अथ विश्वकर्माकृते वास्तुविद्यायां वास्तुशास्त्रे महादेवादि महासङ्घाट
क्रमाङ्क अध्याय १२
अथातः सम्प्रवक्ष्यामि मूर्तिसङ्घाट लक्षणं
चतुर्विंश कार्या प्रत्येकं शृणु निर्गतं १
केशवं च महादेवं सङ्घाटं स महादेव
जयकाञ्चन भूषितं दिग्मार्णादिभूषणै २
शङ्कर नारायणं युक्तं शङ्करनारायण भवेत्
तस्य ऊर्ध्वं किरीटं च हरितादिभूषणां प्रिय ३
महेश्वर महाज्ञेयं सङ्घाटं प्रसित माधवम्
चतुर्भुज विराटं पासं च भूषितं ४
हरगोविन्द सङ्घाटं –गोविन्दहरमेव च
श्रीवत्सको समायुक्तं जय सार्ध्व विभूषितम् ५
कीर्तिवास विष्णुभ्यां सङ्घाट विष्णुकीर्तित
सर्वलक्षण संयुक्तं रुचकादिविभूषितम् ६
शशि मधुसूदन स्यात् सङ्घाटं तत्र नामत
मधुसूदन कपालि च भूषया चास्ति काञ्चनम् ७
त्रिविक्रम चक्रदेवेश सङ्घाटं नामोच्यते
देवेश त्रिविक्रमं नामं काञ्चन मुकुटाहितम् ८
वामनं श्रीकण्ठ युक्तं श्रीकण्ठ वामने भवेत्
सर्वाभूषणा साचोर्ध्व शेखरीरत्नभूषित ९
ईश्वरं श्रीधर प्रोक्त श्रीधरीश्वरमेव च
चित्रकूटं च वामकूटं श्रीवत्सकौस्तुभं भवेत् १०
पार्वतीप्रियहृषिकेश कुर्यतं परिकीर्तिनम्
परमऋषिकेशनाम सर्वाभरणाभूषितम् ११
रुद्रे व पद्मनाभं च सङ्घाटे पद्मरुद्र कम्
सर्वसंवाकदेव स्याद् भूषणा सर्वशान्तिदं १२
दामोदर शिवयुक्तं शिवदामोदरं भवेत्
सर्वलक्षणा संयुक्तं सर्वाभरणभूषिता
इतिमहादेवदिकेशवादि १३
आयुधमेद निर्णय
अथातः सम्प्रवक्ष्यामि आयुधमेदनिर्णय
प्रत्येक कथिनं वत्स आदिमध्ये च सानुगा १४
दक्षिणे वादने वा संव्यावर्तं च निर्णयं
वज्रखट्वाङ्गचक्रे कौमोदकीमितस्तथा १५
विश्वकेशवनामस्य सर्वपापप्रणाशनं
अक्षमाला त्रिशूलं च गदायां चक्रमेव च १६
शङ्कर नारायणं नाम तस्योर्ध्वे पुनरुच्यते
अक्षमाला च खड्ग शङ्ख या पद्ममेव च १७
प्रशस्त माधवं नाम तस्योर्ध्व पुनरुवेत्रि
मातुलिका श्रूले स्यात्पद्म शङ्खस्तथैव च १८
गोविन्द हरनामस्थ कर्मचास्ताश निबोधते
कपालं डमरुज्ञेयं शङ्ख चक्रणमेव च १९
चक्रपाणिस्तदानाम तस्योर्ध्वे पुनरुच्यते
अक्षमाला च पाशाया पद्म कौमोदकीस्तथा २०
मधुसूदन कपालं च गदतो विहतो मया
अक्षमाला त्रिशूलं च सुदर्शनशङ्खमेव च २१
देवेशत्रिविक्रम नाम तस्योर्ध्वे पुनरुच्यते
वरद याक्ष मालास्यां गदा वज्र प्रकीर्तिता २२
श्रीकण्ठ वामनो नाम तस्योर्ध्वे पुनरुच्यते
कपालं खद्वाङ्गमित्युक्तं गदा या शङ्खमेव च २३
श्रीधरभ्य नाम कर्म चारत निबोधते
वरदडमरुके च पद्मायां शङ्खमेव च २४
परमऋषिकेशं नाम कर्मचास्त निबोधते
अक्षमालां च विज्ञेया डमरु चक्रदाभवेत् २५
अर्चासङ्घाटभिन्युक्त पद्मरुद्वेश्चमेव च
वरदडमरु चैव गदायां चक्रमेव च २६
शिवदामोदरं नाम कर्मचास्त निबोधते
--२७
अङ्गप्रत्यङ्गभग्नायां मूर्तिस्थाप्याविसर्जयेत्
नखाऽभरणामालाखेर्मग्नाज्ञानविचारयेत् २८
इति श्री विश्वकर्माकृते वासुविद्यायां महादेवादि महासङ्घाट
आयुध भैदनिर्णयाध्याय क्रमाङ्क अध्याय १२