प्रथमः सर्गः
॥ श्री वेदव्यासाय नमः ॥
॥ श्रीमदानन्दतीर्थभगवत्पादाचार्यगुरुभ्यो नमः ॥
श्रीमत्कविकुलतिलकनारायणपण्डिताचार्यविरचितः
सुमध्वविजयः
प्रथमः सर्गः
विश्वास-प्रस्तुतिः - १
कान्ताय कल्याणगुणैकधाम्ने नवद्युनाथप्रतिमप्रभाय ।
नारायणायाखिलकारणाय श्रीप्राणनाथाय नमस्करोमि ॥ १ ॥
मूलम् - १
कान्ताय कल्याणगुणैकधाम्ने नवद्युनाथप्रतिमप्रभाय ।
नारायणायाखिलकारणाय श्रीप्राणनाथाय नमस्करोमि ॥ १ ॥
श्रीनारायणपण्डिताचार्यविरचिता
भावप्रकाशिका
नमो जयात्मने यन्त्रे द्विजराजस्फुरच्छ्रिये ।
हरेरजस्य प्रिय ते हरये परमात्मने ॥
**श्रीविश्वपतितीथंविरचिता **
पदार्थदीपिकोद्बोधिका
श्रीमन्तं विट्ठलं नत्वा पूर्णबोधेष्टदैवतम् ।
श्रीमध्वविजयव्याख्यादीपमुद्बोधयाम्यहम् ॥
श्रीमन्नारायणपरमानुग्रहपात्रभूतस्य सकलसुरगुरोः श्रीमुख्यप्राणस्यावतारलीलां वर्णयितुकामा नारायणपण्डिताचार्याः शिष्टाचारपरंपराप्राप्तमखिलेष्टसाधनमिष्टदेवतानमस्कार- रूपं मङ्गलं कृत्वा सन्निहितशिष्यशिक्षार्थं ग्रन्थादौ निबध्नन्ति ॥ कान्तायेति ॥ कान्ताय रमणीयाय । कल्याणाः शोभना ये गुणा ज्ञानानन्दबलैश्वर्यादिशुभधर्मास् तेषाम् एकं मुख्यं यद्धाम मन्दिरं तस्मै । निरतिशयगुणानां मुख्याश्रयायेत्यर्थः गुणैकदेहायेत्यपि । दिवोऽन्तरिक्षस्य नाथो द्युनाथः । ‘दिव उत्’ इत्युत् । नवो नूतनो यो द्युनाथः सूर्य उद्यदादित्य इति यावत् । तेन प्रतिमा समाना प्रभा यस्य तस्मै । ‘प्रख्यः प्रकाशः प्रतिमः प्रकारस्तुल्यस्समः सन्निभ इत्यभिन्नाः’ इति हलः । अखिलस्य समस्तजगतः कारणाय कारणभूताय । अखिलस्य जगत्सम्बन्धिसृष्ट्याद्यष्टकस्य कारणायेति वा । श्रयन्ते ब्रह्मादय एनामिति श्रीर्लक्ष्मीः, तस्याः प्राणनाथाय भर्त्रे । ‘रमणः प्राणाधिनाथोऽनुगः’ इति हलः । यद्वा, श्रियौ लक्ष्मीभारत्यौ, ते च प्राणो मुख्यप्राणः स च श्रीप्राणास्तेषां नाथाय, स्वामिने । अनेन गुणप्रधानभावेन परशुक्लत्रयवन्दनं च कृतं भवति । अरविरुद्धा दोषविरुद्धा नारा गुणा नैकधेत्यादिवन्न समासत्वात् ‘नलोपो नञ’ इति नञ एव लोपविधानान्न नलोपः । अत एव ‘तस्मान्नुडचि’ इति न नुट् । नाराणामयनमाश्रयस्तस्मै । ‘आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः’ इत्युक्तेः । नरादुत्पन्ना नारा आपस्ता अयनमाश्रयो यस्य तस्मा इति वा । पूर्वपदात्संज्ञायामगः’ इति णत्वम् । ‘नमस्करोमि, ‘नमस्पुरसोर्गत्योरिति’ सः । ‘उपपदविभक्तेः कारकविभक्तिर्बलीयसी’त्युक्तेर्नमस्करोति देवानिति प्रयोगाच्च नारायणं नमस्करोमीति भाव्यं न नारायणायेति वाच्यमिति चेन्न ‘क्रियार्थोपपदस्य च कर्मणि स्थानिनः’ इति सूत्रेणाप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थीविधानादत्र चतुर्थ्युपपत्तेः । तथा च नारायणं प्रसादयितुं नमस्करोमीत्यर्थः । अत एव, ‘नमस्कुर्मो नृसिंहाय’ ‘स्वयम्भुवे नमस्कृत्य’ इत्याद्यभियुक्तप्रयोगाः सुप्रसिद्धाः । अस्मिन् सर्गे प्राय उपजातिवृत्तम् । ‘स्यादिन्द्रवज्रा यदि तौ जगौ गः’ । ‘उपेन्द्रवज्रा जतजास्ततो गौ’ । अनन्तोरदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः’ इत्युक्तेः । अनुप्रासप्रचुरमिदं काव्यम् ॥ १ ॥
**श्रीछलारिशेषाचार्यविरचिता **
मन्दोपाकारिणी
लक्ष्मीनारायणं देवं व्यासमध्वजयादिकान् ।
गुरून्मूलादिपरमान्वन्दे विद्यागुरूंस्तथा ॥ १ ॥
छलारिनरसिंहार्यशिष्यः शेषाभिधो बुधः ।
प्रवक्ति मध्वविजयं मन्दोपकृतये स्फुटम् ॥ २ ॥
यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिताह्यर्थाः प्रकाशन्ते महात्मन इत्युक्तेर् हरिभक्तिवद् गुरुभक्तेरपि पुरुषार्थसाधनत्वेन संपाद्यत्वाद् वायोश्च महागुरुत्वात्तत्र भक्त्युत्पादनार्थं वाय्ववतारभूतहनुमद्भीममध्वानां माहात्म्यप्रतिपादकं प्रारिप्सिततया चित्तसन्निहितं काव्यमारभमाणः श्रीमन्नारायणपण्डिताचार्यः शिष्टाचारपरम्पराप्राप्तं निर्विघ्नेन परिसमाप्तिप्रचयादिहेतुं स्वेष्टदेवताप्रणामं विधाय सज्जनशिक्षार्थं ग्रन्थादौ निबध्नाति ॥ कान्तायेति ॥ कान्ताय मनोहराय । कान्तं च कमनं कम्रं कमनीयं मनोहरमिति धनञ्जयः । कल्याणगुणैकधाम्ने कल्याणा मङ्गलरूपाः । कल्याणं मङ्गलं शुभम् इत्यमरः । गुणा ज्ञानानन्दादयः कल्याणाश्च ते गुणाश्च कल्याणगुणास् तेषामेकं मुख्यं धाम आश्रयः । यद्वा कल्याणगुणा एव एकं केवलं धाम देहो यस्य स तथोक्तस्तस्मै । एके मुख्यान्यकेवला इत्यमरः । धाम देहे गृहे रश्माविति विश्वः । नवद्युनाथप्रतिमप्रभाय नवः नूतनः नवीनो नूतनो नव इत्यमर उद्यन् इति यावन् नवश्चासौ द्युनाथश्च सूर्यश्च तस्य प्रतिमा सदृशी प्रभा दीप्तिर्यस्य स तथोक्तस्तस्मै । अखिलकारणाय अखिलस्य समस्तजगतः निमित्तकारणाय । श्रीप्राणनाथाय श्रीर्लक्ष्मीः । कमला श्रीर्हरिप्रियेत्यमरः । प्राणः मुख्यवायुस् तयोर्नाथाय स्वामिने । यद्वा श्रियः लक्ष्म्याः प्राणनाथाय वल्लभाय विष्णवे नमस्करोमीत्यन्वयः । डुकृञ् करण इति धातोर् लट् परस्मैपदं करोमि कुर्वः कुर्म इति रूपम् । वृत्तं तु उपजातिः ‘स्यादिन्द्रवज्रा यदि तौ जगौ गः’ । ‘उपेन्द्रवज्रा जतजास्ततो गौ’ इन्द्रवज्रोपेन्द्र-वज्रयोर्वृत्तयोरस्मिन् श्लोके समावेशात् । ‘अनन्तोरदीरितलक्ष्मभाजौ पादौ यदीयावुप-जातयस्ताः’ इति तल्लक्षणाद् अस्मिन्सर्गे प्राय उपजातिवृत्तम् ॥ १ ॥
विश्वास-प्रस्तुतिः - २
अनाकुलं गोकुलमुल्ललास यत्पालितं नित्यमनाविलात्म ।
तस्मै नमो नीरदनीलभासे कृष्णाय कृष्णारमणप्रियाय ॥ २ ॥
मूलम् - २
अनाकुलं गोकुलमुल्ललास यत्पालितं नित्यमनाविलात्म ।
तस्मै नमो नीरदनीलभासे कृष्णाय कृष्णारमणप्रियाय ॥ २ ॥
भावप्रकाशिका
कृष्णाय वासुदेवाय वेदव्यासाय च । नित्यं सततम् । अनाकुलं गोकुलम् अविनाशिवाग्जातं वेदः ॥ २ ॥
पदार्थदीपिकोद्बोधिका
एवं गुणप्रधानभावेन परशुक्लत्रयवन्दनं कृत्वा कलि-मलध्वंसिनौ व्यासकृष्णौ प्रणमति अनाकुलमिति ॥ येन श्रीवेदव्यासेन पालितं रक्षितं यत्पालितं, अत एव नित्यमविनाशि गोकुलं वाक्समूहः ‘कुलं कुल्ये गणे गेहे देहे जनपदेऽन्वयः’ इति हेमचन्द्रः वेद इत्यर्थः । आकुलं न भवतीत्यनाकुलं स्वरवर्णादिव्यत्या-सरहितं सदित्यर्थः । आविलो विनष्टो न भवतीत्यनाविल आत्मा स्वरूपं यस्य तदनाविलात्म अपपाठादिना स्वरूपतिरोधानरहितं सदित्यर्थः । उल्ललास उच्चैः शुशुभे । ‘लस श्लेषणक्रीडनयोः, इत्यस्माल्लिट् । नीरं जलं ददातीति नीरदो मेघः । ‘आतोऽनुपसर्गे क’ इति कर्तरि कः ‘ततश्चातो लोप इटि च’ इत्यालोपः । तद्वन्नीला भाः कान्तिर्यस्य तस्मै ‘नीरक्षीरांबुशम्बरम्’ इत्यमरः । कृष्णाया द्रौपद्या रमणस्य भर्तुर् भीमस्य प्रियस्तस्मै । ‘कृष्णा तु द्रौपदी नीला हार क्रूरासु कथ्यते’ इति विश्वः । तस्मै प्रसिद्धाय, कृष्णाय वेदव्यासाय नमः । ‘कृष्णो नीले नले कलौ । शूद्रे काके पिके व्यासे ध्वान्तपक्षेऽर्जुने हरा’विति यादवः । यादवकृष्णपक्षे तु यत्पालितं येन श्रीकृष्णेन पालितं गोकुलं गवां समूहः नन्दगोपावासस्थानं वा । ‘व्रजन्यां गोकुलं गोष्ठं’ इति हलः । नित्यं सर्वदा अनाकुलं शत्रुभ्योऽसम्भ्रान्तं सत् । अनाविलात्म पूतनाकेश्यादिभ्योऽविनष्टस्वरूपं सदुल्ललास सम्यग् शुशुभे । नीरदनीलभासे मेघश्यामकान्ताय, कृष्णारमणप्रियाय द्रौपदीपतिपाण्डवप्रियाय तस्मै कृष्णाय नम इति केवलप्रकृतश्लेषः ॥ २ ॥
मन्दोपाकारिणी
इदानीं वेदव्यासश्रीकृष्णौ एकोक्त्या प्रणमति ॥ अनाकुलमिति ॥ तस्मै कृष्णाय श्रीवेदव्यासाय नम इत्यन्वयः । वाच्यवन्मेचके कृष्णे भवेत्कृष्णोऽर्जुने हरौ । व्यासकोकिलयोर्ध्वांक्षे कृष्णश्चमरिलोहयोरिति विश्वः । कथंभूताय नीरदनीलभासे नीरं जलं नीरक्षीरांबुशंबरमित्यमरस् तद् ददातीति नीरदो मेघः नीरदवन् नीला श्यामा भा दीप्तिर् यस्य सः नीरदनीलभास् तस्मै । भाश्छविद्युतिदीप्तय इत्यमरः । पुनः कथंभूताय कृष्णाय कृष्णारमणप्रियाय कृष्णाया द्रौपद्याः । कृष्णा तु द्रौपदी नीला हारक्रूरासु दृश्यत इति विश्वः । रमणा भर्तारः धर्मादयः पाण्डुपुत्रास् तेषां प्रियाय प्रीतिविषयाय तस्मै । कस्मै यत्पालितं येन वेदव्यासेन पालितं रक्षितं नित्यम् अनादि अपौरुषेयमिति यावत् । गोकुलं गवां वाचां कुलं समूहं वेदसमूह इति यावद् अनाकुलं व्यत्यासरहितम् अनाविलात्म आविलः कलुषः न भवतीत्यनाविलः । कलुषोनच्छ आविल इत्यमरः स्वच्छ इति यावद् आत्मा स्वरूपं यस्य तत्तथोक्तं तादृशं सद् उल्ललास शुशुभे तस्मै कृष्णायेति संबन्धः । लस् विकास इत्यतो लिट् परस्मैपदं ललास लेसतुर् लेसुर् इति रूपम् । श्रीकृष्णपक्षे तु तस्मै कृष्णाय वसुदेवपुत्राय नम इति योजना । कथंभूताय नीरदनीलभासे कृष्णारमणप्रियायेति इदं विशेषणद्वयं पूर्ववद्य्वाख्येयं तस्मै । यत्पालितं येन कृष्णेन पालितं संरक्षितं गोकुलं गवां धेनूनां कुलं समूहः । यूथं गौर्वाचि वृषभे चन्द्रे वाग्भूदिग्धेनुषु स्त्रियामिति रत्नमाला । गोकुलं नन्दादिगोपावासस्थानं वा । नित्यमजस्रम् अनाकुलम् उद्वेगरहितं भयरहितमिति यावत् । अनाविलः निर्मल आत्मा स्वभावो यस्य तत् तथोक्तं सद् उल्ललास बभौ ॥ २ ॥
विश्वास-प्रस्तुतिः - ३
अपि त्रिलोक्या बहिरुल्लसन्ती तमो हरन्ती मुहुरान्तरं च ।
दिश्याद्दृशं नो विशदां जयन्ती मध्वस्य कीर्तिर्दिननाथदीप्तिम्॥३॥
मूलम् - ३
अपि त्रिलोक्या बहिरुल्लसन्ती तमो हरन्ती मुहुरान्तरं च ।
दिश्याद्दृशं नो विशदां जयन्ती मध्वस्य कीर्तिर्दिननाथदीप्तिम्॥३॥
पदार्थदीपिकोद्बोधिका
श्रीमदाचार्याणां कीर्तिं वर्णयितुकामस्तां प्रति तद्वर्णनोप-युक्तज्ञानदृष्टिं याचते अपीति । त्रयाणां लोकानां समाहारस्त्रिलोकी तस्याः । ‘अकारा-न्तोत्तरपदो द्विगुस्त्रियामिष्टः’ इति स्त्रीत्वात् ‘द्विगो’रिति ङीप् । बहिरपि उल्लसन्ती शोभमाना । मुहुः पुनः पुनरपि । अन्तरे भवमान्तरम् मानसमित्यर्थः, ‘अन्तरं परिधानीये बाह्ये स्वीयेऽन्तरात्मनी’ति वैजयन्ती । तमोऽज्ञानं हरन्ती । अत एव दिननाथदीप्तिं सूर्यप्रकाशं जयन्ती अतिशयाना मध्वस्य कीर्तिर्नोऽस्मभ्यम् । विशदां निर्मलाम् । दृशं ज्ञानदृष्टिं दिश्यात् प्रदिशतु । दिश अतिसर्जने आशीर्लिङ् । सूर्यदीप्तिस्त्रिलोक्या बहिर्न भाति । नाप्यान्तरं तमो हरति । नैवं मध्वकीर्तिरिति दिननाथदीप्तिं जयन्ती इत्युक्तमिति भावः । व्यतिरेकः ॥ ३ ॥
मन्दोपाकारिणी
इदानीं मध्वाचार्यकीर्तिवर्णनेन स्वस्य निर्मलज्ञानप्राप्तिं प्रार्थयते ॥ अपीति ॥ मध्वस्य आनन्दतीर्थस्य । मध्व आनन्दतीर्थः स्यादित्युक्तेः । कीर्तिर्यशः नो ऽस्माकं, विशदां निर्मलां दृशं ज्ञानदृष्टिं दृक् ज्ञाने ज्ञातरि त्रिष्वित्यमरः दिश्यात् प्रदिशतु । ‘दिश् अतिसर्जन’ इत्यत आशीर्लिङ् परस्मैपदं दिश्याद् दिश्यास्तां दिश्यासुर् इति । कथंभूता कीर्तिर् दिननाथदीप्तिं दिनानां दिवसानां नाथो ऽधिपः सूर्यः ‘‘दिनानामधिपः सूर्य’’ इति वचनात् तस्य दीप्तिं प्रभां जयन्ती तिरस्कुर्वती तदपेक्षया अतिशयितेति यावत् । अतिशयमेव उपपादयति । त्रिलोक्या इति त्रिलोक्यास् त्रयाणां लोकानां भुवनानां समाहारस्त्रिलोकी तस्याः । इयं पञ्चमीविभक्तिः । बहिरपि उल्लसन्ती प्रकाशमाना मुहुः पुन आन्तरम् अन्तर्विद्यमानं तमो ऽज्ञानं हरन्ती नाशयन्ती । दिननाथ-दीप्तिस्तु त्रैलोक्याद् बहिर्न शोभते किन्तु त्रिलोक्यन्तर एव, नापि आन्तरं तमो हरति किन्तु बाह्यमेव तमो ऽन्धकारं परिहरति । अतः मध्वस्य कीर्तेर् दिननाथस्यापेक्षया अतिशयितत्वमिति भावः ॥ ३ ॥
विश्वास-प्रस्तुतिः - ४
तमोनुदाऽऽनन्दमवाप लोकस्तत्त्वप्रदीपाकृतिगोगणेन ।
यदास्यशीतांशुभुवा गुरूंस्तांस्त्रिविक्रमार्यान् प्रणमामि वर्यान्॥ ४ ॥
मूलम् - ४
तमोनुदाऽऽनन्दमवाप लोकस्तत्त्वप्रदीपाकृतिगोगणेन ।
यदास्यशीतांशुभुवा गुरूंस्तांस्त्रिविक्रमार्यान् प्रणमामि वर्यान्॥ ४ ॥
भावप्रकाशिका
तमस्तु अज्ञानकारणम् । तत्त्वप्रदीपात्मको ग्रन्थस् तेजोगणश्च, वस्तुतत्त्वानां प्रदीपाकृतिः ॥ ४ ॥
पदार्थदीपिकोद्बोधिका
स्वपितॄन् त्रिविक्रमपण्डिताचार्यान् प्रणमति तम इति ॥ लोको जनः । ‘लोकस्तु भुवने जने’ इत्यमरः । येषां त्रिविक्रमाचार्याणामास्यं मुखं यदास्यं, तदेव शीतांशुः शीतकिरणश्चन्द्रस् तस्माद्भवतीति तेन । तमोऽज्ञानं नुदतीति तमोनुत् तेन, ‘क्विप् च’ इति कर्तरि क्विप् अज्ञाननाशकेनेत्यर्थः । तत्त्वं श्रीविष्ण्वादिचराचरतत्त्वं प्रदीप-यति प्रकाशयतीति तत्त्वप्रदीपः । श्रीमदाचार्यकृतब्रह्मसूत्रभाष्यव्याख्यानरूप तत्त्वप्रदीपिका-ख्यो ग्रन्थः । स एवाकृतिः स्वरूपं यस्य स तत्त्वप्रदीपाकृतिः स चासौ गोगणो वाक्समूहश्च तेन । आनन्दः सन्तोषस् तम् अवाप । आप्लृ व्याप्तौ लिट् । वर्यान् उत्तमान् । त्रिविक्रमाश्च ते आर्याश्च त्रिविक्रमार्यास्तान् । त्रिविक्रमाख्यगुरूनित्यर्थः । प्रणमामि नमस्करोमि । ‘उप-सर्गादसमासेऽपि णोपदेशस्य’ इति णत्वम् । अर्थान्तरे तु, शीतांशुभुवा चन्द्रादुत्पन्नेन, तमोनुदा अन्धकारनाशकेन । तत्त्वमबाधिततत्पदार्थस्वरूपं तस्मिन्, विषयसप्तमीयम् । प्रदीपवत्प्रकृष्टदीपवदाकृतिर्यस्य स तत्त्वप्रदीपाकृतिः, स चासौ गोगणो रश्मिसमूहश्च तेन । लोकश्चराचरात्मकं विश्वं यथाऽऽनन्दमाप्नुयात्तद्वद्यन्मुखादुत्पन्नेन तत्त्वप्रदीपाख्यग्रन्थेन जन आनन्दमवाप तान् त्रिविक्रमपण्डिताचार्यान् नमामीत्यभिप्रायः रूपकम् ॥ ४ ॥
मन्दोपाकारिणी
इदीनीं स्वपितॄन् प्रणमति ॥ तम इति ॥ अहं तान् गुरून् पितॄन् । गुरुर्निषेकादिकरे पित्रादौ सुरमन्त्रिणीति विश्वः । त्रिविक्रमार्यान् त्रिविक्रमाख्याश्च ते आर्याः पण्डिताश्च तान् ऋ गतौ इति धातोः ‘‘ऋहलोर्ण्यत्’’ इति कर्तरि ण्यत्प्रत्यये आर्या इति रूपम् । ततश्च गत्यर्थानां ज्ञानार्थकत्वाद् आर्याः पण्डिता इति व्याख्यातम् । प्रणमामि प्रकर्षेण भक्त्याद्यतिशयेन नमामि नमस्करोमि । नमु प्रव्हत्वे शब्दे चेत्यतो लट् परस्मैपदं नमामि नमावः नमामः । कथंभूतान् गुरून् वर्यान् उत्तमान् , लोकः जनः ‘लोकस्तु भुवने जन इत्यमरः’ तमोनुदा तमो ऽज्ञानं नुदति नाशयतीति तमोनुत् तेन । यदास्यशीतांशुभुवा येषां त्रिविक्रमपण्डिताचार्याणाम् आस्यं वदनम् । वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखमित्यमरः । तदेव शीतांशुः शीताः शीतला अंशवः किरणा यस्य सः । किरणोस्रमयूखांशुरित्यमरः । शीतांशुश्चन्द्रः शीतांशोर्भुवा उत्पन्नेन तत्त्वप्रदीपा-कृतिगोगणेन तत्त्वप्रदीपाख्या च सा आकृतिश्च समीचीनग्रन्थश्च तत्त्वप्रदीपाकृतिर् गवां वाचां गणः समुदायः गोगणस् तत्त्वप्रदीपाकृतेर् गोगणस् तत्त्वप्रदीपाकृतिगोगणस् तेन आनन्दं सुखम् अवाप प्राप्तवान् । आप्लृ व्याप्तावित्यतो लिट् परस्मैपदम् अवाप अवापतुर् अवापुर् इति । यथा चराचरात्मकलोकस् तमोनुदा तमो ऽन्धकारं नुदति नाशयतीति तमोनुत् तेन शीतांशुभुवा चन्द्रादुत्पन्नेन तत्त्वप्रदीपाकृतिगोगणेन तत्त्वे तत्तत्पदार्थस्वरूपविषये प्रदीपाकृतिः प्रदीपवद् आकृतिर् आकारो यस्य स तथोक्तः दीपवत्प्रकाश इत्यर्थः स चासौ गोगणश्च रश्मिसमूहश्च तेन । गौः स्वर्गे वृषभे रश्माविति विश्व आनन्दम् अवाप्नुयात् तथा यन्मुखादुत्पन्नेन तत्त्वप्रदीपनाम्ना ग्रन्थेन जन आनन्दम् अवाप तान् त्रिविक्रमार्यान् प्रणमामि इति भावः ॥ ४ ॥
विश्वास-प्रस्तुतिः - ५
मुकुन्दभक्त्यै गुरुभक्तिजायै सतां प्रसत्त्यै च निरन्तरायै ।
गरीयसीं विश्वगुरोर्विशुद्धां वक्ष्यामि वायोरवतारलीलाम् ॥ ५ ॥
मूलम् - ५
मुकुन्दभक्त्यै गुरुभक्तिजायै सतां प्रसत्त्यै च निरन्तरायै ।
गरीयसीं विश्वगुरोर्विशुद्धां वक्ष्यामि वायोरवतारलीलाम् ॥ ५ ॥
भावप्रकाशिका
अवताराणां लीलाम् ॥ ५ ॥
पदार्थदीपिकोद्बोधिका
एवमिष्टदेवतागुरुवन्दनादिकं विधाय प्रयोजनाभिधानपूर्वकं चिकीर्षितं प्रतिजानीते मुकुन्देति ॥ गुरुषु भक्तिर्गुरुभक्तिस्तस्या जायत इति गुरुभक्तिजा तस्यै ‘पञ्चम्यावजाता’विति डः । मुचं मोक्षं ददातीति मुकुन्दस् तस्मिन् या भक्तिस्तस्यै ‘तादर्थ्ये चतुर्थी’ गुरुभक्त्यर्थमित्यर्थः । हरिभक्तेर्गुरुभक्तिजत्वञ्च ‘गुरुद्वारा प्रसादकृदहं’ ‘यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ’ ‘अगम्यत्वाद्धरिस्तस्मिन्नाविष्टो मुक्तिदो भवेदि’त्यादिप्रमाणसिद्धम् । प्रयोजनान्तरञ्चाह निरन्तरेति । निर्गतमन्तरं व्यवधानं यस्याः सा निरन्तरा तस्यै । सतां सज्जनानां प्रसत्यै प्रसन्नतायै च । सकलसुरगुरुश्रीमुख्य-प्राणस्यावतारलीलावर्णनेन सन्तोऽपि सन्तुष्टा भविष्यन्ति । तत्सन्तोषश्च श्रीमुख्यप्राणानु-ग्रहविशेषद्वारा श्रीहरिभक्तिविशेषहेतुः । सा च अपरोक्षज्ञानहेतुरित्यतः सुरादिसकल-सत्प्रीत्यर्थञ्चेति भावः । विश्वगुरोः सर्वजगद्गुरोः श्रीमुख्यवायोः । अतिशयेन गुर्वी गरीयसी ताम् । ‘द्विवचनविभज्योपपदे तरबीयसुना’वितीयसुन् । ‘प्रियस्थिर’ इत्यादिना गुरुशब्द-स्यगरित्यादेशः । उगित्वान्ङीप् । विशुद्धां निर्दोषामवतारलीलां हनुमदादिप्रादुर्भावानां लीलां वक्ष्यामि । वच परिभाषणे ऌट् ॥ ५ ॥
मन्दोपाकारिणी
यदर्थमिष्टदेवतादिनमस्कारः कृतस् तद् इदानीं प्रतिजानीते ॥ मुकुन्दभक्त्या इति ॥ विश्वगुरोर् विश्वस्य समस्तस्य मुक्तियोग्यजनस्य गुरोर्ज्ञानोपदेशकस्य गरीयसीम् अतिशयेन गुरुतमामिति यावत् । विशुद्धां निर्दोषाम् अवतारलीलाम् अवताराणां हनुमदाद्यवताराणां लीलां कर्मचरितमिति यावत् । लीलाविलासक्रिययोरिति विश्वः । वक्ष्यामि वदिष्यामि वच् परिभाषण इत्यतो लृट् परस्मैपदं वक्ष्यामि वक्ष्यावः वक्ष्याम इति । कस्मै प्रयोजनाय गुरुभक्तिजायै गुरोर्भक्तिः र्गुरुभक्तिर् गुरुभक्तेर्जायत इति गुरुभक्तिजा तस्यै मुकुन्दभक्त्यै मुकुन्दे भक्तिर् मुकुन्दभक्तिस् तस्यै तादर्थ्ये चतुर्थी मुकुन्दभक्त्यर्थम् । भक्तिर्नाम माहात्म्यज्ञानपूर्वकसुदृढस्नेहः । मुकुन्दभक्तेर्गुरुभक्तिजन्यत्वात्, अप्यच्युतो गुरुद्वारा प्रसादकृदहं त्वित्यादिप्रमाणसिद्धम् । निरन्तरायै अविच्छिन्नायै । सतां सज्जनानां प्रसत्यै प्रसादाय च । सकलमुक्तियोग्यजनगुरूत्तमश्रीमुख्यप्राणावतारचरित्रवर्णनेन सन्तोऽपि सन्तुष्टा भवन्ति । तत्सन्तोषश्च सज्जनानुग्रहद्वारा हरिभक्तिहेतुः सा च मोक्षहेतुरिति भावः ॥ ५ ॥
विश्वास-प्रस्तुतिः - ६
तां मन्त्रवर्णैरनुवर्णनीयां शर्वेन्द्रपूवैरपि वक्तुकामे ।
संक्षिप्नुवाक्ये मयि मन्दबुद्धौ सन्तो गुणाढ्याः करुणां क्रियासुः ॥ ६ ॥
मूलम् - ६
तां मन्त्रवर्णैरनुवर्णनीयां शर्वेन्द्रपूवैरपि वक्तुकामे ।
संक्षिप्नुवाक्ये मयि मन्दबुद्धौ सन्तो गुणाढ्याः करुणां क्रियासुः ॥ ६ ॥
भावप्रकाशिका
‘बत्थिा तद्वपुषे धायि दर्शतं’, ‘भूषन्न योधि बभ्रुषु नम्रते, तां सुते कीति• मघवन्महित्वा’ इति सूक्तानि । ‘विष्णोः पदे परमे मध्व उत्सः, विद्वान् मध्व उज्जभारा दृशे कं’ इत्यादयो मन्त्रवर्णाः । गुणग्राहित्वादयो गुणास्तैराढ्याः ॥ ६ ॥
पदार्थदीपिकोद्बोधिका
शर्वेन्द्रादिदेवश्रेष्ठैर् बत्थिेत्यादिवेदजातेन वर्णनीयामव-तारलीलामयमल्पेन वाक्येनावर्णयदिति सन्तो न कुप्यन्तीत्याशयवान् तत्कृपामर्थयते । तामिति ॥ शर्वेन्द्रौ रुद्रेन्द्रौ पूर्वौ आदी येषां तैः । कर्तरि तृतीया । मन्त्रवर्णैर् बत्थिेत्यादिवेदैः । करणे तृतीया । ‘कर्तृकरणयोस्तृतीये’त्यनुशासनात् । अनुवर्णनीयाम् अनुवर्णयितुं योग्याम् अवतारलीलां वक्तुं काम इच्छा यस्य तस्मिन् । मन्दा अल्पा बुद्धिर्यस्य तस्मिन् । अत एव संक्षिप्नु संक्षेपशीलं वाक्यं यस्य तस्मिन् । ‘त्रसिगृधिधृषिक्षिपेः क्नुः’ इति सम्पूर्वात्क्षिपेस्ताच्छील्ये क्नुः प्रत्ययः । मयि । गुणैर् महत्त्वदयालुत्वादिगुणैराढ्याः सम्पन्नास्सन्तो महान्तः करुणां दयां क्रियासुः कुर्वन्तु । डुकृञ् करणे लिङ् ॥ ६ ॥
मन्दोपाकारिणी
तामिति ॥ शर्वेन्द्रपूर्वैरपि शर्वः रुद्रश्च इन्द्रः शचीपतिश्च शर्वेन्द्रौ तौ पूर्वौ आदी येषां ते तथोक्तास् तैः सुरैरिति शेषः । मन्त्रवर्णैर् वेदैः करणैः ‘बत्थिा तद्बपुषे धायि दर्शतं ‘भूषन्न योधि बभ्रूषु नम्नते तां सुते कीर्तिं मघवन्महित्वा’ ‘विष्णोः पदे परमे मध्व उत्सः’ विद्वान् मध्व उज्जभारा दृशे कं’ इत्याद्यैरित्यर्थः । अनुवर्णनीयाम् अनुवर्णयितुं योग्यां ताम् अवतारलीलाम् । वक्तुकामे वक्तुं वर्णयितुं काम इच्छा यस्य स तथोक्तस्तस्मिन् । इच्छा मनोभवः काम इत्यमरः । मन्दबुद्धौ मन्दा अल्पा अल्पविषयिणि इति यावद् बुद्धिर्मतिर्यस्य स तथोक्तस् तस्मिन् । अत एव संक्षिप्नुवाक्ये संक्षिप्नूनि संक्षेपणशीलानि स्वल्पानीति यावद् वाक्यानि पदसमूहरूपाणि यस्य स तथोक्तस्तस्मिन् मयि । गुणाढ्या गुणैर् दोषग्राहित्वसारग्राहित्वदयालुत्वादिभिर् आढ्याः सम्पन्नाः सन्त उत्तमा जनाः । ‘सच्छब्द उत्तमं ब्रूयात्’ इत्युक्तेः । करुणां कृपां क्रियासुः कुर्वन्तु । डु कृञ् करण इत्यस्माद्धातोः कर्मणि आशीर्लिङ् परस्मैपदं क्रियात् क्रियास्तां क्रियासुर इति । बहुवाक्यैर्वर्णनीयां वायोरवतारलीलाम् अल्पवाक्यैरकथयदिति महान्तो न कुप्यंत्विति भावः । इन्द्रवज्रावृत्तं लक्षणं तु प्रथमश्लोके उक्तम् ॥ ६ ॥
विश्वास-प्रस्तुतिः - ७
उच्चावचा येन समस्तचेष्टाः किं तत्र चित्रं चरितं निवेद्यम् ।
किन्तूत्तमश्लोकशिखामणीनां मनोविशुद्ध्यै चरितानुवादः ॥ ७ ॥
मूलम् - ७
उच्चावचा येन समस्तचेष्टाः किं तत्र चित्रं चरितं निवेद्यम् ।
किन्तूत्तमश्लोकशिखामणीनां मनोविशुद्ध्यै चरितानुवादः ॥ ७ ॥
पदार्थदीपिकोद्बोधिका
सर्वचेष्टकस्य वायोरवतारलीलायाः साकल्येन वर्णयितुम-शक्यत्वान्मनोविशुद्ध्यर्थत्वेन वेदगणप्रतिपादितचरित्राणामनुवादमात्रं लेशतः क्रियत इत्याह । उच्चेति ॥ येन श्रीमुख्यप्राणेन उच्चा महापर्वतोद्धरणाद्यास् ताश्च अवचा अल्पतृणाद्युद्ध-रणाद्यास्ताश्च, उच्चावचा मयूरव्यंसकादिवत्समासः । समस्तचेष्टाः समस्तप्राणिनां व्यापाराः स्युरिति शेषः । कारकाणां प्रयोगे तु क्रियाभावेऽस्ति तिष्ठतीऽति वचनान्नाध्याहारो दोषः । सर्वेषां जीवानां देहेन्द्रियनियमनार्थं सर्वजीवान्तर्गतेन येन मुख्यप्राणेन सर्वचेष्टा भवन्तीत्यर्थः । तत्रैवं सर्वप्रवर्तकस्य चरितेषु किं चरितं किं कर्म चित्रम् इदं चित्रमिति निवेद्यं निवेदयितुं शक्यं वर्णयितुं शक्यमित्यर्थः । तत्कृतानां सर्वेषामपि चरितानां चित्रत्वादिदं चित्रमिति विशिष्य वर्णयितुमशक्यमिति भावः । तर्हि न वर्णनीयमित्याशयेन शङ्कते । किन्त्विति ॥ उत्तरमाह उत्तमेत्यादिना । उत्तमः श्लोकः कीर्तिर्येषां तेषु शिखामणय इव चूडाया रत्नानीव तेषाम् । ‘पद्ये यशसि च श्लोक’ इत्यमरः । श्रीहरिभक्तानां मध्येऽत्युत्तमानामित्यर्थः । चरितानुवादश् चरित्राणामनुवर्णनम् ‘भाव’ इति सूत्रेण भावार्थे घञ् । मनोविशुद्ध्यै तादर्थ्ये चतुर्थी, चित्तशुद्ध्यर्थमित्यर्थः । स्यादिति योज्यम् ॥ ७ ॥
मन्दोपाकारिणी
उच्चेति ॥ येन मुख्यवायुना उच्चावचा उच्चाः पर्वतोद्धारणाद्या अवचास् तृणोद्धारणाद्या उच्चाश्चावचाश्चेति द्वन्द्वः । अनेकप्रकारा इति यावत् । उच्चावचं नैकभेदमित्यमरः । समस्तचेष्टाः समस्तव्यापाराः सर्वप्राणिनां स्युरिति शेषः । सर्वेषां देहेन्द्रियनियामकतया सर्वान्तर्गतेन येन वायुना सर्वे व्यापारा यत्प्रेरणया भवन्ति तत्र एवं सर्वप्रवर्तकवायुचरितेषु मध्ये किं चरितं कर्म चित्रम् आश्चर्यमिति निवेद्यं निवेदयितुं वर्णयितुं शक्यम् । तत्कृतानां सर्वेषामपि चरितानां चित्रत्वाद् इदं चित्रमिति विशेषतो वर्णयितुं न शक्यमिति भावः । तर्हि न वर्णनीयं किमित्याशङ्कते किंत्विति तस्योत्तरमाह उत्तमेति ॥ उत्तमश्लोकशिखामणीनाम् उत्तमः पुण्यकरः श्लोकः यशः येषां ते उत्तमश्लोकाः । पद्ये यशसि च श्लोक इत्यमरः । तेषां शिखामणयश् चूडामणयः शिरोरत्नभूता इत्यर्थः । उत्तमा इति यावत् । तेषां चरितानां चरित्राणाम् अनुवादो ऽनुवर्णनं मनोविशुद्ध्यै मनसः हृदयस्य विशुद्ध्यै । तादर्थ्ये चतुर्थी । रागद्वेषादिदोषपरिहारार्थं स्याद् अतो वर्णनीयमिति भावः ॥ ७ ॥
विश्वास-प्रस्तुतिः - ८
मालाकृतस्तच्चरिताख्यरत्नैरसूक्ष्मदृष्टेः सकुतूहलस्य ।
पूर्वापरीकारमथापरं वा क्षाम्यन्तु मे हन्त मुहुर्महान्तः ॥ ८ ॥
मूलम् - ८
मालाकृतस्तच्चरिताख्यरत्नैरसूक्ष्मदृष्टेः सकुतूहलस्य ।
पूर्वापरीकारमथापरं वा क्षाम्यन्तु मे हन्त मुहुर्महान्तः ॥ ८ ॥
भावप्रकाशिका
अपरं वा अपरपूर्वीकारं वा ॥ ८ ॥
पदार्थदीपिकोद्बोधिका
यथा कश्चिन्मालाकारोऽनर्घरत्नानि दृष्ट्वा सम्भ्रान्तः सन् तद्ग्रथने आनुपूर्वीं विहाय पूर्वापरीकारादिकं कुर्यात्, तद्वद् अहमपि स्वतो मन्दबुद्धिः सन् अनेकश्रुतिप्रतिपादितश्रीमुख्यप्राणस्य चरिताख्यरत्नानि दृष्ट्वा सम्भ्रान्तः सन् तद्वर्णनविषये यदि पूर्वापरीकारादिकं कुर्यां तदा महान्तोऽनुकम्पया तत्क्षाम्यन्त्वित्याशयवानाह मालेति ॥ महान्तः सज्जनास् तस्य वायोर् यानि चरितानि कर्माणि तानीति आख्या नाम येषां तानि तथोक्तानि तानि च तानि रत्नानि च तैः । करोतीति कृन् मालायाः कृत् तस्य । ‘क्किप् च’ इति कर्तरि क्विपि‘ह्रस्वस्य पिति कृति तुक्’ इति तुक् । दृष्टिर्दर्शनं ‘स्त्रियां क्तिन्’, इति भावे क्तिन् । सूक्ष्मा च सा दृष्टिश्च न विद्यते सूक्ष्मदृष्टिः साकल्येन सर्वार्थविषयकज्ञानं यस्य तस्य । सकुतूहलस्य ससंभ्रमस्य मे मम । पूर्वस्य पूर्वं वर्णनीयस्य चरित्रस्य अपरीकारो ऽपरीकरणं पश्चाद्वर्णनमित्यर्थः । अथ अथवा अपरं वा पश्चाद्वर्णनीयस्यादितो वर्णनं वेत्यर्थः । मुहुः पुनः पुनः क्षाम्यन्तु । ‘क्षमूष् सहने’ लोट् । हर्षद्योतकं हन्तेत्येतत् ‘हन्त हर्षेऽनुकम्पायां’ इत्यमरः । पूर्वापरीकारकरणादौ निमित्तमुक्तमसूक्ष्मदृष्टेरिति, असूक्ष्मदृष्टित्वेऽपि सम्यग् विमर्शेन पूर्वापरीकारादिकं परिहर्तुं शक्यत इत्यत उक्तं सकुतूहलस्येति । सकुतूहलस्य न विचारावसर इति भावः । रूपकम् ॥ ८ ॥
मन्दोपाकारिणी
मालेति ॥ महान्तः सज्जनाः । तच्चरिताख्यरत्नैस् तस्य श्रीमुख्यप्राणस्य चरितानीति आख्या नाम येषां तानि तथोक्तानि तान्येव रत्नानि पद्मरागमौक्तिकादिमणयस् तैः । रत्नं मणिर्द्वयो रश्मजातौ मुक्तादिकेऽपि चेत्यमरः । मालाकृतः मालां स्रजं करोति रचयतीति मालाकृत् तस्य । मे मम । पूर्वापरीकारं पूर्वस्य प्रथमतो वर्णनीयस्य चरितस्य अपरीकारं पश्चाद्वर्णनम् अपरं प्रकारान्तरं च पश्चाद्वर्णनीयस्य चरितस्यादितो वर्णनमपि चेत्यर्थः । हन्त अनुकम्पायां हर्षणे वा । हन्त हर्षेऽनुकम्पायामित्यमरः । मुहुर् भृशं क्षाम्यंतु सहन्तु ‘‘क्षमूष् सहन’’ इत्यतो लोट् परस्मैपदं क्षाम्यतु क्षाम्यतात् क्षाम्यतां क्षाम्यंतु इति । पूर्वापरीकरणस्य निमित्तमाह असूक्ष्मदृष्टेरिति । सूक्ष्मा गुह्यार्थविषयिणी च सा दृष्टिर्ज्ञानं न विद्यते सूक्ष्मदृष्टिर्यस्य स तथोक्तस् तस्य । दृष्ठिर्ज्ञानेक्ष्णि दर्शन इत्यमरः । अत एव पूर्वापरीकारादिकं सम्भावितमिति भावः । असूक्ष्मदृष्टेरपि परामर्शने पूर्वापरीकारादिकं परिहर्तुं शक्यत इत्याशङ्क्य तदशक्यमित्याह सकुतूहलस्येति । सकुतूहलस्य कुतूहलं कौतुकम् औत्सुक्यमिति यावत् तेन सहितस्य । कुतुकं च कुतूहलमित्यमरः । सन्तोषयुक्तत्वादेवापरामर्शावसर इति भावः । यथा कश्चिन्मालाकारो ऽनर्घ्यरत्नानि दृष्ट्वा सम्यक् सम्भ्रमयुक्तः सन् क्रमं विहाय पूर्वापरीकारादिकं कुर्यात् तद्वद् अहमपि स्वतो मन्ददृष्टिः सन् चरिताख्यरत्नानि दृष्ट्वा सम्भ्रमान्तःकरणः सन् यदि पूर्वापरीकारादिकं कुर्यां तर्हि महान्तोऽनुकम्पया तन् मुहुः क्षाम्यंत्विति ॥ ८ ॥
विश्वास-प्रस्तुतिः - ९
श्रीवल्लभाज्ञां ससुरेन्द्रयाञ्चां सम्भाव्य सम्भाव्यतमां त्रिलोक्याम् ।
प्राणेश्वरः प्राणिगणप्रणेता गुरुः सतां केसरिणो गृहेऽभूत् ॥ ९ ॥
मूलम् - ९
श्रीवल्लभाज्ञां ससुरेन्द्रयाञ्चां सम्भाव्य सम्भाव्यतमां त्रिलोक्याम् ।
प्राणेश्वरः प्राणिगणप्रणेता गुरुः सतां केसरिणो गृहेऽभूत् ॥ ९ ॥
भावप्रकाशिका
तीर्थविघ्नकरं दुष्टगजं हत्वा प्रतोषिताः । भरद्वाजादयो धन्यं पुत्रं केसरिणो ददुः ॥ ९ ॥
पदार्थदीपिकोद्बोधिका
वायोरवतारलीलां वक्ष्यामीत्युक्तं तत्र हनुमदवतारस्य प्राथमिकत्वात्तत्प्रादुर्भावकथनपूर्वकं तल्लीलां वक्तुमारभते । श्रीवल्लभेत्यादिना ॥ प्राणिनां जीवानां गणः समूहस्तस्य प्रणेता प्रेरकः । प्राणिगणस्येति कर्मणः शेषत्वविवक्षायां तृजन्तेन प्रणेतृशब्देन ‘षष्ठी’ति षष्ठीतत्पुरुषः । ‘कर्तृकर्मणोः कृती’ति कृल्लक्षणषष्ट्यास्तृजकाभ्यां कर्तरि चे’ति षष्ठीसमासप्रतिषेधात् । सतां गुरुर् हितोपदेष्टा । प्राणेश्वरः सर्वजीवाधीश्वरः । ‘प्राणस्तु प्रणवे जीवे जीविते परमात्मनि’ इति यादवः । सुरेन्द्राणां सुरश्रेष्ठानां रुद्रादीनां याञ्चा हे स्वामिन् भुव्यवतीर्य राक्षससंहारं कुर्विति प्रार्थना तया सहिता ससुरेन्द्रयाञ्चा ताम्। त्रिलोक्य•म् । अतिशयेन सम्भाव्या सम्भाव्यतमा तां ‘अतिशायने तमबिष्ठना’विति तमप् । श्रीवल्लभाज्ञां श्रीकान्ताज्ञां सम्भाव्य आदृत्य केसरिणः केसरिनाम्नो वानरस्य गृहे भार्यायाम् अञ्जनादेव्यां ‘जाया च गृहिणी गृहम्’ इति हलः । अभून् मुख्यवायुना अनुग्रहपूर्वकमञ्जनायाः स्पर्शनमात्रात्प्रादुर्भूतः । ‘तीर्थविघ्नकरं दुष्टगजं हत्वा प्रतोषिताः । भारद्वाजादयो धन्यं पुत्रं केसरिणो ददुः’ ॥ इति वचनान्मुनीनां वरादेव केसरिपुत्रत्वं प्राणो भेज इत्यतः केसरिपुत्रत्त्वमौपचारिकम् ॥ ९ ॥
मन्दोपाकारिणी
वायोरवतारलीलां वक्ष्यामीत्युक्तं तत्र हनुमदाख्यावतारस्य प्राथमिकत्वात्तल्लीलां वक्तुमारभते ॥ श्रीवल्लभाज्ञामित्यादिना ॥ प्राणिगणप्रणेता प्राणिनां चेतनानां प्राणी तु चेतनो जन्मीत्यमरः गणा बहुविधाः समुदायास्तेषां प्रणेता नायकः । अधिभूर्नायको नेतेत्यमरः प्रेरक इति यावत् । सतां मुक्तियोग्यानां गुरुर् ज्ञानोपदेष्टा । प्राणेश्वरः प्राणानामिन्द्रियाभिमानिसूर्यादिदेवतानाम् ईश्वरः श्रेष्ठः मुख्यप्राण इति यावत् । केसरिणः केसरिनाम्नो वानरस्य गृहे भार्यायाम् । गृहिणी गृहमित्यमरः । अभूत् प्रादुरभूत् । भू सत्तायामित्यतो लुङ् परस्मैपदम् अभूद् अभूताम् अभूवन् । किं कृत्वा ससुरेन्द्रयाञ्चां सुरेन्द्रा देवश्रेष्ठास् तेषां याञ्चा प्रार्थना तया सहिताम् । त्रिलोक्यां लोकत्रये संभाव्यतमां संभावयितुं बहुमानयितुं योग्या संभाव्या अतिशयेन संभाव्या संभाव्यतमा तां सर्वैर् अवश्यमङ्गीकरणीयामित्यर्थः । श्रीवल्लभाज्ञां श्रियः वल्लभस्य दयितस्य नारायणस्य आज्ञां कार्यं कुर्वित्येवंरूपां वाचं संभाव्य आदृत्य अङ्गीकृत्येति यावत् ॥ ९ ॥
विश्वास-प्रस्तुतिः - १०
ये ये गुणा नाम जगत्प्रसिद्धा यं तेषु तेषु स्म निदर्शयन्ति ।
साक्षान्महाभागवतप्रबर्हं श्रीमन्तमेनं हनुमन्तमाहुः ॥ १० ॥
मूलम् - १०
ये ये गुणा नाम जगत्प्रसिद्धा यं तेषु तेषु स्म निदर्शयन्ति ।
साक्षान्महाभागवतप्रबर्हं श्रीमन्तमेनं हनुमन्तमाहुः ॥ १० ॥
भावप्रकाशिका
पराक्रमोत्साहमतिप्रतापैः सौन्दर्यमाधुर्यदयानयैश्च । गांभीर्यचातुर्य-सुवीर्यधैर्यैर्हनूमतः को ह्यधिकस्त्रिलोक्याम् ॥ प्रवीविविक्षोरिव सागरस्य लोकान् दिधक्षोरिव पावकस्य । लोकक्षयेष्वेव यथान्तकस्य हनूमतः स्थास्यति कः पुरस्तात् ॥ ससूत्रवृत्त्यर्थपदं महार्थं ससङ्ग्रहं साध्यति वै कपीन्द्रः । न ह्यस्य कश्चित् सदृशोऽस्ति शास्त्रे वैशारदे छन्दगतौ तथैव इति श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे ॥ १० ॥
पदार्थदीपिकोद्बोधिका
तस्य हनुमच्छब्दवाच्यत्वे निमित्तमाह । य इति ॥ ये ये गुणानाम गुणशब्दवाच्या जगत्प्रसिद्धा लोकेषु प्रसिद्धाः । ‘इन्द्रे शौर्यं बलं वायौ कान्तिश्चन्द्रमसि क्षमा पृथिव्याम्’ इत्यादिप्रकारेण तत्र तत्र प्रख्याता इत्यर्थः । यद्वा नामेत्यव्ययं प्रसिद्धार्थे वर्तते ‘सिद्धिरुत्पत्तिर्ज्ञप्तिर्वा’ इत्युक्तेः प्रसिद्धशब्दः प्रमित इत्यर्थे वर्तते । तथा च जगत्प्रसिद्धा इन्द्रादिलोकेषु प्रमिता ये ये गुणा नाम गुणा इति प्रसिद्धा इति वा तेषु तेषु गुणत्वेन प्रसिद्धेषु यं केसरिपुत्रं कवयो निदर्शयन्ति स्म, दृष्टान्तमकुर्वन् । ‘लट् स्म’ इति भूतार्थे लट्, ‘दृशिर् प्रेक्षणे’ लट् । साक्षान् निरुपचारेण । महान्तो ये भागवता भगवद्भक्तास्तेषु प्रबर्हः श्रेष्ठस्तम् । ‘मुख्यं पुरोगं प्रवरं प्रबर्हम्’ इति हलः । श्रीमन्तं कान्तिमन्तमेनं केसरिपुत्रं हनुमन्तं हनुमच्छब्दवाच्यमाहुर्वदन्ति । ब्रूञ् व्यक्तायां वाचि लट् । ‘ब्रुवः पञ्चानामादित आहो ब्रुवः’ इत्याहादेशः । ‘हनुशब्दो ज्ञानवाची’ इति वचनाज् ज्ञानवाचिहनुशब्दोपलक्षितसकलगुणवत्त्वात् हनुमानिति जगत्प्रसिद्धोऽभूदिति भावः ॥ १० ॥
मन्दोपाकारिणी
ये य इति ॥ ये ये गुणा नाम गुणशब्दवाच्यत्वेनेत्यर्थः । जगत्प्रसिद्धाः सन्ति तेषु गुणत्वेन जगत्प्रसिद्धेषु धर्मेषु महान्त इत्यध्याहारः यं केसरिपुत्रं निदर्शयन्ति स्म दृष्टान्तमकुर्वन् । निपूर्वाद् दृशिर् प्रेक्षण इत्यतो लट् परस्मैपदं दर्शयति दर्शयतः दर्शयन्ति । स्मशब्दयोगेन लटो भूतार्थकत्वम् । तमेनं केसरिपुत्रं हनुमन्तं हनुमन्नामकम् आहुर् वदन्ति । ब्रूञ् व्यक्तायां वाचीत्यतो लट् परस्मैपदम् आह आहतुर् आहुरिति । यस्मात् हनुशब्दवाच्याः सर्वेऽपि ज्ञानादयो धर्मा अस्मिन् केसरिपुत्रे सन्तीति ज्ञानिप्रत्यक्षसिद्धम् । ‘ज्ञाने विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषु योगे’ इत्युक्तेः । हनुशब्दस्य ज्ञानवाचित्वात् हनुशब्देन वैराग्यभक्त्यादिसर्वेषां गुणशब्दवाच्यानाम् उपलक्षणया ग्रहणात् । हनुरस्यास्तीति हनुमानिति व्युत्पत्त्या ज्ञानोपलक्षितसर्वगुणाश्रयत्वस्य प्रतीतेर् एनं केसरिपुत्रं हनुमन्तं वदन्तीति भावः । कथंभूतम् एनं साक्षान् मुख्यतः महाभागवतप्रबर्हं भगवत इमे भागवता भगवद्भक्ता इत्यर्थः । महान्तश्च ते भागवताश्च महाभागवतास् तेषु प्रबर्हं मुख्यम् । मुख्यवर्यवरेण्याश्च प्रबर्होऽन वरार्घ्यवदित्यमरः । पुनः किम्भूतं श्रीमन्तं श्रीः कान्तिः सम्पद् अस्यास्तीति श्रीमान् तम् । श्रीः पद्मा कान्तिसम्पदोरिति धनञ्जयः । इन्द्रवज्रावृत्तम् ॥ १० ॥
विश्वास-प्रस्तुतिः - ११
कर्माणि कुर्वन् परमाद्भुतानि सभासु दैवीषु सभाजितानि ।
सुग्रीवमित्रं स जगत्पवित्रं रमापतिं रामतनुं ददर्श॥ ११ ॥
मूलम् - ११
कर्माणि कुर्वन् परमाद्भुतानि सभासु दैवीषु सभाजितानि ।
सुग्रीवमित्रं स जगत्पवित्रं रमापतिं रामतनुं ददर्श॥ ११ ॥
पदार्थदीपिकोद्बोधिका
तृतीयावतारलीलां सप्रपञ्चं विवक्षुर् आद्यावतारलीलां संक्षेपेण तावद्वक्तुमारभते कर्माणीत्यादिना ॥ परमाणि च तानि अद्भुतानि च अत्याश्चर्याणीत्यर्थः । देवानां सम्बन्धिन्यो दैव्यास् तासु दैवीषु सभासु सभाजितानि मानितानि कर्माणि ‘राहुनिग्रहः, सूर्यरथेन सह महामेरुपरिवर्तनमित्यादिकर्माणि’ कुर्वन् । सुग्रीवमित्रं सुग्रीवस्यानिमित्तोपकारी स हनुमान् जगत्पवित्रं जगति शुद्धं पूञः ‘संज्ञाया’मिति करणेऽर्थे इत्रच् । निर्दोषमित्यर्थः । राम इति तनुः स्वरूपं यस्य तं रमापतिं श्रीरामं ददर्श । सीतान्वेषणव्याजेन ऋष्यमूकगिरिं प्रत्यागतं श्रीरामं तत्र ददर्शेति भावः ॥ ११ ॥
मन्दोपाकारिणी
कर्माणिति ॥ परमाद्भुतानि परमम् अत्यन्तम् अद्भुतानि आश्चर्याणि । दैवीषु देवानां सम्बन्धिन्यः दैव्यस् तासु सभासु सभाजितानि आदृतानि कर्माणि चरितानि कुर्वन् । सुग्रीवमित्रं सुग्रीवस्य तन्नामकस्य वानरस्य मित्रं सखा । अथ मित्रं सुहृत्सखेत्यमरः । मित्रशब्दो नित्यनपुंसकः । सः हनुमान् जगत्पवित्रं जगति पवित्रं शुद्धं जगद् लोकं पावयति पवित्रीकरोति स्वदर्शनादिनेति जगत्पवित्रस्तमिति वा । रामतनुं रामाख्या राघवरामाख्या तनुर् अवतारः यस्य तम् । रमापतिं रमाया इन्दिरायाः पतिं भर्तारम धवः प्रियः पतिर्भर्तेत्यमरः । ददर्श दृष्टवान् । दृशिर् प्रेक्षण इत्यतो लिट् परस्मैपदं ददर्श ददृशतुर् ददृशुः ॥ ११ ॥
विश्वास-प्रस्तुतिः - १२
पादारविन्दप्रणतो हरीन्द्रस्तदा महाभक्तिभराभिनुन्नः ।
अग्राहि पद्मोदरसुन्दराभ्यां दोर्भ्या• पुराणेन स पूरुषेण ॥ १२ ॥
मूलम् - १२
पादारविन्दप्रणतो हरीन्द्रस्तदा महाभक्तिभराभिनुन्नः ।
अग्राहि पद्मोदरसुन्दराभ्यां दोर्भ्या• पुराणेन स पूरुषेण ॥ १२ ॥
पदार्थदीपिकोद्बोधिका
दृष्ट्वा च प्रणतं हनुमन्तं श्रीराम उत्थापितवानित्याह । पादेति ॥ तदा महती या भक्तिः सैव भरो भारस् तेन अभिनुन्नो ऽभितः प्रेरितः । महतीशब्दस्य ‘पुंवत्कर्मधारये’ति पुंवद्भावे ‘आन्महत’ इति आत्वम् । ‘भरोऽति-शयभारयो’रिति वैजयन्ती । अत एव पादावरविन्दे इव कमले इव तयोः प्रणतः हरीन्द्रः कपीन्द्रः स हनुमान्, पुरा आदिकाले अनति चेष्टत इति पुराणस्तेन पूरुषेण श्रीरामेण । ‘पुरुषाः पूरुषा नराः’ इत्यमरः । पद्मस्य यदुदरमन्तर्भागस् तद्वत्सुन्दरौ रमणीयौ ताभ्यां दोर्भ्यां हस्ताभ्याम् अग्राहि गृहीत उत्थापित इति यावत् । यथा महाभारमुद्वहन्न-शक्तत्वात्पतन् कश्चित्केनचिदाशु गृह्यते तद्वदिति श्लेषाभिप्रायः । उपमा ॥ १२ ॥
मन्दोपाकारिणी
पादारविन्देति ॥ तदा रामदर्शनकाले महाभक्तिभराभिनुन्नः महती च सा भक्तिश्च महाभक्तिः स एव भरः भारः भरोऽतिशयभारयोरित्यमरस् तेन नुन्नः प्रेरितः । अत एव पादारविन्दप्रणतः पादौ चरणे अरविन्दे इव पद्मनीव । वा पुंसि पद्मं नलिनमरविन्दं महोत्पलमित्यमरः । तयोः प्रणतः प्रकर्षेण नतः प्रह्वः । हरीन्द्रः हरीणां वानराणाम् इन्द्र ईशिता चन्द्रे सूर्ये यमे विष्णौ वासवे दर्दुरे हये । मृगेन्द्रे वानरे वायौ दशस्वपि हरिः स्मृत इति धनञ्जयः । भद्रेन्द्र इन ईशितेति च । स हनूमान् पुराणेन पुरातनेन । पुराणप्रतनप्रत्नपुरातनचिरन्तना इत्यमरः । पूरुषेण रामेणेत्यर्थः । पद्मोदर-सुन्दराभ्यां पद्मस्य कमलस्य उदरवद् अन्तस्थदलवत् सुन्दराभ्यां मनोहराभ्यां दोर्भ्यां कराभ्याम् अग्राहि गृहीत उत्थापित इति यावत् । ग्रह उपादान इत्यतः कर्मणि लुङ् आत्मनेपदम् अग्राहि अग्राहिषाताम् अग्राहिषत इति ॥ १२ ॥
विश्वास-प्रस्तुतिः - १३
अदार्यसालावलिदारणेन व्यापादितेन्द्रप्रभवेन तेन ।
प्राद्योतनिप्रीतिकृता निकामं मधुद्विषा संदिदिशे स वीरः॥ १३ ॥
मूलम् - १३
अदार्यसालावलिदारणेन व्यापादितेन्द्रप्रभवेन तेन ।
प्राद्योतनिप्रीतिकृता निकामं मधुद्विषा संदिदिशे स वीरः॥ १३ ॥
पदार्थदीपिकोद्बोधिका
स्वबलपरीक्षार्थं सुग्रीवप्रदर्शितसप्तसालविदारकेण स्वमित्र सुग्रीवप्रीत्यर्थं वालिनिग्रहं कृतवता श्रीरामेण सीतान्वेषणार्थं हनुमान् प्रेषित इत्याह । अदार्येति ॥ अदार्याणां श्रीरामेतरैर्दारयितुमनर्हाणां सालानां सालवृक्षाणाम् आवलेर्दारणं विदारणं येन तेन । इन्द्रात्प्रभव उत्पत्तिर्यस्येति इन्द्रप्रभवः । प्रभवतीति प्रभवः पचाद्यच् । इन्द्रात्प्रभव इति वा । व्यापादितः संहृत इन्द्रप्रभवो वाली येन तेन । अत एव निकामं नितरां, प्रद्योतनस्य सूर्यस्यापत्यं पुमान् प्राद्योतनिः सुग्रीवस्तस्य प्रीतेः कृत् करोतीति कृत् तेन । द्वेष्टीति द्विट् ‘सत्सूद्विष’ इत्यादिना कर्तरि क्विप् । मधोर् मधुनामकदैत्यस्य द्विट् शत्रुस् तेन । ‘शत्रुः सपत्नो भ्रातृव्यः प्रत्यनीको द्विषन्मत’ इति हलः । तेन श्रीरामेण वीरः स हनुमान् सन्दिदिशे सीतान्वेषणार्थं सम्प्रेषितः । दिश अतिसर्जने कर्मणि लिट् ॥ १३ ॥
मन्दोपाकारिणी
अदार्येति ॥ अदार्यसालावलिदारणेन दारयितुं शक्या दार्या न दार्या अदार्या रामेतरैरभेद्या इत्यर्थः । ते च ते सालाश्च तालवृक्षाश्च तेषामावलिः पङि्क्तस् तस्या दारणं भेदनं येन स तथोक्तः । अत्र ‘‘सालः पादपमात्रे स्यादि’’त्यभिधानात् साल-शब्दस्य सामान्यवाचित्वेऽपि वृक्षविशेषास् तालवृक्षा ग्राह्या रामायणोक्तेः । वीथ्यालिरावलिः पंक्तिरित्यमरः । व्यापादितेन्द्रप्रभवेन इन्द्रात्प्रभव उत्पत्तिर्यस्य स इन्द्रप्रभवः व्यापादितः हिंसित इन्द्रप्रभवो वाली येन स तथोक्तस्तेन । अत एव निकामं नितराम् । प्राद्योतनि-प्रीतिकृता प्रद्योतनः सूर्यः, प्रद्योतनो दिनमणिरित्यमरः । प्रद्योतनस्यापत्यं पुमान् प्राद्योतनिः सुग्रीवस् तस्य प्रीतिं हर्षं करोतीति प्रीतिकृत् तेन । मधुद्विषा मधोर् मधुनाम्नः द्विट् शत्रुस् तेन रामेण वीरः पराक्रमी । शूरो वीरश्च विक्रान्त इत्यमर आरब्धान्तगामीति यावत् । स हनुमान् सन्दिदिशे सीतान्वेषणार्थं प्रेषितः । संपूर्वाद्दिश् आज्ञापने इत्यस्मात्कर्मणि लिडात्मनेपदं दिदिशे दिदिशाते दिदिशिरे ॥ १३ ॥
विश्वास-प्रस्तुतिः - १४
कर्णान्तमानीय गुणग्रहीत्रा रामेण मुक्तो रणकोविदेन ।
स्फुरन्नसौ वैरिभयङ्करोऽभूत् सत्पक्षपाती प्रदरो यथाऽग्रयः॥ १४ ॥
मूलम् - १४
कर्णान्तमानीय गुणग्रहीत्रा रामेण मुक्तो रणकोविदेन ।
स्फुरन्नसौ वैरिभयङ्करोऽभूत् सत्पक्षपाती प्रदरो यथाऽग्रयः॥ १४ ॥
भावप्रकाशिका
गुणग्रहीत्रा दोषेतरग्राहिणा ज्याकर्षणेन च । पक्षो भागः पतत्रं च ॥ १४ ॥
पदार्थदीपिकोद्बोधिका
सीतान्वेषणार्थं लङ्कां प्रति गच्छन्तं हनूमन्तं श्रीरामशर-साम्येन वर्णयति । कर्णान्तमिति ॥ गुणान् पराक्रमादिशुभधर्मान् गृह्णाति तच्छील इति, तेन । गुणानां ग्रहीता तेनेति वा । घटानां निर्मातुस्त्रिभुवनविधातुश्च कलहः’ इतिवच्छेष-षष्ठ्याः समासः । ‘पराक्रमे दक्षयशःप्रतापैः सौजन्यमाधुर्यनयानयैश्च । गाम्भीर्यचातुर्य-सुवीर्यधैर्यैर्हनूमतः कोऽभ्यधिकस्त्रिलोक्याम् ॥ प्रजां मिमङ्क्षोरिव सागरस्य लोकान् दिधक्षोरिव पावकस्य । सर्वं जिहीर्षोरिव चान्तकस्य हनूमतः स्थास्यति कः पुरस्तात्’ ॥ इत्याद्युत्तररामायणप्रसिद्धगुणान् जानता वदता वेति भावः । गुणो मौर्वी च । गुणग्रहीत्रा मौर्वीग्राहिणा । रणे युद्धे कोविदेन चतुरेण श्रीरामेण । कर्णस्यान्तः समीपं तं, ‘अन्तोऽस्त्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिक’ इति वैजयन्ती आनीय मौर्वीकर्षको रामः यथा मौर्वीं कर्णान्तमाकृष्य बाणं मुञ्चति तद्वत् सीतां प्रति रहसि वक्तव्यमभिज्ञारूपं प्रमेयमङ्गुलीयप्रदानपूर्वकं वक्तुं कर्णान्तिकमानीयेति भावः । रामेण मुक्तः प्रेषित इति भावः । स्फुरन् शोभमानः । सत्सु पक्षपातः स्वीयताग्रहः सत्पक्षपातः सोऽस्यास्तीति तथोक्तः । शरोऽपि सत्पक्षेण शोभनपतत्रेण पातो गमनं तद्वान् । असौ हनुमान् । अग्रयः ‘आर्जवनिशितत्वादिगुणयुक्तत्वेन श्रेष्ठः’ । प्रदरः श्रीरामशरो यथा तद्वद् वैरिभयङ्करः रावणादिशत्रुभयङ्करः । भयशब्दोपपदात् कृञः कर्तरि ‘मेघर्तिभयेषु कृञ’ इति खशि ‘अरुर्द्विषदजन्तस्य मुम्’ इति मुम् । अभूत् । श्लिष्टविशेषणोपमा ॥ १४ ॥
मन्दोपाकारिणी
कर्णांतमिति ॥ गुणगृहीत्रा ‘‘पराक्रमौदार्ययशःप्रतापैः सौजन्य-माधुर्यनयानुनायैः । गांभीर्यचातुर्यसुवीर्यधैर्यैर्हनूमतो न ह्यधिकस्त्रिलोक्यामित्यादिरूपहनुमद्-गुणान् गृहीत्रा जानता । रणकोविदेन रणे युद्धे कोविदेन सुधिया युद्धकरणविषये महाज्ञानिनेत्यर्थः । सन् सुधीः कोविदो बुध इत्यमरः । कर्णांतं कर्णस्य श्रोत्रस्यान्तं समीपम् अन्तं पदार्थसामीप्य इति धनञ्जय आनीय प्राप्य रहसि वक्तव्यं वक्तुमिति भावः । मुक्तः प्रेषितः । स्फुरन् शोभमानः । सत्पक्षपाती सत्सु पक्षपातः स्नेहोऽस्यास्तीति तथोक्तः । असौ हनूमान् वैरिभयङ्करः वैरिणामरीणाम् । रिपौ वैरिसपत्नारीत्यमरः । भयङ्करः भीतिजनको ऽभूत् । तत्र दृष्टान्तमाह प्रदर इति । गुणगृहीत्रा गुणः मौर्वी, मौर्वी ज्या सिञ्जिनी गुण इत्यमरस् तां गृहीत्रा धृतवता मौर्वीकर्षकेणेति यावत् । रणकोविदेन रामेण कर्णान्तमानीय मुक्तः सत्पक्षपाती सन्तः शोभमानाश्च ते पक्षाः पक्षिपतत्राणि च सत्पक्षाः सत्पक्षैः पातः गमनम् अस्यास्तीति स तथोक्तः । गरुत्पक्षच्छदाः पत्रमित्यमरः । अग्रय ऋजुत्वनिशि-तत्वादिगुणयुक्तत्वेन श्रेष्ठः प्रदरः शरः । प्रदरः शरशंखयोरिति विश्वः यथा वैरि-भयङ्करोऽभूत्तथेत्यर्थः ॥ १४ ॥
विश्वास-प्रस्तुतिः - १५
गोभिः समानन्दितरूपसीतः स्ववह्निनिर्दग्धपलाशिराशिः ।
अहो हनूमन्नववारिदोऽसौ तीर्णाम्बुधिर्विष्णुपदे ननाम॥ १५ ॥
मूलम् - १५
गोभिः समानन्दितरूपसीतः स्ववह्निनिर्दग्धपलाशिराशिः ।
अहो हनूमन्नववारिदोऽसौ तीर्णाम्बुधिर्विष्णुपदे ननाम॥ १५ ॥
भावप्रकाशिका
गोभिर्वाग्भिरद्भिश्च । सीता सीरजा सस्यं च । पलाशिनो वृक्षा मांसादाश्च ॥ १५ ॥
पदार्थदीपिकोद्बोधिका
लङ्कां प्रविश्य रामान्तिकमागतं हनुमन्तं मेघसाम्येन वर्णयति । गोभिरिति ॥ गोभिर् वाग्भिः । सीताया रूपं रूपसीता । ‘राजदन्तादिषु परम्’ इति पूर्वप्रयोगार्हस्यापि सीताशब्दस्य परनिपातः। समानन्दिता सन्तोषिता रूपसीता येन सः । यद्वा समानन्दितं रूपं यस्यास् तादृशी सीता येन सः । अथवा । रूपेण शब्देन सीतारूपसीताशब्दमात्रेण सीतेत्यर्थः सीताप्रतिकृतिरिति यावत् । रूपं स्वभावे सौन्दर्ये नामके पशुशब्दयो’रिति विश्वः । समानन्दिता रूपसीता शब्दमात्रेण सीताशब्दवाच्या येन स इति वा । स्वस्य वह्निः स्ववह्निः स्वपुच्छवह्निरित्यर्थः । तेन निर्दग्धः पलाशिराशिः पलं मांसमश्नन्ति तच्छीला इति पलाशिनो राक्षसास् तेषां राशिः समूहो येन सः ‘पलं पिशितमामिष’मिति हलः । असौ हनूमान् नववारिद इव नूतनमेघ इव हनूमन्नववारिदः ‘उपमितं व्याघ्रादिभिः सामान्याप्रयोग’ इति उपमानोत्तरपदसमासः । तीर्ण उत्तीर्णः, अम्बुधिः समुद्रो येन सस् तथा सन् विष्णुपदे श्रीरामस्य पादस्तस्मिन् ननाम नमश्चकार ॥ यथा कश्चिन्मेघो गोभिर्जलैः समानन्दितं रूपं स्वरूपं यासां ताः, सीताः सस्यानि येन सः । ‘सीता सस्ये हलाध्वनि’ इति वैजयन्ती । स्ववह्निः स्वीयविद्युद्वह्निस्तेन निर्दग्धः पलाशिराशिर्वृक्षसमूहो येन स तथा सन् ‘अनोकहः कुटः सालः पलाशी द्रुद्रुमागमा’ इत्यमरः । तीर्णाम्बुधिर्वायुवशादुत्तीर्णसमुद्रः सन् विष्णुपदे आकाशे ‘वियद्विष्णुपदं वा
तु’ इत्यमरः नमेत् तत्र लीनो भवेत्तद्वदिति श्लेषाभिप्रायः । अहो
आश्चर्यं हनुमच्चरितमित्यर्थः । उपमा ॥ १५ ॥
मन्दोपाकारिणी
गोभिरिति ॥ गोभिर् वचोभिः । समानन्दितरूपसीतः समानन्दितं सन्तोषितं रूपं स्वरूपं यस्याः सा सीता जानकी येन स तथोक्तः । स्ववह्निनिर्दग्ध-पलाशिराशिः स्वेन स्वकीयेन स्वपुच्छगेनेत्यर्थः । आत्मीये स्वोस्त्रियान्धन इत्यमरः । वह्निना अग्निना निर्दग्धः भस्मीकृतः पलं मांसम् अश्नन्ति भुञ्जन्तीति पलाशिनः राक्षसाः । स्याच्चामिषे पलमित्यमरः । तेषां राशिः पुञ्जः । स्यान्निकायः पुञ्जराशीत्यमरः । स्ववह्निनिर्दग्धः पलाशिराशिर्येन स तथोक्तः । असौ हनूमन्नववारिदः हनुमदाख्यः नवः नूतनः वारिदो मेघः । तडित्वान्वारिदोंऽबुभृदित्यमरः । तीर्णांबुधिः पुनरपि उत्तीर्णो ऽम्बुधिः समुद्रः येन स तथा । विष्णुपदे विष्णोः रामस्य पदे पादे ननाम नमश्चकार । णमु प्रह्वत्वे शब्दे च इत्यतो लिट् परस्मैपदम् । पदं शब्दे च वाक्ये च व्यवसायापदेशयोः । पादतच्चिह्नयोः स्थानत्राणयोर्लक्ष्म-वस्तुनोरिति विश्वः ॥ मेघपक्षे तु ॥ गोभिर् जलैः । भूवाग्वारिषु गौर्मत इति विश्वः । समानन्दितरूपा आप्यायितस्वरूपाः सीताः सस्यानि येन स तथोक्तः । अत्र सीता लाङ्गलपद्धतिरित्यमरकोशोक्तेर् लाङ्गलपद्धतिवाचकेन सीताशब्देन लक्षणया लाङ्गल-पद्धत्युत्पन्नसस्यानि गृह्यन्त इति ज्ञेयम् । स्ववह्निनिर्दग्धपलाशिराशिः स्ववह्निना विद्युल्लक्षणवह्निना निर्दग्धः पलाशिनां द्रुमाणां राशिर्येन स तथोक्तः । पलाशी द्रुद्रुमागमा इत्यमरः । एवंभूतः सन् तीर्णांबुधिर् वायुवशात् समुद्रमतीत्य देशान्तरङ्गतः सन् यथा विष्णुपदे आकाशे वियद्विष्णुपदंवापीत्यमरः ननाम तत्र लीनोऽभवत् तद्वदिति श्लोकाभि-प्रायः । अहो आश्चर्यं हनुमच्चरितमिति भावः । अहोे हीति च विस्मय इत्यमरः ॥ १५ ॥
विश्वास-प्रस्तुतिः - १६
अपक्षपाती पुरुषस्त्रिलोक्यामभोगभोक्ता पतगाधिराजम् ।
विश्वम्भरं बिभ्रदसौ जिगाय त्वरापराक्रान्तिषु चित्रमेतत्॥ १६ ॥
मूलम् - १६
अपक्षपाती पुरुषस्त्रिलोक्यामभोगभोक्ता पतगाधिराजम् ।
विश्वम्भरं बिभ्रदसौ जिगाय त्वरापराक्रान्तिषु चित्रमेतत्॥ १६ ॥
भावप्रकाशिका
अपक्षपातित्वं सत्सु गुणानुकूल्येन स्थितिः । भोगो नामाहिशरीरं च ॥ १६ ॥
पदार्थदीपिकोद्बोधिका
रावणनिग्रहार्थं श्रीराममुदूह्य लङ्कां प्रति गच्छन्तं हनुमन्तं वर्णयति । अपक्षेति ॥ पक्षाभ्यां पतत्राभ्यां पतति तच्छील इति पक्षपाती स न भवतीत्यपक्षपाती । पक्षपातो वात्सल्यमस्यास्तीति पक्षपाती सत्सु तत्तद्योग्यतानुसारेण वृत्तेः पक्षपाती न भवतीत्यपक्षपातीति वा । पुरुषः । गरुडस्तु पक्षाभ्यां पतति तच्छील इति पक्षपाती । भोगानां स्त्रीसम्भोगादिजनितसौख्यानां भोक्ता अनुभविता भोगभोक्ता स न भवतीत्यभोगभोक्ता । हनुमतो नैष्ठिकब्रह्मचारित्वादिति भावः । गरुडस्तु भोगभोक्ता सर्पशरीराणां भोक्ता ‘भोगो राज्ये धने सौख्ये पालनाभ्यवहारयोः । फणे देहे च सर्पाणां’ इति वैजयन्ती । असौ हनुमान् विश्वं जगद् बिभर्तीति विश्वम्भरस्तं श्रीरामम् । ‘संज्ञायां भॄतॄ’ इत्यादिना खचि ‘अरुर्द्विषदि’त्यादिना मुम् । बिभ्रद् रावणनिग्रहार्थं लङ्कां प्रति गमनसमये वहन् सन् ‘नाभ्यस्ताच्छतु’रिति नुमभावः । त्वरा वेगास्ताश्च पराक्रान्तयः पराक्रमाः, ताश्च तासु । अधिकश्चासौ राजा चाधिराजः । ‘राजाहः सखिभ्यष्टच्’ इति टच् । स्वतिभ्यामेवेति नियमात् ‘न पूजना’दिति निषेधानवकाशः । पतगानां पक्षिणामधि-राजोऽधिपतिस्तं गरुडं जिगाय जितवान् । जि जये लिट् । एतद्धनूमतो गरुडपराभवनं त्रिलोक्यां चित्रमाश्चर्यम् । विश्वम्भरभगवद्वाहकत्वं गरुडस्याप्यस्ति तथाप्यभोगभोक्तुर-पक्षपातिनो हनुमतः भोगभोक्तुः पक्षपातिनो गरुडस्य जयश् चित्रमिति भावः । विभावनाव्यतिरेकौ ॥ १६ ॥
मन्दोपाकारिणी
अपक्षपातीति ॥ असौ हनूमान् । त्वरापराक्रान्तिषु त्वरा वेगाश्च पराक्रान्तयः पराक्रमाश्च तासु विषये । पतगाधिराजं पतगाः पक्षिणस् तेषामधिराजः पतगाधिराजः गरुडः । राजाहः सखिभ्यष्टच् इति टच् प्रत्ययः । तं जिगाय जितवान् । जी जय इत्यतः कर्तरि लिट् परस्मैपदं जिगाय जिग्यतुर् जिग्युः । एतत् हनुमतः गरुडजयरूपं कर्म चित्रम् आश्चयम् । आलेख्याश्चर्ययोश्चित्रमित्यमरः । कुतः, हनुमान् पुरुषः पुरुष-पराक्रमवान् अपक्षपाती पक्षाभ्यां पातः गमनम् अस्यास्तीति पक्षपाती न पक्षपाती अपक्षपाती गरुडस्तु पक्षाभ्यां पतति गच्छतीति पक्षपाती अभोगभोक्ता भोगानां स्त्र्यादि-विषयभोगानां भोक्ता उपभोक्ता तादृशो न भवतीति अभोगभोक्ता ब्रह्मचर्यनिरतत्वादिति भावः । गरुडस्तु भोगान् सर्पदेहान् भुङ्क्ते । भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोरित्यमरः । विश्वंभरं नारायणं रामम् । विश्वंभरः कैटभजिद् इति विष्णुपर्यायामरः । बिभ्रद् वहन् । यद्यपि भगवद्वाहनत्वेन विश्वंभरवाहकत्वं गरुडस्याप्यस्ति तथापि भोगरहितस्य पक्षाभ्यां पतनरहितस्य हनूमतः भोगभोक्तुः पक्षाभ्यां पतनशीलस्य गरुडस्य जय आश्चर्यमिति भावः ॥ १६ ॥
विश्वास-प्रस्तुतिः - १७
निबध्य सेतुं रघुंवशकेतुभ्रूभङ्गसम्भ्रान्तपयोधिमध्ये ।
मुष्टिप्रहारं दशकाय सीतासन्तर्जनाग्रयोत्तरमेषकोऽदात् ॥ १७ ॥
मूलम् - १७
निबध्य सेतुं रघुंवशकेतुभ्रूभङ्गसम्भ्रान्तपयोधिमध्ये ।
मुष्टिप्रहारं दशकाय सीतासन्तर्जनाग्रयोत्तरमेषकोऽदात् ॥ १७ ॥
पदार्थदीपिकोद्बोदिका
सेतुबन्धनपूर्वकं लङ्कां गतस्य युद्धं वर्णयति । निबध्येति ॥ एष एव एषकः स्वार्थे कः । यद्वा ‘अव्ययसर्वनाम्नामकच् प्राक्टेः’ इत्यकचि त्यदाद्यत्वे पररूपत्वे च सति एषक इत्यकजन्तः । कप्रत्ययपक्षे त्यदाद्यत्वानुपपत्तिः । विभक्तेः कप्रत्ययेन व्यवधानात् । कप्रत्ययान्तानां सर्वनामसञ्ज्ञाभावात् । अकच्प्रत्ययस्य तु टेः प्राग्विधानाद्विभक्तेरव्यवधानेन त्यदाद्यत्वोपपत्तिरिति केचित् । तद्रीत्या अकजन्तो वा । हनूमान्, रघोर्यो वंशस्तस्मिन्केतुरिव ध्वज इव रधुवंशकेतुः रधुकुलश्रेष्ठ इत्यर्थः । तस्य भ्रुवोर्भङ्गेन विक्षेपेण सम्भ्रान्तस्य पयोधेः समुद्रस्य मध्ये ‘उत्पताके ध्वजे केतुः’ इति वैजयन्ती । सेतुं निबध्य दिनत्रयेऽप्यनुपगामिनं समुद्रं दृष्ट्वा श्रीरामो रक्तनयनान्तं समुद्रे युयोज । तेन प्रक्षुब्धेन समुद्रेण मयि सेतुं निबध्य याहीति प्रार्थितस्य श्रीरामस्याज्ञया दक्षिणसमुद्रे सेतुं निबध्य तेन च लङ्कां गत्वेति भावः । सीताया यत्सन्तर्जनं भार्या भवेत्यादिस्ववाक्याश्रवणनिमित्तकभर्त्सनं तस्य अग्रयोत्तरम् उत्तरमिव प्रतिवाक्यमिवाचरति उत्तरति । उत्तरतीत्युत्तरः ‘उपमानादाचारे’ इत्यधिकृत्य ‘सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्य इति क्विपि ‘सनाद्यन्ता धातव’ इति धातुसंज्ञायां पचाद्यच् । अजन्तत्वाच्च ‘वाजन्तश्च’ इति पुल्लिङ्गता । अग्रयः सीतासन्तर्जनस्योचितत्वेन श्रेष्ठः य उत्तरस्तं, मुष्टिना प्रहारस्तं, दश कानि शिरांसि यस्य तस्मै रावणाय अदात् । दा दाने लुङ् ॥ १७ ॥
**मन्दोपाकारिणी**
॥ निबद्ध्येति ॥ एषक एष एव एषकः । स्वार्थे कप्रत्ययः । एष हनुमान् । रघुवंशकेतुभ्रूभङ्गसम्भ्रान्तपयोधिमध्ये रघोः रघुराजस्य वंशे सन्ततौ केतुर् ध्वजस्थानीयः । ग्रहभेदे ध्वजे केतुरित्यमरः । राम इत्यर्थः । तस्य भ्रुवौ तयोर्भङ्गः विक्षेपस् तेन सम्भ्रान्त उद्विग्नः भीत इत्यर्थः । स चासौ पयोधिः समुद्रश्च तस्य मध्ये सेतुं निबध्य बन्धयित्वा कपिसैन्यस्य लङ्कां प्रति गन्तुं योग्यं मार्गविशेषं पर्वतादिभिः कृत्वेति यावत् । दशकाय दशसङ्ख्याकानि कानि शिरांसि यस्य सः दशकस् तस्मै रावणाय । कं शिरो जलमाख्यातमिति वररुचिः । मुष्टिप्रहारं मुष्टिना प्रहारम् उरसि ताडनम् अदाद् दत्तवान् । दा दान इत्यतो लुङ् परस्मैपदम् अदाद् अदाताम् अदुः । कथंभूतं मुष्टिप्रहारं सीतासन्तर्जनाग्रयोत्तरं सीताया जानक्याः सन्तर्जनस्य भर्त्सनस्य अग्रयं समीचीनम् उत्तरम् ॥ १७ ॥
विश्वास-प्रस्तुतिः - १८
जाज्वल्यमानोज्ज्वलराघवाग्नौ चक्रे स सुग्रीवसुयायजूके ।
आध्वर्यवं युद्धमखे प्रतिप्रस्थात्रा सुमित्रातनयेन साकम्॥ १८ ॥
मूलम् - १८
जाज्वल्यमानोज्ज्वलराघवाग्नौ चक्रे स सुग्रीवसुयायजूके ।
आध्वर्यवं युद्धमखे प्रतिप्रस्थात्रा सुमित्रातनयेन साकम्॥ १८ ॥
पदार्थदीपिकोद्बोधिका
यज्ञे ह्यध्वर्य्वादयो भवेयुः । अस्मिन् युद्धाख्ययज्ञे च हनूमदादयोऽध्वर्य्वादयो जाता इत्याह । जाज्वल्येति ॥ स हनुमान् । पुनः पुनरतिशयेन वा ज्वलतीति जाज्वल्यमानः ‘ज्वल दीप्ताविति धातोः ‘धातोरेकाचः क्रियासमभिहारे यङ् इति पौनः पुन्ये भृशार्थे वा ‘‘यङि सन्यङो’’रिति द्वित्वे हलादिशेषे दीर्घोऽकित इत्यभ्यासदीर्घे धातुसञ्ज्ञायां कर्तरि ‘लटः शतृशानचा’विति शानचि आने मुगिति मुक् । तथा च अतिशयेन देदीप्यमान इत्यर्थः । उत्कृष्टतया ज्वलतीत्युज्ज्वलः स चासौ राघवाग्निश्च । जाज्वल्यमान उज्ज्वलराघवाग्निर्यस्मिन् तस्मिन् । सुग्रीवः सुयायजूकः शोभनयजमानो यस्मिन् तस्मिन् ‘इज्याशीलो यायजूक’ इत्यमरः । युद्धमेव मखो यज्ञस्तस्मिन् । प्रति-प्रस्थात्रा प्रतिप्रस्थातृव्यापारयुक्तेन सुमित्रातनयेन लक्ष्मणेन साकं सार्धम् अध्वर्योः सम्बन्धि आध्वर्यवं तद्य्वापारं चक्रे कृतवान् । रूपकम् ॥ १८ ॥
मन्दोपाकारिणी
॥ जाज्वल्यमान इति ॥ स हनूमान् जाज्वल्यमानोज्ज्व-लराघवाग्नौ जाज्वल्यमानो ऽत्यन्तं ज्वलन् रावणस्य क्रुध्यन्निति यावद् उज्ज्वलः प्रकाशमानः । रघोर्गोत्रापत्यं पुमान् राघवः । जाज्वल्यमानश्चासौ उज्ज्वलश्चासौ राघवः रामचन्द्रश्च स एवाग्निर् यस्मिन् स जाज्वल्यमानोज्ज्वलराघवाग्निस् तस्मिन् । सुग्रीवसुयायजूके सुग्रीवाख्यः सु पूज्यः समीचीन इति यावद् यायजूकः यजमानः यस्य स तथोक्तस् तस्मिन् । सुः पूजायां भृशार्थेष्विति विश्वः । युद्धमखे युद्धं मख इव यज्ञ इव तस्मिन् । सप्ततंतु-र्मखःक्रतुरित्यमरः । प्रतिप्रस्थात्रा प्रतिप्रस्थातृनामकऋत्विग्भूतेन सुमित्रातनयेन सुमित्रायास् तनयेन पुत्रेण लक्ष्मणेन । आत्मजस्तनयः सूनुः सुतः पुत्र इत्यमरः । साकं सह । आध्वर्यवम् अध्वर्योर् अध्वर्युनामकऋत्विज इदम् आध्वर्यवम् अध्वर्युव्यापारमित्यर्थः । चक्रे कृतवान् डुकृञ् करण इत्यतो लिडात्मनेपदं चक्रे चक्राते चक्रिरे । यज्ञे हि अध्वर्य्वादय ऋत्विजः भवेयुर् यजमानश्च स्यादग्निश्च भवेत्, युद्धाख्ययज्ञे च राम एवाग्निः, सुग्रीवो यजमानः, हनूमान् अध्वर्युः, प्रतिप्रस्थाता लक्ष्मणः, अङ्गदादयः होत्राग्नीध्रादय ऋत्विज इति ज्ञेयम् । इन्द्रवज्रावृत्तम् ॥ १८ ॥
विश्वास-प्रस्तुतिः - १९
रामार्चने यो नयतः प्रसूनं द्वाभ्यां कराभ्यामभवत्प्रयत्नः ।
एकेन दोष्णा नयतो गिरीन्द्रं सञ्जीवनाद्याश्रयमस्य नाभूत्॥ १९ ॥
मूलम् - १९
रामार्चने यो नयतः प्रसूनं द्वाभ्यां कराभ्यामभवत्प्रयत्नः ।
एकेन दोष्णा नयतो गिरीन्द्रं सञ्जीवनाद्याश्रयमस्य नाभूत्॥ १९ ॥
पदार्थदीपिकोद्बोधिका
इन्द्रजिद्बद्धकपीनामुज्जीवनार्थं लङ्कां प्रति गन्धमादनपर्व-तमानयतोऽस्य रामार्चनार्थं पुष्पानयने यावान्प्रयासस्तावानपि नाभूदित्याह रामार्चन इति ॥ रामस्यार्चनं पूजा तस्मिन् । तादर्थ्ये सप्तमी । रामार्चनार्थमित्यर्थः । कराभ्यां हस्ताभ्यां प्रसूनं पुष्पं नयत आनयतः यः प्रयत्नोऽभवत् । एकेन दोष्णा हस्तेन सञ्जीवनं मृतसञ्जीवन्याख्य-मौषधमादिर्येषां तेषामाश्रय आधारस् तम् । गिरीन्द्रं गन्धमादनं नयतः लङ्कां प्रत्यानयतो ऽस्य हनूमतः स प्रयत्नः नाभून् न बभूव ॥ १९ ॥
मन्दोपाकारिणी
रामार्चन इति ॥ रामार्चने तादर्थ्ये सप्तमी रामस्य अर्चने पूजार्थं द्वाभ्यां कराभ्यां प्रसूनं कुसुमम् । प्रसूनं कुसुमं सुममित्यमरः । नयत उद्धरतः यः प्रयत्नः प्रयासो ऽभवद् आसीत् । भू सत्तायां लङ् परस्मैपदम् । सः प्रयत्न एकेन दोष्णा हस्तेन सञ्जीवनाद्याश्रयं सञ्जीवनः सञ्जीवननामक औषधवृक्षः स एव आद्य आदिर्येषां ते सञ्जीवनाद्या वृक्षास् तेषामाश्रयस् तम् । पुंस्यादिः पूर्वपौरस्त्यप्रथमाद्या इत्यमरः । गिरीन्द्रं गिरीणां पर्वतानाम् इन्द्रः श्रेष्ठस्तं गन्धमादनपर्वतं नयत उद्धृत्य नयतः नाभूत् । मृतसञ्जीवनाद्यौषधार्थं गन्धमादनपर्वतमेकेन हस्तेन उद्धृत्य गृहीत्वा च गच्छतो हनुमतः पुष्पोद्धरणादौ यावान् प्रयासस्तावानपि नाभूदिति भावः ॥ इन्द्रवज्रावृत्तम् ॥ १९ ॥
विश्वास-प्रस्तुतिः - २०
स दारितारिं परमं पुमांसं समन्वयासीन्नरदेवपुत्र्या ।
वह्निप्रवेशाधिगतात्मशुद्ध्या विराजितं काञ्चनमालयेव ॥ २० ॥
मूलम् - २०
स दारितारिं परमं पुमांसं समन्वयासीन्नरदेवपुत्र्या ।
वह्निप्रवेशाधिगतात्मशुद्ध्या विराजितं काञ्चनमालयेव ॥ २० ॥
पदार्थदीपिकोद्बोधिका
रावणादीन् हत्वा सीतया सार्धमयोध्याभिमुखतया यान्तं श्रीराममनुजगामेत्याह— स इति ॥ स हनूमान् । दारिताः संहृता अरयो रावणादिशत्रवो येन तम् । वह्नौ यः प्रवेशस्तेनाधिगता जनैर्ज्ञाता आत्मनः स्वस्य शुद्धिः पातिव्रत्यशुद्धिर्यस्यास्तया । नरदेवपुत्र्या जनकपुत्र्या सीतया । काञ्चनस्य सुवर्णस्य विकारः काञ्चनी । सा च सा माला च । ‘पुंवत्कर्मधारयजातीयदेशीयेषु’ इति पुंवद्भावः । तयेव । काञ्चनमालयेत्यादौ ‘इवेन नित्यसमासो विभक्त्यलोपश्च’ इत्यस्य ‘कचाचितौ विष्व-गिवागजौ गजौ’ इत्यादिप्रयोगान्यथानुपपत्त्या ‘मणीव रोदसी’ इत्यादिवच्छन्दोविषयत्वेन व्याख्यातत्वाद्भिन्नपदत्वं द्रष्टव्यम् । विराजितं शोभमानम् । परमं सर्वोत्तमं पुमांसं पुरुषं श्रीरामम् अन्वयासीद् अनुययौ । ‘या प्रापणे’ लुङ् । उपमा ॥ २० ॥
मन्दोपाकारिणी
स इति ॥ स हनूमान् । दारितारिं दारिता निहता अरयः रावणकुम्भकर्णादिवैरिणः येन स तथोक्तस्तम् । रिपौ वैरिसपत्नारीत्यमरः । परमं सर्वोत्तमं पुमांसं पुरुषम् । स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरा इत्यमरः । राममित्यर्थः । समन्वयासीत् सम्यक् अनुसृत्य ययौ रावणादीन् हत्वा अयोध्याभिमुखं यान्तम् अनुययावित्यर्थः । ‘या प्रापण’ इत्यतो लुङ् परस्मैपदम् अयासीद् अयासिष्ठाम् अयासिषुः । कथम्भूतं पुमांसं वह्निप्रवेशाधिगतात्मशुद्ध्या वह्नौ जाज्वल्यमानाग्नौ प्रवेशेन अधिगता जनैः सम्यक् ज्ञाता आत्मनः स्वस्याः शुद्धिः परपुरुषसङ्गराहित्यादिरूपा यस्याः सा तथोक्ता तया वह्निप्रवेशाधिगतात्मशुद्ध्या । नरदेवपुत्र्या नरदेवस्य जनकराजस्य पुत्र्या सीतया । विराजितं शोभमानं कयेव काञ्चनमालयेव सुवर्णमालिकयेव सुवर्णस्य अग्नौ प्रक्षेपणेन यथा शुद्धिरवगम्यते एवं सीताया अपि अग्निप्रवेशेन निर्दोषत्वं सवैर्जनैरवगतमिति भावः ॥ २० ॥
विश्वास-प्रस्तुतिः - २१
श्यामं स्मितास्यं पृथुदीर्घहस्तं सरोजनेत्रं गजराजयात्रम् ।
वपुर्जगन्मङ्गलमेष दृग्भ्यां चिरादयोध्याधिपतेः सिषेवे॥ २१ ॥
मूलम् - २१
श्यामं स्मितास्यं पृथुदीर्घहस्तं सरोजनेत्रं गजराजयात्रम् ।
वपुर्जगन्मङ्गलमेष दृग्भ्यां चिरादयोध्याधिपतेः सिषेवे॥ २१ ॥
पदार्थदीपिकोद्बोधिका
अयोध्यायां च ‘श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम्’ इत्युक्तनवविधसेवां, श्रीराम-मनिमिषदृग्भ्यां सदा पश्यन् चकारेत्याह— श्याममिति ॥ एष हनूमान् स्मितं मन्दहासो-पेतमास्यं मुखं यस्य तत् । पृथू स्थूलौ पुष्टाविति यावत् । दीर्घौ आयतौ हस्तौ यस्य तत् । सरसि जातं सरोजं ‘सप्तभ्यां जनेर्ड’ इति डः । सरोजवत् पद्मवन्नेत्रे यस्य तत् । गजानां राजा गजराज ऐरावतस्तस्य यात्रेव यात्रा गमनं यस्य तत् । जगतो मङ्गलं यस्मात्तत् स्वविषयकश्रवणमननार्चनादिना जगतो मङ्गलप्रदमित्यर्थः जगति मङ्गलमिति वा । अयोध्याधिपतेः श्रीरामस्य वपुः शरीरं दृग्भ्यां दृष्टिभ्यां चिराद्दीर्घकाले ‘दीर्घकाले चिराच्चिर’ मिति वैजयन्ती । सिषेवे षेवृ सेवने लिट् ॥ अनिमिषदृग्भ्यां तद्दर्शनपूर्वकं नवविधसेवां चकारेति भावः ॥ २१ ॥
मन्दोपाकारिणी
श्याममिति ॥ एषः हनूमान् ‘श्यामं कृष्णवर्णं’ कृष्णे नीलासितश्यामेत्यमरः । स्मितास्यं स्मितं मन्दहासयुक्तमास्यं वदनं यस्य तत्तथोक्तं तत् । पृथुदीर्घहस्तं पृथू स्थूलौ दीर्घौ जानुपर्यन्तं लम्बमानौ हस्तौ पाणी यस्य तत्तथोक्तं तत् । सरोजनेत्रं सरोजवत् कमलवन् नेत्रे नयने यस्य तत्तथोक्तं तत् । गजराजयात्रं गजराजस्य गजश्रेष्ठस्य यात्रावद् गमनवद् यात्रा यस्य तत्तथोक्तं तत् । यात्रा तु यापनेऽपि स्याद् गमनोत्सवयोस्त्रियामिति मेदिनी । जगन्मङ्गलं जगतां लोकानां मङ्गलं श्रवणदर्शनादिभिः शुभं यस्मात्तत्तथोक्तं तत् । कल्याणं मङ्गलं शुभमित्यमरः । श्रेयस्करमित्यर्थः । अयोध्याधिपतेर् अयोध्यायास् तन्नामकनगर्या अधिपतेः स्वामिनः रामस्य । वपुर्गात्रम् । गात्रं वपुः संहननमित्यमरः । दृग्भ्यां चक्षुर्भ्याम् । ईक्षणं चक्षुरक्षिणी दृग्दृष्टी चेत्यमरः । सिषेवे । षेवृ सेवायामित्यस्माद् लिडात्मनेपदं सिषेवे सिषेवाते सिषेविरे । दृग्भ्यामित्युपलक्षणं, श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् इत्युक्त-श्रवणादिकमपि ग्राह्यम् । हनुमान् बहुप्रकारेण रामसेवां चकारेति भावः ॥ २१ ॥
विश्वास-प्रस्तुतिः - २२
राज्याभिषेकेऽवसितेऽत्र सीता प्रेष्ठाय नस्तां भजतां दिशेति ।
रामस्य वाण्या मणिमञ्जुमालाव्याजेन दीर्घा• करुणां बबन्ध॥२२॥
मूलम् - २२
राज्याभिषेकेऽवसितेऽत्र सीता प्रेष्ठाय नस्तां भजतां दिशेति ।
रामस्य वाण्या मणिमञ्जुमालाव्याजेन दीर्घा• करुणां बबन्ध॥२२॥
पदार्थदीपिकोद्बोधिका
राज्याभिषेकानन्तरं सीतारामाभ्यां कृतानुग्रहातिशयं वर्णयति राज्येति ॥ राज्ञो भावो राज्यं तस्मिन्, भावे यक् । राजन्शब्दोऽसमासे भावकर्म-णोरर्थयोर्यकं लभते । राज्येऽभिषेको ऽभिषेचनं तस्मिन् अवसिते समाप्ते सति नोऽस्मान् भजतां सेवमानानां मध्ये अतिशयेन प्रियः प्रेष्ठस्तस्मै ‘अतिशायने तमबिष्ठना’विति इष्ठन् प्रत्यये, ‘प्रियस्थिरे’त्यादिना प्रियशब्दस्य प्रादेशः । तां त्वद्गृहीतां मालां दिश प्रयच्छ । ‘दिश अतिसर्जने’ लोट् । इति रामस्य वाण्या वाचा । सीता । मणीनां रत्नानां या मञ्जुमाला मनोहरमाला सैव व्याजश् छद्म तेन ‘व्याजछद्मापदेशयो’रिति वैजयन्ती ॥ अत्र हनुमति दीर्घां विच्छेदरहितां करुणां दयां बबन्ध कृतवती । बधिर् बन्धने लिट् । राज्याभिषेकानन्तरं सीता मणिमञ्जुमालां गृहीत्वेमां कस्मा अस्मत्सेवकाय दद्यामिति श्रीरामं पृष्टवती । तदा श्रीरामोऽस्मत्सेवकानां मध्येऽतिशयेन प्रियाय प्रयच्छेत्यभ्यधात् । तदनुज्ञया तां मालां तादृशाय हनुमते ददौ इति भावः । कैतवापन्हुतिः ॥ २२ ॥
मन्दोपाकारिणी
राज्येति ॥ सीता जानकी । राज्याभिषेके रामस्य राज्ये साम्राज्ये अभिषेके अवसिते समाप्ते सति । हे सीते त्वं नो ऽस्मान् भजतां मध्ये प्रेष्ठाय अतिशयेन प्रियाय तां मालां दिश प्रयच्छ । दिश अतिसर्जन इत्यतो लोट् परस्मैपदं ‘‘दिश दिशताद् दिशतं दिशते’’ति रामस्य वाण्या वाचा । गीर्वाग्वाणी सरस्वतीत्यमरः । मणिमञ्जुमालाव्याजेन मणीनां पद्मरागादिनवरत्नानां मञ्जु मनोज्ञा माला मालिका तस्या व्याजेन कण्ठे बन्धनमिषेण । मनोज्ञं मञ्जु मञ्जुलमित्यमरः । अत्र अस्मिन् हनुमति दीर्घाम् अविच्छिन्नां करुणां दयां बबन्ध चकार । बधिर् बन्धन इत्यतो लिट् परस्मैपदं बबन्ध बबन्धतुर् बबन्धुः । अत्र सीतया हनुमत्कण्ठे मालाबन्धने कृते सति कविरुत्प्रेक्षते नेदं मालाबन्धनं किन्तु कृपाबन्धनमिति । इन्द्रवज्रावृत्तम् ॥ २२ ॥
विश्वास-प्रस्तुतिः - २३
हृदोरुसौहार्दभृताऽधिमौलिन्यस्तेन हस्तेन दयार्द्रदृष्ट्या ।
सेवाप्रसन्नोऽमृतकल्पवाचा दिदेश देवः सहभोगमस्मै ॥ २३ ॥
मूलम् - २३
हृदोरुसौहार्दभृताऽधिमौलिन्यस्तेन हस्तेन दयार्द्रदृष्ट्या ।
सेवाप्रसन्नोऽमृतकल्पवाचा दिदेश देवः सहभोगमस्मै ॥ २३ ॥
पदार्थदीपिकोद्बोधिका
सीतया मणिमञ्जुमालाप्रदानानन्तरं श्रीरामो भाविब्रह्म-त्वाख्यं सहभोगं ददावित्याह– हृदेति ॥ उरु उत्कृष्टं यत्सौहार्दं सुहृदो भावः सौहार्दमुर्वनु-ग्रहस्तस्य बिभर्तीति भृत् तेन । हृदा मनसा । ‘स्वान्तं हृन्मानसं मनः’ इत्यमरः । मौलावधि अधिमौलि । ‘अव्ययं विभक्ति’ इत्यादिना विभक्त्यर्थेऽव्ययीभावः । मस्तक इत्यर्थः । न्यस्तो निक्षिप्तस्तेन हस्तेन । दयया आर्द्रा क्लिन्ना तादृशी या दृष्टिस्तया । दयापूर्णप्रसन्न-दृष्ट्येत्यर्थः । अमृतादीषन्न्यूना अमृतकल्पा ‘ईषदसमाप्तौ कल्पप्देश्यदेशीयरौ’ इति कल्पप् । सा च सा वाक् च तया । ‘हनुमतो न प्रतिकर्तृता स्यात् स्वभावभक्तस्य निरौपधं मे । मद्भक्तौ ज्ञानपूर्तौ निरवधिकबलप्रोन्नतिस्थैर्यधैर्यस्वाभाव्याधिक्यतेजः सुमतिशमदमेष्वस्य तुल्यो न कश्चित् । शेषो रुद्रः सुपर्णोऽप्युरुगुणसमितौ नो सहस्रांशतुल्याः’ इत्यादिगुणकथनरूपामृतसदृशवाचेत्यर्थः । अत्र सर्वत्र ‘इत्थंभूतलक्षणे’ इति सूत्रेण ‘लता प्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दाव’मित्यत्रेव इत्थंभूतलक्षणे तृतीया । तथा चेत्थंभूतलक्षण इति सूत्रे इत्थंभूतलक्षणार्थस्यापि विवक्षितत्वेन वाच्यतावच्छेदकधर्मस्यापि इत्थंभूतलक्षणत्वात् । सौहार्दहृत्त्वेन, अधिमौलिन्यस्तहस्तत्वेन अमृतकल्पवाक्त्वेन च युक्त इत्यर्थः सिद्धयति । सेवाप्रसन्नः सीतान्वेषणादिसेवासन्तुष्टः श्रीरामः सह परमात्मरूपैः सार्धं भुज्यतेऽनुभूयते सुखमस्मिन्निति सहभोगस्तं सहभोगाख्यं पारमेष्ठ्यं दिदेश प्रददौ ॥ २३ ॥
मन्दोपाकारिणी
हृदेति ॥ सेवाप्रसन्नः सेवया शुश्रूषया प्रसन्नः सन्तुष्टः । देवः रामः । अस्मै हनुमते सहभोगं सहभोगनामकं सत्यलोकाधिपत्यं दिदेश ददौ । दिश् अतिसर्जन इत्यतो लिट् परस्मैपदं दिदेश दिदिशतुर् दिदिशुः । कथम्भूतो राम उरुसौहार्दभृता सुहृदो भावः सौहार्दम् उरु उत्कृष्टं च तत् सौहार्दं च तद् भृता दधता हृदा मनसा । प्रेमा ना प्रियताहार्दं प्रेम स्नेह इत्यमरः । अधिमौलि मौलौ अधि इत्यधिमौलि अव्ययीभावसमासोऽयं शिरसीत्यर्थः । न्यस्तेन स्थापितेन हस्तेन पाणिना । दयार्द्रदृष्ट्या दयया कृपया आर्द्रा क्लिन्ना युक्तेति यावत् सा च सा दृष्टिश्चक्षुस्तया प्रसन्ननयनेन इत्यर्थः । अमृतकल्पवाचा अमृतस्य सुधायाः कल्पा च सा वाक् च तया हनुमतः ज्ञानभक्त्यादौ कोऽपि समो नास्ति स्वभावभक्त्या मत्सेवाकर्तुः प्रतिकर्तृता च नास्तीत्येवंरूपया अमृतवा-चेत्यर्थः । उपलक्षितः । इयं सर्वापि तृतीया इत्थंम्भूतलक्षणे छत्रेण राजानमद्राक्षीदित्यत्र छत्रोपलक्षितं राजानमितिवद् अत्रापि रामः स्नेहपूर्वकहृदाद्युपलक्षितः सन् सहभोगं ददावित्युक्तं भवति ॥ २३ ॥
विश्वास-प्रस्तुतिः - २४
प्रेष्ठो न रामस्य बभूव तस्मान्न रामराज्येऽसुलभं च किञ्चित् ।
तत्पादसेवारतिरेष नैच्छत् तथापि भोगान् ननु सा विरक्तिः ॥ २४ ॥
मूलम् - २४
प्रेष्ठो न रामस्य बभूव तस्मान्न रामराज्येऽसुलभं च किञ्चित् ।
तत्पादसेवारतिरेष नैच्छत् तथापि भोगान् ननु सा विरक्तिः ॥ २४ ॥
पदार्थदीपिकोद्बोधिका
श्रीरामराज्ये सकलभोगानां प्राणिमात्रस्यातिसौलभ्येऽपि श्रीरामपादसेवारतत्वादेव हनूमान् भोगान्नैच्छदित्याह— प्रेष्ठ इति ॥ श्रीरामस्य तस्माद्धनू-मतोऽन्यपुरुषः प्रेष्ठो ऽतिशयेन प्रियः न बभूव । किन्तु स एव प्रियतमो बभूवेति भावः । रामस्य यद्राज्यं तस्मिन् किञ्चिच्च किञ्चिद्वस्तु च सुलभं न भवतीत्यसुलभं दुर्लभमित्यर्थः । ‘न सुदुर्भ्यां केवलाभ्यां’ इत्युक्ते‘र्लभेश्चे’ति नुमभावः न, न भवति । तथाप्यस्य रामाति-प्रियत्वेऽपि श्रीरामराज्ये सर्ववस्तूनां सौलभ्येऽपि तस्य यौ पादौ तयोर्या सेवा तस्यां रतिरासक्तिर्यस्य सः । हेतुगर्भं विशेषणमेतत् तत्पादसेवारतित्वादिति, एष हनूमान् भोगान्नैच्छत् । इषु इच्छायां लङ् । अनेन हनूमतोऽतिविरक्तत्वमुक्तं भवति । तदुपपादयति– नन्विति । सा विहितभोगसौलभ्येऽपि तेषु हेयतामतिर् विरक्तिर्ननु विरक्तिर्हि ॥ २४ ॥
मन्दोपाकारिणी
प्रेष्ठ इति ॥ रामस्य तस्मात् हनुमतो ऽन्यः पुरुषः प्रेष्ठो ऽतिशयेन प्रियः न बभूव हनुमानेव रामस्य अतिशयेन प्रियोऽभूदिति भावः । भू सत्ताया-मित्यतो लिट् परस्मैपदं बभूव बभूवतुर् बभूवुः । रामराज्ये रामस्य राज्ये किञ्चित् किमपि वस्तु असुलभं सुलभं न भवतीत्यसुलभं दुर्लभमित्यर्थः नाभूत् किन्तु सर्वं सुलभमेवा-सीदित्यर्थः । तथापि स्वयं रामप्रियोऽपि सर्ववस्तूनां सौलभ्येऽपि एष हनुमान् भोगान् विषयसुखानि नैच्छन् नापेक्षितवान् । इषु इच्छायामित्यतो लुङ् परस्मैपदम् ऐच्छद् ऐच्छताम् ऐच्छन्निति । कथम्भूत एषस् तत्पादसेवारतिस् तस्य रामस्य पादयोश् चरणयोः सेवायां शुश्रूषायां रतिरासक्तिर्यस्य स तथोक्तः हेतुगर्भमेतद्विशेषणं तत्पादसेवासक्तत्वादेव भोगान्नैच्छदिति भावः । अनेन हनुमतोऽतिविरक्तिरुक्ता भवति । तदुपपादयति नन्विति । सा स्वयोग्यभोगसौलभ्येऽपि भोगे हेयतामतिरेव विरक्तिर् वैराग्यं ननु हि ॥ २४ ॥
विश्वास-प्रस्तुतिः - २५
नमो नमो नाथ नमो नमस्ते नमो नमो राम नमो नमस्ते ।
पुनः पुनस्ते चरणारविन्दं नमामि नाथेति नमन् स रेमे॥ २५ ॥
मूलम् - २५
नमो नमो नाथ नमो नमस्ते नमो नमो राम नमो नमस्ते ।
पुनः पुनस्ते चरणारविन्दं नमामि नाथेति नमन् स रेमे॥ २५ ॥
पदार्थदीपिकोद्बोधिका
हनुमतस् तत्पादसेवया रमणप्रकारं दर्शयति नम इति ॥ स हनूमान् हे नाथ ते तुभ्यं नमः । ‘नमः स्वस्ती’त्यादिना चतुर्थी नमः नमः नमः । हे राम ते तुभ्यं नमः नमः नमः नमः । पुनरुक्तिर्नमस्कारे तात्पर्यद्योतनार्था । हे नाथ ते तव चरणो ऽरविन्दमिव तत् पुनः पुनः नमामि, इति नमन् सन् रेमे रमु क्रीडायां लिट् ॥ २५ ॥
मन्दोपाकारिणी
नम इति ॥ हे नाथ प्रभो । नेता प्रभुः परिवृढोऽधिप इत्यमरः । ते तुभ्यं नमो नमः । हे राम ते तुभ्यं नमः । हे नाथ ते तव चरणारविन्दं पुनः पुनः नमामि इति एवं प्रकारेण नमन् । णमु प्रह्वत्वे शब्दे चेति धातोर् बहुवारं नमःशब्दान् वदन् सः हनुमान् रेमे चिक्रीडे । रमु क्रीडायामिति धातोर्लिडात्मनेपदं ‘‘रेमे रेमाते रेमिरे’’ इति । भूयिष्ठां ते नम उक्तिं विधेम द्विस्ते नमस् त्रिस्ते नमश् चतुष्कृत्वो नम इत्यादिश्रुतिं मनसि निधाय नमःशब्दानां बहुवारोक्तिः कृतेति ज्ञातव्यम् । बहुवारोक्त्या नमस्कारस्य भगवत्प्रीतिसाधनत्वम् । उपेन्द्रवज्रावृत्तं लक्षणन्तु प्रथमश्लोक एवोक्तम् ॥ २५ ॥
विश्वास-प्रस्तुतिः - २६
किं वर्णयामः परमं प्रसादं सीतापतेस्तत्र हरिप्रबर्हे ।
मुञ्चन्महीं नित्यनिषेवणार्थं स्वात्मानमेवैष ददौ यदस्मै॥ २६ ॥
मूलम् - २६
किं वर्णयामः परमं प्रसादं सीतापतेस्तत्र हरिप्रबर्हे ।
मुञ्चन्महीं नित्यनिषेवणार्थं स्वात्मानमेवैष ददौ यदस्मै॥ २६ ॥
पदार्थदीपिकोद्बोधिका
श्रीरामेण हनूमति कृतानुग्रहः केनापि वर्णयितुमशक्य इत्याह–किमिति ॥ यद् यस्मात् । एष रामो महीं मुञ्चन् स्वलोकगमनार्थं भुवं मुञ्चन् सन् । नित्यं यन्निषेवणं सेवा तस्मै इति तदर्थम् । हनूमता नित्यमात्मानं दर्शनार्चनादिरूपसेवया सेवयितुमित्यर्थः । अस्मै हनूमते स्वात्मानमेव ददौ । हरिप्रबर्हे वानरश्रेष्ठे ‘मुख्यं पुरोगं प्रवरं प्रबर्ह’मिति हलः । तत्र हनूमति सीतापतेः परमम् उत्तमं प्रसादमनुग्रहं किं? किमिति वर्णयामः । किमाक्षेपे । एतावानिति वर्णयितुमशक्ता इत्यर्थः । ‘वर्ण वर्णाक्रियाविस्ता-रगुणवचनेषु’ लट् ॥ २६ ॥
मन्दोपाकारिणी
किं वर्णयाम इति ॥ हरिप्रबर्हे हरीणां वानराणां प्रबर्हे श्रेष्ठे तत्र तस्मिन् हनुमति । सीतापतेः सीताया जानक्याः पतेर् भर्तुः । परमम् उत्तमं प्रसादं प्रसन्नतां प्रसादस्तु प्रसन्नतेत्यमरः । पूर्णानुग्रहमित्यर्थः । किं किमिति वर्णयामः स्तवामः प्रसादोत्कर्षं स्तोतुं वयमसमर्था इत्यर्थः । वर्ण स्तुतावित्यस्माद् लट् परस्मैपदं वर्णयामि वर्णयावः वर्णयामः । कुतः यद्यस्माद् एषः रामः स्वलोकं गन्तुं महीं भूमिम् । क्ष्माऽवनिर्मेदिनी महीत्यमरः । मुञ्चन् त्यजन् । नित्यनिषेवणार्थं नित्यम् अनवरतं नित्यानवरताजस्रमित्यमरः निषेवणार्थं नित्यं दर्शनादिरूपां सेवां कर्तु•म् । हनुमत्कृतसेवाफलत्वेन अस्मै हनुमते स्वात्मानमेव ददौ दत्तवान् । दद दान इत्यतो लिट् परस्मैपदं ददौ ददतुर् ददुः । एकेन रूपेण भूमौ स्थितवानिति भावः । तस्मात्किं वर्णयाम इति सम्बन्धः । इन्द्रवज्रावृत्तम् ॥ २६ ॥
विश्वास-प्रस्तुतिः - २७
स्वानन्दहेतौ भजतां जनानां मग्नः सदा रामकथासुधायाम् ।
असाविदानीं च निषेवमाणो रामं पतिं किम्पुरुषे किलास्ते॥ २७ ॥
मूलम् - २७
स्वानन्दहेतौ भजतां जनानां मग्नः सदा रामकथासुधायाम् ।
असाविदानीं च निषेवमाणो रामं पतिं किम्पुरुषे किलास्ते॥ २७ ॥
पदार्थदीपिकोद्बोधिका
स चाद्यापि श्रीरामं सेवमानो वर्तत इत्याह स्वेति ॥ असौ हनूमान् इदानीं चाद्यापि भजतां सेवमानानां जनानां स्वरूपभूतानन्दः स्वानन्दः स्वरूपानन्दाविर्भावलक्षणमोक्ष इत्यर्थः । तस्य हेतुः कारणं तस्मिन् । ‘हेतुर्ना कारणं बीजं’ इत्यमरः । रामस्य या कथा सैव सुधा अमृतं तस्यां सदा मग्नः सन् श्रीराम-कथाश्रवणकीर्तनादावत्यासक्तः सन्नित्यर्थः । पतिं स्वामिनं श्रीरामं निषेवमाणः नितरां सेवमानः सन् किंपुरुषे किंपुरुषाख्यखण्डे आस्ते किल वर्तते किल । किलेत्यैतिह्ये ॥ २७ ॥
मन्दोपाकारिणी
स्वानन्देति ॥ असौ हनूमान् इदानीं च अधुनापि । एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथेत्यमरः । किंपुरुषे किंपुरुषाख्यखण्डे आस्ते वर्तत इति किल वार्ता अस्ति । वार्तासम्भाव्ययोःकिलेत्यमरः । आस उपवेशन इत्यतो लडात्मनेपदम् आस्ते आसाते आसते इति । किं कुर्वन् भजतां श्रवणमननादिसेवां कुर्वाणानां जनानां मुक्तियोग्यचेतनानां स्वानन्दहेतौ स्वः स्वरूपभूतश्चासौ आनन्दः सुखं च स्वानन्दस् तस्य हेतौ प्रादुर्भावकारणे । हेतुर्ना कारणं बीजमित्यमरः । रामकथासुधायां रामस्य कथा चरित्रकथनं तदेव सुधाऽमृतं तस्यां सदा मग्न आसक्तः सन् । पतिं स्वामिनम् । स्वामीत्वीश्वरः पतिरीशितेत्यमरः । श्रीरामं निषेवमाणः नितरां सेवमानः
शुश्रूषमाणः सन् ॥ २७ ॥
विश्वास-प्रस्तुतिः - २८
तस्यैव वायोरवतारमेनं सन्तो द्वितीयं प्रवदन्ति भीमम् ।
स्पृष्टैव यं प्रीतिमताऽनिलेन नरेन्द्रकान्ता सुषुवेऽत्र कुन्ती॥ २८ ॥
मूलम् - २८
तस्यैव वायोरवतारमेनं सन्तो द्वितीयं प्रवदन्ति भीमम् ।
स्पृष्टैव यं प्रीतिमताऽनिलेन नरेन्द्रकान्ता सुषुवेऽत्र कुन्ती॥ २८ ॥
पदार्थदीपिकोद्बोधिका
अथ द्वितीयावतारलीलां वक्तुमारभते- तस्यैवेत्यादिना ॥ प्रीतिरस्यास्तीति प्रीतिमान् तेन । पूर्वार्जितसुकृतातिशयवत्यां कुन्त्यामनुग्रहविशेषवतेत्यर्थः । अनिलेन मुख्यप्राणेन स्पृष्टैव केवलं स्पृष्टा सती नरेन्द्रकान्ता पाण्डुभार्या ‘कान्ता वधूर्वरा युवतिरिति’ हलः । कुन्ती यं पुत्रं सुषुवे प्रसूतवती । षू प्रसवे लिट् । सन्तः बत्थिेत्यादिसूक्ताभिप्रायविदः । तत्र हि ‘पृक्षो वपु’रिति पृक्षशब्देन भीम उच्यते । ‘पृतनाक्षयकारित्वात्पृक्षो भीम उदाहृतः’ इति वचनात् । एनं भीमं तस्यैव हनूमद्रूपेणाव-तीर्णस्यैव वायोस्तदपेक्षयेत्यर्थः । द्वयोः पूरणं द्वितीयं ‘द्वेस्तीय’ इति पूरणार्थे तीयप्रत्ययः । अवतारं प्रादुर्भावं प्रवदन्ति ‘वद व्यक्तायां वाचि’ लट् । अत्र स्पृष्टैव यं सुषुव इति तात्कालिकोत्पत्तिकथनेन गर्भवासादिनिमित्तकक्लेशाभावो भीमस्य दर्शितः । हनुमदवता-रेऽप्येतदुपलक्षणम् । तत्रापि रामायणे वायोः स्पर्शमात्रादञ्जनायामवतारोक्तेः । अत एवोत्त-रत्र मध्वावतारे दशमासगर्भाभिवृद्धिनिमित्तमन्यजीवस्याधिष्ठितत्वोक्तिः ॥ २८ ॥
मन्दोपाकारिणी
एवं प्रथमावतारहनुमल्लीलावर्णनं कृतम् । अथ द्वितीयावतार-भीमसेनलीलां वर्णयन्ति ॥ तस्यैवेत्यादिना ॥ सन्तः बत्थिेत्यादि– सूक्ताभिप्रायविदः । सन् सुधीः कोविदो बुध इत्यमरः । तस्यैव हनुमत्त्वेनावतीर्णस्य वायोरेव द्वितीयं हनुमदपेक्षया द्वितीयम् एनम् अवतारं भीमं भीमसेननामकं प्रवदन्ति प्रकर्षेण कथयन्ति । वद व्यक्तायां वाचीत्यतो लट् परस्मैपदं वदति वदतः वदन्ति । नरेन्द्रस्य राज्ञः पाण्डुचक्रवर्तिनः कान्ता स्त्री । कामिनी ललना कान्तेति धनञ्जयः । कुन्ती तन्नामिका देवी । प्रीतिमता प्रीतिर् हर्षो ऽस्यास्तीति प्रीतिमान् तेनानिलेन मुख्यवायुना । स्पृष्टैव केवलं स्पर्शमात्रवती न तु तेन क्रीडितेति भावः । एवंभूता सती अत्र भुवि यं सुतं सुषुवे प्रसूतवती
एनमिति सम्बन्धः । षूङ् प्राणिगर्भविमोचने इत्यतो लिडात्मनेपदं सुषुवे सुषुवाते
सुषुविरे इति ॥ २८ ॥
विश्वास-प्रस्तुतिः - २९
इन्द्रायुधं हीन्द्रकराभिनुन्नं चिच्छेद पक्षान् क्षितिधारिणां प्राक् ।
बिभेद भूभृद्वपुरङ्गसङ्गाच्चित्रं स पन्नो जननीकराग्रात् ॥ २९ ॥
मूलम् - २९
इन्द्रायुधं हीन्द्रकराभिनुन्नं चिच्छेद पक्षान् क्षितिधारिणां प्राक् ।
बिभेद भूभृद्वपुरङ्गसङ्गाच्चित्रं स पन्नो जननीकराग्रात् ॥ २९ ॥
पदार्थदीपिकोद्बोधिका
तस्य बाललीलां वर्णयति—इन्द्रेति ॥ प्राक् पूर्वं कृतयुग इत्यर्थः । इन्द्रस्य यः करस्तेनाभिनुन्नं हि सम्यक् प्रेरितमेव ‘हि हेताववधारण’ इत्यमरः । इन्द्रायुधं वज्रं क्षितिं भूमिं धरन्तीति क्षितिधारिणः पर्वतास्तेषां पक्षान् पतत्राणि चिच्छेद ‘छिदिर् द्वैधीभावे’ लिट् । स भीमः जनन्या मातुः कुन्त्या यत्कराग्रं हस्तयोरग्रं तस्मात् पन्नः सन् पतितः सन् पद गतावित्यस्मात् ‘गत्यर्थाकर्मके’ति कर्तरि क्तप्रत्यये ‘रदाभ्यां निष्ठातोनः पूर्वस्य च दः’ इति नत्वम् । अङ्गसङ्गः शरीरसङ्गस्तस्मात् । भूभृतः शतृङ्ग-पर्वतस्य वपुः शरीरं तद् बिभेद ‘भिदिर् विदारणे’ लिट् । एतच्चित्रम् आश्चर्यं हि ॥ २९ ॥
मन्दोपाकारिणी
इन्द्रायुधमिति ॥ प्राक् पूर्वम् । इन्द्रायुधं वज्रम् इन्द्रकराभिनुन्नं हि इन्द्रस्य करेण हस्तेन अभि सम्यक् नुन्नं हि प्रेरितमेव । हि हेताववधारणे इत्यमरोक्तेर् हिशब्दोऽवधारणे । क्षितिधारिणां क्षितिं भूमिं धरन्तीति क्षितिधारिणः पर्वतास् तेषाम् । क्षोणी ज्या काश्यपी क्षितिरित्यमरः । पक्षान् पतत्राणि । गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहमित्यमरः । चिच्छेद द्वैधीचकार । छिदिर् द्वैधीकरण इत्यस्माल्लिट् परस्मैपदं चिच्छेद चिच्छिदतुश् चिच्छिदुः । स भीमसेनः । शार्दूलभयेन कम्पितादिति शेषः । जननीकराग्राज् जनन्या मातुः कुन्त्याः । जनयित्री प्रसूर्माता जननीत्यमरः । कराग्रात् प्रान्तात् पन्नः पर्वते पतितः सन् । अङ्गसङ्गाद् अङ्गं स्वगात्रं तस्य सङ्गात् सम्बन्धात् । अङ्गं गात्रातिकोपन इति विश्वः । भूभृद्वपुर् भुवं भूमिं बिभर्तीति भूभृत् पर्वतः । भूभृद्भूमिधरे नृप इत्यमरः । तस्य शतृङ्गपर्वतस्य वपुः शरीरं बिभेद विदारितवान् । भिदिर् विदारण इत्यतो लिट् परस्मैपदं बिभेद बिभिदतुर् बिभिदुरिति । बुद्धिपूर्वं प्रयत्नेन इन्द्रेण पर्वते क्षिप्तं वज्रं पक्षमात्रं चिछेद । अयं तु भीमो ऽसावधानतया पर्वते पतितः सन् सर्वपर्वतशरीरं बिभेद । तस्मादेतच्चित्रम् । अनेन भीमशरीरस्य वज्रापेक्षया अतिदाढर्््यमुक्तं भवति ॥ २९ ॥
विश्वास-प्रस्तुतिः - ३०
पुरे कुमारानलसान् विहारान्निरीक्ष्य सर्वानपि मन्दलीलः ।
कैशोरलीलां हतसिंहसङ्घां वने प्रवृत्तां स्मरति स्म सूत्कः॥ ३० ॥
मूलम् - ३०
पुरे कुमारानलसान् विहारान्निरीक्ष्य सर्वानपि मन्दलीलः ।
कैशोरलीलां हतसिंहसङ्घां वने प्रवृत्तां स्मरति स्म सूत्कः॥ ३० ॥
पदार्थदीपिकोद्बोधिका
कौमारलीलां वर्णयति– पुरेति ॥ स भीमः पुरं हस्तिनापुरं तस्मिन् मन्दा स्वल्पा लीला क्रिया यस्य सः । तथापि । ‘मन्दाः सरोगनिर्भाग्य स्वल्पा-ज्ञापटुसूर्यजाः’ इति वैजयन्ती । विहार उत्प्लवनादिरूपक्रीडा तस्मात् । अलसान् श्रमोपेतान् सर्वान् कुमारान् दुर्योधनादीन् निरीक्ष्य । प्राक् कैशोरावस्थायां वने अरण्ये प्रवृत्तां हताः सिंहसङ्घाः सिंहसमूहा यस्यां सा तथा तां ‘अप्रथमाविभक्त्यर्थेष्वयं समास’ इत्युक्तेः सप्तम्यर्थे बहुव्रीहिः । किशोरस्य सम्बन्धिनी कैशोरी सा च सा लीला च तां किशोराव-स्थायां सिंहैः सह कृतलीलामित्यर्थः । सु सम्यक् उत्क उत्कण्ठायुक्तः सन् ‘उत्क उत्कण्ठितः प्रोक्तः’ इति हलः । स्मरति स्म अस्मरत् । ‘लट् स्म’ इति भूतार्थे लट् । अल्पबलैरेतैः सह विहाराच्छतृङ्गपर्वतेऽवस्थानसमये कैशोरावस्थायां सिंहैः सह विहारः समीचीनस्तादृशो विहारः कदा नु भवेदित्यभिलाषवानभूदिति भावः ॥ ३० ॥
मन्दोपाकारिणी
पुर इति ॥ सः भीमः । पुरे हस्तिनापुरे मन्दलीलः मन्दं शनैर् लीला क्रीडा यस्य स मन्दलीलोऽपि । विहारात् क्रीडाया अलसान् श्रमवतः सर्वान् कुमारान् राजकुमारान् निरीक्ष्य दृष्ट्वा वने अरण्ये प्रवृत्तां जननकाले स्वकृतामिति यावत् । हतसिंहसङ्घां हत निहतः सिंहानां मृगेन्द्राणां सङ्घः गणः यस्यां सा तथोक्ता । कैशोरलीलां किशोरस्य बालस्येयं कैशोरा सा च सा लीला च ताम् । बालः किशोरोवाम्यश्वेत्यमरः । सूत्कः सु भृशम् उत्क उत्कण्ठायुक्तः । सुः पूजायां भृशार्थे चेति मेदिनी । स्मरति स्म अस्मरत् स्मशब्दयोगेन लटो ऽतीतार्थकत्वं लट् स्म इति सूत्रात् । स्मरति स्मृ चिन्तायाम् इत्यतो लट् परस्मैपदं स्मरति स्मरतः स्मरन्ति । कुमारैः सह क्रीडापेक्षया सिंहैः सह क्रीडा समीचीना तादृशी क्रीडा मम कदा नु स्यादित्युत्कण्ठावानभूदिति भावः ॥ ३० ॥
विश्वास-प्रस्तुतिः - ३१
भुक्तं च जीर्णं परिपन्थिदत्तं विषं विषण्णो विषभृद्गुणोऽतः ।
प्रमाणकोटेः स हि हेलयाऽगान्नेदं जगज्जीवनदेऽत्र चित्रम्॥ ३१ ॥
मूलम् - ३१
भुक्तं च जीर्णं परिपन्थिदत्तं विषं विषण्णो विषभृद्गुणोऽतः ।
प्रमाणकोटेः स हि हेलयाऽगान्नेदं जगज्जीवनदेऽत्र चित्रम्॥ ३१ ॥
पदार्थदीपिकोद्बोधिका
अपरञ्चाद्भुतं चरित्रं वर्णयति–भुक्तञ्चेति ॥ परिपन्थिदत्तं परिपन्थिभिः शत्रुभिर् दुर्योधनाभिर् दत्तं सूदमुखेन भक्ष्यादिषु निक्षिप्य दापितमित्यर्थः । ‘परिपन्थी परोऽसुहृत्’ इति हलः । विषं भुक्तञ्च भुक्तमपि जीर्णमभूत् । विहारादिसमये भीमबलं दृष्ट्वा भीतेन दुर्योधनेन येन केनापि प्रकारेण हन्तव्य इति स्वकीयैर्निश्चित्य सूदमुखेन दापितं विषं स्वयं विदित्वा अपि भुक्त्या जीर्णीचकारेति भावः । अतः भीमसकाशात् । विषं बिभ्रतीति विषभृतः सर्पास्तेषां गणः समूहः । विषण्णः हस्ततलेन चूर्णीकृतः । षद्लृ विशरणगत्यवसादनेष्विति धातोः क्तः । विषं जीर्णं दृष्ट्वा पुनश्चायं हन्तव्य इत्यभिप्रायेण दुर्योधनेन स्वसारथिद्वारा शयानस्य भीमस्य सर्वमर्मसु दंशनार्थं मोचितान् दंशनानन्तरमुद्बुद्धः स्वहस्ततलेन सर्पान् सारथिना सह चूर्णयामासेति भावः । स भीमः प्रमाणेन परिमित्या कोटिः कोटियोजनसङ्ख्या यस्य तस्मात् ‘प्रमाणं बोधनेयत्तामर्या-दाशास्त्रहेतुष्विति’ यादवः । कोटियोजनागाधत्वेन प्रमाणकोट्याख्यह्रदादित्यर्थः । हेलया लीलया ‘हेला लीला च कथ्यत’ इति हलः । अगाद् इण् गतौ लुङ् ‘इणो गा लुङि’ इति गादेशः । हिशब्दः प्रसिद्धौ । अनन्तरञ्चायं हन्तव्य एवेति निद्रितं दृढैः पाशैर्बध्वा प्रमाणको-ट्याख्ये गङ्गायां विद्यमाने महाह्रदे दुर्योधनेन स्थापितस्ततो ह्रदात्तान् सर्वान् पाशाञ्च्छित्वा लीलया तीरमाजगामेति भावः । इदञ्चास्य चित्रं नेत्याह । नेदमिति । जीवनमुज्जीवनं ददातीति तस्मिन् ‘आतोऽनुपसर्गे क’ इति कः जगतः जीवनदे अत्र मुख्यप्राणावतारात्मके भीमे चित्रमाश्चर्यं न, न भवति । काव्यलिङ्गम् ॥ ३१ ॥
मन्दोपाकारिणी
भुक्तं चेति ॥ परिपन्थिदत्तं परिपन्थिभिः शत्रुभिर्दुर्योधनादिभिः । अभिघातिपरारातिप्रत्यर्थिपरिपन्थिन इत्यमरः । दत्तं भृत्यद्वारा दापितं विषं गरलम् । क्ष्वेडस्तु गरलं विषमित्यमरः । विषमिश्रान्नमित्यर्थः । भुक्तं च जानता भीमेन भुक्तमपि जीर्णम् उदरे पक्वमभूदिति भावः । अत एतस्माद् भीमाद् विषभृद्गुणः विषं बिभ्रतीति विषभृतः सर्पास् तेषां गणः समूहः विषण्णः विषादं प्राप्तः विनष्ट इत्यर्थः । स भीमः प्रमाणकोटेः प्रमाणकोट्याख्यह्रदात् हेलया अवज्ञया तिरस्कारेणेति यावत् । हेला स्त्रियामवज्ञायाम् इति शब्दार्णवः । अनायासेनेति भावः । अगाज् जगाम हि । दुर्योधनादिभिर् बध्वा ह्रदे क्षिप्तोऽपि भीमः बन्धनं क्षेपणं च अलक्षीकृत्य तस्मात् ह्रदाद् उत्तीर्य बहिरागत इति भावः । इण् गतावित्यतो लुङ् परस्मैपदम् अगाद् अगाताम् अगुः । जगज्जीवनदे जगतां सकलजीवानां जीवनं ददातीति जगज्जीवनदस् तस्मिन् । अत्र अस्मिन् भीमे इदं पूर्वोक्तमरण-बाधापरिहारपूर्वकं स्वजीवनं चित्रं न । असमर्थे हि इदमाश्चर्यमिति भावः ॥ ३१ ॥
विश्वास-प्रस्तुतिः - ३२
दग्ध्वा पुरं योगबलात्स निर्यन्धर्मानिव स्वान् सहजान्दधानः ।
अदारिभावेन जगत्सु पूज्यो योगीव नारायणमाससाद॥ ३२ ॥
मूलम् - ३२
दग्ध्वा पुरं योगबलात्स निर्यन्धर्मानिव स्वान् सहजान्दधानः ।
अदारिभावेन जगत्सु पूज्यो योगीव नारायणमाससाद॥ ३२ ॥
भावप्रकाशिका
पुरं देहश्च । योगी गूढपुरुषः समाधिविपाकवांश्च । अदारिभावेन अदो राक्षसस् तस्यारित्वेन दारो दलनं तद्रहितत्वेन अमृतत्वेन ॥ ३२ ॥
पदार्थदीपिकोद्बोधिका
दुर्योधनकारितलाक्षागृहं दग्ध्वा युधिष्टिरादीनुदूह्य गच्छन्तं भीमं वर्णयति—दग्ध्वेति ॥ योग उपायः स एव बलं तस्मात् ‘योगः सन्नहनोपायध्यान-सङ्गतियुक्तिषु’ इत्यमरः । पुरं लाक्षागृहं तद् दग्ध्वा तस्मात् ‘पुरं शरीरे नगरे गृहपाटलिपुत्रयो’रिति हेमचन्द्रः निरेतीति निर्यन् निर्पूर्वादिण् गतावित्यस्मात्कर्तरि ‘लटः शतृशानचा’विति शतृप्रत्ययः । बिलद्वारेण निस्तरन्नित्यर्थः । धर्मानिव अदृष्टविशेषानिव स्वान् स्वकीयान् सहजातान् भ्रातॄन् युधिष्ठिरादीन् दधानो वहन् । ओर्भावोऽरिभावः शत्रुत्वम् अत्तीत्यदः ‘असाधारण्येन व्यपदेशा भवन्तीति’ न्यायादत्रादशब्देन बहुतराहारवत्त्वाद्राक्षसो विवक्षितः । कृत्तविकृतशब्दोपपदादण् तस्य च पृषोदरादिपाठात् क्रव्यभावः कृत्तविकृत-पक्वमांसभक्षः क्रव्याद उच्यते । आममांसभक्षः क्रव्यादिति काशिका । तदेतत् क्लिष्टत्वा-दुपेक्षितम् अत्ति इत्यदः क्रव्यस्याद इति शेषषष्ठीसमासेनोपपत्तेः । गङ्गाधर इत्यादौ एवमेव सर्वैरङ्गीकृतत्वाद् इदमेव मूलकृत्सम्मतम् । अन्यथा णि आदेति स्यात् । यद्वा नामैकदेशे नामग्रहणमिति न्यायेन वेदव्यास इति वक्तव्ये व्यास इतिवत् क्रव्याद इति वक्तव्येऽद इत्युक्तिः । तथा च अदस्य क्रव्यादस्य राक्षसस्यारिभावः शत्रुत्वं तेन हिडिम्बाख्य-राक्षसहन्तृत्वेनेत्यर्थः । जगत्सु पूज्यो मान्यः स भीमः योग उपायोऽस्यास्तीति योगी स इव उपायविशेषवद्गूढपुरुष इवेत्यर्थः । स यथा कस्यचित्स्वस्वामिविद्विषः पुरं योगबलाद्दग्ध्वा निर्गच्छन् अदारिभावेन दारो विदारणं सोऽस्यास्तीति दारो ‘अत इनिठनौ’ इति इनिः । तस्य भावोऽदारिभावः विदारितत्वमित्यर्थः । न विद्यतेऽदारिभावो यस्य तेन स्वयं शत्रुभिरविदारितत्वेनेति भावः । जगत्सु पूज्यः सन् स्वस्वामिनं प्राप्नुयात्तद्वदित्यर्थः । नारायणं नारायणात्मकं व्यासम् आससाद प्राप ददर्शेति यावत् । षद्लृ धातोर्लिट् । यद्वा योगः समाधिपरिपाकस्तद्वान् योगी स इव, सोऽपि जितपवनत्वात्पुरं शरीरं योगबलात्स्वसमाधि-परिपाकबलाद्दग्ध्वा स्वदेहगतवह्निना भस्मीकृत्य, निर्यन् ब्रह्मनाडीमार्गेण देहादुत्क्रम्य गच्छन् अदारिभावेन शरीरपाटनराहित्येन, पवनाभ्यासं कुर्वतां योगिनां पवनस्य मार्गसञ्चारे सति देहपाटनं भवति तद्रहितत्वेनेत्यर्थः । जगत्सु स्वर्गाद्युत्तमलोकेषु पूज्यः सन् धर्मान् मोक्षे सुखाभिवृद्धिहेतूनदृष्टविशेषान् दधानो ऽमुञ्चन् नारायणं स्वबिम्बभूतं परमात्मानं प्राप्नुयात् तद्वत् । हिडिम्बं निहत्यावस्थितं भीमं दृष्ट्वा पतित्वेन वरयन्तीं हिडिम्बीं ज्येष्ठस्या-विवाहादनिच्छता भीमेन प्राहयितुमाविर्भूतं व्यासं ददर्शेति भावः । उपमा ॥ ३२ ॥
मन्दोपाकारिणी
दग्ध्वेति ॥ योगबलाद् योगस्य उपायस्य बलात् सामर्थ्यात् । योगः सन्नहनोपायध्यानसङ्गतियुक्तिष्वित्यमरः । पुरं लाक्षागृहं दग्ध्वा भस्मीकृत्य निर्यन् बिलान् निर्गच्छन् स्वान् स्वकीयान् सहजान् भ्रातॄन् युधिष्ठिरादीन् । समानोदर्य-सोदर्यसगर्भ्यसहजाः समा इत्यमरः । धर्मानिव पुण्यानिव दधानः स्वस्कन्धे वहन् अदारि-भावेन अत्ति भक्षयति नरानित्यदो राक्षसः हिडिम्बस् तस्य ओर्भावस् तेन । जगत्सु पूज्यः जगति मान्यः स भीमः नारायणं हिडिम्बां ग्राहयितुम् आविर्भूतं श्रीवेदव्यासम् आससाद प्राप्तवान् ददर्शेति भावः । षद्लृ विशरणगत्यवसादवनेष्विति धातोर्लिट् परस्मैपदं ससाद सेदतुः सेदुः । क इव योगीव योग उपायोऽस्यास्तीति योगी उपायवान् गूढपुरुष इव यथा स्वामिद्विषः कस्यचित्पुरुषस्य पुरं योगबलात् कस्माच्चिदुपायबलाद् दग्ध्वा निर्गच्छन् तस्मात्पुराद् बहिर्गच्छन् सहजान् सह जायन्त इति सहजाः सहोत्पन्नास् तान् धर्मान् अदृष्टविशेषान् दधानो ऽदारिभावेन दारो दलनं शत्रुकृतबाधः सोऽस्यास्तीति दारी दारी न भवतीति अदारी अदारिणो भावो ऽदारिभावस् तेन शत्रुकृतपराभवरहितत्वेनेति भावः । जगत्सु पूज्यः सन् स्वस्वामिनं प्राप्नुयात् तथेति भावः । पुनः क इव योगीव योगः समाधिपरिपाकः सोऽस्यास्तीति योगी तपस्वीत्यर्थः । तपस्वी संयमी योगीति धनञ्जयः । स इव सोऽपि प्राणायामेन विजितपवनत्वात् पुरं शरीरं योगबलाद् योगस्य स्वसमाधि-परिपाकस्य बलाद् दग्ध्वा स्वदेहगतवह्निना भस्मीकृत्य निर्यन् ब्रह्मनाडीमार्गेण देहादुत्क्रम्य गच्छन् अदारिभावेन दारो विदारणं शरीरपाटनं तदस्यास्तीति दारी पवनाभ्यासं कुर्वतां योगिनां पवनस्य मार्गसञ्चारे सति देहे शीर्णता भवति तद्रहितत्वेन जगत्सु स्वर्गाद्युत्तमलोकेषु पूज्यः सन् धर्मान् मोक्षसुखाभिवृद्धिहेतून् पुण्यविशेषान् दधानो ऽमुञ्चन् नारायणं स्वबिम्बभूतपरमात्मानं यथा आप्नुयात्तथेति भावः ॥ ३२ ॥
विश्वास-प्रस्तुतिः - ३३
समर्प्य कृत्यानि कृती कृतानि व्यासाय भूम्ने सुकृतानि तावत् ।
करिष्यमाणानि च तस्य पूजां सङ्कल्पयामास स शुद्धबुद्धिः ॥ ३३ ॥
मूलम् - ३३
समर्प्य कृत्यानि कृती कृतानि व्यासाय भूम्ने सुकृतानि तावत् ।
करिष्यमाणानि च तस्य पूजां सङ्कल्पयामास स शुद्धबुद्धिः ॥ ३३ ॥
पदार्थदीपिकोद्बोधिका
व्यासं दृष्ट्वा किं चकारेत्यत आह– समर्प्येति ॥ कृती कुशलः सर्वकार्येषु निपुण इत्यर्थः । शुद्धा सर्वदा भगवत्प्रातिकूल्यरहिता बुद्धिर्यस्य स भीमः सुष्ठु कृतानि सुकृतानि आत्मना भगवत्पूजात्वेन सम्यक्कृतानीत्यर्थः । कर्तुं योग्यानि कृत्यानि ‘विभाषाकृवृषो’ इत्यर्हार्थे क्यप् । स्वेनावश्यं कर्तव्यानीत्यर्थः । कृतानि कर्माणि ‘नपुंसके भावे क्त’ इति क्तः । भूम्ने पूर्णाय व्यासाय तावत् साकल्येन, ‘यावत्तावच्च साकल्ये’ इत्युक्तेः समर्प्य । करिष्यमाणानि च स्वेनोत्तरत्र करिष्यमाणानि बकनिग्रहादीनि च । तस्य श्रीव्यासस्य पूजां सङ्कल्पयामास ‘कृपू’ सामर्थ्ये लिट् । अवतारमारभ्य हिडिम्बवधान्तानि स्वकृतकर्माणि व्यासाय समर्प्याथ करिष्यमाणानि बकनिग्रहादीनि च भगवत्प्रीत्यर्थक-पूजात्वेन करिष्यामीति सङ्कल्पयामासेति भावः । अत एव कृती शुद्धबुद्धिरिति विशेषणद्वयं हेतुगर्भम् ॥ ३३ ॥
मन्दोपाकारिणी
समर्प्येति ॥ कृती ज्ञानी । धीमान् सूरिः कृती कृष्टिरित्यमरः । शुद्धबुद्धिः शुद्धा भगवदप्रतिकूला बुद्धिर् अन्तःकरणं यस्य स तथा स भीमः । सुकृतानि सु सम्यक् भगवत्पूजात्वेन कृतानि अनुष्ठितानि कृत्यानि, स्वस्य कर्तुं योग्यानि, तावत् सकलानि ‘‘यावत्तावच्च, साकल्य’’ इत्यमरः । कृतानि कर्माणि । अत्र कृतशब्दः भाव-निष्ठान्तः । भूम्ने परिपूर्णाय व्यासाय समर्प्य करिष्यमाणानि च कृतानि तस्य वेदव्यासस्य पूजां सेवामिति सङ्खल्पयामास प्रतिज्ञातवान् सङ्कल्पयाम् अम्प्रत्ययान्तमव्ययम् । अस भुवीत्यतो लिट् परस्मैपदम् आस आसतुर् आसुः । अवतारप्रभृति हिडिम्बनिग्रहांतानि कर्माणि भगवति समर्प्य अथ अग्रे करिष्यमणानि च बकनिग्रहादीनि कर्माणि भगवत् पूजात्वेन करिष्यामीति सङ्कल्पयामासेति भावः । अत एव शुद्धबुद्धिश्चेति भावः ॥ ३३ ॥
विश्वास-प्रस्तुतिः - ३४
विष्णोः पदश्रिद्बकसन्निरासी क्षिप्तान्यपक्षिप्रकरः सुपक्षः ।
ससोदरोऽथादित राजहंसः स राजहंसीमिव राजकन्याम्॥ ३४ ॥
मूलम् - ३४
विष्णोः पदश्रिद्बकसन्निरासी क्षिप्तान्यपक्षिप्रकरः सुपक्षः ।
ससोदरोऽथादित राजहंसः स राजहंसीमिव राजकन्याम्॥ ३४ ॥
भावप्रकाशिका
बकः पक्षिविशेषश्च ॥ ३४ ॥
पदार्थदीपिकोद्बोधिका
द्रौपदीस्वयंवरं वर्णयति– विष्णोरिति ॥ विष्णोः श्रीहरेः । श्रयत इति श्रित्, पदस्य पादस्य श्रित्, कर्मणि षष्ठ्याः समासः । पदमाश्रित इत्यर्थः । बकं बकासुरं सं सम्यक् निरसितुं शीलमस्यास्तीति बकसन्निरासी, ‘सुबुक्तिः प्रादिनिवृत्यर्थे’ त्यस्य केवलप्रादिविषयत्वाद् अत्र च बकपदसाहित्यात्समित्यस्य महाभाष्याविरुद्ध-त्वात्प्राद्युपपदत्वेऽपि णिनेरुपपत्तिः । प्रसिद्धश्च प्राद्युपपदत्वेऽपि णिनिः । ‘स बभूवोप-जीविनाम्’ ‘अनुयायिवर्गः’ ‘पतत्यधो धामविसारी’त्यादौ ॥ राजहंसोऽपि मारितबका-ख्यपक्षिविशेषः । पक्षः सहाय एषामस्तीति पक्षिणो ऽन्ये पक्षिणो ऽन्यपक्षिणः स्वशत्रु-सहायिन इत्यर्थः । तेषां प्रकरः समूहः क्षिप्तः निराकृतो ऽन्यपक्षिप्रकरो येन तादृशः ‘पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु’ इति वैजयन्ती । यद्वा क्षिप्तः निराकृतः स्वसिद्धान्त-विरुद्धान्यसिद्धान्तिनां समूहो येन सः । राजहंसोऽपि निराकृतस्वेतरकाकोलूकादिविह-गसमूहः । शोभनपक्षः श्रीकृष्णाख्यसहायो यस्य सुपक्षः शोभनसिद्धान्त इति वा, राजहंसस्तु शोभनपतत्रः । समानमेकमुदरं येषां ते सोदराः । ‘समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु’ इति सूत्रे समानस्येति योगो विभज्यते । तेन सपक्षः, साधर्म्यं, सजातीयः, इत्यादि सिद्धमिति वैयाकरणोक्तेः सोदर इत्यत्रापि समानशब्दस्य सादेशः । अथवा सहशब्दः सदृशवचनोऽस्ति ‘सदृशः सख्या ससखीति यथा, तेनायमस्वपदविग्रहो बहुव्रीहिः । तथा च सदृशमुदरं येषां ते सोदराः ‘वोपसर्जनस्येति’ सहस्य सादेशः । सोदरैः सहितः ससोदरः ‘तेन सहेति तुल्ययोग’ इति समासे पूर्ववत्सादेशः । सभ्रातृक इत्यर्थः । भीमः राजकन्यां द्रुपदकुमारीं ‘कुमारी कथिता कन्या’ इति हलः । द्रौपदीं राजहंसः राजहंसाख्यपक्षी राजहंसीमिव आदित लेभे । डुदाञ् दाने लुङ् । उपमा ॥ ३४ ॥
मन्दोपाकारिणी
विष्णोरिति ॥ अथ वेदव्यासदर्शनानन्तरम् । ससोदरः सोदरैर्भ्रातृभिः सहितः ससोदरः स भीमः । राजकन्यां राज्ञः द्रुपदराजस्य कन्यां पुत्रीम् आदित आदत्त भार्यात्वेन स्वीकृतवानित्यर्थः । डुदाञ् दान इत्यतो लुङात्मनेपदम् आदित आदिषाताम् आदिषतेति । कथंभूतः भीमः, विष्णोः पदश्रिद् विष्णोः श्रीकृष्णस्य पदं पादं श्रिद् आश्रितः । पुनः कथंभूतः बकसन्निरासी बकस्य बकनामकस्य राक्षसस्य सन्निरासो हननम् अस्यास्तीति बकसन्निरासी । पुनः कीदृशः क्षिप्तान्यपक्षिप्रकरो ऽन्यः स्वसिद्धान्तविरुद्धः पक्षः सिद्धान्त एषाम् अस्तीति अन्यपक्षिणः जरासन्धादयः शत्रवस् तेषां प्रकरः पूगः, क्षिप्तः निराकृतो ऽन्यपक्षिप्रकरो येन स तथोक्तः । पूगो वितानं प्रकर इत्यमरः । सुपक्षः सु शोभनः पक्षः सिद्धान्तो यस्य स तथोक्तः । कः कामिव राजहंसः ‘‘राजहंसास्तु ते चञ्चुचरणैर्लोहितेः सिता’’ इत्यमरोक्तलक्षणः पक्षिविशेषः राजहंसीमिव । कथंभूतः विष्णोः पदश्रिद् विष्णोः पदम् आकाशं श्रिद् आश्रितः । बकसन्निरासी बकस्य तन्नामकपक्षिविशेषस्य सन्निरासो निराकरणम् अस्यास्तीति बकसन्निरासी । क्षिप्तान्यपक्षिप्रकरो ऽन्ये स्वेतरे काकोलूकादयस् ते च ते पक्षिणः खगाश्च तेषां प्रकरः समूहः क्षिप्तो ऽन्यपक्षिप्रकरो येन स तथोक्तः । सुपक्षः सु शोभनौ पक्षौ पत्रे यस्य स तथोक्तः ॥ ३४ ॥
विश्वास-प्रस्तुतिः - ३५
इन्दीवरश्रीजयिसुन्दराभं स्मेराननेन्दुं दयितं मुकुन्दम् ।
स्वमातुलेयं कमलायताक्षं समभ्यनन्दत्सुचिराय भीमः॥ ३५ ॥
मूलम् - ३५
इन्दीवरश्रीजयिसुन्दराभं स्मेराननेन्दुं दयितं मुकुन्दम् ।
स्वमातुलेयं कमलायताक्षं समभ्यनन्दत्सुचिराय भीमः॥ ३५ ॥
पदार्थदीपिकोद्बोधिका
तत्र च समागतं श्रीकृष्णमानन्दयदित्याह– इन्दीवरेति ॥ इन्दीवरस्य नीलोत्पलस्य श्रीः कान्तिस् तां जेतुं शीलमस्यास्तीति इन्दीवरश्रीजयिनी तादृशी सुन्दराभा मनोहरकान्तिर्यस्य तम् । स्मेरं स्मितयुक्तं यदाननं तदेवेन्दुर्यस्य स तथा तम् । दयितं स्वस्यातिप्रियम् । स्वस्य मातुलो वसुदेवस्तस्यापत्यं पुमान् स्वमातुलेयस्तम् । कमलवदायते विशाले अक्षिणी यस्य तम् । ‘बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्’ इति षच् । मुकुन्दं श्रीकृष्णं सुचिराय बहुकाले समभ्यनन्दत् । टु नदि समृद्धौ लङ् । द्रौपदीस्वयंवरे समागतं श्रीकृष्णं दृष्ट्वा सन्तुष्टोऽभूत् । यद्वा समभ्यनन्ददित्यन्तर्भूतण्यर्थः । तथा च द्रौपदीस्वयंवरे युद्धार्थमागतस्य राजन्यकूटस्य पराजयकर्मणा भूभारहरणार्थमवतीर्णं श्रीकृष्णं सन्तोषयामासेति भावः ॥ ३५ ॥
मन्दोपाकारिणी
इन्दीवरेति ॥ इन्दीवरश्रीजयिसुन्दराभम् इन्दीवरस्य नीलोत्पलस्य श्रीः कान्तिर् इन्दीवरश्रीर् इन्दीवरश्रियः जयोऽस्यास्तीति इन्दीवरश्रीजयिनी सुन्दरा मनोहरा च सा आभा कान्तिश्च सुन्दराभा इन्दीवरश्रीजयिनी सुन्दराभा यस्य स तथोक्तस्तं नीलो-त्पलापेक्षयातिशयितमनोरमणीयनीलकान्तिमन्तमित्यर्थः । स्मेराननेन्दुं स्मेरं मन्दहासयुक्तं च तद् आननं मुखं च स्मेराननं तद् इन्दुरिव चन्द्र इव यस्य स तथोक्तस्तम् । स्वमातुलेयं मातुलः, मातुर्भ्राता तु मातुल इत्यमरः स्वस्य मातुलस् तस्यापत्यं पुमान् स्वमातुलेयस् तं स्वमातुलपुत्रमित्यर्थः । कमलायताक्षं कमलवत् कमलपत्रवद् आयते विशाले अक्षिणी यस्य स तथोक्तस्तम् । दयितं प्रियं मुकुन्दं श्रीकृष्णं सुचिराय बहुकालाद् द्रौपदीस्वयंवरे दृष्ट्वा समभ्यनन्दत् सन्तुतोष । हस्तिनावतीपुराद्बहिर्निर्गमनानन्तरं बहुकालाद् दृष्टं श्रीकृष्णं द्रौपदीस्वयंवरे दृष्ट्वा तुतोषेति भावः । नदि समृद्धावित्यतो लङ् परस्मैपदम् अनन्दद् अनन्दताम् अनन्दन् ॥ ३५ ॥
विश्वास-प्रस्तुतिः - ३६
महागदं चण्डरणं पृथिव्यां बार्हद्रथं मङ्क्षु निरस्य वीरः ।
राजानमत्युज्ज्वलराजसूयं चकार गोाविन्दसुरेन्द्रजाभ्याम् ॥ ३६ ॥
मूलम् - ३६
महागदं चण्डरणं पृथिव्यां बार्हद्रथं मङ्क्षु निरस्य वीरः ।
राजानमत्युज्ज्वलराजसूयं चकार गोाविन्दसुरेन्द्रजाभ्याम् ॥ ३६ ॥
भावप्रकाशिका
चण्डरणं चण्डानां रणं च । बार्हद्रथं जरासन्धं बृहद्रथसम्बद्धं च ॥ ३६ ॥
पदार्थदीपिकोद्बोधिका
रुद्रादिवरैः सर्वैरजेयस्य जरासन्धादिराजनिकरस्य वधपूर्वकं राजसूययागश्च युधिष्ठिरेण कारित इत्याह– महागदमिति ॥ स भीमः । महती गदा यस्य तम् । पृथिव्यां भूमौ । चण्डः क्रूरो रणो युद्धं यस्य तम् । बृहद्रथस्यापत्यं पुमान् तं ‘तस्यापत्यम्’ इत्यणि ‘तद्धितेष्वचामादेः’ इत्यादिवृद्धिः । जरासन्धमित्यर्थः । सुरेन्द्राज्जातः सुरेन्द्रजोऽर्जुनः गोविन्दश्च सुरेन्द्रजश्च ताभ्यां सह मंक्षु सद्यः ‘सद्यो द्राङ् मंक्षु च द्रुतम्’ इत्यमरः । निरस्य हत्वा । यद्वा महान्तो ये अगाः पर्वता वृक्षा वा ‘शैलवृक्षौ नगावगा’ वित्यमरः । महागान् द्यति खण्डयतीति महागदः ‘दो अवखण्डन’ इति धातोर् अतिमहा-बलोपेतत्वेन महापर्वतादिविदारकमिति भावः । बृहन्तो रथा यस्मिन्रणे स बृहद्रथः स एव बार्हद्रथस्तं महारथगजादिचतुरङ्गसैन्ययुक्तमिति भावः । चण्डानां क्रूराणां कीचकादिभूपानां रणं युद्धं तं मंक्षु द्राक् निरस्य सकलभूपान् विजित्येति भावः । राजानं धर्मजम् अत्युज्ज्वलः शास्त्रोक्ताङ्गसाकल्येनात्यन्तं शोभमानः राजसूयः राजसूयाख्ययागो यस्य तं चकार ॥ ३६ ॥
मन्दोपाकारिणी
महागदमिति ॥ वीर आरब्धान्तगामी भीमः । राजानं युधिष्ठिरम् अत्युज्ज्वलराजसूयम् अत्युज्ज्वलो ऽत्यन्तं प्रकाशमानः राजसूयस् तन्नामकयज्ञः यस्य स तथोक्तस्तं चकार । किं कृत्वा महागदं महती गदा तन्नामकमायुधं यस्य सः महागदस् तम् । पृथिव्यां भूमौ चण्डरणं चण्डस्तीक्ष्णः रणः युद्धं यस्य स तथोक्तस् तं बार्हद्रथं बृहद्रथस्य राज्ञो ऽपत्यं पुमान् बार्हद्रथस् तं जरासन्धम् । गोविन्दसुरेन्द्रजाभ्यां सुरेन्द्राज्जातः सुरेन्द्रजो ऽर्जुनः, गोविन्दः श्रीकृष्णश्च सुरेन्द्रजश्च गोविन्दसुरेन्द्रजौ ताभ्यां ‘‘सहयोगे तृतीया’’ ताभ्यां सह गत्वेति भावः । मङ्क्षु शीघ्रम् । शीघ्रं द्राक् मङ्क्षु च द्रुतमित्यमरः । निरस्य हत्वा । किं कृत्वा महागदं महान्तो ऽदार्याश्च ते अगाः पर्वता वृक्षाश्च महागाः ‘‘शैलवृक्षौ नगावगावि’’त्यमरस् तान् द्यति खण्डयतीति महागदः । दो अवखण्डन इति धातोः । महापर्वतविदारणसमर्थमित्यर्थः । बार्हद्रथं बृहन्तः महान्तश्च ते रथाश्च बृहद्रथा बृहद्रथानां सम्बन्धी बार्हद्रथस् तं महारथोपेतमित्यर्थः । एवं चण्डरणं चण्डानां क्रूराणां कीचकादीनां रणं युद्धं निरस्य भीमः कृष्णार्जुनयुक्तः सन् जरासन्धं प्रति गत्वा तं हत्वा च ततो दिग्विजयकाले कीचकादीन् विजित्य धर्मराजेन राजसूयं यागं कारयामासेति भावः ॥ ३६ ॥
विश्वास-प्रस्तुतिः - ३७
दुःशासनेनाकुलितान् प्रियायाः सूक्ष्मानरालानसितांश्च केशान् ।
जिघांसया वैरिजनस्य तीक्ष्णः स कृष्णसर्पानिव सञ्चिकाय ॥ ३७ ॥
मूलम् - ३७
दुःशासनेनाकुलितान् प्रियायाः सूक्ष्मानरालानसितांश्च केशान् ।
जिघांसया वैरिजनस्य तीक्ष्णः स कृष्णसर्पानिव सञ्चिकाय ॥ ३७ ॥
पदार्थदीपिकोद्बोधिका
दुःशासनेनाकृष्टाया द्रौपद्या विकीर्णान् केशान् तद्वध-प्रतिज्ञापूर्वकं बबन्धेत्याह– दुःशासनेनेति ॥ भीमः दुष्टं यथा भवति तथा शास्तीति दुःशासनः ‘शासि युधिधृषिमृषिभ्यो युज्वाच्य’ इति कर्तरि युचि ‘युवोरनाकौ’ इत्यनादेशः । तेन दुःशासनेन दुर्योधनानुजेन आकुलितान् केशेषु गृहीत्वाकर्षणेन विकीर्णान् सूक्ष्मान् अरालान् वक्रान् । ‘भुग्नमरां कुटिलमाकुञ्चितमूर्मिमत्कथितं’ इति हलः । असितान् नीलान् प्रियाया भार्याया द्रौपद्याः केशान् । वैरमस्यास्तीति वैरी स चासौ जनश्च तस्य जिघांसया हननेच्छया दुर्योधनादिवधेच्छयेत्यर्थः । तीक्ष्णः क्रूरः कश्चिद् गरुडमन्त्रचतुरः कृष्णसर्पानिव सञ्चिकाय एकीचकार बबन्धेत्यर्थः । चिञ् चयने लिट् । यथा केन-चिद्दुःशासनेन सर्पविषये दुष्टं क्रूरं शास्यतेऽनेनेति शासनं मन्त्रौषधादिरूपं यस्य तेन आकुलितान् पञ्जरादिस्थानाद्विद्रावितान् सूक्ष्मत्वादिविशेषणयुक्तान् कृष्णसर्पान् अन्यः कश्चिद् गारुडचतुरः वैरिजनस्य जिघांसया स्वकीयपञ्जरादिस्थानेष्वेकीकुर्यात्तद्वदिति भावः । उपमा ॥ ३७ ॥
मन्दोपाकारिणी
दुःशासनेनेति ॥ स भीमः दुःशासनेन दुर्योधनानुजेन आकुलितान् विकीर्णान् सूक्ष्मान् मृदून् अरालान् वक्रान् असितान् नीलान् ‘‘कृष्णे नीलासित-श्यामे’’त्यमरः । प्रियाया भार्याया द्रौपद्याः केशान् शिरोरुहान् । कचः केशः शिरोरुह इत्यमरः । वैरिजनस्य वैरिणः शत्रुभूतस्य जनस्य दुर्योधनादेर् जिघांसया हन्तुमिच्छया पश्चात् हनिष्यामीति बुद्ध्येत्यर्थः । सञ्चिकाय एकीचकार बबन्धेति भावः । सम्पूर्वाच् चिञ् चयन इत्यतो लिट् परस्मैपदं चिकाय चिक्यतुश् चिक्युरिति । क इव तीक्ष्णः क्रूरः कश्चिद् गरुडमन्त्रनिपुणः पुरुषः सूक्ष्मत्वादिविशेषणयुक्तान् दुःशासनेन सर्पविषये दुष्टं क्रूरं शासनं मन्त्रौषधिरूपशिक्षा यस्य स तथोक्तः । तेन अन्येन गरुडमन्त्राभिज्ञेन आकुलितान् पञ्जरादिस्थानाद् विद्रावितान् कृष्णसर्पान् वैरिजनस्य जिघांसया यथा स्वकीयपञ्जरादि-स्थानेषु एकीकुर्यात्तद्वदिति भावः । वैरिजिघांसयेत्यनेन यथा कृष्णसर्पाणां वैरिहनने निमित्तत्वम् एवं दुःशासनाकृष्टकेशानां वैरिहनने निमित्तत्वमित्युक्तं भवति । ततश्च तदेकीकरणं युक्तमेवेति भावः ॥ ३७ ॥
विश्वास-प्रस्तुतिः - ३८
जाज्वल्यमानस्य वने वनेऽलं दिधक्षतः पार्थिवसार्थमुग्रम् ।
सत्वानि पुंसां भयदानि नाशं वृकोदराग्नेर्गुरुतेजसाऽऽपुः ॥ ३८ ॥
मूलम् - ३८
जाज्वल्यमानस्य वने वनेऽलं दिधक्षतः पार्थिवसार्थमुग्रम् ।
सत्वानि पुंसां भयदानि नाशं वृकोदराग्नेर्गुरुतेजसाऽऽपुः ॥ ३८ ॥
भावप्रकाशिका
पार्थिवा राजानो वृक्षाश्च । तेजः पराक्रमश्च ॥ ३८ ॥
पदार्थदीपिकोद्बोधिका
वनवासे च भीमेन किर्मीरादयो दुष्टा निहता इत्याह—जाज्वल्येति ॥ वने वने प्रतिवनं ‘नित्यवीप्सयो’रिति द्विर्भावः । सर्वेषु वनेष्वित्यर्थः । अलं सम्यक् । पुनः पुनर्ज्वलतीति जाज्वल्यमानस्तस्य । उग्रं क्रूरम् । पार्थिवानां राज्ञां सार्थं समूहं ‘सार्थनिकुरुम्बकदम्बपूगराशयः’ इति हलः । दग्धुमिच्छतीति दिधक्षंस्तस्य दग्धुमिच्छत इत्यर्थः । भविष्यद्भारतयुद्धे दुर्योधनादिपार्थिवदिधक्षया तद्युद्धं प्रतीक्षमाणस्येति भावः । वृकोदर एव भीम एवाग्निस्तस्य उरु उत्कृष्टं यत्तेजः पराक्रमस्तेन ‘तेजो बले प्रभावेऽन्ने ज्योतिष्यर्चिषि रेतसि’ इति यादवः । पुंसां पुरुषाणां भयं ददतीति भयदानि सत्त्वानि प्राणिनः ‘सत्त्वोऽस्त्री जन्तुषु क्लीबे व्यवसाये पराक्रमे’ इति वैजयन्ती । किर्मीरादयः सिंहव्याघ्रादयश्च नाशम् आपुः । ‘आप्लृ व्याप्तौ’ लिट् । वने वने अलं जाज्वल्यमानस्य उग्रं कण्टकादिना दुरवगाहं पार्थिवसार्थं वृक्षसमूहं दग्धुमिच्छतो दावाग्नेर् उरुतेजसा पुंसां भयङ्कराणि सिंहव्याघ्रादीनि यथा नश्येयुस्तद्वदिति श्लेषाभिप्रायः । प्रकृताप्रकृतश्लेषः शब्दशक्तिमूलध्वनिर्वा ॥ ३८ ॥
मन्दोपाकारिणी
जाज्वल्यमानस्येति ॥ पुंसां पुरुषाणां भयदानि भयं ददतीति भयदानि भयङ्कराणीत्यर्थः । सत्वानि जन्तवः । सत्वमस्त्री तु जन्तुष्वित्यमरः । किर्मीरादि-राक्षसाः सिंहव्याघ्रादयश्चेत्यर्थः । वृकोदराग्नेर् वृकोदरः भीमो ऽग्निरिव तस्य गुरुतेजसा गुरु महच्च तत्तेजः प्रभावश्च गुरुतेजः महासामर्थ्यमिति यावत् तेन । तेजः प्रभावे दीप्तौ चेत्यमरः । नाशं मरणम् आपुः प्रापुर् आप्लृ व्याप्तावित्यस्माल्लिट् परस्मैपदम् आप आपतुर् आपुर् इति । कथंभूतस्य वृकोदराग्नेर् अरण्यवासकाले वने वने वीप्सायां द्विर्वचनमिदं सर्वस्मिन् अरण्ये इत्यर्थः । जाज्वल्यमानस्य अतिशयेन ज्वलितः प्रकाशमानः जाज्वल्यमानस् तस्य, पुनः कथंभूतस्य, उग्रं क्रूरं भूभारभूतमित्यर्थः । पार्थिवसार्थं पार्थिवानां राज्ञाम् । राज्ञि राट् पार्थिवःक्ष्माभृदित्यमरः । सार्थं समूहम् । सार्थो वणिक् समूहे स्यादपि सन्धानमात्रक इति विश्वः । अलम् अत्यन्तं निःशेषमिति यावत् । दिधक्षतः दग्धुमिच्छतः भविष्यद्युद्धे दुर्योधनादि-राजहननेच्छया तद्युद्धं प्रतीक्ष्यमाणस्येति भावः । यथा उग्रं कण्टकाद्यात्मकत्वेन स्पृष्टुम् अशक्यं पार्थिवसार्थं पृथिव्याम् उत्पन्नाः पार्थिवा वृक्षास् तेषां सार्थम् अलं दग्धुमिच्छतः वने वने प्रज्वलतः दावाग्नेर् गुरुतेजसा महाज्वालया पुंसां भयङ्कराणि सिंहव्याघ्रसर्पवृश्चि-कादीनि सत्वानि नश्येयुस् तद्वदिति श्लेषाभिप्रायः ॥ ३८ ॥
विश्वास-प्रस्तुतिः - ३९
भोगाधिकाभोगवतोऽरुणाक्षानितस्ततः सञ्चलतो धरेन्द्रे ।
बहून् द्विजिह्वान्मणिमत्पुरोगानसौ कटून् क्रोधवशाञ्जघान॥ ३९ ॥
मूलम् - ३९
भोगाधिकाभोगवतोऽरुणाक्षानितस्ततः सञ्चलतो धरेन्द्रे ।
बहून् द्विजिह्वान्मणिमत्पुरोगानसौ कटून् क्रोधवशाञ्जघान॥ ३९ ॥
भावप्रकाशिका
आभोगः परिपूर्णता । द्विजिह्वान् भुजगान् रत्नवत्प्रधानान् कोपाधिकान् द्विजिह्वान् मत्सरिणो मणिमत्प्रभृतीन् क्रोधवशांश्च ॥ ३९ ॥
पदार्थदीपिकोद्बोधिका
सौगन्धिकाहरणसमये क्रोधवशाख्यदैत्याश्च निहता इत्याह-भोगाधिकेति ॥ असौ भीमः भोगा अभीष्टविषयभोगास्तैरधिका, आभोगो बलादिपूर्णता एषामस्तीत्याभोगवन्तः भोगाधिकाश्च ते आभोगवन्तश्च तान् ‘आभोगो यत्नपूर्णता’ इति वैजयन्ती । अरुणानि अक्षीणि येषां तान् स्वभावतः कोपेन वा लोहितलोचनानित्यर्थः । धरेन्द्रे गन्धमादनगिरिवरे इतस्ततः सञ्चलतः सञ्चरतः द्विजिह्वान् मत्सरिणः ‘द्विजिह्वो मत्सरी मतः’ इति हलः । अनृतवादिन इति वा । कटून् मनोवाक्कर्मभिर्निष्ठुरान् ‘रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः’ इत्यमरः । मणिमन्नामको ऽसुरः पुरोगः श्रेष्ठो येषां तान् मणिमत्पुरोगान् बहून् क्रोधवशान् क्रोधवशाख्यासुरान् जघान । ‘हन हिंसागत्योः’लिट् । असौ दावाग्निरपि बहून् क्रोधाधीनान् । द्वे जिह्वे येषां तान् सर्पान् । भोगैः शरीरैरधिकास्ते च ते आभोगवन्तश्च बलादिना पूर्णाश्च तान् अरुणाक्षान् । धरेन्द्रे कस्मिंश्चित्पर्वते इतस्ततः सञ्चलतः । मणयो येषां सन्तीति मणिमन्तः फणाग्रेषु रत्नवन्तः सर्पविशेषास्ते पुरोगाः प्रधाना येषां तान् कटून् विषदंष्ट्रादिनातिक्रूरान् एवं भूतान् द्विजिह्वान् सर्पान् यथा नाशयेत्तद्वद्भीमोऽसुरान् जघानेति भावः । प्रकृताप्रकृतश्लेषः ॥ ३९ ॥
मन्दोपाकारिणी
भोगेति ॥ असौ भीमः भोगाधिकाभोगवतः भोगा अपेक्षितविषयजन्यसुखानि तैर् अधिका अतिशयेन विषयासक्ता इति भावः । आभोगः परिपूर्णता येषाम् अस्तीति आभोगवन्तः बलादिपूर्णा इत्यर्थः । आभोगः परिपूर्णतेत्यमरः । भोगाधिकाश्च ते आभोगवन्तश्च भोगाधिकाभोगवन्तस् तान् भोगाधिकाभोगवतः । अरुणे रक्ते अक्षिणी येषां ते अरुणाक्षास् तान् । धरेन्द्रे धराः पर्वताः । अहार्यधरपर्वता इत्यमरः । तेषामिन्द्रे श्रेष्ठे गन्धमादनगिरौ । इतस्ततः सर्वत्रेत्यर्थः । सञ्चलतः द्विजिह्वान् द्वे द्विविध-भाषित्वेन द्विविधे जिह्वे रसने येषां ते द्विजिह्वा मत्सरेण अनृतवादिन इत्यर्थस् तान् । रसज्ञा रसना जिह्वेत्यमरः । कटून् मनोवाक्कर्मभिस्तीक्ष्णान् । कटुः सुगन्धे तीक्ष्णे स्यादिति विश्वः । मणिमत्पुरोगान् मणिमान् तन्नामकदैत्यः पुरोगो ऽग्रेसरः येषां ते मणिमत्पुरोगास् तान् । पुरोगाग्रेसरप्रष्ठाग्रतःसरपुरस्सरा इत्यमरः । बहून् क्रोधवशान् क्रोधवशाख्यान् असुरान् जघान हतवान् । हन हिंसागत्योरित्यस्माल्लिट् परस्मैपदं जघान जघ्नतुर् जघ्नुः । यथा असौ दावाग्निर् बहून् क्रोधवशान् क्रोधस्य कोपस्य वशान् अधीनान् क्रोधपरिपूर्णानित्यर्थः । भोगाधिकाभोगवतः भोगैः शरीरैः फणैर् वा अधिकान् दीर्घदेहान् बहुफणान्वा । भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोर् इत्यमरः । आभोगवतः बलादिपूर्णान् अरुणाक्षान् धरेन्द्रे कस्मिंश्चिद् गिरिवरे इतस्ततः सञ्चलतः । मणिमत्पुरोगान् मणिरेषामस्तीति मणिमन्तः केचन फणेषु मणिमन्त इत्यर्थः । मणिमन्त एव पुरोगाः प्रधाना येषां ते तथोक्तास्तान् । कटून् विषदंष्ट्रादिना क्रूरान् । द्विजिह्वान् द्वे जिह्वे रसने येषां ते द्विजिह्वाः सर्पास् तान् लेलिहानो द्विरसन इति सर्पपर्यायामरः नाशयेत् तथा भीमो ऽसुरान् जघानेति भावः ॥ ३९ ॥
विश्वास-प्रस्तुतिः - ४०
अथैष वेषान्तरभस्मलीनः क्रमेण वायुप्रभवः सुतेजाः ।
रुद्धाखिलाशं मुखरं प्रचण्डं भस्मीचकाराखिलकीचकौघम्॥ ४० ॥
मूलम् - ४०
अथैष वेषान्तरभस्मलीनः क्रमेण वायुप्रभवः सुतेजाः ।
रुद्धाखिलाशं मुखरं प्रचण्डं भस्मीचकाराखिलकीचकौघम्॥ ४० ॥
भावप्रकाशिका
वायुप्रभवो भीमः । क्रमेण सुव्यक्ततेजा अग्निः क्रमेण वायुप्रवृद्धः । आशा इच्छाविशेषा दिशश्च । ‘स्वनन्ति येऽनिलोद्धूता वेणवस्ते तु कीचकाः’ इति च ॥ ४० ॥
पदार्थदीपिकोद्बोधिका
भीमेनाज्ञातवासे विराटपुर्यां कीचकाश्च निहता इत्याह—अथेति ॥ प्रभवतीति प्रभवः वायोः प्रभवो वायुप्रभवः, वायूत्पन्न इत्यर्थः । यद्वा प्रभवनं प्रभवः वायोः प्रभव उत्पत्तिर्यस्य स एष भीमो ऽथ वनवाससमाप्त््यनन्तरम् । अन्यो वेषो वेषान्तरं सूदवेषस् तदेव भस्म तेन लीनो निगूढः भीम इति केनाप्यविदित इति भावः । क्रमः कीचकेन सह युद्धक्रमस्तेन । सुष्ठु तेजः पराक्रमो यस्य तादृशः सन् । रुद्धाः प्रतिरुद्धा अखिलाशा अखिलजनानां जयाशा येन तं षडुत्तरशतानां कीचकाख्यानां क्षत्रिय-वंशोत्पन्नानां विराटश्यालानां भूपानामतिप्रबलत्वात्तद्द्विषय जयाशा कस्यापि नाभूदिति भावः । मुखमस्यास्तीति मुखरः ‘खमुखकुञ्चेभ्यश्च’ इति मत्वर्थे रप्रत्ययः । तं
मुखरम् अविचारितभाषणमित्यर्थः । प्रचण्डमतिक्रूरम् अखिलाः समस्ता ये कीचकाः कीचकाख्यनृपास्तेषामोघः समूहस्तं भस्मीचकार ददाह । डुकृञ् करणे लिट् । अग्निरपि भस्मलीनः सन् क्रमेण वायुप्रभवः वायुनोद्बोधितः सन् अत एव सुतेजा रुद्धा अखिलाशाः समस्तदिशो येन तं मुखरं वायुवशात्सशब्दं प्रचण्डं कण्टकात्मकत्वात्क्रूरम् अखिलवेणुसमूहं यथा भस्मीकुर्यात्तद्द्वदिति भावः । प्रकृताप्रकृतश्लेषः ॥ ४० ॥
मन्दोपाकारिणी
अथेति ॥ अथ वनवाससमाप्त्यनन्तरं वायुप्रभवः वायोर् मुख्य-प्राणात् प्रभवतीति वायुप्रभवः वायुपुत्र एषः भीमो ऽज्ञातवासे वेषान्तरभस्मलीनो ऽन्यो वेषः वेषान्तरं सूदनामकं तदेव भस्म तेन लीनः निगूढ आच्छादित इति यावत् । भीम इति केनाप्यविदित इति भावः । क्रमेण सुतेजाः सु अभिव्यक्तं तेजः प्रभावो यस्य सः सुतेजा एतादृशः सन् रुद्धाखिलाशं रुद्धाः प्रतिरुद्धा अखिलानां राज्ञाम् आशा विजयाभिलाषा येन स तथोक्तस्तम् । षडुत्तरशतकीचकानाम् अतिप्रबलत्वात् तद्विजयाभिलाषः कस्यापि राज्ञो नाभूदिति भावः । मुखरम् अविचारितभाषिणं प्रचण्डम् अतिक्रूरम् अखिलकीचकौघम् अखिलाः षडुत्तरशतसङ्ख्याकाश्च ते कीचकाश्च तन्नामकराजानश्च अखिलकीचकास् तेषाम् ओघं समूहम् । ओघः समूहे निवह इति भास्करः । भस्मीचकार ददाह । यथा अग्निर् भस्मनि लीनः सन् क्रमेण वायुप्रभवः वायुना उद्बोधितो ऽत एव सुतेजा रुद्धाखिलाशं समन्ततः प्रतिरुद्धा आक्रान्ता अखिला आशा दिशः येन स तथोक्तस् तम् । आशा दिगभिलाषयोरिति भास्करः । मुखरं वायुवशात्सशब्दं प्रचण्डं कण्टकमयत्वात् क्रूरतरम् अखिलकीचकौघम् अखिलाश्च ते कीचकाश्च तेषाम् ओघं समूहं भस्मीकरोति तद्वदिति भावः । वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धता इत्यमरः ॥ ४० ॥
विश्वास-प्रस्तुतिः - ४१
स कृष्णवर्त्मा विजयेन युक्तो मुहुर्महाहेतिधरोऽप्रधृष्यः ।
भीष्मद्विजाद्यैरतिभीषणाभं विपक्षकक्षं क्षपयन् विरेजे ॥ ४१ ॥
मूलम् - ४१
स कृष्णवर्त्मा विजयेन युक्तो मुहुर्महाहेतिधरोऽप्रधृष्यः ।
भीष्मद्विजाद्यैरतिभीषणाभं विपक्षकक्षं क्षपयन् विरेजे ॥ ४१ ॥
भावप्रकाशिका
कृष्णेन वर्त्म यस्येति कृष्णवर्त्मा भीमः । विजयो वायुरर्जुनश्च । हेतिरायुधं तेजश्च । भीष्मद्विजाद्यैर्भीषणपक्षिमृगैश्च ॥ ४१ ॥
पदार्थदीपिकोद्बोधिका
भीमकृतं भारतयुद्धं वर्णयति– स इति ॥ कृष्णप्रेरितं वर्त्म मार्गो यस्य स विजयोऽर्जुनस्तेन युक्तः सहितः । धरतीति धरः महती या हेतिरायुधं तस्या धरः महाहेतिधरः । गङ्गाधरः, भूवरः, इत्यादिवत् कर्मणः शेषत्वविवक्षायां शेषषष्ठ्या समासः । प्रधृष्यः शत्रुभिर्विनाश्यः स न भवतीत्यप्रधृष्यः स भीमः । भीष्मश्च द्विजो ब्राह्मणो द्रोणः स च तावाद्यौ येषां तैः । अतिभीषणा अतिभयङ्करा आभा कान्तिर्यस्य तम् । विपक्षा एव दुर्योधनादिशत्रव एव कक्षो वनं तं ‘कक्षो वीरुधि दोर्मूले कच्छे शुष्के वने तृण’ इति हेमचन्द्रः । क्षपयन् नाशयन् विरेजे राजृ दीप्तौ लिट् । श्लेषार्थे तु विजयो विशेषजयस्तेन युक्तः महाहेतिधरः महाज्वालाधरः ‘हेतिर्ज्वालांशुरायुधं’ इति वैजयन्ती । अप्रधृष्यो ऽसह्यः । भीष्मा भयङ्करा ये द्विजाः पक्षिणस् त आद्या येषां तैः । अतिभीषणाभं कक्षं वनं क्षपयन् कृष्णः नीलवर्णः वर्त्म स्वगतमार्गो यस्येति कृष्णवर्त्मा वह्निर् यथा विरेजे तद्वदिति भावः । श्लेषः ॥ ४१ ॥
मन्दोपाकारिणी
स इति ॥ कृष्णवर्त्मा कृष्णस्य वसुदेवपुत्रस्य वर्त्म मार्गो यस्य स तथोक्तः कृष्णज्ञापितमार्ग इत्यर्थः । अयनं वर्त्म मार्गाध्वेत्यमरः । विजयेन अर्जुनेन युक्तः महाहेतिधरः महत्यश्च ता हेतयोऽस्त्राणि च महाहेतयः धरतीति धरः महाहेतीनां धरः महाहेतिधरः । रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतय इत्यमरः । अप्रधृष्यो ऽपरैर् अविनाश्यः स भीमः । भीष्मद्विजाद्यैर् भीष्मः गाङ्गेयश्च द्विजाश्च द्रोणाश्वत्थामादयश्च भीष्मद्विजास् त एवाद्याः पूर्वा येषां ते तथोक्तास् तैः राजसमूहैः । अतिभीषणाभम् अतिभीषणा अत्यन्तभयङ्करा आभा कान्तिर् यस्य स तथोक्तस्तं विपक्षकक्षं विपक्षा दुर्योधनादिद्वेषिण एव कक्षः शुष्कारण्यं विपक्षकक्षस्तम् । द्विडि्वपक्षाहितामित्रेत्यमरः । सौरभे च तृणे कक्षः शुष्ककाननवीरुधोरिति विश्वः । मुहुर्भृशं क्षपयन् संहरन् विरेजे । राजृ दीप्तावित्य-स्माल्लिडात्मनेपदं रेजे रेजाते रेजिरे इति । विजयेन विशिष्टजयेन युक्तः । महाहेतिधरः महतीनाम् अभिवृद्धानां हेतीनां ज्वालानां धरः धारकः । अप्रधृष्यः सोढुमशक्यः कृष्णवर्त्मा अग्निः । बर्हिःशुष्मा कृष्णवर्त्मेति अग्निपर्यायामरः । भीष्मद्विजाद्यैर् भीष्मा भयङ्कराश्च ते द्विजाः पक्षिणश्च त एवाद्याः पूर्वा येषां ते तथोक्ता व्य।घ्रादयस् तैः । भीष्मस्तु भीषणे रुद्रे गाङ्गेये च निशाचर इति विश्वः । दन्तविप्राण्डजा द्विजा इत्यमरः । अतिभीषणाभम् अतिभयङ्कराकारं विपक्षरूपं कक्षं वनं क्षपयन् यथा विरेजे तथेति भावः ॥ ४१ ॥
विश्वास-प्रस्तुतिः - ४२
तरस्विनः प्रोच्चलितानधीरान्निर्दग्धपक्षानतितीक्ष्णकोपान् ।
स धार्तराष्ट्रान् बहुहेतिलीलो विनाश्य विश्वान्परया श्रियाऽभात्॥४२॥
मूलम् - ४२
तरस्विनः प्रोच्चलितानधीरान्निर्दग्धपक्षानतितीक्ष्णकोपान् ।
स धार्तराष्ट्रान् बहुहेतिलीलो विनाश्य विश्वान्परया श्रियाऽभात्॥४२॥
भावप्रकाशिका
धार्तराष्ट्राः शितेतरचरणा नरा हंसाश्च ॥ ४२ ॥
पदार्थदीपिकोद्बोधिका
दुर्योधनादीन्निहत्य साम्राज्यश्रिया विरेज इत्याह—तरस्विन इति ॥ बह्व्यो या हेतयः गदाद्यायुधानि ताभिर्लीला यस्य स भीमः । तरः वेगो बलं वा येषामस्तीति तरस्विनः ‘तरसी बलरंहसी’ इति वैजयन्ती । प्रोच्चलितान् स्वधर्ममार्गादुच्चलितान् । धीरा न भवन्तीत्यधीरास्तान् युद्धे धैर्यरहितानित्यर्थः । निर्दग्धो विनाशितः पक्षः सहायो येषां तान् । अतितीक्ष्णः कोपो येषां तान् । धृतराष्ट्रस्यापत्यानि पुमांसो धार्तराष्ट्रास्तान् दुर्योधनादीन् । विश्वान् सर्वान् । विनाश्य परया उत्तमया श्रिया जयश्रिया राज्यश्रिया च अभाद् अशोभत ‘भा दीप्तौ’ लङ् । श्लेषार्थे तु दावाग्निरपि तरस्विनः प्रोच्चलितान् स्वनीडाच्चलितान् अधीरान् अग्निमत्प्रदेशमतिलंघ्य गन्तुमधीरान् अत एव निर्दग्धपक्षान् निर्दग्धपतत्रान् अतितीक्ष्णकोपान् धार्तराष्ट्रान् लोहितचञ्चूचरणान् पक्षिविशेषान् ‘धार्तराष्ट्रास्तु ते चञ्चुरणैर्लोहितैः सिताः’ इत्यमरः । तान् विश्वान् । बहुहेतिलीलः बहुज्वालालीलः सन् विनाश्य यथा परया श्रिया कान्त्या शोभते तद्वदित्यभिप्रायः । श्लेषः ॥ ४२ ॥
मन्दोपाकारिणी
तरस्विन इति ॥ बहुहेतिलीलः बह्व्यश्च ता हेतयश्च आयुधानि बहुहेतयः बहुहेतिभिर् लीला क्रीडा यस्य स तथोक्तः । स भीमसेनस् तरस्विनः शूरान् । वेगिशूरौ तरस्विनौ इत्यमरः । प्रोच्चलितान् प्रचलितान् स्वधर्ममार्गादपगतान् अधीरान् धैर्यरहितान् निर्दग्धपक्षान् निर्दग्धः निहतः पक्षः सहायभूतो जनो येषां ते निर्दग्धपक्षास् तान् । पक्षः सहायगरुदन्तिकसाध्यमिति रत्नमाला । अतितीक्ष्णकोपान् अत्यन्तं तीक्ष्णस् तिग्मः कोपः क्रोधो येषां ते तथोक्तास्तान् । तिग्मं तीक्ष्णं खरं तद्वदित्यमरः । धार्तराष्ट्रान् धृतराष्ट्रस्य अपत्यानि पुमांसो धार्तराष्ट्रा दुर्योधनादयस् तान् । विश्वान् सर्वानपि । विश्वमशेषं कृत्स्नमित्यमरः । विनाश्य हत्वा परया उत्तमया । दूरानात्मोत्तमाः परा इत्यमरः । श्रिया राज्यसम्पत्त्या । सम्पत्तिः श्रीश्च लक्ष्मीश्चेत्यमरः । अभाद् अशोभत । भा दीप्तौ इत्यतः लुङ् परस्मैपदम् अभाद् अभाताम् अभुर् इति । यथा दावाग्निस् तरस्विनः वेगिनः प्रोच्चलितान् स्वनीडाधिष्ठानाच् चलितान् अधीरान् अग्निमत्प्रदेशम् अतिलङ्घ्य गन्तुं धैर्यरहितान् अत एव निर्दग्धपक्षान् निर्दग्धाः पक्षाः पतत्राणि येषां ते निर्दग्धपक्षास् तान् । अतितीक्ष्णकोपान् धार्तराष्ट्रान् तन्नामकपक्षिविशेषान् । धार्तराष्ट्रा सितेतरैरित्यमरः । विश्वानपि । बहुहेतिलीलः सन् बह्वीभिर् हेतिभिर् ज्वालाभिर् लीला दहनरूपक्रीडा यस्य स तथोक्तस् तादृशः सन् परया श्रिया कान्त्या अशोभत तद्वदिति श्लेषाभिप्रायः ॥ ४२ ॥
विश्वास-प्रस्तुतिः - ४३
कृष्णाङ्घ्रिपङ्केरुहभृङ्गराजः कृष्णामुखाम्भोरुहहंसराजः ।
प्रजासरोजावलिरश्मिराजः ससोदरोऽराजत वीरराजः॥ ४३ ॥
मूलम् - ४३
कृष्णाङ्घ्रिपङ्केरुहभृङ्गराजः कृष्णामुखाम्भोरुहहंसराजः ।
प्रजासरोजावलिरश्मिराजः ससोदरोऽराजत वीरराजः॥ ४३ ॥
पदार्थदीपिकोद्बोधिका
साम्राज्यमधिरूढो भीमः कथमराजत इत्यत आह–कृष्णेति ॥ कृष्णस्यांघ्री पादौ तावेव पङ्के रुहत इति पङ्केरुहे कमले ‘हलदन्तादिति’ सप्तम्या अलुक् । तयोर्भृङ्गराज इव भ्रमरश्रेष्ठ इव कृष्णाङ्घ्रिपङ्केरुहभृङ्गराजः श्रीकृष्णपादपद्मार्चन-स्मरणादौ सदाऽत्यासक्तिमानित्यर्थः । कृष्णाया द्रौपद्या यन्मुखं तदेवाम्भोरुहं पद्मं तस्मिन् हंसराज इव हंसश्रेष्ठ इव कृष्णामुखाम्भोरुहहंसराजः द्रौपद्या लालनपोषणप्रीणनादिना तस्यामभिरत इत्यर्थः । प्रजा एव सरोजानि कमलानि तेषामावलयः पङ्क्तयस् तासु रश्मिराजः रश्म्यधीशो रविरिव प्रजासरोजावलिरश्मिराजः । प्रजानां धर्मतः परिपालने-नानुरञ्जक इत्यर्थः । वीराणां राजा वीरराजः ‘राजाहः सखिभ्यष्टच्’ इति टच् । ससोदरः युधिष्ठिरार्जुनादिभिः सहितः स भीमोऽराजत शुशुभे । राजृ दीप्तौ लङ् । मालोपमा ॥ ४३ ॥
मन्दोपाकारिणी
कृष्णेति । कृष्णाङ्घ्रिपङ्केरुहभृङ्गराजः कृष्णस्य वसुदेवपुत्रस्य अङ्घ्री चरणौ ते पङ्केरुहे कमले इव । पङ्केरुहं तामरसमित्यमरः । तयोर् भृङ्गराजः भृङ्गानां भ्रमराणां राजा श्रेष्ठः । द्विरेफपुष्पलिड्रभृङ्गषट्पदभ्रमरालय इत्यमरः । कृष्णामुखाम्भोरुहहंसराजः कृष्णाया द्रौपद्या मुखम् आननम् अम्भोरुहं कमलमिव कृष्णामुखाम्भोरुहं तस्मिन् हंसराज इव हंसपक्षिश्रेष्ठ इव स्थितः । हंसास्तु श्वेतगरुत इति विश्वः । कृष्णा तु द्रौपदी नीलेति विश्वः । प्रजासरोजावलिरश्मिराजः प्रजाः स्वकीयजनाः । प्रजा स्यात्सन्ततौ जन इत्यमरः । ता एव सरोजानि कमलानि तेषाम् आवलिः पंक्तिः समूह इत्यर्थः । तस्या रश्मिराजः रश्मिभिः किरणैः राजत इति रश्मिराजः सूर्यस्थानीय इत्यर्थः । किरणप्रग्रहौ रश्मी इत्यमरः । ससोदरः सोदरैर् भ्रातृभिः सह वर्तमानः । वीरराजः वीराणां शूराणां राजा श्रेष्ठः । अराजत शुशुभे । राजृ दीप्तौवित्यतो लङात्मनेपदम् अराजत अराजेताम् अराजन्त इति । श्रीकृष्णपादे अत्यासक्तः द्रौपदीमुखं प्रेम्णा पश्यमानः स्वजनहर्षकः भीमः भ्रातृभिः सह शोभमानः सन् राज्यम् अभुंक्तेति भावः ॥ ४३ ॥
विश्वास-प्रस्तुतिः - ४४
पौत्रे पवित्राह्वयजामिपौत्रे धरां निधायासुरधीषु तापम् ।
कीर्तिं त्रिलोक्यां हृदये मुकुन्दं भेजे पदं स्वं सहजैः स भीमः ॥ ४४ ॥
मूलम् - ४४
पौत्रे पवित्राह्वयजामिपौत्रे धरां निधायासुरधीषु तापम् ।
कीर्तिं त्रिलोक्यां हृदये मुकुन्दं भेजे पदं स्वं सहजैः स भीमः ॥ ४४ ॥
पदार्थदीपिकोद्बोधिका
एवं राज्यपरिपालनं कृत्वा भीमः स्वपदं भेज इत्याह— पौत्र इति ॥ स भीमः पवित्र इत्याह्वयो नाम यस्य तस्य श्रीकृष्णस्य जामिः स्वसा सुभद्रा । ‘जामिः स्वसृकुलीनयो’ रिति वैजयन्ती । तस्याः पौत्रः पुत्रपुत्रस्तस्मिन् । ‘पवित्रोऽनौहरौ पूत’ इति वैजयन्ती । पौत्रे स्वपुत्रपुत्रे, अभिमन्युपुत्रे परीक्षितीत्यर्थः । धरां भूमिं निधाय धरापरिपालनार्थं तमभिषिच्येत्यर्थः । असुरधीषु असुराणां मनस्सु तापं ‘‘बत वयमनेनैवं नाशिता’’ इति सन्तापं निधाय, त्रिलोक्यां कीर्तिं निधाय, हृदयं मनः मुकुन्दे निधाय, सहजैर्युधिष्ठिरादिभिः सह स्वपदं स्वस्वरूपं स्वलोकं वा भेजे । भज सेवायां लिट् । दीपकम् ॥ ४४ ॥
मन्दोपाकारिणी
पौत्रेति ॥ स भीमः । पवित्राह्वयजामिपौत्रे पवित्र आह्वयः नाम यस्य सः पवित्राह्वयः श्रीकृष्णस् तस्य जामिः स्वसा सुभद्रा । जामिः स्वसृकुलस्त्रियो-रित्यमरः । तस्याः पौत्रे पुत्रस्यापत्यं पुमान् पौत्रो ऽभिमन्युपुत्र इत्यर्थः । पौत्रै स्वस्यापि पौत्रे परिक्षिति । धरां धरणीम् । धरा धरित्री धरणीत्यमरः । निधाय तदधीनां कृत्वा । असुरधीषु असुराणां धीषु अन्तःकरणेषु तापं च, सर्वे असुरा अनेन भीमेनैव नाशिता इति मनसि सन्तापं निधाय, त्रिलोक्यां लोकत्रये कीर्तिं यशः निधाय प्रसार्य, हृदये स्वचित्ते मुकुन्दं नारायणं निधाय स्थापयित्वा ध्यायन् इति भावः । सहजैः ‘सहयोगे तृतीया’ भ्रातृभिः सह स्वं स्वकीयं पदं स्वर्गादिस्थानं भेजे प्राप । भज सेवायामित्यतो लिडात्मनेपदं भेजे भेजाते भेजिरे इति । पदं व्यवसितत्राणस्थानलक्ष्मांघ्रिवस्तुष्वित्यमरः ॥ ४४ ॥
विश्वास-प्रस्तुतिः - ४५
विष्णोः पदान्तं भजताऽनिलेन घोरप्रघातैरिति नाशितास्ते ।
रसोज्खिताश्चञ्चलवृत्तयोऽलं शोभां न भेजुः सुरवैरिमेघाः॥ ४५ ॥
मूलम् - ४५
विष्णोः पदान्तं भजताऽनिलेन घोरप्रघातैरिति नाशितास्ते ।
रसोज्खिताश्चञ्चलवृत्तयोऽलं शोभां न भेजुः सुरवैरिमेघाः॥ ४५ ॥
भावप्रकाशिका
प्रघातो युद्धं घटनं च । रसो वीर्यमुदकं च ॥ ४५ ॥
पदार्थदीपिकोद्बोधिका
अथ श्रीमुख्यप्राणस्य तृतीयावतारकथां सप्रपञ्चं वक्तु-मुपोद्धातसङ्गत्या पूर्वं भीमनिहतानां मणिमदादिदैत्यानामवस्थामाह—विष्णोरिति ॥ विष्णोः श्रीकृष्णस्य पदस्य अन्तः सन्निधिस्तं भजता सदा तत्र वर्तमानेन अनिलेन भीमरूपेण वायुना । घोरा ये प्रघाताः सङ्ग्रामास्तैः ‘प्रघातश्च समाह्वयः जन्यं स्यादभि-सम्पातः’ इति हलः । इति प्रागुक्तप्रकारेण । नाशिता रसोज्खिता वीर्येण रहिताः ‘रसः स्वादे जले वीर्ये’ इति हेमचन्द्रः । अत एव अलं सम्यक् चञ्चला वृत्तिर्वर्तनं येषां ते । भीमहताः सुरवैरिणो मेघा इव सुरवैरिमेघाः शोभां कान्तिं न भेजुः । ‘भज सेवायां’ लिट् । श्लेषार्थे तु–मेघा वायुना घोरप्रघातैर् घोरताडनैर्नाशिताः शकलीकृता रसोज्खिता निर्जला अत एव लघुत्वादलं चञ्चलवृत्तयः सन्तो यथा शोभां न भजेयुस्तद्वत् । उपमा ॥ ४५ ॥
मन्दोपाकारिणी
विष्णोरिति ॥ विष्णोः श्रीकृष्णस्य पदान्तं पादयोर् अन्तं सामीप्यम् । अन्तः पदार्थसामीप्य इति धनञ्जयः । भजता सेवमानेन श्रीकृष्णसन्निधौ विद्यमानेनेत्यर्थः । अनिलेन भीमरूपेण वायुना घोरप्रघातैर् घोरैः क्रूरैर् भयानकैः । घोरं भीमं भयानकमित्यमरः । प्रघातैः समाघातैर् युद्धैरित्यर्थः । अभ्यामर्दसमाघातसङ्ग्रामाभ्यगामाऽहवा इत्यमरः । इति पूर्वोक्तप्रकारेण । इति हेतुप्रकरणप्रकाशादिसमाप्तिष्वित्यमरः । नाशिता निहता रसोख्खिता रसेन वीर्येण उख्खिता रहिताः । ृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रस इत्यमरः । अत एव अलम् अत्यन्तं चञ्चलवृत्तयश् चञ्चला अस्थिरा समाधानरहितेति यावद् वृत्तिर् मनोव्यापारः येषां ते तथोक्ताः । ते प्रसिद्धाः सुरवैरिमेघाः सुरेषु देवेषु वैरं द्वेषो येषामस्तीति सुरवैरिणः दैत्या इत्यर्थः । वैरं विरोधो विद्वेष इत्यमरः । अत एव मेघाः शोभां कान्तिं न भेजुर् न प्रापुः । भज सेवायामित्यतो लिट् परस्मैपदं बभाज भेजतुर् भेजुः । यथा मेघा आकाशमध्यप्रदेशं प्राप्तेन वायुना घोरताडनैः शिथिलीकृता रसोख्खिता जलरहिता अत एव लघुत्वाच् चञ्चलवृत्तयः सन्तः शोभां न भजन्ति तथेति श्लोकाभिप्रायः ॥ ४५ ॥
विश्वास-प्रस्तुतिः - ४६
एतत्प्रतीपं किल कर्तुकामा नष्टौजसः सङ्कटमेवमाप्य ।
मुकुन्दवैगुण्यकथां स्वयोग्यां काले कलावाकलयन्त तेऽलम्॥४६॥
मूलम् - ४६
एतत्प्रतीपं किल कर्तुकामा नष्टौजसः सङ्कटमेवमाप्य ।
मुकुन्दवैगुण्यकथां स्वयोग्यां काले कलावाकलयन्त तेऽलम्॥४६॥
पदार्थदीपिकोद्बोधिका
एवंभूतास्ते किं चक्रुरित्यत आह—एतदिति ॥ नष्टमोजः सामर्थ्यं येषां ते मणिमदादिदैत्या एवं सङ्कटं भीमनिमित्तक्लेशमाप्य एतस्य भीमकृतापराधस्य प्रतीपं प्रतीकारं स्ववधप्रतीकारमित्यर्थः । कर्तुं काम इच्छा येषां ते तथा सन्तः ‘लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि’ इत्युक्तेस्तुमोऽन्तलोपः । किलेत्यपरमार्थे । वस्तुतोऽपकर्तुमसमर्था इति भावः । कलौ कलियुगाख्ये ‘कलहेऽन्त्ययुगे कलि’रिति वैजयन्ती । काले उत्पन्ना इति भावः स्वयोग्यां दैत्ययोग्याम् । विगतो गुणो यस्मात्स विगुणस्तस्य भावो वैगुण्यं मुकुन्दस्य वैगुण्यं निर्गुणत्वं तस्य कथां तत्समर्थन-परवाग्जालमित्यर्थः । कथ वाक्यप्रबन्ध इति धातोः । अलं सम्यक् आकलयन्त चक्रुः ‘कल कामधेनु’रिति धातोर्लङ् ॥ ४६ ॥
मन्दोपाकारिणी
एतदिति ॥ नष्टौजसः नष्टं गतम् ओजः सामर्थ्यं येषां ते तथोक्ताः । ते दैत्या एवं पूर्वोक्तप्रकारेण सङ्कटं सम्बाधं भीमनिमित्तकं क्लेशमित्यर्थः । आप्य अनुभूय एतत्प्रतीपम् एतस्य प्रतीपं विरोधं भीमकृतापकारस्य प्रतीकारमिति यावत् । कर्तुकामाः कर्तुं कामो इच्छा येषां ते । किलेत्यपरमार्थे । अपकर्तुम् असमर्था इति भावः । कलौ कलियुगाख्ये काले उत्पन्नाः सन्त इति शेषः । स्वयोग्यां स्वेषां योग्याम् अर्हां मुकुन्दवैगुण्यकथां मुकुन्दस्य हरेर् विगुणस्य भावो वैगुण्यं वैगुण्यस्य कथां हरिनिर्गुणत्वप्रतिपादकवाग्जालमित्यर्थः । कथ वाक्प्रबन्ध इति धातोः । अलं सम्यक् आकलयन्त चक्रुः । कल कामधेनौ इति धातोर् लडात्मनेपदम् आकलयत आकलयेताम् आकलयन्तेति । भीमहता दैत्याः पुनर्भूमावुत्पन्नाः सन्तः भीमप्रतीकारित्वेन हरिनिर्गुणत्व-प्रतिपादकं शास्त्रं चक्रुरिति भावः ॥ ४६ ॥
विश्वास-प्रस्तुतिः - ४७
यो भूरिवैरो मणिमान्मृतः प्राग्वाग्मी बुभूषुः परितोषितेशः ।
स संकराख्योंऽघ्रितलेषु जज्ञे स्पृधाऽपरेऽप्यासुरिहासुरेन्द्राः॥ ४७ ॥
मूलम् - ४७
यो भूरिवैरो मणिमान्मृतः प्राग्वाग्मी बुभूषुः परितोषितेशः ।
स संकराख्योंऽघ्रितलेषु जज्ञे स्पृधाऽपरेऽप्यासुरिहासुरेन्द्राः॥ ४७ ॥
पदार्थदीपिकोद्बोधिका
भीमहतास्ते वैगुण्यकथां कथं चक्रुः कथञ्चासम्भावितार्थ-प्रतिपादने सामर्थ्यञ्च तेषामित्याशङ्कां परिहरन् पुनर्भुवि जाताः सन्तः वरबलात्तां चक्रुरिति भावेन तेषामुत्पत्तिमाह य इति । प्राक् सौगन्धिकवने मृतो भीमेन हतः यो मणिमान् । भूरि वैरं यस्य बहु वैरं यस्य भीम इति शेषः । स्पृधा स्पर्धया । वाचोऽस्य सन्तीति वाग्मी । ‘वाचो ग्मिनि’रिति मत्वर्थे ग्मिनिः । चतुरवचन इत्यर्थः । भवितुमिच्छुर् बुभूषुः सन् परितोषितस्तपसा सन्तोषित ईशो रुद्रो येन सस् तादृशः सन् । इह भुवि । सर्वभेद-निराकरणात्सर्वसाङ्कर्यप्रतिपादनेन संकर इत्याख्या अन्वर्थसञ्ज्ञा यस्य तादृशः सन् अङ्घ्रितलेषु तदाख्यविप्रेषु जज्ञे उत्पन्नः ‘जनी प्रादुर्भावे’ लिट् । अपरे मणिमद्य्वतिरिक्ता असुरेन्द्रा अपि इह भुवि आसुर् उत्पन्नाः । धातूनामनेकार्थत्वात् ‘अस गतिहिंसादानेषु’ लिट् । अङ्घ्रितल इत्यस्य कारडि, इत्यपभ्रष्टसञ्ज्ञा । तौवानां भाषयाऽङ्घ्रेः ‘कार्’ इति, तलस्य ‘अडि’ इति च प्रसिद्धेः ॥ ४७ ॥
मन्दोपाकारिणी
य इति ॥ प्राक् पूर्वजन्मनि सौगन्धिकवने यो मणिमान् तन्नामकदैत्यः मृतः भीमेन हतः स मणिमान् । भीमे भूरिवैरः भूरि बहुलं वैरं द्वेषो यस्य स तथोक्तस् तादृशः सन् । वाग्मी वावदूकः ‘वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरी’त्यमरः । बुभूषुर् भवितुमिच्छुः सन् । परितोषितेशस् तपसा परितोषितः प्रसन्नीकृत ईशः शम्भुर् येन स तथोक्तः । ‘शम्भुरीशः पशुपतिरि’त्यमरः । तादृशः सन् इह भूमौ सङ्कराख्यः सङ्कर इति आख्या नाम यस्य स तथोक्तः सन् अङ्घ्रितलेषु तन्नामकविप्रेषु जज्ञे अभूत् ‘जनी प्रादुर्भाव इत्यतो लिडात्मनेपदं जज्ञे जज्ञाते जज्ञिरे’ । अपरेऽपि अन्येऽपि असुरेन्द्रा असुरश्रेष्ठा अपि स्पृधा स्पर्धया इह भूमौ आसुर् उत्पन्नाः । ‘अस भुवीत्यतो लिट् परस्मैपदम् आस आसतुर् आसुरिति’ ॥ ४७ ॥
विश्वास-प्रस्तुतिः - ४८
सान्नाय्यमव्यक्तहृदाखुभुग्वा श्वा वा पुरोडाशमसारकामः ।
मणिस्रजं वा प्लवगोऽव्यवस्थो जग्राह वेदादिकमेष पापः॥ ४८ ॥
मूलम् - ४८
सान्नाय्यमव्यक्तहृदाखुभुग्वा श्वा वा पुरोडाशमसारकामः ।
मणिस्रजं वा प्लवगोऽव्यवस्थो जग्राह वेदादिकमेष पापः॥ ४८ ॥
भावप्रकाशिका
आखुभुगादिवदव्यक्ताभिप्रायत्वमस्य ॥ ४८ ॥
पदार्थदीपिकोद्बोधिका
स च स्वेनात्यन्तमपरिग्राह्यवेदादिकं जग्राहेत्येतत्सदृष्टान्त-माह—सान्नाय्यमिति ॥ अव्यक्तमप्रकटितं हृद् अभिप्रायो यस्य स तथा आखून् मूषिकान् भुङ्क्त इति आखुभुक् मार्जारः ‘ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक्’ इत्यमरः । सान्नाय्यं वा क्षीराख्यं याज्ञियं हविर्विशेषमिव ‘सान्नायं हविरुच्यत’ इति हलः । ‘वा विकल्पोपमानयोः’ इत्यमरः । असारे अपवित्रे पुरीषे काम इच्छा यस्य स श्वा शुनकः । पुरोडाशमिव चरुमिव । न विद्यते व्यवस्था अवस्थितिर् यस्य स अतिचञ्चल इत्यर्थः । प्लवगः कपिर् मणिस्रजं वा अनर्घ्यरत्नमालामिव पाप एष सङ्कराख्यः वेदादिकं जग्राह अध्ययनादिकं चक्रे । अयमत्र दृष्टान्तत्रयाभिप्रायः । सान्नाय्यं पिपासुरपि मार्जारोऽव्यक्त-हृदयो निमीलिताक्षः साधुरिव वर्तमानो यथावसरे प्राप्ते तत्पिबेत् , एवम् अव्यक्तहृदयो ब्रह्मणोऽवाच्यत्वान्निर्विषयत्वेन वेदाप्रामाण्यं, ब्रह्मणश्च निर्विशेषत्वादन्ततः शून्यत्वमित्यादि-स्वाभिप्रायानभिव्यञ्जकः । श्वा असारं जुगुप्सितं मलं कामयते तद्वदयमपि जीवब्रह्मैक्यं, ब्रह्मणो निर्गुणत्वं, तस्यैव जीवरूपेण संसारित्वं, जगन्मिथ्यात्वमित्यादिकं सर्वमप्रामाणिकं सर्वप्रमाणविरुद्धञ्च कामयते । प्लवगोऽपि यथा नानारत्नमयीं मालां लब्ध्वापीयं मणिमाला, अत्रत्यमणीनामपीदं तारतम्यम् इत्यादिविवेकरहितस्तथाऽयमपि बद्धमुक्तादिव्यवस्थां, जीव-ब्रह्मव्यवस्थां, अज्ञानस्यायमाश्रयो विषयश्चायमित्यादिव्यवस्थां न समर्थयितुं समर्थ इत्यव्यवस्थ इति । उपमा ॥ ४८ ॥
मन्दोपाकारिणी
सान्नाय्यमिति ॥ अव्यक्तहृद् अव्यक्तम् अप्रकटितं हृद् अभिप्रायो यस्य स तथोक्तः । आखुभुक् मार्जारः ‘ओतुर्बिडालो मार्जारो वृषदंशक आखुभुगि’त्यमरः । सान्नाय्यं वा दुग्धदधिविकारं याज्ञियहविर्विशेषमिव । ‘वा विकल्पोप-मानयोरि’त्यमरः । असारकामो ऽसारस्य अपवित्रस्य काम इच्छा यस्य स तथोक्तः । श्वा शुनकः । ‘शुनको भषकः श्वा स्यादि’त्यमरः । पुरोडाशं वा पिष्टमयं हविर्विशेषमिव अव्यवस्थः व्यवस्था विवेकस् तद्रहितः प्लवगः कपिः । ‘कपिप्लवङ्गप्लवग’ इत्यमरः । मणिस्रजं वा अनर्घ्यमणीनां स्रजं मालामिव । पापः पापमस्यास्तीति पापः ‘अर्शादिभ्योऽच्’ एष सङ्कराख्यः वेदादिकं वेदः श्रुतिः स एव आदिर् यस्य तत् शास्त्रमिति भावः । जग्राह स्वीकृतवान् ‘ग्रह उपादान इत्यतो लिट् परस्मैपदं जग्राह जगृहतुर् जगृहुरिति’ । अयमत्र दृष्टान्ताभिप्रायः, सान्नाय्यं पिपासुरपि मार्जारो ऽव्यक्तहृदयः निमीलिताक्षः साधुरिव वर्तमानः सन् यथा अवसरे प्राप्ते तत्पिबति एवम् अयमपि अव्यक्तहृदयः ब्रह्मणो ऽवाच्यत्वान् निर्विषयत्वेन वेदाप्रामाण्यं ब्रह्मणः निर्विशेषत्वतः शून्यत्वमित्यादि-स्वाभिप्रायानभिव्यञ्जकः । यथा शुनको ऽसारं जुगुप्सितं कामयते तद्वद् अयमपि प्रमाण-रहितं प्रमाणविरुद्धं जीवब्रह्मैक्यं जगन्मिथ्यात्वमित्यादि कामयते । यथा कपिर् नानारत्नमयीं मालां लब्ध्वापि इयं मणिमाला, अस्याम् अनर्घ्याणि रत्नानि तारतम्योपेतानि सन्तीत्यादि-विवेकशून्यस् तथा सङ्करोऽपि अयं जीव इदं ब्रह्म अयं बद्धो ऽयं मुक्त इति विवेककरणासमर्थः सन् वेदादिकम् अधीतवानिति भावः ॥ ४८ ॥
विश्वास-प्रस्तुतिः - ४९
जनो नमेन्नापरथेति मत्वा शठश्चतुर्थाश्रममेष भेजे ।
पद्माकरं वा कलुषीचिकीर्षुः सुदुर्दमो दुष्टगजो विशुद्धम्॥ ४९ ॥
मूलम् - ४९
जनो नमेन्नापरथेति मत्वा शठश्चतुर्थाश्रममेष भेजे ।
पद्माकरं वा कलुषीचिकीर्षुः सुदुर्दमो दुष्टगजो विशुद्धम्॥ ४९ ॥
पदार्थदीपिकोद्बोधिका
स च यत्याश्रमं जग्राह किमर्थमित्यत आह—जनेति ॥ शठः गूढद्वेषः वेदादिप्रमाणेषु तत्प्रतिपाद्ये ब्रह्मणि च निगूढद्वेष एष संकरो ऽपरथा सन्यासाश्रमापरिग्रहे सति जनो न नमेन् न प्रह्वीभवेत् ‘णमु प्रह्वत्वे शब्दे’ लिङ् । इति मत्वा न तु विरक्त्येति भावः । सुष्ठु दुर्दमः सर्वथा निग्रहीतुमशक्त इत्यर्थः । दुष्टगजो विशुद्धं पूर्वमकलुषम् । अकलुषं कलुषं कर्तुमिच्छति कलुषीचिकीर्षति कलुषीचिकीर्षतीति कलुषीचिकीर्षुः सन् पद्माकरं वा तटाकमिव ‘पद्माकरस्तटाकोऽस्त्री’ इत्यमरः । चतुर्णां पूरणश्चतुर्थः । ‘तस्य पूरणे डट्’ इति डटि ‘षट् कतिकतिपयचतुरां थुक् । चतुर्थश्चासावा-श्रमश्च तं यत्याश्रममित्यर्थः । भेजे प्राप ॥ ४९ ॥
मन्दोपाकारिणी
जन इति ॥ शठः वेदादौ तत्प्रतिपाद्ये ब्रह्मणि च ब्राह्मणेषु च निगूढद्वेषः ‘निकृतस्त्वनृजुः शठ’इत्यमरः । एष संकरश् चतुर्थाश्रमं ब्रह्मचारिगृहस्थ-वनस्थयत्याश्रमेषु चतुर्थश्चासावाश्रमश्च चतुर्थाश्रमः यत्याश्रम इत्यर्थस् तं भेजे स्वीकृतवान् । कः किमिव । सुदुर्दमः न विद्यते दमः दण्डो निग्रह इति यावद् यस्य स दुर्दमः सुष्ठु दुर्दमः सुदुर्दमः निग्रहं कर्तुमशक्य इत्यर्थः । ‘दुःस्यात्कष्टनिषेधयोरिति’ विश्वः । ‘दमस्तु दमने दण्ड’ इति च । दुष्टगजः दुष्टः मत्तश्चासौ गजश्च दुष्टगजः । विशुद्धं पूर्वं निर्मलजलं कलुषं चिकीर्षुः पङ्किलं कर्तुमिच्छुः सन् । पद्माकरं वा तटाकमिव ‘पद्माकरस्तटाकोऽस्त्री’त्यमरः । किं कृत्वा अपरथा यत्याश्रमस्वीकाराभावे जनः न नमेन् मयि प्रवणो न भवेदिति मत्वा न तु विरक्त्येति भावः । ‘णमु प्रह्वत्वे शब्दे चेत्यतो लिङ् परस्मैपदं नमेन् नमेतां नमेयुः’ । यथा गजः निर्मलजलं पद्माकरं प्रविश्य कलुषं कृत्वा स्नानपानायोग्यं करोति एवम् अयमपि रागद्वेषवर्जनपूर्वकं स्वायोग्यं यत्याश्रमं वेदादिद्वेषिजनवशीकरणपूर्वकं गृहीत्वा स्वस्य तत्साध्यहरिप्रीत्यादिफलाजनकं चकारेति भावः ॥ ४९ ॥
विश्वास-प्रस्तुतिः - ५०
अवैदिकं माध्यमिकं निरस्तं निरीक्ष्य तत्पक्षसुपक्षपाती ।
तमेव पक्षं प्रतिपादुकोऽसौ न्यरूरुपन्मार्गमिहानुरूपम्॥ ५० ॥
मूलम् - ५०
अवैदिकं माध्यमिकं निरस्तं निरीक्ष्य तत्पक्षसुपक्षपाती ।
तमेव पक्षं प्रतिपादुकोऽसौ न्यरूरुपन्मार्गमिहानुरूपम्॥ ५० ॥
पदार्थदीपिकोद्बोधिका
एवं सन्यासाश्रमं गृहीत्वाऽसन्मतप्रवर्तनं चकारेत्याह इत उत्तरेण ग्रन्थेन । असौ संकरः । वेदसम्बन्धि वैदिकं तन्न भवतीत्यवैदिकं वेदविरुद्धार्थ-प्रतिपादकमित्यर्थः । माध्यमिकानां सम्बन्धिनं माध्यमिकं बौद्धसम्बन्धिनं पक्षं सिद्धान्तं निरस्तं वैदिकैर्निराकृतं निरीक्ष्य तत्पक्षे माध्यमिकपक्षे सुपक्षपातः सुतरां वात्सल्य-मस्यास्तीति तादृशः । अत एव तं पक्षमेव बौद्धसिद्धान्तमेव प्रतिपादुकः प्रतिपादनशीलः । ‘लषपतपदेति’ पदधातोस्ताच्छील्यार्थे उकञ् । संकर इह तत्पक्षसमर्थनविषये अनुरूपं स्वस्य वेदान्तित्वप्रसिद्धिमनुपमृद्यैव बौद्धमतसमर्थनानुगुणं मार्गमुपायभूतग्रन्थमित्यर्थः । न्यरूरुपन् निरूपितवान् चकारेत्यर्थः ॥ रूप रूपक्रियायां लुङ् ॥ ५० ॥
मन्दोपाकारिणी
अवैदिकमिति ॥ असौ संकरः । माध्यमिकं बौद्धसम्बन्धिनं पक्षं सिद्धान्तम् । अवैदिकं हेतुगर्भविशेषणम् एतत् । अवैदिकत्वाद् वेदविरुद्धत्वाद् वेदप्रामाण्य-वादिभिर् निरस्तं परित्यक्तं निरीक्ष्य दृष्ट्वा स्वयं तत्पक्षसुपक्षपाती तेषां बौद्धानां पक्षे सिद्धान्ते सु अत्यन्तं पक्षपात आग्रहो ऽस्यास्तीति तत्पक्षसुपक्षपाती सन् अत एव तं पक्षमेव बौद्धसिद्धान्तमेव प्रतिपादुकः प्रतिपादयितुकाम इह तत्पक्षसमर्थनविषये अनुरूपं स्वस्य वेदान्तित्वप्रसिद्धिम् अनुपगृह्यैव बौद्धमतसमर्थनानुगुणमार्गम् उपायं न्यरूरुपच् चिन्तितवान् । ‘रूप रूपक्रियायाम् इत्यतो लुङ् परस्मैपदम् अरूरुपद् अरूरुपताम् अरुरुपन्’ । उपेन्द्रवज्रावृत्तम् ॥ ५० ॥
विश्वास-प्रस्तुतिः - ५१
असत्पदेऽसन् सदसद्विविक्तं मायाख्यया संवृतिमभ्यधत्त ।
ब्रह्माप्यखण्डं बत शून्यसिद्ध््यै् प्रच्छन्नबौद्धोऽयमतः प्रसिद्धः॥५१॥
मूलम् - ५१
असत्पदेऽसन् सदसद्विविक्तं मायाख्यया संवृतिमभ्यधत्त ।
ब्रह्माप्यखण्डं बत शून्यसिद्ध््यै् प्रच्छन्नबौद्धोऽयमतः प्रसिद्धः॥५१॥
पदार्थदीपिकोद्बोधिका
एतदेव विशदयति— असदिति ॥ सन् सज्जनो न भवतीत्यसन् दुष्ट इत्यर्थः । असतः पदे स्थाने असदिति वक्तव्ये इति भावः । सच्चासच्च सदसती ताभ्यां विविक्तं विलक्षणम् अभ्यधत्त प्रोवाच । डु धाञ् धारणपोषणयोर्लङ् । बौद्धमतानुसारेण विश्वमसदिति वक्तव्ये तथानुक्त्वा सदसद्विलक्षणमित्युवाचेति भावः । शून्यवादिनः शून्याख्यं परतत्त्वम् अखण्डं निर्विशेषमाहुः । अयमपि परतत्त्वं ब्रह्म, शून्यस्य सिध्यै शून्यसाधर्म्येण प्रतिपादितस्य ब्रह्मणः शून्यत्वसिद्धय इत्यर्थः । ‘खडि भेद’ इति धातोः खण्ड््यते भिद्यते व्यावर्त्यते वस्त्वनेनेति खण्डोऽसाधारणधर्मापरनामा विशेषः । न विद्यते खण्डो विशेषो यस्य तदखण्डं निर्विशेषं निर्धर्मकमिति यावत् । अभ्यधत्त प्रोक्तवान् । बतेत्यव्ययं खेदे । अनन्तगुणमपि ब्रह्मायं निर्गुणम् उक्तवानिति खेदः । ‘खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत’ इत्यमरः । अतः प्रच्छन्नश्चासौ बौद्धश्च वेषान्तरा-पन्नबौद्ध इत्यर्थः । इति प्रसिद्धः सज्जनसभासु ख्यातोऽभवत् ॥ ५१ ॥
मन्दोपाकारिणी
चिन्तितोपायमाह असत्पद इति ॥ असन् दुष्टः सङ्करः । असत्पदे असतः स्थाने सदसद्विविक्तं सदसद्विलक्षणाम् अभ्यधत्त उक्तवान् । डु धाञ् धारणपोषण-योरित्यतो लङात्मनेपदम् अभ्यधत्त अम्यदधाताम् अभ्यदधत इति । बौद्धमतानुसारेण विश्वम् असदिति वक्तव्ये तथा अनुक्त्वा विश्वं सदसद्विलक्षणमिति शब्दान्तरेण उवाच इति भावः । शून्यवादिनः विश्वारोपनिमित्तम् अज्ञानं संवृतिरिति आहुः । अयं सङ्करस्तु संवृतिं मायाख्यया मायेति नाम्ना अभ्यधत्त व्यवहृतवान् । शून्यवादिनः शून्याख्यं परतत्वं निर्विशेषं निर्गुणमाहुः । अयमपि परतत्वं ब्रह्म अखण्डं निर्विशेषम् अभ्यधत्त । किमर्थं शून्यसिद्ध्यै शून्यसाधर्म्येण ब्रह्मणोऽपि शून्यत्वप्राप्तये । बतेति खेदे अनन्तगुणमपि ब्रह्म अयं सङ्करः निर्गुणम् उक्तवान् इति खेदः । ‘खेदानुकम्पासन्तोषविस्मयामन्त्रणे बते’त्यमरः । अतः स्वस्य प्राप्तबौद्धत्वस्याच्छादितत्वादेव अयं सङ्करः प्रच्छन्नबौद्धः । बौद्धशब्दः भावप्रधानः प्रच्छन्नं गूहितं बौद्धत्वं येन सः प्रच्छन्नबौद्ध इति । मायावादिशून्यवादिनोः सर्वप्रमेये विशेषाभावात् शब्दमात्रेणैव भेदान् नाममात्रे विवादायोगेन बौद्धत्वं तावत्सिद्धं सङ्करस्य तच्छब्दान्तरेण व्यवहारस्य कृतत्वान् न प्रकटितम् । अतः सङ्करः प्रच्छन्नबौद्ध इत्युक्त इति भावः ॥ ५१ ॥
विश्वास-प्रस्तुतिः - ५२
यद्ब्रह्मसूत्रोत्करभास्करं च प्रकाशयन्तं सकलं स्वगोभिः ।
अचूचुरद्वेदसमूहवाहं ततो महातस्करमेनमाहुः ॥ ५२ ॥
मूलम् - ५२
यद्ब्रह्मसूत्रोत्करभास्करं च प्रकाशयन्तं सकलं स्वगोभिः ।
अचूचुरद्वेदसमूहवाहं ततो महातस्करमेनमाहुः ॥ ५२ ॥
पदार्थदीपिकोद्बोधिका
परापरसकलतत्त्वप्रकाशकत्वादिना भास्करसदृशानि सूत्राणि यतोऽन्यथापव्याख्यानेनान्यथाज्ञानजनकानि चकार अतो भास्करतस्करसमान इत्यतो महातस्कर इति प्रसिद्धोऽभूदित्याह यदिति ॥ अयं संकरः स्वस्य गावो वाचस्ताभिः सकलं जीवेश्वरस्वरूपादिकं प्रकाशयन्तं प्रकटयन्तम् । वहतीति वाहः वेदानां यः समूहस्तस्य वाहस्तम् । विचार्यत्वेन वा स्वोक्तार्थे प्रमाणत्वेन वा सकलवेदान् वहन्तमित्यर्थः । ब्रह्मणो वेदस्य सूत्राणि अनन्तवेदार्थनिर्णायकसूत्राणीत्यर्थस् तेषामुत्करः समूहः स एव भास्करस्तञ्च । अचूचुरच् चुचोर ‘चुर स्तेये’ लुङ् यद्यस्मात् तस्माद् एनं संकरं जना महातस्करमाहुः ‘ब्रूञ् व्यक्तायां वाचि’ लट् । भास्करोऽपि स्वरश्मिभिः सकलप्रकाशकः, वेदसमूहा वाहा अश्वा यस्य स तथोक्तः । ‘वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः’ इत्यमरः । सूर्यरथे निबद्धाश्वानां सकलवेदाभिमानिदेवतात्मकत्वादिति भावः । तथा च भास्करसदृश-ब्रह्मसूत्रतस्करस्यास्य भास्करतस्करस्येव महातस्करत्वं युक्तमिति भावः । उपमा ॥ ५२ ॥
मन्दोपाकारिणी
यदिति ॥ यस्मादयं संकरः । ब्रह्मसूत्रोत्करभास्करं ब्रह्मसूत्राणाम् उत्करः समूहः । ‘स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियामित्यमरः’ । स एव भास्करः सूर्यस् तम् । ‘भास्कराहस्करब्रध्न’ इत्यमरः । अचूचुरद् अपहृतवान् । ‘चुर स्तेय इत्यतो लुङ् परस्मैपदम् अचूचुरद् अचूचुरताम् अचूचुरन्’ । तत एनं संकरं महातस्करं महांश्चासौ तस्करश् चोरश्च तम् आहुर् वदन्ति । ‘ब्रूञ् व्यक्ताव्यां वाचीत्यतो लट्’ । कथंभूतं स्वगोभिः स्वेषां सूत्राणां गोभिर् वचोभिः सकलं जीवजडेश्वरस्वरूपादिकं प्रकाशयन्तं प्रतिपादयन्तम् । पुनः कथंभूतं वेदसमूहवाहं विषयवाक्यत्वेन वा स्वोक्तार्थप्रमाणत्वेन वा वेदानां समूहं वहन्तं, भास्करोऽपि स्वगोभिः स्वरश्मिभिः ‘गौः स्वर्गे च वृषे रश्माविति विश्वः’ सकलपदार्थ-प्रकाशकः वेदसमूहवाहः वेदसमूहा वेदसमूहाभिमानिनः वाहा रथहया यस्य स तथोक्तः ‘वाजिवाहार्वगन्धर्वेत्यमरः’ । सकलप्रकाशकभास्करतस्करस्य यथा महातस्करत्वं तथा तत्सदृशब्रह्मसूत्रतस्करस्य संकरस्यापि महातस्करत्वं युक्तमेव । सूत्रचौर्यं नाम स्वेच्छया व्याख्यानकरणमेवेति ज्ञेयम् ॥ ५२ ॥
विश्वास-प्रस्तुतिः - ५३
स्वसूत्रजातस्य विरुद्धभाषी तद्भाष्यकारोऽहमिति ब्रुवन् यः ।
तं तत्क्षणाद्यो न दिधक्षति स्म स व्यासरूपो भगवान् क्षमाब्धिः॥ ५३ ॥
मूलम् - ५३
स्वसूत्रजातस्य विरुद्धभाषी तद्भाष्यकारोऽहमिति ब्रुवन् यः ।
तं तत्क्षणाद्यो न दिधक्षति स्म स व्यासरूपो भगवान् क्षमाब्धिः॥ ५३ ॥
भावप्रकाशिका
‘न दिधक्षति स्म’ । ‘लट् स्म’ इति सूत्रादतीतार्थत्वम् ॥ ५३ ॥
पदार्थदीपिकोद्बोधिका
एतादृशं संकरं व्यासः कुतो न भस्मीचकारेत्यत आह— स्वेति ॥ यः संकरः स्वस्य यानि सूत्राणि तेषां जातस्य समूहस्य ‘जातं जात्योघजनिषु’ इति हेमचन्द्रः । विरुद्धं जगन्मिथ्यात्वादिकं भाषत इति तादृशः । तथाप्यहं तेषां ब्रह्मसूत्राणां यद्भाष्यं तत्करोतीति तथोक्तः । ‘कर्मण्यण्’ इत्यण् । इति ब्रुवन् वर्तते । तमेतादृशं संकरं यो व्यास इति रूपं स्वरूपं यस्य सः । भगोऽस्यास्तीति भगवान् षड्गुणपूर्णः श्रीव्यासः । स चासौ क्षणश्च तस्मात् । न दिधक्षति स्म न दग्धुमैच्छत् । ‘दह भस्मीकरणे’ लट् । स व्यासः क्षमाब्धिः क्षमासमुद्रः क्षमाब्धित्वात्स्वयं न भस्मीचकारेति भावः । काव्यलिङ्गम् ॥ ५३ ॥
मन्दोपाकारिणी
स्वेति ॥ यः संकरः स्वसूत्रजातस्य स्वकीयसूत्राणां जातस्य समूहस्य वेदव्यासकृतसूत्रस्येत्यर्थः । जातं जात्योघजन्मस्विति विश्वः । विरुद्धभाषी विरुद्धभाषणशील इत्यर्थः । तथा च अहं तद्भाष्यकारस् तेषां सूत्राणां भाष्यकर्ता इति ब्रुवन् वदन् वर्तते । तम् एवंविधसंकरं यः व्यासरूपः भगवान् भगो ऽस्यास्तीति भगवान् । ‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानविज्ञानयोश्चैव षण्णां भग इतीरणे’ति वचनात् । सम्पूर्णैश्वर्यादिषड्गुणवान् इत्यर्थः । तत्क्षणाद् अव्ययमेतत् । तस्मिन्नेव विरुद्धभाषणादिकाले न दिधक्षति स्म दग्धुं नैच्छत् । ‘दह भस्मीकरण’ इत्यतो लङ् परस्मैपदं दिधक्षति दिधक्षत दिधक्षन्ति । स्म अतीते । सः वेदव्यासः क्षमाब्धिः क्षमया तितिक्षया सहनशक्त्येति यावत् । अब्धिः समुद्रः । क्षमा क्षोभ्या तितिक्षा चेति भास्करः ॥ ५३ ॥
विश्वास-प्रस्तुतिः - ५४
निगमसन्मणिदीपगणोऽभवत्तदुरुवाग्गणपङ्कनिगूढभाः ।
अविदुषामिति संकरताकरः स किल संकर इत्यभिशुश्रुवे॥ ५४ ॥
मूलम् - ५४
निगमसन्मणिदीपगणोऽभवत्तदुरुवाग्गणपङ्कनिगूढभाः ।
अविदुषामिति संकरताकरः स किल संकर इत्यभिशुश्रुवे॥ ५४ ॥
भावप्रकाशिका
अविदुषामिति । तस्मादविदुषां नराणाम् ॥ ५४ ॥
पदार्थदीपिकोद्बोधिका
तस्य संकर इति शब्दवाच्यत्वे निमित्तमाह— निगमेति ॥ निगमा वेदा एव सन्मणय उत्तमरत्नानि त एव दीपाः प्रदीपास् तेषां गणः समूहः । तस्य संकरस्य उरव उत्कृष्टा या वाचः व्याख्यानरूपवाचस्तासां गणः समूहः स एव पङ्कः कर्दमस्तेन निगूढा प्रच्छन्ना भाः कान्तिर्यस्य सोऽभवत् । रत्नप्रदीपवद् भगवत्स्वरूपादिकं सम्यक् प्रकाशयन्नपि निगमः संकरकृतापव्याख्यानेन तिरोहितोऽभवदिति भावः । इति तस्मात् ‘इति हेतुप्रकरणप्रकारादिसमाप्तिषु’ इत्यमरः । श्रुत्यादेरन्यथा-व्याख्यानादित्यर्थः । विद्वांसो न भवन्तीत्यविद्वांसस्तेषां स्वतो वेदार्थमजानतां नराणा-मित्यर्थः । संकरस्य भावः संकरता तां करोतीति तथोक्तः । संकरताया कर इति वा । सर्वभेदाभावबुद्धिजनक इत्यर्थः । स संकर इत्यभिशुश्रुवे किल विद्वत्सभासु प्रसिद्धोऽभूत्किल । श्रु श्रवणे लिट् । द्रुतविलम्बितवृत्तम् । ‘द्रुतविलम्बितमाह नभौ भरौ’ इत्युक्तेः । रूपकम् ॥ ५४ ॥
मन्दोपाकारिणी
निगमेति ॥ निगमसन्मणिदीपगणः – मणय एव दीपा मणिदीपाः सन्तश्च ते मणिदीपाश्च सन्मणिदीपा निगमा एव सन्मणिदीपास् तेषां गण इति विग्रहः । निगमा वेदा एव सन्मणिदीपा निर्दोषरत्नमणिदीपास् तेषां गणः समूह इत्यर्थः । तदुरुवाग्गणपङ्कनिगूढभाः – वाचां गणः वाग्गण उरुश्चासौ वाग्गणश्च उरुवाग्गणस् तस्य उरुवाग्गणस् तदुरुवाग्गणः स एव पङ्कस् तेन निगूढा भा यस्येति विग्रहः । तस्य संकरस्य उरुर् उत्कृष्टः वाचां व्याख्यानरूपवाचां गणः जालं स एव पङ्क कर्दमः ‘पङ्कः कर्दम पापयोरित्यमरः’ पङ्केन निगूढा तिरोहिता भाः प्रकाशो यस्य सस् तथोक्तः । अभवद् रत्नमयदीपवद् भगवत्स्वरूपादिकं सम्यक् प्रकाशयन्नपि वेदः संकरकृतव्याख्यानेन तिरोहि-तार्थोऽभवदिति भावः । अत्र मणिदीपप्रकाशस्य पङ्केन नाशो यथा न भवति किन्तु तिरोधानमेव तद्वद् वेदप्रकाशस्यापि संकरवाग्जालेन तिरोधानमेव न तु नाश इति सूचयितुं मणिदीप एव दृष्टान्तीकृतः । प्रसिद्धदीपस्य पङ्केन नश्यमानत्वेन तिरोधानायोगादिति ज्ञेयम् । इति अस्माद्धेतोः श्रुत्याद्यन्यथाव्याख्यानाद् अविदुषां स्वतो वेदाथमविजानतां नराणां संकरताकरः संकरतां सांकर्यं सर्ववेदाभासबुद्धिं करोतीति संकरताकरः सः संकर इति नाम्ना अभिशुश्रुवे किल विद्वत्सभासु प्रसिद्धोऽभूत् किल । श्रु श्रवण इत्यतः कर्मणि लिडात्मनेपदं शुश्रुवे शुश्रुवाते शुश्रुविरे । द्रुतविलंबितवृत्तम् । द्रुतविलंबितमाह ‘नभौ भरौ’इति तल्लक्षणात् ॥ ५४ ॥
विश्वास-प्रस्तुतिः - ५५
विश्वं मिथ्या विभुरगुणवानात्मनां नास्ति भेदो
दैत्या इत्थं व्यदधत गिरां दिक्षु भूयः प्रसिद्धिम् ।
आनन्दाद्यैर्गुरुगुणगणैः पूरितो वासुदेवो
मन्दं मन्दं मनसि च सतां हन्त नूनं तिरोऽभूत्॥५५॥
मूलम् - ५५
विश्वं मिथ्या विभुरगुणवानात्मनां नास्ति भेदो
दैत्या इत्थं व्यदधत गिरां दिक्षु भूयः प्रसिद्धिम् ।
आनन्दाद्यैर्गुरुगुणगणैः पूरितो वासुदेवो
मन्दं मन्दं मनसि च सतां हन्त नूनं तिरोऽभूत्॥५५॥
॥ इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचार्यसुतनारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये महाकाव्ये आनन्दाङ्के प्रथमः सर्गः ॥
भावप्रकाशिका
आनन्दाद्यैरित्यादिसर्गान्तश्लोकपदेन आनन्दात्मकोऽयं ग्रन्थः
॥ ५५ ॥
॥ इति श्रीनारायणपण्डिताचार्यविरचितायां स्वकृतश्रीमत्सुमध्वविजयस्य भावप्रकाशिकाख्यटीकायां प्रथमः सर्गः ॥
पदार्थदीपिकोद्बोधिका
वेदादिभ्यः सामान्यतो विष्णुमनन्तगुणं जानतामपि सतां मायिप्रणीतदुर्भाष्यादिरूपवाग्भिस् तत्त्वविषये इदम् अदो वा इति संशयोऽन्यदेवेति विपरीतज्ञानं वाऽभूदिति भावेनाह–विश्वमिति ॥ दैत्याः संकरादिनाम्ना भुव्युत्पन्ना मणिमदादयो विश्वं प्रपञ्चो मिथ्या सदसद्विलक्षणम् । अव्ययमेतत् । विभुर्व्याप्तो भगवान् विष्णुः, गुणा अस्य सन्तीति गुणवान् स न भवतीत्यगुणवान् निर्गुण इत्यर्थः । गुणविरुद्धा अगुणा दोषास्तद्वानिति वा । ब्रह्मैव जीवरूपेण सकलदोषभाजनमिति हि मायिमतम् । आत्मनां चेतनानां भेदो नास्ति । इत्थं दिक्षु नानादेशेषु गिरां वाचां भूयो बाहुल्येन प्रसिद्धिं व्यदधत चक्रुः । डु धाञ् धारणपोषणयोर्लुङ् । तथा प्रसिद्ध्या किमभूदित्यत आह आनन्दाद्यैरिति । आनन्द आद्यो येषां तैः । गुरवो महान्तो ये गुणास्तेषां गणाः समूहास्तैः । ‘गुरुर्महत्यांगिरसे पित्रादौ धर्मदेशिके’ इति हेमचन्द्रः । पूरितः पूर्णो वासुदेवः श्रीहरिः सतां सम्यग् ज्ञानयोग्यानां पुरुषाणां मनसि च तिरोऽभून् नूनं तिरोहितोऽभूदेव । ‘नूनं तर्केऽवधारणे’ इत्यमरः । आनन्दतीर्थानामस्मिन्काव्ये प्रतिपाद्यत्वात्सर्गान्तश्लोके आनन्द-पदाङ्कितमिदं काव्यम् । मन्दाक्रान्तावृत्तम् । ‘मन्दाक्रान्ता जलधिषडगैर्म्भौनतौ ताद् गुरु चेत्’ इत्युक्तेः ॥ ५५ ॥
॥ इति श्रीमद्वेदाङ्गमुनिविरचितश्रीसुमध्वविजयटीकाविवृतौ श्रीविश्वपतितीर्थकृतौ पदार्थदीपिकोद्बोधिकायां प्रथमः सर्गः ॥
मन्दोपाकारिणी
विश्वं मिथ्येति ॥ दैत्या भुवि जाता मणिमदादयः दिक्षु नानादेशेषु । विश्वं प्रपञ्चः मिथ्या सदसद्विलक्षणं, विभुर् विष्णुर् अगुणवान् गुणा अस्य संतीति गुणवान् न गुणवान् अगुणवान् निर्गुण इति यावत् । आत्मनां जीवानां ‘आत्मा यत्ने धृतौ जीवे स्वभावे परमात्मनि’ इति भास्करः, भेदो नास्ति इत्थम् एवंरूपाणां गिरां वचसां ‘गीर्वाग्वाणी सरस्वती’त्यमरः भूयःप्रसिद्धिं भूयसी बहुला च सा प्रसिद्धिश्च तां व्यदधत चक्रुः । डु धाञ् धारणपोषणयोरिति धातोर्लङात्मनेपदम् अधत्त अदधाताम् अदधतेति’ । तया प्रसिद्ध्या किमभूद् इत्यपेक्षायामाह आनन्दाद्यैरित्यादि– आनन्दाद्यैर् आनन्द एव आद्यो येषां ते आनन्दाद्यास् तैः । गुरुगुणगणैर् गुरवः महान्तश्च ते गुणाश्च गुरुगुणास् तेषां गणैः समूहैः । गुणानां महत्वं नाम उत्पत्तिनाशादिदोषशून्यत्वम्, पूरितः पूर्णः वासुदेवः श्रीहरिः सतां सम्यक् ज्ञानयोग्यानां जनानां मनसि चेतसि मन्दं मन्दं शनैः कालक्रमेणेत्यर्थः । तिरोऽभून् नूनम् अदृश्योऽभूदेव । ‘नूनं तर्केऽवधारण’ इत्यमरः । सामान्यतो विष्णुम् अनन्तगुणं जानतामपि सतां मायिप्रणीतदुर्भाष्यादिवाक्प्रकरप्रसिद्ध्या इदमदो वेति संशयः केषांचित् संकरप्रणीतप्रकार एव सम्यगिति विपरीतज्ञानम् अभूद् इति भावः । हन्तेति विषादे । मुक्तियोग्यानां संशयज्ञानादिकम् अभूदित्येतन् महादुःखकरमिति विषादः । अनुकम्पा वा । मुक्तियोग्यानां तेषां कथं वा कदा वा तत्त्वज्ञानं स्यादिति ग्रन्थकर्तुर् अनुकम्पा । ‘हन्त हर्षे विषादे च वाक्यारम्भानुकम्पयोरिति’ रत्नमाला । प्रतिसर्गे अन्तिमश्लोकेषु आनन्दपदाङ्कितमिदं काव्यम् मन्दाक्रन्तावृत्तम् । ‘मन्दाक्रान्तांबुधिरसनगैर् मोभनौ तौ गुरू द्वौ’ इति तल्लक्षणात् ॥ ५५ ॥
॥ इति श्रीसुमध्वविजयटीकायां श्रीमच्छलारिनरसिंहाचार्याणां शिष्येण शेषेण विरचितायां मन्दोपकारिण्यां प्रथमः सर्गः ॥