१७

अथ द्वादश सरस्वती स्वरूप
देवतामूर्ति प्रकरणे
एक वक्त्र चतुर्भुजा मुकुटेन विशजितः
प्रभामण्डल संयुक्ता कुण्डलान्वित शेखरः १
इति सरस्वती स्वरूप लक्षण
अक्ष पद्मं विणापुस्तक महाविद्या प्रकीर्तिता । इति महाविद्या १
अक्ष पुस्तकवीणा पद्म महावीणा च नामत २
इति महावीणा २
वराक्ष पद्मपुस्तक शुभावहा च भारती । इति भारती ३
वराम्बुअक्ष पुस्तक सरस्वती प्रकीर्तिता ३
इति सरस्वती ४
वराक्षं पुस्तकं पद्मं आर्यानाम प्रकीर्तिता इत्यार्या ५
वरपुस्तकाक्ष पद्म ब्राह्मी नाम सुखावहा ४
इति ब्राह्मी ६
वर पद्मवीणा पुस्तक महाधेनुश्च नामतः । इति महाधेनु ७
वर च पुस्तक वीणा वेदजर्भा तथाम्बुजम् ५
इति वेदजर्भा ८
अक्ष तथाऽभये पद्मपुस्तके मेश्वरीभवेत् । इत्येश्वरी ९
अक्ष पद्मवीणाश्चैव महालक्ष्मी च आगमे ६
इति महालक्ष्मी १०
अक्ष पद्म पुस्तकं च महाकाल्याऽभयं तथा । इति महाकाली ११
अक्ष पुस्तक वीणा च पद्म महासरस्वती ७
इति महासरस्वती १२
इति द्वादश सरस्वती स्वरूप

श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां त्रयोदश्यादिव्य
द्विभुज स्वरूपाध्याय क्रमाङ्क अध्याय १७
अथातः सम्प्रवक्ष्यामि आदित्याश्च द्वयङ्करा
त्रयोदशादित्यान् प्रोक्तं रूप शृणु विचक्षण १

आदित्य देवप्रथमे हस्ते शङ्खं च वामे पद्मकं हस्तके
प्रथमं च भवेन्नाम आदित्यास्तु विधीयते २

रवि देवप्रथम हस्ते शङ्ख च वामे वज्रदण्डकम्
द्वितीयं तु भवेदस्य रविर्नाम विधीयते ३

गौतम देवप्रथमं पद्महस्ते च वामे पद्मं दण्डकम्
तृतीयस्तु भवेद्देवो गौतमस्तु विधीयते ४

भानुप्तान देवप्रथमे पद्महस्ते च वामे शदल हस्तके
चतुर्थस्तु भवेन्नाम भानुप्तानो विधीयते ५

शाचित्त देवप्रथमे पद्महस्ते च वामे शङ्खतु हस्तके
पञ्चमंस्तु भवेत् देवः शाचितनाम धार्यते ६

दिवाकर देवप्रथमे वज्रदण्ड च वामे वज्रदण्डकम्
षष्टमस्तु भवेद्देवो दिवाकरो विधीयते ७

धूमकेतु देवप्रथमे वज्रदण्डा च वामे पद्मं च हस्तके
सप्तमं तु भवेन्नाम धूम्रकेतुर्विधीयते ८

सम्भव देवप्रथमे वज्रदण्डा तु वामे शङ्ख च हस्तके
अष्टमस्तु भवेन्नाम सम्भवस्तु विधीयते ९

भास्कर देवप्रथमे फलं हस्ते च वामे शङ्ख तु हस्तके
नवमस्तु भवेन्नाम भास्करस्तु विधीयते १०
१०
सूर्य देवप्रथमे फलं च हस्ते वामे दण्डं च हस्तके
दशमस्तु भवेन्नाम सूर्यदेवो विधीयते ११
११
सन्तुष्ट देवप्रथमे चक्रं हस्ते च वामे पद्म तु हस्तके
एकादशमो भवेन्नाम सन्तुष्टस्तु विधीयते १२
१२
सुवर्णकेतु देवप्रथमे फलं हस्ते च वामे पद्मं तु हस्तके
द्वादशमो भवेन्नाम सुवर्णकेतुर्विधीयते १३
१३
मार्कण्ड देवउभयोर्हस्तयोः पद्ममे स्थारुढश्च संस्थितः
त्रयोदशमो भवेन्नाम मार्कण्डस्तु विधीयते १४
इति श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां त्रयोदश्यादिव्य स्वरूपाध्याय क्रमाङ्क अध्याय १७