तृतीयः सर्गः
तृतीयः सर्गः
विश्वास-प्रस्तुतिः - १
अथ कदाचन सुन्दरनन्दनस्मितमुखेन्दुदृशां दयितौ नृणाम् ।
महमितो निजबन्धुमुदे मुदा प्रययतुः स्वजनैः सह दम्पती ॥ १ ॥
मूलम् - १
अथ कदाचन सुन्दरनन्दनस्मितमुखेन्दुदृशां दयितौ नृणाम् ।
महमितो निजबन्धुमुदे मुदा प्रययतुः स्वजनैः सह दम्पती ॥ १ ॥
भावप्रकाशिका
बन्धुगृहस्य नडुवैरीत्यपभ्रष्टभाषा ॥ १ ॥
पदार्थदीपिकोद्बोधिका
कथान्तराणि विशेषाकारेण वक्तुमुपक्रमते – अथेति ॥ कथान्तरद्योतकोऽथशब्दः । ‘मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ’ इत्यमरः । कदाचन कस्मिंश्चित्काले सुन्दरस्य नन्दनस्य स्मितं मन्दहासोपेतं यन्मुखं तदेवेन्दुरिव तं पश्यन्तीति तथोक्तास्तेषां नॄणां दयितौ प्रियौ जाया च पतिश्च दम्पती । ‘जायाया दम्भावजम्भावौ वा निपात्यौ’ इत्युक्तेर्जायापदस्य दम्भावः । निजानामात्मीयबन्धूनां मुदे सन्तोषाय । स्वजनैः स्वकीयजनैः सह महमुत्सवमुद्दिश्य अतः स्वमन्दिरान् मुदा प्रीत्या प्रययतुः । अस्मिन् सर्गे द्रुतविलम्बितं वृत्तम् । ‘द्रुतविलम्बितमाह नभौ भरौ’ इति तल्लक्षणम् ॥ १ ॥
मन्दोपाकारिणी
अथेति ॥ अथ कतिपयवर्षानन्तरं ‘मङ्गलानन्तरारम्भप्रश्न-कार्त्स्न्येष्वथो अथ’ इत्यमरः । कदाचन कस्मिंश्चित् काले सुन्दरनन्दनस्मितमुखेन्दुदृशां सुन्दरः मनोहरः नन्दनः हर्षकः सुतः ‘नन्दनो हर्षकः सुतः’ इति विश्वः । सुन्दरश्चासौ नन्दनश्च सुन्दरनन्दनस् तस्य स्मितं मन्दहासयुक्तं च तन् मुखं च स्मितमुखं तदेव इन्दुश् चन्द्रस् तं पश्यन्तीति दृशस् तेषां नृणां जनानां दयितौ प्रियौ ‘दयितं वल्लभं प्रियं’ इत्यमरः । सुन्दरं बालकं दृष्ट्वा तदुपरि प्रीत्या तन्मातापितृत्वेन जनानां प्रीतिविषयौ इति भावः । दम्पती जाया च पतिश्च दम्पती ‘दम्पती जंपती जायापती भार्यापती च तौ’ इत्यमरः । निजबन्धुमुदे निजाः स्वकीयाश्च ते बन्धवः ज्ञातयश्च निजबन्धवस् तेषां मुदे प्रीत्यै । स्वजनैर् ज्ञातिभिः सह ‘सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः’ इत्यमरः । महं विवाहाद्युत्सवं ‘मह उद्धव उत्सवः’ इत्यमरः । उद्दिश्य इतो ऽस्मात् स्वमन्दिरात् । मुदा हर्षेण ‘मुत्प्रीतिः प्रमदो हर्षः’ इत्यमरः । प्रययतुर् जग्मतुः ‘या प्रापणे इत्यस्माल्लिट् परस्मैपदं ययौ ययतुर् ययुः’ । सर्गसमाप्तिपर्यन्तं प्रायः द्रुतविलम्बितं वृत्तम् । ‘द्रुतविलम्बितमाह नभौ भरौ’ इति तल्लक्षणात् ॥ १ ॥
विश्वास-प्रस्तुतिः - २
स्वजनतापगमागमसङ्गमप्रतिसभाजितपूर्वकसम्भ्रमे ।
अविदुषी जननीति स बालकः शरणतो रणतो निरगान्नृभिः॥ २ ॥
मूलम् - २
स्वजनतापगमागमसङ्गमप्रतिसभाजितपूर्वकसम्भ्रमे ।
अविदुषी जननीति स बालकः शरणतो रणतो निरगान्नृभिः॥ २ ॥
पदार्थदीपिकोद्बोधिका
स्वजनेति ॥ स बालः । नृभिर् नरैः । रणतो ध्वनिं कुर्वतः । रण शब्द इति धातुः । शरणतो गृहात् । जनानां समूहो जनता स्वस्यात्मनो जनता स्वबन्धुजनसमूह इत्यर्थः । तस्या अपगम उत्सवमन्दिरान्निर्गमः स च, आगमः प्रवेशः स च, सङ्गमः संमेलनं स च, सभाजितं परस्परसम्भावनं तच्च तानि पूर्वाण्येव पूर्वकाणि यस्य तादृशश्चासौ सम्भ्रमश्च तस्मिन् । जननी विदुषी न भवतीति अविदुषी । मम निर्गमनं न जानातीति मत्वा निरगान् निर्जगाम । इण् गतौ लुङ् ॥ २ ॥
मन्दोपाकारिणी
स्वजनेति ॥ सः बालकः वासुदेवः । नृभिर् जनैः । रणतः ध्वनिं कुर्वतः सर्वत्र कोलाहलशब्दपूर्णाद् इति यावत् । शरणतः गृहात् । ‘शरणं गृहरक्षित्रोः’ इत्यमरः । निरगान् निर्जगाम ‘इण् गतावित्यतो लुङ् परस्मैपदम् अगाद् अगाताम् अगुः’ । किं कृत्वा, स्वजनतापगमागमसङ्गमप्रतिसभाजितपूर्वकसम्भ्रमे जनानां समूहो जनता स्वा च सा जनता च स्वजनता अपगम उत्सवगृहान् निर्गमः, आगम उत्सवगृहे प्रवेशः, सङ्गम एकत्र मेलनं, प्रतिसभाजितं परस्परं सम्भावना, अपगमश्च आगमश्च सङ्गमश्च प्रतिसभाजितं च अपगमागमसङ्गमप्रतिसभाजितानि । स्वजनताया अपगमागमसङ्गमप्रतिसभाजितानि पूर्वकाणि पुरःसराणि यस्य स तथोक्तः । स चासौ सम्भ्रम उत्सवश्च तस्मिन् । जननी मम माता । अविदुषी मम गृहाद् बहिर्गमनम् अजानती इति ज्ञात्वा ॥ २ ॥
विश्वास-प्रस्तुतिः - ३
क्व नु यियाससि तात न सांप्रतं स्वजनसन्त्यजनं तव साम्प्रतम् ।
इति विभुः पथिकैरुदितो व्रजन् स्मितमनाकुलमुत्तरमातनोत्॥ ३ ॥
मूलम् - ३
क्व नु यियाससि तात न सांप्रतं स्वजनसन्त्यजनं तव साम्प्रतम् ।
इति विभुः पथिकैरुदितो व्रजन् स्मितमनाकुलमुत्तरमातनोत्॥ ३ ॥
पदार्थदीपिकोद्बोधिका
क्वन्विति ॥ तात वत्स क्व नु यियाससि यातुमिच्छसि । साम्प्रतम् इदानीं ‘एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा’ इत्यमरस् तव स्वजनस्य बन्धुजनस्य सन्त्यजनं त्यागः साम्प्रतं युक्तं न । ‘युक्ते द्वे साम्प्रतं स्थान’ इत्यमरः । इति पथि भवाः पथिकास्तैः पान्थजनैरित्यर्थः । उदितः व्रजन् गच्छन् । विभुः समर्थः । स बाल आकुलं न भवतीत्यनाकुलं सम्भ्रमरहितमित्यर्थः । स्मितं मन्दहासमुत्तरं पथिकवचनानां प्रत्युत्तरमातनोद् अकरोत् । तनु करणे लङ् । पथिकवचनं श्रुत्वा मन्दहासं चकारेति भावः ॥ ३ ॥
मन्दोपाकारिणी
क्वन्विति ॥ व्रजन् गच्छन् । विभुः समर्थः वासुदेवः । हे तात । वत्स क्व नु कुत्र वा ‘नु पृच्छायां विकल्पे च’ इत्यमरः । यियाससि यातुम् इच्छसि ‘या प्रापणे’ इत्यतो लट् परस्मैपदं यियाससि यियासथः यियासथ’ । ‘तातोऽनुकम्पे पितरि’ इति भास्करोक्तेः । स्वजनं परित्यज्य एकाकिन एव गच्छतः वासुदेवस्यानुकम्पाविषयत्वात् तातेति प्रयोगः । सांप्रतम् इदानीम् । तव स्वजनसन्त्यजनं स्वजनस्य स्वकीयजनस्य सन्त्यजनं परित्यागः स्वजनं विहाय अन्यत्र गमनमिति यावत् । न साम्प्रतं युक्तं न भवति । ‘युक्ते द्वे साम्प्रतं स्थाने’ इत्यमरः । ‘साम्प्रतं स्थाने इति द्वे पदे युक्तम् इत्यर्थके’ इत्यभिधानार्थः । इति पूर्वोक्तप्रकारेण । पथिकैर् मार्गस्थैः ‘अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिकः’ इत्यमरः । उदितः पृष्टस्सन् । अनाकुलम् उद्वेगरहितं स्मितं मन्दहासमेव उत्तरं पथिकवचनानां प्रत्युत्तरम् आतनोद् अकरोत् । ‘तनु विस्तारे’ इत्यतो लङ् परस्मैपदम् अतनोद् अतनुताम् अतन्वन्’ । क्व गच्छसि इति पृष्टः भयं विना हसन् जगामेति भावः ॥ ३ ॥
विश्वास-प्रस्तुतिः - ४
त्वरितमेत्य स काननदेवतासदनमत्र ननाम रमापतिम् ।
अपि ततः प्रगतो लघु नारिकेल्युपपदान्तरसद्मगतं च तम्॥ ४ ॥
मूलम् - ४
त्वरितमेत्य स काननदेवतासदनमत्र ननाम रमापतिम् ।
अपि ततः प्रगतो लघु नारिकेल्युपपदान्तरसद्मगतं च तम्॥ ४ ॥
भावप्रकाशिका
काननदेवतासदनस्य ‘कुडुवूरु’ इत्यपभ्रष्टभाषा । अन्तरम् अवटम् । नारिकेल्युपपदान्तरस्य ‘ताेकुडे’ इत्यपभ्रष्टभाषा ॥ ४ ॥
पदार्थदीपिकोद्बोधिका
त्वरितमिति ॥ सस् त्वरितं शीघ्रं यथा भवति तथा काननेऽधिष्ठिता देवता तस्याः सदनं मन्दिरम् । काननस्य ‘कुडुवूरकानन’ इत्यपभ्रष्टसज्ञा । आ सम्यग् इत्वा गत्वा एत्य, अत्र काननदेवतासदने रमापतिं तत्र सन्निहितं श्रीहरिं ननाम । ततोऽपि काननदेवतासदनादपि लघु शीघ्रं यथा भवति तथा । ‘लघुक्षिप्रमरं द्रुतम्’ इत्यमरः । प्रगतो यातः सन् नालिकेर एव नारिकेलि । स उपपदं यस्य तन्नारिकेल्युपपदं च तदन्तरञ्चेति नारिकेल्युपपदान्तरम् । तत्र चोपपदस्य नारिकेलीशब्दस्य संस्कृते नारिकेल-वृक्षवाचिनस्तौवानां ‘ताे’ इत्यपभ्रष्टसञ्ज्ञा । अन्तरशब्दस्य ‘अन्तरमवटं छिद्र’मित्यभि धानात्संस्कृते छिद्रवाचिनस्तौवानां ‘कुडे’ इति । तथा च नारिकेल्यन्तरशब्दस्य ‘ताेकुडे’ इत्यपभ्रष्टभाषायां समुदायार्थः । ‘ताेकुडे’ इति शिव•िग्रामे कस्यचिद्देश-विशेषस्य सञ्ज्ञा तस्मिन् यत्सद्म तस्मिन् गतः सन्निहितस्तं च शिवान्तर्गतं हरिं च ननाम ॥ ४ ॥
मन्दोपाकारिणी
त्वरितमिति ॥ सः वासुदेवस् त्वरितं शीघ्रम् । काननदेवतासदनं काननं वनं ‘गहनं काननं वनं’ इत्यमरः । देवताया विष्णुदेवतायाः सदनं देवालयम् एत्य प्राप्य । अत्र काननदेवतालये रमापतिं रमाया लक्ष्म्याः पतिं भर्तारं हरिं ननाम नमस्कृतवान् । ‘णम प्रह्वत्वे शब्दे चेत्यतो लिट् परस्मैपदं ननाम नेमतुर् नेमुः’ । ततोऽपि तस्मात् काननदेवालयाद् अपि । लघु द्रुतं ‘लघुक्षिप्रमरन्द्रुतं’ इत्यमरः । प्रगतः प्रयातः सन् नारिकेल्युपपदान्तरसद्मगतं नारिकेलीति उपपदान्तरं संज्ञाविशेषः यस्य तन् नारिकेल्युपपदान्तरं तच्च तत् सद्म देवालयं तत्र गतं विद्यमानं हरिं च ननाम । पूर्वम् अरण्यकाननदेवालये विद्यमानं हरिं प्रणम्य ततोऽपि उत्तरत्र गतः सन् नारिकेलदेवालयगतं च हरिं च प्रणनामेति भावः ॥ ४ ॥
विश्वास-प्रस्तुतिः - ५
नलिननाभनिभालनसंमदागमविकस्वरभास्वरलोचनः ।
जनमनोनयनाम्बुजभास्करो रजतपीठपुरं प्रययावसौ॥ ५ ॥
मूलम् - ५
नलिननाभनिभालनसंमदागमविकस्वरभास्वरलोचनः ।
जनमनोनयनाम्बुजभास्करो रजतपीठपुरं प्रययावसौ॥ ५ ॥
पदार्थदीपिकोद्बोधिका
नलिनेति ॥ नलिनं नाभौ यस्य तस्य श्रीहरेः । निभालनं दर्शनम् । ‘निशामनं निभालनं निध्यानमवलोकनं’ इति हलः । तेन सम्मदः सन्तोषः । ‘प्रमोदामोदसम्मदा’ इत्यमरः । तस्यागमः प्राप्तिस् तेन विकस्वरे विकासं प्राप्ते भास्वरलोचने शोभमानलोचने यस्य तादृशः । जनानां मनांसि च नयनानि च जनमनोनयनानि । तानि अम्बुजानीव तेषां भास्कर इव भास्करः । सन्तोषकारी असौ रजतपीठाख्यं पुरं प्रययौ ॥ ५ ॥
मन्दोपाकारिणी
नलिनेति ॥ नलिननाभनिभालनसंमदागमविकस्वरभास्वरलोचनः नलिनं पद्मं ‘वा पुंसि पद्मं नलिनं’ इत्यमरस् तन् नाभौ यस्य सः नलिननाभः हरिः । तस्य निभालनं दर्शनं तेन जातः संमदः सन्तोषः । ‘प्रमोदामोदसंमदाः’ इत्यमरः । तस्य आगम आगतिर् आप्तिरिति यावत् ‘आगमस्त्वागतौ शास्त्रे’ इत्यभिधानात् । नलिननाभस्य निभालनं नलिननाभनिभालनं तेन संमदागमस् तेन विकस्वरे विकासं प्राप्ते भास्वरे शोभमाने लोचने नयने यस्य स तथोक्तः । हरिदर्शनप्राप्तसुखेन विकसितनेत्र इति यावत् । जनमनोनयनाम्बुजभास्करः मनांसि च नयनानि च मनोनयनानि तान्येवाम्बुजानि कमलानि जनमनोनयनाम्बुजानि तेषां भास्करः सूर्यसदृशः । तत्र तत्र स्वात्मानं पश्यतां जनानां मनोनयनानां हर्षकारी इत्यर्थः । एतादृशो ऽसौ बालकः रजतपीठपुरं रजतपीठाख्यपुरं प्रययौ प्राप ॥ ५ ॥
विश्वास-प्रस्तुतिः - ६
सुहयमेधगणातिशयालवो हरिनमस्कृतयः सुकृता इमाः ।
इति सुरैरपि भूसुरमण्डलैः समनमत् स सविस्मयमीक्षितः॥ ६ ॥
मूलम् - ६
सुहयमेधगणातिशयालवो हरिनमस्कृतयः सुकृता इमाः ।
इति सुरैरपि भूसुरमण्डलैः समनमत् स सविस्मयमीक्षितः॥ ६ ॥
पदार्थदीपिकोद्बोधिका
सुहयेति ॥ सु सम्यक् कृताः सुकृताः । ‘उरसा शिरसा दृष्ट्या मनसा वचसा तथा । पद्य्भां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग ईरितः’ इत्यष्टाङ्गविशिष्टतया कृता इत्यर्थः । इमा हरेर्नमस्कृतयः हरये कृतनमस्कारा इत्यर्थः । सु शोभना ये हयमेधा अश्वमेधयागास्तेषां गणाः समूहास्तानतिशयितुं शीलमासामस्ती-त्यतिशयालवः । इति अनेनाभिप्रायेण । ‘एकोऽपि कृष्णस्य कृतप्रणामो दशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाये’त्युक्तेः । सुरैर् देवैर् भूसुरमण्डलैर् ब्राह्मणसमूहैरपि सविस्मयं विस्मयेन सहितं यथा भवति तथा । ईक्षितो दृष्टः । स समनमन् नमश्चकार ॥ ६ ॥
मन्दोपाकारिणी
सुहयेति ॥ सुकृताः सु सम्यक् भक्त्यादिपूर्वकं कृता अनुष्ठिताः । इमा हरिनमस्कृतयः हरिविषयकनमस्काराः । सुहयमेधगणातिशयालवः सु साङ्गतया सम्यक् कृता हयमेधा अश्वमेधयज्ञास् तेषां गणाः समूहास् तान् अतिशयन्ते अतिक्रमन्तीति अतिशयालवः । साङ्गानुष्ठिताश्वमेधसमूहापेक्षया अतिशयितफलप्रदस्वभावा इति भावः । इति एवम् अनुसन्धानं कुर्वद्भिः सुरैर् देवैर् भूसुरमण्डलैर् अपि भूसुराणां ब्राह्मणानां मण्डलैः समूहैः । ‘पूगो वितानं प्रकरो मण्डलं चक्रवालकं’ इति । सविस्मयं विस्मयेन आश्चर्येण सहितं यथा भवति तथा ईक्षितः दृष्टः । सः वासुदेवः हरिं समनमत् सम्यक् नमस्कृतवान् ॥ ६ ॥
विश्वास-प्रस्तुतिः - ७
न हि हरिं सततं न नमत्यसौ न च न पश्यति नापि न वन्दते ।
अपि तथेति विधाय विशेषतः स ननु साधुजनान् समशिक्षयत् ॥ ७॥
मूलम् - ७
न हि हरिं सततं न नमत्यसौ न च न पश्यति नापि न वन्दते ।
अपि तथेति विधाय विशेषतः स ननु साधुजनान् समशिक्षयत् ॥ ७॥
पदार्थदीपिकोद्बोधिका
समनमदित्युक्त्या श्रीमदाचार्याणां हरिवन्दनादिकं कादाचित्कमिति न मन्तव्यमित्याशयवानाह — न हीति ॥ असौ हरिं सततं न नमतीति न हि । किन्तु सर्वदा नमत्येव । हरिं न पश्यतीति च न । दृशिर् प्रेक्षणे लट् । हरिं न वन्दते न स्तुवत इत्यपि न । तथापि सदा हरिवन्दनादिकं कुर्वन्नपि स इति विशेषतो विशेषाद् विधाय नमस्कारादिकं कृत्वा साधुजनान्समशिक्षयन् ननु शिक्षितवान् हि । शिक्ष विद्योपादाने लङ् ॥ ७ ॥
मन्दोपाकारिणी
न हीति ॥ असौ बालकः हरिं सततं निरन्तरं न नमतीति न किन्तु सर्वदा हरिं नमस्करोत्येव । असौ हरिं सततं न पश्यतीति च न नापरोक्षीकरोतीति च न किन्तु सर्वदा प्रत्यक्षीकरोत्येव । असौ हरि सततं न वन्दते इत्यपि न, न स्तौतीति न किन्तु सर्वदा स्तौति । ‘णम् प्रह्वत्वे शब्दे च, दृशिर् प्रेक्षणे इत्यतो लट् परस्मैपदम्’ । ‘वदि अभिवादनस्तुत्योरित्यतो लट् आत्मनेपदं वन्दते वन्देते वन्दन्ते’ । तर्हि पुनः किमर्थं नमस्कारादिकम् अकरोदित्याह अपीति । तथापि सदा हरिनमस्कारादिकं कुर्वन्नपि सः वासुदेव इति पूर्वोक्तप्रकारेण विशेषतः सर्वसमक्षं नमनादिकं विधाय कृत्वा साधुजनान् साधून् मुक्तियोग्यान् जनान् समशिक्षयन् ननु शिक्षितवान् हि । ‘शिक्ष विद्योपादाने इत्यतो लङ् परस्मैपदम् अशिक्षयद् अशिक्षयताम् अशिक्षयन्’ । स्वयं सर्वदा हरिनमस्कारादिकं कुर्वन्नपि सर्वैर् मुक्तियोग्यैर्जनैर् हरिनमनादिकं कर्तव्यमिति नमनादेर् आवश्यकताज्ञापनाय सर्वसमक्षमं पुनःपुनः नमस्कारादिकं कृतवानिति भावः ॥ ७ ॥
विश्वास-प्रस्तुतिः - ८
अनवलोक्य सुतं सुतवत्सलो मृगयति स्म महीसुरपुङ्गवः ।
मुहुरपृच्छदमुष्य गतिं नरान् पथि पथि प्रगतोऽनुपदं द्रुतम्॥ ८ ॥
मूलम् - ८
अनवलोक्य सुतं सुतवत्सलो मृगयति स्म महीसुरपुङ्गवः ।
मुहुरपृच्छदमुष्य गतिं नरान् पथि पथि प्रगतोऽनुपदं द्रुतम्॥ ८ ॥
पदार्थदीपिकोद्बोधिका
अनवलोक्येति ॥ पदं पुत्रपादचिह्नमनुसृत्यानुपदम् । ‘पदं स्थाने विभक्त्यन्ते शब्दे वाक्येऽङ्गवस्तुनोः । प्राणे पादे पादचिह्ने व्यवसायापदेशयो’रिति हेमचन्द्रः । द्रुतं प्रगतोऽन्विष्य गतः । अनुपदं निरन्तरं पुत्रनिर्गमनानन्तरमेव प्रगत इति वा । सुते वत्सलः स्निग्धः पुत्रस्नेहयुक्त इत्यर्थः । महीसुरेषु भूसुरेषु पुङ्गवः श्रेष्ठः । स तु मध्यगेहभट्टः सुतम् अनवलोक्य अदृष्ट्वा मृगयति स्म मार्गयामास । मृग अन्वेषणे लट् । अमुष्य गतिं गमनं गच्छतो नरान् प्रति पथि पथि मार्गे मार्गे मुहुरपृच्छद् विचारितवान् । पृच्छ ज्ञीप्सायां लङ् । दुह्याच् इति द्विकर्मकोऽयं धातुः ॥ ८ ॥
मन्दोपाकारिणी
अनवलोक्येति ॥ सुतवत्सलः सुते पुत्रे वत्सलः स्नेहयुक्तः । ‘श्रीमान् स्निग्धस्तु वत्सलः’ इत्यमरः । महीसुरपुङ्गवः महीसुराणां ब्राह्मणानां पुङ्गवः श्रेष्ठः । ‘स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः’ इत्यमरः । सुतम् अनवलोक्य अदृष्ट्वा । मृगयति स्म अन्वेषितवान् ‘मृग अन्वेषणे इत्यतो लट् परस्मैपदम्’ । स्म अतीते । ततो ऽनन्तरम् अनुपदं सुतस्य पदं भूमौ दृश्यमानपादाकारम् अनु अनुसृत्य । द्रुतं शीघ्रं प्रगतः प्रयात उत्सवमन्दिरात् प्रस्थित इत्यर्थः । सः ब्राह्मणः पथि पथि मार्गे मार्गे मुहुः पुनः पुनः नरान् जनान् अमुष्य बालकस्य गतिं गमनम् अपृच्छत् पृष्टवान् । ‘प्रच्छ ज्ञीप्सायामित्यतो लङ् परस्मैपदम्’ । दुह्याच् पच् इत्यादिना द्विकर्मकत्वम् । प्रतिमार्गं दृष्टदृष्टजनान् एतन्मार्गे गच्छन् बालकः भवद्भिर् न दृष्टः किम् इति अपृच्छद् इति भावः ॥ ८ ॥
विश्वास-प्रस्तुतिः - ९
जनसदागतिसूचितवर्त्मना प्रतिपदं व्रजता परया तृषा ।
द्विजमहामधुपेन मनोहरं स्मितमलाभि सुताननवारिजम्॥ ९ ॥
मूलम् - ९
जनसदागतिसूचितवर्त्मना प्रतिपदं व्रजता परया तृषा ।
द्विजमहामधुपेन मनोहरं स्मितमलाभि सुताननवारिजम्॥ ९ ॥
पदार्थदीपिकोद्बोधिका
जनेति ॥ पदं पदं प्रति प्रतिपदं प्रतिपादप्रक्षेपमित्यर्थः । प्रतिक्षणमिति यावत् । जनोऽभिमुखमाव्रजन् जनः स एव सदागतिर् वायुस्तेन सूचितं यद्वर्त्म मार्गस्तेन । ‘श्वसनस्पर्शनो वायुर्मातरिश्वा सदागतिः’ इत्यमरः । परया तृषा तृष्णया व्रजता पुत्रमन्विष्य गच्छता द्विजमहामधुपेन द्विजरूपमहाभ्रमरेण । मनोहरं स्मितं विकसितं मार्गश्रमाभावादम्लानमिति भावः । (‘मनोहरस्मित’मिति वा पाठः) सुताननवारिजम् अलाभि प्राप्तम् । कमलपरिममादाय व्रजन्तं वायुमभिगच्छता कमलमन्विष्य गच्छता भ्रमरेण विकसितं वारिजमिवेति श्लेषाभिप्रायः ॥ ९ ॥
मन्दोपाकारिणी
जनेति ॥ प्रतिपदं प्रतिक्षणम् । जनसदागतिसूचितवर्त्मना जनः मार्गे स्वाभिमुखेन व्रजन् जनः स एव सदागतिर् वायुर् जनसदागतिः । ‘मातरिश्वा सदागतिः’ इत्यमरः । तेन सूचितं ज्ञापितं च तद् वर्त्म मार्गश्च जनसदागतिसूचितवर्त्म तेन । ‘अयनं वर्त्म मार्गाध्व पन्थानः’ इत्यमरः । अनेन मार्गेण बालको गत इति प्रतिक्षणं स्वाभिमुखेन आगतजनज्ञापितमार्गेणेति यावत् । परया अतिशयतया । तृषा षकारान्तस्तृट्शब्दोऽयं पिपासया मुखकमलदर्शनमकरन्दपानेच्छयेति यावत् । ‘उदन्यातु पिपासा तृट्’ इत्यमरः । व्रजता पुत्रम् अन्विष्य गच्छता । द्विजमहामधुपेन महान् श्रेष्ठश्चासौ मधुपः भ्रमरश्च महामधुपः । ‘मधुलिण्मधुपालिनः’ इति भ्रमरपर्यायपदानि । द्विज एव मध्यगेह एव महामधुपस् तेन मनोहरं स्मितं विकसितं मार्गश्रमाभावाद् अम्लानमिति भावः । मनोहरस्मितमिति पाठे मनोहरं च तत् स्मितं चेति समासः । सुताननवारिजं सुतस्य आननमेव मुखमेव वारिजं कमलम् अलाभि प्राप्तम् । ‘डु लभष् प्राप्तौ इत्यतः कर्मणि लुङ् आत्मनेपदम् अलाभि अलाभिषाताम् अलाभिषत’ । यथा कमलपरिमलमादाय आव्रजन्तं वायुम् अभिगच्छता कमलपरिमलम् अनुभवता तथा च कमलपरिमलम् अन्विष्यता भ्रमरेण विकसितं सुन्दरं कमलं लभ्यते तद्वत् पुत्रं दृष्ट्वा आव्रजन्तं जनम् अभिमुखेन गच्छता तन्मुखतः पुत्रगतमार्गं श्रुत्वा पुत्रम् अन्विष्यता द्विजेन ‘अम्लानं पुत्रमुखं दृष्टं’ इति भावः ॥ ९ ॥
विश्वास-प्रस्तुतिः - १०
विरहदूनतयोद्गमनोन्मुखं न्यरुणदश्रु पुरा स ययोर्दृशोः ।
अथ तयोः प्रमदोत्थितमप्यदः प्रतिनिरुध्य गिरं गुरुरब्रवीत्॥ १० ॥
मूलम् - १०
विरहदूनतयोद्गमनोन्मुखं न्यरुणदश्रु पुरा स ययोर्दृशोः ।
अथ तयोः प्रमदोत्थितमप्यदः प्रतिनिरुध्य गिरं गुरुरब्रवीत्॥ १० ॥
पदार्थदीपिकोद्बोधिका
विरहेति ॥ स गुरुः पिता । ‘गुरुर्महत्याङ्गिरसे पित्रादौ धर्मदेशक’ इति हेमचन्द्रः । पुरा सुतान्वेषणकाले विरहेण सुतवियोगेन दूनो दुःखितस्तस्य भावस्तत्ता तया । उद्गमनाय निस्सरणायोन्मुखमुद्युक्तम् अश्रु ययोर्दृशोर्न्यरुणद् अमङ्गलशङ्कया निरुद्धवान् । रुधिरावरणे लङ् । अथ पुत्रदर्शनानन्तरं प्रमदेन सन्तोषेणोदितमप्युत्पन्नमपि सुतदर्शनानन्तरम् आनन्देनोद्गतमपीत्यर्थः । अदो ऽश्रु तयोरेव दृष्ट्योः प्रतिनिरुध्य अमङ्गलभयान्निरुध्य गिरं वाचमब्रवीत् ॥ १० ॥
मन्दोपाकारिणी
विरेहति ॥ सः गुरुः पिता । ‘गुरुर्निषेकादिकरे पित्रादौ सुरमन्त्रिणि’ इति विश्वः । गिरं वाचं ‘गीर्वाग्वाणी सरस्वती’ इत्यमरः । अब्रवीद् उवाच ‘ब्रूञ् व्यक्तायां वाचि इत्यतो लङ् परस्मैपदं ‘अब्रवीद् अब्रूताम् अब्रुवन्’ । किं कृत्वा पुरा पूर्वं पुत्रदर्शनाभावकाले विरहदूनतया विरहेण पुत्रवियोगेन दूनः सन्तापितः विरहदूनः विरहदूनस्य भावो विरहदूनता तया वियोगसन्तप्तत्वेन इत्यर्थः । ‘सन्तापितसन्तप्तौ धूपितधूपायितौ दूनश्च’ इत्यमरः । उद्गमनोन्मुखम् उद्गमनाय बहिर्निर्गमनाय उन्मुखम् उद्युक्तम् अश्रु नेत्राम्बु ययोर् दृशोश् चक्षुषोर् न्यरुणाद् अमङ्गलशङ्कया निरुद्धवान् । ‘नि पूर्वक रुधिर् आवरणे इति धातोर्लङ् परस्मैपदं, न्यरुणन् न्यरुन्धां न्यरुन्धन्’ । अथ पुत्रदर्शनानन्तरं प्रमदोत्थितमपि प्रमदात् पुत्रदर्शनोत्पन्नहर्षात् । ‘मुत्प्रीतिः प्रमदो हर्षः’ इत्यमरः । उत्थितम् उद्गतमपि । अदस् तद्बाष्पं तयोरेव दृशोः प्रतिनिरुद्ध्य अमङ्गलबुद्ध्या निरुद्ध्य । ‘दृक् दृष्टी चाश्रुनेत्राम्बु रोदनं चास्रमश्रु च’ इत्यमरः ॥ १० ॥
विश्वास-प्रस्तुतिः - ११
अयि सुतेदमुदाहर तत्त्वतो ननु समागतवानसि साम्प्रतम् ।
स्वजनतारहितस्य तु कोऽत्र ते सहचरोऽर्भक दीर्घतमे पथि॥ ११॥
मूलम् - ११
अयि सुतेदमुदाहर तत्त्वतो ननु समागतवानसि साम्प्रतम् ।
स्वजनतारहितस्य तु कोऽत्र ते सहचरोऽर्भक दीर्घतमे पथि॥ ११॥
पदार्थदीपिकोद्बोधिका
अयीति ॥ अयीत्यव्ययं प्रश्नेऽनुनये वा वर्तते । ‘ऊं प्रश्नेऽनुनये त्वयि’ इत्यमरः । अयि सुत हे सुत साम्प्रतम् इदानीं समागतवान् इयद्दूरमागतवानसि ननु । तदस्तु तावत् । अर्भक बालक स्वजनतया स्वजनसमूहेन रहितस्य विरहितस्य ते तव अत्र त्वयेदानीमतीत्यागते दीर्घतमे अतिदूरे पथि मार्गे सहचरः सहायस्तु कः? इदं मया पृष्टं तत्वतो यथार्थत उदाहर कथय । हृञ् हरणे लोट् ॥ ११ ॥
मन्दोपाकारिणी
अयीति ॥ अयीति कोमलामन्त्रणे । कोमलामन्त्रणं नाम भर्त्सनादिना विना मृदुवचनेन सम्बोधनम् । अयि सुत साम्प्रतम् अधुना समागतवान् इयन्तं दूरम् आगतवानसि भवसि ननु । ‘अस भुवीत्यतो लट् परस्मैपदं, ‘असि स्थः स्थ’ । हे अर्भक बालक स्वजनतारहितस्य स्वकीयया जनतया जनसमूहेन रहितस्य विमुक्तस्य ते तव अत्र इदानीम् अतीत्यागते दीर्घतमे अतिशयेन दीर्घः दूरः दीर्घतमस् तस्मिन् ‘बहुदूरे दीर्घतमे’ इति । पथि मार्गे । सह चरति आयातीति सहचरः सहायः कः पुरुषः । इदं मया पृष्टं प्रमेयं तत्वतः यथार्थम् उदाहर कथय इति गुरुरब्रवीद् इति पूर्वश्लोकेनान्वयः । ‘उद् आङ् पूर्वात् हृञ् (हृ) हरणे इत्यतः लोट् परस्मैपदम् । हर हरतात् हरतं हरत ॥ ११ ॥
विश्वास-प्रस्तुतिः - १२
जनकवाचमिमामवधारयन् कलमुदाहरदम्बुरुहेक्षणः ।
स्वपदमाव्रजतो व्रजतोऽप्यतो ननु सखा मम काननगो विभुः॥ १२ ॥
मूलम् - १२
जनकवाचमिमामवधारयन् कलमुदाहरदम्बुरुहेक्षणः ।
स्वपदमाव्रजतो व्रजतोऽप्यतो ननु सखा मम काननगो विभुः॥ १२ ॥
पदार्थदीपिकोद्बोधिका
जनकेति ॥ इमाम् एवमुक्तां जनकवाचं पितृवाचम् अवधारयन् एकाग्रचित्तः सुशृृण्वन् । अम्बुरुहवत् पद्मवदीक्षणे लोचने यस्य सः । स्वपदं स्वस्थानं प्रति स्वेन प्रथमतो गन्तुं विवक्षितकाननदेवालयमित्यर्थः । ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रि-वस्तुषु’ इत्यमरः । आव्रजत उत्सवमन्दिरान्निर्गत्यागच्छतो मम अतः काननालयाद् व्रजतोऽपि नालिकेर्यन्तरदेवायतनं गच्छतोऽपि काननं गच्छतीति काननगो विभुः श्रीभगवान् सखा ननु सहायो ननु । कलमव्यक्तमधुरं यथा भवति तथा । ‘कलमव्यक्तमधुरं’ इत्यमरः । उदाहरद् उवाच ॥ १२ ॥
मन्दोपाकारिणी
जनकेति ॥ इमाम् एवमुक्तां जनकवाचं जनकस्य पितुर् वाचं वाक्यम् । ‘तातस्तु जनकः पिता’ इत्यमरः । अवधारयन् सावधानतया ृण्वन् अम्बुरु-हेक्षणो ऽम्बुरुहवत् कमलवद् ईक्षणे चक्षुषी यस्य स तथोक्तः । ‘ईक्षणं चक्षुरक्षिणी’ इत्यमरः । भयाभावेन विकसितनेत्र इत्यर्थः । वासुदेवः कलम् अव्यक्तमधुरं यथा भवति तथा । ‘कलमव्यक्तमधुरं’ इति विश्वः । उदाहरद् उवाच अस्पष्टाक्षरमधुरवचनमुवाचेत्यर्थः । किमिति हे तात काननगः कानने काननदेवालये गच्छति तिष्ठतीति काननगः । विभुर् हरिः स्वपदं स्वस्य पदं स्थानं काननदेवालयं प्रति इत्यर्थः । आव्रजत उत्सवमन्दिरान् निर्गत्य आगच्छतस् तथा, अतः काननदेवालयाद् व्रजतोऽपि नारिकेलदेवालयं प्रति गच्छतोऽपि मम सखा ननु सहायो हि । ‘सखा मित्रे सहाये च’ इति विश्वः । काननदेवालयस्थो हरिः स्वात्मानं प्रत्यागच्छतः स्वात्मनः सकाशाद् अन्यत्र गच्छतोऽपि मम सहाय इति भावः ॥ १२ ॥
विश्वास-प्रस्तुतिः - १३
तदितरायतनात्तु यदाऽगमं कृतनतिः खलु तत्र हरिः सखा ।
अहमिहापि महेन्द्रदिगालयं प्रणतवानुत यावदधीश्वरम्॥ १३ ॥
मूलम् - १३
तदितरायतनात्तु यदाऽगमं कृतनतिः खलु तत्र हरिः सखा ।
अहमिहापि महेन्द्रदिगालयं प्रणतवानुत यावदधीश्वरम्॥ १३ ॥
पदार्थदीपिकोद्बोधिका
तदिति ॥ अहं तस्मात्काननायतनादितरदन्यद् यदायतनं तस्मान् नालिकेर्यन्तरायतनादिति यावत् । यदागमं रजतपीठपुरं प्रति निरगाम् । गम्लृ गतौ लुङ् । तदानीमारभ्य तत्र नालिकेर्यन्तरालये कृता रतिः क्रीडा येन स हरिः । इहापि रजतपीठेऽपीति यावद् यदा महेन्द्रदिशि आलयो मन्दिरं यस्य तम् अधीश्वरमुत स्वामिनं हरिं च प्रणतवान् तावत्कालं सखा खलु । खलु वाक्यालङ्कारे ॥ १३ ॥
मन्दोपाकारिणी
तदिति ॥ कृतनतिः कृता नतिर् नमस्कारो येन स तथा अहम् । तदितरायनात् तस्मात् काननदेवालयाद् इतराद् अन्यस्माद् आयतनान् नारिकेलदेवालयाद् यदा अगमं निरगां ‘गम्लृ गतावित्यतो लुङ् परस्मैपदम् अगमम् अगमाव अगमाम’ । तत्कालमारभ्य तत्र नारिकेलदेवालये स्थित इति शेषः । हरिः सखा सहायः खलु अनुभवसिद्धम् । कियत्कालं, इहापि रजतपीठपुरेऽपि । महेन्द्रदिगालयं महेन्द्रस्य दिशि आलयो यस्य स तथोक्तः ‘निकाय्यनिलयालयाः’ इत्यमरः । तमपि अधीश्वरं हरिं यावद् यदा प्रणतवान् नमस्कृतवान् उत तावत्कालमित्यर्थः । रजतपीठपुरे देवालयद्वयं वर्तते । पूर्वदिगालयः पश्चिमदिगालय इति । तत्र नारिकेलदेवालयायतनो हरिः रजतपीठपुरस्थ-पूर्वदिगालयगतहरिनमनपर्यन्तं मम सहाय इति भावः ॥ १३ ॥
विश्वास-प्रस्तुतिः - १४
अपि ततोऽहमुपेत्य सहामुना भगवतेऽत्र सते प्रणतिं व्यधाम् ।
इति निगद्य विभाति शिशुः स्म विस्मितसभाजनचीर्णसभाजनः ॥ १४॥
मूलम् - १४
अपि ततोऽहमुपेत्य सहामुना भगवतेऽत्र सते प्रणतिं व्यधाम् ।
इति निगद्य विभाति शिशुः स्म विस्मितसभाजनचीर्णसभाजनः ॥ १४॥
पदार्थदीपिकोद्बोधिका
अपीति ॥ रजतपीठपुरे अमरालयद्वयं वर्तते । तत्र पूर्वालयस्थः प्रथमतो नम्यः, पश्चिमालयस्थः पश्चान्नम्य इति सम्प्रदायनियमः । तस्मात्पूर्वालयस्थमादौ नत्वा ततः पश्चिमालयस्थं नन्तुमागच्छतः कः सखेत्यपेक्षायामाह—अपीत्यादिना । सभायां स्थितो जनः सभाजनः । विस्मित एवं चरित्रं दृष्ट्वा विस्मितः यः सभाजनस्तेन चीर्णं कृतं सभाजनं सम्भावनं यस्य स शिशुः । अहं ततो महेन्द्रदिगालयादपि अमुना महेन्द्रदिगालयस्थेन सहोपेत्य अत्र पश्चिमालये सते वर्तमानाय भगवतेऽनन्तासनाय प्रणतिं व्यधां कृतवानस्मि इति उक्तप्रकारेण निगद्य विभाति स्म अशोभत ।
स्म अतीतार्थे ॥ १४ ॥
मन्दोपाकारिणी
अपीति ॥ अहं ततोऽपि पूर्वदिग्देवालयादपि । अमुना पूर्वालयस्थेन हरिणा सह उपेत्य आगत्य । अत्र पश्चिमदेवालये सते विद्यमानाय भगवते पूर्णैश्वर्यादिषड्गुणवते । ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्नियः । ज्ञानविज्ञानयोश्चैव षण्णां भग इतीरिता’ इत्युक्तेर् भगोऽस्यास्तीति भगवान् इति विग्रहः । हरये प्रणतिं नमस्कारं व्यधां कृतवान् । ‘डु धाञ् धारणपोषणयोरित्यतो लुङ् परस्मैपदम् अधाम् अधाव अधाम’ । इति उक्तप्रकारेण निगद्य उक्त्वा शिशुर् बालकः विभाति स्म अशोभत । स्म अतीते । ‘भा दीप्तौ लट् परस्मैपदं भाति भातः भान्ति’ । कथंभूतः विस्मित-सभाजनचीर्णसभाजनः सभायां संसदि विद्यमानश्चासौ जनश्च सभाजनः विस्मित आश्चर्ययुक्तश्चासौ सभाजनश्च विस्मितसभाजनः विस्मितसभाजनेन चीर्णं कृतं सभाजनम् आनन्दनं सम्भावनमिति यावद् यस्य स तथोक्तः । ‘आनन्दनसभाजने’ इत्यमरः । सभास्थजनाः प्रष्टारं पितरं प्रति अस्पष्टाक्षरमधुरवचसा प्रत्युत्तरं दत्तवन्तं बालकं दृष्ट्वा विस्मिताः सन्तस् तं सम्भावनेन आनन्दयामासुरिति भावः ॥ १४ ॥
विश्वास-प्रस्तुतिः - १५
विरहितस्वजनं चरणप्रियं विविधभूतभयङ्करवर्त्मनि ।
अयि कृपालय पालय बालकं लघुशुभस्य ममेत्यनमद् द्विजः॥१५॥
मूलम् - १५
विरहितस्वजनं चरणप्रियं विविधभूतभयङ्करवर्त्मनि ।
अयि कृपालय पालय बालकं लघुशुभस्य ममेत्यनमद् द्विजः॥१५॥
पदार्थदीपिकोद्बोधिका
विरहितेति ॥ अयीत्यव्ययं प्रार्थने । कृपालय कृपामन्दिर । ‘निकायनिलयालयाः’ इत्यमरः । श्रीहरे विरहिताः स्वजना यस्य तमपि । विविधा ये भूताः प्राणिनस्तैर्भयङ्करे वर्त्मनि मार्गे । चरणे सञ्चारे प्रियम् । लघु अल्पं शुभं भाग्यं यस्य तस्य मम बालकं पालय रक्ष । पाल रक्षणे लोट् । इति अभिधाय द्विजो भट्टोऽनमत् । श्रीमदनन्तासनं नमश्चकार ॥ १५ ॥
मन्दोपाकारिणी
विरहितेति ॥ अयि कृपालय अयीति प्रार्थने । ‘प्रार्थने त्वयि’ इति । कृपाया दयाया आलय आश्रय हरे । विरहितस्वजनं विरहितः परित्यक्तः स्वजनः बन्धुजनः येन स तथोक्तस् तम् एकाकिनमित्यर्थः । विविधभूतभयङ्करवर्त्मनि विविधानि च तानि भूतानि तैर् भयङ्करं च तद् वर्त्म मार्गश्च तस्मिन् विविधभूतभङ्करवर्त्मनि । चरणप्रियं चरणे सञ्चारे प्रियं प्रीतिमन्तं सञ्चरणस्वभावमिति यावत् । लघुशुभस्य लघु स्वल्पं शुभं पुण्यं यस्य स तथोक्तस् तस्य मम बालकं पालय रक्ष ‘पाल रक्षण इत्यतो लोट् परस्मैपदं पालय पालयतात् पालयतं पालयत’ । इति उक्त्वा द्विजः मध्यगेहभट्टः हरिम् अनमन् नमस्कृतवान् ॥ १५ ॥
विश्वास-प्रस्तुतिः - १६
तमुपगृह्य सुतं सुतपोनिधिर्गृहमसौ गृहिणीसहितो ययौ ।
उदयतीति हि बालदिवाकरे स्मितमभूत्सुजनाननवारिजम्॥१६॥
मूलम् - १६
तमुपगृह्य सुतं सुतपोनिधिर्गृहमसौ गृहिणीसहितो ययौ ।
उदयतीति हि बालदिवाकरे स्मितमभूत्सुजनाननवारिजम्॥१६॥
पदार्थदीपिकोद्बोधिका
तमिति ॥ सु शोभनानि तपांसि तेषां निधिराश्रयः । असौ भट्टस् तं सुतमुपगृह्य उपादाय गृहिणीसहितो जायासहितः सन् गृहं ययौ । बाल एव दिवाकरस् तस्मिन् । इति उक्तप्रकारेण । उदयति सति क्रमेणाभिव्यज्यमानसामर्थ्ये सति सुजनानामाननानि मुखान्येव वारिजं स्मितं विकसितम् अभूत् हि ॥ १६ ॥
मन्दोपाकारिणी
तमिति ॥ सुतपोनिधिः शोभनतपसाम् आश्रयो ऽसौ द्विजस् तं सुतम् उपगृह्य आदाय । गृहिणीसहितः गृहिण्या भार्यया सहितः युक्तः सन् । ‘नारी स्त्री गृहिणी गृहम्’ इत्यमरः । गृहं स्वगेहं ययौ प्राप । बालदिवाकरे बाल एव दिवाकरः सूर्यस् तस्मिन् । इति पूर्वोक्तप्रकारेण उदयति सति उत् प्रकाशं क्रमेण सामर्थ्याभिव्यक्तिम् इति यावत् । अयति प्राप्नुवति सति ‘उत्प्रकाशे वियोगे च’ इति विश्वः । सुजनाननवारिजं सुजनानाम् आननमेव वारिजं कमलं स्मितं विकसितम् अभूत् । सूर्ये प्रकाशमाने सति कमलं यथा विकासं प्राप्नोति तद्वत् क्रमेण पूर्वोक्तप्रकारेण बालसामर्थ्ये प्रकटिते सति सुजनमुखं प्रसन्नमभूद् इति भावः ॥ १६ ॥
विश्वास-प्रस्तुतिः - १७
वरविमानगिरावपि चण्डिका शिशुमहो जननी तमलालयत् ।
अपरथा परितुष्टमनाः कथं चिरमिहैष वसेद्विसहायकः॥ १७ ॥
मूलम् - १७
वरविमानगिरावपि चण्डिका शिशुमहो जननी तमलालयत् ।
अपरथा परितुष्टमनाः कथं चिरमिहैष वसेद्विसहायकः॥ १७ ॥
पदार्थदीपिकोद्बोधिका
वरेति ॥ पाजकक्षेत्रमध्ये वर्तमाने वरः श्रेष्ठो यो विमानगिरिर् विमानाख्यपर्वतस्तस्मिन् वर्तमाना जननी माता दुर्गाया लक्ष्म्यात्मकत्वेन मुख्यप्राणमातृत्वादिति भावः । चण्डिका दुर्गापि तं शिशुमलालयद् अमानयत् । लल ईप्सायां लङ् । अपरथा तल्लालनाभावे विगतः सहायो यस्य स विसहायकः सहायरहित इत्यर्थः । एष इह भुवि परितुष्टं सन्तुष्टं मनो यस्य तादृशः सन् कथं चिरं बहुकाले वसेत् । स्वसहायभूतस्य रूप्यपीठपुरवासिनो हरेस्तत्राभावेऽपि स्वमातुर्दुर्गाया लालनातिशयादेव पाजकक्षेत्रे चिरमुवासेति भावः ॥ १७ ॥
मन्दोपाकारिणी
वरेति ॥ वरविमानगिरौ वरश्चासौ विमानगिरिश्च वरविमानगिरिस् तस्मिन् । पाजकक्षेत्रस्थविमाननामि्न गिरौ पर्वते विद्यमाना जननी माता चण्डिकापि दुर्गापि तं शिशुम् अलालयद् अखेलयत् । ‘लल विलासे इत्यस्माद् धातोर्लङ् परस्मैपदम् अलालयद् अलालयताम् अलालयन्’ । अहो इदं सत्यम् अव्ययानाम् अनेकार्थत्वात् । अपरथा तल्लालनाभावे विसहायकः सहायरहित एषः बालक इह वनभुवि परितुष्टमनाः परितुष्टं मनो यस्य स तथोक्तः सन् चिरं बहुकालं कथं वसेद् वासं कुर्यात् । वस निवासे इत्यतो लिङ् परस्मैपदं वसेद् वसेतां वसेयुः’ । न केवलं भगवान् रक्षति किन्तु दुर्गापि रक्षति इति भावः ॥ १७ ॥
विश्वास-प्रस्तुतिः - १८
सकलशब्दमयी च सरस्वती सततमानमति स्वयमेव यम् ।
द्विजवरोऽथ कदाचन मातृकाः किल सुतं परिचाययति स्म तम्॥१८॥
मूलम् - १८
सकलशब्दमयी च सरस्वती सततमानमति स्वयमेव यम् ।
द्विजवरोऽथ कदाचन मातृकाः किल सुतं परिचाययति स्म तम्॥१८॥
पदार्थदीपिकोद्बोधिका
सकलेति ॥ अथ द्विजवरः सकलाः समस्ता ये शब्दा-स्तेषामभिमानिनी अखिलशब्दमयी सरस्वती च यम् एनं वायुं स्वयमेव सततं सर्वदा आनमति सम्यक् नमति तं सुतं मातृका अक्षराणि ‘मातृकाकरणे स्वरे । ‘मातृवर्णसमाम्नायोपमातृषु’ इति हेमचन्द्रः । कदाचन कस्मिंश्चिन्मुहूर्ते परिचाययति स्म किल ज्ञापयामास किल । चिञ् चयने लट् । किल शब्देनाक्षराभ्यासस्यापरमार्थतामाह । तथा च सरस्वतीनम्यस्यास्य न इदानीं मातृकापरिचयेन भाव्यमिति भावः ॥ १८ ॥
मन्दोपाकारिणी
सकलेति ॥ अथ अक्षरस्वीकारयोग्यकालप्राप्त्यनन्तरं द्विजवरः ब्राह्मणश्रेष्ठः कदाचन शुभदिवसे तं सुतं बालकं मातृका अक्षराणि परिचाययति स्म किल ज्ञापितवान् किल । ‘चायृ (चाय्) पूजानिशामनयोरित्यतो लट् परस्मैपदम्’ । स्म अतीते । स्वयं धूलिषु अक्षराणि विलिख्य तत्प्रदर्शयित्वा शिशुहस्तेन लेखयित्वा बालकस्य अक्षरजातं सम्पादयामासेति भावः । किल इत्येतद् बालस्य अक्षरज्ञानस्य पूर्वमेव सिद्धत्वाज् ज्ञापनस्य वैय्यर्थमाह । तत्कुतः सकलशब्दमयी सकलानां शब्दानां वर्णपदादीनां मयी अभिमानिनी सरस्वती यं वायुं स्वयमेव सततम् आनमति सम्यक् नमति । वायुव्यतिरिक्ताः सर्वे विद्याप्राप्त्यर्थे सरस्वतीं प्रणम्य प्रसन्नीकुर्वन्ति सरस्वती स्वत एव सर्वविद्याभिज्ञं वायुं स्वयमेव प्रणमति । अत इदानीं मातृकापरिचये न तस्य प्रयोजनमिति भावः ॥ १८ ॥
विश्वास-प्रस्तुतिः - १९
लिपिकुलं ननु तात गते दिने लिखितमेव पुनर्लिखितं कुतः ।
इति निजप्रतिभागुणभावितं हरिपदस्य वचस्तमनन्दयत्॥ १९ ॥
मूलम् - १९
लिपिकुलं ननु तात गते दिने लिखितमेव पुनर्लिखितं कुतः ।
इति निजप्रतिभागुणभावितं हरिपदस्य वचस्तमनन्दयत्॥ १९ ॥
पदार्थदीपिकोद्बोधिका
लिपिकुलमिति ॥ ननु प्रश्ने । तात पितः गते दिने अतीतदिने पूर्वेद्युरित्यर्थः । लिखितं लिपिकुलम् अक्षरजातं पुनरद्यापि कुतः कस्माद् लिखितम् इति इत्थं निजप्रतिभैव स्वाभाविकप्रज्ञैव गुणस्तेन भावितमुत्पादितं प्रतिभातिशयेनोक्तमिति यावत् । हरेः पदं नाम यस्य तस्य हरिवाचकवासुदेवनामवत इत्यर्थः । स्वपुत्रस्य वचस् तं पितरम् अनन्दयत् सन्तोषयामास ॥ १९ ॥
**मन्दोपाकारिणी**
लिपीति ॥ ननुशब्द आमन्त्रणे अनुनये वा ‘प्रश्नावधारणानुज्ञानु-नयामन्त्रणे ननु’ इत्यमरः । ननु तात हे पितः गते अतीते दिने दिवसे लिखितमेव लिपिकुलं लिपीनाम् अक्षराणां कुलं समूहः पुनो ऽद्यापि अस्मिन् दिनेऽपि इति यावत् कुतः कस्मान् निमित्ताद् लिखितम् इति एवंप्रकारकं निजप्रतिभागुणभावितं निजा नित्या स्वाभाविकीति यावत् । ‘स्वके नित्ये निजं त्रिषु’ इत्यमरः । प्रतिभा ज्ञानं निजा च सा प्रतिभा च निजप्रतिभा तदाख्यश्चासौ गुणश्च निजप्रतिभागुणस् तेन भावितम् उत्पादितम् उक्तम् । हरिपदस्य हरेर् विष्णोः पदं नाम यस्य स तथोक्तस् तस्य वचः वचनं तम् अनन्दयत् सुखयामास । ‘नदि समृद्धौ लङ् परस्मैपदम् ॥ १९ ॥
विश्वास-प्रस्तुतिः - २०
शिशुरसौ प्रतिभाम्बुधिरित्यलं जनमनोवचनग्रहपीडना ।
न भवतादिति तं विजनस्थले स्वतनयं समशिक्षयदेषकः॥ २० ॥
मूलम् - २०
शिशुरसौ प्रतिभाम्बुधिरित्यलं जनमनोवचनग्रहपीडना ।
न भवतादिति तं विजनस्थले स्वतनयं समशिक्षयदेषकः॥ २० ॥
पदार्थदीपिकोद्बोधिका
शिशुरिति ॥ एष एव एषकः । स्वार्थे कप्रत्ययः । स्वतनयं स्वपुत्रम् । विगता जना यस्मिन् तादृशं यत् स्थलं तस्मिन् रहसीत्यर्थः । असौ शिशुर् अलं सम्यक् प्रतिभया प्रज्ञया अम्बुधिरिव प्रतिभाम्बुधिर् इति । मनांसि च वचनानि च जनानां मनोवचनानि तान्येव ग्रहः पिशाचस्तस्य पीडना । ‘बालग्रहो ग्रहणनिर्बन्धनानुग्रहेषु च । रणोद्यमे पूतनादावादित्यादौ विधुन्तुद’ इति हेमचन्द्रः । न भवतान् मा भूद् इति मत्वा समशिक्षयद् विद्याभ्यासं कारितवान् । शिक्ष विद्योपादने लङ् । यद्ययं स्वेन पाठितः स्यात्तदास्य पाण्डित्यं दृष्ट्वाऽयं प्रतिभाम्बुधिरिति जना वदेयुस् ततश्चास्य किञ्चिदनिष्टं भवेत्तन्माभूदिति बुद्ध्या । तथा यदि प्रकटं पाठयेत्तदाऽस्य बुद्ध्यतिशयं दृष्ट्वा पूर्ववद्वदेयुस्तच्च मा भूदिति रहसि पाठयामासेति भावः ॥ २० ॥
मन्दोपाकारिणी
शिशुरिति ॥ एष एव एषकः । स्वार्थे कप्रत्ययः । पिता तं स्वतनयं स्वस्य आत्मनः पुत्रं विजनस्थले विजनं जनरहितं च तत् स्थलं च विजनस्थलं तस्मिन् एकान्तप्रदेशे । ‘विविक्तविजनच्छन्ननिःशलाकास्तथा रहः’ इत्यमरः । समशिक्षयत् त्वया प्रौढिमप्रकाशनं न कार्यमिति अबोधयत् । ‘शिक्ष विद्योपादाने इत्यतो लङ् परस्मैपदम्’ । किं कृत्वा , असौ शिशुर् अलम् अत्यंतं प्रतिभाम्बुधिः प्रतिभायाः प्रज्ञाया अम्बुधिः समुद्रः । इति एवं प्रकारेण जनमनोवचनग्रहपीडना मनांसि च वचनानि च मनोवचनानि जनानां मनोवचनानि तान्येव ग्रहः पिशाचविशेषस् तेन पीडना पीडा शिशोर् न भवतान् न भूयाद् इति मत्वा इति शेषः । ‘भू सत्तायाम् इत्यतो लोट् परस्मैपदं भवतु भवताद् भवतां भवन्तु’ जनमनोनयनग्रहपीडनेति क्वचित् पाठः । तत्र नयनग्रहशब्दस्य दृष्टिदोष इत्यर्थः । बालकोच्छ्रयम् असहमानजनानां मनसि वचने वा नयनयोर्वा
काचन दोषबुद्धिर् दृष्टिदोष भवेत् तेन काचन पीडा स्यात्सा मा भूदित्यभिप्रायेण अशिक्षयदिति भावः ॥ २० ॥
विश्वास-प्रस्तुतिः - २१
महवता स्वजनेन समीरितस्वजननीसहितेन कदाचन ।
रुचिरवाचनयाऽर्चितवाक्श्रिया प्रतियये प्रभुणा घृतवल्यपि॥ २१ ॥
मूलम् - २१
महवता स्वजनेन समीरितस्वजननीसहितेन कदाचन ।
रुचिरवाचनयाऽर्चितवाक्श्रिया प्रतियये प्रभुणा घृतवल्यपि॥ २१ ॥
भावप्रकाशिका
घृतवल्लीत्यस्य ‘नेयंप•ी इत्यपभ्रष्टभाषा’ ॥ २१ ॥
पदार्थदीपिकोद्बोधिका
महवतेति ॥ कदाचन । मह उत्सवोऽस्यास्तीति महवान् तेन । ‘मह उद्धव उत्सवः’ इत्यमरः । स्वजनेन स्वबन्धुजनेन समीरिता उत्सवार्थ-मागन्तव्यमिति प्रोक्ता या स्वजननी तया सहितस् तेन । रुचिरा मनोहरा या वाचना पुस्तकवाचनं तया । अक्षराणां जवेन सकलपुस्तकवाचनशक्त्येति भावः । अर्चिता सर्वैः सम्भाविता वाक्श्रीर् वचनसम्पद्यस्य तेन । प्रभुणा समर्थेन वासुदेवेन घृतवल्यपि ‘घृतवल्ली’ नामकदेशविशेषोऽपि प्रतियये प्राप्ता । या प्रापणे कर्मणि लिट् । घृतवल्लीत्यस्य ‘नेयम्प•ी’ इत्यपभ्रष्टसंज्ञा ॥ २१ ॥
मन्दोपाकारिणी
महवतेति ॥ कदाचन कस्मिंश्चित्काले । प्रभुणा समर्थेन वासुदेवेन घृतवल्यपि घृतवल्लिनामकग्रामविशेषोऽपि प्रतियये प्राप्ता । ‘या प्रापणे इत्यतः कर्मणि लिट् आत्मनेपदं यये ययाते ययिरे’ । कथम्भूतेन रुचिरवाचनया रुचिरा मनोहरा ‘सुन्दरं रुचिरं चारु’ इत्यमरः । अक्षरपरिचयवत्वेन विविधपुस्तकवाचकत्वशक्तिः रुचिरा च सा वाचना च रुचिरवाचना तया तन्निमित्तेनेति भावः । अर्चितवाक्श्रिया अर्चिता सर्वैः सम्भाविता वाक्श्रीर् वचनसम्पद् यस्य स तथोक्तस् तेन । अक्षरवाचकशक्तिनिमित्तेन सर्वैः पूजितेन इति भावः । पुनः कथम्भूतेन महवता महोऽस्यास्तीति महवान् उत्सववान् तेन विवाहाद्युत्सवकर्त्रेत्यर्थः । स्वजनेन स्वकीयजनेन समीरितस्वजननीसहितेन समीरिता आहूता च सा स्वजननी च तया सहितेन कदाचिद् ग्रामान्तरे स्वमातृबन्धुगृहे विवाहे प्राप्ते तेन स्वमातरि आहूतायां तया सह स्वयं ग्रामान्तरं जगामेति भावः ॥ २१ ॥
विश्वास-प्रस्तुतिः - २२
परिषदा नितरां परिवारितः शिवपदः किल धौतपटोद्भवः ।
इह कथां कथयन् ददृशे ततः पृथुधिया पृथुकाकृतिनाऽमुना॥ २२॥
मूलम् - २२
परिषदा नितरां परिवारितः शिवपदः किल धौतपटोद्भवः ।
इह कथां कथयन् ददृशे ततः पृथुधिया पृथुकाकृतिनाऽमुना॥ २२॥
भावप्रकाशिका
धौतपटस्य ‘मडिनाय’ इत्यभ्रष्टभाषा ।
पदार्थदीपिकोद्बोधिका
परिषदेति ॥ इह घृतवल्यां कथां पुराणकथां कथयन् परिषदा सभया । ‘सभा स्यात्परिषत्सदः’ इति हलः । कथां ृण्वता जनसमूहेनेत्यर्थः । नितरां परिवारितः परिवृतः । शिव इति पदं नाम यस्य सः । धौतपटे धौतपटाख्यकुले उद्भव उत्पत्तिर्यस्य तादृशो ऽपभ्रष्टसञ्ज्ञायां ‘मडिनाय’ इति प्रसिद्धकुलोद्भव इत्यर्थः । कश्चिद्द्विजः । पृथुः पूर्णा धीर्ज्ञानं यस्य तेन । पृथुकस्य बालकस्य आकृतिः स्वरूपं यस्य तेन । ‘पृथुकः शावकः शिशुः’ इत्यमरः ।
अमुना वासुदेवनाम्ना मारुतिना वायु-पुत्रेण ददृशे दृष्टः ॥ २२ ॥
मन्दोपाकारिणी
परिषदेति ॥ ततः घृतवल्लिग्रामगमनानन्तरम् । इह घृतवल्याम् । पृथुधिया पृथुर् विशाला धीः प्रज्ञा यस्य स तथोक्तस् तेन पृथुधिया । पृथुकाकृतिना पृथुकस्य शिशोर् आकृतिर् आकारो यस्य स तथोक्तस् तेन पृथुकाकृतिना । ‘पृथुकः शावकः शिशुः’ इत्यमरः । अमुना वासुदेवेन कथां पुराणकथां कथयन् शिवपदः शिव इति पदं नाम यस्य सः शिवपदः कश्चिद् विप्रः । ददृशे दृष्टः किल । ‘दृशिर् प्रेक्षणे इत्यतः कर्मणि लिट् आत्मनेपदं ददृशे ददृशाते ददृशिरे’ । कथंभूतः परिषदा पुराणकथां ृण्वन्त्या सभया जनसमूहेनेति यावत् । ‘समज्या परिषद्गोष्ठी सभा समिति संसदः’ इत्यमरः । नितराम् अतिशयेन अविरलतया इति यावत् । परिवारितः समन्ताच् चक्राकारेणाश्रितः । पुनः कथंभूतः धौतपटोद्भवः धौतपटे तन्नामके कुले उद्भव उत्पत्तिर् यस्य स तथोक्तः । ‘जनिरुत्पत्तिरुद्भवः’ इत्यमरः ॥ २२ ॥
विश्वास-प्रस्तुतिः - २३
इदमुवाच विचारविचक्षणः शुचि वचः शनकैः स जनान्तरे ।
अपरथा कथितं कथक त्वया ननु मतान्महतामिति सस्मितम् ॥ २३॥
मूलम् - २३
इदमुवाच विचारविचक्षणः शुचि वचः शनकैः स जनान्तरे ।
अपरथा कथितं कथक त्वया ननु मतान्महतामिति सस्मितम् ॥ २३॥
पदार्थदीपिकोद्बोधिका
इदमिति ॥ विचारविचक्षणः पदार्थानां पदानां च वाच्यवाचकभावविचारकुशलः । स जनान्तरे जनमध्ये । हे कथक पौराणिक त्वया महतां व्यासशुकादीनां मतात् सिद्धान्ताद् अपरथा अन्यथा कथितं ननु । शुचि शुद्धं शब्दसौष्ठ-वोपेतम् इतीदं वचो वाक्यं सस्मितं स्मितसहितं यथा भवति तथा शनकैरुवाच ॥ २३ ॥
मन्दोपाकारिणी
इदमिति ॥ विचारविचक्षणः पदार्थानां पदानां वाच्यवाचकत्व-विचारे कुशलः । सः बालकः जनान्तरे जनानां पुराणकथाश्रोतॄणाम् अन्तरे मध्ये सस्मितं मन्दहाससहितं यथा भवति तथा मन्दं हसन्निति भावः । इदं वक्ष्यमाणं शुचिवचः शुचि शुद्धं च तद् वचः वचनं शनकैर् मन्दम् उवाच अब्रवीत् । ‘वच परिभाषणे इत्यतो लिट् परस्मैपदम् उवाच ऊचतुर् ऊचुः’ । इदं किं हे कथक पुराणवक्त्रा त्वया अत्र किञ्चिन् महतां व्यासशुकादीनां मतात् सिद्धान्ताद् अपरथा अन्यथा कथितं ननु । त्वदुक्तं महत्सिद्धान्तविरुद्धं’ इति एवंप्रकारकं वच इत्यन्वयः ॥ २३ ॥
विश्वास-प्रस्तुतिः - २४
अगणयन्न शिवं जनता तदा सवचने वसुदेवसुताह्वये ।
मुखरमिच्छति को मृगधूर्तकं प्रकृतहुंकृतसिंहशिशौ सति॥ २४ ॥
मूलम् - २४
अगणयन्न शिवं जनता तदा सवचने वसुदेवसुताह्वये ।
मुखरमिच्छति को मृगधूर्तकं प्रकृतहुंकृतसिंहशिशौ सति॥ २४ ॥
पदार्थदीपिकोद्बोधिका
अगणयन्निति ॥ वसुदेवसुतस्य श्रीकृष्णस्य आह्वयो नाम यस्य तस्मिन् वासुदेवनामक इत्यर्थः । यद्वा वसुदेवसुत इति वासुदेव इत्याह्वयो यस्य तस्मिन् सवचने सति वचनयुक्ते सति एवं वदति सतीति यावत् । जनता जनसमूहः । शिवं शिवनामकं पौराणिकं न अगणयन् न सम्भावयामास । गण सङ्ख्याने लङ् । तथा हि प्रकृतमुपक्रान्तं हुङ्कृतं हुङ्कारो येन तस्मिन् सिंहशिशौ सति मुखरं क्रोशन्तं मृगधूर्तकं सृगालं को विवेकी इच्छति सम्भावयितुमिच्छति । ‘गोमायुर्मृगधूर्तकः’ इत्यमरः ॥ २४ ॥
मन्दोपाकारिणी
अगणयदिति ॥ तदा पुराणकथनकाले । वसुदेवसुताह्वये वसुदेवस्य यादवस्य सुतः श्रीकृष्णस् तस्य आह्वयः वासुदेव इत्याख्या यस्य स तथोक्तस् तस्मिन् वसुदेवसुताह्वये । ‘अथाह्वय आख्याह्वे अभिधानं च’ इत्यमरः । सवचने वचनेन सहिते एवं वदति सतीति यावत् । जनता जनसमूहः शिवं शिवनामकं भट्टं न अगणयन् न लक्षयामास । ‘गण सङ्ख्याने इत्यतो लङ् परस्मैपदम् अगणयद् अगणयताम् अगणयन्’ । तथा हि । प्रकृतहुङ्कृतसिंहशिशौ प्रकृतम् उपकृतं हुङ्कृतं हुङ्कारो येन स तथोक्तः सिंहस्य शिशुः प्रकृतहुङ्कृतश्चासौ सिंहशिशुश्च तस्मिन् गम्भीरहुङ्कारं कृतवति सिंहशिशौ विद्यमाने च सति । मुखरं क्रोशन्तं शब्दं कुर्वन्तम् इति यावन् मृगधूर्तकं सृगालं कः विवेकीपुरुष इच्छति सम्भावयितुमिच्छति । न कोऽपीत्यर्थः । ‘शिवा भूरिमायगोमायुमृगधूर्तकाः । सृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः’ इत्यमरः ॥ २४ ॥
विश्वास-प्रस्तुतिः - २५
अथ कथां कथयेति तदा जने गदितवत्युचितार्थमुदाहरत् ।
स समलाल्यत विस्मयिभिर्नरैरपि सुरैर्विजयाङ्कुरपूजकैः॥ २५ ॥
मूलम् - २५
अथ कथां कथयेति तदा जने गदितवत्युचितार्थमुदाहरत् ।
स समलाल्यत विस्मयिभिर्नरैरपि सुरैर्विजयाङ्कुरपूजकैः॥ २५ ॥
पदार्थदीपिकोद्बोधिका
अथेति ॥ अथ पक्षान्तरे कथकोदितवाक्यार्थो महता-मभिमतो न चेदिति यावत् । तर्हि कथं महतामभिमतार्थः कथं कथय त्वं ब्रूहि । कथ वाक्यप्रबन्धे लोट् । इति जने महाजने गदितवति सति उचितार्थं कथकेनान्यथोक्तस्य वाक्यस्योचितमर्थमुदाहरदुवाच । तदा स वासुदेवः विस्मयिभिर्विस्मयशीलैर् नरैः । विजयस्य योऽङ्कुरस्तस्य पूजकैः सुरैरपि समलाल्यत अमान्यत । लल ईप्सायां कर्मणि लङ् ॥ २५ ॥
मन्दोपाकारिणी
अतेति ॥ पक्षान्तरे अथशब्दः । अथ कथकपक्षो न चेत् तदा तर्हि महत्सिद्धान्ताविरुद्धां कथां त्वं कथय ब्रूहि । कथ वाक्यप्रबन्धे इति धातोर् लोट् परस्मैपदं कथय कथयतं कथयत’ । जने श्रोतृजने । इति गदितवति सति सः वासुदेव उचितार्थं कथकोक्तार्थवाक्यस्य उचितं योग्यं महत्संमतमिति यावत्, अर्थम् अभिधेयं ‘अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु’ इत्यमरः । उदाहरद् अकथयत् । उत्, आङ् पूर्वात् हृञ् हरण इति धातोर् लङ् परस्मैपदम् उदाहरद् उदाहरताम् उदाहरन्’ । सः वासुदेवः विस्मयिभिर् विस्मय आश्चर्यम् एषाम् अस्तीति विस्मयिनस् तैर् आश्चर्यं कुर्वद्भिर् नरैः परिषज्जनैः । विजयाङ्कुरपूजकैर् विजयस्य उत्कर्षस्य अङ्कुरम् आरम्भं पूजयन्तीति अनुमोदयन्तीति विजयाङ्कुरपूजकास् तैः । सुरैरपि समलाल्यत सत्कृतः ‘लल ईप्साया-मित्यतः कर्मणि लङ् आत्मनेपदम् अलाल्यत अलाल्येताम् अलाल्यन्त’ ॥ २५ ॥
विश्वास-प्रस्तुतिः - २६
स जननीसहितो जनकं गृहे प्रगतवांस्तमुदन्तमवेदयत् ।
निगद तात शिवः कथकः स किं वितथगीरथवाऽहमितीरयन् ॥ २६ ॥
मूलम् - २६
स जननीसहितो जनकं गृहे प्रगतवांस्तमुदन्तमवेदयत् ।
निगद तात शिवः कथकः स किं वितथगीरथवाऽहमितीरयन् ॥ २६ ॥
पदार्थदीपिकायां – स इति ॥ जननीसहितः प्रगतवान् गृहं गतः स बालकः गृहे स्वमन्दिरे वर्तमानं जनकं पितरं प्रति हे तात पितः निगद त्वमेव एतद्वद । गद व्यक्तायां वाचि लोट् । कथकः पौराणिकः स शिवः वितथगीः किं? वितथा अयथार्था गीर् वाक् यस्य तादृशः किं? अथ न चेद् अहं वा वितथगीर् अयथार्थवादी इतीरयन् सन् तं घृतवल्यां प्रवृत्तमुदन्तं वृत्तान्तम् अवेदयज् ज्ञापयामास । विद ज्ञाने लङ् ॥ २६ ॥
मन्दोपाकारिणी
स इति ॥ जननीसहितः जनन्या मात्रा सहितः युक्तः । प्रगतवान् गृहमागतः सः वासुदेवः गृहे स्वमन्दिरे वर्तमानं जनकं पितरम् । तं घृतवल्यां प्रवृत्तम् उदन्तं वृत्तान्तं ‘वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात्’ इत्यमरः । अवेदयज् ज्ञापितवान् । ‘विद ज्ञान इत्यतो लङ् परस्मैपदम्’ । हे तात जनक कथकः पुराणवक्ता शिवः शिवनामा सः द्विजः वितथगीः किं वितथा अनृता ‘वितथं त्वनृतं वचः’ इत्यमरः गीर् वाक् यस्य स तथोक्तो ऽयथार्थवादी किं ? अथ स न चेत् । अहं वा वितथगीः किं ? त्वं सत्यं निगद ब्रूहि । ‘गद व्यक्तायां वाचीत्यतो लोट् परस्मैपदं गद गदताद् गदतं गदत’ । इति एवम् ईरयन् पृच्छन् अभूद् इति शेषः । घृतवल्लीजातवृत्तान्तम् उक्त्वा ‘तदुक्तं वा मदुक्तं वा सत्यं’ त्वं वद इति पितरं पृष्टवान् इति भावः ॥ २६ ॥
विश्वास-प्रस्तुतिः - २७
ननु सुतावितथं कथितं त्वयेत्यमुमुदीर्य सविस्मयमस्मरत् ।
प्रकृतितः कृतिता खलु मे शिशोर्मदधिनाथदयोदयजेत्यसौ॥ २७ ॥
मूलम् - २७
ननु सुतावितथं कथितं त्वयेत्यमुमुदीर्य सविस्मयमस्मरत् ।
प्रकृतितः कृतिता खलु मे शिशोर्मदधिनाथदयोदयजेत्यसौ॥ २७ ॥
पदार्थदीपिकोद्बोधिका
नन्विति ॥ असौ भट्टः हे सुत त्वया वितथम् अयथार्थं न भवति इति अवितथं सत्यमित्यर्थः । तद्वाक्यस्याभिमतार्थ इति यावत् । कथितं ननु इति अमुं पुत्रमुदीर्य सविस्मयं विस्मयसहितं यथा भवति तथा । मे मम शिशोः प्रकृतितः स्वभावतः कृतिता चतुरता ममाधिनाथः स्वामी रजतपीठवासी श्रीमदनन्तासनस्तस्य
दयाया उदयोऽभिव्यक्तिस् तस्माज्जाता मदधिनाथदयोदयजा इत्यस्मरत् । स्मृ चिन्तायां लङ् ॥ २७ ॥
मन्दोपाकारिणी
नन्विति ॥ असौ पृष्टः पिता हे सुत त्वया अवितथं यथार्थं कथितं ननु उक्तं हि । इति इत्थम् अमुं सुतम् उक्त्वा सविस्मयं विस्मयेन आश्चर्येण सहितं यथा भवति तथा । इति एवं प्रकारेण अस्मरद् अनुसन्दधे । ‘स्मृ चिन्तायां लङ् परस्मैपदम् अस्मरद् अस्मरताम् अस्मरन्’ । कथं, मे मम शिशोस् तनयस्य प्रकृतितः स्वभावतः कृतिता कृतिनः भावः कृतिता विद्वत्ता । ‘धीमान् सूरिः कृती कृष्टिः’ इत्यमरः । मदधिनाथदयोदयजा मम अधिनाथः स्वामी रजतपीठपुरवासी अनन्तेश्वरस् तस्य दयायाः कृपाया उदयात् प्रादुर्भावाज् जायत इति मदधिनाथदयोदयजा खलु निश्चय इत्यस्मरद् इत्यन्वयः । मच्छिशोर् अनन्तेश्वरदययैव जातत्वात् पाण्डित्यमपि तद्दययैव जातं कारणान्तरादर्शनाद् इति अस्मरद् इति भावः ॥ २७ ॥
विश्वास-प्रस्तुतिः - २८
कथयतां प्रथमे कथयत्यलं स्वजनके जनसङ्घवृते कथाम् ।
सकललोकमनोनयनोत्सवश्चतुरधीः स कदाचिदवाचयत्॥ २८ ॥
मूलम् - २८
कथयतां प्रथमे कथयत्यलं स्वजनके जनसङ्घवृते कथाम् ।
सकललोकमनोनयनोत्सवश्चतुरधीः स कदाचिदवाचयत्॥ २८ ॥
पदार्थदीपिकोद्बोधिका
कथयतामिति ॥ कदाचित् कथयतां पौराणिकानां प्रथमे प्रधाने । ‘प्रथमः स्यात्प्रधानाद्यो’रिति हेमचन्द्रः । जनानां श्रोतॄणां जनानां सङ्घेन समूहेन वृते परिवृते स्वजनके, कथां पौराणिकभगवत्कथां कथयति सति सकललोकानां सकलजनानां मनांसि च नयनानि च तेषाम् उत्सव इव उत्सवो हृद्यः । चतुरा निपुणा धीर्यस्य स वासुदेवो ऽलं सम्यग् अवाचयद् वाचयामास ॥ २८ ॥
मन्दोपाकारिणी
कथयतामिति ॥ सकललोकमनोनयनोत्सवः सकलाश्च ते लोकाश्च सकललोकाः सकललोकानां मनसां नयनानां च उत्सवः सुखकरः । चतुरधीश् चतुरा निपुणा धीर् बुद्धिर् यस्य स तथोक्तः सः वासुदेवः । कदाचित् कस्मिंश्चिद्दिवसे कथयतां पुराणप्रवक्तॄणां प्रथमे श्रेष्ठे । जनसङ्घवृते जनानां सङ्घेन समूहेन वृते परिवारिते । ‘गणौघसङ्घसङ्घातम्’ इति हलायुधः । स्वजनके स्वस्य पितरि मध्यगेहे कथां पुराणकथाम् अलं सम्यक् कथयति सति वर्णयति सति अवाचयत् । पित्रा पुराणश्लोकार्थं वाचयामास । ‘वच परिभाषणे इत्यतो लङ् परस्मैपदं’ । पित्रा पुराणकथनसमये कस्मिंश्चित्पदे अव्याख्याते सति पुत्रेण एतत् श्लोकार्थं पुनः कथय इत्युक्ते पिता श्लोकार्थम् अकथयद् इति भावः ॥ २८ ॥
विश्वास-प्रस्तुतिः - २९
विविधशाखिपदार्थनिवेदने लिकुचनामि्न तदाऽनुदितार्थके ।
किमिति तात तदर्थमवर्णयन् कथयसीति शनैरयमब्रवीत्॥ २९ ॥
मूलम् - २९
विविधशाखिपदार्थनिवेदने लिकुचनामि्न तदाऽनुदितार्थके ।
किमिति तात तदर्थमवर्णयन् कथयसीति शनैरयमब्रवीत्॥ २९ ॥
पदार्थदीपिकोद्बोधिका
विविधेति ॥ तदा पुराणकथनावसरे विविधानां शाखिनां वृक्षाणां पदानां वाचकशब्दानाम् अर्थानां वाच्यार्थानां निवेदने ज्ञापने प्रस्तुते सतीति शेषः । लिकुचनामि्न लिकुचाख्यपदे अनुदितोऽनुक्तो ऽर्थो वाच्यार्थो यस्य तस्मिन् सति अयं वाचको बालकः हे तात तस्य लिकुचपदस्यार्थम् अवर्णयन् अकथयन् त्वं किमिति
कथयसि कथा वदसि । कथ वाक्यप्रबन्धे लट् । इति शनैरब्रवीत् । ब्रूञ् व्यक्तायां
वाचि लङ् ॥ २९ ॥
मन्दोपाकारिणी
विविधेति ॥ तदा पुराणश्लोकार्थवाचनावसरे विविधशाखि-पदार्थनिवेदने विविधशाखिनां पदानि वाचकानि नामानि तेषाम् अर्थस्य अभिधेयस्य निवेदने ज्ञापने ‘प्रसक्ते सति’ इति शेषः । लिकुचनामि्न लिकुचाख्यं च तन् नाम पदं च लिकुचनाम तस्मिन् लिकुचनामि्न पदे । अनुदितार्थके अनुदितो ऽनुक्तो ऽर्थो ऽभिधेयो यस्य तत् तस्मिन् सति । अयं बालकः हे तात तदर्थं तस्य लिकुचपदस्य अर्थम् अभिधेयम् अवर्णयन् अकथयन् किमिति कुतो निमित्तात् कथां कथयसीति शनैर् अब्रवीत् ॥ २९ ॥
विश्वास-प्रस्तुतिः - ३०
अवदतीति पितर्यपि चोदिते प्रतिबुभुत्सुषु तत्र जनेष्वपि ।
अयमुदीर्य तदर्थमवाप्तवान् परिषदो ह्यसमानसुमाननाम्॥ ३० ॥
मूलम् - ३०
अवदतीति पितर्यपि चोदिते प्रतिबुभुत्सुषु तत्र जनेष्वपि ।
अयमुदीर्य तदर्थमवाप्तवान् परिषदो ह्यसमानसुमाननाम्॥ ३० ॥
पदार्थदीपिकोद्बोधिका
अवदतीति ॥ इति एवं चोदिते लिकुचपदार्थवर्णनाय प्रेरितेऽपि पितरि अवदति सति तदर्थमनुक्तवति तत्र सभायां जनेष्वपि प्रतिबुभुत्सुषु प्रतिबोद्धुमिच्छत्सु सत्सु अयं वासुदेवस् तदर्थं लिकुचपदार्थम् उदीर्य परिषदः सभाया असमाना असदृशी या सुमानना पूजा ताम् अवाप्तवान् हि ॥ ३० ॥
मन्दोपाकारिणी
अवदतीति ॥ इति पूर्वोक्तप्रकारेण चोदितेऽपि लिकुचशब्दार्थ-वर्णनाय प्रेरितेऽपि पितरि अवदति सति ज्ञानाभावेन लिकुचशब्दार्थम् अकथयति सति । तत्र सभायां जनेष्वपि श्रोतृजनेष्वपि प्रतिबुभुत्सुषु लिकुचशब्दार्थं प्रतिबोद्धुमिच्छत्सु सत्सु अयं वासुदेवस् तदर्थं तस्य लिकुचपदस्यार्थम् अभिधेयम् उदीर्य उक्त्वा परिषदः सभाया जनसमूहाद् असमानसुमाननाम् असमाना असदृशा च सा सुमानना शोभनपूजा च असमानसुमानना ताम् अवाप्तवान् हि ॥ ३० ॥
विश्वास-प्रस्तुतिः - ३१
बहुविधैश्चरितैरिति चारुभिः सकललोककुतूहलकारिणम् ।
द्विजवरेण वयस्युचिते स्थितं तमुपनेतुमनेन दधे मनः॥ ३१ ॥
मूलम् - ३१
बहुविधैश्चरितैरिति चारुभिः सकललोककुतूहलकारिणम् ।
द्विजवरेण वयस्युचिते स्थितं तमुपनेतुमनेन दधे मनः॥ ३१ ॥
पदार्थदीपिकोद्बोधिका
बहुविधैरिति ॥ अनेन द्विजवरेण भट्टेन इतीत्थं बह्वयो विधाः प्रकारा येषां तैः । चरितैश् चरित्रैः । सकललोकानां सकलजनानां कुतूहलमाश्चर्यं कर्तुं शीलमस्यास्तीति तम् । उचिते वयसि उपनयनयोग्ये वयसि स्थितं , गर्भाष्टमं जन्माष्टमं वा संवत्सरं प्राप्तमिति भावः । तं स्वपुत्रम् उपनेतुम् उपनीतं कर्तुं मनो दधे धृतम् ॥ ३१ ॥
मन्दोपाकारिणी
बहुविधैरिति ॥ द्विजवरेण द्विजेषु वरेण उत्तमेन अनेन मध्यगेहभट्टेन । तं सुतम् उपनेतुम् उपनयनं कर्तुं मनो ऽन्तःकरणं दधे । ‘डु धाञ् धारणपोषणयोर् इत्यतः कर्मणि लिडात्मनेपदं दधे दधाते दधिरे’ । सुतस्य उपनयनं कर्तुं मतिं चकारेति भावः । कथंभूतं, इति पूर्वोक्तप्रकारेण बहुविधैर् बह्व्यः विधाः प्रकारा एषां तानि बहुविधानि तैः । ‘विधाविधौ प्रकारे च’ इत्यमरः । चारुभिर् मनोहरैश् चरितैर् व्यापारैः क्रीडाभिरिति यावत् । सकललोककुतूहलकारिणं सकलानां लोकानां जनानां कुतूहलम् आश्चर्यं करोतीति सकललोककुतूहलकारी तम् । पुनः कथंभूतम् उचिते उपनयनयोग्यपञ्चमाष्टमादिसंवत्सररूपे वयसि बाल्यवयसि ‘खगबाल्यादिनोर्वय इत्यमरः । स्थितं विद्यमानम् । पञ्चमाष्टमाद्यन्यतरसंवत्सरोपेतम् इति यावत् ॥ ३१ ॥
विश्वास-प्रस्तुतिः - ३२
समुचितग्रहयोगगुणान्वितं समवधार्य मुहूर्तमदूषणम् ।
प्रणयबन्धुरबान्धववानसौ द्विजकुलाकुलमुत्सवमातनोत्॥ ३२ ॥
मूलम् - ३२
समुचितग्रहयोगगुणान्वितं समवधार्य मुहूर्तमदूषणम् ।
प्रणयबन्धुरबान्धववानसौ द्विजकुलाकुलमुत्सवमातनोत्॥ ३२ ॥
पदार्थदीपिकोद्बोधिका
समुचितेति ॥ प्रणयेन स्वकृतस्नेहेन । बन्धुरा आत्मनि स्नेहबन्धयुक्ता यद्वा बन्धुरा रम्या नम्या वा । ‘बन्धूरबन्धुरौ रम्ये नम्ये हंसे तु बन्धुर’ इति रभसः । ये बान्धवा शरीरसम्बन्धिनस्तेऽस्य सन्तीति तथोक्तः । असौ भट्टः समुचित उपनयनोचितो यो ग्रहयोग आदित्यादीनां योगः स एव गुणस्तेनान्वितस्तम् अष्टमशुद्ध्यादि-गुणयुक्तमित्यर्थः । न विद्यते दूषणमितरदोषो यस्मिन् तं मुहूर्तं समवधार्य निश्चित्य द्विजानां कुलेनाकुलं निबिडम् उत्सवम् उपनयनोत्सवम् आतनोच् चकार । तनु करणे लङ् ॥ ३२ ॥
मन्दोपाकारिणी
समुचितेति ॥ प्रणयबन्धुरबान्धववान् प्रणयेन स्नेहेन बन्धुरा नम्राः स्ववशाः । ‘बन्धुरं सुन्दरे नम्रः’ इत्यमरः । बान्धवाः सगोत्रा अस्य सन्तीति प्रणयबन्धुरबान्धववान् । असौ मध्यगेहः समुचितग्रहयोगगुणान्वितं ग्रहाणां बृहस्पत्यादि-नवग्रहाणां योगः सम्मेलनम् । उपनयनस्य सं सम्यक्, उचितो ऽनुकूलश्चासौ ग्रहयोगश्च समुचितग्रहयोगः समुचितग्रहयोगश्चासौ गुणश्च समुचितग्रहयोगगुणस् तेन अन्वितं युक्तम् । अदूषणं न विद्यन्ते दूषणानि उपनयनदोषा यस्य स तथोक्तस् तं मुहूर्तं वृषभादिलग्नं समवधार्य निश्चित्य । द्विजकुलाकुलं द्विजानां विप्राणां कुलेन आकुलं सङ्कीर्णं परिपूर्णमिति यावत् । उत्सवम् उपनयनरूपं मङ्गलम् । ‘मह उद्धव उत्सवः’ इत्यमरः । आतनोत् कृतवान् । ‘तनु विस्तार’ इत्यतो लङ् परस्मैपदम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः - ३३
विविधवेदतया विजिहीर्षवो वदनरङ्गपदेऽस्य चिराय याः ।
सुरवरप्रमदा अपि सप्रिया अभिननन्दुरहो वियतो महम्॥ ३३ ॥
मूलम् - ३३
विविधवेदतया विजिहीर्षवो वदनरङ्गपदेऽस्य चिराय याः ।
सुरवरप्रमदा अपि सप्रिया अभिननन्दुरहो वियतो महम्॥ ३३ ॥
पदार्थदीपिकोद्बोधिका
विविधेति ॥ याः सुरवरप्रमदा देवश्रेष्ठस्त्रियः । चिराय अस्य वासुदेवस्य वदनमेव मुखमेव रङ्गपदं नर्तनस्थानं तस्मिन् । ‘रङ्गः स्यान्नर्तनस्थानं’ इति हलः । विविधानां वेदानां भावस्तया नानावेदात्मकत्वेनेत्यर्थः । विजिहीर्षवः विहर्तुमिच्छवः । प्रियैः स्वभर्तृभिः सहिताः सप्रियास्ता सुरवरप्रमदा वेदाभिमानिन्यः श्रीः, भारती, वारुणी, पार्वतीप्रभृतयो वेदाङ्गनाः । वियत आकाशात् । ‘वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी’ इत्यमरः । तत्र स्थित्वेति यावत् । महमुत्सवम् अभिननन्दुः । अहो आश्चर्यम् । इयन्तं कालमस्यानुपनीतत्वेन वेदोच्चारणायोगादस्य वदनरङ्गे वेदतया विहर्तुमशक्यत्वादुपनयनं प्रतीक्ष्य स्थिता वेदाभिमानिन्यो देवाङ्गना इदानीमुपनयनोत्सवं ज्ञात्वा आकाशे विमानारूढाः सत्यस् तदुत्सवमभिननन्दुरिति भावः ॥ ३३ ॥
मन्दोपाकारिणी
विविधेति ॥ याः सुरवरप्रमदाः सुरवराणां देवश्रेष्ठानां प्रमदाः स्त्रियः । ‘प्रमदा भामिनी कान्ता ‘इत्यमरः । वेदाभिमानिन्यो देवस्त्रिय इति यावत् । चिराय बहुकालम् अस्य वासुदेवस्य वदनरङ्गपदे वदनं वक्त्रमेव रङ्गपदं नर्तनस्थानं तस्मिन् । विविधवेदतया विविधा अनेकप्रकाराश्च ते वेदाः श्रुतयश्च विविधवेदाः । विविधवेदानां भावो विविधवेदता तया विविधवेदस्वरूपेण इत्यर्थः । विजिहीर्षवः विहर्तुं क्रीडितुम् इच्छावत्यो ऽभूवन् । ता देवाङ्गनाः सप्रियाः प्रियैः स्वस्वभतृभिः सहिताः । ‘धवः प्रियः पतिर्भर्ता’ इत्यमरः । वियत आकाशान् महम् उपनयनोत्सवम् अभिननन्दुः सन्तुतुषुः । ‘टु नदि समृद्धौ लिट् परस्मैपदं ननन्द ननन्दतुर् ननन्दुः’ । अहो प्रसिद्धम् । अस्य अनुपनीतस्य वदने क्रीडितुम् अशक्यत्वाद् उपनयनं प्रतीक्षन्त्यो वेदाभिमानिन्यो देवाङ्गनास् तम् उत्सवं दृष्ट्वा सन्तुतुषुर् इति भावः ॥ ३३ ॥
विश्वास-प्रस्तुतिः - ३४
विहितसाधनसाधितसत्क्रियोज्ज्वलनमुज्ज्वलधीर्ज्वलयन्नयम् ।
उपनिनाय सुतं समलङ्कृतं कुशलिनं कुशलीकृतशीर्षकम्॥ ३४ ॥
मूलम् - ३४
विहितसाधनसाधितसत्क्रियोज्ज्वलनमुज्ज्वलधीर्ज्वलयन्नयम् ।
उपनिनाय सुतं समलङ्कृतं कुशलिनं कुशलीकृतशीर्षकम्॥ ३४ ॥
पदार्थदीपिकोद्बोधिका
विहितेति ॥ विहितानि उपनयनकर्मणि वेदविहितानि यानि साधनानि उपकरणानि तैः साधिता प्रवृत्ता सत्क्रिया सत्कर्म येन स । ज्वलनमग्निम् उज्वलयन् स्वयम् आहुतिक्रियां कुर्वन् । उज्वला निर्मला धीश्चित्तं यस्य सोऽयं भट्टः । सुकुमारकं कोमलरूपं, समलंकृतमिति पाठे सम्यगलंकृतमित्यर्थः । कुशलं क्षेममस्यास्तीति तं रोगादिरहितमित्यर्थः । अकुशलं कुशलं सम्पद्यमानं कृतं कुशलीकृतं क्षुरकर्मणा भद्रीकृतं शीर्षकं मस्तकं यस्य तं सुतम् उपनिनाय उपनीतमकरोत् ॥ ३४ ॥
मन्दोपाकारिणी
विहितेति ॥ विहितसाधनसाधितसत्क्रियः विहितानि उपनयन-कर्माणि निर्दिष्टानि च तानि साधनानि च तैः साधिता निष्पन्ना सती निर्दुष्टा अङ्गलोपरहिता क्रिया कर्म यस्य सः विहितसाधनसाधितसत्क्रियः । ज्वलनम् अग्निं ‘ज्वलनो हव्यवाहनः’ इत्यमरः । ज्वलयन् स्वयं जुह्वन् । उज्ज्वलधीर् उज्ज्वला निर्मला धीर् ज्ञानं यस्य स तथोक्तः । अयं मध्यगेहः कुशलिनं कुशलं क्षेमं पुण्यं वा अस्यास्तीति कुशली तं स्वस्थं पुण्यवन्तं वा । ‘पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु’ इत्यमरः । कुशलीकृत-शीर्षकं कुशलीकृतं मुण्डितं शीर्षकं शिरः यस्य स तथोक्तस् तम् । ‘उत्तमाङ्गं शिरः शीर्षं’ इत्यमरः । समलङ्कृतम् अभ्यङ्गहरिद्राकुङ्कुमादिना कुण्डलाङ्गुलीयकङ्कणकांच्यादिना च भूषितं सुतम् उपनिनाय उपनीतमकरोत् । ‘नी प्रापणे इत्यतो लिट् परस्मैपदम् ॥ ३४ ॥
विश्वास-प्रस्तुतिः - ३५
परिचराग्निगुरू चरितव्रतः सुचरणः पठ साधु सदागमान् ।
इति गुरोस्त्रिजगद्गुरुशिक्षणे स्फुटमहासि सुरैः कृतसाक्षिभिः ॥ ३५॥
मूलम् - ३५
परिचराग्निगुरू चरितव्रतः सुचरणः पठ साधु सदागमान् ।
इति गुरोस्त्रिजगद्गुरुशिक्षणे स्फुटमहासि सुरैः कृतसाक्षिभिः ॥ ३५॥
भावप्रकाशिका
आदित्यचन्द्रादयो धर्मसाक्षिणः ॥ ३५ ॥
पदार्थदीपिकोद्बोधिका
परिचरेति ॥ सु शोभनं चरणमाचारो यस्य सस् तथा सन् अग्निश्च गुरुश्च तौ परिचर शुश्रूषस्व । चरितं चीर्णं व्रतं ब्रह्मचर्यव्रतं येन तादृशः सन् सदागमान् निर्दोषागमान् वेदादीन् इत्यर्थः । साधु सम्यग् यथा भवति तथा पठ । पठ पठने लोट् । गुरोः पितुः । त्रीणि च तानि जगान्ति च तेषां गुरोर्वाय्ववतारत्वेनाचार्यभूतस्वपुत्रस्य शिक्षणे शिक्षायां कृते सति, कृते सर्वैः क्रियमाणकर्मणि । नपुंसके भावे क्त इति क्तः । साक्षिणः साक्षिभूतास्तैः सुरैः । ‘आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्’ इति प्रमितकर्मसाक्षिभिः सुरैरित्यर्थः । स्फुटं सम्यग् अहासि हासः कृतः । हसे हसने कर्मणि लुङ् ॥ ३५ ॥
मन्दोपाकारिणी
परिचरेति ॥ हे बालक त्वं , सुचरणः शोभनं चरण आचारो यस्य सः सुचरणः सदाचारः सन् । अग्निगुरू अग्निश्च गुरुश्च तौ परिचर शुश्रूषस्व । ‘परिपूर्वाच् चर गतिभक्षणयोर् इति धातोर् लोट् परस्मैपदं ‘चर चरतं चरत’ । सायंप्रात-रग्निकार्यं कुरु गुर्वधीनश्च त्वं भव इति भावः । चरितव्रतश् चरितम् अनुष्ठितं व्रतं ब्रह्मचर्यादि-नियमः येन स तथोक्तः सन् । साधु सम्यक् अध्ययननियमपूर्वकं यथा भवति तथा । सदागमान् सन्तः निर्दोषाश्च ते आगमा वेदादिशास्त्राणि च सदागमास् तान् । ‘आगम-स्त्वागतौ शास्त्रे’ इत्यभिधानम् । पठ अधीष्व ‘पठ व्यक्तायां वाचि इत्यतो लोट् परस्मै-पदम्’ । इति एवं प्रकारेण गुरोः पितुः कर्तरि षष्ठी । त्रिजगद्गुरुशिक्षणे त्रीणि च तानि जगन्ति च त्रिजगतां गुरुः शिक्षकस् त्रिजगद्गुरुर् वायुनन्दनस् तस्य शिक्षणे शिक्षायां कृते सति । कृतसाक्षिभिः कृतं भावे निष्ठा । कृते सर्वैः क्रियमाणे कर्मणि साक्षिभिः साक्षिभूतैः सुरैर् मनुष्यकर्तृककर्माणि पश्यद्भिर् देवैर् इत्यर्थः । स्फुटं सम्यक् अहासि अपहसितम् । ‘हस हसने इत्यतो भावे लुङात्मनेपदम्’ । सर्वशिक्षकवायुपुत्रवासुदेवस्य पित्रा शिक्षणे कृते सति मनुष्यैः क्रियमाणकर्मसाक्षिणो देवा जगद्गुरुः क्व स्वेन तस्य शिक्षाकरणं क्व इति अपहासं चक्रुर् इति भावः । कर्मसाक्षिणो देवास्तु ‘आदित्यचन्द्रावनिलोऽनलश्चद्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्’ इति ॥ ३५ ॥
विश्वास-प्रस्तुतिः - ३६
जितकुमारगुणं सुकुमारकं निजकुमारमवेक्ष्य निरन्तरम् ।
समुचिताचरणे चतुरं स्वतः क्षितिसुरो मुदमायत शिक्षयन्॥ ३६ ॥
मूलम् - ३६
जितकुमारगुणं सुकुमारकं निजकुमारमवेक्ष्य निरन्तरम् ।
समुचिताचरणे चतुरं स्वतः क्षितिसुरो मुदमायत शिक्षयन्॥ ३६ ॥
पदार्थदीपिकोद्बोधिका
जितेति ॥ जिताः कुमारगुणा स्कन्दगुणा ब्रह्मचर्यादयो येन तं सुकुमारकं सुकोमलं निजकुमारम् आत्मबालम् । ‘कुमारः स्याद्गुहे बाल’ इति वैजयन्ती । शिक्षयन् शौचाचमनसन्ध्यावन्दनादिकर्मसु शिक्षयन् । क्षितिसुरो भूसुरः स्वतः शिक्षामनपेक्ष्य निरन्तरं सर्वदा समुचिताचरणे स्ववर्णाश्रमोचिताचारे चतुरं कुशलम् अवेक्ष्य मुदं सन्तोषम् आयत अगमत् । अय गतौ लङ् ॥ ३६ ॥
मन्दोपाकारिणी
जितेति ॥ जितकुमारगुणं जितस् तिरस्कृतः कुमारस्य स्कन्दस्य गुणः ब्रह्मचर्यं येन स तथोक्तस् तम् । ‘कुमारः क्रौञ्चदारणः’ इत्यमरः । सुकुमारकं कोमलम् । निजकुमारं निज आत्मीयः कुमारः नन्दनश्च । ‘निज आत्मीयनित्ययोः’ इति विश्वः । शिक्षयन् शौचाचारसन्ध्यावन्दनादिकर्मसु नियोजयन् । क्षितिसुरः भूसुरः मध्यगेहः स्वतो ऽन्यशिक्षाम् अनवेक्ष्यैव निरन्तरं प्रतिदिनं समुचिताचरणे समुचितस्य वर्णाश्रमयोग्यस्य कर्मण आचरणे अनुष्ठानविषये चतुरं दक्षम् अवेक्ष्य दृष्ट्वा मुदं सन्तोषम् आयत अगमत् । ‘अय पय गतौ इत्यतो लङात्मनेपदम् आयत आयेताम् आयन्त’ ॥ ३६ ॥
विश्वास-प्रस्तुतिः - ३७
सपटखण्डमकिञ्चनवत् क्वचित् स्वविभवानुचितं चरणादिकम् ।
भुवनभर्तुरहो स्वनिगूहनं सुरसभासु कुतूहलमातनोत् ॥ ३७ ॥
मूलम् - ३७
सपटखण्डमकिञ्चनवत् क्वचित् स्वविभवानुचितं चरणादिकम् ।
भुवनभर्तुरहो स्वनिगूहनं सुरसभासु कुतूहलमातनोत् ॥ ३७ ॥
पदार्थदीपिकोद्बोधिका
सपटखण्डमिति ॥ क्वचित्काले अकिञ्चनवद् दरिद्रवत् पटखण्डेन पटैकदेशेन सहितं यथा भवति तथा सपटखण्डम् । स्वस्य विभवाः सम्पदस्तेषाम् अनुचितम् अयोग्यम् । चरणं सञ्चार आदिर्यस्य तत् । मूलरूपेण स्वलोके सर्वाधीश्वरत्वे-नावास्थितस्यापीदानीम् इतस्ततः कार्यवशात्सञ्चरणादिकमित्यर्थः । भुवनभर्तुः सर्वलोकनाथस्य स्वनिगूहनं स्वस्याच्छादनं स्वविभवादिनिगूहनमित्यर्थः । सुरसभासु कुतूहलं कौतुकमातनोत् । तनु करणे लङ् । अहो आश्चर्यम् ॥ ३७ ॥
मन्दोपाकारिणी
सपटेति ॥ अकिञ्चनवन् न विद्यते किञ्चन किमपि द्रव्यं यस्य सो ऽकिञ्चनः दरिद्रः । स इव । सपटखण्डम् पटस्य वस्त्रस्य खण्डश् छिन्नैकदेशः पटखण्डस् तेन सहितं यथा भवति तथा । स्वविभवानुचितं स्वस्य स्वकीयस्य विभवस्य सम्पदो ऽनुचितम् अननुसारि । क्वचित् कस्मिंश्चित् प्रदेशे । चरणादिकम् एकाकिना इतस्ततः सञ्चरणम् आदिः पूर्वो यस्य तत्तथोक्तम् । भुवनभर्तुर् भुवनानां सर्वलोकानां भर्ता ईशिता राजेति यावद् भुवनभर्ता ‘भर्त्रेन्द्र इन ईशिता’ इति धनञ्जयः । तस्य वायोः स्वनिगूहनं स्वरूपाच्छादकं चरणादिकर्मेत्यन्वयः । सुरसभासु सुराणां देवानां सभासु संसत्सु कुतूहलं सन्तोषम् आतनोद् अकरोत् । तनु विस्तार इति धातोर् लङ् परस्मैपदं ‘अतनोद् अतनुताम् अतन्वन्’ प्रथमपुरुषैकवचनम् । अहो आश्चर्यम् इति । स्वल्पदेशराजापि स्वसंपदानुसारेण दिव्यकौशेयोर्णवस्त्रादिभिः स्वात्मानम् अलङ्कृत्य बहुपरिवारजनयुतः सन् सर्वत्र सञ्चरति । अयं तु वायुनन्दनः सर्वलोकराजापि स्वराजत्वम् आच्छाद्य दरिद्रवत् कुत्सितहस्तत्रयात्मकं पटैकदेशं प्रवाय कस्मिंश्चिद् एव भूप्रदेशे एकाकी सन्नेव इतस्ततः सञ्चरति । इदं स्वस्वरूपाच्छादनम् आश्चर्यम् इत्युक्त्वा देवाः सन्तुतुषुर् इति भावः ॥ ३७ ॥
विश्वास-प्रस्तुतिः - ३८
अविरलैर्गरलोष्मभिराकुलीकृतसमस्तजनो विचचार यः ।
क्वचिदमुं निजिघांसुरशान्तिमानुपससर्प स सर्पमयोऽसुरः॥ ३८ ॥
मूलम् - ३८
अविरलैर्गरलोष्मभिराकुलीकृतसमस्तजनो विचचार यः ।
क्वचिदमुं निजिघांसुरशान्तिमानुपससर्प स सर्पमयोऽसुरः॥ ३८ ॥
पदार्थदीपिकोद्बोधिका
अविरलैरिति ॥ अशान्तिमान् मन्त्रौषधादिभिर् उपशम-नरहितः यः सर्पमयः सर्पस्वरूपोऽसुरः । अविरलैर्निबिडैर् गरलानां विषाणाम् ऊष्मभिर्बाष्पै-राकुलीकृतः भीषितः समस्तजनो येन स लोके विचचार । स सर्पाकारासुर अमुं
द्विजसुतं निजिघांसुर् हन्तुमिच्छुः सन् । क्वचित् पाजकक्षेत्रप्रदेशे उपससर्प प्राप ।
सृप्लॄगतौ लिट् ॥ ३८ ॥
मन्दोपाकारिणी
अविरलैरिति ॥ अशान्तिमान् शान्तिर् उपशमो ऽस्यास्तीति शान्तिमान् न शान्तिमान् अशान्तिमान् । मंत्रौषधादिभिरपि अपरिहार्यविषवीर्यवानिति भावः । यः सर्पमयः सर्पात्मकः । ‘तादात्म्यार्थे विकारार्थे प्राचुर्यार्थे मयट् त्रिधा’ इत्यभिधानम् । असुरः दैत्यो ऽविरलैर् विरलास् तनवः न भवन्तीति अविरला बहव इति यावत् ‘पेलवं विरलं तनु’ इत्यमरस् तैर् अविरलैः । गरलोष्मभिर् गरलं विषं ‘क्ष्वेडस्तु गरलं विषम्’ इत्यमरस् तस्य ऊष्मभिर् बाष्पैः । ‘ग्रीष्मोष्मबाष्पऊष्माणः’ इति रत्नमाला । आकुलीकृतसमस्तजन आकुलीकृतः भीषितः समस्तजनो येन सस् तथोक्तः सन् । विचचार लोके सञ्चचार । ‘चर गतौ भक्षणे च इति धातोर् लिट् परस्मैपदं चचार चेरतुश् चेरुः’ । सः सर्पाकारो दैत्यः क्वचित् प्रदेशे वर्तमानम् अमुं वासुदेवं निजघांसुर् हन्तुमिच्छुः सन् उप समीपे ‘उपेऽधिके समीपे च’ इत्यभिधानम् । ससर्प प्रायात्’ । ‘सृप्लृ (सृप्) गतौ इत्यतो लिट् परस्मैपदं ससर्प ससृपतुः ससृपुः’ ॥ ३८ ॥
विश्वास-प्रस्तुतिः - ३९
त्वरितमुद्यतविस्तृतमस्तकः प्रतिददंश यदैनमविक्षतम् ।
प्रभुपदारुणचारुतराङ्गुलीविहृतिपिष्टतनुः प्रतताम सः॥ ३९ ॥
मूलम् - ३९
त्वरितमुद्यतविस्तृतमस्तकः प्रतिददंश यदैनमविक्षतम् ।
प्रभुपदारुणचारुतराङ्गुलीविहृतिपिष्टतनुः प्रतताम सः॥ ३९ ॥
पदार्थदीपिकोद्बोधिका
त्वरितमिति ॥ स सर्पमयोऽसुरस् त्वरितं शीघ्रं यथा भवति तथा । उद्यतं प्रभुपाददंशनायोन्नमितं विस्तृतमस्तकं विस्तृतफणो यस्य तथा सन् यदा अविक्षतं क्षतरहितमेनं वासुदेवं प्रतिददंश । दशि दंशने लिट् । तदा प्रभोः पदस्य पादस्य अरुणा रक्ता चारुतरा अतिसुन्दरा या अङ्गुली तस्या विहृत्या लीलया पिष्टा चूर्णिता तनुः शरीरं यस्य तथा सन् प्रतताम श्रान्तोऽभूत् । तमु ग्लानौ लिट् ॥ ३९ ॥
मन्दोपाकारिणी
त्वरितमिति ॥ सः सर्पासुरस् त्वरितं शीघ्रम् उद्यतविस्तृतमस्तकः वासुदेवपाददंशनाय उद्यत उन्नमितः विस्तृतः प्रसारितः मस्तकः मूर्धा फण इति यावद् यस्य स तथोक्तः सन् । ‘मूर्धा ना मस्तकोऽस्त्रियाम्’ इत्यमरः । अविक्षतं विक्षतो न भवतीति अविक्षतस् तं क्षतरहितमित्यर्थः । एनं वासुदेवं यदा प्रतिददंश दंशितवान् ‘दंश दशने इत्यतो लिट् परस्मैपदं ददंश ददंशतुर् ददंशुः’ । तदा प्रभुपदारुणचारुतराङ्गुली-विहृतिपिष्टतनुः प्रभोः समर्थस्य वासुदेवस्य पदः पादस् तस्य अरुणाया रक्तायाः ‘अव्यक्तरागस्त्वरुणः’ इत्यमरः । चारुतराया अतिसुन्दराया अङ्गुल्या विहृत्या क्रीडया पिष्टा चूर्णीकृता तनुः कायो यस्य सस् तथोक्तः सन् प्रतताम श्रान्तोऽभूत् । ‘तमु (तम्) ग्लानौ’ लिट् परस्मैपदं तताम तेमतुस् तेमुः ॥ ३९ ॥
विश्वास-प्रस्तुतिः - ४०
गरुडतुण्डमिव प्रतिपन्नवान् द्विजकुमारपदं स ममार च ।
समुचितं चरितं महतामिदं सुमनसो मनसेष्टमपूजयन्॥ ४० ॥
मूलम् - ४०
गरुडतुण्डमिव प्रतिपन्नवान् द्विजकुमारपदं स ममार च ।
समुचितं चरितं महतामिदं सुमनसो मनसेष्टमपूजयन्॥ ४० ॥
पदार्थदीपिकोद्बोधिका
गरुडतुण्डमिति ॥ स सर्पः गरुडतुण्डमिव गरुडवदनमिव द्विजकुमारकस्य पदं पादं प्रतिपन्नवान् प्राप्तः सन् ममार च । तदा सुमनसो देवा महतां समुचितं युक्तम् इष्टं दुष्टनिग्रहरूपत्वात्सतामभीष्टम् इदं चरितं कर्म मनसा अपूजयन् सम्भाव-याञ्चक्रुः । पूज पूजायां लङ् ॥ ४० ॥
मन्दोपाकारिणी
गरुडेति ॥ द्विजकुमारपदं द्विजस्य मध्यगेहस्य कुमारः सुतस् तस्य पदं पादं प्रतिपन्नवान् प्राप्तः सः सर्पासुरः ममार मृतवान् । किं प्राप्त इव गरुडतुण्डमिव गरुडस्य गरुडपक्षिणस् तुण्डं वदनमिव ‘वक्त्रास्ये वदनं तुण्डं’ इत्यमरः । सर्पः गरुडतुण्डं प्राप्य यथा मृतो भवति तथेति भावः । सुमनसः देवाः ‘सुपर्वाणस्सुमनसः’ इत्यमरः । महतां सतां समुचितं युक्तम् इष्टम् अभीष्टं दुष्टनिग्रहरूपत्वात् । इदं चरितं सर्पमयदैत्यहननरूपं कर्म । मनसा अपूजयन् सम्भावयाञ्चक्रुः । पूज पूजायामित्यतो लङ् परस्मैपदम् ॥ ४० ॥
विश्वास-प्रस्तुतिः - ४१
गिरिशगुर्वमरेन्द्रमुखैश्च यच्चरणरेणुरधारि सुराधिपैः ।
क्षितिसुरांघ््य्रभिवन्दनपूर्वकं स विदधेऽध्ययनं छलमानुषः॥ ४१ ॥
मूलम् - ४१
गिरिशगुर्वमरेन्द्रमुखैश्च यच्चरणरेणुरधारि सुराधिपैः ।
क्षितिसुरांघ््य्रभिवन्दनपूर्वकं स विदधेऽध्ययनं छलमानुषः॥ ४१ ॥
पदार्थदीपिकोद्बोधिका
गिरिशेति ॥ यस्य चरणौ पादौ तयोः रेणुः रजः । ‘रेणुर्द्वयोस्त्रियां धूलिः’ इत्यमरः । गिरौ कैलासे शेत इति गिरिशः । गिरौ शेतेर्ड इति डः । स च, गुरुर्बृहस्पतिश्च, सुरेन्द्रश्च, ते मुखानि मुख्या येषां तैः सुराधिपैः सुरेश्वरैर् अधारि । धृ धारणे लुङ् । स छलमानुषो व्याजेन मानुषः क्षितिसुरस्य भूदेवस्य अंघ््य्रोः पादयोरभिवन्दनं नमनं पूर्वकं यथा भवति तथा अध्ययनं वेदाध्ययनं विदधे चक्रे ॥ ४१ ॥
मन्दोपाकारिणी
गिरिशेति ॥ यच्चरणरेणुर् यस्य वासुदेवस्य चरणरेणुर् यस्य चरणयोर् अंघ््य्रोः पदङ्घ्रिश्चरणो स्त्रियाम्’ इत्यमरः रेणुर् धूलिः ‘रेणुर्द्वयोस्त्रियां धूलिः’ इत्यमरः । गिरिशगुर्वमरेन्द्रमुखैर् गिरिशः रुद्रः, गुरुर् बृहस्पतिः, अमरेन्द्रः देवेन्द्रः ‘गिरीशो गिरिशो मृडः’ इत्यमरः । गिरिशश्च गुरुश्च अमरेन्द्रश्च गिरिशगुर्वमरेन्द्रास् त एव मुखानि प्रधाना एषां ते तथोक्ताः । ‘मुखं प्रधाने प्रारम्भे’ इति रत्नमाला । सुराधिपैः सुराणां देवानाम् अधिपैर् नाथैर् अधारि धृतः । ‘धृञ् (धृ) धारणे इत्यतः कर्मणि लुङात्मनेपदम् अधारि अधृषाताम् अधृषत’ । छलमानुषश् छलेन कुमतनिरासव्याजेन मानुषः मनुष्यावतारः ‘छलन्तु स्खलितो व्याजः’ इति विश्वः सः वाय्वात्मकः वासुदेवः । क्षितिसुराङ्घ्र्य-भिवन्दनपूर्वकं क्षितिसुरस्य ब्राह्मणस्य अङ्घ्री चरणौ तयोर् अभिवन्दनं नमस्कारस् तदेव पूर्वकं पुरस्सरं यथा भवति तथा । अध्ययनं वेदपठनं विदधे चक्रे ‘डु धाञ् धारणपोषणयोर् लिडात्मनेपदं दधे दधाते दधिरे’ । रुद्रादिवन्द्योऽपि वासुदेवः मनुष्यावतारत्वाद् लोकशिक्षार्थम् उपाध्यायं नत्वा वेदमधीतवान् इति भावः ॥ ४१ ॥
विश्वास-प्रस्तुतिः - ४२
करतले खलु कन्दुकवत् सदा सकलया कलया सह विद्यया ।
अरिधरेण समं स्फुरितं गुरोर्मनसि तस्य विडम्बयतो जनान् ॥ ४२॥
मूलम् - ४२
करतले खलु कन्दुकवत् सदा सकलया कलया सह विद्यया ।
अरिधरेण समं स्फुरितं गुरोर्मनसि तस्य विडम्बयतो जनान् ॥ ४२॥
पदार्थदीपिकोद्बोधिका
करतल इति ॥ जनान् अज्ञजनान् विडम्बयतोऽनुकुर्वतो गुरोः सकलजगद्गुरोस् तस्य मनसि सकलया समस्तया विद्यया वेदादिरूपया कलया इतरकलाविद्यया च सह करतले हस्ततले कन्दुकवद् अरिधरेण चक्रधरेण सकलविद्या-प्रतिपाद्येन हरिणा समं सह स्फुरितं विलसितं खलु । इतरकलाविद्याभिः सह सकलवेदादिविद्याः । तत्प्रतिपाद्यं भगवन्तं च सदा करतलामलकवज्जानात्येव । तथापि अज्ञजनव्यामोहनाय अध्ययनं विदध इति भावः ॥ ४२ ॥
मन्दोपाकारिणी
करतल इति ॥ जनान् प्राकृतजनान् । विडम्बयतो ऽनुकुर्वतो ऽज्ञजनवद् अध्ययनादि कुर्वत इति यावत् । गुरोर् जगद्गुरोस् तस्य वासुदेवस्य मनसि हृदये सकलया समस्तया विद्यया वेदविद्यया कलया इतरकलाविद्यया सह साकं करतले पाणितले कन्दुकवद् वस्त्रात्मकं पिण्डारकं क्रीडासाधनवस्तु कन्दुकशब्देनोच्यते तद्वत् । सदा सर्वस्मिन्नपि काले स्फुरितं खलु प्रतिभातं हि । कथम् अरिधरेण ओश् चक्रस्य धरेण धारिणा । ‘अरिः पुमान्श्चक्रवाके रिपौ चक्रे तु न द्वयोः’ इति हलायुधः । सकलविद्या-प्रतिपाद्यश्रीनारायणेन समं सह ‘साकं सार्धं समं सह’ इत्यमरः । सकलवेदादिविद्या-प्रतिपाद्यश्रीनारायणं च सदा करतलगतकन्दुकवत् स्वत एव उपाध्यायं विना जानत्येव तथापि अज्ञजनमोहनायैव अध्ययनं विदधे इति भावः ॥ ४२ ॥
विश्वास-प्रस्तुतिः - ४३
अनधिकैरधिकैश्च वयस्यथो बहुभिरध्ययनोपरमान्तरे ।
अनिकटे वटुभिः पटुभिर्गुरोः स विजहार सुखी सखिभिः समम् ॥ ४३॥
मूलम् - ४३
अनधिकैरधिकैश्च वयस्यथो बहुभिरध्ययनोपरमान्तरे ।
अनिकटे वटुभिः पटुभिर्गुरोः स विजहार सुखी सखिभिः समम् ॥ ४३॥
पदार्थदीपिकोद्बोधिका
अनधिकैरिति ॥ अथो सुखमस्यास्तीति सुखी । स अध्ययनस्योपरमस्य समाप्तेरन्तरे मध्ये अध्ययनस्य समाप्तेर्मध्य इत्यर्थः । वयसि अधिका न भवन्तीत्यनधिकास्तैः समानैरित्यर्थः । वयसि र्न्यूनैश्च, वयसि अधिकैश्च । बहुभिः पटुभिश्चतुरैः सखिभिर्वटुभिर्ब्रह्मचारिभिः समं सह गुरोरुपाध्यायस्य अनिकटे असमीपे दूर इत्यर्थः । विजहार ॥ ४३ ॥
मन्दोपकारीणि – अनधिकैरिति ॥ अथो वेदाध्ययनकरणकाले सुखी सुखेन वर्धितः सः वासुदेवो ऽध्ययनोपरमान्तरे अध्ययनस्य उपरमः विरामः परित्यागकाल इति यावत् । तस्य अन्तरे मध्ये । वयसि स्ववत्सरविषये अनधिकैर् न अधिका अनधिकास् तैर् अधिकैश्च वयोविषये स्वस्माद् अधिकवर्षोपेतैश्च बहुभिर् बहुसङ्ख्याकैः पटुभिः क्रीडायां दक्षैर् वटुभिर् बह्मचारिभिः सहाध्ययनं कुर्वद्भिर् जनैः समं सह गुरोर् उपाध्यायस्य अनिकटे असमीपे दूर इत्यर्थः । ‘समीपे निकटासन्नः’ इत्यमरः । विजहार क्रीडितवान् । ‘विपूर्वकात् हृञ् हरणे इत्यतो लिट् परस्मैपदम्’ ॥ ४३ ॥
विश्वास-प्रस्तुतिः - ४४
पदमुदीर्य जवेन यियासितं द्रुतसखेष्वभवत् स पुरःसरः ।
अयमयत्नतयेति न विस्मयो ननु मनोजवजित् पवनो ह्मसौ ॥४४॥
मूलम् - ४४
पदमुदीर्य जवेन यियासितं द्रुतसखेष्वभवत् स पुरःसरः ।
अयमयत्नतयेति न विस्मयो ननु मनोजवजित् पवनो ह्मसौ ॥४४॥
पदार्थदीपिकोद्बोधिका
पदमिति ॥ सोऽयं जवेन वेगेन यातुमिष्टं यियासितं स्थानमुदीर्य, अवधित्वेन सम्प्रतिपन्नं स्थानं प्रति अभिद्रवणं कृत्वा यः प्रथमतः प्राप्नोति सोऽस्मास्वधिक इत्येवं सङ्केतं कृत्वेति भावः । द्रुता धावन्त ये सखायस्तेषु धावतां सखीनां मध्य इत्यर्थः । द्रु धातोरादिकर्मणि कर्तरि चेति कर्तरि क्तः । न विद्यते यत्नो यस्य तस्य भावस्तत्ता तया । आयासरहिततयेत्यर्थः । पुरः पुरतः सरतीति पुरःसरः । द्रुवद्य्भः सखिभ्योऽतिशीघ्रमाद्रुत्य पुरोगन्ताऽभवदिति विस्मय आश्चर्यं न । कुत इत्यत आह नन्विति । असकौ असौ । ‘अव्ययसर्वनाम्नामकच् प्राक् टे’रित्यकच् प्रत्ययः । मनसो जवं वेगं जयतीति स चासौ पवनश्च वायुश्च ननु । मनोजवापेक्षयाप्यतिवेगवत्पवनावतारत्वादस्य नैतच्चित्रमिति भावः ॥ ४४ ॥
मन्दोपाकारिणी
पदमिति ॥ जवेन वेगेन यियासितं यातुम् इष्टं पदं स्थानम् । ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु’ इत्यमरः । उदीर्य सङ्केतं कृत्वा एकं स्थलं मर्यादीकृत्य तत्स्थलं प्रति युगपदेव अस्मासु वेगेन धावत्सु सत्सु प्रथमतस् तत्स्थलं यः प्राप्नोति सो ऽस्मासु अधिक इति सङ्केतं कृत्वेति भावः । द्रुतसखेषु द्रुता धावन्तश्च ते सखायश्च द्रुतसखाः ‘राजाहः सखिभ्यष्टच्’ तेषु द्रुतसखेषु मध्ये द्रुतेति कर्तरि क्तः । सोऽयं वासुदेवो ऽयत्नतया न विद्यते यत्न आयासः यस्य सो ऽयत्नो ऽयत्नस्य भावो ऽयत्नता तया अनायासेन इत्यर्थः । पुरस्सरः पुरोगन्ता ‘पुरोगाग्रेसरप्रष्ठाग्रतस्सरपुरस्सरा’ इत्यमरः । अभवद् इत्येतन् न विस्मय आश्चर्यं न । हि यस्माद् असौ वासुदेवः मनोजवजिन् मनसः जवं जयतीति मनोजवजित् । पवनः वायुर् ननु निश्चय इत्यर्थः । ‘नभस्वद्वातपवनपवमानप्रभञ्जनाः’ इत्यमरः ॥ ४४ ॥
विश्वास-प्रस्तुतिः - ४५
प्लवनतेजसि हन्त न केवलं विजितवान् स तदा सकलान् जनान् ।
प्रभुनिदेशकरो हनुमत्तनौ ननु जिगाय स वालिसुतादिकान्॥४५॥
मूलम् - ४५
प्लवनतेजसि हन्त न केवलं विजितवान् स तदा सकलान् जनान् ।
प्रभुनिदेशकरो हनुमत्तनौ ननु जिगाय स वालिसुतादिकान्॥४५॥
पदार्थदीपिकोद्बोधिका
प्लवनेति ॥ स प्लवनतेजसि लङ्घनसामर्थ्ये । ‘तेजो बले प्रभावे च’ इति वैजयन्ती । सकलान् जनान् न केवलं तदा द्विजकुमारत्वेन जितवान् । किन्तु हनुमत्तनौ हनुमच्छरीरे हनुमदवतार इत्यर्थः । प्रभोः श्रीरामस्य निदेश आज्ञा तम् । ‘निदेशः शासनं च स’ इत्यमरः । करोतीति तादृशः । वालिनः सुतोऽङ्गद आदिर्येषां तान् कपीन्द्रान् समुद्रतरणादौ जिगाय ननु ॥ ४५ ॥
मन्दोपाकारिणी
प्लवनेति ॥ सः वासुदेवः प्लवनतेजसि स्थलविशेषे स्थित्वा अवधित्वेन सम्प्रतिपन्नस्थले यल्लङ्घनं तत्प्लवनं तस्मिन् तेजसि सामर्थ्ये तद्विषये इति यावत् । ‘तेजः प्रभावे दीप्तौ च’ इत्यमरः । सकलान् जनान् सखिजनान् केवलम् अत्यन्तं तदा द्विजजन्मनि हन्त हर्षेण सुखेन न विजितवान् । किन्तु हनुमत्तनौ हनुमदवतारे । प्रभुनिदेशकरः प्रभोर् नाथस्य श्रीरामचन्द्रस्य निदेश आज्ञा ‘निदेशः शासनं चाज्ञा’ इत्यमरस् तां करोतीति करः । सः वायुर् वालिसुतादिकान् वालिनः सुतो ऽङ्गदः स एव आदिर् येषां ते वालिसुतादयस् तान् वालिसुतादिकान् । समुद्रतरणादौ जिगाय ननु पराजितवान् ननु । ‘जि जये इत्यस्माल्लिट् परस्मैपदम् । जिगाय जिग्यतुर् जिग्युः’ ॥ ४५ ॥
विश्वास-प्रस्तुतिः - ४६
जलविहारपराजयिभिः स्पृधा सखिभिरीरितवारिपरिश्रितम् ।
वदनमाकुललोचनमादधे स्मितममुष्य हि कञ्चन विभ्रमम्॥ ४६ ॥
मूलम् - ४६
जलविहारपराजयिभिः स्पृधा सखिभिरीरितवारिपरिश्रितम् ।
वदनमाकुललोचनमादधे स्मितममुष्य हि कञ्चन विभ्रमम्॥ ४६ ॥
पदार्थदीपिकोद्बोधिका
जलविहारेति ॥ जलविहारे जलक्रीडायां पराजयः पराभव एषामस्तीति तैः सखिभिर् वयस्यैः । स्पृधा स्पर्धया ईरितानि अञ्जलिभिः क्षिप्तानि यानि वारीणि तैः । परिश्रितं परितः श्रितम् अत एव आकुले कलुषीकृते लोचने यस्य तत् । स्मितं विकसितम् अमुष्य वदनं मुखं कञ्चन यत्किञ्चिद् विभ्रमं शोभाविशेषम् । ‘विभ्रमः संशये भ्रान्तौ शोभायां चे’ति वैजयन्ती । आदधे दध्रे ॥ ४६ ॥
मन्दोपाकारिणी
जलेति ॥ जलविहारपराजयिभिर् जलविहारे जलक्रीडायां पराजय एषाम् अस्तीति पराजयिनस् तैर् जलक्रीडायां पराजितैर् इत्यर्थः । सखिभिर् वयस्यैः स्पृधा स्पर्धया ईरितवारिपरिश्रितम् ईरितैर् अञ्जलिभिः प्रक्षिप्तैर् वारिभिः परितः समन्तात् श्रितं युक्तम् अत एव आकुललोचनम् आकुले उद्विग्ने इव स्थिते लोचने नयने यस्य तत् । स्मितं मन्दहासोपेतम् अमुष्य वासुदेवस्य वदनं मुखं कञ्चन विभ्रमं शोभाविशेषम् आदधे दध्रे । ‘विभ्रमः संशये भ्रान्तौ शोभायां च’ इति वैजयन्ती ॥ ४६ ॥
विश्वास-प्रस्तुतिः - ४७
स शनकैर्बलिनोऽयुगपद्गतान् प्रविहृतेषु सखीन्निरपातयत् ।
अशनकैर्युगपत्प्रकृताहवान् सहसितो द्विजसूनुरयत्नवान्॥ ४७ ॥
मूलम् - ४७
स शनकैर्बलिनोऽयुगपद्गतान् प्रविहृतेषु सखीन्निरपातयत् ।
अशनकैर्युगपत्प्रकृताहवान् सहसितो द्विजसूनुरयत्नवान्॥ ४७ ॥
पदार्थदीपिकोद्बोधिका
स इति ॥ हसितेन मन्दहासेन सहितः सहसितः । स द्विजसूनुः प्रविहृतेषु प्रविहारेषु । ‘नपुंसके भावे क्त’ इति क्तः । क्रीडास्वित्यर्थः । युगपन् न भवति इति अयुगपत् पृथगित्यर्थः । गतान् आत्मानं पातयितुम् आगतान् । प्रकृतः प्रकर्षेण कृत आहवः क्रीडायुद्धं यैस्तान् । उपक्रान्तक्रीडान् बलिनः सखीन् शनकैः शनैरेव निरपातयत् पातयामास । अथ युगपदागतान् प्रकृताहवान् सखीन् शनकैर्न भवतीत्य-शनकैराशु यत्नाभावोऽयत्नः सोऽस्यास्तीत्ययत्नवान् । यत्नवान् न भवति इति अयत्नवानिति वा । आयासरहितः सन्नित्यर्थः । निरपातयत् । अत एव सहसित इत्युक्तम् ॥ ४७ ॥
मन्दोपाकारिणी
स इति ॥ द्विजसूनुर् द्विजस्य मध्यगेहस्य सूनुस् तनयः । ‘आत्मजस्तनयः सूनुर् इत्यमरः’ । सः वासुदेवः । प्रविहृतेषु क्रीडासु क्रीडार्थमिति यावत् तादर्थ्ये सप्तमीयम् । अयुगपद् युगपन् न भवतीति अयुगपत् पृथक् पृथक् इत्यर्थः । गतान् प्राप्तान् आत्मानं पातयितुम् आयातान् । अशनकैः शीघ्रं युगपद् एकदा प्रकृताहवान् प्रकृत उपक्रान्त आरब्ध आहवः क्रीडायुद्धं यैस् ते प्रकृताहवास् तान् । ‘सङ्ग्रामा-भ्यागमाहवाः’ इत्यमरः । बलिनः बलम् एषाम् अस्तीति बलिनः बलवन्तः । सखीन् वयस्यान् शनकैर् मन्दमेव निरपातयत् । कथंभूतः , अयत्नवान् यत्न आयासो अस्या-स्तीति यत्नवान् स न भवतीति अयत्नवान् श्रमरहित इत्यर्थः । अत एव सहसितः हसितेन मन्दहासेन सहितः । ‘पत्लृ पतन इत्यतः लङ् परस्मैपदम्’ ॥ ४७ ॥
विश्वास-प्रस्तुतिः - ४८
ग्रहणनिग्रहणे ग्रहणे दृढे गुरुभरोद्धरणादिविधौ पटौ ।
इह विभावुपचारधिया नृणामृतमयं ननु भीम इतीरितम्॥ ४८ ॥
मूलम् - ४८
ग्रहणनिग्रहणे ग्रहणे दृढे गुरुभरोद्धरणादिविधौ पटौ ।
इह विभावुपचारधिया नृणामृतमयं ननु भीम इतीरितम्॥ ४८ ॥
पदार्थदीपिकोद्बोधिका
ग्रहणेति ॥ ग्रहणस्य अन्येन कृतस्वहस्तादिग्रहणस्य निग्रहणे विमोचने । दृढे मोचयितुमशक्ये ग्रहणे स्वकर्तृकान्यहस्तादिग्रहणे च । गुरुर्महान् भरो भारस्तस्य । उद्धरणमुद्धृतिः । तदादिर्यस्य तस्य विधौ व्यापारे पटौ चतुरे । इह विभौ उपचारा च सा धीश्च तया सिंहो देवदत्त इत्युपचारबुद्ध्यापि । अयं भीम इति नृणाम् ईरितं वचनम् ऋतं सत्यं ननु । अयं भावः, आत्मानं कश्चिद्धस्तादौ गृह्णाति चेद् आशु मोचयति, स्वयमन्यहस्तं गृह्णाति चेन्न कश्चिन्मोचयति, अतिगुरुपाषाणादिकमप्ययत्नेनोद्धरति । एवंविधमेनं जनो ऽयं साक्षाद्भीम इत्युपचारबुद्ध्यापि यदुवाच तत्सत्यमेव वस्तुगत्याऽस्यैव भीमत्वादिति ॥ ४८ ॥
मन्दोपाकारिणी
ग्रहणेति ॥ ग्रहणनिग्रहणे ग्रहणस्य अन्येन कृतस्व-हस्तादिग्रहणस्य निग्रहणे विमोचनविषये । दृढे मोचयितुमशक्ये ग्रहणे अन्यहस्तग्रहणे च । गुरुभरोद्धरणादिविधौ गुरुर्महान् भरो भारः ‘भरोऽतिशयभारयोः’ इत्यमरः । तस्य उद्धरणं भूमिस्थितगुरुपदार्थस्य ऊर्ध्वशिरःपर्यन्तं धारणमिति यावत् तदेव आदिर् यस्य स तथोक्तः स चासौ विधिश्च व्यापारश्च गुरुभरणोद्धरणादिविधिस् तस्मिन् । ‘विधिर्विधाने दैवे च’ इत्यमरः । पटौ दक्षे इह अस्मिन् विभौ वासुदेवविषये उपचारधिया सिंहो देवदत्त इत्यत्र देवदत्ते सिंहगतक्रौर्यादिगुणवत्तया यं सिंह इति यथा अमुख्यधिया व्यवहारस् तया उपचारधियापि अमुख्यबुद्ध्यापि भीमतुल्यकार्यकर्तारं दृष्ट्वा अयं वासुदेवः भीम इति नृणां जनानाम् ईरितम् उक्तं वचनम् ऋतं ननु सत्यमेव हि । ‘सत्यं तथ्यमृतं सम्यक्’ इत्यमरः । अयं भावः, वासुदेवः यः कश्चित् स्वस्य हस्तादिकं गृह्णाति चेद् आशु मोचयति । स्वयं गृह्णाति चेन् न कश्चिन्मोचयति । गुरुपाषाणादिकम् अयत्नेन उद्धरति एवं भीमसदृशकर्माणं दृष्ट्वा जनः सोऽयं साक्षाद् भीम इति उपचारबुद्ध्यापि अब्रवीत् तत्सत्यमेव । वस्तुगत्या अस्यैव भीमत्वादिति ॥ ४८ ॥
विश्वास-प्रस्तुतिः - ४९
विहरतीति पठत्यपि न स्फुटं स्वगृहगामिनि चाद्रुतमायति ।
परितुतोष न तत्र जगद्गुरौ स किल पूगवनान्वयजो द्विजः॥ ४९ ॥
मूलम् - ४९
विहरतीति पठत्यपि न स्फुटं स्वगृहगामिनि चाद्रुतमायति ।
परितुतोष न तत्र जगद्गुरौ स किल पूगवनान्वयजो द्विजः॥ ४९ ॥
भावप्रकाशिका
पूगवनस्य ‘तोटन्तिल्लाय’ इत्यपभ्रष्टभाषा ॥ ४९ ॥
पदार्थदीपिकोद्बोधिका
विहरतीति ॥ इति उक्तप्रकारेण विहरति क्रीडां कुर्वति स्फुटं सम्यग् पठतीति पठन् तस्मिन् पठति न, वदेपाठं सम्यगकुर्वाणेऽपि स्वस्य गृहं स्वगृहं तद्गन्तुं शीलमस्यस्तीति तस्मिन् । भोजनादिकमुद्दिश्य स्वमन्दिरगमनशीलस्येत्यर्थः । द्रुतं न भवतीत्यद्रुतं शनैर् ऐतीत्यायन् तस्मिन् आयति आगच्छति । तत्र तस्मिन् जगद्गुरौ वासुदेवाह्वये पूगवनाख्योऽन्वयो वंशस्तस्मिन् जातः । ‘तोटन्तिल्लाय’ इत्यपभ्रष्टभाषा-प्रसिद्धवंशज इत्यर्थः । स द्विज उपाध्यायो न परितुतोष किल । किल ऐतिह्ये ॥ ४९ ॥
मन्दोपाकारिणी
विहरतीति ॥ पूगवनान्वयजः पूगवनाख्ये अन्वये कुले जायत इति पूगवनान्वयजः । ‘कुलान्यभिजनान्वयौ’ इत्यमरः । सः द्विज उपाध्यायः । इति पूर्वोक्तप्रकारेण । विहरति क्रीडमाने स्फुटं सम्यक् न पठति वेदाध्ययनम् अकुर्वति भोजनादिकमुद्दिश्य । स्वगृहगामिनि स्वमन्दिरं प्रति गामिनि गमनशीले च । अद्रुतं शनैर् आयति आगच्छति । जगद्गुरौ तत्र तस्मिन् वासुदेवे तद्विषय इति यावत् । न परितुतोष सन्तुष्टो नाभूत् किल । ‘तुष तुष्टौ इत्यतो लिट् परस्मैपदं तुतोष तुतुषतुस् तुतुषुः’ । किलशब्द उपाध्यायस्य अपरितोषस् तन्माहात्म्याज्ञानमूलक इति अर्थं वदति ॥ ४९ ॥
विश्वास-प्रस्तुतिः - ५०
अथ कदाचन सोऽध्ययनान्तरे तमवदत् कुपितोऽन्यमनस्विनम् ।
पठसि नो शठ ते सखिभिः समं किमिति नित्यमुदासितधीरिति ॥ ५० ॥
मूलम् - ५०
अथ कदाचन सोऽध्ययनान्तरे तमवदत् कुपितोऽन्यमनस्विनम् ।
पठसि नो शठ ते सखिभिः समं किमिति नित्यमुदासितधीरिति ॥ ५० ॥
पदार्थदीपिकोद्बोधिका
अथेति ॥ कदाचन कुपितः क्रुद्वः स द्विजो ऽध्यय-नान्तरेऽध्ययनमध्ये अन्यस्मिन् मनोऽस्यास्तीत्यन्यमनस्वी तम् । अध्ययनादन्यविषयमानस-मित्यर्थः । तं वासुदेवं हे शठ व्याजिन् यद्वा शठ गुणैः श्लाघ्य ‘शठ श्लाघायामि’ति धातोः । ते सखिभिः समं सह किमिति किमर्थम् एवं न पठसि? नित्यं सदा । ‘नित्यानवरताजस्रमि’त्यमरः । उदासिता उदासीना धीर्बुद्धिर्यस्य तादृशः । किमिति वर्तसे इति शेष इत्यवदत् ॥ ५० ॥
मन्दोपाकारिणी
अथेति ॥ अथ वासुदेवे वेदपठने उदासीने सति कदाचन कस्मिंश्चिद् दिवसे स उपाध्यायः कुपितः सन् । अध्ययनान्तरे अध्ययनस्य वेदपठनस्य अन्तरे मध्ये वेदपठनकाल इत्यर्थः । अन्यमनस्विनम् अन्यस्मिन् विषये मनो ऽस्यास्तीति अन्यमनस्वी तम् अन्यमनस्विनं वासुदेवम् इति अवदत् । ‘वद व्यक्तायां वाचि इत्यतो लङ् परस्मैपदम्’ इति । कथं, हे शठ व्याजयुक्त ‘निकृतस्त्वनृजः शठः’ इत्यमरः । ते तव सखिभिर् वयस्यैः समं सह किमिति किमर्थमेवं नो पठसि नाधीषे । नित्यं प्रतिदिनम् उदासितधीः पठनविषये उदासिता उदासीना धीर् बुद्धिर् यस्य स तथोक्तः किमिति वर्तसे इति शेषः ॥ ५० ॥
विश्वास-प्रस्तुतिः - ५१
गुणनिका चरणादिकगोचरा न मम हृद्दयितेत्युदितेऽमुना ।
वद विशारदवाद यथेप्सितं त्वमुपरीत्यवदद्धरणीसुरः॥ ५१ ॥
मूलम् - ५१
गुणनिका चरणादिकगोचरा न मम हृद्दयितेत्युदितेऽमुना ।
वद विशारदवाद यथेप्सितं त्वमुपरीत्यवदद्धरणीसुरः॥ ५१ ॥
पदार्थदीपिकोद्बोधिका
गुणनिकेति ॥ चरणः पाद आदिर्यस्य स चरणादिकः । स गोचरो विषयो यस्या सा, पादार्धर्चादिविषयेत्यर्थः । गुणनिका गुणनं पुनःपुनरुच्चारणमिति यावत् । मम हृद्दयिता हृदः मनसो दयिता प्रिया, न भवति इति वचसि अमुना वासुदेवेनोदिते सति स धरणीसुरः ब्राह्मणो विशारदो विद्वान् तद्वद्वदतीति विशारदवादस्तत्सम्बुद्धिः । ‘विशारदो विचक्षणश्च मेधावी’ति हलः । त्वम् उपरि इदानीं पठ्यमानाद्वर्गादुपरि ईप्सितम् अनतिक्रम्य यथोप्सितं यथेष्टं वद ब्रूहि इत्यवदत् । पादादिगुणनं तव प्रियं न चेदित उपरि वर्गश संहितां, पदं, क्रमं वा अन्यद्वा यथेप्सितं वदेत्यु-पाध्यायोऽवददिति भावः ॥ ५१ ॥
मन्दोपाकारिणी
गुणनिकेति ॥ हे उपाध्याय । चरणादिकगोचरा चरणः पाद ऋचश्चतुर्थांश इति यावत् स एव आदिर् यस्य अर्धर्चादिरूपस्य वेदवाक्यस्य सश् चरणादिकः स एव गोचरः विषयो यस्याः सा तथोक्ता । गुणनिका गुणनं पुनः पुनरुच्चारणमिति यावत् । मम हृद्दयिता हृदः हृदयस्य दयिता प्रिया । न भवति इति एवम् अमुना वासुदेवेन उदिते सति । धरणीसुरः भूसुर उपाध्याय इत्यवदत् । कथं विशारदवाद प्रज्ञावानिव वादो यस्य सः विशारदवादस् तस्य संबुद्धिर् हे विशारदवाद । त्वम् उपरि इदानीं पठ्यमानाद् वर्गाद् उपरि विद्यमानं वर्गं यथेप्सितं स्वेच्छानुसारेण वद पठ । इति पादार्धर्चादिरूपेण वेदगुणनं तव प्रियं न चेत् तर्हि अतिप्रज्ञावान् त्वं पठ्यमानवर्गाद् उपरितनवर्गस्थसंहितां पदं क्रमं वा स्वेच्छानुसारेण वद इत्युपाध्यायोऽवददिति भावः । ‘वद धातोर्लोट् परस्मैपदं वद वदताद् वदतं वदत’ ॥ ५१ ॥
विश्वास-प्रस्तुतिः - ५२
सकललक्षणशिक्षणमूलभूः श्रुतिसमामननं स्खलनोज्खितम् ।
न खलु केवलमस्य गुरोर्व्यधात् सुमनसामपि तत्र कुतूहलम्॥५२॥
मूलम् - ५२
सकललक्षणशिक्षणमूलभूः श्रुतिसमामननं स्खलनोज्खितम् ।
न खलु केवलमस्य गुरोर्व्यधात् सुमनसामपि तत्र कुतूहलम्॥५२॥
पदार्थदीपिकोद्बोधिका
सकलेति ॥ सकलानि यानि लक्षणानि वेदोच्चारण-लक्षणानि तेषां यच्छिक्षणं तस्य मूलभूता भूमिर् उत्पत्तिकारणस्थानभूतं स्खलनोज्खितं स्खलनरहितम् अस्य वासुदेवस्य श्रुतीनां समामननं वर्गश उच्चारणं केवलं गुरोरुपाध्यायस्य कुतूहलं कुतुकं न व्यधान् न चकार । किन्नाम तत्र तस्मिन् समाजे सुमनसामपि देवानामपि कुतूहलं व्यधाच्चकार ॥ ५२ ॥
मन्दोपाकारिणी
सकलेति ॥ सकललक्षणशिक्षणमूलभूः सकलानि च तानि लक्षणानि वेदोच्चारणलक्षणानि च सकललक्षणानि तेषां शिक्षणस्य ज्ञानस्य मूलभूर् उपत्तिस्थानभूतं वेदोच्चारणे यानि लक्षणानि तानि सर्वाणि एतद्वेदोच्चारणेनैव शिक्षितानि इति भावः । स्खलनोज्खितं स्खलनेन स्वरवर्णादिव्यत्यासेन उज्खितं रहितम् । अस्य वासुदेवस्य श्रुतिसमामननं श्रुतेर् वेदस्य समामननं सम्यक् वर्गश आमननम् उच्चारणम् । ‘श्रुति स्त्री वेद आम्नायः’ इत्यमरः । न केवलं गुरोर् उपाध्यायस्य, किन्तु सुमनसां देवानामपि तत्र वासुदेवे कुतूहलं व्यधात् खलु । ‘डु धाञ् धारण पोषणयोर् इत्यतो लुङ् परस्मैपदम् । अधाद् अधाताम् अधुः’ ॥ ५२ ॥
विश्वास-प्रस्तुतिः - ५३
प्रियवयस्यशिरोगुरुवेदनामशमयत् सहजामपि दुःसहाम् ।
स विपिने विजने मुखवायुना श्रवणगोचरितेन कदाचन॥ ५३ ॥
मूलम् - ५३
प्रियवयस्यशिरोगुरुवेदनामशमयत् सहजामपि दुःसहाम् ।
स विपिने विजने मुखवायुना श्रवणगोचरितेन कदाचन॥ ५३ ॥
भावप्रकाशिका
प्रियवयस्य उपाध्यायपुत्रः । तस्यानन्तातीतानि जन्मानि प्रकाशितवान् श्रीमध्वः ॥ ५३ ॥
पदार्थदीपिकोद्बोधिका
प्रियेति ॥ स वासुदेवः कदाचन विगता जना यस्मिन् तस्मिन् । विपिने अरण्ये प्रियवयस्येन सह वर्तमानः सन्निति शेषः । सोढुमशक्यां दुःसहाम् । सह जाता सहजा तामपि जन्मप्रभृतिवर्तमानामपीत्यर्थः । तदानीमाविर्भूतां प्रियवयस्यस्य प्रियसखस्य शिरसो गुर्वीं महतीं वेदनाम् । श्रवणे श्रोत्ररन्ध्रे गोचरितेन विषयीकृतेन विहितेनेति यावत् । मुखवायुना स्ववदनपवनेन अशमयत् शान्तामकरोत् । शम उपशमे लङ् । वयस्यो गुरुपुत्र इति प्रथा ॥ ५३ ॥
मन्दोपाकारिणी
प्रियेति ॥ सः वासुदेवः कदाचन विजने जनरहिते एकान्ते विपिने वने । ‘अटव्यरण्यं विपिनं’ इत्यमरः । प्रियवयस्येन सह वर्तमानस्सन्निति शेषः । दुःसहां सोढुमशक्यां सहजामपि जन्मारभ्य अनुवर्तमानामपि तदानीम् आविर्भूतां प्रिय-वयस्यशिरोगुरुवेदानां, प्रियः स्वस्य प्रीतिविषयश्चासौ वयस्यः समानवयस्यश्च प्रियवयस्यस् तस्य शिरसि विद्यमानां गुर्वीं महतीं बहुलामिति यावत् । वेदनां शूलां ‘स्निग्धो वयस्यः सवया’ इत्यमरः । श्रवणगोचरितेन श्रवणे श्रोत्ररन्ध्रे गोचरितेन विहितेन । ‘कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः’ इत्यमरः । मुखवायुना मुखस्य वायुना फूत्काररूप-
वायुना अशमयन् नाशयामास । ‘शम उपशम इत्यतो लङ् परस्मेपदम्’ । वयस्यो गुरुपुत्र इति प्रवादः ॥ ५३ ॥
विश्वास-प्रस्तुतिः - ५४
अधिगतोपनिषच्च सकृच्छता प्रकटभागवतीति न विस्मयः ।
अधिगता ननु जात्वपि न श्रुताः प्रतिभया श्रुतयः शतशोऽमुना ॥ ५४॥
मूलम् - ५४
अधिगतोपनिषच्च सकृच्छता प्रकटभागवतीति न विस्मयः ।
अधिगता ननु जात्वपि न श्रुताः प्रतिभया श्रुतयः शतशोऽमुना ॥ ५४॥
भावप्रकाशिका
प्रकटभागवती श्रीमन्नारायणोपनिषत् ॥ ५४ ॥
॥ इति श्रीनारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमत्सुमध्वविजयस्य भावप्रकाशिकाख्यटीकायां तृतीयः सर्गः ॥
पदार्थदीपिकोद्बोधिका
अधिगतेति ॥ अमुना वासुदेवेन सकृद् एकदा श्रुता भगवतः सम्बन्धिनी भागवती प्रकटं स्पष्टं यथा भवति तथा भागवती प्रकटभागवती प्रकटं भगवत्स्वरूपप्रतिपादिकेति भावः । उपनिषच्च श्रीमन्महैतरेयोपनिषदपि अधिगता ज्ञातेति विस्मयो न । उपाध्यायेन मूलादारभ्यापरिसमाप्तेः सकृन्निगदितोपनिषदनेन ज्ञातेत्याश्चर्यं न भवतीति भावः । कुत इत्यत आह अधिगतेति । जात्वपि कदाचिदपि श्रुता न भवन्तीति नश्रुताः । शतानीति शतशः शतसङ्ख्याका इत्यर्थः । श्रुतयो वेदाः । प्रतिभया स्वरूपप्रज्ञया अधिगता ननु ज्ञाता हि । अश्रुतप्रतिबोद्धुरस्य न श्रुताधिगमो विस्मय इति भावः ॥ ५४ ॥
मन्दोपाकारिणी
अधिगतेति ॥ अमुना वासुदेवेन । सकृद् एकवारं ‘सकृत् सहैकवारे च’ इत्यमरः । श्रुता उपाध्यायमुखात् श्रुता । प्रकटभागवती प्रकटं स्फुटं भगवत इयं भागवती भगवत्स्वरूपप्रतिपादिकेति भावः । इयं श्रीमन्नारायणोपनिषदिति भावप्रकाशिकायां नारायणपण्डिताचार्यैर् व्याख्यातम् । उपनिषच्च श्रीमदैतरेयोपनिषदपि । अधिगता प्राप्ता इति न विस्मय आश्चर्यं न । उपाध्यायेन मूलादारभ्य परिसमाप्तिपर्यन्तम् एकवारं निगदिता उपनिषद् अनेन प्राप्ता इति आश्चर्यं न भवतीति भावः । कुतः जात्वपि कदाचिदपि । न श्रुता अश्रुताः । शतशः बह्व्यः श्रुतयः वेदा अमुना प्रतिभया स्वरूपप्रज्ञया अधिगता ननु प्राप्ता हि । अश्रुतप्रतिबोद्धुर् अस्य न श्रुताधिगमो विस्मय इति भावः ॥ ५४ ॥
विश्वास-प्रस्तुतिः - ५५
साक्षादथोपनिषदो विभुरैतरेय्याः पाठच्छलेन विजनेऽर्थरसान् ब्रुवाणः ।
अध्यापकाय विततार विमोक्षबीजं गोविन्दभक्तिमुचितां गुरुदक्षिणां सः॥५५॥
मूलम् - ५५
साक्षादथोपनिषदो विभुरैतरेय्याः पाठच्छलेन विजनेऽर्थरसान् ब्रुवाणः ।
अध्यापकाय विततार विमोक्षबीजं गोविन्दभक्तिमुचितां गुरुदक्षिणां सः॥५५॥
पदार्थदीपिकोद्बोधिका
साक्षादिति ॥ अथ स विभुर् विगता जना यस्मात्तस्मिन् एकान्तप्रदेश इत्यर्थः । इतराया इतरादेव्या अपत्यं पुमानैतरेयो महिदासाभिधो हरिः, तेन दृष्टा ऐतरेयी तस्या उपनिषदः । पाठच्छलेन पाठव्याजेन अध्यापकाय । साक्षात् स्पष्टम् । ‘साक्षात्प्रत्यक्षतुल्ययोः’ इत्यमरः । अर्थरसान् अर्थश्रेष्ठान् । ‘रसः सारो वरश्चेति शब्दा एकार्थवाचका’ इत्युक्तेः । ब्रुवाणः सन् उचितामुपाध्यायस्य योग्यां विमोक्षबीजं मोक्षकारणम् । ‘हेतुर्ना कारणं बीजं’ इत्यमरः । गोविन्दभक्तिं गुरुदक्षिणाम् उपाध्यायदक्षिणां विततार ददौ । श्रीमन्महैतरेयोपनिषदर्थकथनेन तस्य योग्यतानुसारेण श्रीविष्णु-
भक्तिम् उपाध्यायस्य उत्पादितवान् । स एव तस्य गुरुदक्षिणेवाभूदिति भावः । वसन्ततिलकावृत्तम् ॥ ५५ ॥
मन्दोपाकारिणी
साक्षादिति ॥ अथ ऐतरेयोपनिषत्पठनकाले । सः विभुः समर्थः । विजने रहसि । ‘विविक्तविजनच्छन्ननिःशलाकास्तथा रहः’ इत्यमरः । ऐतरेय्या इतराया इतरानामिकायाः कस्याश्चित्स्त्रियो ऽपत्यं पुमान् ऐतरेयः महिदासाभिधः । ऐतरेयेण दृष्टा ऐतरेयी तस्या उपनिषदः । पाठच्छलेन उपाध्यायात् पाठस्य अध्ययनस्य छलेन व्याजेन अध्यापकाय उपाध्यायाय । ‘उपाध्यायोऽध्यापकः’ इत्यमरः । साक्षात् प्रत्यक्षं स्पष्टमिति यावत् । ‘साक्षात्प्रत्यक्षतुल्ययोः’ इत्यमरः । अर्थरसान् सिद्धान्त-तरहस्यान् इति यावत् । ब्रुवाणः कथयन् । ‘रसस्सारो वरः श्रेष्ठः’ इत्यभिधानम् । उचिताम् उपाध्यायस्य योग्याम् । विमोक्षबीजं विमोक्षस्य मुक्तेर् बीजं कारणम् । ‘हेतुर्ना कारणं बीजं’ इत्यमरः । गोविन्दभक्तिं गोविन्दे वेदप्रतिपाद्ये विष्णौ भक्तिं महात्म्य-ज्ञानपूर्वकदृढस्नेहम् । गुरुदक्षिणां विततार ददौ । ‘विपूर्वकात् तॄ प्लवनतरणयोर् इति धातोर् लिट् परस्मैपदं विततार वितेरतुर् वितेरुः’ । श्रीमन्महैतरेयोपनिषदर्थकथनेन तस्य योग्यतानु-सारेण विष्णौ भक्तिम् उपाध्यायस्य उत्पादयामास । सा एव तस्य गुरुदक्षिणा अभूद् इति भावः । ‘वसन्ततिलकावृत्तं ज्ञेयम् । उक्तं वसन्ततिलकं तभजाजगौगः’ इति तल्लक्षणात् ॥ ५५ ॥
अयि स्वामिन् दुष्टान् दमय दमय व्यक्तमचिराद्
विश्वास-प्रस्तुतिः - ५६
गुणान् गूढान् विष्णोः कथय कथय स्वान् प्रमदयन् ।
तदाऽऽनन्दं तन्वन्निति सुमनसां सोऽनुसरता- मनुज्ञामादत्त त्रिभुवनगुरुर्ब्राह्मणगुरोः ॥ ५६ ॥
मूलम् - ५६
गुणान् गूढान् विष्णोः कथय कथय स्वान् प्रमदयन् ।
तदाऽऽनन्दं तन्वन्निति सुमनसां सोऽनुसरता- मनुज्ञामादत्त त्रिभुवनगुरुर्ब्राह्मणगुरोः ॥ ५६ ॥
॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनन्दाङ्के तृतीयः सर्गः ॥
पदार्थदीपिकोद्बोधिका
अयीति ॥ अयीत्यव्ययं प्रार्थनावाचकम् । स्वामिन् नाथ दुष्टान् दुर्जनान् दमय दमय निराकुरु निराकुरु । दमु दान्तौ लोट् । हे स्वामिन् स्वान् स्वकीयान् सज्जनान् प्रमदयन् सन्तोषयन् सन् गूढान् विष्णोर्निर्गुणत्ववादिभिर्निगूहितान् विष्णोर्गुणान् । अचिरात् शीघ्रं, व्यक्तं स्पष्टं यथा भवति तथा । कथय कथय । अत्र सर्वत्र द्विर्वचनमादरद्योतकम् । इति इत्थम् अनुसरताम् अनुवृत्तिं कुर्वतां सुमनसां देवानाम् आनन्दं तन्वन् स, त्रीणि भुवनानि समाहृतानि त्रिभुवनम् । तस्य गुरुः श्रीवासुदेवः ब्राह्मणगुरोरुपाध्यायाद् अनुज्ञाम् आदत्त स्वीकृतवान् । शिखरिणीवृत्तम् । ‘रसैः रुद्रैःच्छिन्ना यमनसभलागः शिखरिणी’ इति लक्षणात् ॥ ५६ ॥
॥ इति श्रीमद्वेदाङ्गमुनिविरचितश्रीसुमध्वविजयटीकाविवृतौ श्रीविश्वपतितीर्थकृतौ पदार्थदीपिकोद्बोधिकायां तृतीयः सर्गः ॥
मन्दोपाकारिणी
अयीति ॥ तदा गुरुकुलवाससमाप्तिसमये । अयि स्वामिन् नाथ त्वं दुष्टान् दुर्जनान् दमय दमय निराकुरु निराकुरु । स्वान् स्वकीयान् प्रमदयन् सन्तोषयन् । गूढान् नैर्गुण्यवादिभिर् निगूहितान् आच्छादितान् विष्णोर् गुणान् अचिरात् शीघ्रं व्यक्तं स्पष्टं कथय कथय वर्णय वर्णय अयि इत्यव्यम् । कोमलामन्त्रणेन प्रार्थनावाचकम् । दमयेत्यादिद्विर्वचनमादरद्योतकम् । ‘दमु उपशम इत्यतो लोट् परस्मैपदं दमय दमयतं दमयत’ । ‘कथय कथयतं कथयत’ । इति एवम् अनुसरतां प्रार्थनां कुर्वतां सुमनसां देवानाम् आनन्दं सुखं तन्वन् कुर्वन् । त्रिभुवनगुरुस् त्रयाणां भुवनानां समाहारस् त्रिभुवनं त्रिभुवनस्य गुरुः सः वासुदेवः ब्राह्मणगुरोर् ब्राह्मणश्चासौ गुरुश्च ब्राह्मणगुरुर् ब्राह्मणानां गुरुर्वा तस्माद् उपाध्यायाद् इत्यर्थः । अनुज्ञां स्वाभिप्रेतकार्यं कर्तुमिति शेषः । आदत्त स्वीकृतवान् । ‘आङ्पूर्वक डु दाञ् दान इत्यतो लङात्मनेपदम् । आदत्त आददाताम् आददत’ । गुरुकुलवाससमाप्तिसमये देवा वासुदेवसमीपम् आगत्य हे स्वामिन् लोकानुकरणेन अलं, शीघ्रम् अवतारप्रयोजनं कुरु इति प्रार्थितवन्तः । ततः सः गुर्वाज्ञां गृहीत्वा स्वगृहं प्रति ययौ इति भावः । शिखरिणीवृत्तम् । ‘रसैरुद्रैश्छिन्ना यमनसभलागः शिखरिणी’ इति तल्लक्षणात् ॥ ५६ ॥
॥ इति श्रीसुमध्वविजयटीकायां श्रीमच्छलारिनरसिंहाचार्याणां शिष्येण शेषेण विरचितायां मन्दोपकारिण्यां तृतीयः सर्गः ॥