१५

अथ चतुर्विंशति गौरी स्वरूपाणि श्री विश्वकर्माकृतायां वास्तुविद्यायां वास्तुशास्त्रे वास्तुविद्या क्रमाङ्क अध्याय १५
विश्वकर्मा उवाच
अथातः सम्प्रवक्ष्यामि गौर्यादिचतुर्विंशतिम्
चतुर्भुजा विनेत्रा च सर्वाभरणभूषिता १
पीताङ्गी पीतवर्णा च पीतवस्त्रविभूषिता
एक वक्त्रा त्रिनेत्रा च स्वरूपे यौवनान्विता २
सुप्रभा सुतेजाद्या च मुकुटेन विराजिता
प्रभामण्डलसंयुक्ता कुण्डलाभरणविभूषिता ३
हारकङ्कणकेयूरा पादयोर्नू पुरास्थिता
सिंहस्कन्धे मसारूढा नानारूपकरोद्यता ४
देवगान्धर्वगणेन पूजिता सुरगणैस्तथा
कृतयुगे तोतला नाम पूज्यते ब्राह्मणैः सदा ५
त्रिपुराख्या तु क्षत्रियैः सौभाग्या च वैश्यस्तथा
विजया शूद्र जातिभिः पूज्याश्वत्वारो ब्राह्मणैः ६
त्रयश्च राज्यजातिभिः द्वयौ वैश्यश्च पूज्यते
अथैका शूद्र जातिभिः –७

तोतला देवीदक्षिणे चाक्षमालां च तस्याधश्च कमण्डलुम्
तथैव पीछिकां वामे वामाधः शङ्खमुत्तमम् ८
रूपेण तोतला नाम मूर्त्तिश्च हंसवाहिनी

त्रिपुरा देवीअभयं च दक्षिणे हस्ते तस्योर्ध्वेऽङ्कुशमङ्गुले ९
पाशं च वामहस्ते तु लिङ्गं च तदधः स्थितम्
प्रेतासना महादेवी त्रिपुरा नाम मूर्तिकः १०

सौभाग्या देवीदक्षिणे चाक्षसूत्रं च तस्योर्ध्वे पद्ममुत्तमम्
वामे तु पुस्तकं चैव वामाधः फलमुत्तमम् ११
गरुडे च समारूढा सौभाग्यवेत्ता मूर्त्तिकः

विजया देवीदक्षिणे चाक्षसूत्रं च तदूर्ध्व दण्डमुत्तमम् १२
वामे तु पुस्तकं चैव वामेधश्चाभयं तथा
प्रसन्नमुखा देवी च विजया नाम मूर्त्तिकः १३

गौरी देवीदक्षिणे चाक्षसूत्रं च भूजोर्ध्वेश्वरमेव च
गणं च वामहस्ते च तस्याधश्च कमण्डलुम् १४
गौरी नामेन विख्याता मूर्तिश्च सिंहवाहिनी

पार्वती देवीदक्षिणे चाभयं चैवं तूर्ध्वे लिङ्गमीश्वरम् १५
वामे गजाननं चैव मातुलिङ्गं चाधःस्थितम्
गोधिका लाञ्छनं चैव पार्वती नाम मूर्त्तिकाः १६

शूलेश्वरी देवीअभयं दक्षिणे हस्ते तदूर्ध्वे रुद्र मेव च
वामे गणपतिश्चैव वामाधः चाक्षमालिका १७
सिंहवाहने समारूढा शुलेश्वरी नाम मूर्तिषु

ललिता देवीदक्षिणं चाक्षमालां तु तदूर्ध्वे लिङ्गमेव च १८
वामे गणपतिं चैव तस्याधः पद्ममुत्तमम्
गोधिकावाहने चैव ललिता नाम मूर्तिषु १९

ईश्वरी देवीअभयं दक्षिणे हस्ते तदूर्ध्वे ईश्वरं तथा
वामे गणपतिं चैव वामाधश्च कमण्डलुम् २०
-–ईश्वरी सिंहवाहिनी
१०
मनेश्वरी देवीपद्मं दक्षिणहस्ते च तदूर्ध्वे ईश्वरं तथा २१
वामे गणपतिं चैव वामाधश्चाभयं तथा
सिंह वाहन समारूढा मनेश्वरी नाम मूर्तिषु २२
११
उमापति देवीअभयं दक्षिणे हस्ते तदूर्ध्वे ईश्वरं तथा
वामे गणपतिं चैव वामाधः पद्ममुत्तमम् २३
उमापतिनामा मूर्तिः देवी च सिंहवाहिनी
१२
वीणा देवीपद्मं च दक्षिणे हस्ते तदूर्ध्व लिङ्गमेव च २४
गणेशं वामहस्ते च लिङ्गं तदधःस्थितम्
सिंहासने समारूढा वीणेति नाम मूर्तिषु २५
१३
हस्तिनी देवीदक्षिणे च मातुलिङ्गं तदूर्ध्वे ईश्वरं तथा
वामे गणपतिं चैव वामाधश्च कमण्डलुम् २६
गोधासने समारूढा हस्तिनी नाम मूर्तिषु
१४
त्रिनेत्रा देवीअक्षसूत्रं दक्षिणे च तदूर्ध्वे ईश्वरं तथा २७
वामे गणपतिं चैव मातुलिङ्गमधः स्थितम्
सिंहासने समारूढा त्रिनेत्रा नाम मूर्तिषु २८
१५
रमणा देवीअक्षसूत्रं दक्षिणे च तदूर्ध्वे ईश्वरं तथा
वामे गणपतिं चैव तस्याधः पुस्तकं तथा २९
हंसवाहनमारूढा रमणा नाम मूर्तिषु
१६
कुलकला देवीपद्मं च दक्षिणे हस्ते तस्योर्ध्वे पद्ममुत्तमम् ३०
पुस्तकं वामहस्तेन तथाधश्च कमण्डलुम्
कमलालाच्छनं चैव देवीनाम कुलकला ३१
१७
जङ्घा देवीअक्षमालां दक्षिणे च तस्योर्ध्वे पद्ममुत्तमम्
दर्पणं वामहस्ते च वामाधाः फलमुत्तमम् ३२
हस्तिनो वाहना देवी जङ्घानामतो मूर्तिषु
१८
त्र्! यैलोक्यविजया देवीवरदं दक्षिणे हस्ते तस्योर्ध्वेऽकुशमुत्तमम् ३३
पाशं च वामहस्ते तु वामाधश्चाभयं तथा
ब्रह्मा विष्णुस्तथा रुद्र ईश्वरश्च सदाशिवः ३४
एते पञ्च महाप्रोक्ताः पादमूले व्यवस्थिताः
त्र्! यैलोक्यविजया नाम –३५
१९
कामेश्वरी देवीदक्षिणे चाक्षसूत्रं च तदूर्ध्वे पद्ममुत्तमम्
पुस्तकं वामस्ते तु वामाधश्चाभयं तथा ३६
कमलासनमारूढा देवी कामेश्वरी तथा
२०
रक्तनेत्राअभयं दक्षिणे हस्ते तदूर्ध्वे खड्गमेव च ३७
वामे तु तक्षकं चैव तस्याधः फलं भवेत्
प्रेतासना समारूढा रक्तनेत्रा च नामत ३८
२१
चण्डी २२
जम्भिनी २३
ज्वालाप्रभो २४
भैरवीचण्डीनीतानी दध्यनी जम्भिनी ज्वलतप्रभा
सहितं भैरवरूपा कोटराक्षी च भीषणी ३९
प्रेतारूढा विशाला च द्वादश पञ्चलोचना
पञ्चमहादीप्तमुद्रा –पञ्चकभूषणा ४०
सिंहचर्मपरिधाना गजचर्मोत्तरीयकम्
नीलोत्पलसमाभासा सूर्यकोटिसमप्रभम् ४१
कपालाभरणं खण्डं खण्डं षड्वर्गधारिणि
कपालखड्गधरा ज्ञेया त्र्! यैलोकोद्योतघण्टिका ४२
सरसारङ्गधरा दिव्या पाशाङ्कुशधरा च तु
सर्पकुण्डलसंयुक्ता सर्पाभरणभूषिता ४३
सर्पकङ्कणकेयूरा नागाभरणभूषिता
इत्येवं भैरवीदेवी सपादपरिकीर्तिता ४४
इति श्री विश्वकर्मा कृतायां वास्तुशास्त्रे चतुर्विंशति गौरी स्वरूपाक क्रमाङ्क अध्याय १५