०२ द्वितीयः सर्गः

द्वितीयः सर्गः

द्वितीयः सर्गः

विश्वास-प्रस्तुतिः - १

विज्ञानभानुमति कालबलेन लीने दुर्भाष्यसन्तमससन्ततितो जनेऽन्धे ।
मार्गात् सतां स्खलति खिन्नहृदो मुकुन्दं देवाश्चतुर्मुखमुखाः शरणं प्रजग्मुः॥ १ ॥

मूलम् - १

विज्ञानभानुमति कालबलेन लीने दुर्भाष्यसन्तमससन्ततितो जनेऽन्धे ।
मार्गात् सतां स्खलति खिन्नहृदो मुकुन्दं देवाश्चतुर्मुखमुखाः शरणं प्रजग्मुः॥ १ ॥

पदार्थदीपिकोद्बोधिका

अस्मिन्काले सज्जनानुकम्पापरवशा ब्रह्मादिदेवास् तदुद्धारार्थं श्रीहरिं शरणं जग्मुरित्याह विज्ञानेति ॥ भानवः किरणा अस्य सन्तीति भानुमान् सूर्यः । विज्ञानमेव विशिष्टज्ञानमेव भानुमान् तस्मिन् । ‘भानू रश्मौ रवौ दिन’ इति हेमचन्द्रः । कालस्य कलिकालस्य बलेन सामर्थ्येन लीने तिरोहिते सति । दुष्टानि च तानि भाष्याणि च संकरादिप्रणीतैकविंशतिभाष्याणि तान्येव सन्तमसानि अन्धकारास्तेषां सन्ततिः समूहस्तस्या इति ततः । अन्धे अज्ञे भगवत्स्वरूपादिकम् अविदुषीत्यर्थः । जने तत्त्वज्ञानयोग्ये जने । सतां सज्जनानाम् मार्गादध्वनः । ‘मार्गो मृगमदे मासे सौम्यर्क्षेऽन्वेषणे पथि’ इति हेमचन्द्रः । सद्भिराचरिताद्धर्ममार्गादित्यर्थः । स्खलति सति स्खलनं गच्छति सति सन्मार्गे सम्यगवर्तमाने सतीति भावः । खिन्नं खेदयुक्तं हृन् मनो येषां ते तथोक्ताः । चतुर्मुखो मुखं प्रधानं येषां ते देवाः । ‘मणिर्मुखं प्रधानं चेत्युत्तमस्य वचो भवेत्’ इति वचनात् । मुकुन्दं श्रीहरिं शरणम् अरणं प्रजग्मुः । गम्ऌ गतौ लिट् । अस्मिन् सर्गे प्रायः वसन्ततिलकावृत्तम् । ‘उक्ता वसन्ततिलका तभजा जगौ गः’ इत्युक्तेः । रूपकम् ॥ १ ॥

मन्दोपाकारिणी

विज्ञानेति ॥ विज्ञानभानुमति भानवः किरणा अस्य सन्तीति भानुमान् सूर्यः । ‘भानुः किरणसूर्ययोः’ इति विश्वः । विज्ञानं तत्त्वज्ञानं भानुमानिव सूर्य इव विज्ञानभानुमान् तस्मिन् । कालबलेन कालस्य बलेन सामर्थ्येन । लीने सति अन्तर्हिते सति । दुर्भाष्यसन्तमससन्ततितः दुष्टानि दुर्वादिप्रणीतानि ब्रह्मसूत्रोपनिषदादिभाष्याणि सन्तमसानि गाढध्वान्तानीव तेषां सन्ततितः सन्ततेरिति सन्ततितः समूहात् । अन्धे भगवत्स्वरूपादिकम् अविदुषि जने तत्त्वज्ञानयोग्ये जने । मार्गात् संप्रदायरूपमार्गात् स्खलति भ्रंशिते सति सन्मार्गे सम्यगवर्तमाने सति इति भावः । यथा सूर्यास्तसमये सति गाढान्धकारे किमपि वस्तु अपश्यन् यथा कश्चित्पुरुषः गन्तव्यं मार्गं सम्यक् न पश्यति तद्वत् तत्त्वज्ञानयोग्यजने दुर्भाष्येण संशयादिकं प्राप्य वेदादिव्याख्यानादौ सत्संप्रदायं सम्यक् न पश्यति इति भावः । खिन्नहृदः खिन्नं सत्सु अनुकम्पायुक्तं हृन् मनो येषां ते खिन्नहृदः । ‘स्वान्तं हृन्मानसं मनः’ इत्यमरः । चतुर्मुखमुखाश् चत्वारि मुखानि आननानि यस्य चतुर्मुखः ब्रह्मा स एव मुखं प्रधानं येषां ते चतुर्मुखमुखाः ‘मुखं प्रधाने प्रारम्भे’ इति विश्वः । देवा मुकुन्दं श्रीनारायणं, हे स्वामिन्, तत्वज्ञानयोग्यान् जनान् परिपालय इति शरणं प्रजग्मुः प्रापुः । ‘गम्लृ गतावित्यतो लिट् परस्मैपदं जगाम जग्मतुर् जग्मुः’ । अस्मिन् सर्गे प्रायः वसन्ततिलकावृत्तं ज्ञेयम् । वसन्ततिलकम् । ‘तभजाजगौगः’ इति तल्लक्षणात् ॥ १ ॥

विश्वास-प्रस्तुतिः - २

नाथः कलौ त्रियुगहूतिरनुद्बुभूषुर्ब्रह्माणमप्यनवतारमनादिदिक्षुः ।
सर्वज्ञमन्यमनवेक्ष्य सकार्यवीर्यं स्मेराननो भुवनजीवनमाबभाषे ॥ २॥

मूलम् - २

नाथः कलौ त्रियुगहूतिरनुद्बुभूषुर्ब्रह्माणमप्यनवतारमनादिदिक्षुः ।
सर्वज्ञमन्यमनवेक्ष्य सकार्यवीर्यं स्मेराननो भुवनजीवनमाबभाषे ॥ २॥

भावप्रकाशिका

कृतादीनि त्रीणि युगानि अवतर्तुमिष्टान्यस्येति त्रियुगः । ‘युग-त्रयावतारत्वात् त्रियुगो विष्णुरुच्यते ’ इति च ॥ २ ॥

पदार्थदीपिकोद्बोधिका

ब्रह्मादिभिरवतारार्थमर्थितो भगवान् मुख्यप्राणमवतर्तुं सन्दिदेशेति निमित्तकथनपूर्वकमाह नाथ इति ॥ त्रीणि युगान्यवतारार्थत्वेन यस्य स त्रियुगः । ‘युगं हस्तचतुष्के स्याद्रथाद्यङ्गे कृतादिक’ इति हेमचन्द्रः । स इति हूतिर्नाम यस्य सः ‘युगत्रयावतारत्वात्त्रियुगो विष्णुरुच्यते’ इति वचनात् । हेतुगर्भं विशेषणमेतत् त्रियुगहूतित्वादिति । कलौ कलियुगे उद्भवितुम् अवतर्तुम् इच्छुर् उद्बुभूषुः । स न भवतीति अनुद्बुभूषुः । ‘सनाशंस भिक्ष उः’ इत्युप्रत्ययः । अवतर्तुमनिच्छुरित्यर्थः । नाथः स्वामी भगवान् । न विद्यतेऽवतारो यस्य तं भूमौ कदाप्यवताररहितमित्यर्थः । ब्रह्माणं चतुर्मुखम् आदेष्टुमाज्ञप्तुमिच्छुः स न भवतीत्यनादिदिक्षुः । भूम्यवतारार्थमादेष्टुमनिच्छन् सन् । कार्यस्य वीर्यं कार्यसाधनसामर्थ्यं तेन सहितं सकार्यवीर्यं सर्वज्ञम् अन्यं विष्णुचतुर्मुखव्यतिरिक्तं •अनवेक्ष्यादृष्ट्वा । जीवयतीति जीवनः नन्द्यादित्वाल्युः । भुवनस्य जीवनस्तं मुख्यप्राणम् । स्मेरं मन्दहासशीलम् आननं मुखं यस्य तथा सन् । ‘स्मिङ् ईषद्धसन’ इति धातोर्नमिकम्पि’ इत्यादिना ताच्छील्ये रः । आबभाषे आज्ञाप्तवान् । भाष्लृ व्यक्तायां वाचि लिट् । ननु बुद्धावतारस्य कलियुगे जातत्वात्कथं त्रियुगहूतित्वमिति चेत्सत्यं द्वापरकल्योः सन्धिकालेऽवतीर्णत्वात्तस्य । न चायमपि सन्धिकाल इत्यवतारोपपत्तिरिति वाच्यं, दैत्यविमोहकावतारस्य सन्धिकालेऽवतीर्णत्वेऽपि तत्त्वबोधकावताराभावाभिप्रायेण त्रियुग-हूतित्वं भगवत इत्यभिप्रेतत्वेनानवतारे त्रियुगहूतित्वस्य हेतुत्वोपपत्तेरिति ॥ २ ॥

मन्दोपाकारिणी

नाथ इति ॥ त्रियुगहूतिस् त्रीणि युगानि कृतत्रेताद्वापराख्यानि अवतारार्थं क्लृप्तानि यस्य स त्रियुगः । ‘युगं युग्मे कृतादिषु’ इत्यमरः । त्रियुग इति हूतिर् आख्यानं यस्य स तथोक्तः । ‘हूतिराकारणाह्वानं’ इत्यमरः । त्रियुगनामेति भावः । युगत्रयावतारत्वात् त्रियुगो विष्णुरुच्यत इति वचनात् हेतुगर्भमिदं विशेषणं त्रियुगहूतिरिति हेतोः । कलौ कलियुगे स्वयम् अनुद्बुभूषुर् उद्भवितुं प्रादुर्भावं कर्तुम् अनिच्छन् नाथः प्रभुः श्रीनारायणः । अनवतारं न विद्यते अवतारः भूमौ उत्पत्तिर् यस्य स तथोक्तस् तम् । ब्रह्माणं चतुर्मुखम् अनादिदिक्षुर् अवतारार्थम् आदेष्टुम् आज्ञापयितुम् अनिच्छन् सन् । सकार्यवीर्यं कार्ये कार्यसाधनविषये वीर्यं बलं सामर्थ्यम् इति यावत् कार्यवीर्यं, कार्यवीर्येण सहितः सकार्यवीर्यः कार्यसाधनसमर्थस् तम् । ‘वीर्यं बले प्रभावे च’ इत्यमरः । सर्वज्ञं सर्वं जानातीति सर्वज्ञस् तम् । अन्यं चतुर्मुखातिरिक्तम् अनवेक्ष्य अदृष्ट्वा । भुवनजीवनं भुवनानां लोकानां जीवनं प्राणधारणं यस्माद् भवति स भुवनजीवनः मुख्यप्राण इत्यर्थः । ‘जगत्प्राणः समीरण’ इत्यमरः । तं प्रति आबभाषे अब्रवीत् । ‘भाष व्यक्तायां वाचीत्यतो लिडात्मनेपदम् आबभाषे आबभाषाते आबभाषिरे’ । कथंभूतः स्मेराननो ऽनुग्रहविशेषात् स्मेरं मन्दहासयुक्तम् आननं मुखं यस्य स तथोक्तः सन् ॥ २ ॥

विश्वास-प्रस्तुतिः - ३

वेदान्तमार्गपरिमार्गणदीनदूना दैवीः प्रजा विशरणाः करुणापदं नः ।
आनन्दयेः सुमुख भूषितभूमिभागो रूपान्तरेण मम सद्गुणनिर्णयेन ॥३॥

मूलम् - ३

वेदान्तमार्गपरिमार्गणदीनदूना दैवीः प्रजा विशरणाः करुणापदं नः ।
आनन्दयेः सुमुख भूषितभूमिभागो रूपान्तरेण मम सद्गुणनिर्णयेन ॥३॥

पदार्थदीपिकोद्बोधिका

निरूपणप्रकारमेव दर्शयति वेदान्तेति ॥ शोभनं मुखं यस्य तत्सम्बुद्धिः । हे सुमुख वायो त्वं मम, सन्तो निर्दोषा ये गुणास्तेषां निर्णयो यस्मात्तेन । अन्यद्रूपं रूपान्तरं तेन मध्वनाम्ना, भूषितोऽलङ्कृतः भूमिभागो भूप्रदेशो येन सः । वेदान्तानाम् उपनिषदां मार्ग उपनिषदुपलक्षितसकलवेदार्थनिर्णयात्मकब्रह्मसूत्रादिरूपमार्ग इत्यर्थः । तस्य परिमार्गणं विचारस्तेन दीना रहिता ‘दीङ् क्षय’ इति धातोस् तादृशाश्च ता अत एव दूना दुःखिताश्च ताः ‘धातूनामनेकार्थत्वात्’ । दु गतावित्यस्माद्धातोः कर्मणि क्तप्रत्यये ‘ल्वादिभ्य’ इति निष्ठा तस्य नत्वे दीर्घः । वेदार्थनिर्णायकब्रह्मसूत्रेषु सत्स्वपि तद्य्वाख्यान-रूपसद्भाष्याभावेन तैर्वेदार्थविचाराशक्त्या तत्त्वज्ञानाभावाद्दुःखयुक्ता इति भावः । विगतं शरणमस्मद्य्वतिरिक्ताश्रयः रक्षको वा यासां ता विशरणाः । ‘शरणं रक्षणे गेहे वधरक्षकयोरपि’ इति हेमचन्द्रः । अत एव नोऽस्माकं करुणापदं कृपाया आस्पदम् । देवस्य क्रीडादिगुणविशिष्टस्य श्रीहरेः सम्बन्धिन्यो दैव्यस्ताः स्वरूपतो हरिभक्तत्वेन मोक्षयोग्या इत्यर्थः । प्रजा आनन्दयेः सुखय । नदि हर्षे ण्यन्ताल्लिङ् । मध्वाख्यावतारस्य भगवद्गुण-निर्णायकत्वञ्च – ‘तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः । निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसाक्रन्त सूरयः । यदीमनु प्रदिवो मध्व आधवे गुहासन्तं मातरिश्वा मथायति’ इति श्रुतिसिद्धम् । तदर्थश्च ‘योषणः योषित् । आदराद् बहुवचनम् । वृषभस्य समर्थस्यास्य वायोस्तृतीयं रूपमिति शेषः । दोहसे ज्ञानामृतदोहाय । जनयन्त अजनयत् । दशप्रमतिं यतित्वे पूर्णप्रज्ञनामकम् । ईशानासः समर्थाः सूरयो ज्ञानिनः देवमुनिपूर्वका बुध्नाद् बुध्यतीति बुध्नो ज्ञानी तस्मात् । यदीं यस्मादेव महिषस्य महितषड्गुणस्य विष्णोः रमणीयत्वाद् वर्पसः गुणान् । शवसा सुखेन । निर् नितराम् । आक्रन्त व्यज्ञासिषुः । ‘क्रमु पादविक्षेप’ इति धातुः । गत्यर्थकाश्च ज्ञानार्थकाः । यदीं य एव प्रदिवः प्रकृष्टक्रीडादिगुणः मध्वः मध्वनामा आनन्दतीर्थ इत्यर्थः । ‘मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् । मध्व आनन्दतीर्थः स्यात्तृतीया मारुती तनु’रिति वचनात् । एवञ्च मध्वनामा आनन्दतीर्थाख्यो मातरिश्वा वायुर् गुहासन्तं मायिनां निर्गुणोक्तिभिर्गूहितं

सन्तम् आधवे आ समन्ताद्धवत्वेऽपि विष्णोर्निरुपचरितस्वामित्वे । निमित्ते चेयं

सप्तमी । तत्सिद्ध्यर्थं मथायति मथ्नाति वेदादिकमालोडयति तत्त्वज्ञानामृतसिद्ध्यर्थमिति भावः ॥ ३ ॥

मन्दोपाकारिणी

वेदान्तेति ॥ हे सुमुख शोभनं विकसितं मुखं यस्य स तथोक्तस् तस्य सम्बुद्धिर् हे सुमुख वायो, त्वं मम सद्गुणनिर्णयेन सन्तः निर्दुष्टाश्च ते गुणाश्च सद्गुणास् तेषां निर्णयो यस्माद् भवति तत् सद्गुणनिर्णयं तेन । रूपान्तरेण अन्यद् रूपं रूपान्तरं तेन मध्वाख्येन अन्येन रूपेण । भूषितभूमिभागः भूषितो ऽलङ्कृतः भूमेर् भागः प्रदेशः भरतखण्डाख्यः येन स तथोक्तः सन् भूमौ अवतारं कृत्वा इति भावः । वेदान्तमार्गपरिमार्गणदीनदूना वेदानाम् अन्तः निर्णयो यस्मात् सः वेदान्तः ‘अन्तस्यादन्तिके नाशे स्वरूपैकान्तनिर्णय’ इति विश्वः । मार्गः मृग विचारण इति धातोर् विचाररूपा ब्रह्मसूत्रादिग्रन्था वेदान्तश्चासौ मार्गश्च वेदान्तनिर्णायकब्रह्ममीमांसाशास्त्रम् इत्यर्थः । तस्य परिमार्गणेन विचारेण दीना रहिता वेदान्तमार्गपरिमार्गणदीना वेदान्तविचारासमर्था इत्यर्थः । ताश्च ता दूनास् तप्ताश्च दुःखिता इति यावद् विचारासमर्थत्वेन तत्त्वज्ञानाभावाद् इत्यर्थः ‘सन्तापितसन्तप्तौ धूपितधूपायितौ च दूनश्च’ इत्यमरः । दैवीर् देवतासम्बन्धिनीः प्रजा मोक्षयोग्यजीवान् आनन्दयेः सुखय । ‘नदि समृद्धौ इत्यतो विधिलिङ् परस्मैपदम् आनन्दयेर् आनन्दयेतम् आनन्दयेत’ । कथंभूताः प्रजाः, विशरणा विगतं शरणम् आश्रयः यासां ता विशरणा अत एव नो ऽस्माकं करुणापदं करुणायाः कृपायाः पदम् आस्पदं यथा भवति तथेति यावत् ॥ ३ ॥

विश्वास-प्रस्तुतिः - ४

आदेशमौलिमणिमुज्ज्वलवर्णमेनं बद्धाञ्जलिर्मरुदनर्घमधत्त मूर्ध्ना ।
हारावलीमिव हृदा विबुधेन्द्रयाच्ञां बिभ्रन्निजाननुजिघृक्षुरवातितीर्षत्॥४॥

मूलम् - ४

आदेशमौलिमणिमुज्ज्वलवर्णमेनं बद्धाञ्जलिर्मरुदनर्घमधत्त मूर्ध्ना ।
हारावलीमिव हृदा विबुधेन्द्रयाच्ञां बिभ्रन्निजाननुजिघृक्षुरवातितीर्षत्॥४॥

भावप्रकाशिका

वर्णोऽक्षरं गुणश्च ॥ ४ ॥

पदार्थदीपिकोद्बोधिका

भगवदाज्ञां सबहुमानमङ्गीकृत्य सदनुजिघृक्षयावतर्तुमैच्छ-दित्याह – आदेशेति ॥ मरुन् मुख्यवायुः । उज्ज्वलाः शोभमाना वर्णा अक्षराणि यस्मिन् तम् । न विद्यतेऽर्घो मूल्यं यस्य तम् । अत्युत्तममित्यर्थः । ‘मूल्ये पूजाविधावर्घ’ इत्यमरः । एनं प्राक् प्रदर्शितरूपम् । आदेश एव भगवदाज्ञैव मौलिमणिः किरीटरत्नं तम् । चूडा किरीटं केशाश्च संहृता मौलयस्त्रयः’ इत्यमरः । आदेशाख्यकिरीटश्रेष्ठमित्यर्थः । ‘मणिर्मुखं प्रधानञ्चे’त्यभिधानात् । बद्धोऽञ्जलिर्येन तथा सन् मूर्ध्ना अधत्त दधार । डु धाञ् धारणपोषणयोर्लङ् । शिरसि बद्धाञ्जलिर्भूत्वा भगवदाज्ञां सबहुमानं तथास्त्वित्यङ्गीचकारेति भावः । यथा कश्चित् स्वस्वामिना ध्रियमाणं रत्नखचितत्वेन शोभनवर्णम् अनर्घ्यमुकुटश्रेष्ठं बद्धाञ्जलिः सन् गृह्णीयात्तद्वदिति श्लेषाभिप्रायः । हृदा मनसा विबुधेन्द्रयाच्ञां सुरेन्द्रप्रार्थनां भवता भुव्यवतीर्य सत्स्वनुग्रहः कार्य इत्यादिरूपां हारावलीमिव हाराणां पङ्क्तिमिव बिभ्रद् दधानः । ‘नाभ्यस्ताच्छतु’रिति नुमभावः । निजान् स्वभक्तजनान् । ‘निजमात्मीयनित्ययोः’ इति वैजयन्ती । अनुग्रहीतुमिच्छुर् अनुजिघृक्षुः । वायुर् अवातितीर्षद् अवतर्तुमैच्छत् । ‘तॄ प्लवनतरणयोः सन्नन्ताल्लङ् । उपमा ॥ ४ ॥

मन्दोपाकारिणी

आदेशेति ॥ मरुन् मुख्यवायुः । उज्ज्वलवर्णम् उज्ज्वलानि शोभमानानि वर्णानि अक्षराणि यस्मिन् स तथोक्तस् तम् । ‘वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्णं तु चाऽक्षर’ इत्यमरः । अनर्घ्यं मौल्यरहितम् एनम् आदेशमौलिमणिम् आदेशो भगवदाज्ञा स एव मौलिमणिस् तं मुकुटश्रेष्ठम् । ‘धम्मिल्ले मुकुटे मौलिः’ इति भास्करः । बद्धाञ्जलिर् बद्धः कृतो ऽञ्जलिः करसम्पुटं येन स तथोक्तः सन् । ‘अञ्जलिस्तु पुमान् हस्तसम्पुटे कुटजेऽपि च’ इति विश्वः । मूर्ध्ना शिरसा ‘उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम्’ इत्यमरः । अधत्त दधार । शिरसि हस्ताभ्याम् अञ्जलिं बध्वा भगवदाज्ञां तथास्तु इति अङ्गीचकारेति भावः । यथा कश्चिद् भृत्यः स्वस्वामिना दीयमानम् उज्ज्वलवर्णं प्रकाशमा-नकान्तिम् अनर्घ्यं मौल्यरहितं शिरोरत्नं किरीटं वा बद्धाञ्जलिः सन् स्वीकुर्यात् तद्वदिति श्लेषाभिप्रायः । हृदा मनसा हारावलीमिव हाराणां मुक्तामालानाम् आवलीमिव समूहमिव । ‘हारो मुक्तावली’ इत्यमरः । विबुधेन्द्रयाच्ञां विबुधेन्द्राणां देवताश्रेष्ठानां ‘त्रिदशा विबुधाः सुराः’ इत्यमरः याच्ञां प्रार्थनां भवता भुवि अवतीर्य सत्सु अनुग्रहः कार्य इत्यादिरूपां बिभ्रद् दधानः । निजान् आत्मीयान् । ‘निजमात्मीयनित्ययोः’ इति विश्वः । जनान् अनुजिघृक्षुर् अनुगृहीतुम् इच्छन् वायुर् अवातितीर्षद् अवतर्तुम् ऐच्छत् । ‘तॄ प्लवनतरणयोरिति धातोर्लङ् परस्मैपदम् अवातितीर्षद् अवातितीर्षताम् अवातितीर्षन्’ ॥ ४ ॥

विश्वास-प्रस्तुतिः - ५

कालः स एव समवर्तत नाम यावच्चिन्ताकुलं विविधसाधुकुलं बभूव ।
वेदान्तसन्ततकृतान्तरसं न विद्मः श्रेयो लभेमहि कथं नु वयं बतेति ॥५॥

मूलम् - ५

कालः स एव समवर्तत नाम यावच्चिन्ताकुलं विविधसाधुकुलं बभूव ।
वेदान्तसन्ततकृतान्तरसं न विद्मः श्रेयो लभेमहि कथं नु वयं बतेति ॥५॥

पदार्थदीपिकोद्बोधिका

भगवदाज्ञां गृहीत्वावतर्तुमिच्छन् मुख्यप्राणो रजतपीठाधीश श्रीमदनन्तासनपरमभक्तस्य रजतपीठपुरे पुराणवक्तुर् मध्यगेहाख्यस्य विप्रशिखामणेर्भार्याया-मवतीर्ण इति वक्तुं तत्रत्यजनानां विशेषाकारेण तत्त्वज्ञानाभावनिमित्तकाकुलीभाव-मुपोद्धातसङ्गत्या दर्शयति काल इति ॥ यावदेव यदैव स सज्जनकृपालुभिर्ब्रह्मरुद्रादिभिर् भगवत्प्रार्थनाकालः समवर्तत नाम प्रवृत्तः ‘वृतु वर्तने’ लङ् तदैव विविधा वर्णाश्रमभेदेन नानाविधा ये साधवः सज्जनास्तेषां कुलं समूहः । वेदानामन्तो निर्णयो यस्मात्तद्वेदान्तं ब्रह्मसूत्रसन्दर्भात्मकं ब्रह्ममीमांसाशास्त्रं तस्य । सम्यक् तनोति वर्तत इति संततः । ‘तनु विस्तार’ इत्यस्माद्धातोः कर्तरि क्तप्रत्यये ‘अनुदात्तोपदेशवनतितनोत्यादिनां’ इत्यादि-नानुनासिकलोपः । अनादितः सत्सम्प्रदायप्राप्त इत्यर्थः । तादृशो यः कृतान्तरसः सिद्धान्तरहस्यमिति यावत् तम् । ‘कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु’ इत्यमरः । वयं न विद्मः न विजानीमः । ‘विद ज्ञाने’ लट् । श्रेयो मोक्षलक्षणं पुरुषार्थं कथं नु कथमेव लभेमहि प्राप्स्यामः । ‘डु लभष् प्राप्तौ’ लिङ् । बत खेदे । इति चिन्ताकुलं चिन्ता-

सम्भ्रान्तं बभूव ॥ ५ ॥

मन्दोपाकारिणी

काल इति ॥ यावदेव यदैव स कालः हरिप्रार्थनाकालः समवर्तत प्रवृत्तोऽभून् नाम प्रसिद्धम् एतत् । ‘वृतु वर्तन इत्यस्माल्लङात्मनेपदम् अवर्तत अवर्तेताम् अवर्तन्त’ । तदैव विविधसाधुकुलं विविधानां वर्णाश्रमभेदेन नानाविधानां साधूनां सज्जनानां कुलं समूह इति । इत्थं चिन्ताकुलम् आकुलम् उद्वेगयुक्तं बभूव इति । कथं वयं वेदान्त-सन्ततकृतान्तरसं वेदान्तस्य निर्णायकशास्त्रस्य सन्ततम् अनादिकालीनसत्संप्रदायप्राप्तं कृतान्तस्य सिद्धान्तस्य रसं सारम् । ‘रसः सारो वरः श्रेष्ठ’ इत्यभिधानम् । ‘कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु’ इत्यमरः । न विद्म न जानीमः । ‘विद ज्ञाने इत्यतो लट् परस्मैपदं वेद्मि विद्वः विद्मः’ इति । अतः श्रेयः मुक्तिः, ‘मुक्तिः कैवल्यनिर्वाणश्रेयो निःश्रेयसामृतम्’ इत्यमरः । कथं नु कथं वा । ‘नु पृच्छायां विकल्पे च’ इत्यमरः । लभेमहि प्राप्स्याम । बत कष्टम् । ‘खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत’ इत्यमरः । ‘डु लभष् प्राप्तावित्यतो लिङात्मनेपदं लभेय लभेवहि लभेमहि’ ॥ ५ ॥

विश्वास-प्रस्तुतिः - ६

तत्प्रीतये रजतपीठपुराधिवासी देवो विवेश पुरुषं शुभसूचनाय ।
प्राप्ते महाय महिताय महाजनौघे कोलाहलेन सकुतूहलिनि प्रवृत्ते॥६॥

मूलम् - ६

तत्प्रीतये रजतपीठपुराधिवासी देवो विवेश पुरुषं शुभसूचनाय ।
प्राप्ते महाय महिताय महाजनौघे कोलाहलेन सकुतूहलिनि प्रवृत्ते॥६॥

भावप्रकाशिका

रजतपीठपुरस्य ‘ओडिपु’ इत्यपभ्रष्टभाषा । महाय अयनसङ्क्रम-णोत्सवाय ॥ ६ ॥

पदार्थदीपिकोद्बोधिका

तदानीं च तच्चिन्तापनोदेन तत्प्रीत्यर्थं तद्ग्रामीणजनानां कुलदेवः श्रीमदनन्तासनो विष्णुरस्मिन् क्षेत्रे सन्मतं प्रवर्तयितुं भाविनं मुख्यप्राणावतारं सूचयितुं कञ्चित् पुरुषमाविष्टवानित्याह तदिति ॥ रजतस्य पीठं तच्च तत्पुरञ्च रजतपीठाख्यपुरमित्यर्थः । तस्मिन्नधिवासः निवासोऽस्यास्तीति तादृशो देवो ऽनन्तासनस् तेषां चिन्ताकुलजनानां प्रीतिस्तस्यै । तादर्थ्ये चतुर्थी । शुभस्य मुख्यप्राणावतारात्मकस्य सूचनं तस्मै । पुरुषं कञ्चिदप्रौढम् । महिताय सर्वैः पूजिताय बहुमानितायेत्यर्थः । महाय उत्सवाय । ‘मह उद्धव उत्सवः’ इत्यमरः । कोलाहलेन संभ्रमेण प्राप्ते समागते महति जनौघे जनसमूहे कुतूहलमस्यास्तीति कुतूहली तेन सहितं सकुतूहलि तस्मिन् रजतपीठपुरे प्रवृत्ते सति वर्तमाने सति । विवेश ‘विश प्रवेशने’ लिट् । सुकुतूहलिनीति पाठे शोभनकुतूहलवति महाजनौघे इत्यस्य विशेषणम् ॥ ६ ॥

मन्दोपाकारिणी

तत्प्रीतय इति ॥ रजतपीठपुराधिवासी रजतपीठपुरे तदाख्यग्रामे अधिवासी देवो ऽनन्तेश्वरः । तत्प्रीतये चिन्ताकुलसज्जनप्रीतये । शुभसूचनाय शुभस्य श्रीमुख्यप्राणावताराख्यशुभस्य सूचनाय ज्ञापनाय । पुरुषं कञ्चित् पुरुषं विवेश प्रविष्टवान् । ‘विश प्रवेशने इत्यतो लिट् परस्मैपदं विवेश विविशतुर् विविशुः’ । कस्मिन् सति महिताय सर्वपूजिताय महाय उत्सवाय उत्सवदर्शनार्थमित्यर्थः । ‘मह उद्धव उत्सवः’ इत्यमरः । सुकुतूहलिनि सु अत्यन्तं कुतूहलं कौतुकम् अस्यास्तीति सुकुतूहली तस्मिन् । ‘कुतुकं च कुतूहलम्’ इत्यमरः’ । प्राप्ते उत्सवदर्शनार्थम् औत्सुक्येन समागते । महाजनौघे महान्तः बहवो जना महाजनास् तेषाम् ओघे समूहे । ‘स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः’ इत्यमरः । कोलाहलेन कलकलशब्देन । ‘कोलाहलः कलकलः’ इत्यमरः । प्रवृत्ते सति कोलाहलध्वनिं कुर्वति सतीत्यर्थः ॥ ६ ॥

विश्वास-प्रस्तुतिः - ७

आविष्टवानकुशलं पुरुषं प्रकृत्या प्रत्याययन्निजजनान् नितरामनृत्यत् ।
उत्तुङ्गकेतुशिखरे स कृताङ्गहारो रङ्गान्तरे नट इवाखिलविस्मयात्मा ॥ ७॥

मूलम् - ७

आविष्टवानकुशलं पुरुषं प्रकृत्या प्रत्याययन्निजजनान् नितरामनृत्यत् ।
उत्तुङ्गकेतुशिखरे स कृताङ्गहारो रङ्गान्तरे नट इवाखिलविस्मयात्मा ॥ ७॥

पदार्थदीपिकोद्बोधिका

पुरुषं प्रविश्य किं चकारेत्याह आविष्ठवानिति ॥ प्रकृत्या स्वभावेन ‘प्रकृत्यादिभ्य उपसंख्यानं’ इति तृतीया । अकुशलमचतुरं पुरुषम् आविष्टवान् । अखिलानां समस्तजनानां विस्मय आश्चर्यं येन तादृश आत्मा स्वरूपं यस्य स देवः । इह रजतपीठपुरे । निजान् स्वकीयान् जनान् स्वभक्तानित्यर्थः । प्रत्याययतीति प्रत्याययन् । स्वसामर्थ्यप्रकटनेन स्ववक्ष्यमाणवचसि विश्वासमुपजनयन् सन्, उत्तुङ्गस्योन्नतस्य केतोर्ध्वजस्य शिखरेऽग्रे नितरामत्यन्तं कृतोऽङ्गहारोऽवयवविक्षेपो येन तथा सन् । ‘अङ्गहारोऽङ्गविक्षेप’ इति हलः । रङ्गस्य नर्तनस्थानस्यान्तरे मध्ये नट इव नर्तक इव अनृत्यन् नर्तनं चकार । ‘नृती गात्रविक्षेपे’ लङ् । उपमा ॥ ७ ॥

मन्दोपाकारिणी

आविष्टवानिति ॥ प्रकृत्या स्वभावेनैव । ‘संसिद्धिप्रकृती त्विमे’ ‘स्वरूपं च स्वभावश्च’ इत्यमरः । अकुशलं कुशलश् चतुरः न भवतीति अकुशलस् तं पुरुषम् आविष्टवान् । सः देवः निजजनान् इह रजतपीठपुरे उत्सवदर्शनार्थं मिलितान् स्वकीयजनान् प्रत्याययन् विश्वासं प्रापयन् । ‘प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु’ इत्यमरः । उत्तुङ्गकेतु-शिखरे उत्तुङ्गस्य उन्नतस्य केतोर् ध्वजस्य शिखरे शिरसि ध्वजस्तम्भोपरि । नितराम् अत्यन्तं कृताङ्गहारः कृतो ऽङ्गहारो ऽङ्गविक्षेपः हस्तपादावयवमिति यावद् येन सस् तथोक्तः । ‘अङ्गहारोऽङ्गविक्षेप’ इत्यमरः । अनृत्यन् ननर्त ‘नृती गात्रविक्षेप इत्यतो लङ् परस्मैपदम् अनृत्यद् अनृत्यताम् अनृत्यन्’ । क इव । रङ्गान्तरे रङ्गस्य नर्तनमण्टपस्य अन्तरे मध्ये । ‘अन्तरे तु पराधीने भेदे रन्ध्रावकाशयोः’ इति विश्वः । नट इव नर्तक इव । अत एव अखिलविस्मयात्मा अखिलानां जनानां विस्मय आश्चर्यकर आत्मा स्वभावो यस्य सस् तथोक्तः । ‘विस्मयोऽद्भुतमाश्चर्यम्’ इत्यमरः । ‘आत्मा यत्ने धृतौ जीवे स्वभावे परमात्मनि’ इति भास्करः ॥ ७ ॥

विश्वास-प्रस्तुतिः - ८

आभाष्य सोऽत्र जनतां शपथानुविद्धमुच्चैरिदं वचनमुद्धृतदोर्बभाषे ।
उत्पत्स्यते जगति विश्वजनीनवृत्तिर्विश्वज्ञ एव भगवानचिरादिहेति ॥ ८॥

मूलम् - ८

आभाष्य सोऽत्र जनतां शपथानुविद्धमुच्चैरिदं वचनमुद्धृतदोर्बभाषे ।
उत्पत्स्यते जगति विश्वजनीनवृत्तिर्विश्वज्ञ एव भगवानचिरादिहेति ॥ ८॥

भावप्रकाशिका

विश्वजनीनं विश्वजनहितम् । ‘आत्मन् विश्वजनभोगोत्तरपदात् ख’ इति ॥ ८ ॥

पदार्थदीपिकोद्बोधिका

नर्तनं कुर्वन् किमवददित्यत आह आभाष्येति ॥ सः पुरुषे आविष्टवान् देवः । अत्र रूप्यपीठपुरे । जनानां समूहो जनता ताम् । ‘ग्रामजनबन्धु’ इत्यादिना समूहार्थे तल् । आभाष्य श्रूयतामिति सम्बोध्य । उद्धृतौ दोषौ हस्तौ येन स उद्धृतदोः सन् । शपथेन त्रिवारं कथनादिरूपशपथेन अनुविद्धं युक्तं यथा भवति तथा । उच्चैर् इह जगति विश्वजनीनवृत्तिः ‘तस्मै हित’मित्यनुवर्तमाने ‘आत्मन्विश्वजने’त्यादिना तस्मै हितमित्यर्थे खप्रत्यये खस्येनादेशे ‘यस्येति चे’त्यकारलोपः । एवं च विश्वः समस्तश्चासौ जनश्च विश्वजनः । तस्मै हिता विश्वजनीना वृत्तिर्वर्तनं यस्य सः । सर्वलोकोपकारकवृत्तिरिति भावः । विश्वज्ञः सर्वज्ञः । भगोऽस्यास्तीति भगवान् षड्गुणैश्वर्यसम्पन्न एवंभूतः कश्चन अचिरादेवोत्पत्स्यते जनिष्यते । पद निष्पत्तौ लृट् । इतीदं वचनम् आबभाषे । भाष्ऌ व्यक्तायां वाचि लिट् । अत्र विश्वजनीनवृत्तिरित्यादिविशेषणत्रयेण मुख्यप्राण इति सूच्यते ॥ ८ ॥

मन्दोपाकारिणी

आभाष्येति ॥ सः पुरुषाविष्टो देवः । अत्र रजतपीठपुरे । मिलितां जनतां जनानां समूहो जनता ताम् । आभाष्य हे जना मद्वचनं श्रुणुत इति सम्बोध्य । उद्धृतदोर् उद्धृतौ ऊर्ध्वं धृतौ दोषौ भुजौ येन स तथोक्तः सन् । ‘भुजबाहू प्रवेष्टोदोः’ इत्यमरः । शपथानुविद्धं शपथो नाम मदुक्तस्य अन्यथात्वे अहं हरिगुर्वादिद्रोही स्याम् इत्येवं वचनविषयज्ञापनं शपथ इति यावत् । ‘शपनं शपथः पुमान्’ इत्यमरः । तादृशेन शपथेन सत्यं सत्यं सत्यम् इति त्रिवारोक्तिरूपशपथेन अनुविद्धं युक्तं यथा भवति तथा । उच्चैरिदं वक्ष्यमाणं वचनं बभाषे उवाच । ‘भाष्लृ व्यक्तायां वाचीत्यतो लिडात्मनेपदम् बभाषे बभाषाते बभाषिरे’ । किमिति, इह जगति विश्वजनीनवृत्तिर् विश्वजनस्य सर्वजनस्य हिता वृत्तिः प्रवृत्तिर् यस्य स विश्वजनीनवृत्तिः सर्वलोकोपकारभूतप्रवृत्तिरिति भावः । विश्वज्ञः सर्वज्ञः । भगवान् षड्गुणैश्वर्यसम्पन्नः कश्चिद् अचिराद् एव अविलम्बेनैव उत्पत्स्यते जनिष्यतीति । ‘उत्पूर्वक पदगतौ इत्यतो ऌडत्मनेपदम् उत्पत्स्यते उत्पत्स्येते उत्पत्स्यन्ते’ । अत्र विश्वजनीनवृत्तिर् इत्यादिविशेषेणत्रयेण वायुरिति सूच्यते ॥ ८ ॥

विश्वास-प्रस्तुतिः - ९

सद्वीपवारिनिधिसप्तकभूतधात्र्या मध्येऽपि कर्मभुवि भारतनामखण्डे ।
काले कलौ सुविमलान्वयलब्धजन्मा सन्मध्यगेहकुलमौलिमणिर्द्विजोऽभूत् ॥९॥

मूलम् - ९

सद्वीपवारिनिधिसप्तकभूतधात्र्या मध्येऽपि कर्मभुवि भारतनामखण्डे ।
काले कलौ सुविमलान्वयलब्धजन्मा सन्मध्यगेहकुलमौलिमणिर्द्विजोऽभूत् ॥९॥

पदार्थदीपिकोद्बोधिका

अथेदानीं वायोरवतारादिकं वक्तुं तत्पित्रादिस्वरूपमाह सद्वीपेत्यादिना ॥ कलौ कलियुगे काले । वारीणि निधीयन्ते एष्विति वारिनिधयः समुद्राः । द्वीपाश्च ते च, तेषां सप्तकं तेन सहिता या भूतधात्री भूमिस्तस्याः । द्वन्द्वान्ते श्रूयमाणस्य सप्तकपदस्य प्रत्येकं सम्बन्धः । द्वीपसप्तकेन वारिनिधिसप्तकेन च सहितभूमेरित्यर्थः । मध्ये मध्यप्रदेशे जम्बुद्वीप इति यावत् । अपि तत्रापि । कर्मणः भूस्तस्याम् । यत्र कृतानि शुभाशुभकर्माणि स्वर्गादिसाधनानि भवन्ति सा कर्मभूमिरित्युच्यते । भारतमिति नाम यस्य स चासौ खण्डः भुव एकदेशस्तस्मिन् । सुष्ठु विमलः सुविमलः । स चासावन्वयो वंशस्तस्मिन् । लब्धं जन्म उत्पत्तिर्यस्य तादृशः । सद् विहिताचरणेन समीचीनं यन्मध्यगेहाख्यं कुलं तस्मिन् । मौलिमणिरिव शिरोरत्नमिव मध्यगेहाख्यकुलवत्सु द्विजेषु श्रेष्ठ इत्यर्थः । कश्चिद्विजोऽभूत् । उपमा ॥ ९ ॥

मन्दोपाकारिणी

अथेदानीं मध्वावताराय तत्पित्रादिकमाह ॥ सद्वीपेति ॥ कलौ काले कलियुगकाले । सद्वीपवारिनिधिसप्तकभूतधात्र्या द्वीपाश्च वारिनिधयः समुद्राश्च द्वीपवारिनिधयस् तेषां सप्तकं तेन सहिता सद्वीपवारिनिधिसप्तका सा च सा भूतधात्री भूमिश्च सद्वीपवारिनिधिसप्तकभूतधात्री तस्या मध्ये जम्बूद्वीप इति यावत् । ‘भूतधात्री रत्नगर्भा’ इत्यमरः । अपि तत्रापि जम्बूद्वीपेऽपि कर्मभुवि कर्मभूमौ । यत्र कृतानि शुभाशुभकर्माणि स्वर्गनरकसाधनानि भवन्ति सा कर्मभूमिर् इत्युच्यते । तादृशे भारतनामखण्डे भारतेति नाम आख्या यस्य सः भारतनामा स चासौ खण्डश्च भूप्रदेशविशेषश्च भारतनामखण्डस् तस्मिन् । सुविमलान्वयलब्धजन्मा सुष्ठु विमलः सुविमलः निर्दुष्टश्चासौ अन्वयः कुलं च । ‘कुलान्यभिजनान्वयौ’ इत्यमरः । तस्मिन् लब्धं प्राप्तं जन्म जननं येन स तथोक्तः । सन्मध्यगेहकुलमौलिमणिर् मध्यगेहाख्यं च तत् कुलं च मध्यगेहकुलं सत् प्रशस्तं च तन् मध्यगेहकुलं च सन्मध्यगेहकुलम् । ‘सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्’ इत्यमरः । सन्मध्यगेहकुलस्य मौलिमणिः शिरोरत्नभूतो ऽत एव मध्यगेह इति प्रसिद्धः कश्चिद् द्विजः ब्राह्मणो ऽभूत् ॥ ९ ॥

विश्वास-प्रस्तुतिः - १०

वेदाद्रिसद्रजतपीठपुरेश्वराभ्यां ग्रामो विभूषिततरः शिवरूप्यनामा ।
हेमाद्रिराजविभुराजदिलावृताभस्तस्याभवद्गुरुगुणः खलु मूलभूमिः ॥१०॥

मूलम् - १०

वेदाद्रिसद्रजतपीठपुरेश्वराभ्यां ग्रामो विभूषिततरः शिवरूप्यनामा ।
हेमाद्रिराजविभुराजदिलावृताभस्तस्याभवद्गुरुगुणः खलु मूलभूमिः ॥१०॥

भावप्रकाशिका

शिवरूप्यनामा शिव•ीत्यपभ्रष्टभाषायाम् ॥ १० ॥

पदार्थदीपिकोद्बोधिका

तस्य जन्मभूमिमाह वेदेति ॥ वेदाख्योऽद्रिर् वेदाद्रिः सन् यो रजतपीठपुरेश्वरः श्रीमदनन्तेश्वरस् ताभ्यामतिशयेन विभूषितो ऽतिशयेनालङ्कृतः । गुरवो गुणा यस्य वेदशास्त्राभिज्ञसज्जनाधिष्ठितत्वादिमहागुणयुक्त इत्यर्थः । ‘गुरुर्महत्याङ्गिरस’ इति हेमचन्द्रः । शिवरूप्यमिति नाम यस्य शिवबे•ीत्यपभ्रष्टनामेत्यर्थः । अद्रीणां राजा अद्रिराजः हेम्नो हिरण्यस्याद्रिराजः सुवर्णात्मकमेरुपर्वतः । विभुः शिवस्ताभ्यां राजन् शोभमानो य इलावृतस् तन्नामकखण्डस्तद्वदाभा कान्तिर्यस्य सः । ‘विभुः प्रभौ व्यापके शङ्करे नित्य’ इति हेमचन्द्रः । इलावृतखण्डस्य मेरुं परितः स्थितत्वात् शिवस्य च तत्खण्डस्थत्वात्ताभ्यामिलावृतखण्डो यथा शोभते तद्वद्वेदाद्रिरजतपीठपुरेश्वराभ्यां शोभमान इत्यर्थः । तस्य पूर्वोक्तद्विजस्य मूलभूता भूमिर्मूलभूमिर्जन्मभूमिरित्यर्थः । अभूत् । खलु प्रसिद्धौ । उपमा ॥ १० ॥

मन्दोपाकारिणी

वेदेति ॥ वेदाद्रिसद्रजतपीठपुरेश्वराभ्यां रजतपीठं च तत् पुरं च रजतपीठपुरं रजतपीठपुरस्य ईश्वरः स्वामी रजतपीठपुरेश्वरः सन् समीचीनश्चासौ रजतपीठपुरेश्वरश्च सद्रजतपीठपुरेश्वरः । वेदनामकश्चासौ अद्रिः पर्वतश्च वेदाद्रिः । वेदाद्रिश्च सद्रजतपीठपुरेश्वरश्च वेदाद्रिसद्रजतपीठपुरेश्वरौ ताभ्यां विभूषिततरो ऽत्यन्तं विभूषितो ऽलंकृतः विभूषिततरः । गुरुगुणः गुरवो बहवः श्रेष्ठा गुणाः सत्सङ्गत्यादिवासयोग्यधर्मा यस्य सस् तथोक्तः । शिवरूप्यनामा शिवरूप्य इति नाम यस्य सः शिवरूप्यनामा ग्रामः संवसथः ‘समौ संवसथ ग्राम’ इत्यमरस् तस्य पूर्वोक्तब्राह्मणस्य मूलभूमिर् जन्मभूमिर् अभवत् । खलुशब्दः प्रसिद्धवाचकः । कीदृशो ग्रामः, हेमाद्रिराजविभुराजदिलावृताभः हेम सुवर्णरूपश्चासौ अद्रिराजः पर्वतश्रेष्ठश्च हेमाद्रिराजः मेरुपर्वतः । विभुर् इलावृतखण्डवासी रुद्रः । हेमाद्रिराजश्च विभुश्च हेमाद्रिराजविभू । ताभ्यां राजतः शोभमानस्य इलावृतखण्डस्य आभेव आभा यस्य सस् तथोक्तः । इलावृतो नाम मेर्वधिष्ठितभूविशेषः ॥ १० ॥

विश्वास-प्रस्तुतिः - ११

रामाधिवेशितहरिस्वसृमौलिमालाराजद्विमानगिरिशोभितमध्युवास ।
क्षेत्रं स पाजकपदं त्रिकुलैककेतुः कं यद्दधाति सततं खलु विश्वपाजात्॥११॥

मूलम् - ११

रामाधिवेशितहरिस्वसृमौलिमालाराजद्विमानगिरिशोभितमध्युवास ।
क्षेत्रं स पाजकपदं त्रिकुलैककेतुः कं यद्दधाति सततं खलु विश्वपाजात्॥११॥

भावप्रकाशिका

विश्वपाजात् – विश्वपालकादजाद् रामान्निमित्तात् । स तत्र परश्वादिना तीर्थं चकारेति ॥ ११ ॥

पदार्थदीपिकोद्बोधिका

एवं तस्य जन्मभूमिमुक्त्वाऽथनिवासस्थानमाह रामेति ॥ त्रीणि च तानि कुलानि च ‘वडिप्पे, पार्पदाने, कबेकोडे’ इत्यपभ्रष्टनामानि त्रिकुलानि तेषामेककेतुरिव मुख्यध्वज इव अतिश्रेष्ठ इत्यर्थः । स द्विजः, रामेण श्रीपरशुरामेण अधिवेशिता प्रतिष्ठापिता या हरिस्वसा कृष्णभगिनी दुर्गा सैव मौलिमाला शिरोमाला तया राजन् शोभमानो यो विमानगिरिर् विमानाकारो गिरिस्तेन, शोभितं यत् क्षेत्रम् । विश्वं पातीति विश्वपाः स चासावजश्च उत्पत्तिरहितो हरिस् तस्मात् सर्वजगद्रक्षकपरशुरामादि-त्यर्थः । कम् उदकं सततं सदा दधाति धॄ धारणे लट् । पाजकमिति पदं नाम यस्य तत्क्षेत्रमध्युवास वस निवासे लिट् । ‘अधिशीङ्स्थासामि’ति कर्मसंज्ञा । परशुरामेण विमानगिरिं परितश्चतुर्दिक्षु परश्वधधनुर्बाणगदाभिः शिलाभुवं विदार्य निर्मिततीर्थवत्त्वात् पाजकाख्यं क्षेत्रम् अध्युवासेति भावः ॥ ११ ॥

मन्दोपाकारिणी

रामेति ॥ त्रिकुलैककेतुस् त्रीणि च तानि कुलानि च त्रिकुलानि त्रिकुलानाम् एकः मुख्यः केतुर् ध्वजभूतः स द्विजः । रामाधिवेशितहरिस्वसृमौलिमाला-राजद्विमानगिरिशोभितं रामः परशुरामः । ‘रामः परशुविशेषे स्याज्जामदग्न्ये हलायुधे । राघवे चासितश्वेतमनोज्ञेषु तु वाच्यवत्’ इति विश्वः । रामेण अधिवेशिता प्रतिष्ठिता रामाधिवेशिता हरेः श्रीकृष्णस्य स्वसा भगिनी दुर्गादेवी । रामाधिवेशिता च सा हरिस्वसा च रामाधिवेशितहरिस्वसा सैव मौलिमाला शिरोग्रगतमाला तया राजन् शोभमानः राजंश्चासौ विमानगिरिर् विमानाख्यपर्वतस् तेन शोभितं भूषितम् । पाजकपदं पाजकमिति पदं शब्दः नामेति यावद् यस्य तत्तथोक्तम् । ‘पदं शब्दे च वाच्ये च’ इति विश्वः । यस्मिन् क्षेत्रे विमानगिरिः शिरस्थानीयपर्वतस् तस्मिन् विमानपर्वते परशुरामेण दुर्गाशिरःस्थितपुष्प-मालाभूता प्रतिष्ठितास्ति तादृशपाजकनामेत्यर्थः । क्षेत्रं पुण्यस्थानम् अध्युवास स्थितवान् । अधिशीङ्स्थासां कर्मेति सूत्रात् सप्तम्यर्थे द्वितीया क्षेत्र इत्यर्थः । ‘वस निवासे इत्यतो लिट् परस्मैपदम् उवास ऊषतुर् ऊषुः’ । यत्क्षेत्रं विश्वपाजाद् विश्वं समस्तं पातीति विश्वपा अजः विष्णुः । ‘अजा विष्णुहरच्छागा’ इत्यमरः । विश्वपाश्चासौ अजश्च विश्वपाजस् तस्मात् । सततं सदा कं जलं दधाति खलु धरति खलु । ‘डु धाञ् धारणपोषणयोरिति धातोर् लट् उभयपदं दधाति धत्तः दधति’ । ‘सुखशीर्षजलेषु कम्’ इति विश्वः । अनेन पाजकमित्यत्र पातीति पः पश्चासौ अजश्च पाजः । पाजात् कं जलं यस्मिन् तत्पाजकम् इति विग्रहः सूचितो भवति । तत्र स्थले भार्गवरामः परशुना भुवं भित्वा तीर्थानि चकार हि । अतः पाजकम् इति सार्थकं नाम ॥ ११ ॥

अर्थं कमप्यनवमं पुरुषार्थहेतुं पुंसां प्रदातुमुचितामुचितस्वरूपाम् । कन्यां सुवर्णलसितामिव वेदविद्यां जग्राह विप्रवृषभप्रतिपादितां सः ॥१२॥

पदार्थदीपिकोद्बोधिका

अर्थमिति ॥ सः द्विजः पुरुषार्थानां ज्ञानैश्वर्यादिपुरुषार्थानां हेतुर् निमित्तम् । अवमो नीचो न भवतीत्यनवमस्तम् उत्तममिति यावत् । कमप्यर्थं मध्वाख्यं वस्त्वित्यर्थः । सतां सत्पुरुषाणां प्रदातुं प्रसवेन दातुं, उचितां योग्याम् । उचितं स्वरूपं यस्यास्तां कुलवयोरूपशीलैर् आत्मन उद्वोढुम् उचितामित्यर्थः । सुवर्णेन हेम्ना तन्मया-भरणेनेति यावत् । लसितां शोभिताम् । विप्रेषु वृषभः श्रेष्ठस्तेन ‘वृषभः स्यादादिजिने वृषपुङ्गवयोरपि’ इत्यभिधानात् । ऋषभ इति पाठे ‘ऋत्यक’ इति प्रकृतिभावः । प्रतिपादितां दत्तां कन्यां वेदात्मिका विद्या तामिव जग्राह उपयेमे । ग्रह उपादाने लिट् । वेदविद्याऽपि पुंसां पुरुषार्थहेतुम् अनवमं कमप्यर्थं परब्रह्माख्यं वस्तु प्रदातुं प्रतिपाद्य दातुम् उचिता, ब्राह्मणेनाध्येतुमुचितस्वरूपा च शोभमानाक्षरलसिता च, विप्रर्षभेण उपाध्यायेन दत्ता च । वेदविद्यामध्यगीष्टानन्तरम् उपयेमे चेति भावः । उपमा ॥ १२ ॥

मन्दोपाकारिणी

अर्थमिति ॥ सः द्विजः पुंसां पुरुषाणां पुरुषार्थहेतुं पुरुषैर् अर्थ्यो ऽपेक्षणीयः पुरुषार्थः पुरुषार्थस्य सकलाभीष्टस्य मोक्षादिचतुर्विधपुरुषार्थस्य हेतुं निमित्तम् । अनवमं न अवमो ऽधमो ऽनवमस् तम् उत्तममिति यावत् । कमप्यर्थं मध्वाख्यं वस्तु प्रदातुं प्रसवेन दातुम् । उचितां योग्याम् । उचितस्वरूपां कुलवयोरूपैर् आत्मन उद्वोढुम् उचितरूपां सुवर्णलसितां सुवर्णेन हेम्ना तन्मयाभरणेन इति यावत् । लसितां शोभिताम् । विप्रवृषभ-प्रतिपादितां विप्रेषु ब्राह्मणेषु वृषभेण ऋषभेण श्रेष्ठेन इत्यर्थः । ‘स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूल नागाद्याः पुंसि श्रेष्ठार्थगोचराः’ इत्यमरः । ब्राह्मणोत्तमेन प्रतिपादितां दत्तां कन्यां कुमारीं जग्राह उपयेमे । ‘ग्रह उपादान इत्यतो लिट् परस्मैपदं जग्राह जगृहतुर् जगृहुः’ । कामिव वेदविद्यामिव । अनवमं सर्वोत्तमं कमप्यर्थं परब्रह्माख्यं वस्तु प्रदातुं प्रतिपादितुम् उचिताम् उचितस्वरूपां ब्राह्मणेन अध्येतुम् उचितरूपां सुवर्णलसितां सुवर्णैः शोभमानाक्षरैर् लसितां शोभमानां विप्रवृषभप्रतिपादितां विप्रवृषभेण ब्राह्मणोत्तमेन उपाध्यायेन प्रतिपादिताम् उपदिष्टां वेदविद्यां ब्राह्मणः यथा जग्राह अध्यगीष्ट तथा इति भावः । ‘इव यद्वा यथा शब्दा उपमानार्थवाचकाः’ इति विश्वः । वेदाध्ययनानन्तरम् उपयेमे इति भावः ॥ १२ ॥

विश्वास-प्रस्तुतिः - १३

रेमेऽच्छयोपनिषदेव महाविवेको भक्त्येव शुद्धकरणः परमश्रिताऽलम् ।
मिथ्याभिमानरहितः परयेव मुक्त्या स्वानन्दसन्ततिकृता स तया द्विजेन्द्रः ॥१३॥

मूलम् - १३

रेमेऽच्छयोपनिषदेव महाविवेको भक्त्येव शुद्धकरणः परमश्रिताऽलम् ।
मिथ्याभिमानरहितः परयेव मुक्त्या स्वानन्दसन्ततिकृता स तया द्विजेन्द्रः ॥१३॥

भावप्रकाशिका

अच्छत्वादीनि महाविवेकादीनि विशेषणानि दम्पत्योर्द्रष्टव्यानि । स्वानन्द एव सन्ततिर्मध्वः । ‘हनुमान् भीम आनन्दः’ इति तद्रूपाणि ॥ १३ ॥

पदार्थदीपिकोद्बोधिका

रेम इति ॥ स द्विजेन्द्रः । तया भार्यया । महान् विवेकः मोक्षादिर् नित्यः, स्वर्गादिरनित्य इत्यादिरूपो यस्य तादृशः, कश्चिद् अच्छया अपौरुषेयत्वादप्रामाण्यकारणदोषरहितया उपनिषदेव । अयं द्विजश्च महाविवेकः । भार्यापि रूपचरित्रैरच्छा । शुद्धं करणमन्तःकरणं यस्य तादृशः कश्चित्, परममुत्तमं हरिं विषयतया श्रयत इति परमश्रित् तया भक्त्येव, अयं द्विजः शुद्धान्तःकरणः सा च श्रीहरिमाश्रिता । मिथ्याभूतोऽभिमानोऽस्वकीये क्षेत्रापत्यकलत्रादौ स्वकीयत्वादिरूपस् तेन रहितस् तत्त्वज्ञानीति यावन् मुक्त इति वा । स्वरूपभूत आनन्दः स्वानन्दः निर्दुःखपरमानन्द इत्यर्थः । तस्य सन्ततिं परम्परां करोतीति तया ‘सन्ततिस्तु तनये दुहितर्यपि । परम्पराभवे पङ्क्तौ गोत्रविस्तारयोरपि’ इति हेमचन्द्रः । मुक्त्येव । अयं द्विजः मिथ्याभिमानरहितः स्वानन्द-सन्ततिकृत् शोभनानन्दाख्यसन्ततिकृत् । शोभनानन्दाख्या सन्ततिरपत्यं मध्वस् तां करोतीति तथोक्ता । मध्वाख्यसन्ततिकृदित्यर्थः । रेमे रमु क्रीडायां लिट् । मालोपमा ॥ १३ ॥

मन्दोपाकारिणी

रेम इति ॥ सः द्विजेन्द्रस् तया स्वभार्यया रेमे चिक्रीडे । ‘रमु क्रीडायामित्यतो लिडात्मनेपदं रेमे रेमाते रेमिरे’ । कः महाविवेकः महान् विवेकः सारासारज्ञानं यस्य स तथोक्तः कश्चित् पुरुषः । अच्छया अपौरुषेयत्वेन अप्रामाण्य-कारणदोषशून्यया उपनिषदेव वेदान्तविद्ययेव । अयं द्विजोऽपि महाविवेकः सापि रूपचारित्रैर् अच्छा प्रशस्ता । पुनः कः कयेव । शुद्धकरणः शुद्धं रागादिदोषरहितं करणं यस्य स तथोक्तः । पुमान् अलम् अत्यन्तं परमश्रिता परमं सर्वोत्तमं हरिं श्रयतीति परमश्रित् तया परमात्मविषयिण्येत्यर्थः । भक्त्येव । अयं द्विजोऽपि विशुद्धकरणः सापि परमश्रित् । पुनः कयेव । मिथ्याभिमानरहितः मिथ्याभूतो ऽभिमानः हर्यधीनक्षेत्रकलत्रपुत्रादौ स्वकीयत्वमतिर् मिथ्याभिमानस् तेन रहितस् तत्वज्ञानीति यावत् । स्वानन्दसन्ततिकृता स्वानन्दः स्वरूपभूतनिर्दुःखपरमानन्दस् तस्य सन्ततिर् विच्छेदाभावस् तां करोतीति स्वानन्दसन्ततिकृत् तया । अत एव परया उत्तमया । ‘परः स्यादुत्तमाऽनात्मा’ इति विश्वः । मुक्त्येव मोक्षेणेव । अयं द्विजेन्द्रोऽपि मिथ्याभिमानरहितः सा च स्वानन्दसन्ततिकृत् सु शोभमान आनन्द आनन्दतीर्थाख्या च सा सन्ततिर् अपत्यं च स्वानन्दसन्ततिस् तां करोतीति स्वानन्दसन्ततिकृत् तया ॥ १३ ॥

विश्वास-प्रस्तुतिः - १४

तस्य प्रभोश्चरणयोः कुलदेवताया भक्तिं बबन्ध निजधर्मरतः स धीरः ।
विज्ञातभारतपुराणमहारहस्यं यं भट्ट इत्यभिवदन्ति जना विनीतम्॥१४॥

मूलम् - १४

तस्य प्रभोश्चरणयोः कुलदेवताया भक्तिं बबन्ध निजधर्मरतः स धीरः ।
विज्ञातभारतपुराणमहारहस्यं यं भट्ट इत्यभिवदन्ति जना विनीतम्॥१४॥

पदार्थदीपिकोद्बोधिका

तस्येति ॥ जना महाजनाः । भारतञ्च पुराणानि च तेषां महारहस्यमतिगूढार्थं विज्ञातं सम्यज्ज्ञातं येन तम् । अत एव विनीतं निर्जितेन्द्रियम् । ‘विनीतस्तु निवृत्ते निर्जितेन्द्रिय’ इति हेमचन्द्रः । यं भट्ट इति अभिवदन्ति व्यवहरन्ति । वद व्यक्तायां वाचि लट् । निजे स्ववर्णाश्रमसंबन्धिनि धर्मे रत आसक्तः । धीरः स्थिरबुद्धिः स द्विजः कुलदेवतायास्तस्य प्रभोः रजतपीठपुराधिवासिनो भगवतोऽनन्तासनस्य चरणयोः पादयोर्भक्तिं बबन्ध चकार । बधिर् बन्धने लिट् ॥ १४ ॥

मन्दोपाकारिणी

तस्येति ॥ निजधर्मरतः निजः वर्णाश्रमविहितश्चासौ धर्मः सत्कर्म च निजधर्मस् तस्मिन् निरत आसक्तः । धीरः प्राज्ञः । ‘धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः’ इत्यमरः । स्थिरबुद्धिर्वा । सः द्विजः कुलदेवतायाः कुलस्य वंशस्य देवतायाः स्वामिनः प्रभोः परमसमर्थस्य तस्य रजतपीठपुरवासिनो ऽनन्तेश्वरस्य चरणयोः पादयोर् भक्तिं बबन्ध चकार । ‘बधिर् बन्धन इत्यतो लिट् परस्मैपदं बबन्ध बबन्धतुर् बबन्धुः’ । जना महाजनाः । विज्ञातभारतपुराणमहारहस्यं भारतं च पुराणानि च भारतपुराणानि । महच्च तद् रहस्यं च महारहस्यम् । भारतपुराणानां महारहस्यम् । विज्ञातं भारतपुराणमहारहस्यम् अतिगूढार्थो येन स तथोक्तस् तम् । अत एव विनीतं विनयोपेतम् । यं द्विजं भट्ट इति अभिवदन्ति व्यवहरन्ति सः भक्तिं बबन्ध इति अन्वयः । ‘वद व्यक्तायां वाचीत्यतो लट् परस्मैपदं वदति वदतः वदन्ति’ इति रूपम् ॥ १४ ॥

विश्वास-प्रस्तुतिः - १५

गोविन्दसुन्दरकथासुधया स नॄणामानन्दयन्न किल केवलमिन्द्रियाणि ।
किन्तु प्रभो रजतपीठपुरे पदाब्जं श्रीवल्लभस्य भजतामपि दैवतानाम् ॥१५॥

मूलम् - १५

गोविन्दसुन्दरकथासुधया स नॄणामानन्दयन्न किल केवलमिन्द्रियाणि ।
किन्तु प्रभो रजतपीठपुरे पदाब्जं श्रीवल्लभस्य भजतामपि दैवतानाम् ॥१५॥

भावप्रकाशिका

रजतपीठपुरस्थस्य नारायणत्वं निश्चीयते । स्वदर्शनोरुव्रतिने निशीथे प्राप्ताय भोगीन्द्रगतो हरिः प्रभुः । स्वं दर्शयित्वा खलु कुञ्जमाधवद्विजाय तद्वत्प्रतिमां व्यधापयत् ॥ १५ ॥

पदार्थदीपिकोद्बोधिका

गोविन्देति ॥ स भट्टः गोविन्दस्य श्रीहरेः सुन्दरकथैव सुधा अमृतं तया । केवलं नॄणां मनुष्याणाम् इन्द्रियाणि श्रोत्रादीनि नानन्दयन् नातोषयत् ‘नदि हर्षे’ लङ् किन्तु रजतपीठपुरे श्रीमदनन्तासनं परितः क्रोशमानेन रजतात्मकं पीठं भूम्यन्तर्गतमस्तीति पुराणप्रसिद्धेस्तत्पीठोपरिस्थग्रामो रजतपीठपुरमित्युच्यते । प्रभोः श्रीवल्लभस्य श्रीपतेः पदाब्जं भजतां दैवतानां देवानां ‘वृन्दारका दैवतानि’ इत्यमरः । इन्द्रियाण्यप्यानन्दयत् किल । लिङ्गाकारस्यापि तस्य श्रीहरित्वन्तु ‘स्वदर्शनोरुव्रतिने निशीथे प्राप्ताय भोगीन्द्रगतं हरिः प्रभुः । स्वं दर्शयित्वा खलु कुञ्जमाधवद्विजाय तद्वत्प्रतिमां व्यधापयत्’ इति श्लोकसिद्धम् । उपमा ॥ १५ ॥

मन्दोपाकारिणी

गोविन्देति ॥ सः द्विजः गोविन्दसुन्दरकथासुधया गोविन्दस्य श्रीहरेः सुन्दरकथा श्राव्यकथा गोविन्दसुन्दरकथैव सुधा अमृतं तया गोविन्दसुन्दरकथासुधया । केवलं नॄणां मनुष्याणामेव इन्द्रियाणि श्रोत्रादीनि नानन्दयन् नासुखयत् किन्तु रजतपीठपुरे प्रभोः श्रीवल्लभस्य लक्ष्मीपतेः पदाब्जं पादकमलं भजतां सेवमानानां दैवतानाम् । वृन्दारका दैवतानीत्यमरोक्तेर् दैवतपदं नपुंसकम् । इन्द्रियाणि आनन्दयत् । ‘टु नदि समृद्धौ इत्यतो लङ् परस्मैपदम् आनन्दयद् आनन्दयताम् आनन्दयन्’ ॥ १५ ॥

विश्वास-प्रस्तुतिः - १६

इत्थं हरेर्गुणकथासुधया सुतृप्तो नैर्गुण्यवादिषु जनेष्वपि साग्रहेषु ।
तत्त्वे स कालचलधीरतिसंशयालुर्धीमान् धिया श्रवणशोधितया प्रदध्यौ ॥१६॥

मूलम् - १६

इत्थं हरेर्गुणकथासुधया सुतृप्तो नैर्गुण्यवादिषु जनेष्वपि साग्रहेषु ।
तत्त्वे स कालचलधीरतिसंशयालुर्धीमान् धिया श्रवणशोधितया प्रदध्यौ ॥१६॥

पदार्थदीपिकोद्बोधिका

इत्थमिति ॥ स भट्ट इत्थं हरेर्गुणानां या कथा सैव सुधा तया सुतृप्तो ऽन्यत्र अलं बुद्धिमान् सन् । निर्गता गुणा यस्मात्तस्य भावो नैर्गुण्यं तद्वक्तुं शीलमेषामस्तीति तेषु जनेषु मायिजनेष्वपि । आग्रहेणाभियोगेन सहिताः साग्रहास्तेषु सत्सु । सगुणत्वप्रमाणान्यनादृत्य निर्गुण एव हरिरित्याग्रहयुक्तेषु सत्स्वित्यर्थः । तत्त्वे परापरतत्त्वविषये । कालात् कालबलाच् चला चञ्चला धीर्बुद्धिर्यस्य तादृशः सन् न स्वत इति भावः । तस्मादतिसंशयालुर् अत्यन्तसंशयशीलः । माय्युक्तप्रकारेण हरिर्निर्गुणो वा ‘मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे’ इत्यादिप्रमाणानुसारेण सगुणो वेति संशयशीलः सन्नित्यर्थः । धीमान् विवेकी स्वयमेव श्रवणेन भारतादिसच्छास्त्रश्रवणेन शोधितया निर्मलीकृतया धिया बुद्ध्या प्रदध्यौ । किमत्र मयानुष्ठेयमिति चिन्तितवान् । ध्यै चिन्तायां लिट् ॥ १६ ॥

मन्दोपाकारिणी

इत्थमिति ॥ इत्थं पूर्वोक्तप्रकारेण । हरेः श्रीनारायणस्य । गुणकथासुधया गुणानां सर्वोत्तमत्वादिगुणानां कथा कथनमेव सुधा तया सुतृप्तो ऽन्यत्र अलंबुद्धिं प्राप्तः सन्, नैर्गुण्यवादिषु निर्गुणानां भावः नैर्गुण्यं तद् वदन्तीति नैर्गुण्यवादिनः हरेर् निर्गुणत्वभाषणशीला इत्यर्थः । तेषु जनेषु अपि मायिजनेष्वपि । साग्रहेषु सगुणत्वप्रमाण•न्यनादृत्य हरिर् निर्गुण एव इति आग्रहसहितेषु सत्सु । तत्त्वे परब्रह्म-स्वरूपतत्त्वविषये । कालचलधीः कालेन कालसामर्थ्येनैव न स्वतश् चला चञ्चला धीर् बुद्धिर् अन्तःकरणं यस्य स तथोक्तः । तस्मादेव अतिसंशयालुर् हरिरुक्तप्रकारेण निर्गुणः, ‘मय्यनन्तगुणऽनन्त’ इत्यादिप्रमाणानुसारेण सगुणो वा इति संशयालुः संशयशीलस्सन् । धीमान् विद्वान् । ‘धीमान्सुरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः’ इत्यमरः । स्वयं श्रवणशोधितया निर्मलया निशितयेति यावद् धिया अन्तःकरणेन प्रदध्यौ किमत्र मया अनुष्ठेयम् इति चिन्तितवान् । ‘ध्यै चिन्तायामिति धातोर्लिट् परस्मैपदं दध्यौ दध्यतुर्

दध्युः’ इति ॥ १६ ॥

विश्वास-प्रस्तुतिः - १७

त्राता य एव नरकात् स हि पुत्रनामा मुख्यावनं न सुलभं पुरुषादपूर्णात् ।
तस्मात्समस्तविदपत्यमवद्यहीनं विद्याकराकृति लभेमहि कैरुपायैः ॥ १७ ॥

मूलम् - १७

त्राता य एव नरकात् स हि पुत्रनामा मुख्यावनं न सुलभं पुरुषादपूर्णात् ।
तस्मात्समस्तविदपत्यमवद्यहीनं विद्याकराकृति लभेमहि कैरुपायैः ॥ १७ ॥

पदार्थदीपिकोद्बोधिका

त्रातेति ॥ य एव नरकाद्दुर्गतेस्त्राता रक्षकः स हि स एव पुन्नाम्नो नरकात्त्रायत इति पुत्रः । पुत्र इति नाम यस्य सः । ‘पुन्नाम्नो नरकात्त्राता पुत्र इत्यभिधीयत’ इति वचनात् । अपूर्णात् सार्वज्ञादिगुणैरपूर्णात् पुरुषान्मुख्यावनं सम्यग्रक्षणं सुष्ठु लभ्यत इति सुलभं न भवति । अत्रावनं नाम मोक्षसाधनसम्यज्ज्ञानदानमेव । तच्च अल्पपुरुषान्न सुलभमिति भावः । तस्मादल्पपुरुषान्मुख्यावनस्यासुलभत्वात् । समस्तं वेत्तीति समस्तवित् । अवद्येन अज्ञानविप्रलम्भादिदोषेण रहितमनवद्यम् । विद्यानामाकरः समूहस् तादृशी आकृतिः स्वरूपं यस्य तादृशम् । ‘आकरो निकरे खना’विति वैजयन्ती । विद्यानाम् आकरभूता उत्पत्तिस्थानभूता आकृतिः स्वरूपं यस्य तदिति वा । अपत्यं पुत्रं ‘तनयश्च नन्दन इति प्राज्ञैरपत्यं स्मृतं’ इति हलः । कैरुपायैः साधनैर् लभेमहि । डु लभष्

प्राप्तौ लिङ् ॥ १७ ॥

मन्दोपाकारिणी

त्रातेति ॥ य एव अनवक्लृप्तौ एव शब्दः । य एव यः कोऽपि पुरुषः नरकाद् दुर्गतेस् त्राता रक्षिता सः पुत्रनामा पुत्र इति नाम सञ्ज्ञा यस्य सः पुत्रनामा हि प्रसिद्धम् । ‘पुत् तन्नामकं नरकं तस्मात् पुतस् त्रायत इति व्युत्पत्तेः’ ‘पुन्नाम्नो नरकात्त्राता पुत्र इत्यभिधीयत’ इति वचनाच्चेति भावः । मुख्यावनं मुख्यं सम्यक् अवनं ज्ञानदानेन नरकाद् रक्षणम् । अपूर्णाज् ज्ञानादिगुणैर् अपूर्णाद् अल्पज्ञानादिमतः पुरुषात् । सुलभं साध्यं न यस्मात् तस्माद् अल्पज्ञात् पुरुषान् मुख्यावनस्य असाध्यत्वात् समस्तवित् समस्तं वेत्तीति समस्तवित् सर्वज्ञम् । अवद्यहीनम् अवद्यैर् अज्ञानविप्रलम्भादिदोषैर् हीनं रहितम् । विद्याकराकृति विद्यानाम् आकर उत्पत्तिस्थानम् । ‘आकरो निवहोत्पत्तिस्थानं’ इति विश्वः । विद्याकर आकृतिः स्वरूपं यस्य तत् तथोक्तम् । अपत्यं पुत्रं कैः कीदृशैर् उपायैः साधनैर् लभेमहि प्राप्नुवाम । ‘डु लभष् प्राप्तावित्यतो लिङात्मनेपदं लभेय लभेवहि लभेमहि ॥ १७ ॥

विश्वास-प्रस्तुतिः - १८

पूर्वेऽपि कर्दमपराशरपाण्डुमुख्या यत्सेवया गुणगणाढ्यमपत्यमापुः ।
तं पूर्णसद्गुणतनुं करुणामृताब्धिं नारायणं कुलपतिं शरणं व्रजेम ॥१८॥

मूलम् - १८

पूर्वेऽपि कर्दमपराशरपाण्डुमुख्या यत्सेवया गुणगणाढ्यमपत्यमापुः ।
तं पूर्णसद्गुणतनुं करुणामृताब्धिं नारायणं कुलपतिं शरणं व्रजेम ॥१८॥

पदार्थदीपिकोद्बोधिका

पूर्वेऽपीति ॥ पूर्वे पुरातनाः कर्दमः कर्दमाख्यः प्रजापतिः , पराशरः पराशराख्यमुनिः , पाण्डुः पाण्डुभूपः , ते मुख्या येषां ते । यस्य श्रीहरेः सेवया परिचर्यया गुणानां गणैः समूहैराढ्यं सम्पन्नम् अपत्यं सुतं कपिलव्यासधर्मजभीमार्जुनादि-पुत्रानित्यर्थ आपुः प्रापुः । पूर्णाः प्रत्येकं परिपूर्णाः सन्तो निर्दोषा ये गुणा आनन्दादयस्त एव तनुः शरीरं यस्य तम् । करुणैव दयैवामृतं तेनाब्धिरिवाब्धिस्तं कुलपतिम् अस्मत्कुल-स्वामिनं तं कर्दमादीनाम् अपत्यप्रदातारं नारायणं शरणं व्रजेम । व्रज गतौ लिङ् ॥ उपमा ॥ १८ ॥

मन्दोपाकारिणी

पूर्व इति ॥ कर्दमपराशरपाण्डुमुख्याः कर्दमः कर्दमनामा प्रजेश्वरः पराशरस् तन्नामा मुनिः पाण्डुः पाण्डुचक्रवर्ती कर्दमश्च पराशरश्च पाण्डुश्च कर्दमपराशरपाण्डव एते मुख्या आदयो येषां ते कर्दमपराशरपाण्डुमुख्याः पूर्वेऽपि पुरातना आर्या अपि यत्सेवया यस्य लक्ष्मीनारायणस्य सेवया शुश्रूषया गुणगणाढ्यं गुणानां ज्ञानानन्दादिगुणानां गणेन समूहेन आढ्यं सम्पन्नम् अपत्यं पुत्रम् आपुः प्रापुः ‘आप्लृ व्याप्तावित्यतो लिट् परस्मैपदम् आप आपतुर् आपुः’ तं कर्दमादीनाम् अपत्यप्रदं पूर्णसद्गुणतनुं सन्तश्च ते गुणाश्च सद्गुणाः पूर्णाश्च ते सद्गुणाश्च त एव तनुर् देहो यस्य सस् तथोक्तस् तम् । ‘कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः’ इत्यमरः । करुणामृताब्धिं करुणैव कृपैव अमृतं सुधा तया अब्धिः समुद्रस् तम् । कुलपतिम् अस्माकं कुलस्य पतिं स्वामिनं नारायणं शरणं व्रजेम प्राप्नुयाम ‘व्रज गतावित्यतो लिङ् परस्मैपदं व्रजेयं व्रजेव व्रजेम’ ॥ १८ ॥

विश्वास-प्रस्तुतिः - १९

इत्थं विचिन्त्य स विचिन्त्यमनन्यबन्धुः प्रेष्ठप्रदं रजतपीठपुराधिवासम् ।
भक्त्या भवाब्धिभयभङ्गदया शुभात्मा भेजे भुजङ्गशयनं द्विषडब्दकालम् ॥१९॥

मूलम् - १९

इत्थं विचिन्त्य स विचिन्त्यमनन्यबन्धुः प्रेष्ठप्रदं रजतपीठपुराधिवासम् ।
भक्त्या भवाब्धिभयभङ्गदया शुभात्मा भेजे भुजङ्गशयनं द्विषडब्दकालम् ॥१९॥

पदार्थदीपिकोद्बोधिका

इत्थमिति ॥ अन्यश्चासौ बन्धुश्च न विद्यतेऽन्यबन्धुर्यस्य सः । शुभः निर्मल आत्मा मनो यस्य स द्विजः । विचिन्त्य विचार्य । अतिशयेन प्रियं प्रेष्ठं तत् प्रददातीति तम् । यस्य यस्य यद्यत्प्रेष्ठं तस्मै तस्मै तत्तत्प्रदमित्यर्थः । रजतपीठ-पुरमधिवास आवासस्थानं यस्य तम् । भुजङ्गः शेषः शयनं शय्या यस्य तम् । ‘पर्यङ्कः शयनं शय्या’ इति हलः । भवः संसार एवाब्धिस्तस्माद्यद्भयं तस्य भङ्गो नाशस्तं ददातीति तया भक्त्या । द्वौ च तौ षट् च द्विषट् द्वादश इत्यर्थः । द्विषट् अब्दाः संवत्सरा यस्य स चासौ कालश्च तम् । निर्व्यवधानं द्वादशाब्दकालसमाप्तिपर्यन्तमित्यर्थः । ‘कालाध्वनोरत्यन्तसंयोगे’ इति द्वितीया । भेजे सिषेवे । भज सेवायां लिट् ॥ १९ ॥

मन्दोपाकारिणी

इत्थमिति ॥ अनन्यबन्धुर् न विद्यते अन्यः भगवदतिरिक्तः बन्धुः सखा यस्य तथोक्तः । शुभात्मा शुभः निर्मल आत्मा मनो यस्य स तथोक्तः । सः द्विजः विचिन्त्यं विचारणीयं प्रमेयम् इत्थं पूर्वोक्तप्रकारेण विचिन्त्य विचार्य । प्रेष्ठप्रदम् अतिशयप्रियं ददातीति प्रेष्ठप्रदस् तं सर्वेषामपि स्वाभीष्टप्रदमिति भावः । रजतपीठपुराधिवासं रजतपीठपुरे अधिवासो आवासो यस्य स तथोक्तस् तम् । भुजङ्गशयनं भुजङ्गः शेषदेवः स एव शयनं मञ्चः यस्य स तथोक्तस् तम् । ‘शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः’ इत्यमरः । अनन्तेश्वरम् । भवाब्धिभयभङ्गदया भवः संसारः । ‘भवः संसारसम्प्राप्तिश्रेयःसङ्करजन्मसु’ इति विश्वः । स एव अब्धिः समुद्रस् तस्माद् भयं भवाब्धिभयं तस्य भङ्गं नाशं ददातीति भवाब्धिभयभङ्गदा तया भक्त्या द्विषडब्दकालं द्वौ च ते षट् च द्विषट् ते च ते अब्दाश्च द्विषडब्दा द्वादशवत्सरास् तेषां कालः द्विषडब्दकालस् तम् । ‘कालाध्वनोरत्यन्तसंयोगे, द्वितीया द्वादशवर्षपर्यन्तमित्यर्थः । ‘संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः’ इत्यमरः । भेजे ‘भज सेवायामित्यतो लिडात्मनेपदं भेजे भेजाते भेजिरे’ ॥ १९ ॥

विश्वास-प्रस्तुतिः - २०

पत्न््नया समं भगवतः स भजन् पदाब्जं भोगान् लघूनपि पुनर्लघयाञ्चकार ।
दान्तं स्वयं च हृदयं दमयाञ्चकार स्वच्छं च देहमधिकं विमलीचकार ॥ २० ॥

मूलम् - २०

पत्न््नया समं भगवतः स भजन् पदाब्जं भोगान् लघूनपि पुनर्लघयाञ्चकार ।
दान्तं स्वयं च हृदयं दमयाञ्चकार स्वच्छं च देहमधिकं विमलीचकार ॥ २० ॥

पदार्थदीपिकोद्बोधिका

पत्न्नयेति ॥ पत्न््नया भार्यया समं साकं भगवतो ऽनन्तासनस्य पदाब्जं भजन् सन् द्विजेन्द्रः लघून् स्वतोऽल्पानपि भोगान् स्रक्चन्दनादीन् पुनः भगवद्भजनोपक्रमानन्तरं लघयाञ्चकार लघूचकार । लघि भाषायाम् आमन्ताल्लिट् । स्वयञ्च स्वत एव अप्रयत्नेनेति भावः दान्तं निगृहीतेन्द्रियं वशीकृतचक्षुरादीन्द्रियकमित्यर्थः हृदयं मनः दमयाञ्चकार दान्तमकरोत् । स्वच्छं निर्मलञ्च शौचाचमनप्राणायामादिभिर् बाह्याभ्यन्तरशुद्धियुक्तमित्यर्थः देहम् अधिकं यथा भवति तथा विमलीचकार । पञ्चगव्यप्राशनादिना पुनर्निर्मलमकरोत् ॥ २० ॥

मन्दोपाकारिणी

पत्न््नयेति ॥ पत्न््नया स्वभार्यया समं साकम् । ‘साकं सार्धं समं सह’ इत्यमरः । भगवतः श्रीनारायणस्य पदाब्जं पदं पाद एव अब्जं कमलं तद् भजन् सेवमानः सः मध्यगेहः लघून् स्वतो ऽल्पानपि भोगान् आहारादिभोगान् पुनः भगवद्भज-नानन्तरं लघयाञ्चकार पूर्वापेक्षया लघून् कृतवान् । स्वयं च स्वत एव अप्रयत्नेनेति भावः । दान्तं विषयेभ्यो निर्गत्य वर्तमानं हृदयं मनः दमयाञ्चकार पूर्वापेक्षया अधिकं विषयेभ्यो निवर्तितवान् । स्वच्छं शौचाचमनप्राणायामादिभिर् बाह्यान्तरशुद्धियुक्तं देहं शरीरम् अधिकं विमलीचकार पञ्चगव्यप्राशनादिभिः पुनः निर्मलम् अकरोत् । लघयां दमयामित्येतद् द्वयं ‘आम्’ प्रत्ययान्तम् । विमलीत्येतत् ‘क्विप्’ प्रत्ययान्तम् । डुकृञ् करण इत्यतो लिट् परस्मैपदं चकार चक्रतुश् चक्रुः’ ॥ २० ॥

विश्वास-प्रस्तुतिः - २१

तीव्रैः पयोव्रतमुखैर्विविधैर्व्रताग्रयैर्जायापती गुणगणार्णवपुत्रकामौ ।
सम्पूर्णपूरुषमतोषयतां नितान्तं देवेरिताविव पुराऽदितिकश्यपौ तौ॥२१॥

मूलम् - २१

तीव्रैः पयोव्रतमुखैर्विविधैर्व्रताग्रयैर्जायापती गुणगणार्णवपुत्रकामौ ।
सम्पूर्णपूरुषमतोषयतां नितान्तं देवेरिताविव पुराऽदितिकश्यपौ तौ॥२१॥

पदार्थदीपिकोद्बोधिका

तीव्रैरिति ॥ गुणानां ज्ञानादिगुणानां गणास्तैरर्णव इवार्णवस्तादृशो यः पुत्रस्तस्मिन् काम इच्छा ययोस्तौ । देवेनान्तर्यामिणा हरिणा ईरितौ प्रेरितौ जायापती भार्याभर्तारौ तीव्रैर् दुष्करैः पयोव्रतं मुखं मुख्यं येषां तैः । ‘मुखं तु वदने मुख्य’ इति वैजयन्ती । क्षीराहारमात्रपुरःसरैरित्यर्थः । विविधानि यानि व्रताग्रयाणि व्रतश्रेष्ठानि तैः । सम्पूर्णो ऽनन्तगुणपूर्णो यः पुरुषः श्रीनारायणस्तं नितान्तम् अत्यन्तं, पुरा देवेन चतुर्मुखेनेरितौ वामनावतारार्थं तपः कार्यमित्युक्तौ तावदितिकश्यपाविव अतोषयतां तुष तुष्टौ लङ् । ‘फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतः । अर्चयेदरविन्दाक्षं भक्त्या परमयान्वितः’ इत्यादिभागवतोक्तप्रकारकपयोव्रतपूर्वकव्रतैरदितिकश्यपौ वामनप्रादुर्भावार्थं यथा श्रीहरिमतोषयतां तद्वच्छ्रीमन्मध्वावतारार्थमिमावपि दम्पती पयोव्रतपूर्वकव्रतैः श्रीमद-नन्तासनमतोषयतामिति भावः ॥ २१ ॥

मन्दोपाकारिणी

तीव्रैरिति ॥ गुणगणार्णवपुत्रकामौ गुणानां तत्त्वज्ञानादिगुणानां गणेन समूहेन अर्णवः सागरः गुणगणार्णवः गुणगणार्णवश्चासौ पुत्रश्च गुणगणार्णवपुत्रस् तं कामयत इच्छत इति गुणगणार्णवपुत्रकामौ । जायापती जाया भार्या च पतिर्भर्ता च जायापती । ‘भार्या जायाथ पुंभूमि्न दाराः स्यात्तु कुटुम्बिनी’ इत्यमरः । धवः प्रियः पतिर्भर्तेत्यमरः । तीव्रैर् दुष्करैः पयोव्रतमुखैः पयसः क्षीरस्य व्रतं क्षीराहाररूपम् इत्यर्थः । ‘पयः पानीयदुग्धयोरिति विश्वः । पयोव्रतमेव मुखं येषां तानि पयोव्रतमुखानि तैः । विविधैर् नानाप्रकारैर् व्रताग्रयैर् व्रतश्रेष्ठैः । सम्पूर्णपूरुषं संम्पूर्णो ऽनन्तगुणपरिपूर्णश्चासौ पूरुषः श्रीमन्नारायणश्च सम्पूर्णपूरुषस् तम् । नितान्तम् अतिशयेन अतोषयताम् आनन्दयताम् । ‘तुष तुष्टौ लङ् परस्मैपदम् अतोषयद् अतोषयताम् अतोषयन्’ । काविव, पुरा पूर्वं वामनावतारकाले देवेरितौ देवेन चतुर्मुखेन ईरितौ तपः कार्यमित्युक्तौ तौ अदितिकश्यपौ इव अदितिर् अदितिनाम्नी कश्यपभार्या कश्यपनामा मुनिश्च ताविव एतावपि दम्पती देवेरितौ देवेन अन्तर्यामिणा भगवता ईरितौ प्रेरितौ अतोषयताम् । ब्रह्मप्रेरितौ अदितिकश्यपौ वामनावतारार्थं तपश्चक्रतुर् इत्येतत् हरिवंशे स्पष्टम् ॥ २१ ॥

विश्वास-प्रस्तुतिः - २२

नाथस्य भूरिकरुणासुधयाऽभिषिक्तौ श्रीश्रीधरप्रततिसारशरीरयष्टी ।
भूरिव्रतप्रभवदिव्यसुकान्तिमन्तौ तौ देहशुद्धिमतिमात्रमथालभेताम्॥२२॥

मूलम् - २२

नाथस्य भूरिकरुणासुधयाऽभिषिक्तौ श्रीश्रीधरप्रततिसारशरीरयष्टी ।
भूरिव्रतप्रभवदिव्यसुकान्तिमन्तौ तौ देहशुद्धिमतिमात्रमथालभेताम्॥२२॥

पदार्थदीपिकोद्बोधिका

नाथस्येति ॥ नाथस्य स्वामिनः दम्पतिभ्यां समाराधितस्य हरेर् भूरिर्बहुला या करुणा दया सैव सुधा तया अभिषिक्तौ अभिवृष्टौ अत्यन्तं दयाविषयाविति भावः । श्रीश्च श्रीधरश्च तयोः प्रततिर्व्याप्तिर् विशेषसन्निधानमित्यर्थः । तया शारे मिश्रे शरीरे यष्टी इव शरीरयष्टी शरीरदण्डौ ययोस्तौ । यद्वा श्रीश्रीधरप्रतत्या शारे शबले शरीरयष्टी ययोस्ताविति । ‘शबले मारुते शार’ इति वैजयन्ती । भूरि बहु यद्व्रतं तस्मात्प्रभव उत्पत्तिर्यस्याः सा च सा दिव्या देवतानुग्रहसम्बन्धिनी अलौकिकी वा या सुकान्तिः सा अनयोरस्तीति तादृशौ तौ जायापती, अथ अनन्तरं देहशुद्धिं, अतिमात्रमत्यन्तम् अलभेताम् प्राप्तौ ॥ २२ ॥

मन्दोपाकारिणी

नाथस्येति ॥ नाथस्य स्वामिनः स्वसेवितहरेर् भूरिकरुणासुधया भूरि बहुला च सा करुणा कृपा च सैव सुधा अमृतं तया अभिषिक्तौ श्रीपति-बहुकृपावर्षणार्द्रीकृतौ इति भावः । श्रीश्रीधरप्रततिसारशरीरयष्टी श्रीर् लक्ष्मीः श्रीधरः नारायणश्च श्रीश्रीधरौ श्रीश्रीधरयोः प्रततिः प्रकृष्टव्याप्तिर् विशेषसन्निधानमिति यावत् तया सारे श्रेष्ठे शरीरयष्टी शरीरमेव यष्टी दण्डौ ययोस् तौ तथोक्तौ । तपः कुर्वतोर् दम्पत्योः शरीरे तदा लक्ष्मीनारायणयोः सन्निधानं विशेषतोऽभूद् इति भावः । भूरिव्रतप्रभवदि-व्यसुकान्तिमन्तौ भूरीणि बहूनि च तानि व्रतानि च भूरिव्रतानि तेभ्यः प्रभवा उत्पन्ना भूरिव्रतप्रभवा दिव्या देवतानुग्रहसम्बन्धिनी च अपूर्वेति यावत् । दिव्या च सा सुकान्तिश्च दिव्यसुकान्तिर् भूरिव्रतप्रभवा दिव्यसुकान्तिर् एतयोर् अस्तीति तथोक्तौ तौ जायापती । अथ अनन्तरं देहशुद्धिं देहस्य शुद्धिं पावित्र्यम् अतिमात्रं भृशम् । ‘अतिवेलभृशात्यर्थाति-मात्रोद्गाढनिर्भरम्’ इत्यमरः । अलभेतां प्राप्नुवन्तौ । ‘डु लभष् प्राप्तावित्यतो लङात्मनेपदम् अलभत अलभेताम् अलभन्त’ इति ॥ २२ ॥

विश्वास-प्रस्तुतिः - २३

कान्तादृतौ समुचितेऽथ बभार गर्भं सा भूसुरेन्द्रदुहिता जगतां सुखाय ।
अच्छाम्बरेव रजनी परिपूरिताशा भाविन्यपास्ततमसं विधुमाद्यपक्षात् ॥२३॥

मूलम् - २३

कान्तादृतौ समुचितेऽथ बभार गर्भं सा भूसुरेन्द्रदुहिता जगतां सुखाय ।
अच्छाम्बरेव रजनी परिपूरिताशा भाविन्यपास्ततमसं विधुमाद्यपक्षात् ॥२३॥

भावप्रकाशिका

‘समुचिते’ इति ऋतू रजोदर्शनात् पञ्चमादिः शरदादिश्च । अम्बरं वसनं गगनं च । आद्यस्य विष्णोः पक्षपातात् पूर्वपक्षाच्च ॥ २३ ॥

पदार्थदीपिकोद्बोधिका

कान्तादिति ॥ अथ भगवत्सेवया देहशुद्ध्यनन्तरम् अच्छं निर्मलमम्बरं वस्त्रं यस्याः सा । परिपूरिताः, सत्पुत्रो भविष्यतीति देवतासूचनादिना परिपूर्णा आशाः कामा यस्याः सा । भाविनी भवित्री भूसुरेन्द्रदुहिता द्विजेन्द्रसुता जगतां हिताय शुभाय आद्ये सर्वस्यादिभूते हरौ पक्षः पक्षपातो यस्य तस्मात् श्रीहरिभक्तादिति यावत् । स्वकान्तात्स्वपतेः समुचिते गर्भाधानयोग्ये ऋतौ ऋतुदर्शनाङ्गस्नानानन्तरमिति भावः । अपास्तं निरस्तं तमोऽज्ञानं यस्य तं गर्भम् । अच्छाम्बरा निर्मलाकाशा परिपूरिताशा चन्द्रिकया सम्पूरितदिक् भाविनी क्रमेण भविष्यन्ती रजनी रात्रिः समुचिते चन्द्रविकासयोग्ये ऋतौ शरद्दृतौ आद्यपक्षात् शुक्लपक्षाद् अपास्ततमसं निरस्तान्धकारं विधुमिव चन्द्रमिव बभार । डुभृञ् भरणे लिट् ॥ २३ ॥

मन्दोपाकारिणी

कान्तादिति ॥ अथ भगवत्सेवया देहशुद्ध्यनन्तरम् । अच्छाम्बरा अच्छं निर्मलम् अम्बरं वस्त्रं यस्याः सा तथोक्ता सा भूसुरेन्द्रदुहिता भूसुरेन्द्रस्य ब्राह्मणश्रेष्ठस्य दुहिता पुत्री आद्यपक्षात् सर्वस्माद् आदिभूतो हरिः पक्षः सखा सहायो यस्य स तथोक्तः हरिभक्त इति यावत् । ‘पक्षो मासार्धके पार्श्वे ग्रहे साध्यविरोधयोः । केशादेः परतो बन्धे बले सखिसहाययोः’ इति विश्वः । तस्मात् कान्तात् पत्युः समुचिते गर्भाधानयोग्ये ऋतौ ऋतुकाले रजोदर्शनाङ्गस्नानानन्तरमिति भावः । ‘ऋतु स्त्रीपुष्प-कालयोः’ इति विश्वः । जगतां सज्जनानां सुखाय सुखप्राप्तये । अपास्ततमसम् अपास्तं निरस्तं तमोऽज्ञानं यस्य सो ऽपास्ततमास् तं गर्भं बभार दधार । ‘भृञ् भरणे इत्यस्माल्लिट् परस्मैपदं बभार बभ्रतुर् बभ्रुः । कथंभूता परिपूरिताशा परिपूरिता परिपूर्णा आशा अभिलाषो यस्याः सा तथोक्ता । भाविनी क्रमेण भविष्यंती । अच्छाम्बरा अच्छं निर्मलम् अम्बरम् आकाशं यस्याः सा तथोक्ता । ‘अम्बरं व्योमि्न वाससि’ इत्यमरः । परिपूरिताशा चन्द्रिकया परिपूरिता व्यापिता आशा दिशः यस्याः सा तथोक्ता । भाविनी क्रमेण भविष्यती । ‘आशा दिगभिलाषयोः’ इत्यमरः । रजनी रात्रिः । ‘विभावरी तमस्विन्यौ रजनी यामिनी तमी’ इत्यमरः । समुचिते चन्द्रविकासस्य योग्ये ऋतौ वसन्तादिऋतुकाले आद्यपक्षाद् आद्यः मासस्य आदिभूतश्चासौ पक्षः मासार्धश्च आद्यपक्षः शुक्लपक्ष इति भावः । तस्माद् अपास्ततमसम् अपास्तं तमो ऽन्धकारः यस्मात् स तथोक्तस् तम् । ‘अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः’ इत्यमरः । विधुं चन्द्रमिव ‘विधुर्विष्णौ चन्द्रमसि’ इत्यमरः ॥ २३ ॥

विश्वास-प्रस्तुतिः - २४

तं पूर्वपक्षसितबिम्बमिव प्रवृद्धं यावद्द्विजेन्द्रवनिता सुषुवेऽत्र तावत् ।
अंशेन वायुरवतीर्य स रूप्यपीठे विष्णुं प्रणम्य भवनं प्रययौ तदीयम् ॥२४॥

मूलम् - २४

तं पूर्वपक्षसितबिम्बमिव प्रवृद्धं यावद्द्विजेन्द्रवनिता सुषुवेऽत्र तावत् ।
अंशेन वायुरवतीर्य स रूप्यपीठे विष्णुं प्रणम्य भवनं प्रययौ तदीयम् ॥२४॥

पदार्थदीपिकोद्बोधिका

तमिति ॥ द्विजेन्द्रवनिता मध्यगेहभट्टस्य भार्या । पूर्वपक्षे शुक्लपक्षे सितं श्वेतं यद्बिम्बं मण्डलं चन्द्रमण्डलमित्यर्थः । तदिव प्रवृद्धं तं गर्भं यावद् यदा अत्र भूतले सुषुवे प्रसूतवती । षूङ् प्राणिप्रसवे लिट् । तावत्तदा सः भुव्यवताराय भगवदादिष्टो वायुर् मुख्यप्राणो ऽंशेनैकदेशेन अवतीर्य भुवमागत्य रूप्यपीठे रजतपीठे वसन्तमिति शेषः विष्णुं प्रणम्य । तस्य सम्बन्धि तदीयं मध्यगेहभट्टसम्बन्धीत्यर्थः भवनं गृहं प्रययौ ॥ २४ ॥

मन्दोपाकारिणी

तमिति ॥ द्विजेन्द्रवनिता द्विजेन्द्रस्य मध्यगेहभट्टस्य वनिता पत्नी । पूर्वपक्षसितबिम्बमिव पूर्वपक्षे शुक्लपक्षे सितः धवलः बिम्बः मण्डलः । ‘बिम्बोऽस्त्री मण्डलं त्रिषु’ इत्यमरः । तं चन्द्रमण्डलमिव प्रवृद्धम् अभिवृद्धं तं गर्भं यावद् यदा अत्र भूमौ सुषुवे असूत । ‘षूङ् प्राणिगर्भविमोचने इति धातोर्लिडात्मनेपदं सुषुवे सुषुवाते सुषुविरे’ । तावत् तदा सः भुव्यवताराय भगवदादिष्टवायुर् मुख्यप्राणो ऽंशेन अवतीर्य भूमिमागत्य रूप्यपीठे रजतपीठपुरे वसन्तमिति शेषः विष्णुम् अनन्तेश्वरं प्रणम्य नमस्कृत्वा । तदीयं तस्य इदं तदीयं मध्यगेहभट्टसम्बन्धि भवनं गृहम् । ‘भवनागारमन्दिरम्’ इत्यमरः । प्रययौ जगाम । ‘या प्रापणे इत्यस्माल्लिट् परस्मैपदं ययौ ययतुर् ययुः’ ॥ २४ ॥

विश्वास-प्रस्तुतिः - २५

सम्पूर्णलक्षणचणं नवराजमानद्वारान्तरं परमसुन्दरमन्दिरं तत् ।
राजेव सत्पुरवरं भुवनाधिराजो निष्कासयन् परमसौ भगवान् विवेश ॥२५॥

मूलम् - २५

सम्पूर्णलक्षणचणं नवराजमानद्वारान्तरं परमसुन्दरमन्दिरं तत् ।
राजेव सत्पुरवरं भुवनाधिराजो निष्कासयन् परमसौ भगवान् विवेश ॥२५॥

भावप्रकाशिका

लक्षणचणं लक्षणैः प्रसिद्धम् । ‘तेन वित्तश्चञ्चुप् चणपौ’ इति । नवशब्द एकोनदशके भद्रे च । परमस्य सुन्दरमन्दिरं परमाणि सुन्दरमन्दिराणि नगरे । परम् अन्यं शुत्रुं च ॥ २५ ॥

पदार्थदीपिकोद्बोधिका

सम्पूर्णेति ॥ भुवनानां लोकानां, अधिकश्चासौ राजा चाधिराजोऽधिपतिः ‘राजाहः सखिभ्यष्टच्’ इति टच् । भुवनाधिराजो भगवान् षड्गुणसम्पन्नो ऽसौ वायुः सम्पूर्णानि यानि लक्षणानि द्वात्रिंशदङ्गसम्पदस्तैः प्रसिद्धं सम्पूर्णलक्षणचणं ‘तेन वित्तश्चुञ्चुप् चणपौ’ इति सूत्रेण तेन प्रसिद्ध इत्यस्मिन्नर्थे चणप् प्रत्ययः । नव नवसङ्ख्याकानि राजमानानि शोभमानानि द्वारान्तराणि द्वारविशेषा यस्मिन् तत् । ‘अन्तरं परिधानीये बाह्ये स्वीयेऽन्तरात्मनि । मध्येऽवकाशतादर्थ्यविशेषविवरेष्वपि’ इति वैजयन्ती । परमस्य सर्वोत्तमस्य श्रीहरेः परमं सुन्दरं यन्मन्दिरं तत् तदानीं विप्रपत्न््नयुदरसम्भूतं सन् निर्दुष्टं यत्पुरवरं शरीरश्रेष्ठम् । ‘वर्ष्म पुरं च पिण्डं क्षेत्रं च गात्रं च’ इति हलः । परम् अन्यं प्रसूतिपर्यन्तं गर्भे स्थितं जीवमित्यर्थः । निष्कासयन् निर्यापयन् सन् परं शत्रुं विजित्य तं नगरान्निष्कासयन्, राजा सम्पूर्णलक्षणचणं सम्पूर्णनगरलक्षणप्रसिद्धं नवानि लेपनधवलीकरणादिना नूतनानि राजमानानि शोभमानानि द्वारान्तराणि द्वारविशेषा यस्मिन् तत् । परमसुन्दराणि अतिसुन्दराणि मन्दिराणि यस्मिन् तादृशं सत्पुरमिव निर्दुष्टनगरमिव विवेश । विश प्रवेशने लिट् । मुख्यवायुर् गर्भवासरहितः सन् गर्भवासदुःखं जन्मदुःखञ्चानुभूय कर्मवशात्तावता चरितार्थं जीवं तस्माद्देहान्निष्कास्य स्वसङ्कल्पादेव सम्पूर्णलक्षणचणं तं देहं सहसा परमानन्देन राजा नगरमिव विवेशेति भावः ॥ २५ ॥

मन्दोपाकारिणी

सम्पूर्णेति ॥ भुवनाधिराजः भुवनानां जगताम् अधिराजः स्वामी । भगवान् षड्गुणसम्पन्नो ऽसौ वायुः सम्पूर्णलक्षणचणं सम्पूर्णैर् द्वात्रिंशद्भिर् लक्षणैर् उत्तमपुरषलक्षणैश् चणं प्रसिद्धं ‘तेन वित्तश्चुञ्चुप् चणपौ’ इति सूत्रेण तेन प्रसिद्धमित्यर्थे चणप् प्रत्ययः । नवराजमानद्वारान्तरं नवसङ्ख्याकानि राजमानानि शोभमानानि द्वारान्तराणि छिद्रविशेषा यस्य तत् । परमसुन्दरमन्दिरं परमसुन्दरम् अतिरमणीयं मन्दिरं गृहभूतं तद् विप्रपत्न््नयुदरसम्भूतं सन् निर्दोषं पुरवरं शरीरश्रेष्ठं विवेश प्रविष्टवान् । ‘विश प्रवेशने इति धातोः परस्मैपदं विवेश विविशतुर् विविशुः’ । पुरमेकादशद्वारमिति शरीरे प्रयोगात् पुरवरम् इत्युक्तं तथा एकादशद्वारमिति द्वारशब्दस्य छिद्रे प्रयोगाद् द्वारान्तरमित्युक्तम् । किं कुर्वन्, परम् अन्यं प्रसूतिपर्यन्तं गर्भस्थितं जीवं निष्कासयन् देहान्निर्यापयन् स्वयं गर्भवासरहितः सन् गर्भवासदुःखं जन्मदुःखं च अनुभूय तावत्पर्यन्तस्थितं जीवं मातुरुदराद्बहिर्निर्गमनसमये तस्माद्देहान्निष्कास्य तं देहं सहसा विवेश इति भावः । कमिव, परं शत्रुं ‘परः श्रेष्ठारिदूरान्योत्तरे क्लीबन्तु केवले’ इति मेदिनी । विजित्य नगरान् निष्कासयन् । राजा सम्पूर्णलक्षणचणं सम्पूर्णलक्षणैः सम्पूर्णपत्तनलक्षणैश् चणं प्रसिद्धम् । नवराजमानद्वारान्तरं नवसंख्याकराजमानद्वारविशेषयुक्तम् । परमसुन्दर-मन्दिरं परमम् अत्यन्तं सुन्दराणि मन्दिराणि यस्मिन् तत्तथोक्तम् । सत्पुरवरम् इव सत् समीचीनं पुरवरं नगरं यथा प्रविशति तथेत्यर्थः । ‘अगारे नगरे पुरम्’ इत्यमरः ॥ २५ ॥

विश्वास-प्रस्तुतिः - २६

सन्तुष्यतां सकलसन्निकरैरसद्भिः खिद्येत वायुरयमाविरभूत् पृथिव्याम् ।
आख्यन्नितीव सुरदुन्दुभिमन्द्रनादः प्राश्रावि कौतुकवशैरिह मानवैश्च ॥२६॥

मूलम् - २६

सन्तुष्यतां सकलसन्निकरैरसद्भिः खिद्येत वायुरयमाविरभूत् पृथिव्याम् ।
आख्यन्नितीव सुरदुन्दुभिमन्द्रनादः प्राश्रावि कौतुकवशैरिह मानवैश्च ॥२६॥

पदार्थदीपिकोद्बोधिका

सन्तुष्यतामिति ॥ इह भुवि कौतुकवशैः सम्भ्रमपरवशैर् मानुषैश्च मनुष्यैरपि सुरदुन्दुभिमन्द्रनादः सुरदुन्दुभीनां गम्भीरध्वनिः । ‘मन्द्रो गम्भीर उच्यत’ इत्यमरः । यस्मादयं वायुः पृथिव्यामाविरभूत्तस्मात्सकलाः समस्ता ये सन्निकराः सज्जनसमूहास्तैः सन्तुष्यतां सन्तोष्टव्यम् । तुष तुष्टौ कर्मणि लोट् । असद्भिर्दुर्जनैः खिद्येत खेदः प्राप्यताम् । खिद दैन्ये कर्मणि लिङ् इति आख्यन्निव वदन्निव । ख्या प्रकथन इति धातोः शतृ । प्राश्रावि विश्रुतः । श्रु श्रवणे कर्मणि लुङ् । तदवतारसमये समुद्भूतं सुरदुन्दुभिमन्द्रनादं श्रुत्वा सतां सन्तोषोऽभूत् । असतां मनसि खेदोऽभूदिति वस्तुगतिः । तत्र सद्भिः सन्तुष्यताम् असद्भिः खिद्येतेत्याख्यातमित्युत्प्रेक्षते ॥ २६ ॥

मन्दोपाकारिणी

सन्तुष्यतामिति ॥ इह भुवि मानवैर् नरैः । ‘मनुष्या मानुषा मर्त्या मनुजा मानवा नराः’ इत्यमरः । सुरदुन्दुभिमन्द्रनादः सुराणां देवानां दुन्दुभयः भेर्यः । ‘भेरी स्त्री दुन्दुभिः पुमान्’ इत्यमरः । मन्द्रः गम्भीरश्चासौ नादः ध्वनिश्च मन्द्रनादः । ‘कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु’ इत्यमरः । सुरदुन्दुभीनां मन्द्रनादः सुरदुन्दुभि-मन्द्रनादः । प्राश्रावि अश्रूयत ‘श्रु श्रवणे इत्यतः कर्मणि लुङ् आश्रावि आश्राविषाताम् आश्राविषत’ इति रूपम् । कथम्भूतैर् मानवैः, कौतुकवशैः कौतुकस्य सन्तोषस्य वशैर् अधीनैः । किं कुर्वन्निव आख्यन्निव कथयन्निव, कथं, सकलसन्निकरैः सकलाश्च ते सन्तश्च सकलसन्तस्तेषां निकरैः समूहैः सन्तुष्यतां सन्तोष्टव्यम् । ‘तुष तुष्टावित्यतो भावे लोट् परस्मैपदम्’ । असद्भिर्दुर्जनैः खिद्येत खेदः प्राप्यताम् । ‘खिद दैन्ये इत्यतो भावे लिङात्मनेपदम्’ । सन्तुष्यतां खिद्येतेति प्रथमपुरुषैकवचनमेव न द्विवचनादिर्भावः । तस्यैक-त्वात् । कुतः सन्तोषादिः । यस्मादयं वायुः पृथिव्याम् आविरभूद् उत्पन्नः । तस्मात्

सन्त सुखिनः सन्तुर् असन्तः खिन्नाः सन्तु इति सन्तोऽसन्तः प्रति शासतीवेति प्रतीयमान इति भावः ॥ २६ ॥

विश्वास-प्रस्तुतिः - २७

नाथं निषेव्य भवनानतिदूरमाप्तः प्राज्ञो महप्रकृतदुन्दभिनादपूर्वात् ।
पुत्रोद्भवश्रवणतो महदाप्य सौख्यं ज्ञानं परोक्षपदमप्यमतेष्टहेतुम् ॥ २७॥

मूलम् - २७

नाथं निषेव्य भवनानतिदूरमाप्तः प्राज्ञो महप्रकृतदुन्दभिनादपूर्वात् ।
पुत्रोद्भवश्रवणतो महदाप्य सौख्यं ज्ञानं परोक्षपदमप्यमतेष्टहेतुम् ॥ २७॥

भावप्रकाशिका

विवाहाय गच्छतां केषाञ्चिद् दुन्दुभिनादपूर्वात् । एवमपरश्च तदनन्तरमेव दुन्दुभिनादोऽश्रावीति भावः ॥ २७ ॥

पदार्थदीपिकोद्बोधिका

नाथमिति ॥ नाथं स्वकुलस्वामिनं रजतीठपुराधिवासं श्रीहरिं निषेव्य सेवां कृत्वा । अत्यन्तं दूरमतिदूरम् अतिदूरं न भवतीत्यनतिदूरं भवनात् स्वगृहादनतिदूरं समीपम् आप्तः प्राप्तः । प्रकर्षेण जानातीति प्रज्ञः । प्रज्ञ एव प्राज्ञः । ‘प्रज्ञादिभ्यश्चे’ति स्वार्थे अण् । स द्विजेन्द्रः । महाय उत्सवाय प्रकृत उपक्रान्तः यो दुन्दुभिनादः सः पूर्वो यस्य तस्मात् कैश्चन पुरुषैरुत्सवायोपक्रान्तदुन्दुभिनादश्रवण-पूर्वादित्यर्थः । पुत्रस्योद्भवस्य जन्मनः श्रवणान् महत् सुखमेव सौख्यम् आप्य प्राप्य परोक्षः परोक्षार्थः पदं विषयो यस्य तज् ज्ञानम् इष्टस्य सुखस्य हेतुं कारणम् अमत ज्ञातवान् । मनु अवबोधने लुङ् । स्वेष्टपदार्थस्यापरोक्षज्ञानमेव सुखसाधनमित्ययं नियमो न किंतु तस्य परोक्षज्ञानमपि सुखसाधनं भवत्येव अनुभवसिद्धत्वादिति निश्चितवानिति भावः । तथा चोक्तं भगवत्पादैः ‘अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम्’ इति ॥ २७ ॥

मन्दोपाकारिणी

नाथमिति ॥ नाथं स्वदैवतं रजतपीठपुराधिवासिनं श्रीहरिं निषेव्य आराध्य । भवनानतिदूरं भवनस्य गृहस्य अनतिदूरम् अतिदूरं न भवतीति अनतिदूरं किञ्चित् समीपम् आप्तः गतः प्राज्ञः पण्डितः मध्यगेहः । महप्रकृतदुन्दुभिनादपूर्वान् महे पुत्रजन्मोत्सवसमये प्रकृत उपक्रान्तः दुन्दुभिनादः दुन्दुभेर् भेर्या नादः ध्वनिरेव पूर्वः पूर्वभावी यस्मात् तन् महप्रकृतदुन्दुभिनादपूर्वं तस्मात् । ‘मह उद्धव उत्सवः’ इत्यमरः । पुत्रोद्भवश्रवणतः पुत्रस्य सुतस्य उद्भव उत्पत्तिस् तस्य श्रवणं तस्मादिति पुत्रोद्भवश्रवणतः । ‘जनिरुत्पत्तिरुद्धवः’ इत्यमरः । महद् बहुलं सौख्यं सुखम् आप्य अवाप्य । परोक्षपदं परोक्षो ऽप्रत्यक्षार्थः पदं विषयः यस्य तत् परोक्षपदं तादृशमपि ज्ञानम् । इष्टहेतुम् इष्टस्य सुखस्य हेतुं साधनम् अमत व्यजानत् । ‘मनु अवबोधने इत्यतो लुङात्मनेपदम् अमत अमनिष्ट अमनिषताम् अमनिषत’ । मध्यगेहभट्टः रजतपीठपुरवासिनारायणसेवां कृत्वा आगमनसमये गृहप्राप्तेः पूर्वमेव पुत्रोत्पत्तिकृतभेरीध्वनिं श्रुत्वा पश्चात् स्वस्य पुत्र उत्पन्न इति वार्तां जनमुखात् श्रुत्वा बहुसुखं लब्ध्वा अपरोक्षज्ञानमेव सुखहेतुरिति न नियमः किन्तु परोक्षज्ञानमपि सुखसाधनं भवत्येव अनुभवसिद्धत्वाद् इति निश्चितवान् इति भावः । तथोक्तं ‘अपरोक्षं परोक्षं वा ज्ञानमिष्टस्य साधनम्’ इति ॥ २७ ॥

विश्वास-प्रस्तुतिः - २८

आविश्य वेश्म निजनन्दनमिन्दुवक्त्रं भूयोऽभिनन्द्य स मुकुन्ददयां प्रवन्द्य ।
जातस्य तस्य गुणजातवहस्य जातकर्मादिकर्मनिवहं विदधे सुकर्मा ॥ २८ ॥

मूलम् - २८

आविश्य वेश्म निजनन्दनमिन्दुवक्त्रं भूयोऽभिनन्द्य स मुकुन्ददयां प्रवन्द्य ।
जातस्य तस्य गुणजातवहस्य जातकर्मादिकर्मनिवहं विदधे सुकर्मा ॥ २८ ॥

पदार्थदीपिकोद्बोधिका

आविश्येति ॥ शोभनानि कर्माणि यस्य स सुकर्मा द्विजो वेश्म गृहम् आविश्य । इन्दुवद् वक्त्रं यस्य तं सद्योजातमपीन्दुवदनं निजनन्दनमात्मपुत्रं भूयो ऽतितराम् अभिनन्द्य । मुकुन्ददयां मुकुन्दकृपां प्रवन्द्य नमस्कृत्य स्तुत्वा वा । ‘वदि अभिवादनस्तुत्योः’ । जातस्योत्पन्नस्य । गुणानां जातस्य समूहस्य वहतीति वहस्तस्य । तस्य स्वनन्दनस्य । जातस्य कर्म जातकर्म तदादि येषां तानि च तानि कर्माणि च तेषां निवहं समूहम् । ‘निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चया’ इति हलः । विदधे चक्रे । डुधाञ् धारणपोषणयोर् लिट् ॥ २८ ॥

मन्दोपाकारिणी

आविश्येति ॥ सुकर्मा शोभनकर्मा शोभनं कर्म अदृष्टं स्नानादिसत्कर्माणि वा यस्य सः सुकर्मा । सः द्विजः । वेश्म सद्म । ‘वेश्म सद्म निकेतनम्’ इत्यमरः । आविश्य प्रविश्य । इन्दुवक्त्रम् इन्दुवच् चन्द्रवद् वक्त्रं वदनं यस्य सस् तथोक्तस् तम् । ‘वक्त्रास्ये वदनं तुण्डमाननम्’ इत्यमरः । निजनन्दनं निज अत्मीयश्चासौ नन्दनश्च निजनन्दनस् तम् । ‘निजमात्मीयनित्ययोः’ इति विश्वः । भूयः भूरि अत्यन्तमिति यावत् । अभिनन्द्य अनुमोद्य । मुकुन्ददयां मुकुन्दस्य अनन्तेश्वरस्य दयां कृपां प्रवन्द्य नमस्कृत्वा स्तुत्वा वा । ‘वदि अभिवादनस्तुत्योः’ इति धातोः । जातस्य उत्पन्नस्य । गुणजातवहस्य गुणानां जातम् ओघस् तं वहति बिभर्तीति गुणजातवहस् तस्य । ‘जातं जात्योघजन्मसु’ इति विश्वः । तस्य स्वसुतस्य जातकर्मादिकर्मनिवहं षोडशसंस्कारमध्ये उत्पन्नशिशोर् आदौ क्रियमाणस्य संस्कारस्य जातकर्मेति नाम । जातकर्मैव आदिर् यस्य सः जातकर्मादिः । कर्मणां निवहः समूहः कर्मनिवहः जातकर्मादिश्चासौ कर्मनिवहश्च जातकर्मादिकर्मनिवहस् तम् । ‘समूहो निवहव्यूहसन्दोहविसरव्रजा’ इत्यमरः । विदधे चकार । डुधाञ् धारणपोषण-योरित्यतः लिडात्मनेपदं दधे दधाते दधिरे’ ॥ २८ ॥

विश्वास-प्रस्तुतिः - २९

ज्ञानार्थमेव यदभूदसुदेव एष यद्वासुदेवपदभक्तिरतः सदाऽसौ ।
तद्वासुदेवपदमन्ववदन् सुरेन्द्रास्तातेन यन्निगदितं सुतनामकर्त्रा॥२९॥

मूलम् - २९

ज्ञानार्थमेव यदभूदसुदेव एष यद्वासुदेवपदभक्तिरतः सदाऽसौ ।
तद्वासुदेवपदमन्ववदन् सुरेन्द्रास्तातेन यन्निगदितं सुतनामकर्त्रा॥२९॥

भावप्रकाशिका

वा ज्ञानम् । ‘वा गतिगन्धनयोः’ । ‘आतो मनिन् क्वनिब्वनिपश्चे’ति न्यायात्तस्येदमित्यण् । वासुदेवभक्तोऽपि वासुदेवः । आत एव वृद्धित्वात् ॥ २९ ॥

पदार्थदीपिकोद्बोधिका

ज्ञानार्थमिति ॥ सुतनाम्नः कर्त्रा पुत्रनामकृतवतेत्यर्थः । तातेन पित्रा उक्तं यद्वासुदेव इति पदं नाम सुरेन्द्रा देवश्रेष्ठा, यद् यस्माद् एष असुदेवः प्राणदेवः श्रीमुख्यवायुर् ज्ञानार्थमभूत् तस्माद् वासुदेव इति । अत्र वा इत्येतत्पदं भावे विच् प्रत्ययान्तं सज् ज्ञानवाचकम् । ‘वा गतिगन्धनयो’रिति धातोर् गत्यर्थकानां च ज्ञानार्थकत्वात् । एवं च वार्थं ज्ञानार्थं जातो ऽसुदेव वासुदेव इति मध्यमपदलोपी समासः । यद्यस्माद् असौ मुख्यप्राणः सदा वासुदेवस्य श्रीकृष्णस्य ये पदे पादौ तयोर्या भक्तिस्तस्यां रत आसक्तस्तस्माद् वासुदेवः । अस्मिंश्च पक्षे वासुदेवशब्दात् ‘तस्येद’मित्यर्थेऽण्प्रत्ययः । वासुदेवसम्बन्धित्वाद् वासुदेव इत्यर्थः । वासुदेवसम्बन्धित्वं च तद्भक्तत्वमेव । एवमर्थद्वय-परतयान्वर्थकमस्य वासुदेवनामेति भावः । वासुदेवपदमन्ववदन् अस्य पुत्रस्य वासुदेवनाम उक्तरीत्यान्वर्थत्वात्साध्वित्यन्ववदन्निति भावः । तथा चैवमन्वयः यद्यस्मादेष असुदेवः ज्ञानार्थमेवाभूद् यद्यस्मादसौ वासुदेवपदभक्तिरतस् तत्तस्मात्सुतनामकर्त्रा तातेन निगदितं यद्वासुदेवपदं तत्सुरेन्द्रा अन्ववदन्निति ॥ २९ ॥

मन्दोपाकारिणी

ज्ञानार्थमिति ॥ सुतनामकर्त्रा सुतस्य नामकरणाख्यसंस्कारं कर्त्रा कुर्वता । तातेन पित्रा । ‘तातस्तु जनकः पिता’ इत्यमरः । सुतस्य यद् वासुदेवपदं वासुदेव इति पदं नाम निगदितम् उक्तं तद् वासुदेवपदं सुरेन्द्रा देवश्रेष्ठा अन्ववदन् अस्य वासुदेव इति नाम सार्थकत्वाद् योग्यम् इति अङ्गीचक्रुः । सार्थकमेवाह ज्ञानार्थमित्यादि । एषो ऽसुदेवो ऽसूनां प्राणानाम् इन्द्रियाणां देवः स्तुत्यः । ‘पुंसि भूम््नयसवः प्राणाः’ इत्यमरः । असुदेवः मुख्यप्राणः ज्ञानार्थमेव यद् यस्मात् कारणाद् अभूद् उत्पन्नस् तस्माद् अयं वासुदेवनामा । वासुदेव इत्यत्र वा इत्येतत्पदं विच् प्रत्ययान्तं ज्ञानवाचकं ‘वा गतिगन्धनयोर् इति धातोर् वाशब्दस्य गतिवाचित्वाद् गत्यर्थधातूनां ज्ञानार्थकत्वाद् वार्थं ज्ञानार्थं जातो ऽसुदेवः वासुदेव इति मध्यमपदलोपी समास इति भावः । यद् यस्माच्च असौ वायुर् वासुदेवपदभक्तिरतः वासुदेवस्य हरेः पदयोश् चरणयोर् भक्तौ रत आसक्तस् तस्मादपि वासुदेवः । अस्मिंस्तु पक्षे वासुदेवशब्दात् तस्येदमित्यस्मिन्नर्थे अण् प्रत्ययः वासुदेवस्य अयं वासुदेव इति व्युत्पत्तिर् ज्ञेया । वासुदेवभक्तत्त्वं सम्बन्ध इति ज्ञेयम् ॥ २९ ॥

विश्वास-प्रस्तुतिः - ३०

पातुं पयांसि शिशवे किल गोप्रदोऽस्मै पूर्वालयः स्वसुतसूनुतया प्रजातः ।
निर्वाणहेतुमलभिष्ट परात्मविद्यां दानं ध्रुवं फलति पात्रगुणानुकूल्यात् ॥ ३० ॥

मूलम् - ३०

पातुं पयांसि शिशवे किल गोप्रदोऽस्मै पूर्वालयः स्वसुतसूनुतया प्रजातः ।
निर्वाणहेतुमलभिष्ट परात्मविद्यां दानं ध्रुवं फलति पात्रगुणानुकूल्यात् ॥ ३० ॥

भावप्रकाशिका

पूर्वालयस्य ‘मूडिल्लाय’ इत्यपभ्रष्टभाषा ॥ ३० ॥

पदार्थदीपिकोद्भोधिका – पातुमिति ॥ पयांसि पातुम् अस्मै शिशवे गां धेनुं प्रददातीति गोप्रदः । पूर्व आलयो यस्य सः ‘मूडिल्लाय’ इत्यपभ्रष्टसंज्ञा । स्वसुतसूनुतया जन्मान्तरे स्वपुत्रस्य सूनुत्वेन प्रजातः सन् श्रीमध्वाचार्यान्निर्वाणहेतुं मोक्षहेतुम् । ‘हेतुर्ना करणं बीजं’ इत्यमरः । परात्मनः परमात्मनो विद्यां ज्ञानम् अलभिष्ट लेभे । एतदुपपन्नमित्याह दानमिति ॥ दानं पात्रगुणानुकूल्यात् प्रतिग्रहीतृगुणानुसारात् फलति । फल निष्पत्तौ लट् । ध्रुवं निश्चितं प्रमाणसिद्धमित्यर्थः । गोप्रदानेऽस्य शिशोरुत्तम-पात्रत्वाद्गोप्रदः पूर्वालयः क्षिप्रं स्वसुतसूनुत्वेनेह प्रजातः श्रीमध्वशिष्यो भूत्वा परमात्मतत्वं ज्ञात्वा क्रमेण मुक्तोऽभूदिति भावः । अत्रार्थान्तरन्यासालङ्कारः ॥ ३० ॥

मन्दोपाकारिणी

पातुमिति ॥ शिशवे किल अर्भकाय अस्मै वासुदेवाय पयांसि दुग्धानि पातुं पानार्थं गोप्रदः गां धेनुं प्रददातीति गोप्रदः गोदाता । पूर्वालयः पूर्वालयनामकः कश्चन द्विजः । स्वसुतसूनुतया स्वस्य सुतः पुत्रस् तस्य सूनुतया पुत्रत्वेन प्रजातः सन् उत्पन्नस्सन् श्रीमध्वाचार्यान् निर्वाणहेतुं निर्वाणस्य मुक्तेर् हेतुं कारणम् । ‘मुक्तिः कैवल्यनिर्वाणश्रेयोनिश्रेयसामृतम्’ इत्यमरः । परात्मविद्यां परात्मनः परमात्मनः विद्यां तत्त्वज्ञानं ‘आत्मा यत्ने धृतिर्बुद्धिः स्वभावे परमात्मनि’ इत्यमरः । परा उत्तमा मुक्तिसाधनसमर्थेत्यर्थः । परा च सा आत्मविद्या च परात्मविद्या तामिति वा । अलभिष्ट लब्धवान् । ‘डु लभष् प्राप्तावित्यतो लुङ् आत्मनेपदम् अलभिष्ट अलभिषाताम् अलभिषत’ । अल्पदानेन बहुपुरुषार्थप्राप्तिफलं समर्थयते दानमिति । दानं यत्किञ्चिद् वस्तुदानम् । पात्रगुणानुकूल्यात् प्रतिगृहीतुर् गुणानुसारात् फलति फलजनकं भवति इत्येवं ध्रुवं निश्चितम् । ‘फल निष्पत्तावित्यतो लट् परस्मैपदम्’ । अत्र गोदाने शिशोर् उत्तमपात्रत्वाद् गोप्रदः पूर्वालयः मृत्वा क्षिप्रं स्वपुत्रपुत्रत्वेन जातस्सन् श्रीमध्वशिष्यो भूत्वा परमात्मतत्त्वं ज्ञात्वा क्रमेण मुक्तोऽभूद् इति भावः ॥ ३० ॥

विश्वास-प्रस्तुतिः - ३१

अत्रस्तमेव सततं परिफुल्लचक्षुः कान्त्या विडम्बितनवेन्दु जगत्यनर्घ्यम् ।
तत्पुत्ररत्नमुपगृह्य कदाचिदाप्तः स्वस्वामिने बुध उपायनमार्पयत्सः ॥ ३१ ॥

मूलम् - ३१

अत्रस्तमेव सततं परिफुल्लचक्षुः कान्त्या विडम्बितनवेन्दु जगत्यनर्घ्यम् ।
तत्पुत्ररत्नमुपगृह्य कदाचिदाप्तः स्वस्वामिने बुध उपायनमार्पयत्सः ॥ ३१ ॥

भावप्रकाशिका

अत्रस्तम् अभयम् अदुष्टम् । ‘मणिदोषस्त्रास’ इति च ॥ ३१ ॥

पदार्थदीपिकोद्बोधिका

अत्रस्तमिति ॥ बुधो ज्ञानी स द्विजेन्द्रः सततं त्रस्तो न भवतीत्यत्रस्तस्तम् । परिफुल्ले विकसिते चक्षुषी यस्य तत् । कान्त्या प्रतिदिनं वर्धमानया स्वरूपकान्त्या विडम्बितोऽनुकृतः नवेन्दुः शुक्लपक्षोदितचन्द्रो येन तत् । जगति न विद्यते अर्घो मूल्यं यस्य तद् असदृशमिति भावः । एवंभूतं पुत्ररत्नम् उपगृह्य आदाय कदाचिद् आप्तः रजतपीठवासं स्वनाथं प्राप्तस् तस्मै स्वस्वामिने तत् पुत्ररत्नम् उपायनम् आर्पयत् समर्पयामास । ऋ गतौ लङ् । ‘अर्तिह्री’ इत्यादिना णिजन्तात् पुगागमः । यथा कश्चिद् अत्रस्तं त्रासाख्यमणिदोषरहितं ‘मणिदोषे भये त्रास’ इति वैजयन्ती । परिफुल्लचक्षुर् मलापनयनादिना संस्कारेण परिफुल्लछिद्रं जगति मूल्यरहितं कान्त्या विडम्बितचन्द्रं रत्नं स्वस्वामिने समर्पयेत् तद्वदिति श्लेषाभिप्रायः ॥ ३१ ॥

मन्दोपाकारिणी

अत्रस्तमिति ॥ बुधः ज्ञानी सः द्विजः सततम् अनारतम् अत्रस्तमेव त्रासः भयं ‘दरत्रासो भीतिर्भीः साध्वसं भयम्’ इत्यमरस् तद्रहितमेव । परिफुल्लचक्षुः परिफुल्ले विकसिते चक्षुषी अक्षिणी यस्य तत् । कान्त्या शरीरकान्त्या विडम्बितनवेन्दु नवः नूतन उद्यन्निति यावद् इन्दुश् चन्द्रः नवश्चासौ इन्दुश्च नवेन्दुः । विडम्बितो ऽनुकृतः नवेन्दुर् येन तत् तथोक्तम् उद्यच्चन्द्रसदृशकान्तियुक्तमित्यर्थः । जगति अनर्घ्यं न विद्यते अर्घः मौल्यं यस्य तद् अनर्घ्यम् असदृशमिति भावः । एवंभूतं पुत्ररत्नं पुत्र एव रत्नं मणिस् तद् उपगृह्य आदाय कदाचित् कस्मिंश्चित् शुभदिने रजतपीठपुरवासिनं स्वस्वामिनम् आप्तः प्राप्तस्सन् । स्वस्वामिने स्वस्य आत्मनः स्वामिने नाथाय अनन्तेश्वराय तत् पुत्ररत्नम् उपायनम् उपहारम् अर्पयद् अर्पयामास । ऋ गतिप्रापणयोर् इत्यतो लङ् परस्मैपदम् । ‘उपायनमुपग्राह्य-मुपहारस्तथोपदा’ इत्यमरः । यथा कश्चित् पुरुषो ऽत्रस्तं त्रासो नाम मणिदोषः । ‘त्रासस्तु मणिदोषः स्यात्’ इत्यमरः । तद्रहितं परिफुल्लचक्षुर् मलापनयनादिसंस्कारेण व्यक्तप्रकाशम् । अत्र चक्षुःशब्दः प्रकाशवाची । जगति अनर्घ्यं मौल्यरहितं स्वकान्त्या उद्यच्चन्द्रसदृशं रत्नं पद्मरागमणिं स्वामिने उपायनम् अर्पयेत् तद्वदिति श्लेषाभिप्रायः ॥ ३१ ॥

विश्वास-प्रस्तुतिः - ३२

नत्वा हरिं रजतपीठपुराधिवासं बालस्य सम्पदमनापदमर्थयित्वा ।
साकं सुतेन परिवारजनान्वितोऽसौ प्रायान्निशीथसमये निजमेव धाम॥३२॥

मूलम् - ३२

नत्वा हरिं रजतपीठपुराधिवासं बालस्य सम्पदमनापदमर्थयित्वा ।
साकं सुतेन परिवारजनान्वितोऽसौ प्रायान्निशीथसमये निजमेव धाम॥३२॥

पदार्थदीपिकोद्बोधिका

नत्वेति ॥ असौ द्विजेन्द्रः रजतपीठपुरम् आलय आवासो यस्य तं, तं पतिं नाथं नत्वा बालस्य स्वशिशोः । न विद्यते आपद् अनिष्टं यस्यास्तां सम्पदं श्रेयो ऽर्थयित्वा सम्प्रार्थ्य सुतेन साकं परिवारा ये जना शिष्यजनास्तैरन्वितो युक्तः सन् निशीथश्चासौ समयश्च तस्मिन् अर्धरात्रकाल एवेत्यर्थः । निजं स्वकीयं धाम गृहं प्रायात् । या प्रापणे लङ् ॥ ३२ ॥

मन्दोपाकारिणी

नत्वेति ॥ असौ मध्यगेहः । रजतपीठपुराधिवासं रजतपीठपुरे अधिवासो यस्य सस् तथोक्तस् तम् । हरिं स्वामिनम् अनन्तेश्वरं नत्वा । बालस्य शिशोर् अनापदं न विद्यते आपद् विपद् यस्यां सा अनापत् ताम् आपत्सम्बन्धरहिताम् इति यावत् । सम्पदं श्रेयो ऽर्थयित्वा प्रार्थयित्वा । सुतेन बालकेन साकं सह परिवारजनान्वितः परिवाराः परितो विद्यमानाश्च ते जनाश्च परिवारजनास् तैर् अन्वितः युक्तः सन् । निशीथसमये निशीथो ऽर्धरात्रश्चासौ समयः कालश्च निशीथसमयस् तस्मिन् । ‘अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ’ इत्यमरः । ‘कालोदिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः’ इत्यमरः । अर्धरात्रकाल एवेत्यर्थः । निजमेव स्वकीयमेव धाम गृहम् । ‘धाम देहे गृहे रश्मौ’ इति विश्वः । प्रायाज् जगाम । ‘या प्रापण इत्यतो लङ् परस्मैपदम् अयाद् अयाताम् अयान् अयुः’ ॥ ३२ ॥

विश्वास-प्रस्तुतिः - ३३

दोषेयुषां सममनेन वनेऽतिभीमे तत्क्रीडितग्रह इहैकतमं तुतोद ।
उद्वान्तरक्तमवलोक्य तमभ्यधायि केनाप्यहो न शिशुतुत्कथमेष इत्थम्॥३३॥

मूलम् - ३३

दोषेयुषां सममनेन वनेऽतिभीमे तत्क्रीडितग्रह इहैकतमं तुतोद ।
उद्वान्तरक्तमवलोक्य तमभ्यधायि केनाप्यहो न शिशुतुत्कथमेष इत्थम्॥३३॥

पदार्थदीपिकोद्बोधिका

दोषेति ॥ अनेन बालेन समं दोषा रात्रौ ‘दोषा’ इति रात्रिवाचकमव्ययम् । अतिभीमेऽत्यन्तभयङ्करे वने ईयुषां गच्छतां सतां क्रीडां कर्तुमुपक्रान्तः क्रीडितः । ‘कर्तरि च’ इति कर्तरि क्तः । तस्मिन् वने क्रीडितस्तत्क्रीडितः स चासौ ग्रहो भूतविशेष इह एषां मध्ये एकतमं तुतोद बबाधे । तुद व्यथने लिट् । केनापि केनचित्पुरुषेण उद्वान्तं छर्दितं रक्तं येन तं, तं ग्रहपीडितं पुरुषम् अवलोक्य एष ग्रहः कथं केन प्रकारेण तुदति बाधत इति तुत् शिशोस्तुत् शिशुबाधक इत्यर्थः नाभूद् अहो आश्चर्यम् । इत्थम् अभ्यधायि प्रोक्तम् । डु धाञ् धारणपोषणयोर्लुङ् ॥ ३३ ॥

मन्दोपाकारिणी

दोषेति ॥ अनेन बालेन समं साकं दोषा रात्रौ । ‘दोषा रात्रिमुखे रात्रौ इति विश्वः । दोषा इत्येतद् रात्रिवाचकमव्ययम् । अतिभीमे अत्यन्त भयङ्करे । ‘घोरं भीमं भयानकं’ इत्यमरः । वने अरण्ये ईयुषां गच्छतां सतां तत्क्रीडितग्रहस् तस्मिन्नेव वने क्रीडितः कर्तरि निष्ठा क्रीडां कुर्वन् ग्रहः कश्चित् पिशाचविशेषः । इह एषां मध्ये एकतमं यंकञ्चन पुरुषं तुतोद बबाधे । ‘तुद व्यथने इत्यतो लिट् परस्मैपदं तुतोद तुतुदतुस् तुतुदुः’ । केनापि तत्र केनचित्पुरुषेण उद्वान्तरक्तम् उद्वान्तं मुखाद् बहिर् निसृतं रक्तं रुधिरं यस्य स उद्वान्तरक्तस् तम् । ‘रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितं’ इत्यमरः । तं ग्रहपीडितं पुरुषम् अवलोक्य दृष्ट्वा एषः ग्रहः शिशुतुत् शिशुं बालकं तुदति पीडयति इति शिशुतुत् कथं नाभूद् अहो एतदाश्चर्यम् इत्थम् एवम् अभ्यधायि उक्तम् । ‘डु धाञ् धारणपोषणयोरिति धातोर्भावे लुङ् आत्मनेपदं’ इदं प्रथमपुरुषैकवचनमेव भावस्यैकत्वात् ॥ ३३ ॥

विश्वास-प्रस्तुतिः - ३४

आविश्य पूरुषमुवाच महाग्रहोऽसौ अस्मद्विहारसमयोपगतान् समस्तान् ।
यच्छक्तिगुप्तिरहितानलमस्मि हन्तुं लोकेश्वरः स बत बालतमः किलेति॥३४॥

मूलम् - ३४

आविश्य पूरुषमुवाच महाग्रहोऽसौ अस्मद्विहारसमयोपगतान् समस्तान् ।
यच्छक्तिगुप्तिरहितानलमस्मि हन्तुं लोकेश्वरः स बत बालतमः किलेति॥३४॥

पदार्थदीपिकोद्बोधिका

आविश्येति ॥ असौ महाग्रहः पूरुषमुद्वमद्रक्तं तमेव आविष्य, अस्माकं विहारः क्रीडा तस्याः समये काले उपगतान् अस्मत्समीपमागतान् यस्य श्रीमुख्यवायोः शक्तिः सामर्थ्यं तया गुप्ती रक्षा तया रहितान् समस्तान् हन्तुमलं समर्थोऽस्मि । ‘अलं भूषणपर्याप्तिशक्तिवारणवाचकम्’ इत्यमरः । स लोकेश्वरो वायुर् बालतमः किल शिशुतमः किल । बत विस्मये । अहो एनं लोकेशमयं बालतम इत्याहेति विस्मय इत्युवाच ॥ ३४ ॥

मन्दोपाकारिणी

आविश्येति ॥ असौ महाग्रहः महांश्चासौ ग्रहश्च महाग्रहः । पूरुषम् उद्वान्तरक्तमेव पुरुषम् आविश्य इत्युवाच । कथम् अस्मद्विहारसमयोपगतान् अस्माकं विहारस्य क्रीडायाः समये काले उप समीपं गतान् प्राप्तान् समस्तान् । यच्छक्तिगुप्तिरहितान् यस्य मुख्यवायोः शक्त्या सामर्थ्येन गुप्त्या रक्षणेन रहितान् हीनान् ‘यस्य शक्तिर् यच्छक्त्या गुप्तिस् तया रहितान्’ इति विग्रहः । युष्मान् हन्तुं संहर्तुम् अलं समर्थो ऽस्मि भवामि । ‘अस भुवीत्यतो लट् परस्मैपदम् अस्मि स्वः स्मः’ । ‘अलं भूषणपर्याप्तिशक्तिवारणवाचकम्’ इत्यमरः । स बालतमः लोकेश्वरः किल लोकानाम् ईश्वरः नियामको वायुर्हि बत आश्चर्यं नायं प्राकृतशिशुवद् बालकः किन्तु लोकेश्वरो वायुः । अतस् तेन रक्षिता यूयं सर्वे जीविताः । अन्यथा सर्वान् वः हन्तुम् अहं समर्थोऽस्मि । अतस् तस्य पीडा कथं नाभूद् इति आश्चर्यं न कर्तव्यम् इति भावः ॥ ३४ ॥

विश्वास-प्रस्तुतिः - ३५

स्तन्येन बालमनुतोष्य मुहुः स्वधाम्नो माता कदाचन ययौ विरहासहाऽपि ।
विश्वस्य विश्वपरिपालकपालनाय कन्यां निजामनुगुणां किल भीरुरेषा ॥३५॥

मूलम् - ३५

स्तन्येन बालमनुतोष्य मुहुः स्वधाम्नो माता कदाचन ययौ विरहासहाऽपि ।
विश्वस्य विश्वपरिपालकपालनाय कन्यां निजामनुगुणां किल भीरुरेषा ॥३५॥

पदार्थदीपिकोद्बोधिका

स्तन्येनेति ॥ भीरुर्भयशीलैषा माता कदाचन बालं स्तन्येन स्तनक्षीरेण मुहुर् अनुतोष्य सन्तोष्य विरहं वियोगं न सहत इति विरहासहापि स्वस्य धाम्नो गृहाद् विश्वस्य जगतः परिपालकस्य रक्षकस्य स्वशिशोः परिपालनाय रक्षणाय अनुगुणां वशवर्तिनीं निजां स्वकीयां कन्यां विश्वस्य रक्षणे विश्वासं कृत्वा, अन्यत्र ययौ किल । किल ऐतिह्ये । इयमिमं बालकं रक्षितुं समर्थेति स्वमनसा विश्वासं कृत्वा बालं परिपालयेत्युक्त्वा कार्यविशेषवशात्स्वमन्दिरादन्यत्र जगामेति भावः ॥ ३५ ॥

मन्दोपाकारिणी

स्तन्येनेति ॥ भीरुर् भयशीला एषा माता । कदाचन कस्मिंश्चिद्दिवसे बालं बालकं स्तन्येन स्तनगतक्षीरेण मुहुर् भृशं तृप्तिर्यथा तथेति भावः । ‘पौनः पुन्ये भृशार्थे च सद्योऽर्थेऽपि मुहुः पदम्’ इत्यमरः । अनुतोष्य सन्तोषयित्वा । विरहासहापि विरहं वियोगं न सहत इति विरहासहा पुत्रवियोगं सोढुमशक्ता इत्यर्थः । स्वधाम्नः स्वकीयं च तद् धाम मन्दिरं च स्वधाम तस्मात् । अन्यत्र कार्यधीर् ययौ किल जगाम हि । किं कृत्वा, विश्वपरिपालकपालनाय विश्वस्य सर्वलोकस्य परिपालकस्य रक्षकस्य पालनाय संरक्षणार्थम् अनुगुणां वशवर्तिनीं निजां स्वकीयां कन्यां पुत्रीं विश्वस्य, हे कन्ये त्वं बालं परिपालय तुभ्यम् अपूर्वदृष्टं वस्तु प्रदास्यामि इति प्रत्याययित्वा निधाय इति भावः । किल इत्यनेन बालस्य विश्वपरिपालकत्वरूपमाहात्म्यं न जानातीति सूच्यते ॥ ३५ ॥

विश्वास-प्रस्तुतिः - ३६

सा बालकं प्ररुदितं परिसान्त्वयन्ती मुग्धाक्षरेण वचसाऽनुनिनाय मुग्धा ।
मा तात तात सुमुखेति पुनः प्ररोदीर्माता तनोति रुचितं त्वरितं तवेति ॥३६॥

मूलम् - ३६

सा बालकं प्ररुदितं परिसान्त्वयन्ती मुग्धाक्षरेण वचसाऽनुनिनाय मुग्धा ।
मा तात तात सुमुखेति पुनः प्ररोदीर्माता तनोति रुचितं त्वरितं तवेति ॥३६॥

भावप्रकाशिका

प्ररुदितं प्ररोदनं ‘आदिकर्मणि क्तः कर्तरि च’ इति ॥ ३६ ॥

पदार्थदीपिकोद्बोधिका

सेति ॥ मुग्धा रम्या सा कन्या ‘मुग्धो मूढे च रम्ये च’ इति हेमचन्द्रः । प्ररुदितं प्रकर्षेण सञ्जातो रोदोऽस्येति तं बालकं परिसान्त्वयन्ती बहुभिरुपायैः सामवचनैश्च रोदं शमयन्ती सती हे तात तात जनक ‘तातोऽनुकम्पे पितरि’ इति हेमचन्द्रः । सु शोभनं मुखं यस्य तत्सम्बुद्धिः । एवं पुनर्मारोदीः । रुदिर् अश्रुविमोचने लुङ् । माता त्वरितं क्षिप्रं यथा भवति तथा तव रुचितम् आकाङ्क्षितं स्तन्यदानं, कदलीफलदानं वा, तनोति करोति इति मुग्धानि मनोहराणि अक्षराणि यस्मिन् तेन वचसा वाक्येन अव्यक्तमधुराक्षरेण वचसेत्यर्थः । अनुनिनाय अनुनिन्ये । नीञ् प्रापणे लिट् ॥ ३६ ॥

मन्दोपाकारिणी

सेति ॥ मुग्धा मूढा अधृष्टेति यावत् । सा कन्या प्ररुदितं प्रकर्षेण रोदनं कुर्वन्तं बालकं बालं परिसान्त्वयन्ती बहुभिरुपायैः सामवचनेन रोदनं शमयन्ती । मुग्धाक्षरेण अव्यक्तवर्णेन । ‘अक्षरं स्यादापवर्गे परमब्रह्मवर्णयोः’ इति विश्वः । वचसा वाक्येन अनुनिनाय यत्किञ्चित् समाधानमकरोत् । ‘नी प्रापणे इत्यतो लिट् परस्मैपदं निनाय निन्यतुर् निन्युः’ । कथं हे तात हे तात वत्स, वत्स, हे सुमुख माता अम्बा त्वरितं शीघ्रम् । ‘जवोऽथ शीघ्रं त्वरितं’ इत्यमरः । तव तुभ्यं रुचिरं प्रियं फलादिकं पुनः यथेष्टम् । अव्ययानाम् अनेकार्थत्वात् । तनोति आनयति । ‘तनु विस्तारे इत्यतो लट् परस्मैपदं तनोति तनुतस् तन्वन्ति’ । इतिशब्दो हेतौ इति एतस्मात् हेतोः । मा प्ररोदीः रोदनं मा कुरु । ‘रुदिर् अश्रुविमोचने इत्यस्माल्लुङ् परस्मैपदं प्ररोदीः प्ररोदिष्टं प्ररोदिष्ट’ । न माङ् योगे इत्यडभावः । इतिशब्दः प्रकारार्थकः । इति एवं प्रकारेण वचसेत्यन्वयः ‘इति हेतुप्रकरणप्रकारादिसमाप्तिषु’ इत्यमरः ॥ ३६ ॥

विश्वास-प्रस्तुतिः - ३७

रोदे क्रियासमभिहारत एव वृत्ते पोतस्य मातरि चिरादपि नागतायाम् ।
जग्राह बालमथ चैक्षत मातृमार्गं साऽपि क्रियासमभिहारत एव बाला ॥३७॥

मूलम् - ३७

रोदे क्रियासमभिहारत एव वृत्ते पोतस्य मातरि चिरादपि नागतायाम् ।
जग्राह बालमथ चैक्षत मातृमार्गं साऽपि क्रियासमभिहारत एव बाला ॥३७॥

भावप्रकाशिका

पौनःपुन्यं भृशार्थो वा क्रियासमभिहारः ॥ ३७ ॥

पदार्थदीपिकोद्बोधिका

रोद इति ॥ पोतस्य बालकस्य रोदे रोदने क्रियासमभिहारत आवृत्ते, पुनः पुनरेवेत्यर्थः वृत्ते प्रवृत्ते सति मातर्यपि जनन्यामपि चिराद्दीर्घकालात् ‘दीर्घकाले चिराच्चिरं’ इति वैजयन्ती । न आगता नागता तस्यां नैकधेत्यादिवन्न समासोऽयम् अनागतायां सत्यामित्यर्थः । बाला सा कन्यापि रुदन्तं बालं जग्राह इतस्ततः लोटनं यथा न कुर्यात्तथा गृहीतवती । अथ च तदनन्तरं च मातृमार्गं मातुरागमनमार्गं क्रियासमभिहारत एव पुनःपुनरेव कदा नु आयास्यतीत्यैक्षत । ईक्ष दर्शने लङ् ॥ ३७ ॥

मन्दोपाकारिणी

रोद इति ॥ पोतस्य शिशोः । ‘पोतः पाकोऽर्भको डिम्भः पृथकः शावकः शिशुः’ इत्यमरः । रोदे रोदने क्रियासमभिहारत एव पुनःपुनो ऽतितरां वृत्ते प्रवृत्ते सति । मातर्यपि जनन्यामपि चिराद् बहुकालादपि नागतायाम् । नञ् समासोयं न आगता नागता तस्यां न आगतायाम् अप्राप्तायां सत्यां बाला सा कन्या इतस्ततो भूमौ लुठन्तं बालम् अर्भकं जग्राह हस्ताभ्याम् उपादाय कटिस्थले आरोपयामास इत्यर्थः । ‘ग्रह उपादाने इत्यस्माद्धातोर् लिट् परस्मैपदं जग्राह जगृहतुर् जगृहुः’ । अथ अनन्तरं मातृमार्गं मातुर् आगमनमार्गं क्रियासमभिहारत एव पुनः पुनरेव ऐक्षत प्रतीक्षाञ्चक्रे । ईक्ष दर्शनालोक-नयोरित्यतो लङात्मनेपदम् ऐक्षत ऐक्षेताम् ऐक्षन्त’ इति रूपम् । ‘मातरि बहुकालेऽपि अनागतायां सत्यां पुनो ऽत्यन्तं रुदन्तं बालं हस्ताभ्याम् आदाय कटौ आरोप्य स्वयमपि कन्या पुनः पुनः गृहाद् बहिर् गमनागमनेन मातुर्मार्गं प्रत्यैक्षत’ इति भावः । धातोरेकाचो हलादेः क्रियासमभिहारे यङ् इत्येतत्सूत्रे क्रियासमभिहारपदस्य पौनःपुन्याद्यर्थत्वेन व्याख्यानाद् अत्रापि तथैव व्याख्यानं कृतम् ॥ ३७ ॥

विश्वास-प्रस्तुतिः - ३८

कर्तव्यमौढ्यमभिपद्य निरूप्य सा तं प्राभोजयत् खलु कुलत्थकुलं प्रपक्वम् ।
शीतं पयोऽपि सततं परिपाययन्ती यस्योष्णरोगमतिवेलमशङ्कताम्बा ॥ ३८॥

मूलम् - ३८

कर्तव्यमौढ्यमभिपद्य निरूप्य सा तं प्राभोजयत् खलु कुलत्थकुलं प्रपक्वम् ।
शीतं पयोऽपि सततं परिपाययन्ती यस्योष्णरोगमतिवेलमशङ्कताम्बा ॥ ३८॥

पदार्थदीपिकोद्बोधिका

कर्तव्येति ॥ सा कन्या कर्तुं योग्यं कर्तव्यं तस्मिन् मौढ्यमज्ञत्वं कर्तव्यकर्मविषये मूढत्वमित्यर्थः । अभिपद्य प्राप्य, तथापि क्रमेण निरूप्य किमत्र कार्यमिति विचार्य पयोऽपि क्षीरमपि सततं शीतं शीतलं परिपाययन्ती अम्बा बालस्य माता यस्य बालस्य अतिवेलमतितराम् उष्णरोगम् उष्णनिमित्तकरोगम् अशङ्कत । शकि शङ्कायां लङ् । तं बालं प्रपक्वं सम्यक् पक्वं कुलत्थकुलं कुलत्थाख्यधान्यसमूहं प्राभोजयद् भोजयामास । भुज पालनाभ्यवहारयोर्लङ् । खल्विति वाक्यालङ्कारे । ‘निषेधवाक्यालङ्कार-जिज्ञासानुनये खलु’ इत्यमरः । माता यस्योष्णरोगशङ्कया क्षीरमपि शीतलं पाययति तस्मै शिशवेऽत्युष्णं कुलत्थं भक्षितुमदादिति भावः ॥ ३८ ॥

मन्दोपाकारिणी

कर्तव्येति ॥ सा कन्या । कर्तव्यमौढ््यं कर्तुं योग्यं कर्तव्यं तस्मिन् विषये मौढ््यं मूढत्वम् अज्ञत्वम् अभिपद्य प्राप्य रुदतः बालकस्य समाधानप्रकारम् अज्ञात्वेत्यर्थः । निरूप्य किमत्र कुर्यामिति विचार्य तं बालं प्रपक्वं सम्यक् पक्वम् अग्निसम्बन्धेन मृदुभूतम् अत्युष्णं कुलत्थकुलं कुलत्थस्य धान्यविशेषस्य कुलं समूहं प्राभोजयत्खलु आस्वादयत् हि । ‘भुज परिपालनाभ्यवहारयोरित्यस्माल्लङ् परस्मैपदं’ तं बालकम् अम्बा जननी । ‘अम्बा माताथ बाला स्यात्’ इत्यमरः । यस्य बालकस्य अतिवेलं भृशम् । ‘अतिवेलभृशात्यर्थे’ इत्यमरः । उष्णरोगम् उष्णश्चासौ रोगश्च उष्णरोगस् तम् अशङ्कत शङ्कितवती । ‘शकि शङ्कायामित्यस्माल्लङात्मनेपदं’ अशङ्कत अशङ्केताम् अशङ्कन्त’ । अत एव सततं नित्यं पयोऽपि दुग्धमपि शीतं शीतलम् । ‘तुषारः शीतलः शीतो हिमः’ इत्यमरः । परिपाययन्ती बभूव इति अध्याहारः । माता यस्य शिशोर् उष्णरोगः स्याद् इति भयेन क्षीरमपि शीतलमेव परिपाययन्ती तस्मै शिशवे पशुनिमित्तं पाकार्थम् अग्न्युपस्थापितं सम्यक् मृदुभूतम् अत्युष्णं कुलत्थं भगिनी भक्षितुम् अदाद् इति भावः ॥ ३८ ॥

विश्वास-प्रस्तुतिः - ३९

नूनं पिपासुरतिरोदिति हन्त बालो धिङ् मां दयाविरहितां परकृत्यसक्ताम् ।
इत्याकुला गृहमुपेत्य तदा प्रसन्नं पूर्णोदरं सुतमवैक्षत विप्रपत्नी ॥ ३९ ॥

मूलम् - ३९

नूनं पिपासुरतिरोदिति हन्त बालो धिङ् मां दयाविरहितां परकृत्यसक्ताम् ।
इत्याकुला गृहमुपेत्य तदा प्रसन्नं पूर्णोदरं सुतमवैक्षत विप्रपत्नी ॥ ३९ ॥

पदार्थदीपिकोद्बोधिका

नूनमिति ॥ तदा विप्रपत्नी ब्राह्मणभार्या । बालः पिपासुः स्तनक्षीरं पातुमिच्छन् अतिरोदिति अतितरां रोदिति नूनं हन्त हन्तेत्येतदनुकम्पायां, विषादे वा, दयाविरहितां बालके दयारहितां परं बालपोषणादन्यद्यत्कृत्यं कार्यं तस्मिन् सक्ताम् आसक्तां मां धिक् इत्याकुला सम्भ्रान्ता सती गृहं सद्म उपेत्य, प्रसन्नं रोदनादिकं परित्यज्य प्रसन्नमुखं पूर्णं कुलत्थधान्यभक्षणेन परिपूर्णमुदरं यस्य तं सुतम् अवैक्षत ददर्श । ईक्ष दर्शनाङ्कनयोर्लङ् ॥ ३९ ॥

मन्दोपाकारिणी

नूनमिति ॥ तदा तस्मिन्काले विप्रपत्नी विप्रस्य ब्राह्मणस्य पत्नी भार्या । इति इत्थम् आकुला सम्भ्रान्ता सती गृहं स्वभवनम् उपेत्य प्राप्य प्रसन्नं सन्तुष्टं पूर्णोदरं पूर्ण उदरः जठरः यस्य स तथोक्तस् तं सुतम् अवैक्षत अपश्यत् । किम् इत्याकुला, बालः नूनं निश्चयेन पिपासुः स्तनक्षीरं पातुमिच्छन् अतिरोदिति अतिशयेन रोदनं करोति । दयाविरहितां दयया कृपया विरहितां हीनां परकृत्यसक्तां परेषां जनानां कृत्ये कार्ये प्रयोजने सक्तां रतां मां धिक् जनः धिक्करोतु भर्त्सयतु निन्दयतु ‘धिग्भर्सननिन्दयोः’ इत्यमरः । इत्येवंप्रकारेण अनुकम्पया आकुला सतीत्यन्वयः । हन्त । ‘हन्त हर्षेऽनुकम्पायाम्’ इत्यमरः ॥ ३९ ॥

विश्वास-प्रस्तुतिः - ४०

पृष्ट्वाऽवगम्य सकलं च ततः प्रवृत्तं यूनां च दुःसहमिदं शिशुनोपभुक्तम् ।
इत्थं विचिन्त्य तनयां बहु भर्त्सयन्त्या भीतं तयोत कुपितं मनसाऽनुतप्तम् ॥ ४० ॥

मूलम् - ४०

पृष्ट्वाऽवगम्य सकलं च ततः प्रवृत्तं यूनां च दुःसहमिदं शिशुनोपभुक्तम् ।
इत्थं विचिन्त्य तनयां बहु भर्त्सयन्त्या भीतं तयोत कुपितं मनसाऽनुतप्तम् ॥ ४० ॥

पदार्थदीपिकोद्बोधिका

पृष्ट्वेति ॥ ततः स्वमन्दिरगमनानन्तरं पृष्ट्वा, किमित्ययं बालः पूर्णोदरो वर्तते, किं त्वया दत्तमिति विचार्य, तद्वचनात्प्रवृत्तं सकलमवगम्य कुलत्थधान्यभक्षणेनोदरपूर्तिं ज्ञात्वा शिशुनोपभुक्तं भक्षितमिदं यूनाञ्च यौवनवयस्कानामपि दुःसहं सोढुमशक्यं जीर्णीकर्तुमशक्यमित्यर्थः । इत्थम् इति विचिन्त्य तनयां स्वपुत्रीं बहु अतितरां भर्त्सयन्त्या तया मात्रा भीतं तनयस्य क्षेमापायभयं प्राप्तम् । कुपितमुत तनयां प्रति कोपश्च कृतः, मनसानुतप्तम् मदुपेक्षया खल्वेवमभूदिति पश्चात्तापश्च कृतः ॥ ४० ॥

मन्दोपाकारिणी

पृष्ट्वेति ॥ ततः सन्तुष्टसुतदर्शनानन्तरम् । पृष्ट्वा अयं बालः किमिति पूर्णोदरो वर्तते, किं त्वया दत्त इति कन्यां प्रति प्रश्नं कृत्वा । ततः कन्यावचनात् प्रवृत्तं जातं सकलं रोदनं कुलित्थकुलेन उदरपूर्तिं च अवगम्य ज्ञात्वा । शिशुना बालकेन उपभुक्तं भक्षितम् इदं कुलत्थकुलं यूनां च तरुणानामपि । ‘वयस्यस्तरुणो युवा’ इत्यमरः । दुःसहं जीर्णं कर्तुम् अशक्यं हि । इत्थं विचिन्त्य मनसा आलोच्य । तनयां स्वपुत्रीं बहु अतिशयेन भर्त्सयन्त्या अतिनिष्ठुरवचनं वदन्त्या तया मात्रा भीतं तनयस्य अपायभयम् आशङ्कितम् । कुपितम् उत तनयां प्रति कोपश्च कृतः । मनसा अन्तःकरणेन । अनुतप्तं मदुपेक्षया हि एवम् अभूद् इति पश्चात्तापश्च कृतः ॥ ४० ॥

विश्वास-प्रस्तुतिः - ४१

आरोग्यशालिनि तदाऽपि पुरेव पुत्रे विस्मेरतामुपजगाम जनन्यमुष्य ।
यस्य त्रिलोकजननी जननी विषेऽपि पीते न विस्मयमवाप समस्तशक्तेः॥४१॥

मूलम् - ४१

आरोग्यशालिनि तदाऽपि पुरेव पुत्रे विस्मेरतामुपजगाम जनन्यमुष्य ।
यस्य त्रिलोकजननी जननी विषेऽपि पीते न विस्मयमवाप समस्तशक्तेः॥४१॥

भावप्रकाशिका

विषे पीते । वायुरस्मा उपामन्थत् पिनिष्टि स्म कुनन्नमा । केशी विषस्य पात्रेण यद्रुद्रेणापिबत्सह ॥ – इति श्रुतिः ।

पदार्थदीपिकोद्बोधिका

आरोग्येति ॥ पुत्रे तदापि कुलत्थकुले भक्षितेऽपि पुरेव कुलत्थभक्षणात्प्रागिव आरोग्येण शालते शोभत इति तादृशस्तस्मिन् शरीरारोग्यवति सतीत्यर्थः । अमुष्य बालकस्य जननी माता विस्मेरतां विस्मययुक्तताम् उपजगाम, अस्य महिमानमविदित्वा विस्मयं जगाम । बालस्य तु नैतच्चित्रमिति भावः । तथा हि त्र्यवयवो लोकस्त्रिलोकस्तस्य जननी माता सती, समस्ता सर्वविषयिणी शक्तिः सामर्थ्यं यस्य तस्य, यस्य मुख्यवायोर् जननी माता महालक्ष्मीः । विषे देवासुरैरमृतमथनकालोत्पन्नकालकूटविषे वायुना पीतेऽपि विस्मयमाश्चर्यं ‘विस्मयोऽद्भुतमाश्चर्यं’ इत्यमरः नावाप न प्राप्तवती । पूर्वं वायुना विषे पीतेऽपि मुख्यवायोर् माता श्रीदेवी विस्मयं न अवाप । एवं विषं पीतवतस्तस्य कुलत्थभक्षणेन किमनिष्टं भवेत्? न किमपि । तदविदित्वा मध्यगेहभट्टभार्या विस्मेरतामवापेति भावः । ननु त्रिलोकेत्यत्र न तावद्विशेषणसमासः । ‘दिक्संख्ये संज्ञायाम्’ इति नियमात् त्रिलोकशब्दस्य सप्तर्ष्यादिशब्दवदसञ्ज्ञात्वात् । नापि समाहारद्विगुः ‘द्विगो’रिति ङीप् प्रसङ्गात् । न च पात्रादित्वं कल्प्यं त्रिलोक्या बहिरुल्लसन्तीत्यादि-विरोधात् । न चोत्तरपदसमासस् त्रिपदतत्पुरुषस्येह दुर्लभत्वादिति चेन्न, लोकशब्दोऽत्र लोकसमुदायपरस् त्र्यवयवो लोकस्त्रिलोकः शाकपार्थिवादित्वादुत्तरपदलोपः । त्रिलोकस्य जननी त्रिलोकजननीत्युपपन्नत्वात् ॥ ४१ ॥

मन्दोपाकारिणी

आरोग्येति ॥ पुत्रे तदापि कुलत्थकुलभक्षणानन्तरकालेऽपि । पुरेव कुलत्थकुलभक्षणात्पूर्ववदेव आरोग्यशालिनि आरोग्येण शरीरे उदरशूलादि-विकारानुदयेन शालिनि स्वेच्छया शोभमाने सति । अमुष्य बालस्य जननी माता विस्मरेतां विस्मेरताया आश्चर्ययुक्ताया भावः । विस्मेरताम् आश्चर्यम् उपजगाम प्राप । ‘गम्लृ गतावित्यस्माल्लिट् परस्मैपदं जगाम जग्मतुर् जग्मुः’ इति । अमुष्य समस्तशक्तेः समस्ता सर्वविषये अप्रतिहता शक्तिः सामर्थ्यं यस्य स तथोक्तस् तस्य । यस्य वायोर् जननी माता त्रिलोकजननी त्रिलोकस्य माता । ‘इन्दिरा लोकमाता मा’ इत्यमरः । विषे कालकूटविषे वायुना पीतेऽपि तत्सामर्थ्यं जानन्ती वायुमाता लक्ष्मीर् विस्मयम् आश्चर्यं न आप । एवं समर्थस्य पीतजीर्णविषस्य तस्य वायुरूपशिशोः कुलत्थभक्षणेन किमनिष्टं स्यादित्येतद् अविदित्वा अस्य माता विप्रपत्नी आश्चर्यम् आप इति भावः ॥ ४१ ॥

विश्वास-प्रस्तुतिः - ४२

स्तन्यं मुहुः किल ददौ जननी गृहीत्वा क्षेमाय तं किल दधज्जनको जजाप ।
अन्यो जनोऽपि किल लालयति स्म किन्तु सर्वोऽपि तन्मुखसुहासरसायनोत्कः ॥४२॥

मूलम् - ४२

स्तन्यं मुहुः किल ददौ जननी गृहीत्वा क्षेमाय तं किल दधज्जनको जजाप ।
अन्यो जनोऽपि किल लालयति स्म किन्तु सर्वोऽपि तन्मुखसुहासरसायनोत्कः ॥४२॥

भावप्रकाशिका

किल अपरमार्थे ॥ ४२ ॥

पदार्थदीपिकोद्बोधिका

स्तन्यमिति ॥ जननी गृहीत्वा मुहुः स्तन्यं स्तनक्षीरम् । ‘दुग्धं स्तन्यं पयश्च पीयूष’मिति हलः । ददौ किल । जनकः पिता तं बालं दधद् दधानः सन् क्षेमाय शुभाय ‘कुशलं क्षेममस्त्रियाम्’ इत्यमरः । जजाप धन्वन्तर्यादिमन्त्रान् शान्तिसूक्तादीनि च जपितवान् किल । जप व्यक्तायां वाचि लिट् । अन्यः माता-पितृभ्यामन्यो जनोऽपि लालयति स्म अलालयत्किल । स्म अतीते । लल ईप्सायां लट् । मात्रादीनां स्तन्यदानादिकं सर्वं मोहेनेति वक्तुं वाक्यत्रयेऽपि किलशब्दः । तर्हि कुत्र तात्पर्यमिति पृच्छति किन्त्विति । उत्तरमाह । सर्वोऽपीत्यादिना । सर्वोऽपि जनस्तस्य बालस्य यन्मुखं तस्मिन् यः सुहासः सुन्दरमन्दस्मितं स एव रसायनममृतं सर्वजनाह्लाद-कत्वात्तस्मिन् उत्क उत्कण्ठावान् मात्रादिसर्वजनस्तन्मुखसुहासरसायनोत्कत्वादेव स्तनक्षीर-दानादिकं चकारेति भावः ॥ ४२ ॥

मन्दोपाकारिणी

स्तन्यमिति ॥ जननी माता तं बालं गृहीत्वा हस्ताभ्यां स्वीकृत्य । मुहुः पुनः पुनः स्तन्यं स्तनभवं क्षीरं ददौ पाययामास किल । ‘डु दाञ् दाने इत्यतो लिट् परस्मैपदम्’ । तथा जनकः पिता मध्यगेहस् तं बालं दधत् हस्ताभ्यां दधानः सन् क्षेमाय क्षेमार्थं प्राप्तव्यानिष्टपरिहारार्थं जजाप धन्वन्तर्यादिमन्त्रान् शान्तिसूक्तानि च जप्तवान् किल । ‘जप व्यक्तायां वाचि मानसे च इत्यतो लिट् परस्मैपदं जजाप जेपतुर् जेपुः’ । अन्यः मातापितृव्यतिरिक्तः जनोऽपि बन्धुवर्गोऽपि तं बालं लालयति स्म अलालयत्किल । ‘लल ईप्सायामित्यतो लट् परस्मैपदं लालयति लालयतः लालयन्ति’ । मात्रादीनां स्तन्यदानादिकं सर्वम् अपरमार्थम् इति वक्तुं वाक्यत्रयेऽपि किलशब्दः । ननु लोके पित्रोः सुते प्रणयः दृष्टचरः प्रेक्षकजनस्य तु कथं प्रणयः सम्भवति इति आक्षिपति किंत्विति । जनचित्तापकर्षणं रमणीयवस्तुस्वभाव इत्याशयेन परिहरति । सर्वोऽपीति । सर्वोऽपि जनस् तन्मुखसुहासरसायनोत्कस् तस्य बालस्य मुखे वदने सुहासः मनोहरस्मितं सुहास एव रसायनम् अमृतं सर्वजनाह्लादकत्वात् तस्मिन् उत्क उत्कण्ठवान् । मात्रादयः बालस्य मन्दस्मितरसायनौत्सुक्यादेव स्तन्यदानादि चक्रुर् इति भावः । रसायनमङ्गेपि जराव्याधिजिदौषधमिति विश्वोक्तेर् जराव्याधिजिदौषधमुक्तमेवेति ज्ञेयम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः - ४३

देवादिसद्भिरनुपालितयाऽऽदरेण देव्यात्मनेव विलसत्पदया नितान्तम् ।
अव्यक्तया प्रथमतो वदनेऽस्य वाण्या शालीनयेव भुवनार्चितया विजह्रे ॥४३॥

मूलम् - ४३

देवादिसद्भिरनुपालितयाऽऽदरेण देव्यात्मनेव विलसत्पदया नितान्तम् ।
अव्यक्तया प्रथमतो वदनेऽस्य वाण्या शालीनयेव भुवनार्चितया विजह्रे ॥४३॥

भावप्रकाशिका

पदं पादविन्यासो वाक्यावयवश्च । शालीनयेव अधृष्टयेव ॥ ४३ ॥

पदार्थदीपिकोद्बोधिका

देवादीति ॥ अस्य बालस्य वदने देवादिसद्भिः, आदरो भक्तिस्तेन, अनुपालितया कदा वा अयं वदिष्यतीति प्रतीक्षितया, विलसन्ति पदानि यस्यास्तया प्रथमत आदौ अव्यक्ततया अत एव शालीनयेव स्वशालां स्वगृहमेव प्रवेष्टुमर्हतीति शालीना, तया अधृष्टतयेव ‘प्रगल्भः प्रतिभान्विते । स्यादधृष्टे तु शालीने’ इत्यमरः । भुवनार्चितया भुवनमान्यया देव्या वाग्देव्या वाण्या सरस्वत्या आत्मनेव मूर्त्तिमत्त्येव नितान्तं विजह्रे । अस्य वदनरङ्गे वाग्देव्या क्रीडा कृता । हृञ् हरणे लिट् । अयं बालोऽतिमधुरं वक्तुमुपचक्रम इति भावः । श्लेषार्थे तु सरस्वती स्वयं देवादिसद्भिरनुपालिता ब्रह्मसदसि क्रीडार्थं कदाऽऽगमिष्यतीति प्रतीक्षिता सती विलसत्पद-विन्यासा सती प्रथमतोऽव्यक्ता यवनिकाच्छन्ना सती, लज्जयाऽधृष्टा ब्रह्मसदसि तत्पुरतः यथा विहारं कुर्यात्तद्वदिति भावः ॥ ४३ ॥

मन्दोपाकारिणी

देवादीति ॥ अस्य बालस्य वदने वक्त्रे देव्या सरस्वत्या वाण्या वाचा नितान्तम् अत्यन्तं विजह्रे क्रीडितम् । ‘विपूर्वात् हृञ् हरण इत्यतो भावे लिडात्मनेपदम्’ । अत्र एकवचनमेव । कथंभूतया वाण्या , देवादिसद्भिर् देवा एव आदयो येषां ते देवादयः देवादयश्च ते सन्तश्च देवादिसन्तस् तैर् आदरेण भक्त्या । ‘आदरो भजनं भक्तिरित्यभिधानम् । अनुपालितया कदा नु अयं बालः वदिष्यतीति प्रतीक्षितया । पुनः कथंभूतया, विलसत्पदया विलसन्ति शोभमानानि पदानि वर्णात्मकानि यस्याः सा विलसत्पदा तया । पुनः कथंभूतया, प्रथमत आदौ अव्यक्तया अस्पष्ठाक्षरया अत एव शालीनयेव अधृष्टवत्स्थितया । ‘स्यादधृष्टे तु शालीनः’ इत्यमरः । पुनः कीदृक्-विधया, भुवनार्चितया भुवने जगति अर्चितया मानितया । कयेव आत्मना वागभिमानिन्या देव्या सरस्वत्येव । यथा ब्रह्मपत्नी सरस्वती ब्रह्मसभायां देवादिभिः कदा क्रीडायामागमिष्यतीति प्रतीक्षिता सती विलसत्पदा शोभमानपदन्यासा प्रथमतो अव्यक्ता यवनिकाच्छन्ना लज्जया अधृष्टा सती प्रथमतो ब्रह्मसदसि विहारं कुर्यात् तथा बालस्य वदनरङ्गेऽपि क्रीडां चकार । अयं बालो ऽव्यक्तमधुरवचनं वक्तुम् उपचक्रमे इति भावः । ब्रह्मसदसि सरस्वत्येव तदभिमन्यमानया वाचा वासुदेववदने विहरितम् इत्याह । देवादीति ॥ देवा ब्रह्मरुद्रादया एव आदयो येषां ते तथा ते च ते सन्तश्च तैः । आदरेण भक्त्या । अनुपालितया कदा अस्मासु कटाक्षं करिष्यति कदा वयं वाग्वैखरीसम्पन्ना भविष्याम इति प्रतीक्षितया । यद्वा ब्रह्मसभागतैर् देवादिसद्भिर् आदरेण औत्कण्ठ््येन अनुपालितया । यवनिकाम् अपाकृत्य कदा अत्र आगमिष्यति कदा हितं करिष्यतीति प्रतीक्षितया नितान्तम् अत्यन्तं विलसती नूपुरेण विराजमाने पदे यस्याः सा तया । यद्वा यवनिकान्तर्गतत्वा-वस्थायामपि स्फुटं लक्ष्यमाणपदया अत एव शालीनयेव शालां प्रवेष्टुं शीलम् अस्या अस्तीति शालीना यवनिकास्था अत एव अव्यक्तया अनभिव्यक्तया भुवनार्चितया लोकेषु पूजितया वाण्या देव्या सरस्वतीदेव्या आत्मना इव ब्रह्मसदसि मूर्तिमत्या स्वयमिव ॥ ४३ ॥

विश्वास-प्रस्तुतिः - ४४

प्राग्रिङ्खणं स्वयमथ स्थितिमेष चक्रे पश्चाद्गतिं परिचयेन किल क्रमेण ।
विश्वस्य चेष्टितमहो यदनुग्रहेण सर्वं तदस्य पवनस्य विडम्बनं हि ॥ ४४ ॥

मूलम् - ४४

प्राग्रिङ्खणं स्वयमथ स्थितिमेष चक्रे पश्चाद्गतिं परिचयेन किल क्रमेण ।
विश्वस्य चेष्टितमहो यदनुग्रहेण सर्वं तदस्य पवनस्य विडम्बनं हि ॥ ४४ ॥

पदार्थदीपिकोद्बोधिका

प्रागिति ॥ एषः प्रागादौ रिङ्खणं जानुभ्यां हस्ताभ्यां च गमनं चक्रे । अथ स्वयं स्थितिं मातृहस्तस्तम्भभित्त्याद्यालम्बनं विना स्थितिं चक्रे । पश्चाद्गतिं गमनं क्रमेण परिचयस्तत्तन्मार्गपरिचयस्तेन तत्पूर्वं गमनं चक्रे इति भावः । किलेत्यपरमार्थे । कुत इत्यत आह विश्वस्येति । विश्वस्य जगतश् चेष्टितं स्पन्दनादिचेष्टा यदनुग्रहेण वाय्वनुग्रहेण वर्तते । अस्य वायोस् तत्सर्वं रिङ्खणादिकं विडम्बनं हि मूढजनानु-करणमेव । अहो आश्चर्यम् ॥ ४४ ॥

मन्दोपाकारिणी

प्रागिति ॥ एषः वासुदेवः प्राक् प्रथमतः रिङ्खणं हस्ताभ्यां जानुभ्यां च गृहान्तः सञ्चारं चक्रे । अथ कतिचिद्दिनेषु स्वयं स्वयमेव मात्रादिहस्तं भित्यादिधारणं विहाय स्थितिम् उत्थितिं चक्रे । पश्चात् कतिपयदिनैः क्रमेण क्रमजन्येन परिचयेन अभ्यासेन गतिं सर्वत्र गमनं चक्रे । दिनक्रमेण स्थलविशेषाभ्यासं कृत्वा सर्वत्र गमनं चक्रे इति भावः । किल इति अपरमार्थे । कुतः विश्वस्य सर्वप्राणिसमुदायस्य चेष्टितं चेष्टा यदनुग्रहेण यस्य वायोरनुग्रहेण प्रसादेन भवति अस्य पवनस्य वाय्ववतारस्य शिशोस् तत्सर्वं रिङ्खणादिचेष्टितं व्यापारः विडम्बनं हि लौकिकजनानुकरणं हि । अहो आश्चर्यम् । जातमात्रस्यापि स्वयं गमनादिशक्तावपि तद् अप्रकटनेन लोकवद् रिङ्खणादिकरणम् आश्चर्यमिति भावः । ‘डु कृञ् करणे इत्यस्माल्लिडात्मनेपदं चक्रे चक्राते चक्रिरे’ ॥ ४४ ॥

विश्वास-प्रस्तुतिः - ४५

पुच्छान्तमच्छमवलम्ब्य कदाचिदेष प्रातर्व्रजाद्व्रजत एव निजर्षभस्य ।
प्रायात् प्रियस्य सहसा स्वजनैरदृष्टो नानावनेषु चरतश्चरतस्तृणानि ॥ ४५॥

मूलम् - ४५

पुच्छान्तमच्छमवलम्ब्य कदाचिदेष प्रातर्व्रजाद्व्रजत एव निजर्षभस्य ।
प्रायात् प्रियस्य सहसा स्वजनैरदृष्टो नानावनेषु चरतश्चरतस्तृणानि ॥ ४५॥

भावप्रकाशिका

चरतश्चरतः । चर गतिभक्षणयोः ॥ ४५ ॥

पदार्थदीपिकोद्बोधिका

पुच्छान्तमिति ॥ स्वा ज्ञातयो ये पित्रादिजनास्तैः ‘स्वमज्ञातिधनाख्यायाम्’ इत्यसर्वनामता । अदृष्ट एष बालः कदाचित्प्रातः व्रजाद्गोष्ठात् । ‘गोष्ठाध्वनिवहा व्रजा’ इत्यमरः । व्रजतः गच्छत एव प्रियस्यात्मनः प्रियस्य नानावनानि नानाविधारण्यानि तेषु चरतोऽटतस् तृणानि चरतः भक्षयतः । चर गतिभक्षणयोरिति धातुः । निजर्षभस्य स्वकीयानडुहो ऽच्छं निर्मलं पुच्छान्तम् अवलम्ब्य गृहीत्वा सहसा अतर्कितम् । ‘अतर्किते तु सहसा’ इत्यमरः । प्रायाद् वनं ययौ ॥ ४५ ॥

मन्दोपाकारिणी

पुच्छेति ॥ एषः बालः कदाचित् कस्मिंश्चिद्दिने प्रातः सूर्योदयकाले व्रजाद् गोष्ठात् ‘गोष्ठाध्वनिवहा व्रजाः’ इत्यमरः । व्रजतः निर्गच्छतः प्रियस्य प्रीतिविषयस्य निजर्षभस्य निजः स्वकीयश्चासौ ऋषभः वृषभश्च निजर्षभस् तस्य । ‘ऋषभो वृषभो वृषः’ इत्यमरः । अच्छं निर्मलं पुच्छान्तं पुच्छस्य लाङ्गूलस्य । ‘पुच्छोऽस्त्री लूमलाङ्गूले इत्यमरः । अन्तं प्रान्तभागं ‘अन्तः स्यात्प्रान्तके नाशः’ इति विश्वः । अवलम्ब्य गृहीत्वा सहसा अतर्कितम् । ‘अतर्किते तु सहसा’ इत्यमरः । प्रायाद् वनं प्रति ययौ । कथं भूतस्सन् । स्वजनैः स्वकीयपित्रादिभिर् अदृष्टः सन् । कथं भूतस्य निजर्षभस्य । नानावनेषु नानाविधेषु वनेषु अरण्येषु चरतः सञ्चरतः । पुनः कीदृशस्य । तृणानि यवसानि । ‘यवसं तृणमर्जुनम्’ इत्यमरः । चरतः भक्षयतः ‘चर गतिभक्षणायोः’ इति धातोः ॥ ४५ ॥

विश्वास-प्रस्तुतिः - ४६

उत्तुङ्गृङ्गलसितस्य महिष्ठमूर्तेः पादावृतावनितलस्य सुरन्ध्रकस्य ।
आश्रित्य तस्य शुशुभेऽवयवैकदेशं बालो दिवाकर इवोदयपर्वतस्य ॥४६॥

मूलम् - ४६

उत्तुङ्गृङ्गलसितस्य महिष्ठमूर्तेः पादावृतावनितलस्य सुरन्ध्रकस्य ।
आश्रित्य तस्य शुशुभेऽवयवैकदेशं बालो दिवाकर इवोदयपर्वतस्य ॥४६॥

भावप्रकाशिका

ृङ्गम् – विषाणं शिखरं च । पादाश्च प्रत्यन्तपर्वताश्च ॥ ४६ ॥

पदार्थदीपिकोद्बोधिका

उत्तुङ्गेति ॥ बाल उत्तुङ्गाभ्यामुन्नताभ्यां ृङ्गाभ्यां लसितस्य राजितस्य । महिष्ठा अतिस्थूला मूर्तिः शरीरं यस्य तस्य । ‘मूर्तिः काठिन्यदेहयोः’ इति वैजयन्ती । पादैश्चरणैर् आवृतं यथासम्भवमाच्छादितमवनितलं भूतलं यस्य तस्य । शोभनानि रन्ध्राणि नवद्वाराणि यस्य तस्य अनडुहो ऽवयवैकदेशं पुच्छरूपम् आश्रित्येव शुशुभे रेजे । शुभ दीप्तौ लिट् । उन्नतशिखरविराजितस्य बहुयोजनविस्तीर्णस्य पादैः प्रत्यन्तपर्वतैरावृतभूतलस्य । ‘पादाः प्रत्यन्तपर्वताः’ इत्यमरः । सुरन्ध्रकस्य शोभनगुहायुक्तस्य उदयपर्वतस्यावयवैकदेशमाश्रित्य बालसूर्यो यथा राजते तद्वद् इत्यभिप्रायः ॥ ४६ ॥

मन्दोपाकारिणी

उत्तुङ्गेति ॥ बालः वासुदेव उत्तुङ्गृङ्गलसितस्य उत्तुङ्गे दीर्घे च ते ृङ्गे विषाणे च उत्तुङ्गृङ्गे उत्तुङ्गृङ्गाभ्यां लसितस्य विराजितस्य । ‘ृङ्गं विषाणमाख्यातम्’ इत्यमरः । पादावृतावनितलस्य पादैश्चरणैर् आवृतम् आक्रमितम् अवनितलं भूतलं येन स तथोक्तः । महिष्ठमूर्तेर् महिष्ठा अतिशयेन महती स्थूला मूर्तिः शरीरं यस्य तथोक्तः । ‘स्त्रियां मूर्तिस्तनुस्तनूः’ इत्यमरः । तस्य सुरन्ध्रकस्य सु शोभनानि तनुरन्ध्राणि चक्षुरादिनवच्छिद्राणि यस्य सस् तथोक्तस् तस्य । ‘छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्रं वपा शुषिः’ इत्यमरः । तस्य वृषभस्य अवयवैकदेशम् अवयवस्य शिखरस्य एकदेशम् अग्रभागम् आश्रित्येव तद्वदिति भावः ॥ ४६ ॥

विश्वास-प्रस्तुतिः - ४७

लीलां करोति नु गृहान्तरगो नु बालः कूपान्तरे नु पतितः प्रकृतिस्वतन्त्रः ।
इत्थं विचिन्त्य स मुहुः स्वजनो विमृग्य हन्तानवेक्ष्य तनयं हृदि तापमाप ॥४७॥

मूलम् - ४७

लीलां करोति नु गृहान्तरगो नु बालः कूपान्तरे नु पतितः प्रकृतिस्वतन्त्रः ।
इत्थं विचिन्त्य स मुहुः स्वजनो विमृग्य हन्तानवेक्ष्य तनयं हृदि तापमाप ॥४७॥

पदार्थदीपिकोद्बोधिका

लीलामिति ॥ स स्वश्चासौ जनश्च स्वजनः पित्रादिः स्वीयजनः । प्रकृत्या स्वभावेन स्वतन्त्रः स्वेच्छाधीनप्रवृत्तिर् बालः लीलां करोति नु? क्रीडते वा । ‘नु वितर्केऽनुपृच्छायाम्’ इत्यमरः । गृहस्यान्तरं मध्यं गच्छतीति तादृशस् तथा नु? कूपान्तरं कूपान्ते पतितो नु? पतितो वा, इत्थं मुहुर्विचिन्त्य तनयं पुत्रं विमृग्य अन्विष्य अनवेक्ष्य कूपादिष्वदृष्ट्वा हृदि मनसि तापं खेदमाप । हन्तेत्येतद्विषादे । ‘हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः’ इत्यमरः ॥ ४७ ॥

मन्दोपाकारिणी

लीलामिति ॥ सः स्वजनः पित्रादिर् हृदि मनसि तापं खेदम् आप प्राप । ‘आप्लृव्याप्तौ इत्यस्माल्लिट् परस्मैपदम्’ । किं कृत्वा, प्रकृतिस्वतन्त्रः प्रकृत्या स्वभावेन स्वतन्त्रः स्वेच्छानुसारप्रवृत्तिः ‘स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः’ इत्यमरः । बालः वासुदेवः लीलां क्रीडां करोति नु ? उपमायां विकल्पे वा करोति वा नु वितर्के । ‘नु पृच्छायां विकल्पे च’ इत्यमरः । गृहान्तरगो नु गृहस्य मन्दिरस्य अन्तरे मध्ये गच्छति तिष्ठतीति गृहान्तरगो वा । कूपान्तरे कूपस्य उदपानस्य अन्तरे मध्ये । ‘पुंस्येवान्धुः प्रहिः कूप उदपानम्’ इत्यमरः । पतितो नु ? पतितवान् वा । इत्थं विचिन्त्य विचार्य विमृग्य अन्विष्य तनयं पुत्रम् अनवेक्ष्य अदृष्ट्वा । हन्त विषादं प्राप्य । ‘हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः’ इत्यमरः ॥ ४७ ॥

विश्वास-प्रस्तुतिः - ४८

बालस्य बालपरिलम्बनगोचरं तव्द्यश्वस्यतापि वचनं वनगोचरोक्तम् ।
यत्सायमैक्षत जनः शिशुमाव्रजन्तम् एकाब्दकं वृषभबालकृतावलम्बम् ॥ ४८ ॥

मूलम् - ४८

बालस्य बालपरिलम्बनगोचरं तव्द्यश्वस्यतापि वचनं वनगोचरोक्तम् ।
यत्सायमैक्षत जनः शिशुमाव्रजन्तम् एकाब्दकं वृषभबालकृतावलम्बम् ॥ ४८ ॥

पदार्थदीपिकोद्बोधिका

बालस्येति ॥ जनः पित्रादिजनः सायं सायङ्काले एकोऽब्दो वत्सरो यस्य तम् । वृषभस्य बालेन कृतोऽवलम्ब आश्रयो येन तम् आव्रजन्तं शिशुं यद्यस्माद् ऐक्षत अपश्यत् तस्मात्कारणाद् बालस्य शिशोर् बालस्य वृषभपुच्छस्य परिलम्बनम् अवलम्बनं गोचरो विषयो यस्य तं वनगोचरोक्तं वनं गोचरो विषयो यस्य तेन उक्तम् । वृषभबालमवलम्ब्य गच्छन् बालः प्रातर्मया दृष्ट इति केनचिद्वनचारिणोक्तमित्यर्थः । वचनमपि व्यश्वस्यत विश्वस्तम् । श्वस प्राणने कर्मणि लङ् । वृषभबालं गृहीत्वा वनाद् गृहं प्रत्याव्रजन्तं बालं सायङ्काले दृष्ट्वा पश्चाद्वनगोचरोक्तवचने विश्वासोऽभूदिति भावः ॥ ४८ ॥

मन्दोपाकारिणी

बालस्येति ॥ बालस्य शिशोः, बालपरिलम्बनगोचरं बालस्य वृषभपुच्छस्य परिलम्बनं हस्तेनाश्रयणं तदेव गोचरः विषयः यस्य वचनस्य तत् । वनगोचरोक्तं गा वृषभाद्यान् चारयति तृणभक्षणार्थं सञ्चारयतीति गोचरः गोरक्षक इति यावत् । वने गोचरस् तेन उक्तमपि वृषभपुच्छम् आश्रित्य वनं गच्छन् शिशुः प्रातःकाले मया दृष्ट इति केनचिद् वनगोचरेण गोपालकेन उक्तमपि वचनं तत् तदा व्यश्वस्यत विश्वस्तं पित्रादिजनैर् इति शेषः । ‘विपूर्वात् श्वस प्राणने इत्यतः कर्मणि लङात्मनेपदं व्यश्वस्यत व्यश्वस्येतां व्यश्वस्यन्त’ । कदा, यद् यदा जनः पित्रादिजनः सायं सायङ्काले वृषभबाल-कृतावलम्बं वृषभस्य बलीवर्दस्य बाले लाङ्गूले कृतो ऽवलम्ब आश्रयः येन तथोक्तस् तं सायङ्काले गोभिः सह आव्रजन्तं वनाद् गृहं प्रति आगच्छन्तम् एकाब्दकम् एक एकसङ्ख्याको ऽब्दो वत्सरो यस्य स तथोक्तस् तम् । ‘संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः’ इत्यमरः । शिशुम् ऐक्षत अपश्यत् तदा इत्यन्वयः । ‘ईक्ष दर्शने इत्यतो लङ् आत्मनेपदम् ऐक्षत ऐक्षेताम् ऐक्षन्त’ ॥ ४८ ॥

विश्वास-प्रस्तुतिः - ४९

चिन्तामणीन्द्रमिव चिन्तितदं दरिद्रो विज्ञानमार्गमिव विष्णुपरं मुमुक्षुः ।
नष्टं च नन्दनमिति स्वजनोऽस्य लब्ध्वा नाथस्य तस्य तमनुग्रहमेव मेने॥४९॥

मूलम् - ४९

चिन्तामणीन्द्रमिव चिन्तितदं दरिद्रो विज्ञानमार्गमिव विष्णुपरं मुमुक्षुः ।
नष्टं च नन्दनमिति स्वजनोऽस्य लब्ध्वा नाथस्य तस्य तमनुग्रहमेव मेने॥४९॥

पदार्थदीपिकोद्बोधिका

चिन्तेति ॥ दरिद्रो निर्धनः । चिन्तितं प्रार्थितम् अखिलं ददातीति चिन्तितदस् तम् । चिन्तामणिनामको मणीन्द्रो मणिश्रेष्ठस्तम् । चिन्तामणिष्विन्द्रः श्रेष्ठस्तमिवेति वा । मुमुक्षुः संसारान्मोक्षमिच्छुः पुमान्, विष्णुः पर उत्कृष्टः विषयतया यस्मिन् तं विज्ञानमेव विशिष्टतत्त्वज्ञानमेव मार्गस्तमिव, अस्य बालस्य स्वजनः पित्रादिस्वीयजन इत्येवमन्विष्यापि नष्टम् अदृष्टम् । ‘नश अदर्शन’ इति धातोः । न चात्र नाशोऽविवक्षितस् तथात्वे पुनर्लाभायोगात् । चिन्तितदं विष्णुपरं विष्णुनिष्ठं नन्दनं लब्ध्वा तं पुत्रदर्शनाख्यं लाभं तस्य नाथस्य रूप्यपीठवासिनो हरेरनुग्रहमेव मेने । मन ज्ञाने लिट् । पुत्रदर्शनं तस्यानुग्रहं मेन इति भावः ॥ ४९ ॥

मन्दोपाकारिणी

चिन्तामणीन्द्रमिति ॥ दरिद्रः निर्धनश् चिन्तितदं चिन्तितम् अपेक्षितपुरुषार्थं ददातीति चिन्तितदस् तम् । चिन्तामणीन्द्रमिव चिन्तामणिनामकमणि-श्रेष्ठमिव । मुमुक्षुः संसारान् मुक्तिमिच्छन् पुमान् । विष्णुपरं विष्णुविषयम् । विज्ञानमार्गं विज्ञानं विशिष्टतत्त्वज्ञानं तल्लक्षणं मार्गमिव । अस्य बालस्य स्वजनः स्वकीयजनः पित्रादिर् इति पूर्वोक्तप्रकारेण नष्टम् अन्वेषणे कृतेऽपि अदृष्टं नश अदर्शने इति धातोः, नन्दनं पुत्रं लब्ध्वा प्राप्य तं पुत्रदर्शनाख्यलाभं तस्य नाथस्य रजतपीठपुरस्वामिनो ऽनन्तेश्वरस्य अनुग्रहमेव अनुग्रहेणैव जातं मेने । ‘मन अवबोधने इत्यतो लिडात्मनेपदं मेने मेनाते मेनिरे’ । हतभाग्यानाम् अस्माकं पुन एतादृशपुत्रदर्शनं तस्यानुग्रहमेव इति मेन इति भावः ॥ ४९ ॥

विश्वास-प्रस्तुतिः - ५०

लीलावसानसमये सहसा कदाचिदार्योऽमुनाऽभ्यवहृतिं प्रति चोद्यमानः ।
रोद्धैष नोऽस्ति धनिको वृषविक्रयीति प्रोवाच नन्दनमुखेन्दुमवेक्ष्य मन्दम् ॥५०॥

मूलम् - ५०

लीलावसानसमये सहसा कदाचिदार्योऽमुनाऽभ्यवहृतिं प्रति चोद्यमानः ।
रोद्धैष नोऽस्ति धनिको वृषविक्रयीति प्रोवाच नन्दनमुखेन्दुमवेक्ष्य मन्दम् ॥५०॥

पदार्थदीपिकोद्बोधिका

लीलेति ॥ कदाचिद् लीलावसानस्य क्रीडावसानस्य समये काले सहसा अतर्कितम् आगत्य अमुना बालेन अभ्यवहृतिं प्रति भोजनं प्रति चोद्यमानः प्रेर्यमाण आर्यः सज्जनः पिता । ‘आर्यौ सज्जनसंविदा’विति हेमचन्द्रः । नन्दनमुख-मेवेन्दुश्चन्द्रस्तम् अवेक्ष्य नो ऽस्माकं वृषं विक्रीतुं शीलमस्यास्तीति वृषविक्रयी । द्रव्यं पश्चाद्देहीयुक्ता मूल्यार्थं वृषद इत्यर्थः । एष धनिकः रोद्धा निषेद्धा मह्यमदत्वा न भोक्तव्यमित्युक्त्वा, स्वयञ्चानशनमुपविष्टः सन् भोजनविघ्नकारी अस्ति वर्तते । तस्मान् न अहम् इदानीं भोक्ष्ये । त्वमेव भुंक्ष्व इति मन्दं यथा भवति तथा शनैर् इत्यर्थः । प्रोवाच । शनैरित्यनेन लालनमवगम्यते । क्रुद्धश्चेदुच्चैर्ब्रूयादिति ॥ ५० ॥

मन्दोपाकारिणी

लीलेति ॥ कदाचित् कस्मिंश्चिद्दिवसे लीलावसानसमये लीलायाः क्रीडाया अवसानं समाप्तिस् तस्य समये काले । सहसा अतर्कितमागत्य अमुना बालकेन अभ्यवहृतिं प्रति भोजनम् उद्दिश्य चोद्यमानः प्रेर्यमाणः हे तात त्वं भोक्तुम् आगच्छ इति प्रेर्यमाण आर्यः पिता मध्यगेहः, नन्दनमुखेन्दुं नन्दनस्य सुतस्य वासुदेवस्य मुखमेव इन्दुश् चन्द्रस् तम् अवेक्ष्य दृष्ट्वा मन्दं शनैर् मृदुवचनेनेति यावत् । अनेन पुत्रलालनम् अवगम्यते । क्रुद्धश्चेद् उच्चैर् ब्रूयात् । प्रोवाच अब्रवीत् । ‘वच परिभाषणे इत्यतो लिट् परस्मैपदम् । किमिति? वृषविक्रयी वृषस्य वृषभस्य विक्रयो ऽस्यास्तीति वृषविक्रयी अस्मभ्यं वृषविक्रीतेत्यर्थः । एषः धनिकः नः रोद्धा वृषमौल्यं निष्कम् अदत्वा न भोक्तव्यमित्युक्त्वा स्वयं च भोजनं त्यक्त्वा उपविष्टः । मम भोजनविघ्नकारी अस्ति । तस्मान् न मया

इदानीं भोक्तुं शक्यते । त्वं भुंक्ष्व इति । अस भुवीत्यतो लट् परस्मैपदम् अस्ति

स्तः सन्ति ॥ ५० ॥

विश्वास-प्रस्तुतिः - ५१

लीलाकरेण स करेण सुकोमलेन बीजान्तराणि किल कानिचिदाशु तस्मै ।
स्मित्वाऽर्भकोऽभिमतनिष्कपदे यदाऽदादादत्त तानि धनिको बहुमानपूर्वम् ॥५१॥

मूलम् - ५१

लीलाकरेण स करेण सुकोमलेन बीजान्तराणि किल कानिचिदाशु तस्मै ।
स्मित्वाऽर्भकोऽभिमतनिष्कपदे यदाऽदादादत्त तानि धनिको बहुमानपूर्वम् ॥५१॥

भावप्रकाशिका

बीजान्तराणि तिन्त्रिणीबीजाख्यानि ॥ ५१ ॥

पदार्थदीपिकोद्बोधिका

लीलेति ॥ स अर्भकः लीलानाम् आकर आश्रयस्तेन सुकोमलेन सुकुमारेण करेण हस्तेन आशु अभिमतं धनिकेन भट्टेन च सङ्ख्याविषये सम्प्रतिपन्नं यन्निष्कपदं निष्कस्थानं तस्मिन् कानिचिद् बीजान्तराणि बीजविशेषान् । तिन्त्रिणीबीजानीत्यैतिह्यम् । स्मित्वा मन्दस्मितं कृत्वा तस्मै धनिकाय यदाऽदात् तदा धनिकस्तानि बहुमान आदरः पूर्वः पुरस्सरो यथा भवति तथा आदत्त किल जग्राह किल । दाञ् दाने लङ् । किलेत्यैतिह्ये । मम द्रव्यमागतमित्युक्त्वा जगाम च ॥ ५१ ॥

मन्दोपाकारिणी

लीलाकरेणेति ॥ अर्भकः सः वासुदेवः लीलाकरेण लीलानां क्रीडानाम् आकरेण खनिभूतेन बालक्रीडाशालिनेत्यर्थः । ‘खनिः स्त्रियामाकरः स्यात्’ इत्यमरः । सुकोमलेन अत्यन्तं मृदुना । ‘कोमलं मृदुलं मृदु’ इत्यमरः । करेण हस्तेन आशु शीघ्रम् अभिमतनिष्कपदे अभिमतानां धनिकस्य मध्यगेहभट्टस्य च सङ्ख्याविषये सम्प्रतिपन्नानां निष्काणां दीनाराणां प्राकृतभाषया वराहशब्दवाच्यानाम् इत्यर्थः । ‘दीनारेऽपि च निष्कोऽस्त्री’ इत्यमरः । पदे स्थाने । ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु’ इत्यमरः । निष्कप्रतिनिधित्वेन इत्यर्थः । प्रतिनिधिर्नाम तदभावे तत्कार्यकारि । कानिचिद् अप्रसिद्धानि बीजान्तराणि बीजानां फलान्तर्गतानाम् अन्तराणि विशेषान् तिन्त्रिणीबीजानि इति ऐतिह्यम् । स्मित्वा मन्दं हसित्वा यदा तस्मै धनिकाय वृषभविक्रेत्रे अदाद् दत्तवान् । ‘डु दाञ् दाने इत्यस्माद् लुङ् परस्मैपदम् अदाद् अदाताम् अदुः’ । तदा धनिकस् तानि बीजानि बहुमानपूर्वं बहुमान आदरः पूर्वः पुरःसरो यस्मिन् स्वीकारकर्मणि तद् बहुमानपूर्वं यथा भवति तथेति क्रियाविशेषणमेतद् आदरेण इत्यर्थः । आदत्त किल स्वीकृतवान् किल ।‘डु दाञ् दाने लङात्मनेपदम् आदत्त आददाताम् आददत’ । किलेति वार्तायां ‘वार्तासम्भाव्ययोः किल’ इत्यमरः । ततः धनिकः मम निष्कं प्राप्तम् इत्युक्त्वा जगाम इति शेषः । किल इत्यनेन धनिकस्य अन्तःकरणनैर्मल्याद् भक्त्या स्वीकारं सूचयति । किल इति ऐतिह्यं वा । ‘अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये’ इत्यमरः । भेदो विशेषः ॥ ५१ ॥

विश्वास-प्रस्तुतिः - ५२

लब्धं सुतादिति वदन् द्विजपुङ्गवेन कालान्तरे निजधने प्रतिदित्सितेऽपि ।
साक्षादमानवनवाकृतितः स लेभे बीजच्छलेन पुरुषार्थमहो विशिष्टम् ॥ ५२ ॥

मूलम् - ५२

लब्धं सुतादिति वदन् द्विजपुङ्गवेन कालान्तरे निजधने प्रतिदित्सितेऽपि ।
साक्षादमानवनवाकृतितः स लेभे बीजच्छलेन पुरुषार्थमहो विशिष्टम् ॥ ५२ ॥

पदार्थदीपिकोद्बोधिका

लब्धमिति ॥ द्विजेषु पुङ्गवः श्रेष्ठस्तेन । ‘स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभ कुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः’ इत्यमरः । भट्टेन अन्यः कालः कालान्तरं तस्मिन् । निजमात्मीयं यद्धनं तस्मिन् स्वदत्तवृषभस्य मूल्यभूतधनम् इत्यर्थः । प्रतिदातुमिष्टं प्रतिदित्सितं तस्मिन्नपि सुतात् तव पुत्राद् लब्धमिति वदन् । स धनिकः । मानवो मनुष्यो न भवतीत्यमानवो देवः श्रीमुख्यवायुस्तस्य नवा नूतना अवताररूपेत्यर्थः । या आकृतिः स्वरूपं तस्या इति ततः । बीजमिति च्छलं मिषं तेन । ‘व्याजश्च्छद्म छलं मिषं’ इति हलः । साक्षान्मुख्यतः विशिष्टमुत्तमं पुरुषार्थं मोक्षं लेभे । डु लभष् प्राप्तौ लिट् । अहो आश्चर्यम् । अस्य महिमेति । विशिष्टपुरुषार्थश्च मोक्ष एव । ‘मोक्षो हि सर्वपुरुषार्थोत्तमः’ इति श्रीविष्णुतत्त्वनिर्णये श्रीमदाचार्याणां वचनम् ॥ ५२ ॥

मन्दोपाकारिणी

लब्धमिति ॥ द्विजपुङ्गवेन द्विजानां ब्राह्मणानां पुङ्गवेन श्रेष्ठेन मध्यगेहभट्टेन । कालान्तरे अन्यः कालः कालान्तरं तस्मिन् । निजधने निजं च तद् धनं च निजधनं तस्मिन् स्वदत्तवृषभस्य मौल्यभूतद्रव्ये प्रतिदित्सितेऽपि प्रतिदातुम् इष्टे सत्यपि सुतात् तव पुत्राद् वृषभमौल्यं लब्धं प्राप्तम् इत्येतादृशं वचनं वदन् ब्रुवन् सः धनिकः साक्षादमानवनवाकृतितः साक्षान् मुख्यो ऽमानवो ऽमर्त्यः देवेषु मुख्य इत्यर्थः । ‘अमर्त्या अमृतान्धसः’ इत्यमरः । मुख्यवायुस् तस्य नवाकृतितः नवा नूतना च सा आकृतिश्च नवाकृतिर् नूतनाकृतिस् तस्या इति ततः बालरूपावतारात् साक्षान् मुख्यप्राणाद् इत्यर्थः । अथवा अमानवानां नव्यः स्तुत्य इति यावत् । ‘नवं नव्ये स्तवे विदुः’ इति । अमानवः नवः मुख्यवायुस् तस्य आकृतितो ऽवताररूपात् साक्षादेव वासुदेवाद् बीजच्छलेन ‘छलन्तु खलिते व्याजे’ इति विश्वः । विशिष्टं सर्वपुरुषार्थोत्तमं पुरुषार्थं मोक्षं लेभे लब्धवान् । ‘डु लभष् प्राप्तवित्यतो लिडात्मनेपदं लेभे लेभाते लेभिरे’ । अहो आश्चर्यम् । अस्य शिशोर् महिमेति दातव्यनिजधनप्रतिनिधित्वेन येषु केषुचिद् बीजेषु बालेन दत्तेषु सत्सु धनिकः बालके बहुभक्तिं कृत्वा तानि गृहीत्वा स्वधनं लब्धम् इति सन्तुष्टोऽभूत् । तद्भक्त्या प्रसन्नो वासुदेवस् तस्मै मोक्षं दत्तवान् इति भावः ॥ ५२ ॥

विश्वास-प्रस्तुतिः - ५३

वासुदेवमिह वासुदेवतासत्कलामभिननन्द तं जनः ।
वासुदेवमिति वासुदेवसन्नामकं विविधलीलमर्भकम्॥ ५३ ॥

मूलम् - ५३

वासुदेवमिह वासुदेवतासत्कलामभिननन्द तं जनः ।
वासुदेवमिति वासुदेवसन्नामकं विविधलीलमर्भकम्॥ ५३ ॥

भावप्रकाशिका

वासुदेवं वासुदेवं वा वसुदेवसुतं हरिमिव ॥ ५३ ॥

पदार्थदीपिकोद्बोधिका

वासुदेवमिति ॥ जनः सुजन इह भुवि विद्यमानमसूनां प्राणानां देवता देवः श्रीमुख्यप्राणस्तस्याः सती निर्दुष्टा या कला अंशा ताम् । ‘चन्द्रांशे कलने कला । महाभूतेष्विन्द्रियेषु ज्ञानावयवयोरपि’ इति वैजयन्ती । कलाशब्दो नित्यस्त्रीलिङ्गः । मुख्यवाय्ववतारभूतमित्यर्थः । इति उक्तरीत्या विविधा नानाविधा लीला बालक्रीडा यस्य तम् । वासुदेव इति सन्नामान्वर्थनाम यस्य तम् । ‘शेषाद्विभाषे’ति कः । तम् अर्भकं बालं वसुदेवस्यापत्यं पुमान् वासुदेवस् तं वसुदेवपुत्रमित्यर्थः । वासुदेवं वा श्रीकृष्णनामानं भगवन्तमिव । ‘वा विकल्पोपमानयोः’ इत्यमरः । अभिननन्द श्रुत्वा

दृष्ट्वा च सन्तुतोष । नदि हर्षे लिट् । रथोद्धतावृत्तम् । ‘रात्परैर्नरलगै रथोद्धता’ इत्युक्तेः ॥ ५३ ॥

मन्दोपाकारिणी

वासुदेवमिति ॥ जनः सज्जन इह भुवि वर्तमानं वासुदेवम् असुदेवतासत्कलाम् असूनां प्राणानां देवता स्वामी तस्य वायोः सत्कलां सती निर्दुष्टा च सा कला अंशश्च वायोर् अवतारभूताम् इत्यर्थः । इति पूर्वोक्तप्रकारेण विविधलीलां विविधा बहुविधा लीला क्रीडा यस्य स तथोक्तस् तम् । ‘क्रीडा लीला च नर्म च’ इत्यमरः । वासुदेवसन्नामकं वासुदेव इति निर्दुष्टं नाम आख्या यस्य सस् तम् अर्भकं बालकम् । अभिननन्द श्रुत्वा दृष्ट्वा सन्तुतोष । ‘टु नदि समृद्धौ इत्यतो लिट् परस्मैपदं ननन्द ननन्दतुर् ननन्दुः’ । कमिव । वासुदेवं वा वसुदेवस्य तन्नामकस्य यादवस्य अपत्यं पुमान् वासुदेवस् तं श्रीकृष्णं वा । ‘यथा वा विकल्पोपमानयोः’ इत्यमरः । वासुदेवता इत्यत्र वा असुदेवता सत्कलामिति पदच्छेदः । वासुदेवम् इति पदद्वये एकत्र योगः । अपरत्र रूढिम् आश्रित्य विशेषणविशेष्यभावो द्रष्टव्यः । रथोद्धतावृत्तं रात्परैर्नरलगै रथोद्धतेति तल्लक्षणात् ॥ ५३ ॥

विश्वास-प्रस्तुतिः - ५४

इति विहरति मह्यां विष्णुदासेऽपि गूढे समजनि सुजनानां चित्तमानन्दपूर्णम् ।
उदयति घनमालालीनभानौ च भानौ ननु जननयनाब्जैर्लभ्यतेऽलं विकासः॥ ५४ ॥

मूलम् - ५४

इति विहरति मह्यां विष्णुदासेऽपि गूढे समजनि सुजनानां चित्तमानन्दपूर्णम् ।
उदयति घनमालालीनभानौ च भानौ ननु जननयनाब्जैर्लभ्यतेऽलं विकासः॥ ५४ ॥

॥ इति श्रीमत्कविकुलतिलकश्रीत्रिविक्रमपण्डिताचार्यसुतश्रीनारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनन्दाङ्के द्वितीयः सर्गः ॥

भावप्रकाशिका

समजनि ‘दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम्’ इति कर्तरि चिण् ॥ ५४ ॥

**॥ इति श्रीनारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमत्सुमध्वविजयस्य **भावप्रकाशिका**ख्यटीकायां द्वितीयः सर्गः ॥**

पर्दादीपिकोद्बोधिका – इतीति ॥ विष्णुदासे श्रीमुख्यवायौ गूढेऽपि मानुषेष्वव-तीर्णत्वेन तज्जात्यनुसारित्वेनानाविष्कृतस्वसामर्थ्येऽपि । मह्यां भूमौ इति इत्थं विहरति क्रीडमाने सति सुजनानां सज्जनानां चित्तं मन आनन्दपूर्णं समजनि जातम् । जनी प्रादुर्भावे लुङ् । तथा हि । घनानां मेघानां मालाः पङ्क्तयस् तासु लीनाश्छन्ना भानवः किरणा यस्य तस्मिन् । ‘भानुः करो मरीचिस्त्रीपुंसयोः’ इत्यमरः । भानौ सूर्ये च उदयति सति जनानां यानि नयनानि तानि च अब्जानि च तैर् अलं सम्यक् विकास उन्मीलनं लभ्यते ननु । डु लभष् प्राप्तौ लट् ॥ ५४ ॥

**॥ इति श्रीमद्वेदाङ्गमुनिविरचितश्रीसुमध्वविजयटीकाविवृत्तौ श्रीविश्वपतितीर्थकृतौ पदार्थदीपिकोद्बोधिकायां द्वितीयः सर्गः

॥**

मन्दोपाकारिणी

इतीति ॥ विष्णुदासे विष्णोः श्रीनारायणस्य दासे सेवके वासुदेवनामि्न बालके गूढेऽपि अप्रकटितस्वसामर्थ्येऽपि मह्यां भूमौ । इति पूर्वोक्तप्रकारेण विहरति सति क्रीडमाने सति सुजनानां सज्जनानां चित्तं हृदयम् । ‘चित्तं तु चेतो हृदयम्’ इत्यमरः । आनन्दपूर्णम् आनन्देन सुखेन पूर्णं समजनि अभूत् । ‘जनी प्रादुर्भाव इत्यतः लुङात्मनेपदम् अजनि अजनिष्ट अजनिषाताम् अजनिषत’ इदमुक्तमित्याहुः । उदयति भानौ सूर्ये घनमालालीनभानौ घनानां मेघानाम् । ‘घनो मेघे गुणे मूर्तिः’ इत्यमरः । मालायां पङ्कौ । ‘माला चोन्नतभूभागपङ्कौ पुष्पादिमालिका’ इति भास्करः । लीना आच्छादिता भानवः किरणा यस्य स तथोक्तः । ‘भानुः किरणसूर्ययोः’ इति विश्वः । तादृशेऽपि उदयति सति उदयं प्राप्तौ सति । जननयनाब्जैर् जनानां नयनानि नेत्राणि अब्जानि कमलानि च जननयनाब्जानि तैः । अलं सम्यक् विकास उन्मीलनं लभ्यते ननु प्राप्यते हि । ‘डु लभष् प्राप्तवित्यतः कर्मणि लडात्मनेपदं लभ्यते लभ्येते लभ्यन्ते’ । मेघपटलाच्छादितेऽपि सूर्ये उदिते सति जननयनानां कमलानां च यथा विकासो भवति तथा अप्रकटितसामर्थ्येऽपि बालके वासुदेवे क्रीडमाने सति सज्जनमनः सन्तुष्टमभूद् इति भावः । मालिनीवृत्तमिदं ‘ननमयययुतेऽयं मालिनी भोगिलोकैः’ इति तल्लक्षणात् ॥ ५४ ॥

॥ इति श्रीसुमध्वविजयटीकायां श्रीमच्छलारिनरसिंहाचार्याणां शिष्येण शेषेण विरचितायां मन्दोपकारिण्यां द्वितीयः सर्गः ॥