रमसाधारणम् । तत्रापि यतिर् विशेषाद् अतिशयाद् व्याख्यानं श्रवणं च कुर्यात् । ‘उपनिषदमावर्तयेत्’ इत्युक्तेः । यतेः शास्त्रव्याख्यानश्रवणावृत्तिं विना कर्तव्यान्तराभावाद् यतिर् गृहस्थादिभ्योऽपि अतिशयेन व्याख्यानं श्रवणं च कुर्यात् । इति इत्थं लोकचोदनाद् लोकानां तत्र तदा मिलितानां जनानाम् । ‘लोकस्तु भुवने जने’ इत्यमरः । चोदनात् प्रेरणात् पूर्णधीः पूर्णप्रज्ञाचार्यः मायासमयं मायिशास्त्रं प्रवक्ति स्म व्याख्यातवान् । अच्युतप्रेक्षेण मम व्याख्यातुं सामर्थ्यं नास्तीत्युक्त्वा व्याख्याने त्यक्तवति सति श्रोतृजनाः सर्वे ‘त्वं व्याख्याने समर्थोऽसि । अतो ऽस्माकं त्वमेव मायिशास्त्रव्याख्यानं ब्रूहि’ इति प्रार्थितवन्तः । ततः स्वयं व्याचख्यौ इति भावः । ‘प्र पूर्वाद् वच परिभाषण इत्यतो लट् परस्मैपदम्’ । ‘स्म अतीते’ ॥ ४७ ॥
विश्वास-प्रस्तुतिः - ४८
अखण्डितोपन्यसनं विसंशयं ससम्प्रदायं प्रवचो दृढोत्तरम् ।
समागमञ्छ्रोतुममुष्य साग्रहा जनाः श्रुताढ््याश्चतुरा बुभूषवः॥४८॥
मूलम् - ४८
अखण्डितोपन्यसनं विसंशयं ससम्प्रदायं प्रवचो दृढोत्तरम् ।
समागमञ्छ्रोतुममुष्य साग्रहा जनाः श्रुताढ््याश्चतुरा बुभूषवः॥४८॥
पदार्थदीपिकोद्बोधिका
अखण्डितेति ॥ श्रुताढ्याः शास्त्रश्रवणसम्पन्ना जनाश् चतुरा युक्तिविशेषज्ञानेन विदग्धा बुभूषवः भवितुमिच्छवः सन्तो ऽखण्डितं निरन्तरम् उपन्यसनमुपन्यासः यस्मिन् तत् । विसंशयं विगतः संशयो यस्मात्तत् । दृढान्युत्तराणि यस्मिन् तत् । इतस्ततश्चोदकानां दूषणरहितोत्तरोपेतमित्यर्थः । ससम्प्रदायं सम्प्रदायेन सहितम् । अमुष्य पूर्णप्रज्ञस्य प्रवचो व्याख्यानं श्रोतुं साग्रहा आग्रहोपेताः सन्तः समागमन् । गम्ऌ गतौ लुङ् ॥ ४८ ॥
मन्दोपाकारिणी
अखण्डितेति ॥ श्रुताढ्याः श्रुतेन शास्त्रश्रवणेन आढ्याः सम्पन्नाः पूर्वमेव श्रुतशास्त्रा इत्यर्थः । जनाश् चतुरा युक्तिविशेषज्ञानेन विदग्धा बुभूषवः भवितुमिच्छन्तः सन्तो ऽखण्डितोपन्यसनम् अखण्डितं मध्ये मध्ये विच्छेदरहितम् उपन्यसनम् उपन्यासः यस्य तद् अखण्डितोपन्यसनं धारारूपेण व्याख्येयग्रन्थानुवादोपेतमित्यर्थः । विसंशयं विगताः संशया यस्मात् तद् विसंशयं सर्वसंशयपरिहारकं दृढोत्तरं दृढानि चोदकदूषणरहितानि प्रत्युत्तराणि यस्मिन् तत् ससंप्रदायं संप्रदायः व्याख्यातृपरम्परा व्याख्यानप्रकारस् तेन सहितं मायिशास्त्राभिज्ञसंमतमिति भावः । अमुष्य पूर्णप्रज्ञाचार्यस्य प्रवचः प्रवचनं मायिशास्त्रस्येति शेषः । श्रोतुं साग्रहा आग्रह आसक्तिस् तेन सहिता व्याख्यानश्रवणे रतिमन्त इत्यर्थः । एतादृशाः सन्तः समागमन् आगतवन्तः ‘गम्ऌ गतावित्यतो लुङ् परस्मैपदम् अगमद् अगमताम् अगमन्’ ॥ ४८ ॥
विश्वास-प्रस्तुतिः - ४९
गुरोरुपान्ते श्रवणे रतैर्द्विजैः सपञ्चषैर्भागवते कदाचन ।
बहुप्रकारे लिखिते तु वाचिते प्रकारमेकं प्रभुरभ्यधाद्दृढम्॥ ४९ ॥
मूलम् - ४९
गुरोरुपान्ते श्रवणे रतैर्द्विजैः सपञ्चषैर्भागवते कदाचन ।
बहुप्रकारे लिखिते तु वाचिते प्रकारमेकं प्रभुरभ्यधाद्दृढम्॥ ४९ ॥
पदार्थदीपिकोद्बोधिका
गुरोरिति ॥ कदाचन गुरोरच्युतप्रेक्षस्योपान्ते समीपे श्रवणे भागवतश्रवणे रतैर् निरतैः पञ्चषैः पञ्च वा षड्वा पञ्चषास्तैर्द्विजैर् बहुप्रकारे बहुश्चासौ प्रकारश्च तस्मिन्, बहुप्रकारेणेत्यर्थः । लिखिते भागवते वाचितेऽपि स प्रभुः पूर्णप्रज्ञाचार्यो दृढं निस्संशयं यथा भवति तथा एकं प्रकारमभ्यधात् । श्रीभागवतव्याख्यानावसरे श्रोतृजनैः स्वस्वपुस्तकेषु पृथक् पृथक् पाठत्वेन लिखिते भागवते वाचितेऽपि स प्रभुरयमेव पाठो व्यासाभिमत इति एकमेव पाठं दृढमभ्यधादिति भावः ॥ ४९ ॥
मन्दोपाकारिणी
गुरोरिति ॥ कदाचन कस्मिंश्चित् काले गुरोर् अच्युतप्रेक्षस्य उपान्ते समीपे श्रवणे भागवतपुराणव्याख्यानश्रवणे रतैर् निरतैः । पञ्चषैः पञ्च वा षड्वा पञ्चषास् तैर् द्विजैः शिष्यभूतैर् विप्रैः । बहुप्रकारे बहवः प्रकाराः पाठभेदा यस्मिन् तत्तथोक्तं तस्मिन् । लिखिते भिन्नभिन्नपाठेन लिखितभागवतेऽपि स प्रभुः पूर्णप्रज्ञाचार्यः दृढं निःसंशयं यथा भवति तथा एकं प्रकारम् अभ्यधाद् उवाच । श्रीभागवतपुराणव्याख्यानकाले श्रोतृजनैः स्वस्वपुस्तकेषु पृथक् पृथक् भिन्नपाठेन लिखितभागवते वाचितेऽपि पूर्णप्रज्ञः बहुपाठेषु मध्ये एकं पाठप्रकारं दृढम् अभ्यधाद् उक्तवान् । अयमेव पाठो व्यासाभिहित इति अभ्यधाद् इति भावः । ‘डु धाञ् धारणपोषणयोर् लुङ् परस्मैपदम् अधाद् अधाताम् अधुः’ ॥ ४९ ॥
विश्वास-प्रस्तुतिः - ५०
परप्रकारेष्वपि संभवत्सु ते विनिर्णयोऽस्मिन् कथमित्युदीरिते ।
मुकुन्दबोधेन महाहृदब्रवीत्प्रकारमेनं भगवत्कृतं स्फुटम्॥ ५० ॥
मूलम् - ५०
परप्रकारेष्वपि संभवत्सु ते विनिर्णयोऽस्मिन् कथमित्युदीरिते ।
मुकुन्दबोधेन महाहृदब्रवीत्प्रकारमेनं भगवत्कृतं स्फुटम्॥ ५० ॥
पदार्थदीपिकोद्बोधिका
परेति ॥ परप्रकारेष्वपि परे च ते प्रकाराश्च तेष्वपि पाठान्तरेष्वपीत्यर्थः । सम्भवत्सु सत्सु ते तवास्मिन् भवदुक्तपाठे विनिर्णयोऽयमेव साम्प्रदायिकपाठो नान्य इति निश्चयः कथमिति वचसि, मुकुन्दबोधेन मुकुन्दस्य बोधो ज्ञानं यस्य तेन अच्युतप्रेेक्षेणेत्यर्थ उदीरिते सति, महाहृन् महत् हृज् ज्ञानं यस्य तादृशः पूर्णप्रज्ञ एकं प्रकारमात्मनाभिहितं पाठप्रकारं भगवत्कृतं श्रीवेदव्यासकृतं स्फुटं सम्यक् सोपपत्तिकम् अब्रवीत् ॥ ५० ॥
मन्दोपाकारिणी
परेति ॥ परप्रकारेष्वपि परे अन्ये च ते प्रकाराश्च परप्रकारास् तेषु पाठान्तरेष्वपि संभवत्सु उपपन्नार्थेषु सत्सु ते तव अस्मिन् भवदुक्ते पाठे विनिर्णयो ऽयमेव व्यासोक्तः पाठः नान्य इति निश्चयः कथमिति मुकुन्दबोधेन मुकुन्दस्य बोधो ज्ञानं यस्य सः मुकुन्दबोधो ऽच्युतप्रेक्षस् तेन उदीरिते उक्ते सति महाहृन् महद् बहुविषयकं हृत् हृदयं यस्य सः महाहृत् पूर्णप्रज्ञः । एनं स्वात्मनोक्तं प्रकारं पाठप्रकारं भगवत्कृतं भगवता व्यासेन कृतं रचितं स्फुटं सम्यक् सोपपत्तिकम् अब्रवीत् ॥ ५० ॥
विश्वास-प्रस्तुतिः - ५१
निगद्यतां गद्यमिहैव पञ्चमे जगद्गुरोर्वेत्थ कृतिस्थितिं यदि ।
इति ब्रुवाणे यतिसत्तमे स्वयं तदुक्तमार्गेण जगाद भूरिहृत्॥ ५१ ॥
मूलम् - ५१
निगद्यतां गद्यमिहैव पञ्चमे जगद्गुरोर्वेत्थ कृतिस्थितिं यदि ।
इति ब्रुवाणे यतिसत्तमे स्वयं तदुक्तमार्गेण जगाद भूरिहृत्॥ ५१ ॥
पदार्थदीपिकोद्बोधिका
निगद्यतामिति ॥ यदि जगद्गुरोः श्रीवेदव्यासस्य कृतिस्थितिं निर्माणप्रकारं वेत्थ जानासि । विद ज्ञाने लट् । तर्हि, इहैव भागवत एव पञ्चमे पञ्चमस्कन्धे गद्यं निगद्यतां पाठतोऽर्थतश्च प्रोच्यतामिति यतिसत्तमे यतिश्रेष्ठे । ‘अग्रेसरः सत्तम उत्तमश्च’ इति हलः । अच्युतप्रेक्षे ब्रुवाणे सति, भूरिहृद् भूरि बहु हृज् ज्ञानं
यस्य तादृशः पूर्णप्रज्ञः स्वयं तदुक्तमार्गेण श्रीवेदव्यासोक्तमार्गेण जगाद, पाठतोऽर्थतश्चावदत् ॥ ५१ ॥
मन्दोपाकारिणी
निगद्यतामिति ॥ हे पूर्णप्रज्ञ यदि जगद्गुरोर् जगतां गुरोर् वेदव्यासस्य कृतिस्थितिं कृतेर् गन्थनिर्माणस्य स्थितिं प्रकारं वेत्थ जानासि । ‘विद ज्ञाने इत्यस्माल्लट् परस्मैपदं वेत्थ विदथुर् विद’ । तर्हि इहैव भागवत एव पञ्चमे पञ्चमस्कन्धे गद्यम् अच्छन्दोबद्धं वाक्यं गद्यमित्युच्यते । अपादः पदसन्तानो गद्यमित्युच्यते बुधैर् इति वचनात् । तादृशं गद्यरूपं वाक्यं निगद्यतां पाठतो अर्थतश्च नितरां कथ्यताम् । ‘गद व्यक्तायां वाचि’ इत्यतः कर्मणि लोडात्मनेपदं गद्यतां गद्येतां गद्यन्ताम्’ । इति एवं यतिसत्तमे यतीनाम् उत्तमे अच्युतप्रेक्षे ब्रुवाणे सति भूरिहृद् भूरि पूर्णं हृत् हृदयं यस्य सः भूरिहृत् पूर्णप्रज्ञः । स्वयं तदुक्तमार्ग्रेण तेन वेदव्यासेन उक्तश्चासौ मार्गः प्रकारश्च तदुक्तमार्गस् तेन जगाद पाठतो ऽर्थतश्च अवदत् । ‘गद व्यक्तायां वाचीत्यतः लिट् परस्मैपदं जगाद जगदतुर् जगदुः’ ॥ ५१ ॥
विश्वास-प्रस्तुतिः - ५२
अशेषशिष्यैश्च तदाज्ञया तदा परीक्षणायैक्षि समस्तपुस्तकम् ।
स तत्र हन्तैकतमेक्षितं त्यजन्नतावदध्यायनिकायमभ्यधात्॥ ५२ ॥
मूलम् - ५२
अशेषशिष्यैश्च तदाज्ञया तदा परीक्षणायैक्षि समस्तपुस्तकम् ।
स तत्र हन्तैकतमेक्षितं त्यजन्नतावदध्यायनिकायमभ्यधात्॥ ५२ ॥
पदार्थदीपिकोद्बोधिका
अशेषेति ॥ तदा तस्मिन्काले तदाज्ञया तस्य गुरोराज्ञया, अशेषशिष्यैः परीक्षणाय परीक्षायै, तदुक्तप्रकारेण पाठः पुस्तकेष्वस्ति न वेति परीक्षार्थमित्यर्थः । समस्तपुस्तकं पञ्चमस्कन्धात्मकसमस्तपुस्तकमैक्षि दृष्टम् । स पूर्ण-प्रज्ञाचार्यस् तत्र अशेषपुस्तकमध्ये एकतमेक्षितं शुद्धपाठात्मकैकतमपुस्तके दृष्टं पाठं न त्यजन्, पुस्तकापेक्षां विना पञ्चमे गद्यं वदन्नपि विशुद्धपाठात्मकैकतमपुस्तकगतपाठानुसारेण वदन्नपीति भावः । तावत्तदा शिष्यैः पुस्तकेक्षणसमय इत्यर्थः । अध्यायनिकायं पञ्चमस्कन्धाध्यायानां समूहमभ्यधात् पाठतोऽर्थतश्चावदत् । हन्त आश्चर्यम् ॥ ५२ ॥
मन्दोपाकारिणी
अशेषेति ॥ तदा गद्यपठनकाले तदाज्ञया तस्य गुरोराज्ञया नियोगेन अशेषशिष्यैर् अशेषाश्च ते शिष्याश्च अशेषशिष्यास् तैः । परीक्षणाय पूर्णप्रज्ञोक्तपाठः पुस्तकेषु अस्ति न वा इति परीक्षार्थं विश्वासार्थम् इत्यर्थः । समस्तपुस्तकं समस्तं च तत् पुस्तकं च समस्तपुस्तकं समुदायैकवचनं पञ्चमस्कन्धात्मकसमस्त-पुस्तकसमुदाय ऐक्षि दृष्टम् । ‘ईक्ष दर्शन इत्यतः कर्मणि लुङ् आत्मनेपदम् ऐक्षि ऐक्षिषाताम् ऐक्षिषत’ । सः पूर्णप्रज्ञाचार्यस् तत्र अशेषपुस्तकमध्ये एकतमे शुद्धपाठात्मके एकस्मिन् पुस्तके स्थितं दृष्टं पाठं न त्यजन् अत्यजन् । पुस्तकापेक्षां विना पञ्चमे गद्यं वदन्नपि शुद्धपाठात्मकैकपुस्तकगतपाठानुसारेण वदन्निति भावः । तावत् तदा एकपुस्तकगत-पाठानुसारेण पठनकाले अध्यायनिकायम् अध्यायानां निकायः समुदायः । ‘स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम्’ इत्यमरः । तं पञ्चमस्कन्धाध्यायसमूहम् अभ्यधात् पाठतोऽर्थतश्च अवदत् । हन्त आश्चर्ये हर्षे वा ॥ ५२ ॥
अत्र जन्मनि न यत्पठितं ते जैत्र भाति कथमित्यमुनोक्ते ।
पूर्वजन्मसु हि वेद पुरेदं सर्वमित्यमितबुद्धिरुवाच॥
५३ ॥
भावप्रकाशिका
‘वेद पुरा’ वेदेत्यस्य लडादेशत्वात् ‘पुरि लुङ् चास्मे’ इति सूत्रादतीतार्थत्वम् ॥ ५३ ॥
॥ इति श्रीनारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमत्सुमध्वविजयस्य भावप्रकाशिकाख्यटीकायां चतुर्थः सर्गः ॥
पदार्थदीपिकोद्बोधिका
अत्रेति ॥ जैत्र जयशील ते त्वया, अत्र जन्मनि अस्मिन् जन्मनि यद्वेदपुराणादिकं न पठितं तत्कथं भाति प्रतिभाति? इति वचस्यमुना गुरुणोक्ते सति अमितबुद्धिः पूर्णप्रज्ञाचार्यः । इदं सर्वं पूर्वजन्मसु अतीतजन्मसु वेद पुरा व्यज्ञासिषम् इत्युवाच । वेदपुरेत्यत्र ‘यावत्पुरानिपातयोर्लट्’ इति सूत्रेणातीतार्थे लट् । ‘विदो लटो वा’ इति णलादेशः । रथोद्धतावृत्तम् । ‘रान्नराविह रथोद्धता लगौ’ इति तल्लक्षणम् ॥ ५३ ॥
मन्दोपाकारिणी
अत्रेति ॥ हे जैत्र जयशील । ते त्वया अत्र अस्मिन् जन्मनि यद् वेदपुराणादिकं न पठितं नाधीतं तत् ते कथं भाति प्रतिभाति ? ‘भा दीप्तावित्यतो लट् परस्मैपदं भाति भातः भान्ति’ । इति एवम् अमुना गुरुणा अच्युतप्रेक्षेण उक्ते सति अमितबुद्धिर् अमिता पूर्णा बुद्धिः प्रज्ञा यस्य स तथोक्तः पूर्णप्रज्ञाचार्यः । अहम् इदं सर्वं पूर्वजन्मसु पूर्वाणि अतीतानि च तानि जन्मानि च पूर्वजन्मानि तेषु पूर्वजन्मसु वेद पुरा ज्ञातवान् । हि प्रसिद्धम् इत्युवाच । ‘विद ज्ञान इत्यस्माद् लट् परस्मैपदं वेद्मि विद्वः विद्मः पक्षे वेद विद्व विद्म’ । ‘वेद पुरा’ इत्यत्र ‘यावत् पुरा निपातयोर् लट्’ इति सूत्रेण अतीतार्थे लट् प्रत्ययः । तस्य विदो लटोर् वा इति णलादेशः । रथोद्धतावृत्तं ‘रान्नराविह रतोद्धता लगौ’ इति वचनात् ॥ ५३ ॥
विश्वास-प्रस्तुतिः - ५४
इति बहुविधविश्वाश्चर्यचित्तप्रवृत्तेर्जगति विततिमापन्नूतनाप्यस्य कीर्तिः ।
क्षपिततततमस्का भास्करीव प्रभालं सुजनकुमुदवृन्दानन्ददा चन्द्रिकेव ॥ ५४ ॥
मूलम् - ५४
इति बहुविधविश्वाश्चर्यचित्तप्रवृत्तेर्जगति विततिमापन्नूतनाप्यस्य कीर्तिः ।
क्षपिततततमस्का भास्करीव प्रभालं सुजनकुमुदवृन्दानन्ददा चन्द्रिकेव ॥ ५४ ॥
॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनन्दाङ्के चतुर्थः सर्गः ॥
पदार्थदीपिकोद्बोधिका
इतीति ॥ इत्येवं बहुविधविश्वाश्चर्यचित्तप्रवृत्तेर् बहुविधा नानाविद्याविषया विश्वाश्चर्या सर्वलोकाश्चर्यभूता चित्तप्रवृत्तिर् मनोवृत्तिर्यस्य तस्यास्य श्रीपूर्णप्रज्ञाचार्यस्य क्षपिततततमस्का ततं व्याप्तं सर्वजनहृद्गतमित्यर्थः । यत्तमोऽज्ञानं क्षपितं निरस्तं तततमः यया सा । सुजनकुमुदवृन्दानन्ददा सुजना एव कुमुदानि कुमुदपुष्पाणि तेषां वृन्दस्य समूहस्यानन्दं ददातीति तादृशी कीर्तिर् नूतनापि, क्षपिततततमस्का निरस्तजगद्य्वाप्तान्धकारा भास्करी भास्करसम्बन्धिनी प्रभेव, सुजनकुमुदवृन्दानन्ददा सज्जनाख्यकुमुदवृन्दानन्दकारिणी चन्द्रिकेव ज्योत्स्नेवेति दृष्टान्तद्वयम् । जगति विततिं व्याप्तिमलं सम्यगापद् अगमत् । मालिनीवृत्तं ‘ननमयययुतेयं मालिनी भोगिलोकै’ रिति तल्लक्षणात् ॥ ५४ ॥
॥ इति श्रीमद्वेदाङ्गमुनिविरचितश्रीसुमध्वविजयटीकाविवृतौ श्रीविश्वपतितीर्थकृतौ पदार्थदीपिकोद्बोधिकायां चतुर्थः सर्गः ॥
मन्दोपाकारिणी
इतिति ॥ इति पुर्वोक्तप्रकारेण । बहुविधविश्वाश्चर्यचित्तप्रवृत्तेर् अनेकप्रकाराणां विश्वेषां सर्वेषां जनानाम् आश्चर्यभूता चित्तस्य हृदयस्य प्रवृत्तिः प्रकृष्टा अतिशयिता वृत्तिः परिणामज्ञानम् इत्यर्थः । चित्तस्य प्रवृत्तिश् चित्तप्रवृत्तिर् विश्वाश्चर्यभूता च सा चित्तप्रवृत्तिश्च विश्वाश्चर्यचित्तप्रवृत्तिः । बह्व्यः विधाः प्रकारा यस्याः सा बहुविधा नानाविधविषयिणी इति भावः । ‘विधाविधौ च प्रकारे’ इत्यमरः । बहुविधा विश्वाश्चर्यचित्तप्रवृत्तिर् यस्य सस् तथोक्तस् तस्य अस्य पूर्णप्रज्ञाचार्यस्य कीर्तिर् यशः नूतनापि नवीनापि जगति लोके विततिं व्याप्तिम् आयद् ययौ । ‘अय पय गतावित्यतो लङ् परस्मैपदम् आयद् आयताम् आयन्’ इति । जातमात्रापि मध्वकीर्तिः सर्वत्र व्याप्तेति भावः । कथंभूता कीर्तिर् भास्करी भास्करस्य सूर्यस्य इयं भास्करी सूर्यसंबन्धिनी प्रभेव दीप्तिरिव क्षपिततततमस्का क्षपितं निरस्तं ततं व्याप्तं सर्वजगद्गतम् इत्यर्थस् तमो ऽज्ञानलक्षणान्धकारो यया सा तथोक्ता । पुनः कथंभूता । चन्द्रिकेव कौमुदीव सुजनकुमुदवृन्दानन्ददा सुजनाः कुमुदानीव इन्दीवराणीव सुजनकुमुदानि । ‘सिते कुमुद कैरवे’ इत्यमरः । तेषां वृन्दं समूहस् तस्य आनन्दं हर्षं ददातीति सुजनकुमुदवृन्दानन्ददा । अनेन सूर्यदृष्टान्तेन अज्ञाननाशकत्वोक्त्या अनिष्टपरिहारकत्वं, चन्द्रदृष्टान्तेन आनन्दप्रदत्वोक्त्या इष्टप्रापकत्वं च उक्तं भवति । तेन च महागुरुत्वं ज्ञापितं भवति पूर्णप्रज्ञाचार्यस्येति ज्ञेयम् । वृत्तं तु मालिनी ‘ननमयययुतेयं मालिनी भोगिलोकैः’ इति तल्लक्षणात् ॥ ५४ ॥
॥ इति श्रीमध्वविजयटीकायां श्रीमच्छलारिनरसिंहाचार्याणां शिष्येण शेषेण विरचितायां मन्दोपकारिण्यां चतुर्थः सर्गः ॥ ४ ॥