११

अथ श्री विश्वकर्माकृतायां जयपृच्छायां वास्तुशास्त्रे वास्तुविद्यायां देवता दृष्टिपदस्थापनलक्षणाधिकारे क्रमाङ्क अध्याय ११
विश्वकर्मा उवाच
गर्भार्धे अष्टा भक्ते मध्ये लिद्ध स्थापयेत्
सप्तमे ब्रह्मणे चैव केशवं सूर्यमेव च १
षष्टमे तु उमादेवी रुद्र श्चैव विनायकम्
पञ्चमे मातराः रुद्र लोकपाला मरुद्गणान् २
चतुर्थे नारा सुशधि योगिनं तृतीयमक्षयपदम्
द्वितीया राक्षस पदं प्रथमे पैशाचिक पदम् ३
गर्भार्द्धे पञ्च भागेन प्रथम शिव स्थाप्य
द्वितीये ब्रह्म संस्थाने कुमारी ऽर्हत म्रवेति ४
तृतीये विष्णुरादित्य कुमारो ब्रह्म मातृकाम्
चतुर्थे मातरः स्थानं चतुर्थे भाग यौगिनी ५
पञ्चमे यक्ष भूताद्या एते पद स्थापन
इति देवता पद स्थापन
अथ प्रासाद देवता दृष्टिपद
द्वात्रिंशद्वारमुत्सेधं मूर्ध्वके त्रीणि वर्जयेत्
अधोऽष्टमे शिवः प्रोक्तौ दर्शेकादश हीनकम् ६
द्वादशे च समुत्सेध भवेत्स्थाप्य जलशायिनम्
चतुर्दशे मातृदेवीं षोडशे यक्षमेव च ७
अष्टादशे तु कर्तव्या बुभौ रुद्रो च श्रीहरिः
ब्रह्म युग्मं च कर्तव्यं अत ऊर्ध्वं तथा शृणु ८
एकाधिके बुधश्चैव लेपचित्राणि कारयेत्
विंशति मे दुर्गा देवीं अगस्ति नारदस्तथा ९
एक विशतमे चैव लक्ष्या च जिनमेव च
चतुर्विंशे समुत्सेधं सरस्वती गणाधिकम् १०
षडधिक विंशोत्सेध मानव चन्द्र मेव च
ब्रह्मा विष्णुस्तथा रुद्र सूर्यस्तु सप्तविंशती ११
भैरव चण्डिका चैव एकोन त्रिंशदंशके
तदूर्ध्वे भैरव कार्यं नान्येषां तु कदाचन १२
द्वारोछ्रयाष्टधा भक्ते ऊर्ध्व भाग परित्यजेत्
सप्तमाष्टमे सप्तमे भागे दृष्टिस्तु शोभना १३
इति श्री विश्वकर्माकृते जयपृच्छायां वास्तुशास्त्रे वास्तुविद्यायां देवता दृष्टिपद स्थापन अध्याय ११