१
श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां द्वादश गौरी
स्वरूपाध्याय क्रमाङ्क अध्याय १६
अथ गौर्याः प्रवक्ष्यामि प्रमाणं मूर्ति लक्षणम्
चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता १
गोधासनो परिस्था च कर्तव्या सर्व कामदा
इति गौरी मूर्ति स्वरूप
उमा च पार्वती गौरी ललिता च श्रिया तथा २
कृष्णा च हिमवती च रम्भा च सावित्री तथा
त्रिखण्डा तोतला चैव त्रिपुरा द्वादशोदिताः
इति गौरि नामानि ३
१
उमा देवीअक्षसूत्रं च कमलं दर्पणं च कमण्डलुः
उमानाम्ना भवेन्मूर्ति पूजिता त्रिदशैरपि ४
२
पार्वती देवीअक्षसूत्रं शिवदेवं गणाध्यक्षं कमण्डलुम्
अग्निकुण्डोपक्षद्वये पार्वती पर्वतोद्भवा ५
३
गौरी देवीअक्षसूत्राभये पद्म तस्योधस्तु कमण्डलुः
गौर्याश्रु मूर्तिरित्युक्ता कर्तव्या शिवशालिनी ६
४
ललिता देवीअक्षसूत्रं तथा वीणा दर्पणेऽध कमण्डलुः
ललिता च तदा नाम सिद्धचारण सेविता ७
५
श्रिया देवीगोधासनाक्षसूत्रो च वरदाभयकमण्डलुः
श्रिया मूर्तिस्तदानाम गृहे पूज्या श्रिये सदा ८
६
कृष्णा देवीअक्षसूत्रं कमण्डलुहृदयेतपुटाजलिः
पञ्चाग्नयश्च कुण्डेषु कृष्णा नाम सुशोभना ९
७
हिमवती देवीहिमवन्ती शैलराजी तस्यावत्या गिरिसुता
पद्मदर्पणाभयतु विवाहेतु महेश्वरी १०
८
रम्भा देवीकमण्डल्वक्षवज्राङ्कुश गजासनं संस्थिता
साम्प्रतितोद्भवद्रू पा रम्भा च सर्वकामदा ११
९
सावित्री देवीअक्षसूत्रं पुस्तकं च धत्ते पद्मकमण्डलु
चतुर्वक्त्रातु सावित्री श्रोत्रियाणां गृहे हिता १२
१०
त्रिखण्डा देवीअक्षसूत्रवज्रशक्ति तस्याधश्च कमण्डलु
त्रिखण्डा पूज्येन्नित्यं सर्वकामफलप्रदाम् १३
११
तोतला देवीशुलाक्षसूत्रं दण्ड च श्वेतयामरकं तथा
श्वेतदेहा भवेत् देवी तोतला पापनाशिनी १४
१२
त्रिपुरा देवीपाशाङ्कुशाभयवरं चतुर्हस्तेष्वनुक्रमात्
त्रिपूरानाम सम्पूज्या वन्दिता त्रिदशैरपि १५
इति द्वादश गौरि स्वरूप
इति श्री विश्वकर्मा कृतायां वास्तुशास्त्रे वास्तुविद्यायां द्वादश गौरि
स्वरूपाध्याय क्रमाङ्क अध्याय १६
२
श्री विश्वकर्माकृते वास्तुशास्त्रे वास्तुविद्यायां द्वादश सरस्वती
स्वरूपाध्याय क्रमाङ्क अध्याय १६
अथातः सम्प्रवक्ष्यामि द्वादश वाणी लक्षणम्
चतुर्भुजाश्चैकवक्त्रा मुकुटेन विराजिताः १
प्रभामण्डल संयुक्ता कुण्डलान्वितन्वरभूषिता
वस्त्रालङ्कार संयुक्ताः सुरूपा नवयौवनान्विता २
सुप्नसन्ना तेजाढ्या नित्यं च भक्तवत्सला
१
श्रिया देवीदक्षिणे चाक्षसूत्रं च तदूर्ध्वे पद्ममुत्तमम् ३
परमामुत्तमा वीणां वामे ध पुस्तकं भवेत्
२
सरस्वती देवीदक्षिणाधक्षसूत्रं तदूर्ध्वे पुस्तकं तथा ४
वीणा वामकरे ज्ञेया तदधःपद्मपुस्तकम्
द्वितीया सरस्वती नाम हंसवाहनसंस्थितं ५
३
कमलारुक्षिणी देवीवरदं दक्षिणे हस्ते पद्मपत्र तदूर्ध्वतः
पद्मं वामकरे ज्ञेयं वामाधः पुस्तकं भवेत् ७
४
जया देवीदक्षिणे वरदं ज्ञेयं तदर्धे पद्ममुत्तमं
पुस्तकं वामहस्ते तु अधोवामे क्षमालिका ८
५
विजया देवीवरदं दक्षिणे हस्ते अक्षसूत्रं तदूर्ध्वतः
पुस्तकं वामहस्ते तु तस्याध पद्ममुत्तमं ९
६
सारङ्गी देवीवरददक्षिणे हस्ते पुस्तकं च तदूर्ध्वतः
अक्षसूत्रं करे वामे वामाधः पद्ममुत्तम १०
७
तुम्बरी देवीअभय च दक्षिणे हस्ते तदूर्ध्वे अक्षमालिका
वीणा वामकरे ज्ञेया तस्याध पुस्तकं भवेत् १०
८
भारती देवीवरदं दक्षिणे हस्ते तदूर्ध्वे कमलं भवेत्
वीणा वाम करे ज्ञेया तस्याधः पुस्तक भवेत् ११
९
सुमङ्गला देवीदक्षिणे वरदसूत्रं च पद्मतस्यो परिस्थितं
वीणा च वामोर्ध्वे स्यात् वामाधः पुस्तकं भवेत् १२
१०
विद्याधरी देवीपद्मं च दक्षिणे हस्ते ऊर्ध्वं चाक्षमालिकाम्
वीणा वाम हस्ते तु पुस्तकं स्यात्तदधःत १२
११
सर्वविधा देवीदक्षिणे चाक्षसूत्रं तु पद्म तस्योर्धः स्थिति
पुस्तकं वाम हस्ते च चाभयं तस्योदधःत १३
१२
शारदा देवीअभयं दक्षिणे हस्ते ऊर्ध्वे पद्मं च दृश्यते
पुस्तकं वामहस्ते तु तस्याधश्चाक्षमालिकाम् १४
द्वादश शारदानाम इति शास्त्रस्य निर्णयः
इति श्री विश्वकर्मा कृतायां वास्तुविद्यायां वास्तुशास्त्रे पद्मासन
संस्थिता हंसारूढा प्रसन्ना च पूजिता सरस्वती द्वादशमूर्ति ।
श्री विश्वकर्माकृतायां वास्तुशास्त्रे वास्तुविद्यायां द्वादश सरस्वती
स्वरूपाध्याय क्रमाङ्क अध्याय १६